सुश्रुत संहिता चौखम्बा — पृष्ठ 821–830

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 821–830

पृष्ठ 821

सुश्रुत संहिता चौखम्बा, पृष्ठ 821 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २० ] चिकित्सास्थानम् । Digitized by Arya Samaj Foundation Chennai and eGangotri

प्रविष्टे च मणौ चर्म स्वेदयेदुपनाहनैः ।

त्रिरात्रं पञ्चरात्रं वा वातघ्नैः शाल्वणादिभिः ॥ ४१ ॥

दुद्याद्वातहरान् बम्तीन् स्निग्धान्यन्नानि भोजयेत् ।

पाटिकां जयेदेवं यथादोषं चिकित्सकः ॥ ४२ ॥

निरुद्धप्रकशे नाडी लौहीमुभयतोमुखीम् ।

दारवीं वा जतुकृतां घृताभ्यक्तां प्रवेशयेत् ॥ ४३ ॥

परिषेके वसामज्जशिशुमारवराहयोः ।

चक्रतैलं तथा योज्यं वातघ्न्नद्रव्यसंयुतम् ॥ ४४ ॥

त्र्यहात् त्र्यहात् स्थूलतरां सम्यङ् नाडीं प्रवेशयेत् ।

स्रोतो विवर्द्धयेदेवं स्निग्धमन्नं च भोजयेत् ॥। ४५ ॥

भित्त्वा वा सेवनीं मुक्त्वा सद्यःक्षतवदाचरेत् ।

सन्निरुद्धगुदं रोगं वल्मीकं वह्निरोहिणीम् ॥ ४६ ॥

प्रत्याख्याय यथायोगं चिकित्सितमथाचरेत् ।

विसर्पोक्तेन विधिना साधयेदग्निरोहिणीम् ॥। ४७ ॥

सन्निरुद्धगुदे योज्या निरुद्धप्रकशक्रिया ।

शस्त्रेणोत्कृत्यं वल्मीकं क्षाराग्निभ्यां प्रसाधयेत् ॥। ४८ ॥

विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत् ।

वल्मीकं तु भवेद्यम्य नातिवृद्धममर्मजम् ॥। ४ ९ ॥

तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक् ।

कुलत्थिकाया मूलैश्च गुडूच्या लवणेन च ॥ ५० ॥

आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च । ६६३ १ श्रवपाटिकायाश्चिकित्सा प्रतिपादयात - वपाटिकामिति । ' वष्टि भागुरिरल्लो-पमवाप्योरुपसर्गयोः ' इत्यकारलोपः । २ निरुद्धप्रकशचिकित्सितं ब्रवीति - निरुद्धेति । ३ दारवीं = काष्ठमयीम्, जतुकृतां = लाक्षाकृत म् । ४ सन्निरुद्धगुद - वल्मीका -ग्निरोहिणीचिकित्सितमाख्याति - सन्निरुद्धेति । ५ प्रत्याख्याय = असाध्योऽयं व्या-घिरिति निराकृत्य, “ यावदुच्छ्वसिति प्राणी तावत् कार्या प्रतिक्रिया । कदापि दैवयोगेन दृष्टारिष्टोऽपि जीवति ॥ इत्यादिकञ्चोपदिश्येत्यर्थः । ६ उत्कृत्य = श्रवलिख्य । ७ वल्मीकस्य विशेषचिकित्सां निर्दिशति - वल्मीकमिति । । ८ श्ररेवतस्य = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 822

सुश्रुत संहिता चौखम्बा, पृष्ठ 822 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसाहताया-Digitized by Arya Samaj Foundation Chennai and eGangotri श्यामामूलैः सपललैः शक्तुमिश्रः प्रलेपयेत् ॥ ५१ ॥

सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपनाहयेत् ।

पक्कं वा तद्विजानीयात् गतीः सर्वा यथाक्रमम् ॥ ५२ ॥

अभिज्ञाय ततश्छित्त्वा प्रदहेन्मतिमान् भिषक् ।

संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् ॥ ५३ ॥

व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक् ।

सुर्म॑ना ग्रन्थयश्चैव भल्लातकमनःशिले ॥ ५४ ॥

कालानुसारी सूक्ष्मैला चन्दनागुरुणी तथा ।

एतैः सिद्धं निम्बतैलं वल्मीके रोपणं हितम् ॥ ५५ ॥

पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम् ।

वल्मीकं यत् सशोफं स्याद्वैर्ज्यं तत्तु विजानता ॥ ५६ ॥

धात्र्याः स्तन्यं शोधयित्वा वाले साध्याऽहिपूतना ।

पटोलपत्र त्रिफलारसाञ्जनविपाचितम् ॥ ५७ ॥

पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम् ।

त्रिफलाकोलखदिरकषायं व्रणरोपणम् ॥ ५८ ॥

कासीसरोचनातुत्थहरितालरसाञ्जनैः ।

लेपोऽम्लपिष्टो बदरीत्वग्वा सैन्धवसंयुता ॥ ५ ९ ॥

र्कपालतुत्थजं चूर्णं चूर्णकाले प्रयोजयेत् ।

चिर्कित्सेन्मुष्ककच्छ्रं चाप्यहिपूतनपामवत् ॥ ६० ॥

गुदभ्रंशे " गुदं स्विन्नं स्नेहाभ्यक्तं प्रवेशयेत् । आरग्वधस्य । १ श्यामामूलै = त्रिवृन्मूलैः, सपललै: - पललं तिलपिष्टिस्तत्सहिते-रित्यर्थः = पाचयेत् | ३ प्रतिसारयेत् = । २ सुखोष्णैः = ईषदुष्णैः । उपनाहयेत् घर्षयेत् । ४ सुमना = ' चमेली ' इति प्रथिता, ग्रन्थिः = पिपरामूल ' इति ख्याता । ५ कालानुसारी = कृष्णसारिवा । ६ प्रसाध्यत्वेन वर्ज्यमित्यर्थः । ७ श्रहिपूतनायाश्चिकित्सामाख्याति - धात्र्या इति । स्तन्यं = दुग्धन् । ८ कपा • लं = पक्कघटादिखण्डः । ९ वृषणकच्छुचिकित्सितमतिदशति - चिकित्सेदिति । पाम-वदित्यत्र नान्तः पामन् शब्दोऽवगन्तव्यः । ' पाम पामा विचचिका ' इत्यमरः. १० गुद-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 823

सुश्रुत संहिता चौखम्बा, पृष्ठ 823 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २१ ] चिकित्सास्थानम् । Digitized by Arya Samaj Foundation Chennai and eGangotri कारयेद्गोर्फणाबन्धं मध्यच्छिद्रेण चर्मणा ॥। ६१ ॥

विनिर्गमार्थं वोयोश्च स्वेदयेच्च मुहुर्मुहुः ।

क्षीरे मत्पञ्चमूलं मूषिकां चान्त्रवर्जिताम् ॥ ६२ ॥

पक्त्वा तस्मिन् पचेत्तैलं वातघ्नौषधसंयुतम् ।

गुदभ्रंशमिदं कृच्छ्रं पानाभ्यङ्गात् प्रसाधयेत् ॥ ६३ ॥

६६५ इति सुश्रुतसंहितायां चिकित्सास्थाने क्षुद्ररोगचिकित्सितं नाम विंशोऽध्यायः ॥२० ॥

एकविंशतितमोऽध्यायः ।

अथातः शूकरोगचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

संलिख्यै सर्षपीं सम्यक् कषायैरवचूर्णयेत् ।

कषायेष्वेव तैलं च कुर्वीत व्रणरोपणम् ॥ ३ ।

भ्रंशचिकित्सितमभिधत्ते -- गुदभ्रंश इति । २ वायोः = अधोवायोरित्यर्थः । १ गोफणाबन्धं = कौपीनबन्धम् । ३ बिल्वाग्निमन्थटिण्डुकपाटलाः काश्मर्यश्चेति मद्दत्पञ्चमूलमित्यथः । मूषिकां निर्गतान्त्रां कृत्वा महत्पञ्चमूलस्य प्रस्थं क्षीरप्रस्थे त्रिगुणितजले विपचेत् । क्षीर-प्रस्थेऽवशिष्टे तैलकुडवं दत्वा भद्रदार्वादिकल्कपाकं कृत्वा यथाबलं पानाभ्यङ्गाभ्यां __ गुदभ्रंशं साधयेदिति ढल्हणः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्यटिप्पन्यां विंशतितमोऽध्यायः । एकविंशतितमोऽध्यायः । ४ क्रमोपस्थितं शूकरोगचिकित्सितं विवृणोति --- अथात इति । निदानस्थानै शुकदोषनिदानमित्युक्तम्, अत्र तु शूकरोगचिकित्सितमित्युच्यते । तत्र " दोषा ह्यपि रोगशब्दं लभन्ते " इति चरकस्मरणान्न दोषरोगशब्दयोर्भेदशङ्का कलङ्कलेशो-ऽपीत्यवगन्तव्यम् । ५ सषंपिकाचिकित्सां ब्रवीति - संलिख्येति । कषायैः = मिश्रकोक्तकषायद्रव्य-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 824

सुश्रुत संहिता चौखम्बा, पृष्ठ 824 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

-सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri

अष्ठीलिकां जलौकोभिर्ग्राहयेत् कुशलो भिषक् ।

तथा चानुपशाम्यन्तीं कफप्रन्थिवदुद्धरेत् ॥ ४ ॥

स्वेदयेद् प्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान् ।

. सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत् ॥ ५ ॥

कुम्भीको पाकमापन्नां भिन्द्याच्छुद्धां तु रोपयेत् ।

तैलेन त्रिफलालोघ्रतिन्दुकाम्रातकेन तु ॥ ६ ॥

ग्राहयित्वा जलौकोभिरलजीं सेचयेत्ततः ।

कषायैस्तेषु सिद्धं च तैलं रोपणमिष्यते ॥ ७ ॥

बलातैलेन कोष्णेन मृदितं परिषेचयेत् ।

मधुरैः सर्पिषा स्निग्धैः सुखोष्णैरुपनाहयेत् ॥ ८ ॥

' सम्मूढपिडकां क्षिप्रं जलौकोभिरुपाचरेत् । अ ० २१ भित्त्वा पर्यागतां चापि लेपयेत् क्षौद्रसर्पिषा ॥ ९ ॥

अवमन्थे " गते पाकं भिन्ने तैलं विधीयते । ' धवाश्वकर्णपत्तङ्गस ल्लकी तिन्दुकीकृतम् ॥ १० ॥

क्रियां " पुष्करिकायां तु शीतां सर्वां प्रयोजयेत् ।

जलौकोभिर्हरेच्चासृक् सर्पिषा चावसेचयेत् ॥। ११ ॥

स्पर्शहान्यां हरेद्रक्तं प्रदिह्यान्मधुरैरपि ।

क्षीरेक्षुरससर्पिर्भिः सेचयेच्च सुशीतलैः ॥ १२ ॥

चूर्णैरित्यर्थः । १ अष्ठीलिका चिकित्सामाख्याति -- अष्ठीलिकामिति । २ ग्रथित. चिकित्सित माइ -- स्वेदयेदिति । शश्वत् = प्रत्यहम् । १३ सुस्निग्धैरुपनाद्दैरिति सम्बन्धः । ४ कुम्भीका चिकित्सां वक्ति -- कुम्भीकामिति । ५ अलजीचिकि. त्सितमभिधत्ते -- ग्राहयित्वेति । ६ कषायैः = ' लक्षादिकषाय वृक्षकषायैरित्यर्थः । ७ मृदितचिकित्सां ब्रवीति -- बलेति । मूढगर्भोक्तेन बलार्तलेनेत्यर्थः । काको-ल्यादिमधुरद्रव्यैरित्यर्थः । ९ सम्मूढपिडकाचिकित्सामभिदधाति - सम्मूढेति । १० पर्यागतां = पक्कामि-त्यर्थः । ११ श्रवमन्थचिकित्सामभिधत्ते -- अवमन्थ इति । १२ सल्लकी = कुन्दु • रुकी, ' सलई ' इति ख्याता । ' महेरणा कुन्दुरु की सल्लकी ह्लादनीति च ' इत्यमरः । १३ पुष्करिकाचिकित्सां निर्दिशति - क्रियामिति । १४ स्पर्शहानिचिकित्सितं दर्श-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 825

सुश्रुत संहिता चौखम्बा, पृष्ठ 825 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

" अ ० २१ ] Digitized by Arya त्रिमिता अवलम् and eGangotri

पिडकामुत्तमाख्यां च बांडशेनोद्धरेद्भिषक् ।

उद्धृत्य मधुसंयुक्तैः केषायैरवचूर्णयेत् ॥ १३ ॥

रसक्रिया विधातव्या लिखिते शतपोनके ।

पृथकपर्ण्यादिसिद्धं च देयं तैलमनन्तरम् ॥ १४ ॥

क्रियौं कुर्य्याद्भिषक् प्राज्ञस्त्वक्पाकस्य विसर्पवत् ।

रक्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे ॥ १५ ॥

कषायकल्कसपपि तैलं चूर्णं रसक्रियाम् ।

शोधनं रोपणं चैव वीक्ष्य वीक्ष्यावचारयेत् ॥ १६ ॥

यथास्वं सर्पिषः पानं पथ्यं चापि विरेचनम् ।

हितः शोणितमोक्षश्च यच्चापि लघु भोजनम् ॥ १७ ॥

-अर्बुदं मांसपाकं च विद्रधिं तिलकालकम् । ६६७ प्रत्याख्याय प्रकुर्वीत भिषक् सम्यक् प्रतिक्रियाम् ॥ १८ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने शूकरोगचिकित्सितं नाम एकविंशोऽध्यायः ॥ २१ ॥

यति - स्पर्श ति 1 १ उत्तमायाश्चिकित्सामाचष्टे - पिडकामिति । बडिशेन = बडिशयन्त्रेणेत्यर्थः । २ कषायैः = चूर्णैरित्यर्थः । ३ शतपोनक चिकित्सितमाइ-रस क्रियेति । फाणित कृती रसक्रिया । ४ पृथक्पर्ण्यादिभिर्मिश्रकोक्तरोपणघृतप--' ठितैः काकोल्यादिवर्जितैः सिद्धम् । ५ त्वक्पाकचिकित्सामाह - क्रियामिति । ६ शोणितार्बुदचिकित्सां वक्ति— रक्तेति कर्तव्यकर्मोपदिशति — कषायेति । असाध्यानाम् । ७ शूकरोगेषु अर्बुद - मांसपाक - विद्रधि - तिलकालकानां प्रतिक्रियां निर्दिशति - अर्बुदामति । २ मांसपाके तिलकालके च दुष्टव्रणवत्, शेषयोस्तु विद्रध्यर्बुदवच्चिकित्सा कर्त-व्येति निष्कर्षः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यामेक-विंशतितमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 826

सुश्रुत संहिता चौखम्बा, पृष्ठ 826 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६ | सुश्रुत संहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri द्वाविंशतितमोऽध्यायः । [ अ ० २२ अथातो मुखरोगचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च ।

वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदं च बुद्धिमान् ॥ ३ ॥

विदध्यादोष्ठकोपे तु शाल्वणं चोपनाहने ।

मस्तिष्के चैव नस्ये च तैलं वातहरं हितम् ॥ ४ ॥

श्रीवेष्टकं सजरसं सुरदारु सगुग्गुल ।

यष्टीमधुकचूर्णं तु विदध्यात प्रतिसारणम् ॥ ५ ॥

पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत् ।

पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः ॥ ६ ॥

६ शिरोविरेचनं धूमः स्वेदः कवल एव च ।

हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ॥ ७ ॥

त्र्यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा ।

क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम् ॥ ८ ॥।

मेदोजे ' स्वेदिते भिन्ने शोधिते ज्वलनो हितः ।

प्रियङ्गुत्रिफला लोधं सक्षौद्रं प्रतिसारणम् ॥ ९ ॥

एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्त्तितम् । द्वाविंशतितमोऽध्यायः । १ वातिकौष्ठप्रकोपचिकित्सितमाख्याति चतुविधेनेति । चतुर्विधेन = चतुःप्रका-रेण । स्नैहस्य चातु िध्यमुक्तम्- " स्नेहश्चतुविधः प्रोक्तो घृतं तैलं वसा तथा । मज्जा च " इति । मधूच्छिष्टयुतेन = सिक्थकमिश्रेणेत्यर्थः । मधूच्छिष्टं ' मोम ' इति ख्यातम् । २ मस्तिष्के = मस्तिष्कहिते शिरस्तर्पणे इत्यर्थः । ३ प्रतिसारणं = घर्षणम् । ४ पैत्तिकौष्ठप्रकोप चिकित्सां प्रतिपादयति- पितेति । ५ संशोधन संशमनरूपां वाह्यामाभ्यन्तरीं च क्रियामित्यर्थः । ६ श्लैष्मिकौष्ठप्रकोप चिकित्सा वक्ति- शिर इति । ७ न्यूषणं = त्रिकटुकम् स्वर्जिकाक्षारः = ' सज्जीखार ' इति यवक्षारः = ' जवाखार ' इति । ८ मेदोजन्यौ 8 प्रकोप चिकित्सामभिदधाति - मेदोज इति । स्वेदिते = अस्नेहपूर्वं स्वेदनं कृते, भिन्ने = शस्त्रेण विदारिते इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 827

सुश्रुत संहिता चौखम्बा, पृष्ठ 827 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २२ ] Digitized by Arya चकित्सास्थानम् qnai and eGangotri दन्तमूलगतानां तु रोगाणां कर्म वक्ष्यते ॥ १० ॥

शीतदे हृतरक्ते तु तोये नागरैसर्षपान् ।

निःक्काथ्य त्रिफलामुस्तं गण्डूषः सरसाञ्जनः ॥ ११ ॥

प्रियङ्गवश्च मुक्तं च त्रिफला च प्रलेपनम् ।

नैश्यं च त्रिफलासिद्धं मधुकोत्पलपद्मकैः ॥ १२ ॥

दन्तपुष्पुटके कार्यं तरुणे रक्तमोक्षणम् ।

सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम् ॥ १३ ॥

हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम् ।

विस्राविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत् ॥ १४ ॥

रोधपत्र्त्तङ्गयष्ट्या हलाक्षाचूर्णैर्मधूत्तरैः ।

गण्डूषे ' क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः ॥ १५ ॥

काकोल्यादौ दशतीरसिद्धं सर्पिश्च नस्यतः ।

शौषिरे हृतरक्ते तु रोघ्रमुस्तरसाञ्जनैः ॥ १६ ॥

सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः ।

सारिवोत्पलयष्ट्याह्वसार्वरागुरुचन्दनैः ॥ १७ ॥

क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम् ।

क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः ॥ १८ ॥

" संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा ।

काकोदुम्बरिकागोजीपत्रैविस्रावयेदसृक् ॥ १ ९ ॥

क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसारयेत् । ६६ ९ १ दन्तमूलगतरोगेषु प्राक् शीतादचिकित्सां निर्दिशति - शीताद इति । २ नागरं = शुण्ठी | ३ दन्तपुष्पुटकचिकित्सामाद - नस्यञ्चेति । मधुकोत्पलप-कत्रिफलासिद्धं सर्पिर्नस्ये देयमित्यर्थः । ४ दन्नवेष्टकचिकित्मामाचष्टे - विस्रा-वित इति । ५ पत्तङ्कं = रक्तचन्दनम्, मधूत्तरैः = मधुप्रधानैः | ६ क्षीरिणः = न्यग्रोधोदुम्बरादिक्षीरिवृक्षक्काथा इत्यर्थः । ७ शौषिरचिकित्स ' निदिशति - शौषिर इति । ८ सावर: - रोघ्रः । ९ परि ॰ दरचिकित्सामाचष्टे - क्रियामिकिं । १० उपकुशचिकित्सितमभिपत्ते - संशो-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 828

सुश्रुत संहिता चौखम्बा, पृष्ठ 828 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६७० Digitized by Arya Sam सुश्रुत संहितायां rarand eGangotri [ अ ० २२ पिप्पलीः सपपांश्चैव नागरं नैचुलं फलम् ॥ २० ॥

सुखोदकेन संसृष्टं कवलं चापि धारयेत् ।

घृतं मॅधुरकैः सिद्धं हितं कवलनस्ययोः ॥ २१ ॥

शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत् ।

ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ॥ २२ ॥

उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत् ।

कृमिदन्तकवच्चापि विधिः कार्यों विजानता ॥ २३ ॥

द्वित्वाऽधमांसं सक्षौद्रैरेभिश्चूर्णे रुपाचरेत् ।

" वचातेजोवँतीपाठासर्जिकायावशूकजैः ॥ २४ ॥

चौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्त्तितः । पटोल त्रिफलानिम्बकषायश्चात्र धावने । हितः शिरोविरेकश्च धूमो वैरेचनश्च यः ॥ २५ ॥ -सामान्यं कर्म नाडीनां विशेषं चात्र मेशृणु ।

नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् ॥ २६ ॥

यं दन्तमभिजायेत नाडी तं दन्तमुद्धरेत् ।

छित्त्वा मांसानि शस्त्रेण यदि नोर्पंरिजो भवेत् ॥ २७ ॥

शोधयित्वा दहेद्वाऽपि क्षारेण ज्वलनेन वा ।

भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम् ॥ २८ ॥।

समूलं दशनं तस्मादुद्धरेद्भग्नमस्थि च ।

उद्घृते तूत्तरे दन्ते समूले स्थिरबन्धने " ॥ २ ९ ॥

रक्तातियोगात् " पूर्वोक्ता रोगा घोरा भवन्ति हि । ध्येति । उभयतः = वमनविरेचनाभ्यामूध्वंमघश्चेत्यर्थः । १ निचुलस्य जलवेतस्येदं नैचुलम् | २ मधुरकैः = काकोल्यादिमधुरद्रव्यैरित्यर्थः । ३ दन्तवैदर्भचिकित्सां ब्रवी · ति — शस्त्रेणेति । ४ वर्धनस्य ( अधिदन्तस्य ) चिकित्सां वक्ति - उदूष्टत्येति । ५ अधिमा॑सचिकित्सितं प्रतिपादयति - छित्त्वेति । ६ तेजोवती = चव्यम् । ७ दन्तनाडीचिकित्सामभिधत्ते - नाडीति । यं दन्तमभि समीपे नाढी जायेत तं दन्तमुद्धरेदित्यर्थः । ९ नोपरिज: = नोर्ध्वदन्तपङ्क्तिगत इत्यर्थः । १० स्थिरबन्धने = दृढतरदन्त बेष्टने । ११ पूर्वोक्ताः शोणितवर्णनीयाध्याये कथिताः । CC - ò. Gurukul Kangri Collection, Haridwar

पृष्ठ 829

सुश्रुत संहिता चौखम्बा, पृष्ठ 829 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २२ ] Digitized by Ary वक्तितस्तान hennai and eGangotri ६७३ अष्टाङ्ग लिसन्दंशेनाकृष्य गलशुण्डिकाम् ॥ ४ ९ ॥

छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् ।

नोत्कृष्टं चैव होनं च विभागं छेदयेद्भिषक् ॥ ५० ॥

अत्यादानात् स्रवेद्रक्तं तन्निमित्तं म्रियेत च ।

हीनच्छेदाद्भवेच्छोफो लाला निद्रा भ्रमस्तमः ॥ ५१ ॥

तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः ।

गलशुण्डीं तु सञ्च्छिद्य कुर्य्यात् प्राप्तमिमं क्रमम् ॥ ५२ ॥

मरिचातिविषापाठावचाकुष्ठकुटन्नटः ।

क्षौद्रयुक्तैः सलवणैस्ततस्ताः प्रतिसारयेत् ॥ ५३ ॥

वचामतिविषां पाठां रास्नां कटुकरोहिणीम् ।

निःक्काथ्य पिचुमन्दं च कवलं तत्र योजयेत् ॥ ५४ ॥

इङ्गुदी कि हीदन्ती सरलासुरदारुभिः ।

पञ्चाङ्गीं कारयेत् पिष्टैर्वत्ति गन्धोत्तरां शुभाम् ॥। ५५ ॥

ततो धूमं पिवेज्जन्तुर्द्विरंह्नः कफनाशनम् ।

चार सिद्धेषु मुद्गेषु यूपश्चाप्यशने हितः ॥ ५६ ॥

gosh सङ्घाते तालुपुप्पुटे ।

एष एव विधिः कार्य्यो विशेषः शस्त्रकर्मणि ॥ ५७ ॥

तालुपाके तु कर्त्तव्यं विधानं पित्तनाशनम् ।

स्नेहस्वेदौ तालुशोषे विधिश्वानिलनाशनः १० ॥ ५८ ॥

कीर्त्तितं तालुजानां तु कण्ठ्यानां कर्म वक्ष्यते । १ गलशुण्डिकायाश्चिकित्सां त -- अङ्गुष्ठ निर्दिशति -- 3 ष्ठति । गलशुण्डिका = घण्टिका । २ अत्र कुटन्नटः इयोनाकः । ' इयोनाक शुकनासर्क्षदीर्घवृन्तकुटन्नटाः ' इत्यमरः । ३ कटु-करोहिणी = ' कुटकी ' इति ख्याता । ४ पिचुमन्दः = निम्बः । ५ किणिही = ब्योति-ष्मती ‘ मालकांगनी ' इति ख्याता । ६ पञ्चभिरङ्गभूतद्रव्यैः कृतां पञ्चाङ्गीम् । गन्धो-त्तरां = गन्धप्रधानाम् । ७ द्विरह्नः = सायं प्रातरित्यर्थः । ८ तुण्डकेर्यभ्र्ष - कूर्म - सङ्घात- तालुपुप्पुटानां चिकित्सितमतिदिशति - तुण्डोति । तत्र तुण्डिकेरीतालुपुप्पुटकौ भेद्यौ, अनुषः सङ्घातश्च छेद्यः, मांसोच्छ्रायत्वादवस्थावि-शेषेण कूर्मो लेख्यश्छेद्यो वा । ९ तालुपाकचिकित्सां निर्दिशति - ताविति । १० श्रनिलनाशनः = वातघ्नः । ४३ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 830

सुश्रुत संहिता चौखम्बा, पृष्ठ 830 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २२ साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् ॥ ५ ९ ॥

छर्दनं धूमपानञ्च गण्डूषो नस्यकर्म च ।

वातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत् ॥ ६० ॥

सुखोष्णीन् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः ।

पत्तङ्गशर्कराक्षौद्रैः पैत्तिकीं प्रतिसारयेत् ॥ ६१ ॥।

द्राक्षापरूषकक्काथौ हितौ च कवलग्रहे ।

आगारधूमकटुकैः श्लैष्मिक प्रतिसारयेत् ॥ ६२ ॥

श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् ।

नस्यकर्मेणि योक्तव्यं तथा कवलधारणे ॥ ६३ ॥

पित्तवत्साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम् ।

विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेवित् ॥ ६४ ॥

एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः ।

उपजिह्विकवच्चापि साधयेदद्धिजिह्विकाम् ॥ ६५ ॥

एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत् ।

गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ॥ ६६ ॥

अमर्मस्थं सुपकं च भेदयेद्गलविद्रधिम् ।

वातात् सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत् ॥ ६७ ॥

तैलं वार्तहरैः सिद्धं हितं कवलनस्ययोः ।

ततोऽस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः ॥ ६८ ॥

शालराजादनैरण्डर्स रेदिमधूकजाः । १ कण्ठरोहिणीचिकित्सां ब्रवीति -- साध्यानामिति । साध्यानां = सन्निपातभि-नानाम् । २ प्रतिसारयेत् = घर्षयेत् । ३ सुखोष्णान् = ईषदुष्णान् । ४ पत्तङ्गं = रक्तचन्दनम् । ५ कण्ठशालूकचिकित्सामाह-- विस्राव्येति । जलौकादिभिर्विस्राव्ये • त्यर्थः । साधयेत् = चिकित्सेत् । ६ अधिजिह्विकायाश्चिकित्सां वक्ति - - उपेति । ७ एकवृन्द- गिलायु - गलविद्रधीनां चिकित्सां प्रतिपादयति - एकेति । शिरोविरेच नधूमप्रलेपचारादिभिः शोधनमाचरेदित्यर्थः । रस्तम् । ८ वातिकमुखपाकचिकित्सामाख्याति - वातादिति । सर्वे सरतीति सर्वसर-९ वातद्दरैः १० सारः सारवृक्षः (: = = भद्रदार्वादिकल्ककषायसिद्धैः । CC - 0. Gurukul Kangri Collection, Haridwar