सुश्रुत संहिता चौखम्बा — पृष्ठ 871–880

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 871–880

पृष्ठ 871

सुश्रुत संहिता चौखम्बा, पृष्ठ 871 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २८ ] Digitized by Arya Sahai and eGangotri

सर्पिर्मधुयुतं लिह्यादलक्ष्मीनाशनं परम् ।

त्वचं विहाय बिल्वस्य मूलक्वाथं दिने दिने ॥ ११ ॥

प्राश्नीयात् पयसा सार्द्धं स्नात्वा हुत्वा समाहितः ।

दशसाहस्रमायुष्यं स्मृतं युक्तं रथं भवेत् ॥ १२ ॥

हुत्वो बिसानां क्वाथन्तु मधुलाजैश्च संयुतम् ।

अमोघं शतसाहस्र युक्तं युक्तरथं स्मृतम् ॥ १३ ॥

सुवर्णं पद्मबीजानि मधु लाजाः प्रियङ्गवः ।

गव्येन पयसा पीतमलक्ष्मीं प्रतिषेधयेत् ॥ १४ ॥

नीलोत्पलदलक्वाथो गव्येन पयसा शृतः ।

ससुवर्णतिलैः सार्द्धमलक्ष्मीनाशनः स्मृतः ॥ १५ ॥

गव्यं पयः सुवर्णञ्च मँधूच्छिष्टश्च माक्षिकम् ।

पीतं शतसहस्राभिहुतं युक्तरथं स्मृतम् ॥ १६ ॥

घृतसुवर्णञ्च बिल्वचूर्णमिति त्र्यम् ।

मेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्द्धनम् ॥ १७ ॥

वासामूलतुल।क्वाथे तैलमावाप्य साधितम् ।

हुत्वा सहस्रमश्नीयान्मेध्यमायुष्यमुच्यते ॥ १८ ॥

यावकांस्तावकान् खादेदद्भिभूयं यवांस्तथा ।

पिप्पलीमधुसंयुक्तान् शिक्षाचरणवद्भवेत् ॥ १ ९ ॥

“ ध्वामलकचूर्णानि सुवर्णमिति च त्रयम् ।

प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् ॥ २० ॥

७१५ जाम् । चन्द्रां हिरण्मयीं लक्ष्र्मों जातवेदो ममावह || ' इत्यादि षोडशचैन अथर्ववेदोक्ते-जैत्यर्थः । कल्ये - प्रातःकाले । ससुवर्णे = सुवर्ण भस्म सहितमित्यर्थः । १ रथादिष्व-प्यविरुद्धमिति तात्पर्यम् । 1 २ योगान्तरमुपदिशति - हुत्वेति । बिसानां - मृणालानाम् । ३ सुवर्णादि--योगद्वयं निर्दिशति - सुवर्णेति । ४ मधूच्छिष्टं = सिक्थकम्, ' मोम ' इत्युदूधु-ष्यते। ५ वचाघृतादियोगमाख्याति - वचेति । वचासिद्धं घृतं वचाघृतं सुवर्ण-अस्म च । ६ तुला = पञ्चसेटकप्रमाणा । ७ अभिभूय = सङ्कटथेत्यर्थः । श्ररिष्टशमनमध्वादियोगं ब्रवीति - मध्विति । सुब = सुवर्णभस्म । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 872

सुश्रुत संहिता चौखम्बा, पृष्ठ 872 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७१६ सुश्रुतसंहितायां ena Digitized by Arya SamapFoundation Chennai and eGangotri

शेतावरीघृतं सम्यगुपयुक्तं दिने दिने ।

सक्षौद्रं ससुवर्णञ्च नरेन्द्रं स्थापयेद्वशे ॥ २१ ॥

- गोचन्दना मोहनिका मधुकं माक्षिकं मधु । [ अ ० २८ सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता ॥ २२ ॥

पद्मनीलोत्पलक्वाथे यष्टीमधुकसंयुते ।

सर्पिरासादितं गव्यं ससुवर्णं सदा पिबेत् ॥ २३ ॥

पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे ।

अलक्ष्मीनं सदाऽऽयुष्यं राज्याय सुभगाय च ॥ २४ ॥

यत्र नोदीरितो मन्त्रो योगेष्वेतेषु साधने ।

शब्दिता तत्र सर्वत्र गायत्री त्रिपदा भवेत् ॥ २५ ॥

पाप्मानं नाशयन्त्येता दद्युश्चौषधयः श्रियम् ।

कुर्नागबलं चापि मनुष्यममरोपमम् ॥ २६ ॥

सतताध्ययनं वादः परतन्त्रावलोकनम् ।

तद्विद्याचार्य्यसेवा च बुद्धिमेधाकरो गणः ॥ २७ ॥

आयुष्यं भोजनं जीर्णे वेगानाञ्चाविधारणम् ।

ब्रह्मचर्य्यमहिंसा च " साहसानाञ्च वर्जनम् ॥ २८ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने मेघायुष्कामीयं रसायनं नाम अष्टाविंशोऽध्यायः ॥ २८ ॥

१ वशीकरणशतावर्यादियोगमुपदिशति - शतावरीति । शतावर्ज्या सिद्धं घृतं शताब रीघृतम् । २ सौभाग्यकरगो चन्दनादियोगमभिधत्ते - गोचन्दनेति । गोचन्दना = == प्रियः, मोहनिका पुत्र भीवो । ३. पद्मादियोगमभिदधाति - पद्मेति । ४ भासा दितं = साधितम् । ५ मनुक्तमन्त्रेषु योगेषु गायत्रीमन्त्रमतिदिशति - यत्रेति । नोदीरितः = नोप-दिष्टः । ६ सर्वेषामुकप्रयोगाणां फलमाख्याति - पाप्मानमिति । ७ नागवद् गजवम् बलमित्यर्थः । ८ बुद्धिमेधाकरगणं निर्दिशति - सततेति । परतन्त्रालो-कनं - आयुर्वेदातिरिक्त तन्त्रमननम् । 1 ९ श्रायुष्यं गणं प्रतिपादयति- आयुष्यमिति । १० साहस: - ' सहसा क्रियतो CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 873

सुश्रुत संहिता चौखम्बा, पृष्ठ 873 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ९ ] Digitized by Arya विकि चिकित्सास्थानम् dhnai and eGangotri ७१७

एकोनत्रिंशत्तमोऽध्यायः ।

अथातः स्वभावव्याधिप्रतिषेधनीयं रसायनं व्याख्यास्यामः ॥१ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

ब्रह्मोदयोऽसृजन् पूर्वममृतं सोमसंज्ञितम् ।

जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ॥ ३ ॥

एक एव खलु भगवान सोमः स्थाननामाकृतिवीर्य्यविशेषैश्चतु-विंशतिधा भिद्यते ॥ ४ ॥

तद्यथा-अंशुमान्मुञ्जवांश्चैव चन्द्रमा रजतप्रभः ।

दूर्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः ॥ ५ ॥

प्रतानवांस्तालवृन्तः करवीरोंऽशवानपि ।

स्वयम्प्रभो महासोमो यश्चापि गरुडाहृतः ॥ ६ ॥

गायत्रस्त्रैष्टुभः पाङ्क्ङ्को जागतः शाक्करस्तथा ।

अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः ॥ ७ ॥

कमं यत् किश्चिद् बलदर्पितैः । तत् साहसमिति प्रोक्तं सहोबलमिहोच्यते ॥ मनुष्य-मारणं स्तेयं परदाराभिमर्षणम् । पारुष्यमनृतम् वह साहसं पञ्चषा स्मृतम् ॥ '

दवि नारदः ।

इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽणयटिप्पन्पा-मष्टाविंशतितमोऽध्यायः ॥

एकोनत्रिंशत्तमोऽध्यायः । १ स्वभावप्रवृत्तानां जरादिव्याधीनां । प्रतिषेधनं तस्मै हितं स्वभावव्याधिप्रति-बेधनीयं रसायनं व्याख्यास्याम इत्यर्थः । २ सोमसंज्ञकामृतवर्णनं करोति - ब्रह्मा-दय इति । अमृतं सूत इवि सोमः । ' षु प्रसवैश्वर्ययोः ' इति धातोः ' अतिस्तुषुदुस.. क्षिक्षुभायावापदियक्षिनोभ्यो मन् ' इत्यौणादिको मन्प्रत्ययः । ३ अंशुमानित्यादिना चतुर्विंशतिनामानि सोमस्यैव ज्ञेयानि । ४ अत्र ' शाङ्करः ' इति पाठान्तरम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 874

सुश्रुत संहिता चौखम्बा, पृष्ठ 874 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७१८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri गायत्र्या त्रिपदा युक्तो यश्चोपतिरुच्यते । [ अ ० २ ९ एते सोमाः समाख्याता वेदोक्तैर्नामभिः शुभैः ॥ ८ ॥

सर्वेषामेव चैतेषामेको विधिरुपासने ।

• सर्वे तुल्यगुणाश्चैव विधानं तेषु वक्ष्यते ॥ ९ ॥

अतोऽन्यतमं सोममुपयुयुक्षुः सर्वोपकरणपरिचारकोपेतः प्रश-स्ते देशे त्रिवृत्तमागारं कारयित्वा हृतदोषः प्रतिसंसृष्टभक्तः प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु अंशुमन्तमादायाध्वरकल्पेनाहृतमभिषुतम-भिहुतं चान्तरागारे कृतमङ्गलस्वस्तिवाचनः सोमकन्दं सुवर्ण सूच्या विदार्य्यं पयो गृह्णीयात् सौवर्णे राजते वा पात्रेऽञ्जलिमात्रं, ततः सकृदेवोपयुञ्जीत नास्वादयन् तत उपस्पृश्य शेषमस्ववसाद्य यमनियमाभ्यामात्मानं संयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्य-मानो विहरेत् ॥ १० ॥

२ तुल्यगुणाः = समानफला १ सोमस्य संज्ञान्तरं दर्शयति - यश्चेति । इत्यर्थः । ३ सोमसेवनविधानमुपदिशति - अत इति । शुमदाख्यं सोमम्, उपयुयुतुः = उपयोगं कर्तुमिच्छुरित्यर्थः । परिवृतं त्रिवृतम् आगारं कुटीमित्यर्थः । अन्यतमम् = एकतम मं ४ तिसृभिभित्तिभिः कुटोनिर्माणप्रकारमाइ चरकः - " नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् । निवासे निर्भये शस्ते प्राप्योपकरणे पुरे । दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम् ॥ विस्तारोत्सेधसम्पन्नां त्रिगर्भो सूक्ष्मलोचनाम् । घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम् ॥ शब्दादीनामशस्तानामगम्यां स्त्रीविवर्जिताम् । इष्टोपकरणोपेतां सज्जवैद्यौष-घद्विजाम् ॥ अथोदगयने शुक्ले तिथिनक्षत्र पूजिते । मुहूर्त करणोपेते प्रशस्ते कृतवापनः ॥ धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः । विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्त-यन् ॥ देवताः पूजयिखाऽग्रे द्विजातींश्च प्रदक्षिणम् । देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत् कुटीम् ॥ ” इति । ५ अध्वरकल्पेनाहृतं = प्रग्निष्टोम विधानेनानीतम्, श्रभिषुतं पीडितम्, अ. भिहुतम् = अग्नौ प्राग्वत् प्रक्षिप्तम् । उभयत्र ' ऋत्विग्भिः ' इति शेषो बोध्यः । ६ द्यन्तरागारे = अन्तःकोष्ठे इत्यर्थः । ७ सुवर्णसूच्या = कनकशलाकया । ८ अ. ब्जलिमात्रं = कुडबपरिमाणम्, षोडशतोलकानीत्यर्थः । ९ शेषं गृहीत क्षीरमं -शुमतः कन्दम्, अप्सु = नद्यादिजले, अवसाद्य = प्रक्षिप्य । १० विइरेत् = गमनप-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 875

सुश्रुत संहिता चौखम्बा, पृष्ठ 875 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २२ ] Digitized by Arya Samai Foundation Chennai and eGangotri कत्सास्थान कारणः सञ्जायते जन्तुरर्दितं चास्य जायते ॥ ३० ॥

चलमप्युत्तरं दन्तमतो नापहरेद् भिषक् ।

धावने जातिमदनश्वादुकण्टकखादिरम् ॥ ३१ ॥

केषायं जातिमदनकटुकस्वादुकण्टकैः ।

यष्ट्याह्वरोत्र मञ्जिष्ठाखदिरैश्चापि यत् कृतम् ॥ ३२ ॥

तैलं ' शोधनं तद्धि हन्यादन्तगतां गतिम् ।

कीर्त्तिता दन्तमूले तु क्रिया द्न्तेषु वक्ष्यते ॥ ३३ ॥

स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृर्तस्य वा ।

निर्यूहौश्चानिलग्नानां दन्तहर्षप्रमर्दनाः ॥ ३४ ॥

स्नैहिकश्च हितो धूमो नस्यं स्निग्धं च भोजनम् ।

रसो रसयवाग्वश्च क्षीरं सन्तानिका घृतम् ॥ ३५ ॥

शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापहः ।

अहिसन् दन्तमूलानि शर्करामुद्धरेद्भिषक् ॥ ३६ ॥

लाक्षाचूर्मधुयुतैस्ततस्ताः प्रतिसारयेत् ।

दन्तहर्षक्रियां चापि कुर्य्यान्निरवशेषतः ॥ ३७ ॥

कपालिको कृच्छ्रतमा तत्राप्येषा क्रिया हिता ।

" जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ॥ ३८ ॥

तथाऽवपीडैर्वातघ्नै: स्नेहगण्डूषधारणैः ।

भद्रदार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ॥ ३ ९ ॥

चलमुद्धृत्य च स्थानं विदहेच्छुषिरस्य " च । I ६७१ १ चलमपि = ईषरकम्पयुक्तमपि । २ कषायः = काथः, जाति = मालती । ‘ ङथापोः संज्ञाच्छन्दसोर्बहुलम् ' इति हस्व: । स्वादुकण्टकः = गोक्षुरकः ।. ३ दन्तरोगेषु दन्तहर्षचिकित्सामा ख्याति - स्नेहानामिति । ४ त्रैवृतस्य = = सम्मिलितस्नेहत्रितयस्येत्यर्थः । ५ निर्यहाः = काथाः । ६ सन्तानिका = ' मलाई ' इति प्रसिद्धा । ७ शर्करायाश्चिकित्सां वक्ति - अहिंसन्निति! ८ प्रतिसारयेत् -घर्षयेत् । ९ कपालिकायाश्चिकित्सामा चष्टे - कपालिकेति । १० कृमिदन्तचिकि-त्सितमभिधत्ते - जयेदिति । विस्रावणैः = लेखनेंहिंङ्गुतुत्य का दिले पैश्चेत्यर्थः । ११ शुषि-रस्य == = पूयकृतच्छिद्रस्येत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 876

सुश्रुत संहिता चौखम्बा, पृष्ठ 876 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६७ digitized by Arya Samaj Fou कुश्रुतसंहितायां Gangotri ततोविदारीयष्ट्याह्वशृङ्गाटककसेरुकैः ॥ ४० ॥

तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत् । [ अ ० २२ मोक्षे समुद्दिष्टां कुर्य्याच्चादितवत् क्रियम् ॥ ४१ ॥

फलान्यग्लानि शीताम्बु रूक्षान्नं दन्तधावनम् ।

तथाऽतिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत् ॥ ४२ ॥

सौध्यानां दन्तरोगाणां चिकित्सितमुदीरितम् ।

जिह्वाँगतानां साध्यानां कर्म वक्ष्यामि सिद्धये ॥। ४३ ॥

श्रोष्ठप्रकोपेऽनिलजे यदुक्तं प्राकू चिकित्सितम् ।

कण्टकेष्वनिलोत्थेषु।तत् कार्य्यं भिषजा भवेत् ॥ ४४ ॥

पित्त॑जेषु विघृष्टेषु निःसृते दुष्टशोणिते ।

प्रतिसारणगण्डूषं नभ्यं च मधुरं हितम् ॥ ४५ ॥

कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये ।

पिप्पल्यादिर्मधुयुतः कार्य्यस्तु प्रतिसारणे ॥ ४६ ॥

गृह्णीयात् कवलांश्चापि गौरसर्षप सैन्धवैः ।

पटोलनिम्बवार्त्ता कुक्षारयूपैश्च भोजयेत् ॥ ४७ ॥

—उपैंजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत् ।

शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत् ॥ ४८ ॥

जिह्वागतानां कर्मोक्तं तालव्यानां प्रवक्ष्यते । १ इनुमोक्षचिकित्सितमाह - हन्विति । २ मस्तिष्क शिरोब स्तिनस्यधूमोपनाहा-दिकां क्रियामित्यर्थः । ३ असाध्या दन्तरोगास्तु श्यावदन्तदालभञ्जनाख्या इति, तेषां चिकित्सितं नोदाहृतमिति तात्पर्यम् । ४ वातिकजिह्वा कण्टकचितिं निर्दि-शति - जिह्रेति । ५ पैत्तिकजिह्वा कण्टकचिकित्सामाह - पित्तजेष्विति । गोजीशे. फालिका पत्रैविघृष्टष्वित्यर्थः । ६ प्रतिसारणं गण्डूषश्चेति द्वयं काकोल्यादि मधुरद्र • व्यैरेव कायम् । ७ श्लैष्मिकजिह्वा कण्टकचिकित्सितं दर्शयति-- कण्टकेष्विति । लिखितेषु = असृजः = रुधिरस्य, क्षये = स्रावावसाने इत्यर्थः । ८ क्षारो यवक्षारस्तत्प्रधानो युषः वारयूषस्तैः । ९ उपजिह्वायाश्चिकित्सां ब्रवीति — उपेति । संलिख्य = शस्त्रे -णावलिख्य । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 877

सुश्रुत संहिता चौखम्बा, पृष्ठ 877 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ९ ] चिकित्सास्थान hehnai Digitized by Arya Samaj Foundation Chehnai and eGangotri ७१ ९ 1

रसायनं पीतवांस्तु निवाते न्मनाः शुचिः ।

आसीत तिष्ठेत् कामेच्च न कथञ्चन संविशेत् ॥ ११ ॥

सायं वा भुक्तवान् श्रुतशान्तिः कुशशय्यायां कृष्णाजिनोत्तरायां सुहृद्भिरुपास्यमानः शयीत, तृषितो वा शीतोदकमात्रां पिबेत् । ( अशनायितो वा क्षी ' ) ततः प्रातरुत्थायोपश्रुतशान्तिः कृतमङ्गलो गां स्पृष्ट्वा तथैवासीत, तस्य जीर्णे सोमे छर्दिरुत्पद्यते, ततः शोणि-ताक्तं कृमिव्र्व्यामिश्रं छर्दितवते सायं शृतशीतं क्षीरं वितरेत् । तत-स्तृतीयेऽहनि कृमिव्यामिश्रमतिसार्य्यते स तेनानिष्टप्रतिग्रहभुक्तप्र-भृतिभिर्विशेषैर्मुक्तः शुद्धतनुर्भवति, ततः सायं स्नाताय पूर्ववदेव क्षीरं वितरेत्, क्षौमवस्त्रास्तृतायां चैनं शय्यायां शाययेत् । ततश्चतुर्थेऽह-नि तस्य श्वयथुरुत्पद्यते, ततः सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति, तदहश्च शय्यायां पांशुभिरवकीर्य्यमाणः शयीत, ततः सायं पूर्ववदेव क्षीरं वितरेत् । एवं पञ्चमषष्ठयोर्दिव योर्वर्त्तेत, केवलमुभयकालमस्मै तीरं वितरेत् । ततः सप्तमेऽ-हनि निर्मांसस्त्वगस्थिभूतः केवलं सोमपरिग्रहादेवोच्छ्वसिति, तदहश्च क्षीरेण सुखोष्णे परिषिच्य तिलमधुकचन्दनानुलिप्त-देहं पयः पाययेत् । ततोऽष्टमेऽहनि प्रातरेव क्षीरपरिषिक्तं चन्द-नप्रदिग्धगात्रं " पयः पाययित्वा पांशुशय्यां समुत्सृज्य क्षौमास्तृ-तायां शाययेत्, ततो मांसमाप्याय्यते, त्वक् चावदलति, दन्त-नखरोमाणि चास्य पतन्ति । तस्य नवमदिवसात् प्रभृत्यणुतै-लाभ्यङ्गः " सोमवल्ककषायपरिषेकः । ततो दशमेऽहन्येतदेव वित-रेत्, ततोऽस्य त्वस्थिरतामुपैति । एवमेकादशद्वादशयोवॅर्तेत । रिभ्रमणस्थानासनचतुर्विधकार्याविहारं कुर्यादित्यर्थः । १ तत्रैव सोमे मनो यस्य स तन्मनाः । २ न संविशेत् = न स्वप्यात् । ३ अत्र मात्राशब्दस्य अल्पार्थकत्वात् स्वल्पं शीतोदकमित्यर्थः । ४ छर्दिम-नम् । ५ क्रियाविशेषणमेतत् । ६ वितरेत = दद्यादित्यर्थः । ७ श्राद्धाद्यनिष्टप्रति ग्रहभोजनादिभिरित्यर्थः । पशुभिः = धूलिभिः । ९ सुखोष्णेन = ईषदुष्णेन । १० चन्दनप्रदिग्धगात्रं चन्दनानुलिप्तशरीरम् । ११ अणुतैलं वातव्याधिचिकित्सिते CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 878

सुश्रुत संहिता चौखम्बा, पृष्ठ 878 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७२० सुश्रुतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २ ९ ततस्त्रयोदशात् प्रभृति सोमवल्ककषायपरिषेकः, एवमाषोडशाद् व-र्त्तेत । ततः सप्तदशाष्टादशयोदिवस योदर्शना जायन्ते शिखरिणः स्नि-ग्धवज्रवैदूर्य्यस्फटिकनिकाशाः समाः स्थिराः सहिष्णवः, तदाप्रभृति चानवैःशालितण्डुलैः क्षीरयवागूमुपसेवेत यावत् पञ्चविंशतिरिति । ततोऽस्मै दद्याच्छल्योदनं मृदूभयकालं पयसा, ततोऽस्य नखा जायन्ते विद्रुमेन्द्रगोपकतरुणादित्यप्रकाशाः, स्थिराः स्निग्धा लक्ष-णसम्पन्नाः केशाश्च जायन्ते, त्वक् च नीलोत्पलातसी पुष्पवैदूर्य-प्रकाशाः । ऊर्ध्वञ्च मासात् केशान् वापयेत्, वापयित्वा चोशी-रचन्दनकृष्णतिलकल्कैः शिरः प्रदिद्यात् पयसा वा स्नापयेत् । ततोऽस्यानन्तरं सप्तरात्रात् केशा जायन्ते भ्रमराञ्जननिभाः कुचिताः स्निग्धाः । ततस्त्रिरात्रात् प्रथमावसथपरिसरान्निष्क्रम्य मुहूर्त्त स्थित्वा पुनरेवान्तः प्रविशेत् " ततोऽस्य बलातैलमभ्यङ्गार्थे-ऽवचार्य, यवपिष्टमुद्वर्त्तनार्थे, 6 सुखोष्णञ्च पयः परिषेकार्थे, अर्जकर्णकषायमुत्सादनार्थे, सोशीरं कूपोदकं स्नानार्थ, चन्दनमनु-लेपार्थे, आमलकरसविमिश्राश्वास्य यूपसूपविकल्पाः, क्षीरमधुक-सिद्धश्च कृष्णतिलमवचारणार्थे, एवं दशरात्रं, ततोऽन्यद् दशरात्रं द्वितीये परिसरे वर्त्तेत । ततस्तृतीये परिसरे स्थिरीकुर्वन्नात्मानम-न्यद्दशरात्रमासीत, किञ्चिदातपपवनान् वा सेवेत, पुनश्चान्तः प्रवि-शेत्, न चात्मानमादर्शेऽप्सु वा निरीक्षेत रूपशालित्वात् । ततोऽ द्रष्टव्यम् । सोमवल्ककषायपरिषेकः = सोमवल्कक्काथस्नानम् । १ दशनाः = दन्ताः । २ इन्द्रगोपः = ' वीरबहूटी ' इति ख्यातः प्रावृषि जायमानो रक्तवर्णः कीटः । ३ लक्ष • णसम्पन्नाः = घनत्व कृष्णत्वादिगुणयुक्ता इत्यर्थः । ४ वैदूर्य्यच्छार्यालक्षणं यथा – “ एकं वेणुपलाशकोमलरुचा मायूरकण्ठश्विषा मार्जारक्षणपिङ्गलच्छविजुषा सेयं त्रिधा छायया । यद् गात्रं गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैदूर्य्यं विशदं वदन्ति सुधियः स्वच्छच तच्छोभनम् ॥ ” इवि । ५ बलातैलं मूढगर्भचिकित्सितोक्तम् । ६ अजकर्णः सालभेदस्तस्य कषायः कल्कः । ७ मुद्गादिद्विदलस्य वस्त्रगालितो युषः, सूपस्त्वगालितः । ८ परिसरे प रिवृतप्रकोष्ठे । ९ यतो मनोहरं रूपं मनोविभ्रमावहं स्यादिति तात्पर्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 879

सुश्रुत संहिता चौखम्बा, पृष्ठ 879 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ९ Digitized by Arya sachaorlai Samaj and eGangotri ७२१ न्यद्दशरात्रं क्रोधादीन् परिहरेत् । एवं सर्वेषामुपयोगविकल्पः । . विशेषतस्तु वल्लीप्रतानक्षुपादयः सोमा ब्राह्म एक्षत्रियवैश्यैर्भक्षयि-तव्याः । तेषान्तु प्रमाणमर्द्धचतुर्थमुष्टयः ॥ १२ ॥

अंशुमन्तं सौवर्ण पात्रेऽभिषुणुयात्, चद्रमसं राजते चोप-ज्याष्टगुणमैश्वर्यमवाप्येशानं देवमनुप्रविशति शेषांस्तु ताम्रमये मृण्मये वा रोहिते वा चर्म्मणि वितते, शूद्रवर्जं त्रिभिर्वर्णैः सोमा उपयोक्तव्याः । ततश्चतुर्थे मासे पौर्णमास्यां शुचौ देशे ब्राह्म-णानर्चयित्वा कृतमङ्गलो निष्क्रम्य यथोक्तं व्रजेदिति ॥ १३ ॥

श्रोषधीनां पतिं सोममुपयुज्य विचक्षणः ।

दशवर्षसहस्राणि नवां धारयते तनुम् ॥ १४ ॥

नाग्निर्न तोयं न विषं न शस्त्रं नास्त्रमेव च ।

तस्यालमायुःक्षपणे समर्थाश्च भवन्ति हि ॥ १५ ॥

भद्राणां षष्टिवर्षाणां प्रस्रुतानामनेकधा ।

कुञ्जराणां सहस्रस्य बलं समधिगच्छति ॥ १६ ॥

क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि ।

यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः ॥ १७ ॥

कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः ।

प्रह्लादयति भूतानां मनांसि स महाद्युतिः ॥ १८ ॥

साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दति तत्त्वतः ।

चरत्यमोघसङ्कल्पो देववच्चाखिलं जगत् ॥ १ ९ ॥

१ श्रादिग्रहणात् कन्दादीनां परिग्रहः । २ अर्द्धचतुर्थमुष्टयः = प्रष्टादशतोलकानि । ३ विविध सोमाभिषवयोग्यपात्राणि निर्दिशति - अंशुमन्तमिति । श्रभिषुणुया-तू = कण्डयेदित्यर्थः । ४ अष्टगुणमैश्वर्यम् प्रणिमाद्यष्टैश्वर्यम् । ' श्रणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ ' इत्यमरः । ईशानं = शङ्करम् । ५ रोहिते = लोहितमृगविशेषे । ६ सोमसेवनफलमभिवत्ते — ओषधीनामिति । ७ भद्राणां = श्रेष्ठजातीयाना-मित्यर्थः । प्रस्रुतानां प्रस्यन्दन्मदानाम् । ८ अमोघः अनिष्फलः सङ्कल्यो यस्य ४६ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 880

सुश्रुत संहिता चौखम्बा, पृष्ठ 880 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७२२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri सर्वेषामेव सोमानां पत्राणि दश पञ्च च । [ अ ० २ ९ तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च ॥ २० ॥

एकैकं जायते पत्रं सोमस्याहरहस्तदा ।

शुक्लस्य पौर्णमास्यान्तु भवेत् पञ्चदशच्छदः ॥ २१ ॥

शीर्यते पत्रमेकैकं दिवसे दिवसे पुनः ।

कृष्णपक्षक्षये चापि लतो भवति केवला ॥ २२ ॥

अंशुमानाज्यगन्धस्तु कन्दवान् रजतप्रभः ।

कदल्याकारकन्दस्तु मुञ्जवांल्लनच्छदः ॥ २३ ॥

चन्द्रमाः कनकाभासो जले चरति सर्वदा ।

गरुडाहृतनामा च श्वेताक्षश्चापि पाण्डुरौ ॥ २४ ॥

सर्पनिर्मोकसदृशौ तौ वृक्षाग्रावलम्बिनौ ।

तथाऽन्ये मण्डलैश्चित्रैश्चित्रिता इव भान्ति ते ॥ २५ ॥

सर्व एव तु विज्ञेयाः सोमाः पञ्चदशच्छदाः ।

क्षीरकन्दलतावन्तः पत्रैर्नानाविधैः स्मृताः ॥ २६ ॥

हिमँवत्यर्बुदे सह्ये महेन्द्रे मलये तथा ।

श्रीपर्वते देवगिरौ गिरौ देवसहे तथा ॥ २७ ॥

पारियात्रे च विन्ध्ये च देवसुन्दे हृदे तथा ।

उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः ॥ २८ ॥

सः । १ विविधसोमलक्षणानि निर्दिशति - सर्वेषामिति । दशपञ्च पत्राणि = पञ्च • दश दलानीत्यर्थः । ' पत्रं पलाशं छदनं दलं परौं छदः पुमान् ' इत्यमरः । २ कृष्ण-पक्षेऽमायां सर्वेषां पञ्चदशपत्राणां निपतनात् केवलं लतामात्रेणैवावशिष्टः सोमो दृश्यते इति भावः । ३ निर्मोकः = कन्चुकः, ' केंचुल ' इति ख्यातः । ' समौ कञ्चु • कनिर्मोकौ ' इत्यमरः । ४ सोमोत्पत्तिस्थानानि दशयति - हिमवतीति । हिममस्त्यस्मिन्निति हिमवान् तस्मिन् हिमाचले, * र्बुदे - ' आबू ' इति ख्याते महीधरे, सह्ये = मलयाद्रिसमीपवर्तिनि शैले, महेन्द्र = कलिङ्गदेशस्थे कुलपर्वते, मलये = ऋष्यमूकप्रदेशान्तरेऽद्रिविशेषे, श्रीपर्वते - श्री शैले, ' मेरुमन्दर कैलासमलया गन्धमादनः । महेन्द्रः श्रीपर्वतश्च हेमकू. टस्तथैव च ॥ अष्टावेते तु सम्पूज्या गिरयः पूर्वदिक् क्रमात् ' । देवगिर्यादयः शैला ज्ञातव्या । ५ वितस्तायाः = एतन्नामिकायः काश्मीरदेशस्थाया नद्याः । CC - 0. Gurukul Kangri Collection, Haridwar