सुश्रुत संहिता चौखम्बा — पृष्ठ 831–840
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 831–840
पृष्ठ 831
पाठ पढ़ें पाठ छिपाएँ
अ ० २२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri चिकित्सास्थानम् ।
मज्जानो गुग्गुलुध्याममांसीकालानुसारिवाः ।
श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत् ॥ ६ ९ ॥
तत्सव सुकृतं चूण स्नेहेनोलोड्य युक्तितः ।
टुटूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत् ॥ ७० ॥
एष सर्वसरे धूमः प्रशस्तः स्नैहिको मतः ।
कफघ्नो मारुतघ्नश्च मुखरोगविनाशनः ॥ ७१ ॥
पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः ।
सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः ॥ ७२ ॥
प्रतिसारणगण्डूषधूम संशोधनानि च ।
कफात्मके सर्वसरे विधिं कुर्यात् कफापहम् ॥ ७३ ॥
पिवेदतिविषां पाठा मुस्तं च सुरदारु च ।
रोहिणीं कटुकाख्यां च कुटजस्य फलानि च ॥ ७४ ॥
गवां मूत्रेण मनुजो भागैर्धरणसम्मितैः ।
एष सर्वान् कफकृतान् रोगान् योगोऽपकर्षति ॥ ७५ ॥
क्षीरेक्षुर सगोमूत्र दधिमस्त्वम्ल काञ्जिकैः ।
विदध्यात् कवलान् वीक्ष्य दोषं तैलघृतैरपि ॥ ७६ ॥
रोगाणां मुखजातानां साध्यानां कर्म कीर्त्तितम् । ६७५ खदिरादिः । हाराणचन्द्रस्तु सारेङ्गुदीति समस्तं मत्वा सारेगुदी श्रेष्ठेङ्गुदी बृह • त्फलेङ्गुदीति यावदिति व्याख्याति । १ ध्यामं = रोहिषनामकसुगन्धिततृण-म् । कालानुसारिवा = कालवल्ली । २ लेपयोग्यस्नेहेनेत्यर्थः । ३ टुण्ट्कः = श्योनाकः । ४ पैत्तिकमुखपाकचिकित्सामभिदधाति - पित्तात्मक इति । शुद्धकायस्य = वमनादिभिः संशुद्धशरीरस्थ । ५ कफजन्य मुखपाकचिकित्सां विवृणोति - प्रतीति । ६ अत्र धरतं चतुर्विंशतिकाप्रमाणम् । ७ सर्वमुखरोगेषु कवलविधिमभिधत्ते - क्षीरेति । = दोषं वीक्ष्य = रोगकारणं विचार्येत्यर्थः । यथा वातात्मके क्षीरदधिमरत्वम्लकाब्जिकतैलघृतैः, पित्तात्मके क्षीरे-क्षुरसघृतैः, कफात्मके च मूत्रेणेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 832
पाठ पढ़ें पाठ छिपाएँ
६७६ 8 Digitized by Arya Samaj Foundation Chennai and eGangotri ' सुश्रुतसंहिताया-[ अ ० २३ असाध्या अपि वक्ष्यन्ते रोगा ये यत्र कीर्त्तिताः ॥ ७७ ॥
ओष्ठप्रकोपा वर्ज्याः स्युर्मासरक्त त्रिदोषजाः ।
दन्तमूलेषु वज्य तु त्रिलिङ्गगतिशौषिरौ ॥ ७८ ॥
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः ।
जिह्वागतेष्वलासस्तु तालव्येष्वर्बुदं तथा ॥ ७ ९ ॥
स्वरघ्नो वलयो वृन्दो बलासश्च विदारिका ।
गलौघो मांसतानश्च शतघ्नी रोहिणी गले ॥ ८० ॥
असाध्याः कीर्त्तिता ह्येते रोगा नव दशैव च ।
तेषां चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ॥ ८१ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने मुखरोगचिकित्सितं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
त्रयोविंशतितमोऽध्यायः ।
अथातः शोफानां चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
' ड्विधोऽवयवसमुत्थः शोफोऽभिहितो लक्षणतः प्रतीकार-१ असाध्यान् मुखरोगान्निर्दिशति - असाध्या इति । २ नव दशैव = एकोन • विंशतिरेवेत्यर्थः । तद्यथा - त्रय श्रोष्ठजाः, दन्तमूलेषु द्वौ दन्तेषु त्रयः, जिह्वायामेकः, तालुन्यपि एकः, गले स्वरघ्नादयो नव । एवमेकोनविंशतिः पूर्यते । ३ प्रत्याख्याय = " यावदुच्छ्वसिति प्राणी तावत्कार्या प्रतिक्रिया । कदाऽपि दैवयोगेन दृष्टारिष्टोऽपि जीवति ॥ " इत्याद्युपदेशपूर्वकं निराकृत्येत्यर्थः । तत्र श्रोष्ठजानां शोणितावसेचनं यथायोगं संशोधनं च, शौषिरस्य क्षारेण प्रतिसारणम्, दालनस्य स्नेहावलेपनम्, श्रलासस्य शस्त्रक्षाराग्न्यवचारणं जीवनीयगणोपयोगश्च, अर्बुदस्य शस्त्रक्षारोपयोगो वि. स्रावणं च, अवशिष्टानां मरिचवाराहीकन्दाद्युपयोगेन विस्रावणं कर्तव्यमित्याद्युन्नेयम् । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां द्वाविशतितमोऽध्यायः । त्रयोविंशतितमोऽध्यायः । ४ शोथभेदान्निर्दिशति - षडविध इति । श्रवयवे समुत्तिष्ठतीत्यवयवसमुत्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 833
पाठ पढ़ें पाठ छिपाएँ
अ ० २३ ] Digitized by Arya चिकित्सास्थानम चिकित्सा ध्यानम e edhaia nai and eGangotri ६७७
तश्च । सर्वसरस्तु पञ्चविधः । तद्यथा— - वातपित्तश्लेष्मसन्निपात-विषनिमित्तः ॥ ३ ॥
तत्रौतितर्पितस्याध्वगमनादतिमात्रमभ्यवहरतो वा पिष्टान्नह. रितकशाकलवणानि क्षीणस्य वाऽतिमात्रमम्लमुपसेवमानस्य मृत्य-कलोष्टकटशर्करानूपौदकमांससेवनादजीणिनो वा ग्राम्यधर्मसेवना-द्विरुद्धाहारसेवनाद्वस्त्यश्वोष्ट्ररथपदातिसङ्क्षो भरणाद्दोषा धातून् प्र. दूष्य श्वयथुमापादयन्त्यखिले शरीरे ॥ ४ ॥
तंत्र, वातश्वयथुररुणः कृष्णो वा मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषाः । पित्तश्वयथुः पीतो रक्तो वा शीघ्रानुसार्योष चोपादय-श्चात्र वेदनाविशेषाः । श्लेष्मश्वयथुः पाण्डुः शुक्लो वा स्निग्धः कठिनः शीतो मन्दानुसारी, कण्ड्वादयश्चात्र वेदनाविशेषाः । सन्निपातश्व-यथुः सर्ववर्णवेदनः । विषनिमित्तस्तु गरोपयोगाद् दुष्टतोयसेवनात् प्रकोथो कावगाहनात् सविषसस्वदिग्धचूर्णेनावचूर्णनाद्वा सविष मूत्रपुरीषशुक्रस्पृष्टानां तृणकाष्ठादीनां संस्पर्शेनात् " स तु मृदुः क्षिप्रोत्थानोऽवलम्बी चलो वा दाहपाकप्रायश्च भवति ॥ ५ ॥
भवन्ति चात्र ।
दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिताः ।
पक्वाशयस्था मध्ये च वर्चःस्थानगतास्त्वधः ॥ ६ ॥
१ शोथस्य निदानं सम्प्राप्ति चोपपादयति - तत्रेति । २ ग्राम्यधर्मसेवनात् = मैथुनकरणात् । “ न मत्स्यान् पयसाऽभ्यववहरेत् " इत्यादिविरुद्धाहारसेवनात् । तन्त्रान्तरे– “ शुद्धयामयाभुक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा । दध्याममृ-च्छाकविरोधिदुष्टगरोपसृष्टान्न निषेवणं च ॥ अशस्यचेष्टा न च देहशुद्धिर्मोपघात विषमा प्रसूतिः । मिथ्योपचारः प्रतिकर्मणां च निजस्य हेतुः श्वयथोः प्रदिष्टः ॥ ” इति । ३ वातादिभेदेन शोथलक्षणं दर्शयति - तत्रेति । ४ गरं संयोगजं विषं तस्यो-पयोगादित्यर्थः । ५ प्रकोथोदकावगाहनात् = शटितजलस्नानात् । ६ अवलम्बी == लम्बमानः, अधोगमनशील इति तात्पर्यम् । ७ यत्रस्था दोषा यत्र देशे शोथं कुर्वन्ति तं निर्दिशति -- दोषा इति । ऊर्ध्वम् = उरःप्रभृत्युर्ध्वदेहे । ८ मध्ये = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 834
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २३
कृत्स्नं देहमनुप्राप्ताः कुर्युः सर्वसरं तथा ।
श्वयैथुर्मध्यदेशे यः स कष्टः सर्वगश्च यः ॥ ७ ॥
अर्द्धाङ्गेऽरिष्टभूतश्च यश्चोर्ध्वं परिसर्पति ।
श्वासः पिपासा दौर्बल्यं ज्वरश्छर्दिररोचकः ॥ ८ ॥
हिक्कातीसारका साश्च शूनं सङ्क्षपयन्ति हि ।
सामान्यतो विशेषाच्च तेषां वक्ष्यामि भेषजम् ॥ ९ ॥
शोफिनः सर्व एव परिहरेयुरम्ललवणदधिगुडवसापयस्तैल-घृतपिष्टमयगुरूणि ॥ १० ॥
तत्रं, वातश्वयथौ त्रैवृतमेरण्डतैलं वा मासमर्द्धमासं वा पाय-येत्, न्यग्रोधादिकषायसिद्धं सर्पिः पित्तश्वयथौ, आरग्वधादि-सिद्धं श्लेष्मश्वयथौ, सन्निपातश्वयथौ स्नुही क्षीरं पात्रं द्वादशभिर-म्लपात्रैः प्रतिसंसृष्टं दन्ती प्रतीवापं सर्पिः पाचयित्वा पाययेत्, विषनिमित्ते कल्पेषु प्रतीकारः ॥ ११ ॥
अथातः सामान्यचिकित्सितं व्याख्यास्यामः - तिल्वकघृतचतु-र्थानि यान्युक्तान्युदरेषु ततोऽन्यतममुपयुज्यमानं श्वयथुमपह-न्ति, मूत्रवर्त्तिक्रियां वा सेवयेत्, नवयसं वाऽहरहर्मधुना, विड-उरःपक्वाशयमध्ये । वर्चःस्थानं = पुरीषाशयः । १ सर्वसरं = सर्वशरीरसरणशीलम् । २ कृच्छ्रादिभेदं प्रतिपादयति- श्वयथुरिति । सर्वगः = सर्वशरीरगामी । ३ यश्चोर्ध्वं परिसर्पतीति पुरुषविषयकमेतत् । चकारात् स्त्रियाश्चोपरिजो योऽधो याति स गृह्यते । चरके– “ यस्तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगो भवेत् । पुरुषं हन्ति, नारीं च मुखजो, -गुह्यजो द्वयम् ॥ ” इति । तन्त्रान्तरेऽपि - " ऊर्ध्वगामी नरं पद्द्भ्यामधोगामी मुखात् स्त्रियम् । उभयं बस्तिसन्जातः शोथो हन्ति न संशयः ॥ ” इति । ऊर्ध्वगामी = -मुखगामी, अधोगामी = पादगामी । तदुक्तम्- - " पादात्प्रवृत्तः श्वयथुर्नृणां यः प्राप्नु-यान्मुखम् । स्त्रीणां वक्तात्पदं ४ याति वस्तिजश्च न सिद्ध्यति ॥ ” इति । शोथो -पद्रवान् दर्शयति -- श्वास इति । ५ शोधातुरस्य वर्ज्यानि निर्दिशति -- शोफिन इति । ६ दोषविशेषेण श्वयथुचिकित्सामाख्याति -- तत्रेति । ७ स्तुही क्षीर-पात्रं = सेहुण्डदुग्धाढकम् । ८ दन्तीप्रतीवापः = स्नैहचतुर्थीशेन दन्तीकल प्रक्षेपः । -कल्पेषु = कल्पस्थानेषु । ९ नवायसं त्रिफलाचित्र कत्रिकटुविडङ्गेत्यादिना प्रमेहपिडकाचिकित्सिते द्वादशा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 835
पाठ पढ़ें पाठ छिपाएँ
अ ० २३ ] Digitized by Arya विकित्सास्थ epnai and eGangotri ६७ ९ ङ्गातिविपाकुटजफलभद्रदारुनागर मरिचचूर्ण वा धरणमुष्णाम्बुना, त्रिकटुक्षौरायश्चूर्णानि वा त्रिफलाकपायेण, मूत्रं वा तुल्यक्षीरं, हरीतकीं वा तुल्यगुडामुपयुञ्जीत, देवदारुशुण्ठीं वा, गुग्गुलुं वा मूत्रेण वर्षाभूकपायानुपानं वा, तुल्यंगुडं शृङ्गवेरं वा, वर्षाभूकपायं मूलकल्कं वा सशृङ्गवेरं पयोऽनुपानमहरहर्मासम्, व्योषवर्षाभूक-पायसिद्धेन वा सर्पिषा मुद्रोलुम्बान् भक्षयेत्, पिप्पलीपिप्पलीमू-लचव्यचित्रकर्मयूरवर्षाभूसिद्धं वा क्षीरं पिवेत्, सहौषधमुरङ्गीमू-सिद्धं वा, त्रिकटुकैरण्डमूलश्यामामूलसिद्धं वा, वर्षाभूशृङ्गवे-रसहादेवदारुसिद्धं वा, तथा अलाबूबिभीतकफलकल्कं वा तण्डु-- लाम्बुना, क्षारपिप्पलीमरिचशृङ्गवेरानुसिद्धेन च मुद्रयूषेणालवणेना-ल्पस्नेहेन भोजयेद् यवान्नं गोधूमान्नं वा, वृकार्क नक्तमालनि-स्ववर्पाभूकाथैश्च परिषेकः, सर्षपसुवर्चलसैन्धवशार्ङ्गष्टाभिश्च प्रदेहः कार्य्यः, यथादोषं च विरेचनास्थापनानि तीक्ष्णान्यर्ज स्रमुपसेवेत, स्नेहस्वेदोपनाहांश्च, सिराभिश्चाभीक्ष्णं शोणितमवसेचयेदन्यत्रोप-द्रवशोफादिति ॥ १२ ॥
भवन्ति चात्र ।
" पिष्टान्नमम्लं लवणानि मद्यं मृदं दिवास्वप्नमजाङ्गलं च ।
खियो घृतं तैलपयोगुरूणि शोफं जिघांसुः परिवर्जयेत्तु ॥ १३ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने शोथचिकित्सितं नाम त्रयोविंशोध्यायः ॥२३ ॥
ध्यायेऽभिहितम् । १धरणं = कथंम् । २ क्षारः = यवक्षारः ३ वर्षाभूक षायं = रक्तपुनर्नवाक्वाथम् । ४ मयूरः = अपामार्गः । ५ मुरङ्गी = शोभान्जनः । ६ सद्दा = माषपणीं । ७ वृक्षकः = कुटजः । ८ वारं वारम् । चूर्णादिकम् । शार्ङ्गष्टा = काकजङघा । ९ अजस्रं = १० शोफे अपथ्यानि निर्दिशति - पिष्टान्नमिति । पिष्टान्नं = गोधूम-इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां त्रयोविंशतितमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 836
पाठ पढ़ें पाठ छिपाएँ
६८० Digitized by Arya Sama सुश्रुतसंहिता imrand eGangotri [ अ ० २४
चतुर्विंशतितमोऽध्यायः ।
अथातोऽनागताबाधप्रतिषेधनीयं चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
उत्थोयोत्थाय सततं स्वस्थेनारोग्यमिच्छता ।
धीमता यदनुष्ठेयं तत्सव सम्प्रवक्ष्यते ॥ ३ ॥
तंत्रादौ दन्तपवनं द्वादशाङ्गुलँमायतम् ।
कनिष्ठिकापरीणाहमृज्वग्रन्थितमत्र णम् ॥ ४ ॥
अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम् ।
अवेक्ष्यत्र्त्तु च दोषं च रसं वीर्य्यं च योजयेत् ॥ ५ ॥
कषायं मधुरं तिक्तं कटुकं प्रातरुत्थितः ।
निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा ॥ ६ ॥
मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा ।
क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च ॥ ७ ॥
चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत् ।
एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन च ॥ ८ ॥
दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन् ।
तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति ॥ ९ ॥
चतुर्विंशतितमोऽध्यायः । १ अनागतानां किञ्चिदागतानामाबाधानां प्रतिषेधो निवर्तकप्रयोजकव्यापारस्तम-धिकृत्य कृतोऽध्यायस्तम् अनागताबाधप्रतिषेधनीयम् । २ ब्राह्मे मुहूर्ते इति शेषः । तदुक्तमष्टाङ्गहृदये- " ब्राह्मे मुहूर्त्ते उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः । शरीरचिन्तां निर्व कृतशौचविधिस्ततः ॥ ” इति । " ब्राह्म मुहूर्त्त उत्तिष्ठेज्जीर्णाजीर्णं निरूपयन् ” इत्यष्टाङ्ग-सङ्ग्रहः । स्वस्थेन = श्रनातुरेण । स्वस्थस्य लक्षणम् - " समदोषः समाग्निश्च समधा-तुमलक्रियः । प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ॥ ” इति । ३ दन्तधावनविधानमभिदधाति - तत्रादाविति । ४ धर्मशास्त्रे विशेषमाह विष्णुः- “ द्वादशाङ्गुलिकं विप्रे काष्ठमाद्दुर्मनीषिणः । शूद्रविट्क्षत्रजातीनां नवषट्चतुर · ङ्गुलम् ॥ ” इति । " चतुरङ्गुलमानं तु नारीणां नात्र संशयः ” इति गर्गः । ७ काष्ठा CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 837
पाठ पढ़ें पाठ छिपाएँ
अ ० २४ ] Digitized by Arya Sarihadi and eGangotri
वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च ।
नं खादेद् गलताल्वोष्ठजिह्वा रोगसमुद्भवे ॥ १० ॥
अथास्यपाके श्वासे च कासहिक्कावमीषु च ।
दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्त्तो मदपीडितः ॥ ११ ॥
शिरोरुगार्त्तस्तृषितः श्रान्तः पानक्लमान्वितः ।
अदिती कर्णशूली च दन्तरोगी च मानवः ॥ १२ ॥
जिह्वानिर्लेखनं रौप्यं सौवरण वा मेव च ।
तन्मलापहरं शस्तं मृदु श्लक्ष्णं दशाङ्गुलम् ॥ १३ ॥
मुखवै रम्यदौर्गन्ध्यशोफजाड्यहरं सुखम् ।
दन्तदार्व्यकरं रुच्यं स्नेह गण्डूषधारणम् ॥ १४ ॥
क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः ।
' भिल्लोदककषायेण तथैवामलकस्य वा ॥ १५ ॥
प्रक्षालयेन्मुखं नेत्रे स्वस्थः शीतोदकेन वा ।
नीलिकां मुखशोषं च पिडकां व्यंङ्गमेव च ॥ १६ ॥
रक्तपित्तकृतान् रोगान् सद्य एव विनाशयेत् ।
" सुखं लघु निरीक्षेत दृढं पश्यति चक्षुषा ॥ १७ ॥
६८१ नुसारेण फलान्तरमाह गर्ग: - " सर्जे धैर्ये वटे दीप्तिः करञ्जे विजयो रणे । प्लक्षजे चार्थसम्पत्तिर्बदर्यां ' मधुरस्वरः ॥ खदिरे चैव सौभाग्यं बिल्वे तु विपुलं धनम् । श्रदु-म्बरे वासिद्धिर्वन्धूके च दृढा मतिः ॥ सैन्धे च कीर्तिसौभाग्यं पालाशे सिद्धिरुत्तमा । कदम्बे सकला लक्ष्मीराम्रे आरोग्यमेव च ॥ अपामार्गे श्रुतिर्मेधाप्रज्ञाऽवाप्तिर्व॑पुः श्रुतिः । आयुः शीलं यशो लक्ष्मीः सौभाग्यं चोपजायते ॥ अर्केण हन्ति रोगांस्तु बीजपूरेण तु व्यथाम् । दाडिमे सिन्धुवारे च उटजे कुटजे तथा ॥ जाती च करमर्दश्च दुःस्वप्नं नाशयेदिति । ककुभेन तथाऽऽयुष्मान् भवेत्पलितवर्जितः ॥ ” इति । १ धर्मशास्त्रानुसारेण अष्टम्यादितिथिषु दन्तधावननिषेध: - " अष्टम्योश्च चतुर्दश्योः पञ्चदश्यां त्रिजन्मसु । व्यतीपाते च सङ्क्रान्त्यां दन्तकाष्ठं न भक्षयेत् ॥ " इत्यादिः । २ जिह्वानिर्लेखनोपायं निर्दिशति - जिह्वेति । ३ मृदु = कोमलं, ' कोमलं मृदुलं मृदु ' इत्यमरः । ४ गण्डूष फलमभिधत्ते - मुखेति । ५ मुखप्रक्षालन विधिमभिधत्ते - क्षीरेति । क्षीरवृक्षकषायैः = न्यग्रोधादिक्षीरपा-द पक्काथै रित्यर्थः । ६ भिल्लः = रोधः । ७ व्यङ्गं = ' भाई ' इति प्रथते । ८ नैत्राञ्जनविधिं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 838
पाठ पढ़ें पाठ छिपाएँ
६८२ सुश्रुतसंहितायां--Digitized by Arya Samaj Foundation Chennai and eGangotri
मतं स्रोतोऽञ्जनं श्रेष्ठं विशुद्धं सिन्धुसम्भवम् ।
दाहकण्डूमलघ्नं च दृष्टिक्लेदरुजापहम् ॥ १८ ॥
अक्ष्णो रूपावहं चैव सहते मारुतातपौ ।
न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत् ॥ १ ९ ॥
भुक्तवाञ्छिरसा स्नातः श्रान्तश्छर्दनवाहनैः । [ अ ० २४ . रात्रौ जागरितश्चापि नाञ्जयाज्ज्वरित एव च ॥ २० ॥
कर्पूरजातिक + कोललवङ्गकटुकाह्वयैः ।
सचूर्णपूगैः सहितं पत्रं ताम्बूलजं शुभम् ॥ २१ ॥
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् ।
हनुदन्तस्वर मलजिह्नेन्द्रियविशोधनम् ॥ २२ ॥
प्रसेकशमनं हृद्यं गलामयविनाशनम् ।
पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे ॥ २३ ॥
रक्तपित्तक्षत क्षीणतृष्णामूर्च्छापरीतिनाम् ।
रूक्षदुर्बलमर्त्यानां न हितं चास्यशोषिणाम् ॥ २४ ॥
" शिरोगतांस्तथा रोगाञ्छिरोऽभ्यङ्गोऽपकर्षति ।
केशानां मार्दवं दैर्घ्यं बहुत्वं स्निग्धकृष्णताम् ॥ २५ ॥
करोति शिरसस्तृप्तिं त्वक्कमपि चाननम् ।
सन्तर्पणं चेन्द्रियाणां शिरसः प्रतिपूरणम् ॥। २६ ॥
मधुकं क्षीरशुक्ला च सरलं देवदारु च । तद्गुणांश्च ब्रवीति — सुखमिति । १ येषां नेत्राञ्जनमपथ्यं तान्निविंशति - भुक्तवा-निति । २ ताम्बूलभक्षणविधि तद्गुणांश्च वक्ति - कर्पूरेति । जाती = जातीफलम् । . ३ यैस्ताम्बूलं न भक्षणीयं तान्निर्दिशति - रक्तेति । वाग्भटे — ' ताम्बूलं क्षत-पित्तास्ररूक्षोत्कुपित चक्षुषाम् । विषमूर्च्छामदार्तानामपथ्यं शोषिणामपि ॥ ” इति । ४ शिरोऽभ्यङ्गगुणान् वक्ति - शिर इति । " नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते । न खालित्यं न पालित्यं न केशाः प्रपतन्ति च ॥ बलं शिरः कपालानां विशे-षेणाभिवर्धते । दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च ॥ इन्द्रियाणि सुत्वग्भवति चाननम् । निद्रालाभः सुखं च स्यान्मूनि तैलनिषेवणात् ॥ ” इति चरकः । ५ शिरोऽभ्यङ्गार्थं तैलं निर्दिशति - मधुकमिति । क्षीरशुक्ला = क्षीरविदारी । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 839
पाठ पढ़ें पाठ छिपाएँ
अ ० २४ ] Digitized by Arya ईच्छास्थानम् and eGangotri क्षुद्रकं पञ्चनामानं समभागानि संहरेत् ॥ २७ ॥
तेषां कल्ककषायाभ्यां चक्रतैलं विपाचयेत् ।
सदैव शीतलं जन्तोर्मूर्ध्नि तैलं प्रदापयेत् ॥ २८ ॥
केशप्रसाधनी केश्या रजोजन्तुमलापहा ।
हनुमन्याशिरः कर्णशूलघ्नं कैर्णपूरणम् ॥ २ ९ ॥
अभ्यङ्गो मार्दवकरः कफवातनिरोधनः ।
धातूनां पुष्टिजननो मृजावर्णबलप्रदः ॥ ३० ॥
सेकः श्रमन्नोऽनिलहृद्भन्नसन्धिप्रसाधकः ।
क्षताग्निदग्धाभिहतविघृष्टानां रुजापहः ॥ ३१ ॥
जलसि स्य वर्द्धन्ते यथा मूलेऽङ्कुरास्तरोः ।
तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते ॥ ३२ ॥
सिरामुखै रोमकूपैर्धमनीभिश्च तर्पयन् ।
शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने ॥ ३३ ॥
६८३ १ चक्रतैलं = यन्त्रपीडिततैलम् । मधुकादिद्रव्यं क्वाथार्धं पलशतमुदकस्य द्वादशाधिकपञ्चशतपलानि, तावद् विपचेद् यावद्दशाधिकं शतं भवति । ततो वस्त्रपूतं ग्राह्यं, तेन क्वाथेन तथा तद्द्रव्याणामेव कल्कैरष्टभिः पलैश्चकतैलस्य द्वात्रिंशत्पलानि विपचेत् यावत्तैलपाकलक्षणानि भवन्तीति डल्द्दणः । २ केशप्रसाधनीकर्णपूरणयोर्गुणान् वक्ति - केशेति । केशप्रसाधनी = कङ्कतिका । ३ ' न कर्णरोगा वातोत्था न मन्याइनुसङ्ग्रहः । नोच्चैः श्रुतिर्न वाधिर्यं स्यान्नित्यं कर्णतर्पणात् ॥ ” इति चरकः । ४ अभ्यङ्गगुणान्निर्दिशति - अभ्यङ्ग इति । चरकः - " स्नेहाभ्यङ्गाद्यथा कुम्भ-' इचर्मस्नेहविमर्षनात् । भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा ॥ तथा शरीरमभ्य-• ङ्गाद् दृढं सुवक्च जायते । प्रशान्तमारुताबाधं क्लेशव्यायाम संसद्दम् ॥ स्पर्शनेऽभ्य-धिको वायुः स्पर्शनं च त्वगाश्रितम् | त्वच्यश्च परमभ्यङ्गस्तस्मात्तं शीलयेन्नरः ॥ न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः । विकारं भजतेऽत्यर्थं बलकर्मणि वा क्वचित् ॥ सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः । भवत्यभ्यङ्गनित्यत्वान्नरोऽल्प-जर एव च ॥ " इति । ५ सर्वाङ्गपरिषेक गुणानभिधत्ते - सेक इति । सेकः = परिषेकः, स्नेहेनाद्रीकर णमित्यर्थः । ६ स्नेहावगाहनगुणान् वक्ति - सिरामुखैरिति । ७ युक्तः प्रयु. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 840
पाठ पढ़ें पाठ छिपाएँ
६८४ - सुश्रुतसंहितायां Digitized by Arya Samaj Foun tion Chenhai and eGangotri तत्रें प्रकृतिसात्म्यर्तुदेशदोषविकारवित् । [ अ ० २४ तैलं घृतं वा मतिमान् युञ्जयादभ्यङ्गसेकयोः ॥ ३४ ॥
केवलं सामदोषेषु न कथञ्चन योजयेत् ।
तरुणज्वर्य्यजीर्णी च नाभ्यक्तव्यौ कथञ्चन ॥ ३५ ॥
तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः ।
पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा ॥ ३६ ॥
शेषाणां तदहः प्रोक्ता अग्निमान्द्यादयो गदाः ।
सन्तर्पणसमुत्थानां रोगाणां नैव कारयेत् ॥ ३७ ॥
: रीरायासजननं कर्म व्यायामसंज्ञितम् ।
तत् कृत्वा तु सुखं देहं विमृद्गीयात् समन्ततः ॥ ३८ ॥
शैरीरोपचयः कान्तिर्गात्राणां सुविभक्तता ।
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ॥ ३ ९ ॥
श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता ।
आरोग्यं चापि परमं व्यायामादुपजायते ॥ ४० ॥
न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम् ।
न च व्यायामिनं मर्त्यमर्दयन्त्यस्यो भयात् ॥ ४१ ॥
न चैनं सहसाऽऽक्रम्य जरा समधिरोहति ।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च ॥ ४२ ॥
व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्त्तितस्य च ।
व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा इव ॥ ४३ ॥
क्त इत्यर्थः । १ श्रभ्यङ्गादौ प्रकृतिविशेषेण तैलघृतयोर्योगं वक्ति - तत्रेति । २ यैर-भ्यङ्गो न कार्यस्तानाइ - केवलमिति ।: - " वर्ज्योऽभ्यङ्गः कफग्रस्त कृतसंशु-वाग्भट द्धथजीर्णिभिः ” इति । ३ व्यायामविधिं प्रतिपादयति- शरीरेति । ४ वाग्भटोऽपि - " तं कृत्वाऽनुसुखं देहं मर्दयेच्च समन्ततः ” इति । ५ व्यायामगुणान्निर्दिशति - शरीरेति । शरीरो-पचयः = देहवृद्धिरित्यर्थः । सुविभक्तता = सुघटितशरीरता । ६ मृजा = शुद्धिरित्यर्थः । ७ व्यायामेन स्विन्नं स्वेदयुक्तं गात्रं यस्य स तस्य व्यायामस्विन्नगात्रस्य, पद्द्भ्यामु-द्वर्तितस्य = पादाभ्यां बहुकृतमदनस्येत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar