सुश्रुत संहिता चौखम्बा — पृष्ठ 851–860

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 851–860

पृष्ठ 851

सुश्रुत संहिता चौखम्बा, पृष्ठ 851 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

० २४ ] Digitized by Arya chai ehnai and eGangotri ६ ९ ५ सन्ध्यापर्वस्वगम्याञ्च नोपेयात् प्रमदां नरः ॥ ११६ ॥

गोसेर्गे चार्द्धरात्रे च तथा मध्यन्दिनेषु च ।

लज्जासमावहे देशे विवृतेऽशुद्ध एव च ॥ ११७ ॥

क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः ।

वातविण्मूत्रवेगी च पिपासुरतिदुर्बलः ॥ ११८ ॥

तिर्यग्योनावयोनौ च प्राप्तशुक्रविधारणम् ।

दुष्टयोनौ विसर्गन्तु बलवानपि वर्जयेत् ॥ ११ ९ ॥

रेतसञ्चातिमात्रन्तु मूर्द्धावरणमेव च ।

स्थितावुत्तानशयने विशेषेणैव गर्हितम् ॥ १२० ॥

क्रीडायामपि मेधावी हितार्थी परिवजयेत् ।

रजस्वलां प्राप्तवतो नरस्यानियतात्मनः ॥ १२१ ॥

दृष्ट्या युस्तेजसां हानिरधर्मश्च ततो भवेत् e लिङ्गिनीं गुरुपत्नीञ्च सगोत्रामथ पर्वसु ॥ १२२ ॥

वृद्धाश्ञ्च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः ।

गर्भिण्यां " गर्भपीडा स्याद् व्याधितायां बलक्षयः ॥१२३ ॥

हीनाङ्गीं मलिनां द्वेष्यां कामं वन्ध्यामसंवृते " I १ पर्वाणि - ' चतुर्दश्यष्टमी चैव अमावास्याऽथ पूर्णिमा । पर्वाण्येतानि राजेन्द्र! रवि: सङ्क्रान्तिरेव च ॥ ' इति । ' तासामाद्यश्चतस्रस्तु निन्दितैकादशी च या । त्रयोदशी च शेषास्ते प्रशस्ता दशरात्रयः ॥ ' ' मघा मूल च वर्जयेत् ' इत्यादिधर्म-शास्त्रवचनमप्यनुसन्धातव्यम् । २ गोसर्गे = प्रभाते | ३ विवृते = नाच्छादिते देशे । स्त्रीसेवनयोग्यस्थानमुक्तम् — ' विहारं भार्यया कुर्याद् देशेऽतिशय संवृते । रम्ये श्राव्याङ्गनागाने सुगन्धे सुखमारुते ॥ ' इति । ४ अतिदुर्बलो नोपेयादिति पूर्वक्रियया सम्बन्धः । ५ तिर्यग्योनिः = पशुयोनिः, प्रयोनिः = अल्पयोनिः प्राप्तशुकविधारणं प्राप्तस्य निर्गमनायोद्यतस्य शुकस्य विधारणम् । ६ मूर्धावरणं = लिङ्गमणेरुष्णीषवदावरणम् । ७ स्थितौ = ऊर्ध्वो भावावस्थायाम् । म् । ८ प्राप्तवतः = गच्छत इत्यर्थः । श्रनियतात्मनः = अवशेन्द्रियस्य । ९ लिङ्गिनीं = संन्यासादिलिङ्गधारिणीम् । १० गर्भिण्य t स्त्रियां ' मैथुनकरणे ' इति शेषः । ११ असं • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 852

सुश्रुत संहिता चौखम्बा, पृष्ठ 852 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ ९ ६ Digitized by Arya Sam अश्रुतमादाय hai and eGangotri [ अ ० २४ देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत् ॥ १२४ ॥

क्षुधितः क्षुब्धंचित्तश्च मध्याह्ने तृषितोऽबलः ।

स्थितश्च हानिं शुक्रस्य वायोः कोपञ्च विन्दति ॥ १२५ ॥

अतिप्रसङ्गाद्भवति शोषः शुक्रक्षयावहः ।

व्याधितम्य रुजा प्लीह्नि मृत्युर्मूर्च्छा च जायते ॥ १२६ ॥

प्रत्यूषस्यर्द्धरात्रे च वातपित्ते प्रकुप्यतः ।

तिर्यग्योनावयोनौ च दुष्टयोनौ तथैव च ॥ १२७ ॥

उपदंशस्तथा वायोः कोपः शुक्रस्य च क्षयः ।

उच्चारिते मूत्रिते च रेतसश्च विधारणे ॥ १२८ ॥

उत्ताने च भवेच्छीघ्रं शुक्राश्मर्यास्तु सम्भवः ।

सर्वं परिहरेत् तस्मादेतल्लोकद्वयेऽहितम् ॥ १२ ९ ॥

शुक्रं चोपस्थितं मोहान्न सन्धार्यं कथञ्चन ।

वयोरूपगुणोपेतां तुल्यशीलां कुलान्विताम् ॥ १३० ॥

अँभिकामोऽभिकामान्तु हृष्टो हृष्टामलङ्कृताम् ।

सेवेत प्रमदां युक्त्या वाजीकरणबृंहितः ॥ १३१ ॥

भक्ष्याः सशर्कराः क्षीरं ससितं रस एव च ।

स्नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु ॥ १३२ ॥

मुखै मात्रं समासेन सद्वृत्तस्यैतदीरितम् । वृते = अनाच्छादिते देशे इत्यर्थः । १ क्षुब्धचित्तः = सचलितमानसः । २ विन्दति लभते इत्यर्थः । ३ प्रत्यूषसि == प्रभाते । ४ उच्चारिते = पुरीषवेगयुक्ते, ' उच्चारा-वस्करौ शमलं शकृत् । पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ ' इत्यमरः । मूत्रिते = मूत्रवेगयुक्ते इत्यर्थः । ५ लोकद्वये = इहलोके परलोके चेत्यर्थः । ६ वयः किशोरावस्था, रूपं मनोहरं, गुणो दाक्षिण्यादिस्तैरुपेतां युक्तामित्यर्थः । तुल्यशीलां तुल्यः समानः शीलो यस्याः सा तथोक्ताम् । ७ अभिकामः = सकामः, अभिकामां = सकामाम् । ८ रसः = मांसरसः । ९ स्नानमिदं ग्रीष्मादौ दिवा मैथुने व्यवस्थापनीयम् । व्यवायान्ते = मैथ॒नान्ते इत्यर्थः । १० सद्वृत्तमुपसंहरति - मुखेति । मुखशब्दोऽत्र प्रधानवाचकः, तेन CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 853

सुश्रुत संहिता चौखम्बा, पृष्ठ 853 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २५ ] Digitized by Arya उक्त किता ai and eGangotri ६ ९ ७ आरोग्यमायुरर्थो वा नौसद्भिः प्राप्यते नृभिः ॥ १३३ ॥

इति सुश्रुतसंहितायां चिकित्सास्थानेऽनागताबाधचिकित्सितं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥

पञ्चविंशतितमोऽध्यायः ।

अथातो मिश्रकचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

पाल्यामयास्तु विस्राव्या इत्युक्तं प्राङ्निबोध तान् ।

परिपोटस्तथोत्पात उन्मन्थो दुःखवर्द्धनः ॥ ३ ॥

पञ्चमः परिलेही च कर्णपाल्या गदा स्मृताः ।

सौकुर्याच्चिरोत्सृष्टे सहसाऽभिप्रवर्द्धिते ॥ ४ ॥

कर्णशोफो भवेत् पाल्यां सरुजः पँरिपोटवान् ।

कृष्णारुणनिभः स्तब्भः स वातात् परिपोटकः ॥ ५ ॥

गुर्वाभरणसंयोगात् ताडनाद् घर्षणादपि ।

शोफः पाल्यां भवेच्छ्यावो दाहपाकरुगन्वितः ॥ ६ ॥

मुस्वमात्रं प्रधानमात्रमित्यर्थः । १ असद्भिः = असच्चरितैरित्यर्थः । १ इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां चतुर्विंशतितमोऽध्यायः । पञ्चविंशतितमोऽध्यायः । २ कपालीगतरोगनामधेयमभिधत्ते - पाल्या मया इति । विनाव्या इत्युक्तं सूत्रस्थानसा पञ्चविंशतितमेऽध्याये - " स्राव्या विद्रधयः पञ्च भवेयुः सर्वजादृते । कुष्ठानि वाधुः सरुजः शोफो यश्चेकदेशजः । पाल्यामयाः श्लीपदानि विषजुष्टं च शोणितम् " इत्यादिना । ३ परिपोष्टलक्षणं दर्शयति-- सौकुमार्यादिति । कर्णे चिरोत्सृष्टे बहुकालमुपे. क्षिते सहसा झटिति प्रवर्धिते सौकुमार्याद्धेतोः पाल्यां शोफः सरुगिस्यादिलक्षणयुक्तः स्यात् । सवातात्परिपोटको रोगः स्यात् । चिरोत्सृष्टत्वे सौकुमार्य हेतुरिति डल्हणा शयः । ४ परिपोटवान् - मनाक् स्वगवदरणवान् । ५ उत्पातलक्षणमभिदधाति -गुर्विति । ६ श्यावश्वमत्र व्याधिप्रभावात् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 854

सुश्रुत संहिता चौखम्बा, पृष्ठ 854 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ ९ ८ Digitized by Arya Sama सुश्रुत संहितायां a and eGangotri [ अ ० २५

रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः ।

बलाद्वर्द्धयतः कर्णं पाल्यां वायुः प्रकुप्यति ॥ ७ ॥

गृहीत्वा सकफं कुर्याच्छोफं तद्वर्णवेदनम् ।

उन्मन्थकः सकण्डूको विकारः कफवातजः ॥ ८ ॥

वर्द्धमाने यदा कर्णे कण्डूदाहरुगन्वितः ।

शोफो भवति पाकश्च त्वक्स्थोऽसौ दुःखवर्द्धनः ॥ ९ ॥

कफौसृक्कृमयः कुर्युः सर्षपाभा विकारिणीः ।

स्राविणीः पिडकाः पाल्यां कण्डूदाहरुगन्विताः ॥ १० ॥

कफासृक्कुमिसम्भूतः स विसर्पान्वितस्ततः ।

लिह्यात् सशष्कुलीं पालीं परिलेहीति स स्मृतः ॥ ११ ॥

पाल्यामया ह्यमी घोरा नरस्याप्रतिकारिणः ।

मिथ्याहारविहारस्य पालिं हिंस्युरुपेक्षिताः ॥ १२ ॥

तस्मादाशु भिषक् तेषु स्नेहादिक्रममाचरेत् ।

तथाऽभ्यङ्गपरी षेकप्रदेहासृग्विमोक्षणम् ॥ १३ ॥

सामान्यतो विशेषाच्च वक्ष्याम्यभ्यञ्जनं प्रति ।

खरमञ्जरियष्ट्याह्वसैन्धवामरदारुभिः ॥ १४ ॥

सुपिष्टैः साश्वगन्धैश्च मूलकावल्गुजैः " फलैः । १ उन्मन्थस्य लक्षणमाख्याति - बलादिति । २ ' तद्वर्णवेदनम् ' इत्यत्र ' स्तब्धम-वेदनम् ' इति पाठान्तरम् । ३ दुःखवर्द्धनस्य लक्षणमभिधत्ते - वर्द्धमान इति । दुःखवर्द्धनाद्धेतोः दुःखवर्द्धनको नाम रोगः । ४ परिलेहिनो लक्षणमभिदधाति - कफेति । ५ सः पिडकारमको विकारः । ६ लिलात् = निर्म / सीकुर्यात् श्राच्छादयेद् वा । शष्कुली बाह्यपाल्यधिष्ठिता तत्स-हितां सशष्कुलीम् । ७ श्रप्रतिकारिणः = अचिकित्स्यमानस्येत्यर्थः । ८ स्नेह आदि-र्यस्य वमनादेः स स्नेहादिः स चासौ क्रमस्तम् । वातिकेऽभ्यङ्गानुवासनप्रदेद्दादि, पैत्तिके विरेचनम्, श्लैष्मिके वमनम्, रक्तपैत्तिके रक्तापकर्षण विरेकपरिषेकादिका क्रिया, क्रिमिजे क्रिमिघ्नश्च विधिः । ९ सर्वेषां सामान्यचिकित्सितमभिधाय प्रथमं तावत परिपोटकस्य चिकित्सामा-चष्टे - खरमञ्जरीति । खरमअरिः = अपामार्गः । अवल्गुजः = सोमराजी, १० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 855

सुश्रुत संहिता चौखम्बा, पृष्ठ 855 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

“ अ ० २५ ] Digitized by Arya व कितना आत ehnai and eGangotri सर्पिस्तैलवसामज्जमधूच्छिष्टानि पाचयेत् ॥ १५ ॥

सक्षीराण्यथ तैः पालिं प्रदिह्यात् परिपोटके ।

मञ्जिष्ठातिल यष्ट्याहसारिवोत्पलपद्मकैः ॥ १६ ॥

सरोधैः सकदम्बैश्च बलाजम्ब्वाम्रपल्लवैः ।

सिद्धं धान्याम्लसंयुक्तं तैलमुत्पातनाशनम् ॥ १७ ॥

तालपत्र्यश्वगन्धार्कबाकुची फल सैन्धवैः ।

तैलं कुलीरगोधाभ्यां वसया सह पाचितम् ॥ १८ ॥

सरलालाङ्गलीभ्याञ्च हितमुन्मन्थनाशनम् ।

तथाऽश्मन्तकजम्ब्वाम्रपत्रकाथेन सेचनम् ॥ १ ९ ॥

प्रपौण्डरीकमधुकमञ्जिष्टारंजनीद्वयैः ।

चूर्णैरुद्वर्त्तनैः पालीं तैलाक्तामवचूर्णयेत् ॥ २० ॥

लाक्षविडङ्गकल्केन तैलं पक्त्वाऽवचारयेत् ।

स्विन्नां गोमयपिण्डेन प्रदिह्यात् परिलेहिके ॥ २१ ॥

पिष्टैर्विडङ्गैरथवा त्रिवृच्छयामाऽर्कसंयुतैः ।

करजेदिबीजैर्वा कुटं जारग्बधायुतैः ॥ २२ ॥

सर्वैर्वा सार्षपं तैलं सिद्धं मरिचसंयुतम् ।

सनिम्बपत्रैरभ्यङ्गे मधूच्छिष्टान्वितं हितम् ॥ २३ ॥

पालीषु व्याधियुक्तासु तन्वीषु ५० कठिनासु च । पुष्ट्यर्थं मार्दवार्थञ्च कुर्य्यादभ्यञ्जनं त्विदम् ॥ २४ ॥,

लोपकानूपमज्जानं वसां तैलं नवं घृतम् । ६ ९९ ' बाकुची ' इति ख्यातः । ' श्रवल्गुजः सोमराजी सुबल्लि: सोमवल्लिका । कालमेषी कृष्णफला बाकुची पूतिफल्यपि । इत्यमरः । १ मधूच्छिष्ट = ' मोम ' इति प्रथते । २ उत्पातस्य चिकित्सां वक्ति - मञ्जिष्ठेति । ३ बला = ' खरेटी ' इति ख्याता । ४ उन्मन्थस्य चिकित्सितं ब्रवीति - तालपत्रीति । तालपत्री = मूषिकपर्णी ', ' मुसली ' इति, गोधा = ' गोह ' इति च प्रथते । ६ सरला लोके । ५ कुलीर: - ' कैकड़ा ' इति देवदारुः, लाङ्गली कलिहारिका, ताभ्यामित्यर्थः । ७ रजनीद्वयैः = हरिद्राद्वयेः । ८ परिलेहिनश्चिकित्सां प्रतिपादयति - लाक्षेति । ९ कुटजः = ' कुड़ा ' इति ख्यातः । १० तन्वीषु = कोमलासु । ११ लोपाकः = शृगालः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 856

सुश्रुत संहिता चौखम्बा, पृष्ठ 856 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७०० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २५ पचेद्दशगुणं क्षीरमावाप्य मधुरं गणम् ॥ २५ ॥

अपामार्गाश्वगन्धे च तथा लाक्षारसं शुभम् ।

तत्सिद्धं परिपूतञ्च स्वनुगुप्तं निधापयेत् ॥ २६ ॥

तेनाभ्यज्यात् सदा पालीं सुखिन्नामतिमर्दिताम् ।

एतेन पाल्यो वर्द्धन्ते निरुजो निरुपद्रवाः ॥ २७ ॥

मृद्वयः पुष्टाः समाः स्निग्धा जायन्ते भूषणक्षमाः ।

३ नीलीदलं भृङ्गरजोऽर्जुनत्व कूपिण्डीतकं कृष्णमयोरजश्च ।

बीजोद्भवं साहचरञ्च पुष्पं पथ्याऽक्षधात्रीसहितं विचूर्ण्य ॥ २८ ॥

एकीकृतं सर्वमिदं प्रेमाय पङ्केन तुल्यं नलिनीभवेन ।

संयोज्य पक्षं कलशे निधाय लौहे घटे सद्मनि सौपिधाने ॥ २ ९ ॥

अनेन तैलं विपचेद् विमिश्रं रसेन भृङ्गत्रिफलाभवेन ।

आसन्नपाके च परीक्षणार्थं पत्रं बलाकाभवमाक्षिपेच्च ॥ ३० ॥

भवेद् यदा तद्? मराङ्गनीलं तदा विपक्कं विनिधाय पात्रे ।

कृष्णायसे मासमवस्थितं तदद्भ्यङ्गयोगात्पलितानि हन्यात् ॥ ३१ ॥

सैरीय जम्ब्वर्ज नकाश्मरीजं पुष्पं तिलान्मार्क व चूतबीजे पुनर्नवे कर्दर्म कण्टकार्यों कासीसपिण्डीतकबीजसारम् ॥ ३२ ॥

फल त्र्यं लोहरजोऽञ्जनञ्च यष्ट्याह्वयं नीरजसारिवे च । १ मधुरं - काकोल्यादिमधुरद्रव्यम् । २ अश्वगन्धः = ‘ असगन्ध ' इति ख्यातः । ३ पलिते नीलीतैलं निर्दिशति - नीलोति । नीली ' नील ' इति ख्याता तद्दलं पत्रमित्यर्थः । भृङ्गरज: = ' भांगरा ' इति । अर्जुनः ककुभस्तस्य स्वक् वल्कलम् । पिण्डीतकंकृष्णपुष्पमदनफलम् । ४ बीजोद्भवं = मातुलुङ्ग सम्भवं पुष्पम्, सहचरः = ' सहदेई ' इति ख्यातः, तत्सम्बन्धि पुष्पम् । ५ प्रमाय ६ = तोलयित्वा । सापि धाने = साच्छादने । ' अपिधानतिरोधान पिधानाच्छादनानि च ' इत्यमरः । ७ बला • काभवं = बकभषं, पत्रं = पक्ष मित्यर्थः । ' पत्र तु वाहने पर्णे पक्षे च शरपक्षिणोः ' इति विश्वः । भवेदित्यर्थ. ९ पलितानि । = जरसा केश-८ यदा तत् पक्षं भ्रमराङ्गवन्नीलं 1 शौक्यादीनि । १० पलिते योगान्तरं निर्दिशति — सैरीयेति । सैरीयः = झिण्टी । ११ माकंवः = भृङ्गराजः । १२ कर्दमः = कमलिनीमूलपङ्कः, पिण्डीतकः = पाण्डुरवर्णं मदनफलम्, बीजसारम् = असनसारम् । १३ फलत्रयं = त्रिफलेत्यर्थः । श्रञ्जनं = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 857

सुश्रुत संहिता चौखम्बा, पृष्ठ 857 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized चकित्सास्थानम् " by Aryasarpal Arya Foundation Chennai and eGangotri ७०१ पिष्ट्वाऽथ सर्वं सह मोदयन्त्या साराम्भसा बीजकसम्भवेन ॥ ३३ ॥

साराम्भ॑सः सप्तभिरेव पश्चात् प्रस्थैः समालोड्य दशाहगुप्तम् ।

लौहे सुपात्रे विनिधाय तैलमदोद्भवं तच्च पचेत् प्रयत्नात् ॥ ३४ ॥

पक्कञ्च लौऽभिनवे निधायें नस्यं विदध्यात् परिशुद्धकायः ।

अभ्यङ्गयोगैश्च नियुज्यमानं भुञ्जीत माषान् कृशरामथो वा ॥ ३५ ॥

मासोपरिष्टाद्धन कुञ्चितायाः केशा भवन्ति भ्रमराञ्जनाभाः ।

केशास्तथाऽन्ये खलैतौ भवेयुर्जरा न चैनं सहसाऽभ्युपैति ॥ ३६ ॥

बलं परं सम्भवतीन्द्रियाणां भवेच्च वक्त्रं बलिभिर्विमुक्तम् ।

नाकामिनेऽनर्थिनि नाकृताय नैवारये तैलमिदं प्रदेयम् ॥ ३७ ॥

लाक्षा रोघ्रं द्वे हरिद्रे शिलाऽऽले कुष्ठं नागं गैरिका वर्णकाश्च ।

मञ्जिष्टोमी स्यात् सुराष्ट्रोद्भवा च पत्तङ्गं वै रोचना चाञ्जनञ्च ॥ ३८ ॥

हेमाङ्गत्वक् पाण्डुपत्रं वटस्य कालीयं स्यात् पद्मकं पद्ममध्यम् ।

रक्तं श्वेतं चन्दनं पारदञ्च काकोल्यादिः क्षीरपिष्टश्च वर्गः ॥ ३ ९ ॥

मेदो मज्जा सिक्थकङ्गोघृतञ्च दुग्धं काथः क्षीरिणाञ्च द्रुमाणाम् ।

एतत् सर्वं पक्वमैकध्यतस्तु वक्त्राभ्यङ्गे सर्पिरुक्तं प्रधानम् ॥ ४० ॥

हन्याद् व्यङ्गं नीलिकाञ्चाति वृद्धां वक्त्रे जाताः स्फोटिकाश्चापि काश्चित्.. पद्माकारं निर्व्यलीकञ्च वक्त्रं कुर्यादेतत् पीनगण्डं मनोज्ञम् ॥४१ ॥

रसाञ्जनम् । नीरजं नीलोत्पलम् । १ कर्षप्रमाणं पिंष्ट्वेत्यर्थः । मोदयन्त्या --वनमल्लिकया, बीजकसम्भवेन = मातुलुङ्गोद्भवेन, साराम्भसा = सारोदकेन । २ सा-राम्भसः == सालसारक्काथस्य, नामैकदेशे नाममात्रग्रहणात् । ३ अक्षोद्भवं = बिभी · तकोत्थं तैलम्, एतच्चैकमाढकं ग्राह्यम् । ४ मासपर्यन्तं निवायेत्यर्थः । ५ खरुतौ = खल्वाटे । एतेन खलतावपि योगोऽयं प्रयोक्तव्य इति गम्यते । ६ इदं तैलम् अकामिनेऽनभिलाषिणे न, अर्थिनि याचके न, अकृताय चौर्यादि-निन्दितकर्मकारिणे न, नैव अरये शत्रवे प्रदेयमित्यर्थः । ७ ब्यङ्गादिनाशकघृतं निर्दिशति - लाक्षेति । शिला = मनःशिला, श्रालं - इरि • तालम् । नागं = नागकेसरम् । ' वर्णको इरितालम् ' इति शब्दार्थचिन्तामणिः । - उ. बा = वचा, सुराष्ट्रोद्भवा किटकिरी ' इत्युक्षुष्यते । पत्तङ्गं = रक्तचन्दनम् । ९ हेमानश्चम्पक इति शब्दार्थचिन्तामणिः । कालीयं = कृष्णचन्दनम्, ' अगर ' इति CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 858

सुश्रुत संहिता चौखम्बा, पृष्ठ 858 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

©© Digitized by Arya Samaj Fol सुश्रुतसंहितायां Sangotri [ अ ० २६

राज्ञामेतद्योषितां चापि नित्यं कुर्याद् वैद्यस्तत्समानां नृणाञ्च ।

कुष्ठघ्नं वै सपिरेतन प्रधानं येषां पादे सन्ति वैदिकाश्च ॥ ४२ ॥

हरीतकी चूर्णमरिष्टपत्रं चूतत्वचं दाडिमपुष्पवृन्तम् ।

पत्रञ्च दद्यान्मदयन्तिकाया लेपोऽङ्गरागो नरदेवयोग्यः ॥ ४३ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने मिश्रकचिकित्सितं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥

षड्विंशतितमोऽध्यायः ।

अथातः क्षीणबलीयं वाजीकरणचिकित्सितं व्याख्यास्यामः ॥ १ ॥

' यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

कल्यस्योदप्रवयसो वाजीकरणसेविनः ।

सर्वेष्वृतुष्वहरहव्यवायो न निवारितः ॥ ३ ॥

स्थैविराणां रंमूनां स्त्रीणां वाल्लभ्यमिच्छताम् । ख्यातम् । १ अरिष्ट निम्बपत्रम् । २ मदयन्तिकायाः वनमल्लिकाया हस्यर्थः । इति सुश्रुतसंहितायाचिकित्सास्थानीयसुधाऽख्यटिपन्यां पञ्चविंशतितमोऽध्यायः । षडविंशतितमोऽध्यायः । ३ क्षीणवलाय हितं क्षीणवलीयं वाजीकरणचिकित्सितं व्याख्यास्याम इत्यर्थः । वाजीकरणं तु - " यद् द्रव्यं पुरुषं कुर्याद् वाजीव सुरतक्षयम् । तद्वाजीकरमाख्यातं मुनिभिभिषजांवरैः ॥ ” इति । ४ वाजीकरणयोग्य न्नरान्निर्दिशति - कल्यस्येति । कल्पस्य = निरामयस्य, ' कल्पं प्रभाते मधुनि सज्जे दक्षे निरामये ' इति हेमचन्द्रः । उदग्रायसः उदग्रमुन्नतं वयो यस्य स तस्य यौवनस्थस्येत्यर्थः । एतेन बालवृद्धों निरकियेते । तदुक्तं तन्त्रान्तरे—

' अतिबालो ह्यम्पूर्णसबंध तुः स्त्रियो व्रजन् । उपतत्यंत सहसा तडागमिव काजलम् ॥

शुष्क रूक्षं यथा काष्ठ जन्तुदग्धं विजर्जरम् । स्पृष्टमाशु विशीयंत तथा वृद्धः स्त्रियो व्रजन् ॥ ” इति । ५ वाजीकरणौषषयोग्यजनानाह - स्थविराणामिति । रिरंसूनां = रन्तुमिच्छु-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 859

सुश्रुत संहिता चौखम्बा, पृष्ठ 859 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २६ ] Digitized by Arya पश्चवकिस्सास्थानम् pai and eGangotri ७०३ योषित्प्रसङ्गात् क्षीणानां क्लीबानामल्परेतसाम् ॥। ४ ॥

विलासिनामर्थवतां रूपयौवनशालिनाम् ।

नृणाञ्च बहुभार्याणां योगा वाजीकरा हिताः ॥ ५ ॥

सेवमानो यदौचित्याद्वाजीवात्यर्थवेगवान् ।

नारीस्तर्पयते तेन वाजीकरणमुच्यते ॥ ६ ॥

भोजनानि विचित्राणि पानानि विविधानि च ।

वाचः श्रोत्रानुगामिन्यस्त्वचः स्पर्शसुखास्तथा ॥ ७ ॥

यामिनी सेन्दुतिलका कामिनी नवयौवना ।

गीतं श्रोत्रमनोहारि ताम्बूलं मदिराः स्रजः ॥ ८ ॥

मनसश्वाप्रतीघातो वाजीकुर्वन्ति मानवम् ।

तैस्तैर्भावैरद्यैस्तु रिरंसोर्मनसि क्षते ॥ ९ ॥

द्वेष्यस्त्री सम्प्रयोगाच्च क्लैब्यं तन्मानसं स्मृतम् ।

कैटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः ॥ १० ॥

नामित्यर्थः । वाल्लभ्यं = प्रयत्वम् । १ वाजीकरणस्य लक्षण प्रतिपादयति- सेव-मान इति । तत्रान्तरेऽपि " येन नारीषु सामर्थ्यं वाजीवल्लभते नरः । व्रजेच्चा-यधिकं येन वाजीकरणमेव तत् ॥ ” इति । अनेन निरुक्तेन त्रिविधमपि वृष्यमव-रुध्यते । यथा— शुक्रवृद्धिकरं माषादि, स्रुतिकरं सङ्कल्पादि शुक्रस्रुतिवृद्धिकरं च क्षीरादि । तदुक्तं तन्त्रान्तरे - " शुक्रस्रुतिकरं किञ्चित् किञ्चिच्छुकविवर्द्धनम् । स्रुति-वृद्धिकरं किञ्चित् त्रिविधं वृष्यमुच्यते || " इति । वृष्यादिद्रव्याणां सद्यः शुक्रादिकरणे प्रभावोऽयमिति डल्हणः । तथा च श्रीवाग्भट: - ' केचिदाहुरहोरात्राद्दशाहादपरे, परे । मासात्प्रयाति शुक-वमन्नं पाककमादिति ॥ वृष्यादीनि प्रभावेण सबः शुक्रादि कुर्वते । प्रायः करोत्य-होरात्रात् कर्माद्यन्यच्च भेषजम् ॥ ” इति । २ वाजीकरणवस्तूनि निर्दिशति-भोजनानीति । ३ यामिनी रात्रिः, सेन्दुतिलका इन्दुतिलकेन सहिता चन्द्रिकया

युता रात्रिरित्यर्थः ।

४. विषेषु क्लेयेषु प्रथममानस क्लैब्यलक्षणं प्रतिपादयति - तैस्तैरति ॥

तैस्तैर्भावैः = भयशोकक्रोध स्त्रीदोषदर्शनादिभिः, अहृद्यैः = वाक्पारुष्यादिना हृदया-हितैरित्यर्थः । क्षते == पीडिते । ५ सम्प्रयोगात् === सम्बन्धात् मैथुनादित्यर्थः । ६ पित्तजन्यद्वितीय + लैब्यलक्षणं दर्शयति- कटुकेति । कटुकादिनाऽतिमात्रेण प्रवृद्धेन पित्चेन शुक्रस्य दग्धत्वात् क्लैब्यं भवति पित्तज मिति तात्पर्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 860

सुश्रुत संहिता चौखम्बा, पृष्ठ 860 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ अ ० २३ ७०४ Digitized by Arya Samaj F सुश्रुतसंहितायां Gangotri

सौम्यधातुक्षयो दृष्टः क्लैब्यं तद्परं स्मृतम् ।

अतिव्यवायशीलो यो न च वाजीक्रियारतः ॥ ११ ॥

ध्वजभङ्गमवाप्नोति तच्छुक्रक्षयहेतुकम् ।

महता मेढूरोगेण मर्मच्छेदेन वा पुनः ॥ १२ ॥

क्लैब्यमेतच्चतुर्थं स्यान्नृणां पुंस्त्वोपघातजम् ।

जन्मप्रभृति यः क्लोबः क्लैब्यं तत् सहजं स्मृतम् ॥१३ ॥

बलिनः क्षुब्धर्मेनसो निरोधाद् ब्रह्मचय्यँतः ।

षष्ठं क्लैब्यं मतं तत्तु स्थिरशुक्रनिमित्तजम् ॥१४ ॥

असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत् ।

साध्यानामितरेषान्तु काय्र्यो हेतुविपर्ययः ॥ १५ ॥

विधिर्वाजीकरो यस्तु तं प्रवक्ष्याम्यतः परम् ।

तिर्लंमाषविदारीणां शालीनां चूर्णमेव वा ॥ १६ ॥

पौण्ड्रकेक्षुर सैरार्द्र मदितं सैन्धवान्वितम् ।

वराहमेदसा युक्तां घृतेनोत्कारिकां " पचेत् ॥ १७ ॥

तां भक्षयित्वा पुरुषो गच्छेत्तु प्रमदाशतम् ।

" बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् ॥ १८ ॥

१ शुक्रक्षयजन्यतृतीयक्लैब्यलक्षणं वक्ति - अतिव्यवायेति । अतिव्यवाय-शीलः = अत्यन्तमैथुनस्वभावः । २ ध्वजस्य शिश्नस्य भङ्गस्तमित्यर्थः । ‘ ध्वजः पूर्वदिशो गृहे । शिश्ने चिछे पताकायां खट्वाङ्गे शौण्डिकेऽपि च ' इति हेमचन्द्रः । ३ मेढरोगेण चतुर्थक्लैब्यं लक्षणमाख्याति — महतेति । मर्मच्छेदेन = वीर्यंवाहिसि • राच्छेदेनैत्यर्थः । ४. सहजपञ्च मक्लै ब्यलक्षणमाचष्टे - जन्मेति । ५ क्षुब्धमनसः कामात्स-दलितमनसः । ६ स्थिर शुक्रनिमित्तजषष्ठक्लै ब्यलक्षणमुपपादयति-- षष्ठमिति । ७ षड्विधेषु क्लैब्येषु पञ्चमस्य सहजस्य, चतुर्थस्य मर्मच्छेदजन्यस्य च क्लैब्यस्य असाध्यत्वमन्येषां साध्यत्वं निर्दिशति - असाध्यमिति । ८ हेतुविपर्ययः-श्रौषधान्नविहारैर्व्याध्युपशय इति तात्पर्यम् । ९ वाजीकरणतिलाद्युस्कारिकायोगं ब्रवीति - तिलेति । १० रसैः - इक्षुरसैः, -मांसरसैश्चेत्यर्थः । ११ उत्कारिकां = लप्सिकाकाराम् । १२ वाजीकरण द्वितीययोगं दर्शयति-- बस्ताण्डेति । श्रनेन योगद्वयमुच्यते । तद्यथा -- क्षीरपाकविधिना सिद्धे CC - 0. Gurukul Kangri Collection, Haridwar