सुश्रुत संहिता चौखम्बा — पृष्ठ 821–830
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 821–830
पृष्ठ 821
पाठ पढ़ें पाठ छिपाएँ
अ ० २० ] चिकित्सास्थानम् । Digitized by Arya Samaj Foundation Chennai and eGangotri
प्रविष्टे च मणौ चर्म स्वेदयेदुपनाहनैः ।
त्रिरात्रं पञ्चरात्रं वा वातघ्नैः शाल्वणादिभिः ॥ ४१ ॥
दुद्याद्वातहरान् बम्तीन् स्निग्धान्यन्नानि भोजयेत् ।
पाटिकां जयेदेवं यथादोषं चिकित्सकः ॥ ४२ ॥
निरुद्धप्रकशे नाडी लौहीमुभयतोमुखीम् ।
दारवीं वा जतुकृतां घृताभ्यक्तां प्रवेशयेत् ॥ ४३ ॥
परिषेके वसामज्जशिशुमारवराहयोः ।
चक्रतैलं तथा योज्यं वातघ्न्नद्रव्यसंयुतम् ॥ ४४ ॥
त्र्यहात् त्र्यहात् स्थूलतरां सम्यङ् नाडीं प्रवेशयेत् ।
स्रोतो विवर्द्धयेदेवं स्निग्धमन्नं च भोजयेत् ॥। ४५ ॥
भित्त्वा वा सेवनीं मुक्त्वा सद्यःक्षतवदाचरेत् ।
सन्निरुद्धगुदं रोगं वल्मीकं वह्निरोहिणीम् ॥ ४६ ॥
प्रत्याख्याय यथायोगं चिकित्सितमथाचरेत् ।
विसर्पोक्तेन विधिना साधयेदग्निरोहिणीम् ॥। ४७ ॥
सन्निरुद्धगुदे योज्या निरुद्धप्रकशक्रिया ।
शस्त्रेणोत्कृत्यं वल्मीकं क्षाराग्निभ्यां प्रसाधयेत् ॥। ४८ ॥
विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत् ।
वल्मीकं तु भवेद्यम्य नातिवृद्धममर्मजम् ॥। ४ ९ ॥
तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक् ।
कुलत्थिकाया मूलैश्च गुडूच्या लवणेन च ॥ ५० ॥
आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च । ६६३ १ श्रवपाटिकायाश्चिकित्सा प्रतिपादयात - वपाटिकामिति । ' वष्टि भागुरिरल्लो-पमवाप्योरुपसर्गयोः ' इत्यकारलोपः । २ निरुद्धप्रकशचिकित्सितं ब्रवीति - निरुद्धेति । ३ दारवीं = काष्ठमयीम्, जतुकृतां = लाक्षाकृत म् । ४ सन्निरुद्धगुद - वल्मीका -ग्निरोहिणीचिकित्सितमाख्याति - सन्निरुद्धेति । ५ प्रत्याख्याय = असाध्योऽयं व्या-घिरिति निराकृत्य, “ यावदुच्छ्वसिति प्राणी तावत् कार्या प्रतिक्रिया । कदापि दैवयोगेन दृष्टारिष्टोऽपि जीवति ॥ इत्यादिकञ्चोपदिश्येत्यर्थः । ६ उत्कृत्य = श्रवलिख्य । ७ वल्मीकस्य विशेषचिकित्सां निर्दिशति - वल्मीकमिति । । ८ श्ररेवतस्य = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 822
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसाहताया-Digitized by Arya Samaj Foundation Chennai and eGangotri श्यामामूलैः सपललैः शक्तुमिश्रः प्रलेपयेत् ॥ ५१ ॥
सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपनाहयेत् ।
पक्कं वा तद्विजानीयात् गतीः सर्वा यथाक्रमम् ॥ ५२ ॥
अभिज्ञाय ततश्छित्त्वा प्रदहेन्मतिमान् भिषक् ।
संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् ॥ ५३ ॥
व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक् ।
सुर्म॑ना ग्रन्थयश्चैव भल्लातकमनःशिले ॥ ५४ ॥
कालानुसारी सूक्ष्मैला चन्दनागुरुणी तथा ।
एतैः सिद्धं निम्बतैलं वल्मीके रोपणं हितम् ॥ ५५ ॥
पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम् ।
वल्मीकं यत् सशोफं स्याद्वैर्ज्यं तत्तु विजानता ॥ ५६ ॥
धात्र्याः स्तन्यं शोधयित्वा वाले साध्याऽहिपूतना ।
पटोलपत्र त्रिफलारसाञ्जनविपाचितम् ॥ ५७ ॥
पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम् ।
त्रिफलाकोलखदिरकषायं व्रणरोपणम् ॥ ५८ ॥
कासीसरोचनातुत्थहरितालरसाञ्जनैः ।
लेपोऽम्लपिष्टो बदरीत्वग्वा सैन्धवसंयुता ॥ ५ ९ ॥
र्कपालतुत्थजं चूर्णं चूर्णकाले प्रयोजयेत् ।
चिर्कित्सेन्मुष्ककच्छ्रं चाप्यहिपूतनपामवत् ॥ ६० ॥
गुदभ्रंशे " गुदं स्विन्नं स्नेहाभ्यक्तं प्रवेशयेत् । आरग्वधस्य । १ श्यामामूलै = त्रिवृन्मूलैः, सपललै: - पललं तिलपिष्टिस्तत्सहिते-रित्यर्थः = पाचयेत् | ३ प्रतिसारयेत् = । २ सुखोष्णैः = ईषदुष्णैः । उपनाहयेत् घर्षयेत् । ४ सुमना = ' चमेली ' इति प्रथिता, ग्रन्थिः = पिपरामूल ' इति ख्याता । ५ कालानुसारी = कृष्णसारिवा । ६ प्रसाध्यत्वेन वर्ज्यमित्यर्थः । ७ श्रहिपूतनायाश्चिकित्सामाख्याति - धात्र्या इति । स्तन्यं = दुग्धन् । ८ कपा • लं = पक्कघटादिखण्डः । ९ वृषणकच्छुचिकित्सितमतिदशति - चिकित्सेदिति । पाम-वदित्यत्र नान्तः पामन् शब्दोऽवगन्तव्यः । ' पाम पामा विचचिका ' इत्यमरः. १० गुद-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 823
पाठ पढ़ें पाठ छिपाएँ
अ ० २१ ] चिकित्सास्थानम् । Digitized by Arya Samaj Foundation Chennai and eGangotri कारयेद्गोर्फणाबन्धं मध्यच्छिद्रेण चर्मणा ॥। ६१ ॥
विनिर्गमार्थं वोयोश्च स्वेदयेच्च मुहुर्मुहुः ।
क्षीरे मत्पञ्चमूलं मूषिकां चान्त्रवर्जिताम् ॥ ६२ ॥
पक्त्वा तस्मिन् पचेत्तैलं वातघ्नौषधसंयुतम् ।
गुदभ्रंशमिदं कृच्छ्रं पानाभ्यङ्गात् प्रसाधयेत् ॥ ६३ ॥
६६५ इति सुश्रुतसंहितायां चिकित्सास्थाने क्षुद्ररोगचिकित्सितं नाम विंशोऽध्यायः ॥२० ॥
एकविंशतितमोऽध्यायः ।
अथातः शूकरोगचिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
संलिख्यै सर्षपीं सम्यक् कषायैरवचूर्णयेत् ।
कषायेष्वेव तैलं च कुर्वीत व्रणरोपणम् ॥ ३ ।
भ्रंशचिकित्सितमभिधत्ते -- गुदभ्रंश इति । २ वायोः = अधोवायोरित्यर्थः । १ गोफणाबन्धं = कौपीनबन्धम् । ३ बिल्वाग्निमन्थटिण्डुकपाटलाः काश्मर्यश्चेति मद्दत्पञ्चमूलमित्यथः । मूषिकां निर्गतान्त्रां कृत्वा महत्पञ्चमूलस्य प्रस्थं क्षीरप्रस्थे त्रिगुणितजले विपचेत् । क्षीर-प्रस्थेऽवशिष्टे तैलकुडवं दत्वा भद्रदार्वादिकल्कपाकं कृत्वा यथाबलं पानाभ्यङ्गाभ्यां __ गुदभ्रंशं साधयेदिति ढल्हणः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्यटिप्पन्यां विंशतितमोऽध्यायः । एकविंशतितमोऽध्यायः । ४ क्रमोपस्थितं शूकरोगचिकित्सितं विवृणोति --- अथात इति । निदानस्थानै शुकदोषनिदानमित्युक्तम्, अत्र तु शूकरोगचिकित्सितमित्युच्यते । तत्र " दोषा ह्यपि रोगशब्दं लभन्ते " इति चरकस्मरणान्न दोषरोगशब्दयोर्भेदशङ्का कलङ्कलेशो-ऽपीत्यवगन्तव्यम् । ५ सषंपिकाचिकित्सां ब्रवीति - संलिख्येति । कषायैः = मिश्रकोक्तकषायद्रव्य-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 824
पाठ पढ़ें पाठ छिपाएँ
-सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri
अष्ठीलिकां जलौकोभिर्ग्राहयेत् कुशलो भिषक् ।
तथा चानुपशाम्यन्तीं कफप्रन्थिवदुद्धरेत् ॥ ४ ॥
स्वेदयेद् प्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान् ।
. सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत् ॥ ५ ॥
कुम्भीको पाकमापन्नां भिन्द्याच्छुद्धां तु रोपयेत् ।
तैलेन त्रिफलालोघ्रतिन्दुकाम्रातकेन तु ॥ ६ ॥
ग्राहयित्वा जलौकोभिरलजीं सेचयेत्ततः ।
कषायैस्तेषु सिद्धं च तैलं रोपणमिष्यते ॥ ७ ॥
बलातैलेन कोष्णेन मृदितं परिषेचयेत् ।
मधुरैः सर्पिषा स्निग्धैः सुखोष्णैरुपनाहयेत् ॥ ८ ॥
' सम्मूढपिडकां क्षिप्रं जलौकोभिरुपाचरेत् । अ ० २१ भित्त्वा पर्यागतां चापि लेपयेत् क्षौद्रसर्पिषा ॥ ९ ॥
अवमन्थे " गते पाकं भिन्ने तैलं विधीयते । ' धवाश्वकर्णपत्तङ्गस ल्लकी तिन्दुकीकृतम् ॥ १० ॥
क्रियां " पुष्करिकायां तु शीतां सर्वां प्रयोजयेत् ।
जलौकोभिर्हरेच्चासृक् सर्पिषा चावसेचयेत् ॥। ११ ॥
स्पर्शहान्यां हरेद्रक्तं प्रदिह्यान्मधुरैरपि ।
क्षीरेक्षुरससर्पिर्भिः सेचयेच्च सुशीतलैः ॥ १२ ॥
चूर्णैरित्यर्थः । १ अष्ठीलिका चिकित्सामाख्याति -- अष्ठीलिकामिति । २ ग्रथित. चिकित्सित माइ -- स्वेदयेदिति । शश्वत् = प्रत्यहम् । १३ सुस्निग्धैरुपनाद्दैरिति सम्बन्धः । ४ कुम्भीका चिकित्सां वक्ति -- कुम्भीकामिति । ५ अलजीचिकि. त्सितमभिधत्ते -- ग्राहयित्वेति । ६ कषायैः = ' लक्षादिकषाय वृक्षकषायैरित्यर्थः । ७ मृदितचिकित्सां ब्रवीति -- बलेति । मूढगर्भोक्तेन बलार्तलेनेत्यर्थः । काको-ल्यादिमधुरद्रव्यैरित्यर्थः । ९ सम्मूढपिडकाचिकित्सामभिदधाति - सम्मूढेति । १० पर्यागतां = पक्कामि-त्यर्थः । ११ श्रवमन्थचिकित्सामभिधत्ते -- अवमन्थ इति । १२ सल्लकी = कुन्दु • रुकी, ' सलई ' इति ख्याता । ' महेरणा कुन्दुरु की सल्लकी ह्लादनीति च ' इत्यमरः । १३ पुष्करिकाचिकित्सां निर्दिशति - क्रियामिति । १४ स्पर्शहानिचिकित्सितं दर्श-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 825
पाठ पढ़ें पाठ छिपाएँ
" अ ० २१ ] Digitized by Arya त्रिमिता अवलम् and eGangotri
पिडकामुत्तमाख्यां च बांडशेनोद्धरेद्भिषक् ।
उद्धृत्य मधुसंयुक्तैः केषायैरवचूर्णयेत् ॥ १३ ॥
रसक्रिया विधातव्या लिखिते शतपोनके ।
पृथकपर्ण्यादिसिद्धं च देयं तैलमनन्तरम् ॥ १४ ॥
क्रियौं कुर्य्याद्भिषक् प्राज्ञस्त्वक्पाकस्य विसर्पवत् ।
रक्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे ॥ १५ ॥
कषायकल्कसपपि तैलं चूर्णं रसक्रियाम् ।
शोधनं रोपणं चैव वीक्ष्य वीक्ष्यावचारयेत् ॥ १६ ॥
यथास्वं सर्पिषः पानं पथ्यं चापि विरेचनम् ।
हितः शोणितमोक्षश्च यच्चापि लघु भोजनम् ॥ १७ ॥
-अर्बुदं मांसपाकं च विद्रधिं तिलकालकम् । ६६७ प्रत्याख्याय प्रकुर्वीत भिषक् सम्यक् प्रतिक्रियाम् ॥ १८ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने शूकरोगचिकित्सितं नाम एकविंशोऽध्यायः ॥ २१ ॥
यति - स्पर्श ति 1 १ उत्तमायाश्चिकित्सामाचष्टे - पिडकामिति । बडिशेन = बडिशयन्त्रेणेत्यर्थः । २ कषायैः = चूर्णैरित्यर्थः । ३ शतपोनक चिकित्सितमाइ-रस क्रियेति । फाणित कृती रसक्रिया । ४ पृथक्पर्ण्यादिभिर्मिश्रकोक्तरोपणघृतप--' ठितैः काकोल्यादिवर्जितैः सिद्धम् । ५ त्वक्पाकचिकित्सामाह - क्रियामिति । ६ शोणितार्बुदचिकित्सां वक्ति— रक्तेति कर्तव्यकर्मोपदिशति — कषायेति । असाध्यानाम् । ७ शूकरोगेषु अर्बुद - मांसपाक - विद्रधि - तिलकालकानां प्रतिक्रियां निर्दिशति - अर्बुदामति । २ मांसपाके तिलकालके च दुष्टव्रणवत्, शेषयोस्तु विद्रध्यर्बुदवच्चिकित्सा कर्त-व्येति निष्कर्षः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यामेक-विंशतितमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 826
पाठ पढ़ें पाठ छिपाएँ
६६ | सुश्रुत संहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri द्वाविंशतितमोऽध्यायः । [ अ ० २२ अथातो मुखरोगचिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च ।
वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदं च बुद्धिमान् ॥ ३ ॥
विदध्यादोष्ठकोपे तु शाल्वणं चोपनाहने ।
मस्तिष्के चैव नस्ये च तैलं वातहरं हितम् ॥ ४ ॥
श्रीवेष्टकं सजरसं सुरदारु सगुग्गुल ।
यष्टीमधुकचूर्णं तु विदध्यात प्रतिसारणम् ॥ ५ ॥
पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत् ।
पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः ॥ ६ ॥
६ शिरोविरेचनं धूमः स्वेदः कवल एव च ।
हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ॥ ७ ॥
त्र्यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा ।
क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम् ॥ ८ ॥।
मेदोजे ' स्वेदिते भिन्ने शोधिते ज्वलनो हितः ।
प्रियङ्गुत्रिफला लोधं सक्षौद्रं प्रतिसारणम् ॥ ९ ॥
एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्त्तितम् । द्वाविंशतितमोऽध्यायः । १ वातिकौष्ठप्रकोपचिकित्सितमाख्याति चतुविधेनेति । चतुर्विधेन = चतुःप्रका-रेण । स्नैहस्य चातु िध्यमुक्तम्- " स्नेहश्चतुविधः प्रोक्तो घृतं तैलं वसा तथा । मज्जा च " इति । मधूच्छिष्टयुतेन = सिक्थकमिश्रेणेत्यर्थः । मधूच्छिष्टं ' मोम ' इति ख्यातम् । २ मस्तिष्के = मस्तिष्कहिते शिरस्तर्पणे इत्यर्थः । ३ प्रतिसारणं = घर्षणम् । ४ पैत्तिकौष्ठप्रकोप चिकित्सां प्रतिपादयति- पितेति । ५ संशोधन संशमनरूपां वाह्यामाभ्यन्तरीं च क्रियामित्यर्थः । ६ श्लैष्मिकौष्ठप्रकोप चिकित्सा वक्ति- शिर इति । ७ न्यूषणं = त्रिकटुकम् स्वर्जिकाक्षारः = ' सज्जीखार ' इति यवक्षारः = ' जवाखार ' इति । ८ मेदोजन्यौ 8 प्रकोप चिकित्सामभिदधाति - मेदोज इति । स्वेदिते = अस्नेहपूर्वं स्वेदनं कृते, भिन्ने = शस्त्रेण विदारिते इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 827
पाठ पढ़ें पाठ छिपाएँ
अ ० २२ ] Digitized by Arya चकित्सास्थानम् qnai and eGangotri दन्तमूलगतानां तु रोगाणां कर्म वक्ष्यते ॥ १० ॥
शीतदे हृतरक्ते तु तोये नागरैसर्षपान् ।
निःक्काथ्य त्रिफलामुस्तं गण्डूषः सरसाञ्जनः ॥ ११ ॥
प्रियङ्गवश्च मुक्तं च त्रिफला च प्रलेपनम् ।
नैश्यं च त्रिफलासिद्धं मधुकोत्पलपद्मकैः ॥ १२ ॥
दन्तपुष्पुटके कार्यं तरुणे रक्तमोक्षणम् ।
सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम् ॥ १३ ॥
हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम् ।
विस्राविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत् ॥ १४ ॥
रोधपत्र्त्तङ्गयष्ट्या हलाक्षाचूर्णैर्मधूत्तरैः ।
गण्डूषे ' क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः ॥ १५ ॥
काकोल्यादौ दशतीरसिद्धं सर्पिश्च नस्यतः ।
शौषिरे हृतरक्ते तु रोघ्रमुस्तरसाञ्जनैः ॥ १६ ॥
सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः ।
सारिवोत्पलयष्ट्याह्वसार्वरागुरुचन्दनैः ॥ १७ ॥
क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम् ।
क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः ॥ १८ ॥
" संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा ।
काकोदुम्बरिकागोजीपत्रैविस्रावयेदसृक् ॥ १ ९ ॥
क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसारयेत् । ६६ ९ १ दन्तमूलगतरोगेषु प्राक् शीतादचिकित्सां निर्दिशति - शीताद इति । २ नागरं = शुण्ठी | ३ दन्तपुष्पुटकचिकित्सामाद - नस्यञ्चेति । मधुकोत्पलप-कत्रिफलासिद्धं सर्पिर्नस्ये देयमित्यर्थः । ४ दन्नवेष्टकचिकित्मामाचष्टे - विस्रा-वित इति । ५ पत्तङ्कं = रक्तचन्दनम्, मधूत्तरैः = मधुप्रधानैः | ६ क्षीरिणः = न्यग्रोधोदुम्बरादिक्षीरिवृक्षक्काथा इत्यर्थः । ७ शौषिरचिकित्स ' निदिशति - शौषिर इति । ८ सावर: - रोघ्रः । ९ परि ॰ दरचिकित्सामाचष्टे - क्रियामिकिं । १० उपकुशचिकित्सितमभिपत्ते - संशो-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 828
पाठ पढ़ें पाठ छिपाएँ
६७० Digitized by Arya Sam सुश्रुत संहितायां rarand eGangotri [ अ ० २२ पिप्पलीः सपपांश्चैव नागरं नैचुलं फलम् ॥ २० ॥
सुखोदकेन संसृष्टं कवलं चापि धारयेत् ।
घृतं मॅधुरकैः सिद्धं हितं कवलनस्ययोः ॥ २१ ॥
शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत् ।
ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ॥ २२ ॥
उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत् ।
कृमिदन्तकवच्चापि विधिः कार्यों विजानता ॥ २३ ॥
द्वित्वाऽधमांसं सक्षौद्रैरेभिश्चूर्णे रुपाचरेत् ।
" वचातेजोवँतीपाठासर्जिकायावशूकजैः ॥ २४ ॥
चौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्त्तितः । पटोल त्रिफलानिम्बकषायश्चात्र धावने । हितः शिरोविरेकश्च धूमो वैरेचनश्च यः ॥ २५ ॥ -सामान्यं कर्म नाडीनां विशेषं चात्र मेशृणु ।
नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् ॥ २६ ॥
यं दन्तमभिजायेत नाडी तं दन्तमुद्धरेत् ।
छित्त्वा मांसानि शस्त्रेण यदि नोर्पंरिजो भवेत् ॥ २७ ॥
शोधयित्वा दहेद्वाऽपि क्षारेण ज्वलनेन वा ।
भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम् ॥ २८ ॥।
समूलं दशनं तस्मादुद्धरेद्भग्नमस्थि च ।
उद्घृते तूत्तरे दन्ते समूले स्थिरबन्धने " ॥ २ ९ ॥
रक्तातियोगात् " पूर्वोक्ता रोगा घोरा भवन्ति हि । ध्येति । उभयतः = वमनविरेचनाभ्यामूध्वंमघश्चेत्यर्थः । १ निचुलस्य जलवेतस्येदं नैचुलम् | २ मधुरकैः = काकोल्यादिमधुरद्रव्यैरित्यर्थः । ३ दन्तवैदर्भचिकित्सां ब्रवी · ति — शस्त्रेणेति । ४ वर्धनस्य ( अधिदन्तस्य ) चिकित्सां वक्ति - उदूष्टत्येति । ५ अधिमा॑सचिकित्सितं प्रतिपादयति - छित्त्वेति । ६ तेजोवती = चव्यम् । ७ दन्तनाडीचिकित्सामभिधत्ते - नाडीति । यं दन्तमभि समीपे नाढी जायेत तं दन्तमुद्धरेदित्यर्थः । ९ नोपरिज: = नोर्ध्वदन्तपङ्क्तिगत इत्यर्थः । १० स्थिरबन्धने = दृढतरदन्त बेष्टने । ११ पूर्वोक्ताः शोणितवर्णनीयाध्याये कथिताः । CC - ò. Gurukul Kangri Collection, Haridwar
पृष्ठ 829
पाठ पढ़ें पाठ छिपाएँ
अ ० २२ ] Digitized by Ary वक्तितस्तान hennai and eGangotri ६७३ अष्टाङ्ग लिसन्दंशेनाकृष्य गलशुण्डिकाम् ॥ ४ ९ ॥
छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् ।
नोत्कृष्टं चैव होनं च विभागं छेदयेद्भिषक् ॥ ५० ॥
अत्यादानात् स्रवेद्रक्तं तन्निमित्तं म्रियेत च ।
हीनच्छेदाद्भवेच्छोफो लाला निद्रा भ्रमस्तमः ॥ ५१ ॥
तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः ।
गलशुण्डीं तु सञ्च्छिद्य कुर्य्यात् प्राप्तमिमं क्रमम् ॥ ५२ ॥
मरिचातिविषापाठावचाकुष्ठकुटन्नटः ।
क्षौद्रयुक्तैः सलवणैस्ततस्ताः प्रतिसारयेत् ॥ ५३ ॥
वचामतिविषां पाठां रास्नां कटुकरोहिणीम् ।
निःक्काथ्य पिचुमन्दं च कवलं तत्र योजयेत् ॥ ५४ ॥
इङ्गुदी कि हीदन्ती सरलासुरदारुभिः ।
पञ्चाङ्गीं कारयेत् पिष्टैर्वत्ति गन्धोत्तरां शुभाम् ॥। ५५ ॥
ततो धूमं पिवेज्जन्तुर्द्विरंह्नः कफनाशनम् ।
चार सिद्धेषु मुद्गेषु यूपश्चाप्यशने हितः ॥ ५६ ॥
gosh सङ्घाते तालुपुप्पुटे ।
एष एव विधिः कार्य्यो विशेषः शस्त्रकर्मणि ॥ ५७ ॥
तालुपाके तु कर्त्तव्यं विधानं पित्तनाशनम् ।
स्नेहस्वेदौ तालुशोषे विधिश्वानिलनाशनः १० ॥ ५८ ॥
कीर्त्तितं तालुजानां तु कण्ठ्यानां कर्म वक्ष्यते । १ गलशुण्डिकायाश्चिकित्सां त -- अङ्गुष्ठ निर्दिशति -- 3 ष्ठति । गलशुण्डिका = घण्टिका । २ अत्र कुटन्नटः इयोनाकः । ' इयोनाक शुकनासर्क्षदीर्घवृन्तकुटन्नटाः ' इत्यमरः । ३ कटु-करोहिणी = ' कुटकी ' इति ख्याता । ४ पिचुमन्दः = निम्बः । ५ किणिही = ब्योति-ष्मती ‘ मालकांगनी ' इति ख्याता । ६ पञ्चभिरङ्गभूतद्रव्यैः कृतां पञ्चाङ्गीम् । गन्धो-त्तरां = गन्धप्रधानाम् । ७ द्विरह्नः = सायं प्रातरित्यर्थः । ८ तुण्डकेर्यभ्र्ष - कूर्म - सङ्घात- तालुपुप्पुटानां चिकित्सितमतिदिशति - तुण्डोति । तत्र तुण्डिकेरीतालुपुप्पुटकौ भेद्यौ, अनुषः सङ्घातश्च छेद्यः, मांसोच्छ्रायत्वादवस्थावि-शेषेण कूर्मो लेख्यश्छेद्यो वा । ९ तालुपाकचिकित्सां निर्दिशति - ताविति । १० श्रनिलनाशनः = वातघ्नः । ४३ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 830
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २२ साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् ॥ ५ ९ ॥
छर्दनं धूमपानञ्च गण्डूषो नस्यकर्म च ।
वातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत् ॥ ६० ॥
सुखोष्णीन् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः ।
पत्तङ्गशर्कराक्षौद्रैः पैत्तिकीं प्रतिसारयेत् ॥ ६१ ॥।
द्राक्षापरूषकक्काथौ हितौ च कवलग्रहे ।
आगारधूमकटुकैः श्लैष्मिक प्रतिसारयेत् ॥ ६२ ॥
श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् ।
नस्यकर्मेणि योक्तव्यं तथा कवलधारणे ॥ ६३ ॥
पित्तवत्साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम् ।
विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेवित् ॥ ६४ ॥
एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः ।
उपजिह्विकवच्चापि साधयेदद्धिजिह्विकाम् ॥ ६५ ॥
एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत् ।
गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ॥ ६६ ॥
अमर्मस्थं सुपकं च भेदयेद्गलविद्रधिम् ।
वातात् सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत् ॥ ६७ ॥
तैलं वार्तहरैः सिद्धं हितं कवलनस्ययोः ।
ततोऽस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः ॥ ६८ ॥
शालराजादनैरण्डर्स रेदिमधूकजाः । १ कण्ठरोहिणीचिकित्सां ब्रवीति -- साध्यानामिति । साध्यानां = सन्निपातभि-नानाम् । २ प्रतिसारयेत् = घर्षयेत् । ३ सुखोष्णान् = ईषदुष्णान् । ४ पत्तङ्गं = रक्तचन्दनम् । ५ कण्ठशालूकचिकित्सामाह-- विस्राव्येति । जलौकादिभिर्विस्राव्ये • त्यर्थः । साधयेत् = चिकित्सेत् । ६ अधिजिह्विकायाश्चिकित्सां वक्ति - - उपेति । ७ एकवृन्द- गिलायु - गलविद्रधीनां चिकित्सां प्रतिपादयति - एकेति । शिरोविरेच नधूमप्रलेपचारादिभिः शोधनमाचरेदित्यर्थः । रस्तम् । ८ वातिकमुखपाकचिकित्सामाख्याति - वातादिति । सर्वे सरतीति सर्वसर-९ वातद्दरैः १० सारः सारवृक्षः (: = = भद्रदार्वादिकल्ककषायसिद्धैः । CC - 0. Gurukul Kangri Collection, Haridwar