सुश्रुत संहिता चौखम्बा — पृष्ठ 841–850
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 841–850
पृष्ठ 841
पाठ पढ़ें पाठ छिपाएँ
छा ० २४ ] Digitized by Archer Chennai and eGangotri ६८५
वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम् ।
व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ॥ ४४ ॥
विदग्धमविदग्धं वा निर्दोषं परिपच्यते ।
व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ॥ ४५ ॥
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ।
सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ॥ ४६ ॥
बलेस्यार्द्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा ।
हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते ॥ ४७ ॥
व्यायामं कुर्वतो जन्तोस्तद्बलाधस्य लक्षणम् ।
वयोबलशरीराणि देशकालाशनानि च ॥ ४८ ॥
समीक्ष्य कुर्याद् व्यायाममन्यथा रोगमाप्नुयात् ।
क्षयतृष्णाऽरुचिच्छर्दि रक्तपित्तभ्रमक्लमाः ॥ ४ ९ ॥
कासशोषज्वरश्वासा अतिव्यायामसम्भवाः ।
रक्तपित्ती कृशः शोषी श्वासकासक्षयातुरः ॥ ५० ॥
भुक्तवान् स्त्रीषु च क्षीणो भ्रमार्त्तश्च विवर्जयेत् ।
उद्वैत्तनं वातहरं कफमेदोविलापनम् ॥ ५१ ॥
स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् ।
सिरोमुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ॥ ५२ ॥
उद्घर्षणोत्सादनाभ्यां जायेयातामसंशयम् ।
उत्सादनाद्भवेत् स्रोणां विशेषात् कान्तिमद्वपुः ॥ ५३ ॥
प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम् ।
उद्घर्षणं तु विज्ञेयं कण्डूकोठानिलापहम् ॥। ५४ ॥
१ शीतवसन्तातिरिक्त समये स्वल्पो व्यायामः करणीयः । तदाइ वाग्भट: - " शीत-काले वसन्ते च मन्दमेव ततोऽन्यदा " इति । २ बलस्यार्द्धेन = श्रर्धशक्त्येत्यर्थः । ३ श्रतिव्यायामेन दोषमाचष्टे - क्षयेति । ४ व्यायामानधिकारिणो निर्दिशति-रक्तपित्तीति । ५ उद्वर्तनगुणानभिधत्ते — उद्वर्तनमिति । उद्वर्तनस्य वातइरादयः पञ्चगुणाः । ६ उद्धर्षणोत्सादनयोर्गुणान् प्रतिपादयति - सिरेति । ७ उद्धर्षणं = झामकादिना CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 842
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Friland - eGangotri ऊर्वोः सञ्जनयत्याशुफेनेकः स्थैर्य्यलाघवे । [ अ ० २४ कण्डूकोठानिलस्तम्भमलरोगापहश्च सः ॥ ५५ ॥
तेजनं त्वग्गतस्याग्नेः सिरामुख विवेचनम् ।
उद्घर्षणं त्विष्टिकया कण्डूकोठविनाशनम् ॥ ५६ ॥
निद्रोदाहश्रमहरं स्वेदकण्डूतृषापहम् ।
हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविशोधनम् ॥ ५७ ॥
तन्द्रापापोपशमनं तुष्टिदं पुंस्त्ववर्द्धनम् ।
रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम् ॥ ५८ ॥
उष्णेन शिरसः स्नानमहितं चक्षुषः सदा ।
शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत् ॥ ५ ९ ॥
श्लेष्ममारुत कोपे तु ज्ञात्वा व्याधिबलाबलम् ।
काममुष्णं शिरःस्नानं भैषज्यार्थं समाचरेत् ॥ ६० ॥
अतिशीताम्बु शीते च श्लेष्ममारुतकोपनम् ।
अत्युष्णमुष्णकाले च पित्तशोणितवर्द्धनम् ॥ ६१ ॥
तँच्चातिसारज्वरितकर्णशूलानिलार्त्तिषु ।
आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम् ॥ ६२ ॥
सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्द्धनम् ।
स्वेददौर्गन्ध्यवैवर्ण्यश्रमध्नमनुलेपनम् ॥ ६३ ॥
स्नानं येषां निषिद्धं तु तेषामः नुलेपनम् ।
रक्षोघ्नमथ चौजस्यं सौभाग्यकरमुत्तमम् ॥ ६४ ॥
गात्रादिघर्षणम् । १ फेनकः = समुद्रफेनः । २ स्नानगुणानाख्याति - निद्रेति । ३ वाग्भटः– “ उष्णाम्बुनाऽधः कायस्य परिषेको बलावहः । तेनैव चोत्तमाङ्गस्य बलहृ-त्केशचक्षुषाम् ॥ ” इति । श्रामलकैः स्नानस्य गुणानाह भावप्रकाशे - " यः सदाऽऽम-लकैः स्नानं करोति स विनिश्चितम् । वलीपलितनिर्मुक्तो जीवेद्वर्षशतं नरः ॥ ” इति । ४ स्नानानहेजनान्नि दिशति — तच्चेति । तत् = स्नानम् । ५ अनुलेपनगुणान् ब्रवीति - सौभाग्यदमिति । ६ तेषामनुलेपनमपि निषिद्धमित्यर्थः 1 । ७ पुष्प - वस्त्र-रत्नधारणगुणानाख्याति- रक्षोघ्नमिति । भावप्रकाशे - " सुगन्धिपुष्पपत्राणां धारणं कान्तिकारकम् । पापरक्षो ग्रहहरं कामदं श्रीविवर्द्धनम् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 843
पाठ पढ़ें पाठ छिपाएँ
अ ० २४ ] Digitized by Arya hai and eGangotri ६८७
सुमनोम्बररत्नानां धारणं प्रीतिवर्द्धनम् ।
मुखौलेपाद् दृढं चक्षुःपीनगण्डं तथाऽऽननम् ॥। ६५ ॥
अव्यङ्गपिडकं कौन्तं भवत्यम्बुजसन्निभम् ।
पक्ष्मैलं विशदं कान्तममलोज्ज्वलमण्डलम् ॥ ६६ ॥
नेत्रमञ्जनसंयोगाद् भवेच्चामलतारकम् ।
यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्द्धनम् ॥ ६७ ॥
देवताऽतिथिविप्राणां पूजनं गोन्त्रंवर्द्धनम् ।
आहारः प्रीणनः सद्यो बलकृद् देहधारकः ॥ ६८ ॥
भावप्रकाशे शीतादिसमयभेदेन धारणाहवस्त्राणि तद्गुणाश्च प्रदर्शिताः । तथा हि— “ कौशेयौर्णिकवस्त्रं च रक्तवस्त्रं तथैव च । वातश्लेष्महरं तत्तु शीतकाले विचार-येत् ॥ ” कौशेयं पट्टाम्बरं तसरवस्त्रं चेति तदर्थः । " मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते । तद्धारयेदुष्णकाले तत्रापि लघु शस्यते ॥ " कषायं ' कौङ्कुमी ' इति लोके कषायरागरक्तं वेति तदर्थः । " शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम् । न चोष्ण न च वा शीतं तत्तु वर्षासु धारयेत् ॥ ” इति । प्रसङ्गान्मलिनवस्त्रधारणदोषोऽपि प्रद-शितः– “ कदाऽपि न जनैः सद्भिर्धार्यं मलिनमम्बरम् । तत्तु कण्डूक्रिमिकरं ग्ला-न्यलक्ष्मीकरं परम् ॥ ” इति । रत्नाभरणधारणगुणानाद तत्रैव - " ग्रहदृष्टिद रं पुष्टिकरं दुःस्वप्ननाशनम् । पापदौर्भाग्यशमनं रत्नाभरणधारणम् ॥ ” इति । १ सुमनः = पुष्पम् । २ मुखालेपनगुणानाद - मुखेति । ३ कान्तं = मनोरमं, ' कान्तं मनोरमं रुच्यं मनोज्ञं मन्जु मन्जुलम् ' इत्यमरः । ४ नेत्राञ्जनगुणानाचष्टे- पक्ष्मलमिति । ५ श्रमलोज्ज्वलमण्डलं - निर्मलोज्ज्वलनेत्र बहिर्भागम् । ६ देवताऽतिथिब्राह्मणपूज • नगुणानभिदधाति -यशस्यमिति । यशस्यं = यशस्करमित्यर्थः । ७ गोत्रवर्द्धनं = वंशवर्द्धनम् । आहारगुणान् ब्रवीति -- आहार इति । तन्त्रान्तरे भोजनसमयमाह - " अथोक्त-गुणसम्पन्नं नरः सेवेत भोजनम् । विचार्य दोषकालादीन् कालयोरुभयोरपि ॥ ” इति । " सायं प्रातर्मनुष्याणामशनं श्रुतिनोदितम् । नान्तरा भोजनं कुर्यादग्निहोत्र समो विधिः ॥ याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत् । याममध्ये रसोत्पत्तिर्यामयु · ग्माद् बलक्षयः ॥ क्षुरसम्भवति पक्वेषु रसदोषमलेषु च । काले वा यदि वाऽकाले सोऽन्नकाल उदाहृतः ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 844
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां -६८८ Digitized by Arya Samaj Poundation Chennai and eGangotri [ अ ० २४
आयुस्तेजः समुत्साह स्मृत्योजोऽग्निविवर्द्धनः ।
पादप्रक्षालनं पादमलरोगश्रमापहम् ॥। ६ ९ ॥
चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्द्धनम् ।
निद्रोकरो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत् ॥ ७० ॥
पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः ।
पादैरोगहरं वृष्यं रक्षोघ्नं प्रीतिवर्द्धनम् ॥ ७१ ॥
सुखप्रचारमोजस्यं सदा पात्रधारणम् ।
अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् ॥ ७२ ॥
पादभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम् ।
पापोर्पंशमनं केशनखरोमापमार्जनम् ॥ ७३ ॥
हर्षलाघव सौभाग्यकरमुत्साहवर्द्धनम् ।
बाणवारं मृजावर्ण तेजोबलविवर्द्धनम् ॥ ७४ ॥
पवित्रं केश्यमुष्णीषं वातातपरजोपहम् । जीर्णाद्दारस्य लक्षणम् - " उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः । घु क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ॥ ” इति । आहारस्थानमाह - " आहारं तु रहः कुर्यान्निर्द्वारमपि सर्वदा । उभाभ्यां लक्ष्म्युपेतः स्यात् प्रकाशे हीयते श्रिया ॥ ” इति । निर्धारः = मलमूत्रोत्सर्ग इति तदर्थः । श्रन्यच्च -- " आहारनिर्धारविहारयोगाः सदैव सद्भिर्विजने विधेयाः " इति । १ पादप्रक्षालनगुणान् दर्शयति – पादेति । २ पादाभ्यङ्गगुणानिदिंशति- -निद्रेति । चरके विशेष: - " खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिश्च पादयोः । सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात् ॥ जायते सौकुमार्ये च बलं स्थैर्यं च पादयोः । दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति ॥ न च स्याद् गृध्रसीवातः पादयोः स्फुटनं न च । न सिरास्नायुसङ्कोचः पादाभ्यङ्गेन पादयोः ॥ ” इति । ३ पादत्रधारणगु-यान् वक्ति - पादरोगेति । ४ पादत्रधारणं = पादुकादिधारणम् । ५ केशनखरोमहरणगुणानाख्याति - पादाभ्यामिति । अनुपानद्भयां = पादुका-दिपादत्राणरहिताभ्याम् । ६ पापोपशमनं = निर्मलीकरणम् । तथा च तन्त्रा-न्तरम् — “ केशश्मश्रुनखादीनां कल्पनं सम्प्रसादनम् " इति । ७ बाणवारंः = कन्जुकः, ' कवच ' इति लोके । ‘ कचुको वारवाणोऽस्त्री ' इत्यमरः । ८ शिरोवेष्टनधारणगुणानभि • दधाति - पवित्रमिति । उष्णीषं = शिरोवेष्टनम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 845
पाठ पढ़ें पाठ छिपाएँ
अ ० २४ ] Digitized by Arya Samaj Shehnai and Gangotri ६८ ९ वर्षाऽनिलरजोधर्महिमादीनां निवारणम् ॥ ७५ ॥
वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम् ।
शुनः सरीसृपव्यालविपाणिभ्यो भयापहम् ॥। ७६ ॥
श्रमस्खलन दोषघ्नं स्थविरे च प्रशस्यते ।
सत्त्वोत्साहबलस्थैर्य्यधैय्यै वीर्य्यविवद्धनम् ॥ ७७ ॥
अवष्टम्भकरं चापि भयघ्नं दण्डधारणम् ।
औस्या वर्णकफस्थौल्य सौकुमार्य्यकरी सुखा ॥ ७८ ॥
अव वर्णकफस्थौल्य सौकुमार्य्यविनाशनः ।
अत्यध्वा विपरीतोऽस्माज्जरादौर्बल्यकृच्च सः ॥ ७ ९ ॥
यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत् ।
तदायुर्बलमेधाऽग्निप्रदमिन्द्रियबोधनम् ॥ ८० ॥
श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम् ।
91" सुखं शय्यासनं, दुःखं विपरीतगुणं मतम् ॥ ८१ ॥
" वालव्यजन मौजस्यं मक्षिकादीनपोहति ।
शोषदाहश्रमस्वेदमूर्च्छानो व्यजनानिलः ॥ ८२ ॥
" प्रीतिनिद्राकरं वृष्यं कफवातश्रमापहम् ।
६१" संवाहनं मांसर क्तत्वक्प्रसादकरं सुखम् ॥ ८३ ॥
" " प्रवातं रौक्ष्य वैवर्ण्यस्तम्भकृद्दाहपक्तिनुत् ।
स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा ॥ ८४ ॥
१ छत्रधारणगुणानाचष्टे - वर्षेति । चरकः - " ईतेः प्रशमनं बल्यं गुप्त्याबरण · शङ्करम् । घर्मानिलरजोऽम्बुघ्नं छत्रधारणमुच्यते ॥ ” इति । २ शं कश्याणं करोतीति तत् शङ्करम् । ३ दण्डधारणगुणानाइ – शुन इति । ४ अवष्टम्भकरम् = अव-लम्बनकरमित्यर्थः । ५ आस्यागुणान् वक्ति- आस्येति । श्रस्या = स्थितिः । ६ चङ्क्रमणगुणानभिधत्ते - अध्वेति । ७ श्रत्यध्वा = अतिशयेन मार्गगमनम् । ८ चङ्क्रमणं = कुटिलगत्या परिभ्रमणम् । ९ सुखशय्यासनगुणान् प्रतिपादयति - श्रमेति । १० सुखं = मृदुगण्डोपधा-नादियोगात् सुखावहमित्यर्थः । ११ बालव्यजनानिलगुणानभिदधाति – बालेति । १२ संवाहनगुणानाह - प्रीतीति । १३ संवाहनम् = श्रङ्गमर्दनम् । १४ प्रवातमिवा-४४ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 846
पाठ पढ़ें पाठ छिपाएँ
६ ९ ० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २४
सुखं वातं प्रसेवेत ग्रीष्मे शरदि मानवः ।
निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा ॥ ८५ ॥
आतपः पित्ततृष्णाऽग्निस्वेदमूर्च्छा भ्रमास्त्रकृत् ।
दाहवैवर्ण्यकारी च छाया चैतानपोहति ॥ ८६ ॥
अग्निर्वातकफस्तम्भशीत वेपथुनाशनः ।
आमाभिष्यन्दजरणो रक्तपित्तप्रदूषणः ॥ ८७ ॥
पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्द्रिताम् ।
करोति धातुसाम्यं च निद्रा काले निषेविता ॥ ८८ ॥
तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णी-षच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्वाभिभाषिणा बन्धुभूतेन भूतानां गुरुवृद्धानुमतेन सुसहायेनानन्यमनसा खलू-पचरितव्यं तदपि न रात्रौ न केशास्थिकण्टकाश्म तुषभस्मोत्कर कपालाङ्गारामेध्यस्नानबलिभूमिपु, न विषमेन्द्र कोलचतुष्पथश्वभ्रा-णामुपरिष्टात् ॥। ८ ९ ॥ न राजद्विष्टपरुषपैशुन्यानृतानि वदेत्, न देवब्राह्मणपितृ-तयोर्गुणानाख्याति – प्रवातमिति । १ श्रातपच्छाययोर्गुणान् वक्ति - भातप इति । २ श्रग्निसेवनगुणान् ब्रवीति - अग्निरिति । ३ निद्रागुणान् दर्शयति- पुष्टीति । ४ काले = दिवास्वापातिरिक्ते काले इत्यर्थः । तदुक्तं तन्त्रान्तरे - " दिवास्वापं न कुर्वीत यतोऽसौ स्यात्कफावहः । ग्रीष्म-वर्ज्येषु कालेषु दिवास्वप्नो निषिध्यते ॥ ” इति । दिवास्वापजनानाह तन्त्रान्तरे-" उचितो हि दिवा स्वप्नो नित्यं येषां शरीरिणाम् । वातादयः प्रकुप्यन्ति तेषामस्व पता दिवा ॥ " अपि च - " व्यायामप्रमदाऽध्ववाइनरतान् क्लान्ता नतीसारिणः, शूल-श्वासवतस्तृषापरिगतान् हिक्कामरुत्पीडितान् । क्षीणान् क्षीणकफान्धिशून् मदह • तान् वृद्धान् रसाजीणिंनो, रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत् ॥ ” अन्यच्च— “ दिवा वा यदि वा रात्रौ निद्रा सात्म्यीकृता तु यैः । न तेषां स्वप दोषो जाग्रतां चोपजायते ॥ ” इति । ५ स्वस्थैः सदा पालनीयं सद्वृत्तमुपदिशति -- तत्रादित इति । ६ उपच-रितव्यं = गन्तव्यमित्यर्थः । ७ उत्करः = तृणादिराशिः । ८ • यागार्थनिखातयूपो-पलक्षितः प्रदेशः इन्द्रकील:: इन्द्रार्थे कोला न्यस्यन्ते यस्मिन् देशे स प्रदेश इन्द्रकील CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 847
पाठ पढ़ें पाठ छिपाएँ
अ ० २४ bigitized by Arya Sa ब किस्सवस्थ nai and eGangotri ६ ९ १ परिवादांश्च न नरेन्द्रद्विष्टोन्मत्तपतितक्षुद्रनीचाचारानुपासीत ॥ ९ ० ॥ वृक्ष पर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि प रिहरेत्, पूर्णनदी समुद्रा विदितपल्वलश्व भ्रकूपावतरणानि, भिन्न-शून्यागारश्मशानविजनारण्यवासाग्निसम्भ्रमव्यालभुजङ्गकीटसेवा-श्च, ग्रामौघातकलहशस्त्रसन्निपातव्यालसरीसृपशृङ्गिसन्निक-पश्चि ॥ ९ १ ॥ नाग्निगोगुरुत्राह्मणप्रेङ्खादम्पत्यन्तरेणाभियायात्, न शवम-नुयायात्, देवगोत्राह्मणचैत्यध्वजरोगिपतितपापकारिणां च छायां नाक्रमेत, नास्तं गच्छन्तमुद्यन्तं वाऽऽदित्यं वीक्षेत, गां धापय-न्तीं धयन्तीं परशस्यं वा चरन्तीं परस्मै न कस्मैचिदाचक्षीत, न चोल्कापातेन्द्रधनूंषि, नाग्नि मुखेनोपधमेत् । नापो भूमि वा पाणिपादेनाभिहन्यात् ॥ ९ २ ॥ न वेगान् धारयेत्, न बहिर्वेगान् ग्रामनगरदेवताऽऽयतनश्म-शानचतुष्पथसलिलाशय पथिसन्निकृष्टानुत्सृजेन्न प्रकाशं न वा-' य्ववग्निसलिलसोमार्कगोगुरुप्रतिमुखम् ॥ ९ ३ ॥ इति ढल्हणः । १ परिवादः = विद्यमानदोषस्याभिधानम् । यथा - " परोवादस्तथ्यो भवतु वितथो वाऽपि महतां तथाऽप्युच्चैर्षाम्नां हरति महिमानं जनरवः । तुलोती. स्यापि प्रकटनिहताशेषतमसो रवेस्तादृक् तेजो न हि भवति कन्यां गतवतः ॥ ” इति । २ ' प्रपातः निर्झरः । ३ ग्रामाघातः == महामारीजनितग्रामहननम्, मरक इति यावत् । ४ प्रेङ्खा ' दोला तयोरन्तरेणेत्यर्थः । ' प्रेङ्खा दोलादिका स्त्रियाम् ' इत्यमरः । ५ ' नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन ' इति मनुः । ६ ' नावारयेद् गां धयन्तीं न चाचक्षीत कस्यचित् ' इतिमनुः । ७'न दिवन्द्रायुधं दृष्ट्वा कस्यचिद्दर्शयेद् बुधः ' इति मनुः । ' नामेध्यं
प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् । अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् ॥
न चैनं पादतः कुर्यात् ' इति मनुः । मनुः - ' न मूत्रं पथि कुर्वीत न भस्मनि न गोत्रजे । न फालकृष्टे न जले न चित्यां न च पर्वते ॥ न जीर्णदेवायतने न वल्मीके कदाचन । न ससरवेषु गर्तेषु न गच्छन्नपि च स्थितः ॥ न नदीतीरमासाद्य न च पर्वतमस्तके । वाय्वग्निविप्रमादि स्यमपः पश्यंस्तथैव गाः । न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ ” इति । अि CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 848
पाठ पढ़ें पाठ छिपाएँ
६ ९ २ Digitized by Arya Samaj सुश्रुतसंहिताय rand eGangotri [ अ ० २४ न भूमिं विलिखेत्, नासंवृतंमुखः सदसि जृम्भोद्गार-श्वासक्षवथूनुत्सृजेत्, न पैर्य्यङ्किकावष्टम्भपादप्रसारणानि गुरु-सन्निधौ कुर्य्यात् ॥ ९ ४ ॥ न बालकर्णनासास्रोतोदशनविवराण्यभिकुष्णीयात्, न वीज-येत् केशमुखनखवस्त्रगात्राणि, न गात्रनखवक्त्रवादित्रं कुर्य्यात्, न काष्ठोष्ठतृणादीनभिहन्याद् भिन्द्याद् वा ॥ ९ ५ ॥ न प्रतिवातातपं सेवेत, न भुक्तमात्रोऽग्निमुपासीत, नोत्कटका -ल्पकाष्ठासनमध्यासीत, न ग्रीवां विषमं धारयेत्, न विषम-कायः क्रियां भजेत भुञ्जीत वा, न प्रततमीक्षेत विशेषाज्ज्योति-र्भास्करसूक्ष्मचलभ्रान्तानि, न भारं शिरसा वहेत्, न स्वप्नजाग-रणशयनासनस्थानचङ्क्रमणयानवाहनप्रधावनलङ्घनप्लवनप्रतर-णहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत ॥ ९ ६ ॥ उचितादव्यहितात् क्रमशो विरमेत्, हितमनुचितमध्या सेवेत क्रमशो न चैकान्ततः, पादहीनात् ॥ ९ ७ ॥ नावाक्शिराः शयीत, न भिन्नपात्रे भुञ्जीत, न विना पात्रेण, नाञ्जलिपुटेनापः पिबेत् काले हितमितस्निग्ध मधुरप्रायमाहारं वैद्यप्रत्यवेक्षित मश्नीयात्, " ग्रामगणगणिकापणिकशत्रुसत्रशठप-च — ' प्रत्यग्नि प्रतिसूर्यं च प्रतिसोमोदकद्विजान् । प्रतिगां प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥ ' इति । १ न असंवृतमाच्छादितं मुखं यस्य स नासंवृतमुखः । २ पर्य विका = खट्वा, श्रवष्टम्भः -- पृष्ठोपधानम् । ३ नाभिकुष्णीयात् = नाभिकर्षेत् । ४ ' न छिन्द्यान्नखलोमानि दन्तैर्नोत्पाटयेन्नखान् । न मृल्लोष्ठं च मृदुनीयान्न छिन्द्यात्करजैस्तृणम् ॥ ' इति मनुः । ५ आसनशब्दस्योत्कटादिभिः प्रत्येकं सम्बन्धः । ६ लङ्घनं = गर्तादिकमतिक्रम्य गमनम्, प्लवनम् = उरप्लुत्य गमनम् । ७ न चैकान्ततः = न सहसा, कथं? तद्दर्शपति - पादहीनादिति । पादं पादं विहायैव विरमेत्, सहसाऽधिकं त्यागे हानिः स्यादिति तात्पर्यम् । ८ ' न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ' इति मनुः । ९ ' न वार्यञ्जलिना पिबेत् ' इति मनुः । १० ग्रामभोजनं = बहुस्वामिकमन्नम्, ग्रामीणा मिलित्वा यत् किञ्चिदन्नं सम्पादयन्ति तद् ग्रामभोजनम् । गणाः = रथकारचारणादयः । ' गणान्नं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 849
पाठ पढ़ें पाठ छिपाएँ
श्र ० २४ bigitized! चिकित्सास्थानम् mhai: Digitized by Arya Samaj Foundation Chenhai and eGangotri ६ ९ ३ तितभोजनानि परिहरेत्, शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्द-मानसानि, अन्यान्येवङ्गुणान्यपि वा सम्भूय दत्तानि, मक्षिका-बालोपहतानि, नाप्रक्षालितपाणिपादो भुञ्जीत न मूत्रोचारपीडितो न सन्ध्ययोर्नानुपाश्रितो नातीतकालं हीनमतिमात्रं चेति ॥ ९ ८ ॥
न भुञ्जीतो धृतस्नेहं नष्टं पर्युषितं पयः ।
नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम् ॥ ९९ ॥
दधि न नक्तं भुञ्जीत न चाप्यघृतशर्करम् ।
नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना ।
अन्यथा न जयेत् कुष्ठविसर्पादीन् गदान् बहून् ॥ १०० ॥
द्यूतमद्याति सेवाप्रतिभूसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत, स्रजं छत्रोपानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत् " ब्राह्मणमग्निं गाञ्च नोच्छिष्टः स्पृशेत् ॥ १०१ ॥
यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम् ।
तेषु तेषु प्रदातव्या रसास्ते ते विजानता ॥ १०२ ॥
वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया ।
वर्षासु चतुरो मासान् मात्रावदुदकं पिबेत् ॥ १०३ ॥
उष्णं हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम् ।
हेमन्ते च वसन्ते च सीध्वरिष्टौ पिवेन्नरः ॥ १०४ ॥
श्रुतशीतं पिबेद् ग्रीष्मे प्रावृट्काले रसं पिबेत् ।
यूषं वर्षति, तस्यान्ते प्रपिबेच्छीतलं जलम् ॥ १०५ ॥
म्वस्थ एवमतोऽन्यस्तु दोषाहारमतानुगः । गणिकान्नं च विदुषा च जुगुप्सितम् । स्तेनगायनयोश्चान्नं तदगो वार्धुषिकस्य च ॥ ' इत्यादिकं चतुर्थाध्याये मनुवचनमवलोकनीयम् । १ ' केशकीटावपन्नं च पदा स्पृष्टं च कामतः ' इति मनुः । २ ' न भुञ्जीतो धृतस्नेहं ' नातिसौहित्यमाचरेत् ' इति । ३ वादित्राणि - मृदङ्गादिवाद्यानि । ४ ' उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ' इति च । ५ ऋतुभेदेन पेयपानविधिमुपदिशति यस्मि न्निति । ६ न पिबेत् = ईषत् पिबेत् । मात्रया = अल्पपरिमाणेनेत्यर्थः । ७ कामं = यथेच्छम् ।८ तस्यान्ते = वर्षान्ते, शरदीत्यर्थः । ९ अन्यः = अस्वस्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 850
पाठ पढ़ें पाठ छिपाएँ
६ ९ ४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २४ स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम् ॥ १०६ ॥
पिबेदग्निविवृद्धयर्थं न च वेगान् विधारयेत् ।
अग्निदीप्तिकरं नृणां रोगाणां शमनं प्रति ॥ १०७ ॥
प्रावृट्शरवसन्तेषु सम्यक् स्नेहादिमाचरेत् ।
कफे प्रच्छर्दनं पित्ते विरेको बस्तिरोरणे ॥ १०८ ॥
शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः ।
भुक्तं विरुद्धमप्यन्नं व्यायामान्न प्रकुप्यति ॥ १० ९ ॥
उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः ।
नेच्छेद्रोगभयात् प्राज्ञः पीडां वा कायमानसीम् ॥ ११० ॥
अतिस्त्रीसम्प्रयोगाच्च रक्षेदात्मानमात्मवान् ।
शूलकासज्वरश्वासकाश्यपाण्ड्वामयतयाः ॥ १११ ॥
अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः ।
आयुष्मन्तो मन्दजरा वपुर्णबलान्विताः ॥ ११२ ॥
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः ।
त्रिभिस्त्रिभिरहोभिर्वा समीयात् प्रमदां नरः ॥ ११३ ॥
सर्वेष्यृतुषु, घर्मेषु पक्षात् पक्षाद् व्रजेद् बुधः ।
रजस्वलामकामाञ्च मलिनामप्रियां तथा ॥ ११४ ॥
वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् ।
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम् ॥ ११५ ॥
" सगोत्रां गुरुपत्नीञ्च तथा प्रब्रजितामपि । १. श्रग्निदीपनोपायं दर्शयति- स्नेहमिति । २ स्वस्थातुस्योरुभयोरपि शोधनोपायं निर्दिशति – प्रावृडिति । ३ ई ( णे = वायावित्यर्थः । ४ न प्रकुप्य-ति न दोषचयमाप्नोति । ५ मैथुनं निषेधति - उत्सर्गेति । ६ स्त्रीसंसर्गं नियमयति— अतीति । ६ अकामां = मैथुनानभिलाषिणीमित्यर्थः । ७ वर्णवृद्धां = वर्णश्रेष्ठाम् । यथा शूद्रस्य वेश्या, वैश्यस्य क्षत्रिया, क्षत्रियस्य ब्राह्मणी गमनानह । मनुः - ' शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृता । ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥ इति । ९ मनुः - ' असपिण्डा च या मातु-रसगोत्रा च या पितुः । सा प्रशस्ता द्विजातीनां दारकमणि मंथुने ॥ ' इति CC - 0. Gurukul Kangri Collection, Haridwar