सुश्रुत संहिता चौखम्बा — पृष्ठ 841–850

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 841–850

पृष्ठ 841

सुश्रुत संहिता चौखम्बा, पृष्ठ 841 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

छा ० २४ ] Digitized by Archer Chennai and eGangotri ६८५

वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम् ।

व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ॥ ४४ ॥

विदग्धमविदग्धं वा निर्दोषं परिपच्यते ।

व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ॥ ४५ ॥

स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ।

सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ॥ ४६ ॥

बलेस्यार्द्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा ।

हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते ॥ ४७ ॥

व्यायामं कुर्वतो जन्तोस्तद्बलाधस्य लक्षणम् ।

वयोबलशरीराणि देशकालाशनानि च ॥ ४८ ॥

समीक्ष्य कुर्याद् व्यायाममन्यथा रोगमाप्नुयात् ।

क्षयतृष्णाऽरुचिच्छर्दि रक्तपित्तभ्रमक्लमाः ॥ ४ ९ ॥

कासशोषज्वरश्वासा अतिव्यायामसम्भवाः ।

रक्तपित्ती कृशः शोषी श्वासकासक्षयातुरः ॥ ५० ॥

भुक्तवान् स्त्रीषु च क्षीणो भ्रमार्त्तश्च विवर्जयेत् ।

उद्वैत्तनं वातहरं कफमेदोविलापनम् ॥ ५१ ॥

स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् ।

सिरोमुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ॥ ५२ ॥

उद्घर्षणोत्सादनाभ्यां जायेयातामसंशयम् ।

उत्सादनाद्भवेत् स्रोणां विशेषात् कान्तिमद्वपुः ॥ ५३ ॥

प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम् ।

उद्घर्षणं तु विज्ञेयं कण्डूकोठानिलापहम् ॥। ५४ ॥

१ शीतवसन्तातिरिक्त समये स्वल्पो व्यायामः करणीयः । तदाइ वाग्भट: - " शीत-काले वसन्ते च मन्दमेव ततोऽन्यदा " इति । २ बलस्यार्द्धेन = श्रर्धशक्त्येत्यर्थः । ३ श्रतिव्यायामेन दोषमाचष्टे - क्षयेति । ४ व्यायामानधिकारिणो निर्दिशति-रक्तपित्तीति । ५ उद्वर्तनगुणानभिधत्ते — उद्वर्तनमिति । उद्वर्तनस्य वातइरादयः पञ्चगुणाः । ६ उद्धर्षणोत्सादनयोर्गुणान् प्रतिपादयति - सिरेति । ७ उद्धर्षणं = झामकादिना CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 842

सुश्रुत संहिता चौखम्बा, पृष्ठ 842 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Friland - eGangotri ऊर्वोः सञ्जनयत्याशुफेनेकः स्थैर्य्यलाघवे । [ अ ० २४ कण्डूकोठानिलस्तम्भमलरोगापहश्च सः ॥ ५५ ॥

तेजनं त्वग्गतस्याग्नेः सिरामुख विवेचनम् ।

उद्घर्षणं त्विष्टिकया कण्डूकोठविनाशनम् ॥ ५६ ॥

निद्रोदाहश्रमहरं स्वेदकण्डूतृषापहम् ।

हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविशोधनम् ॥ ५७ ॥

तन्द्रापापोपशमनं तुष्टिदं पुंस्त्ववर्द्धनम् ।

रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम् ॥ ५८ ॥

उष्णेन शिरसः स्नानमहितं चक्षुषः सदा ।

शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत् ॥ ५ ९ ॥

श्लेष्ममारुत कोपे तु ज्ञात्वा व्याधिबलाबलम् ।

काममुष्णं शिरःस्नानं भैषज्यार्थं समाचरेत् ॥ ६० ॥

अतिशीताम्बु शीते च श्लेष्ममारुतकोपनम् ।

अत्युष्णमुष्णकाले च पित्तशोणितवर्द्धनम् ॥ ६१ ॥

तँच्चातिसारज्वरितकर्णशूलानिलार्त्तिषु ।

आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम् ॥ ६२ ॥

सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्द्धनम् ।

स्वेददौर्गन्ध्यवैवर्ण्यश्रमध्नमनुलेपनम् ॥ ६३ ॥

स्नानं येषां निषिद्धं तु तेषामः नुलेपनम् ।

रक्षोघ्नमथ चौजस्यं सौभाग्यकरमुत्तमम् ॥ ६४ ॥

गात्रादिघर्षणम् । १ फेनकः = समुद्रफेनः । २ स्नानगुणानाख्याति - निद्रेति । ३ वाग्भटः– “ उष्णाम्बुनाऽधः कायस्य परिषेको बलावहः । तेनैव चोत्तमाङ्गस्य बलहृ-त्केशचक्षुषाम् ॥ ” इति । श्रामलकैः स्नानस्य गुणानाह भावप्रकाशे - " यः सदाऽऽम-लकैः स्नानं करोति स विनिश्चितम् । वलीपलितनिर्मुक्तो जीवेद्वर्षशतं नरः ॥ ” इति । ४ स्नानानहेजनान्नि दिशति — तच्चेति । तत् = स्नानम् । ५ अनुलेपनगुणान् ब्रवीति - सौभाग्यदमिति । ६ तेषामनुलेपनमपि निषिद्धमित्यर्थः 1 । ७ पुष्प - वस्त्र-रत्नधारणगुणानाख्याति- रक्षोघ्नमिति । भावप्रकाशे - " सुगन्धिपुष्पपत्राणां धारणं कान्तिकारकम् । पापरक्षो ग्रहहरं कामदं श्रीविवर्द्धनम् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 843

सुश्रुत संहिता चौखम्बा, पृष्ठ 843 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २४ ] Digitized by Arya hai and eGangotri ६८७

सुमनोम्बररत्नानां धारणं प्रीतिवर्द्धनम् ।

मुखौलेपाद् दृढं चक्षुःपीनगण्डं तथाऽऽननम् ॥। ६५ ॥

अव्यङ्गपिडकं कौन्तं भवत्यम्बुजसन्निभम् ।

पक्ष्मैलं विशदं कान्तममलोज्ज्वलमण्डलम् ॥ ६६ ॥

नेत्रमञ्जनसंयोगाद् भवेच्चामलतारकम् ।

यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्द्धनम् ॥ ६७ ॥

देवताऽतिथिविप्राणां पूजनं गोन्त्रंवर्द्धनम् ।

आहारः प्रीणनः सद्यो बलकृद् देहधारकः ॥ ६८ ॥

भावप्रकाशे शीतादिसमयभेदेन धारणाहवस्त्राणि तद्गुणाश्च प्रदर्शिताः । तथा हि— “ कौशेयौर्णिकवस्त्रं च रक्तवस्त्रं तथैव च । वातश्लेष्महरं तत्तु शीतकाले विचार-येत् ॥ ” कौशेयं पट्टाम्बरं तसरवस्त्रं चेति तदर्थः । " मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते । तद्धारयेदुष्णकाले तत्रापि लघु शस्यते ॥ " कषायं ' कौङ्कुमी ' इति लोके कषायरागरक्तं वेति तदर्थः । " शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम् । न चोष्ण न च वा शीतं तत्तु वर्षासु धारयेत् ॥ ” इति । प्रसङ्गान्मलिनवस्त्रधारणदोषोऽपि प्रद-शितः– “ कदाऽपि न जनैः सद्भिर्धार्यं मलिनमम्बरम् । तत्तु कण्डूक्रिमिकरं ग्ला-न्यलक्ष्मीकरं परम् ॥ ” इति । रत्नाभरणधारणगुणानाद तत्रैव - " ग्रहदृष्टिद रं पुष्टिकरं दुःस्वप्ननाशनम् । पापदौर्भाग्यशमनं रत्नाभरणधारणम् ॥ ” इति । १ सुमनः = पुष्पम् । २ मुखालेपनगुणानाद - मुखेति । ३ कान्तं = मनोरमं, ' कान्तं मनोरमं रुच्यं मनोज्ञं मन्जु मन्जुलम् ' इत्यमरः । ४ नेत्राञ्जनगुणानाचष्टे- पक्ष्मलमिति । ५ श्रमलोज्ज्वलमण्डलं - निर्मलोज्ज्वलनेत्र बहिर्भागम् । ६ देवताऽतिथिब्राह्मणपूज • नगुणानभिदधाति -यशस्यमिति । यशस्यं = यशस्करमित्यर्थः । ७ गोत्रवर्द्धनं = वंशवर्द्धनम् । आहारगुणान् ब्रवीति -- आहार इति । तन्त्रान्तरे भोजनसमयमाह - " अथोक्त-गुणसम्पन्नं नरः सेवेत भोजनम् । विचार्य दोषकालादीन् कालयोरुभयोरपि ॥ ” इति । " सायं प्रातर्मनुष्याणामशनं श्रुतिनोदितम् । नान्तरा भोजनं कुर्यादग्निहोत्र समो विधिः ॥ याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत् । याममध्ये रसोत्पत्तिर्यामयु · ग्माद् बलक्षयः ॥ क्षुरसम्भवति पक्वेषु रसदोषमलेषु च । काले वा यदि वाऽकाले सोऽन्नकाल उदाहृतः ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 844

सुश्रुत संहिता चौखम्बा, पृष्ठ 844 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां -६८८ Digitized by Arya Samaj Poundation Chennai and eGangotri [ अ ० २४

आयुस्तेजः समुत्साह स्मृत्योजोऽग्निविवर्द्धनः ।

पादप्रक्षालनं पादमलरोगश्रमापहम् ॥। ६ ९ ॥

चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्द्धनम् ।

निद्रोकरो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत् ॥ ७० ॥

पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः ।

पादैरोगहरं वृष्यं रक्षोघ्नं प्रीतिवर्द्धनम् ॥ ७१ ॥

सुखप्रचारमोजस्यं सदा पात्रधारणम् ।

अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् ॥ ७२ ॥

पादभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम् ।

पापोर्पंशमनं केशनखरोमापमार्जनम् ॥ ७३ ॥

हर्षलाघव सौभाग्यकरमुत्साहवर्द्धनम् ।

बाणवारं मृजावर्ण तेजोबलविवर्द्धनम् ॥ ७४ ॥

पवित्रं केश्यमुष्णीषं वातातपरजोपहम् । जीर्णाद्दारस्य लक्षणम् - " उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः । घु क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ॥ ” इति । आहारस्थानमाह - " आहारं तु रहः कुर्यान्निर्द्वारमपि सर्वदा । उभाभ्यां लक्ष्म्युपेतः स्यात् प्रकाशे हीयते श्रिया ॥ ” इति । निर्धारः = मलमूत्रोत्सर्ग इति तदर्थः । श्रन्यच्च -- " आहारनिर्धारविहारयोगाः सदैव सद्भिर्विजने विधेयाः " इति । १ पादप्रक्षालनगुणान् दर्शयति – पादेति । २ पादाभ्यङ्गगुणानिदिंशति- -निद्रेति । चरके विशेष: - " खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिश्च पादयोः । सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात् ॥ जायते सौकुमार्ये च बलं स्थैर्यं च पादयोः । दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति ॥ न च स्याद् गृध्रसीवातः पादयोः स्फुटनं न च । न सिरास्नायुसङ्कोचः पादाभ्यङ्गेन पादयोः ॥ ” इति । ३ पादत्रधारणगु-यान् वक्ति - पादरोगेति । ४ पादत्रधारणं = पादुकादिधारणम् । ५ केशनखरोमहरणगुणानाख्याति - पादाभ्यामिति । अनुपानद्भयां = पादुका-दिपादत्राणरहिताभ्याम् । ६ पापोपशमनं = निर्मलीकरणम् । तथा च तन्त्रा-न्तरम् — “ केशश्मश्रुनखादीनां कल्पनं सम्प्रसादनम् " इति । ७ बाणवारंः = कन्जुकः, ' कवच ' इति लोके । ‘ कचुको वारवाणोऽस्त्री ' इत्यमरः । ८ शिरोवेष्टनधारणगुणानभि • दधाति - पवित्रमिति । उष्णीषं = शिरोवेष्टनम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 845

सुश्रुत संहिता चौखम्बा, पृष्ठ 845 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २४ ] Digitized by Arya Samaj Shehnai and Gangotri ६८ ९ वर्षाऽनिलरजोधर्महिमादीनां निवारणम् ॥ ७५ ॥

वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम् ।

शुनः सरीसृपव्यालविपाणिभ्यो भयापहम् ॥। ७६ ॥

श्रमस्खलन दोषघ्नं स्थविरे च प्रशस्यते ।

सत्त्वोत्साहबलस्थैर्य्यधैय्यै वीर्य्यविवद्धनम् ॥ ७७ ॥

अवष्टम्भकरं चापि भयघ्नं दण्डधारणम् ।

औस्या वर्णकफस्थौल्य सौकुमार्य्यकरी सुखा ॥ ७८ ॥

अव वर्णकफस्थौल्य सौकुमार्य्यविनाशनः ।

अत्यध्वा विपरीतोऽस्माज्जरादौर्बल्यकृच्च सः ॥ ७ ९ ॥

यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत् ।

तदायुर्बलमेधाऽग्निप्रदमिन्द्रियबोधनम् ॥ ८० ॥

श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम् ।

91" सुखं शय्यासनं, दुःखं विपरीतगुणं मतम् ॥ ८१ ॥

" वालव्यजन मौजस्यं मक्षिकादीनपोहति ।

शोषदाहश्रमस्वेदमूर्च्छानो व्यजनानिलः ॥ ८२ ॥

" प्रीतिनिद्राकरं वृष्यं कफवातश्रमापहम् ।

६१" संवाहनं मांसर क्तत्वक्प्रसादकरं सुखम् ॥ ८३ ॥

" " प्रवातं रौक्ष्य वैवर्ण्यस्तम्भकृद्दाहपक्तिनुत् ।

स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा ॥ ८४ ॥

१ छत्रधारणगुणानाचष्टे - वर्षेति । चरकः - " ईतेः प्रशमनं बल्यं गुप्त्याबरण · शङ्करम् । घर्मानिलरजोऽम्बुघ्नं छत्रधारणमुच्यते ॥ ” इति । २ शं कश्याणं करोतीति तत् शङ्करम् । ३ दण्डधारणगुणानाइ – शुन इति । ४ अवष्टम्भकरम् = अव-लम्बनकरमित्यर्थः । ५ आस्यागुणान् वक्ति- आस्येति । श्रस्या = स्थितिः । ६ चङ्क्रमणगुणानभिधत्ते - अध्वेति । ७ श्रत्यध्वा = अतिशयेन मार्गगमनम् । ८ चङ्क्रमणं = कुटिलगत्या परिभ्रमणम् । ९ सुखशय्यासनगुणान् प्रतिपादयति - श्रमेति । १० सुखं = मृदुगण्डोपधा-नादियोगात् सुखावहमित्यर्थः । ११ बालव्यजनानिलगुणानभिदधाति – बालेति । १२ संवाहनगुणानाह - प्रीतीति । १३ संवाहनम् = श्रङ्गमर्दनम् । १४ प्रवातमिवा-४४ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 846

सुश्रुत संहिता चौखम्बा, पृष्ठ 846 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ ९ ० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २४

सुखं वातं प्रसेवेत ग्रीष्मे शरदि मानवः ।

निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा ॥ ८५ ॥

आतपः पित्ततृष्णाऽग्निस्वेदमूर्च्छा भ्रमास्त्रकृत् ।

दाहवैवर्ण्यकारी च छाया चैतानपोहति ॥ ८६ ॥

अग्निर्वातकफस्तम्भशीत वेपथुनाशनः ।

आमाभिष्यन्दजरणो रक्तपित्तप्रदूषणः ॥ ८७ ॥

पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्द्रिताम् ।

करोति धातुसाम्यं च निद्रा काले निषेविता ॥ ८८ ॥

तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णी-षच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्वाभिभाषिणा बन्धुभूतेन भूतानां गुरुवृद्धानुमतेन सुसहायेनानन्यमनसा खलू-पचरितव्यं तदपि न रात्रौ न केशास्थिकण्टकाश्म तुषभस्मोत्कर कपालाङ्गारामेध्यस्नानबलिभूमिपु, न विषमेन्द्र कोलचतुष्पथश्वभ्रा-णामुपरिष्टात् ॥। ८ ९ ॥ न राजद्विष्टपरुषपैशुन्यानृतानि वदेत्, न देवब्राह्मणपितृ-तयोर्गुणानाख्याति – प्रवातमिति । १ श्रातपच्छाययोर्गुणान् वक्ति - भातप इति । २ श्रग्निसेवनगुणान् ब्रवीति - अग्निरिति । ३ निद्रागुणान् दर्शयति- पुष्टीति । ४ काले = दिवास्वापातिरिक्ते काले इत्यर्थः । तदुक्तं तन्त्रान्तरे - " दिवास्वापं न कुर्वीत यतोऽसौ स्यात्कफावहः । ग्रीष्म-वर्ज्येषु कालेषु दिवास्वप्नो निषिध्यते ॥ ” इति । दिवास्वापजनानाह तन्त्रान्तरे-" उचितो हि दिवा स्वप्नो नित्यं येषां शरीरिणाम् । वातादयः प्रकुप्यन्ति तेषामस्व पता दिवा ॥ " अपि च - " व्यायामप्रमदाऽध्ववाइनरतान् क्लान्ता नतीसारिणः, शूल-श्वासवतस्तृषापरिगतान् हिक्कामरुत्पीडितान् । क्षीणान् क्षीणकफान्धिशून् मदह • तान् वृद्धान् रसाजीणिंनो, रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत् ॥ ” अन्यच्च— “ दिवा वा यदि वा रात्रौ निद्रा सात्म्यीकृता तु यैः । न तेषां स्वप दोषो जाग्रतां चोपजायते ॥ ” इति । ५ स्वस्थैः सदा पालनीयं सद्वृत्तमुपदिशति -- तत्रादित इति । ६ उपच-रितव्यं = गन्तव्यमित्यर्थः । ७ उत्करः = तृणादिराशिः । ८ • यागार्थनिखातयूपो-पलक्षितः प्रदेशः इन्द्रकील:: इन्द्रार्थे कोला न्यस्यन्ते यस्मिन् देशे स प्रदेश इन्द्रकील CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 847

सुश्रुत संहिता चौखम्बा, पृष्ठ 847 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २४ bigitized by Arya Sa ब किस्सवस्थ nai and eGangotri ६ ९ १ परिवादांश्च न नरेन्द्रद्विष्टोन्मत्तपतितक्षुद्रनीचाचारानुपासीत ॥ ९ ० ॥ वृक्ष पर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि प रिहरेत्, पूर्णनदी समुद्रा विदितपल्वलश्व भ्रकूपावतरणानि, भिन्न-शून्यागारश्मशानविजनारण्यवासाग्निसम्भ्रमव्यालभुजङ्गकीटसेवा-श्च, ग्रामौघातकलहशस्त्रसन्निपातव्यालसरीसृपशृङ्गिसन्निक-पश्चि ॥ ९ १ ॥ नाग्निगोगुरुत्राह्मणप्रेङ्खादम्पत्यन्तरेणाभियायात्, न शवम-नुयायात्, देवगोत्राह्मणचैत्यध्वजरोगिपतितपापकारिणां च छायां नाक्रमेत, नास्तं गच्छन्तमुद्यन्तं वाऽऽदित्यं वीक्षेत, गां धापय-न्तीं धयन्तीं परशस्यं वा चरन्तीं परस्मै न कस्मैचिदाचक्षीत, न चोल्कापातेन्द्रधनूंषि, नाग्नि मुखेनोपधमेत् । नापो भूमि वा पाणिपादेनाभिहन्यात् ॥ ९ २ ॥ न वेगान् धारयेत्, न बहिर्वेगान् ग्रामनगरदेवताऽऽयतनश्म-शानचतुष्पथसलिलाशय पथिसन्निकृष्टानुत्सृजेन्न प्रकाशं न वा-' य्ववग्निसलिलसोमार्कगोगुरुप्रतिमुखम् ॥ ९ ३ ॥ इति ढल्हणः । १ परिवादः = विद्यमानदोषस्याभिधानम् । यथा - " परोवादस्तथ्यो भवतु वितथो वाऽपि महतां तथाऽप्युच्चैर्षाम्नां हरति महिमानं जनरवः । तुलोती. स्यापि प्रकटनिहताशेषतमसो रवेस्तादृक् तेजो न हि भवति कन्यां गतवतः ॥ ” इति । २ ' प्रपातः निर्झरः । ३ ग्रामाघातः == महामारीजनितग्रामहननम्, मरक इति यावत् । ४ प्रेङ्खा ' दोला तयोरन्तरेणेत्यर्थः । ' प्रेङ्खा दोलादिका स्त्रियाम् ' इत्यमरः । ५ ' नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन ' इति मनुः । ६ ' नावारयेद् गां धयन्तीं न चाचक्षीत कस्यचित् ' इतिमनुः । ७'न दिवन्द्रायुधं दृष्ट्वा कस्यचिद्दर्शयेद् बुधः ' इति मनुः । ' नामेध्यं

प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् । अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् ॥

न चैनं पादतः कुर्यात् ' इति मनुः । मनुः - ' न मूत्रं पथि कुर्वीत न भस्मनि न गोत्रजे । न फालकृष्टे न जले न चित्यां न च पर्वते ॥ न जीर्णदेवायतने न वल्मीके कदाचन । न ससरवेषु गर्तेषु न गच्छन्नपि च स्थितः ॥ न नदीतीरमासाद्य न च पर्वतमस्तके । वाय्वग्निविप्रमादि स्यमपः पश्यंस्तथैव गाः । न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ ” इति । अि CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 848

सुश्रुत संहिता चौखम्बा, पृष्ठ 848 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ ९ २ Digitized by Arya Samaj सुश्रुतसंहिताय rand eGangotri [ अ ० २४ न भूमिं विलिखेत्, नासंवृतंमुखः सदसि जृम्भोद्गार-श्वासक्षवथूनुत्सृजेत्, न पैर्य्यङ्किकावष्टम्भपादप्रसारणानि गुरु-सन्निधौ कुर्य्यात् ॥ ९ ४ ॥ न बालकर्णनासास्रोतोदशनविवराण्यभिकुष्णीयात्, न वीज-येत् केशमुखनखवस्त्रगात्राणि, न गात्रनखवक्त्रवादित्रं कुर्य्यात्, न काष्ठोष्ठतृणादीनभिहन्याद् भिन्द्याद् वा ॥ ९ ५ ॥ न प्रतिवातातपं सेवेत, न भुक्तमात्रोऽग्निमुपासीत, नोत्कटका -ल्पकाष्ठासनमध्यासीत, न ग्रीवां विषमं धारयेत्, न विषम-कायः क्रियां भजेत भुञ्जीत वा, न प्रततमीक्षेत विशेषाज्ज्योति-र्भास्करसूक्ष्मचलभ्रान्तानि, न भारं शिरसा वहेत्, न स्वप्नजाग-रणशयनासनस्थानचङ्क्रमणयानवाहनप्रधावनलङ्घनप्लवनप्रतर-णहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत ॥ ९ ६ ॥ उचितादव्यहितात् क्रमशो विरमेत्, हितमनुचितमध्या सेवेत क्रमशो न चैकान्ततः, पादहीनात् ॥ ९ ७ ॥ नावाक्शिराः शयीत, न भिन्नपात्रे भुञ्जीत, न विना पात्रेण, नाञ्जलिपुटेनापः पिबेत् काले हितमितस्निग्ध मधुरप्रायमाहारं वैद्यप्रत्यवेक्षित मश्नीयात्, " ग्रामगणगणिकापणिकशत्रुसत्रशठप-च — ' प्रत्यग्नि प्रतिसूर्यं च प्रतिसोमोदकद्विजान् । प्रतिगां प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥ ' इति । १ न असंवृतमाच्छादितं मुखं यस्य स नासंवृतमुखः । २ पर्य विका = खट्वा, श्रवष्टम्भः -- पृष्ठोपधानम् । ३ नाभिकुष्णीयात् = नाभिकर्षेत् । ४ ' न छिन्द्यान्नखलोमानि दन्तैर्नोत्पाटयेन्नखान् । न मृल्लोष्ठं च मृदुनीयान्न छिन्द्यात्करजैस्तृणम् ॥ ' इति मनुः । ५ आसनशब्दस्योत्कटादिभिः प्रत्येकं सम्बन्धः । ६ लङ्घनं = गर्तादिकमतिक्रम्य गमनम्, प्लवनम् = उरप्लुत्य गमनम् । ७ न चैकान्ततः = न सहसा, कथं? तद्दर्शपति - पादहीनादिति । पादं पादं विहायैव विरमेत्, सहसाऽधिकं त्यागे हानिः स्यादिति तात्पर्यम् । ८ ' न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ' इति मनुः । ९ ' न वार्यञ्जलिना पिबेत् ' इति मनुः । १० ग्रामभोजनं = बहुस्वामिकमन्नम्, ग्रामीणा मिलित्वा यत् किञ्चिदन्नं सम्पादयन्ति तद् ग्रामभोजनम् । गणाः = रथकारचारणादयः । ' गणान्नं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 849

सुश्रुत संहिता चौखम्बा, पृष्ठ 849 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्र ० २४ bigitized! चिकित्सास्थानम् mhai: Digitized by Arya Samaj Foundation Chenhai and eGangotri ६ ९ ३ तितभोजनानि परिहरेत्, शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्द-मानसानि, अन्यान्येवङ्गुणान्यपि वा सम्भूय दत्तानि, मक्षिका-बालोपहतानि, नाप्रक्षालितपाणिपादो भुञ्जीत न मूत्रोचारपीडितो न सन्ध्ययोर्नानुपाश्रितो नातीतकालं हीनमतिमात्रं चेति ॥ ९ ८ ॥

न भुञ्जीतो धृतस्नेहं नष्टं पर्युषितं पयः ।

नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम् ॥ ९९ ॥

दधि न नक्तं भुञ्जीत न चाप्यघृतशर्करम् ।

नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना ।

अन्यथा न जयेत् कुष्ठविसर्पादीन् गदान् बहून् ॥ १०० ॥

द्यूतमद्याति सेवाप्रतिभूसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत, स्रजं छत्रोपानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत् " ब्राह्मणमग्निं गाञ्च नोच्छिष्टः स्पृशेत् ॥ १०१ ॥

यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम् ।

तेषु तेषु प्रदातव्या रसास्ते ते विजानता ॥ १०२ ॥

वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया ।

वर्षासु चतुरो मासान् मात्रावदुदकं पिबेत् ॥ १०३ ॥

उष्णं हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम् ।

हेमन्ते च वसन्ते च सीध्वरिष्टौ पिवेन्नरः ॥ १०४ ॥

श्रुतशीतं पिबेद् ग्रीष्मे प्रावृट्काले रसं पिबेत् ।

यूषं वर्षति, तस्यान्ते प्रपिबेच्छीतलं जलम् ॥ १०५ ॥

म्वस्थ एवमतोऽन्यस्तु दोषाहारमतानुगः । गणिकान्नं च विदुषा च जुगुप्सितम् । स्तेनगायनयोश्चान्नं तदगो वार्धुषिकस्य च ॥ ' इत्यादिकं चतुर्थाध्याये मनुवचनमवलोकनीयम् । १ ' केशकीटावपन्नं च पदा स्पृष्टं च कामतः ' इति मनुः । २ ' न भुञ्जीतो धृतस्नेहं ' नातिसौहित्यमाचरेत् ' इति । ३ वादित्राणि - मृदङ्गादिवाद्यानि । ४ ' उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ' इति च । ५ ऋतुभेदेन पेयपानविधिमुपदिशति यस्मि न्निति । ६ न पिबेत् = ईषत् पिबेत् । मात्रया = अल्पपरिमाणेनेत्यर्थः । ७ कामं = यथेच्छम् ।८ तस्यान्ते = वर्षान्ते, शरदीत्यर्थः । ९ अन्यः = अस्वस्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 850

सुश्रुत संहिता चौखम्बा, पृष्ठ 850 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ ९ ४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २४ स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम् ॥ १०६ ॥

पिबेदग्निविवृद्धयर्थं न च वेगान् विधारयेत् ।

अग्निदीप्तिकरं नृणां रोगाणां शमनं प्रति ॥ १०७ ॥

प्रावृट्शरवसन्तेषु सम्यक् स्नेहादिमाचरेत् ।

कफे प्रच्छर्दनं पित्ते विरेको बस्तिरोरणे ॥ १०८ ॥

शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः ।

भुक्तं विरुद्धमप्यन्नं व्यायामान्न प्रकुप्यति ॥ १० ९ ॥

उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः ।

नेच्छेद्रोगभयात् प्राज्ञः पीडां वा कायमानसीम् ॥ ११० ॥

अतिस्त्रीसम्प्रयोगाच्च रक्षेदात्मानमात्मवान् ।

शूलकासज्वरश्वासकाश्यपाण्ड्वामयतयाः ॥ १११ ॥

अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः ।

आयुष्मन्तो मन्दजरा वपुर्णबलान्विताः ॥ ११२ ॥

स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः ।

त्रिभिस्त्रिभिरहोभिर्वा समीयात् प्रमदां नरः ॥ ११३ ॥

सर्वेष्यृतुषु, घर्मेषु पक्षात् पक्षाद् व्रजेद् बुधः ।

रजस्वलामकामाञ्च मलिनामप्रियां तथा ॥ ११४ ॥

वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् ।

हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम् ॥ ११५ ॥

" सगोत्रां गुरुपत्नीञ्च तथा प्रब्रजितामपि । १. श्रग्निदीपनोपायं दर्शयति- स्नेहमिति । २ स्वस्थातुस्योरुभयोरपि शोधनोपायं निर्दिशति – प्रावृडिति । ३ ई ( णे = वायावित्यर्थः । ४ न प्रकुप्य-ति न दोषचयमाप्नोति । ५ मैथुनं निषेधति - उत्सर्गेति । ६ स्त्रीसंसर्गं नियमयति— अतीति । ६ अकामां = मैथुनानभिलाषिणीमित्यर्थः । ७ वर्णवृद्धां = वर्णश्रेष्ठाम् । यथा शूद्रस्य वेश्या, वैश्यस्य क्षत्रिया, क्षत्रियस्य ब्राह्मणी गमनानह । मनुः - ' शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृता । ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥ इति । ९ मनुः - ' असपिण्डा च या मातु-रसगोत्रा च या पितुः । सा प्रशस्ता द्विजातीनां दारकमणि मंथुने ॥ ' इति CC - 0. Gurukul Kangri Collection, Haridwar