सुश्रुत संहिता चौखम्बा — पृष्ठ 831–840

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 831–840

पृष्ठ 831

सुश्रुत संहिता चौखम्बा, पृष्ठ 831 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri चिकित्सास्थानम् ।

मज्जानो गुग्गुलुध्याममांसीकालानुसारिवाः ।

श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत् ॥ ६ ९ ॥

तत्सव सुकृतं चूण स्नेहेनोलोड्य युक्तितः ।

टुटूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत् ॥ ७० ॥

एष सर्वसरे धूमः प्रशस्तः स्नैहिको मतः ।

कफघ्नो मारुतघ्नश्च मुखरोगविनाशनः ॥ ७१ ॥

पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः ।

सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः ॥ ७२ ॥

प्रतिसारणगण्डूषधूम संशोधनानि च ।

कफात्मके सर्वसरे विधिं कुर्यात् कफापहम् ॥ ७३ ॥

पिवेदतिविषां पाठा मुस्तं च सुरदारु च ।

रोहिणीं कटुकाख्यां च कुटजस्य फलानि च ॥ ७४ ॥

गवां मूत्रेण मनुजो भागैर्धरणसम्मितैः ।

एष सर्वान् कफकृतान् रोगान् योगोऽपकर्षति ॥ ७५ ॥

क्षीरेक्षुर सगोमूत्र दधिमस्त्वम्ल काञ्जिकैः ।

विदध्यात् कवलान् वीक्ष्य दोषं तैलघृतैरपि ॥ ७६ ॥

रोगाणां मुखजातानां साध्यानां कर्म कीर्त्तितम् । ६७५ खदिरादिः । हाराणचन्द्रस्तु सारेङ्गुदीति समस्तं मत्वा सारेगुदी श्रेष्ठेङ्गुदी बृह • त्फलेङ्गुदीति यावदिति व्याख्याति । १ ध्यामं = रोहिषनामकसुगन्धिततृण-म् । कालानुसारिवा = कालवल्ली । २ लेपयोग्यस्नेहेनेत्यर्थः । ३ टुण्ट्कः = श्योनाकः । ४ पैत्तिकमुखपाकचिकित्सामभिदधाति - पित्तात्मक इति । शुद्धकायस्य = वमनादिभिः संशुद्धशरीरस्थ । ५ कफजन्य मुखपाकचिकित्सां विवृणोति - प्रतीति । ६ अत्र धरतं चतुर्विंशतिकाप्रमाणम् । ७ सर्वमुखरोगेषु कवलविधिमभिधत्ते - क्षीरेति । = दोषं वीक्ष्य = रोगकारणं विचार्येत्यर्थः । यथा वातात्मके क्षीरदधिमरत्वम्लकाब्जिकतैलघृतैः, पित्तात्मके क्षीरे-क्षुरसघृतैः, कफात्मके च मूत्रेणेति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 832

सुश्रुत संहिता चौखम्बा, पृष्ठ 832 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६७६ 8 Digitized by Arya Samaj Foundation Chennai and eGangotri ' सुश्रुतसंहिताया-[ अ ० २३ असाध्या अपि वक्ष्यन्ते रोगा ये यत्र कीर्त्तिताः ॥ ७७ ॥

ओष्ठप्रकोपा वर्ज्याः स्युर्मासरक्त त्रिदोषजाः ।

दन्तमूलेषु वज्य तु त्रिलिङ्गगतिशौषिरौ ॥ ७८ ॥

दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः ।

जिह्वागतेष्वलासस्तु तालव्येष्वर्बुदं तथा ॥ ७ ९ ॥

स्वरघ्नो वलयो वृन्दो बलासश्च विदारिका ।

गलौघो मांसतानश्च शतघ्नी रोहिणी गले ॥ ८० ॥

असाध्याः कीर्त्तिता ह्येते रोगा नव दशैव च ।

तेषां चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ॥ ८१ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने मुखरोगचिकित्सितं नाम द्वाविंशोऽध्यायः ॥ २२ ॥

त्रयोविंशतितमोऽध्यायः ।

अथातः शोफानां चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

' ड्विधोऽवयवसमुत्थः शोफोऽभिहितो लक्षणतः प्रतीकार-१ असाध्यान् मुखरोगान्निर्दिशति - असाध्या इति । २ नव दशैव = एकोन • विंशतिरेवेत्यर्थः । तद्यथा - त्रय श्रोष्ठजाः, दन्तमूलेषु द्वौ दन्तेषु त्रयः, जिह्वायामेकः, तालुन्यपि एकः, गले स्वरघ्नादयो नव । एवमेकोनविंशतिः पूर्यते । ३ प्रत्याख्याय = " यावदुच्छ्वसिति प्राणी तावत्कार्या प्रतिक्रिया । कदाऽपि दैवयोगेन दृष्टारिष्टोऽपि जीवति ॥ " इत्याद्युपदेशपूर्वकं निराकृत्येत्यर्थः । तत्र श्रोष्ठजानां शोणितावसेचनं यथायोगं संशोधनं च, शौषिरस्य क्षारेण प्रतिसारणम्, दालनस्य स्नेहावलेपनम्, श्रलासस्य शस्त्रक्षाराग्न्यवचारणं जीवनीयगणोपयोगश्च, अर्बुदस्य शस्त्रक्षारोपयोगो वि. स्रावणं च, अवशिष्टानां मरिचवाराहीकन्दाद्युपयोगेन विस्रावणं कर्तव्यमित्याद्युन्नेयम् । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां द्वाविशतितमोऽध्यायः । त्रयोविंशतितमोऽध्यायः । ४ शोथभेदान्निर्दिशति - षडविध इति । श्रवयवे समुत्तिष्ठतीत्यवयवसमुत्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 833

सुश्रुत संहिता चौखम्बा, पृष्ठ 833 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २३ ] Digitized by Arya चिकित्सास्थानम चिकित्सा ध्यानम e edhaia nai and eGangotri ६७७

तश्च । सर्वसरस्तु पञ्चविधः । तद्यथा— - वातपित्तश्लेष्मसन्निपात-विषनिमित्तः ॥ ३ ॥

तत्रौतितर्पितस्याध्वगमनादतिमात्रमभ्यवहरतो वा पिष्टान्नह. रितकशाकलवणानि क्षीणस्य वाऽतिमात्रमम्लमुपसेवमानस्य मृत्य-कलोष्टकटशर्करानूपौदकमांससेवनादजीणिनो वा ग्राम्यधर्मसेवना-द्विरुद्धाहारसेवनाद्वस्त्यश्वोष्ट्ररथपदातिसङ्क्षो भरणाद्दोषा धातून् प्र. दूष्य श्वयथुमापादयन्त्यखिले शरीरे ॥ ४ ॥

तंत्र, वातश्वयथुररुणः कृष्णो वा मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषाः । पित्तश्वयथुः पीतो रक्तो वा शीघ्रानुसार्योष चोपादय-श्चात्र वेदनाविशेषाः । श्लेष्मश्वयथुः पाण्डुः शुक्लो वा स्निग्धः कठिनः शीतो मन्दानुसारी, कण्ड्वादयश्चात्र वेदनाविशेषाः । सन्निपातश्व-यथुः सर्ववर्णवेदनः । विषनिमित्तस्तु गरोपयोगाद् दुष्टतोयसेवनात् प्रकोथो कावगाहनात् सविषसस्वदिग्धचूर्णेनावचूर्णनाद्वा सविष मूत्रपुरीषशुक्रस्पृष्टानां तृणकाष्ठादीनां संस्पर्शेनात् " स तु मृदुः क्षिप्रोत्थानोऽवलम्बी चलो वा दाहपाकप्रायश्च भवति ॥ ५ ॥

भवन्ति चात्र ।

दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिताः ।

पक्वाशयस्था मध्ये च वर्चःस्थानगतास्त्वधः ॥ ६ ॥

१ शोथस्य निदानं सम्प्राप्ति चोपपादयति - तत्रेति । २ ग्राम्यधर्मसेवनात् = मैथुनकरणात् । “ न मत्स्यान् पयसाऽभ्यववहरेत् " इत्यादिविरुद्धाहारसेवनात् । तन्त्रान्तरे– “ शुद्धयामयाभुक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा । दध्याममृ-च्छाकविरोधिदुष्टगरोपसृष्टान्न निषेवणं च ॥ अशस्यचेष्टा न च देहशुद्धिर्मोपघात विषमा प्रसूतिः । मिथ्योपचारः प्रतिकर्मणां च निजस्य हेतुः श्वयथोः प्रदिष्टः ॥ ” इति । ३ वातादिभेदेन शोथलक्षणं दर्शयति - तत्रेति । ४ गरं संयोगजं विषं तस्यो-पयोगादित्यर्थः । ५ प्रकोथोदकावगाहनात् = शटितजलस्नानात् । ६ अवलम्बी == लम्बमानः, अधोगमनशील इति तात्पर्यम् । ७ यत्रस्था दोषा यत्र देशे शोथं कुर्वन्ति तं निर्दिशति -- दोषा इति । ऊर्ध्वम् = उरःप्रभृत्युर्ध्वदेहे । ८ मध्ये = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 834

सुश्रुत संहिता चौखम्बा, पृष्ठ 834 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २३

कृत्स्नं देहमनुप्राप्ताः कुर्युः सर्वसरं तथा ।

श्वयैथुर्मध्यदेशे यः स कष्टः सर्वगश्च यः ॥ ७ ॥

अर्द्धाङ्गेऽरिष्टभूतश्च यश्चोर्ध्वं परिसर्पति ।

श्वासः पिपासा दौर्बल्यं ज्वरश्छर्दिररोचकः ॥ ८ ॥

हिक्कातीसारका साश्च शूनं सङ्क्षपयन्ति हि ।

सामान्यतो विशेषाच्च तेषां वक्ष्यामि भेषजम् ॥ ९ ॥

शोफिनः सर्व एव परिहरेयुरम्ललवणदधिगुडवसापयस्तैल-घृतपिष्टमयगुरूणि ॥ १० ॥

तत्रं, वातश्वयथौ त्रैवृतमेरण्डतैलं वा मासमर्द्धमासं वा पाय-येत्, न्यग्रोधादिकषायसिद्धं सर्पिः पित्तश्वयथौ, आरग्वधादि-सिद्धं श्लेष्मश्वयथौ, सन्निपातश्वयथौ स्नुही क्षीरं पात्रं द्वादशभिर-म्लपात्रैः प्रतिसंसृष्टं दन्ती प्रतीवापं सर्पिः पाचयित्वा पाययेत्, विषनिमित्ते कल्पेषु प्रतीकारः ॥ ११ ॥

अथातः सामान्यचिकित्सितं व्याख्यास्यामः - तिल्वकघृतचतु-र्थानि यान्युक्तान्युदरेषु ततोऽन्यतममुपयुज्यमानं श्वयथुमपह-न्ति, मूत्रवर्त्तिक्रियां वा सेवयेत्, नवयसं वाऽहरहर्मधुना, विड-उरःपक्वाशयमध्ये । वर्चःस्थानं = पुरीषाशयः । १ सर्वसरं = सर्वशरीरसरणशीलम् । २ कृच्छ्रादिभेदं प्रतिपादयति- श्वयथुरिति । सर्वगः = सर्वशरीरगामी । ३ यश्चोर्ध्वं परिसर्पतीति पुरुषविषयकमेतत् । चकारात् स्त्रियाश्चोपरिजो योऽधो याति स गृह्यते । चरके– “ यस्तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगो भवेत् । पुरुषं हन्ति, नारीं च मुखजो, -गुह्यजो द्वयम् ॥ ” इति । तन्त्रान्तरेऽपि - " ऊर्ध्वगामी नरं पद्द्भ्यामधोगामी मुखात् स्त्रियम् । उभयं बस्तिसन्जातः शोथो हन्ति न संशयः ॥ ” इति । ऊर्ध्वगामी = -मुखगामी, अधोगामी = पादगामी । तदुक्तम्- - " पादात्प्रवृत्तः श्वयथुर्नृणां यः प्राप्नु-यान्मुखम् । स्त्रीणां वक्तात्पदं ४ याति वस्तिजश्च न सिद्ध्यति ॥ ” इति । शोथो -पद्रवान् दर्शयति -- श्वास इति । ५ शोधातुरस्य वर्ज्यानि निर्दिशति -- शोफिन इति । ६ दोषविशेषेण श्वयथुचिकित्सामाख्याति -- तत्रेति । ७ स्तुही क्षीर-पात्रं = सेहुण्डदुग्धाढकम् । ८ दन्तीप्रतीवापः = स्नैहचतुर्थीशेन दन्तीकल प्रक्षेपः । -कल्पेषु = कल्पस्थानेषु । ९ नवायसं त्रिफलाचित्र कत्रिकटुविडङ्गेत्यादिना प्रमेहपिडकाचिकित्सिते द्वादशा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 835

सुश्रुत संहिता चौखम्बा, पृष्ठ 835 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २३ ] Digitized by Arya विकित्सास्थ epnai and eGangotri ६७ ९ ङ्गातिविपाकुटजफलभद्रदारुनागर मरिचचूर्ण वा धरणमुष्णाम्बुना, त्रिकटुक्षौरायश्चूर्णानि वा त्रिफलाकपायेण, मूत्रं वा तुल्यक्षीरं, हरीतकीं वा तुल्यगुडामुपयुञ्जीत, देवदारुशुण्ठीं वा, गुग्गुलुं वा मूत्रेण वर्षाभूकपायानुपानं वा, तुल्यंगुडं शृङ्गवेरं वा, वर्षाभूकपायं मूलकल्कं वा सशृङ्गवेरं पयोऽनुपानमहरहर्मासम्, व्योषवर्षाभूक-पायसिद्धेन वा सर्पिषा मुद्रोलुम्बान् भक्षयेत्, पिप्पलीपिप्पलीमू-लचव्यचित्रकर्मयूरवर्षाभूसिद्धं वा क्षीरं पिवेत्, सहौषधमुरङ्गीमू-सिद्धं वा, त्रिकटुकैरण्डमूलश्यामामूलसिद्धं वा, वर्षाभूशृङ्गवे-रसहादेवदारुसिद्धं वा, तथा अलाबूबिभीतकफलकल्कं वा तण्डु-- लाम्बुना, क्षारपिप्पलीमरिचशृङ्गवेरानुसिद्धेन च मुद्रयूषेणालवणेना-ल्पस्नेहेन भोजयेद् यवान्नं गोधूमान्नं वा, वृकार्क नक्तमालनि-स्ववर्पाभूकाथैश्च परिषेकः, सर्षपसुवर्चलसैन्धवशार्ङ्गष्टाभिश्च प्रदेहः कार्य्यः, यथादोषं च विरेचनास्थापनानि तीक्ष्णान्यर्ज स्रमुपसेवेत, स्नेहस्वेदोपनाहांश्च, सिराभिश्चाभीक्ष्णं शोणितमवसेचयेदन्यत्रोप-द्रवशोफादिति ॥ १२ ॥

भवन्ति चात्र ।

" पिष्टान्नमम्लं लवणानि मद्यं मृदं दिवास्वप्नमजाङ्गलं च ।

खियो घृतं तैलपयोगुरूणि शोफं जिघांसुः परिवर्जयेत्तु ॥ १३ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने शोथचिकित्सितं नाम त्रयोविंशोध्यायः ॥२३ ॥

ध्यायेऽभिहितम् । १धरणं = कथंम् । २ क्षारः = यवक्षारः ३ वर्षाभूक षायं = रक्तपुनर्नवाक्वाथम् । ४ मयूरः = अपामार्गः । ५ मुरङ्गी = शोभान्जनः । ६ सद्दा = माषपणीं । ७ वृक्षकः = कुटजः । ८ वारं वारम् । चूर्णादिकम् । शार्ङ्गष्टा = काकजङघा । ९ अजस्रं = १० शोफे अपथ्यानि निर्दिशति - पिष्टान्नमिति । पिष्टान्नं = गोधूम-इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां त्रयोविंशतितमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 836

सुश्रुत संहिता चौखम्बा, पृष्ठ 836 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८० Digitized by Arya Sama सुश्रुतसंहिता imrand eGangotri [ अ ० २४

चतुर्विंशतितमोऽध्यायः ।

अथातोऽनागताबाधप्रतिषेधनीयं चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

उत्थोयोत्थाय सततं स्वस्थेनारोग्यमिच्छता ।

धीमता यदनुष्ठेयं तत्सव सम्प्रवक्ष्यते ॥ ३ ॥

तंत्रादौ दन्तपवनं द्वादशाङ्गुलँमायतम् ।

कनिष्ठिकापरीणाहमृज्वग्रन्थितमत्र णम् ॥ ४ ॥

अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम् ।

अवेक्ष्यत्र्त्तु च दोषं च रसं वीर्य्यं च योजयेत् ॥ ५ ॥

कषायं मधुरं तिक्तं कटुकं प्रातरुत्थितः ।

निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा ॥ ६ ॥

मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा ।

क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च ॥ ७ ॥

चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत् ।

एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन च ॥ ८ ॥

दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन् ।

तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति ॥ ९ ॥

चतुर्विंशतितमोऽध्यायः । १ अनागतानां किञ्चिदागतानामाबाधानां प्रतिषेधो निवर्तकप्रयोजकव्यापारस्तम-धिकृत्य कृतोऽध्यायस्तम् अनागताबाधप्रतिषेधनीयम् । २ ब्राह्मे मुहूर्ते इति शेषः । तदुक्तमष्टाङ्गहृदये- " ब्राह्मे मुहूर्त्ते उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः । शरीरचिन्तां निर्व कृतशौचविधिस्ततः ॥ ” इति । " ब्राह्म मुहूर्त्त उत्तिष्ठेज्जीर्णाजीर्णं निरूपयन् ” इत्यष्टाङ्ग-सङ्ग्रहः । स्वस्थेन = श्रनातुरेण । स्वस्थस्य लक्षणम् - " समदोषः समाग्निश्च समधा-तुमलक्रियः । प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ॥ ” इति । ३ दन्तधावनविधानमभिदधाति - तत्रादाविति । ४ धर्मशास्त्रे विशेषमाह विष्णुः- “ द्वादशाङ्गुलिकं विप्रे काष्ठमाद्दुर्मनीषिणः । शूद्रविट्क्षत्रजातीनां नवषट्चतुर · ङ्गुलम् ॥ ” इति । " चतुरङ्गुलमानं तु नारीणां नात्र संशयः ” इति गर्गः । ७ काष्ठा CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 837

सुश्रुत संहिता चौखम्बा, पृष्ठ 837 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २४ ] Digitized by Arya Sarihadi and eGangotri

वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च ।

नं खादेद् गलताल्वोष्ठजिह्वा रोगसमुद्भवे ॥ १० ॥

अथास्यपाके श्वासे च कासहिक्कावमीषु च ।

दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्त्तो मदपीडितः ॥ ११ ॥

शिरोरुगार्त्तस्तृषितः श्रान्तः पानक्लमान्वितः ।

अदिती कर्णशूली च दन्तरोगी च मानवः ॥ १२ ॥

जिह्वानिर्लेखनं रौप्यं सौवरण वा मेव च ।

तन्मलापहरं शस्तं मृदु श्लक्ष्णं दशाङ्गुलम् ॥ १३ ॥

मुखवै रम्यदौर्गन्ध्यशोफजाड्यहरं सुखम् ।

दन्तदार्व्यकरं रुच्यं स्नेह गण्डूषधारणम् ॥ १४ ॥

क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः ।

' भिल्लोदककषायेण तथैवामलकस्य वा ॥ १५ ॥

प्रक्षालयेन्मुखं नेत्रे स्वस्थः शीतोदकेन वा ।

नीलिकां मुखशोषं च पिडकां व्यंङ्गमेव च ॥ १६ ॥

रक्तपित्तकृतान् रोगान् सद्य एव विनाशयेत् ।

" सुखं लघु निरीक्षेत दृढं पश्यति चक्षुषा ॥ १७ ॥

६८१ नुसारेण फलान्तरमाह गर्ग: - " सर्जे धैर्ये वटे दीप्तिः करञ्जे विजयो रणे । प्लक्षजे चार्थसम्पत्तिर्बदर्यां ' मधुरस्वरः ॥ खदिरे चैव सौभाग्यं बिल्वे तु विपुलं धनम् । श्रदु-म्बरे वासिद्धिर्वन्धूके च दृढा मतिः ॥ सैन्धे च कीर्तिसौभाग्यं पालाशे सिद्धिरुत्तमा । कदम्बे सकला लक्ष्मीराम्रे आरोग्यमेव च ॥ अपामार्गे श्रुतिर्मेधाप्रज्ञाऽवाप्तिर्व॑पुः श्रुतिः । आयुः शीलं यशो लक्ष्मीः सौभाग्यं चोपजायते ॥ अर्केण हन्ति रोगांस्तु बीजपूरेण तु व्यथाम् । दाडिमे सिन्धुवारे च उटजे कुटजे तथा ॥ जाती च करमर्दश्च दुःस्वप्नं नाशयेदिति । ककुभेन तथाऽऽयुष्मान् भवेत्पलितवर्जितः ॥ ” इति । १ धर्मशास्त्रानुसारेण अष्टम्यादितिथिषु दन्तधावननिषेध: - " अष्टम्योश्च चतुर्दश्योः पञ्चदश्यां त्रिजन्मसु । व्यतीपाते च सङ्क्रान्त्यां दन्तकाष्ठं न भक्षयेत् ॥ " इत्यादिः । २ जिह्वानिर्लेखनोपायं निर्दिशति - जिह्वेति । ३ मृदु = कोमलं, ' कोमलं मृदुलं मृदु ' इत्यमरः । ४ गण्डूष फलमभिधत्ते - मुखेति । ५ मुखप्रक्षालन विधिमभिधत्ते - क्षीरेति । क्षीरवृक्षकषायैः = न्यग्रोधादिक्षीरपा-द पक्काथै रित्यर्थः । ६ भिल्लः = रोधः । ७ व्यङ्गं = ' भाई ' इति प्रथते । ८ नैत्राञ्जनविधिं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 838

सुश्रुत संहिता चौखम्बा, पृष्ठ 838 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८२ सुश्रुतसंहितायां--Digitized by Arya Samaj Foundation Chennai and eGangotri

मतं स्रोतोऽञ्जनं श्रेष्ठं विशुद्धं सिन्धुसम्भवम् ।

दाहकण्डूमलघ्नं च दृष्टिक्लेदरुजापहम् ॥ १८ ॥

अक्ष्णो रूपावहं चैव सहते मारुतातपौ ।

न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत् ॥ १ ९ ॥

भुक्तवाञ्छिरसा स्नातः श्रान्तश्छर्दनवाहनैः । [ अ ० २४ . रात्रौ जागरितश्चापि नाञ्जयाज्ज्वरित एव च ॥ २० ॥

कर्पूरजातिक + कोललवङ्गकटुकाह्वयैः ।

सचूर्णपूगैः सहितं पत्रं ताम्बूलजं शुभम् ॥ २१ ॥

मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् ।

हनुदन्तस्वर मलजिह्नेन्द्रियविशोधनम् ॥ २२ ॥

प्रसेकशमनं हृद्यं गलामयविनाशनम् ।

पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे ॥ २३ ॥

रक्तपित्तक्षत क्षीणतृष्णामूर्च्छापरीतिनाम् ।

रूक्षदुर्बलमर्त्यानां न हितं चास्यशोषिणाम् ॥ २४ ॥

" शिरोगतांस्तथा रोगाञ्छिरोऽभ्यङ्गोऽपकर्षति ।

केशानां मार्दवं दैर्घ्यं बहुत्वं स्निग्धकृष्णताम् ॥ २५ ॥

करोति शिरसस्तृप्तिं त्वक्कमपि चाननम् ।

सन्तर्पणं चेन्द्रियाणां शिरसः प्रतिपूरणम् ॥। २६ ॥

मधुकं क्षीरशुक्ला च सरलं देवदारु च । तद्गुणांश्च ब्रवीति — सुखमिति । १ येषां नेत्राञ्जनमपथ्यं तान्निविंशति - भुक्तवा-निति । २ ताम्बूलभक्षणविधि तद्गुणांश्च वक्ति - कर्पूरेति । जाती = जातीफलम् । . ३ यैस्ताम्बूलं न भक्षणीयं तान्निर्दिशति - रक्तेति । वाग्भटे — ' ताम्बूलं क्षत-पित्तास्ररूक्षोत्कुपित चक्षुषाम् । विषमूर्च्छामदार्तानामपथ्यं शोषिणामपि ॥ ” इति । ४ शिरोऽभ्यङ्गगुणान् वक्ति - शिर इति । " नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते । न खालित्यं न पालित्यं न केशाः प्रपतन्ति च ॥ बलं शिरः कपालानां विशे-षेणाभिवर्धते । दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च ॥ इन्द्रियाणि सुत्वग्भवति चाननम् । निद्रालाभः सुखं च स्यान्मूनि तैलनिषेवणात् ॥ ” इति चरकः । ५ शिरोऽभ्यङ्गार्थं तैलं निर्दिशति - मधुकमिति । क्षीरशुक्ला = क्षीरविदारी । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 839

सुश्रुत संहिता चौखम्बा, पृष्ठ 839 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २४ ] Digitized by Arya ईच्छास्थानम् and eGangotri क्षुद्रकं पञ्चनामानं समभागानि संहरेत् ॥ २७ ॥

तेषां कल्ककषायाभ्यां चक्रतैलं विपाचयेत् ।

सदैव शीतलं जन्तोर्मूर्ध्नि तैलं प्रदापयेत् ॥ २८ ॥

केशप्रसाधनी केश्या रजोजन्तुमलापहा ।

हनुमन्याशिरः कर्णशूलघ्नं कैर्णपूरणम् ॥ २ ९ ॥

अभ्यङ्गो मार्दवकरः कफवातनिरोधनः ।

धातूनां पुष्टिजननो मृजावर्णबलप्रदः ॥ ३० ॥

सेकः श्रमन्नोऽनिलहृद्भन्नसन्धिप्रसाधकः ।

क्षताग्निदग्धाभिहतविघृष्टानां रुजापहः ॥ ३१ ॥

जलसि स्य वर्द्धन्ते यथा मूलेऽङ्कुरास्तरोः ।

तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते ॥ ३२ ॥

सिरामुखै रोमकूपैर्धमनीभिश्च तर्पयन् ।

शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने ॥ ३३ ॥

६८३ १ चक्रतैलं = यन्त्रपीडिततैलम् । मधुकादिद्रव्यं क्वाथार्धं पलशतमुदकस्य द्वादशाधिकपञ्चशतपलानि, तावद् विपचेद् यावद्दशाधिकं शतं भवति । ततो वस्त्रपूतं ग्राह्यं, तेन क्वाथेन तथा तद्द्रव्याणामेव कल्कैरष्टभिः पलैश्चकतैलस्य द्वात्रिंशत्पलानि विपचेत् यावत्तैलपाकलक्षणानि भवन्तीति डल्द्दणः । २ केशप्रसाधनीकर्णपूरणयोर्गुणान् वक्ति - केशेति । केशप्रसाधनी = कङ्कतिका । ३ ' न कर्णरोगा वातोत्था न मन्याइनुसङ्ग्रहः । नोच्चैः श्रुतिर्न वाधिर्यं स्यान्नित्यं कर्णतर्पणात् ॥ ” इति चरकः । ४ अभ्यङ्गगुणान्निर्दिशति - अभ्यङ्ग इति । चरकः - " स्नेहाभ्यङ्गाद्यथा कुम्भ-' इचर्मस्नेहविमर्षनात् । भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा ॥ तथा शरीरमभ्य-• ङ्गाद् दृढं सुवक्च जायते । प्रशान्तमारुताबाधं क्लेशव्यायाम संसद्दम् ॥ स्पर्शनेऽभ्य-धिको वायुः स्पर्शनं च त्वगाश्रितम् | त्वच्यश्च परमभ्यङ्गस्तस्मात्तं शीलयेन्नरः ॥ न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः । विकारं भजतेऽत्यर्थं बलकर्मणि वा क्वचित् ॥ सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः । भवत्यभ्यङ्गनित्यत्वान्नरोऽल्प-जर एव च ॥ " इति । ५ सर्वाङ्गपरिषेक गुणानभिधत्ते - सेक इति । सेकः = परिषेकः, स्नेहेनाद्रीकर णमित्यर्थः । ६ स्नेहावगाहनगुणान् वक्ति - सिरामुखैरिति । ७ युक्तः प्रयु. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 840

सुश्रुत संहिता चौखम्बा, पृष्ठ 840 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८४ - सुश्रुतसंहितायां Digitized by Arya Samaj Foun tion Chenhai and eGangotri तत्रें प्रकृतिसात्म्यर्तुदेशदोषविकारवित् । [ अ ० २४ तैलं घृतं वा मतिमान् युञ्जयादभ्यङ्गसेकयोः ॥ ३४ ॥

केवलं सामदोषेषु न कथञ्चन योजयेत् ।

तरुणज्वर्य्यजीर्णी च नाभ्यक्तव्यौ कथञ्चन ॥ ३५ ॥

तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः ।

पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा ॥ ३६ ॥

शेषाणां तदहः प्रोक्ता अग्निमान्द्यादयो गदाः ।

सन्तर्पणसमुत्थानां रोगाणां नैव कारयेत् ॥ ३७ ॥

: रीरायासजननं कर्म व्यायामसंज्ञितम् ।

तत् कृत्वा तु सुखं देहं विमृद्गीयात् समन्ततः ॥ ३८ ॥

शैरीरोपचयः कान्तिर्गात्राणां सुविभक्तता ।

दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ॥ ३ ९ ॥

श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता ।

आरोग्यं चापि परमं व्यायामादुपजायते ॥ ४० ॥

न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम् ।

न च व्यायामिनं मर्त्यमर्दयन्त्यस्यो भयात् ॥ ४१ ॥

न चैनं सहसाऽऽक्रम्य जरा समधिरोहति ।

स्थिरीभवति मांसं च व्यायामाभिरतस्य च ॥ ४२ ॥

व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्त्तितस्य च ।

व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा इव ॥ ४३ ॥

क्त इत्यर्थः । १ श्रभ्यङ्गादौ प्रकृतिविशेषेण तैलघृतयोर्योगं वक्ति - तत्रेति । २ यैर-भ्यङ्गो न कार्यस्तानाइ - केवलमिति ।: - " वर्ज्योऽभ्यङ्गः कफग्रस्त कृतसंशु-वाग्भट द्धथजीर्णिभिः ” इति । ३ व्यायामविधिं प्रतिपादयति- शरीरेति । ४ वाग्भटोऽपि - " तं कृत्वाऽनुसुखं देहं मर्दयेच्च समन्ततः ” इति । ५ व्यायामगुणान्निर्दिशति - शरीरेति । शरीरो-पचयः = देहवृद्धिरित्यर्थः । सुविभक्तता = सुघटितशरीरता । ६ मृजा = शुद्धिरित्यर्थः । ७ व्यायामेन स्विन्नं स्वेदयुक्तं गात्रं यस्य स तस्य व्यायामस्विन्नगात्रस्य, पद्द्भ्यामु-द्वर्तितस्य = पादाभ्यां बहुकृतमदनस्येत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar