सुश्रुत संहिता चौखम्बा — पृष्ठ 871–880
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 871–880
पृष्ठ 871
पाठ पढ़ें पाठ छिपाएँ
अ ० २८ ] Digitized by Arya Sahai and eGangotri
सर्पिर्मधुयुतं लिह्यादलक्ष्मीनाशनं परम् ।
त्वचं विहाय बिल्वस्य मूलक्वाथं दिने दिने ॥ ११ ॥
प्राश्नीयात् पयसा सार्द्धं स्नात्वा हुत्वा समाहितः ।
दशसाहस्रमायुष्यं स्मृतं युक्तं रथं भवेत् ॥ १२ ॥
हुत्वो बिसानां क्वाथन्तु मधुलाजैश्च संयुतम् ।
अमोघं शतसाहस्र युक्तं युक्तरथं स्मृतम् ॥ १३ ॥
सुवर्णं पद्मबीजानि मधु लाजाः प्रियङ्गवः ।
गव्येन पयसा पीतमलक्ष्मीं प्रतिषेधयेत् ॥ १४ ॥
नीलोत्पलदलक्वाथो गव्येन पयसा शृतः ।
ससुवर्णतिलैः सार्द्धमलक्ष्मीनाशनः स्मृतः ॥ १५ ॥
गव्यं पयः सुवर्णञ्च मँधूच्छिष्टश्च माक्षिकम् ।
पीतं शतसहस्राभिहुतं युक्तरथं स्मृतम् ॥ १६ ॥
घृतसुवर्णञ्च बिल्वचूर्णमिति त्र्यम् ।
मेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्द्धनम् ॥ १७ ॥
वासामूलतुल।क्वाथे तैलमावाप्य साधितम् ।
हुत्वा सहस्रमश्नीयान्मेध्यमायुष्यमुच्यते ॥ १८ ॥
यावकांस्तावकान् खादेदद्भिभूयं यवांस्तथा ।
पिप्पलीमधुसंयुक्तान् शिक्षाचरणवद्भवेत् ॥ १ ९ ॥
“ ध्वामलकचूर्णानि सुवर्णमिति च त्रयम् ।
प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् ॥ २० ॥
७१५ जाम् । चन्द्रां हिरण्मयीं लक्ष्र्मों जातवेदो ममावह || ' इत्यादि षोडशचैन अथर्ववेदोक्ते-जैत्यर्थः । कल्ये - प्रातःकाले । ससुवर्णे = सुवर्ण भस्म सहितमित्यर्थः । १ रथादिष्व-प्यविरुद्धमिति तात्पर्यम् । 1 २ योगान्तरमुपदिशति - हुत्वेति । बिसानां - मृणालानाम् । ३ सुवर्णादि--योगद्वयं निर्दिशति - सुवर्णेति । ४ मधूच्छिष्टं = सिक्थकम्, ' मोम ' इत्युदूधु-ष्यते। ५ वचाघृतादियोगमाख्याति - वचेति । वचासिद्धं घृतं वचाघृतं सुवर्ण-अस्म च । ६ तुला = पञ्चसेटकप्रमाणा । ७ अभिभूय = सङ्कटथेत्यर्थः । श्ररिष्टशमनमध्वादियोगं ब्रवीति - मध्विति । सुब = सुवर्णभस्म । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 872
पाठ पढ़ें पाठ छिपाएँ
७१६ सुश्रुतसंहितायां ena Digitized by Arya SamapFoundation Chennai and eGangotri
शेतावरीघृतं सम्यगुपयुक्तं दिने दिने ।
सक्षौद्रं ससुवर्णञ्च नरेन्द्रं स्थापयेद्वशे ॥ २१ ॥
- गोचन्दना मोहनिका मधुकं माक्षिकं मधु । [ अ ० २८ सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता ॥ २२ ॥
पद्मनीलोत्पलक्वाथे यष्टीमधुकसंयुते ।
सर्पिरासादितं गव्यं ससुवर्णं सदा पिबेत् ॥ २३ ॥
पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे ।
अलक्ष्मीनं सदाऽऽयुष्यं राज्याय सुभगाय च ॥ २४ ॥
यत्र नोदीरितो मन्त्रो योगेष्वेतेषु साधने ।
शब्दिता तत्र सर्वत्र गायत्री त्रिपदा भवेत् ॥ २५ ॥
पाप्मानं नाशयन्त्येता दद्युश्चौषधयः श्रियम् ।
कुर्नागबलं चापि मनुष्यममरोपमम् ॥ २६ ॥
सतताध्ययनं वादः परतन्त्रावलोकनम् ।
तद्विद्याचार्य्यसेवा च बुद्धिमेधाकरो गणः ॥ २७ ॥
आयुष्यं भोजनं जीर्णे वेगानाञ्चाविधारणम् ।
ब्रह्मचर्य्यमहिंसा च " साहसानाञ्च वर्जनम् ॥ २८ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने मेघायुष्कामीयं रसायनं नाम अष्टाविंशोऽध्यायः ॥ २८ ॥
१ वशीकरणशतावर्यादियोगमुपदिशति - शतावरीति । शतावर्ज्या सिद्धं घृतं शताब रीघृतम् । २ सौभाग्यकरगो चन्दनादियोगमभिधत्ते - गोचन्दनेति । गोचन्दना = == प्रियः, मोहनिका पुत्र भीवो । ३. पद्मादियोगमभिदधाति - पद्मेति । ४ भासा दितं = साधितम् । ५ मनुक्तमन्त्रेषु योगेषु गायत्रीमन्त्रमतिदिशति - यत्रेति । नोदीरितः = नोप-दिष्टः । ६ सर्वेषामुकप्रयोगाणां फलमाख्याति - पाप्मानमिति । ७ नागवद् गजवम् बलमित्यर्थः । ८ बुद्धिमेधाकरगणं निर्दिशति - सततेति । परतन्त्रालो-कनं - आयुर्वेदातिरिक्त तन्त्रमननम् । 1 ९ श्रायुष्यं गणं प्रतिपादयति- आयुष्यमिति । १० साहस: - ' सहसा क्रियतो CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 873
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ९ ] Digitized by Arya विकि चिकित्सास्थानम् dhnai and eGangotri ७१७
एकोनत्रिंशत्तमोऽध्यायः ।
अथातः स्वभावव्याधिप्रतिषेधनीयं रसायनं व्याख्यास्यामः ॥१ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
ब्रह्मोदयोऽसृजन् पूर्वममृतं सोमसंज्ञितम् ।
जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ॥ ३ ॥
एक एव खलु भगवान सोमः स्थाननामाकृतिवीर्य्यविशेषैश्चतु-विंशतिधा भिद्यते ॥ ४ ॥
तद्यथा-अंशुमान्मुञ्जवांश्चैव चन्द्रमा रजतप्रभः ।
दूर्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः ॥ ५ ॥
प्रतानवांस्तालवृन्तः करवीरोंऽशवानपि ।
स्वयम्प्रभो महासोमो यश्चापि गरुडाहृतः ॥ ६ ॥
गायत्रस्त्रैष्टुभः पाङ्क्ङ्को जागतः शाक्करस्तथा ।
अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः ॥ ७ ॥
कमं यत् किश्चिद् बलदर्पितैः । तत् साहसमिति प्रोक्तं सहोबलमिहोच्यते ॥ मनुष्य-मारणं स्तेयं परदाराभिमर्षणम् । पारुष्यमनृतम् वह साहसं पञ्चषा स्मृतम् ॥ '
दवि नारदः ।
इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽणयटिप्पन्पा-मष्टाविंशतितमोऽध्यायः ॥
एकोनत्रिंशत्तमोऽध्यायः । १ स्वभावप्रवृत्तानां जरादिव्याधीनां । प्रतिषेधनं तस्मै हितं स्वभावव्याधिप्रति-बेधनीयं रसायनं व्याख्यास्याम इत्यर्थः । २ सोमसंज्ञकामृतवर्णनं करोति - ब्रह्मा-दय इति । अमृतं सूत इवि सोमः । ' षु प्रसवैश्वर्ययोः ' इति धातोः ' अतिस्तुषुदुस.. क्षिक्षुभायावापदियक्षिनोभ्यो मन् ' इत्यौणादिको मन्प्रत्ययः । ३ अंशुमानित्यादिना चतुर्विंशतिनामानि सोमस्यैव ज्ञेयानि । ४ अत्र ' शाङ्करः ' इति पाठान्तरम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 874
पाठ पढ़ें पाठ छिपाएँ
७१८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri गायत्र्या त्रिपदा युक्तो यश्चोपतिरुच्यते । [ अ ० २ ९ एते सोमाः समाख्याता वेदोक्तैर्नामभिः शुभैः ॥ ८ ॥
सर्वेषामेव चैतेषामेको विधिरुपासने ।
• सर्वे तुल्यगुणाश्चैव विधानं तेषु वक्ष्यते ॥ ९ ॥
अतोऽन्यतमं सोममुपयुयुक्षुः सर्वोपकरणपरिचारकोपेतः प्रश-स्ते देशे त्रिवृत्तमागारं कारयित्वा हृतदोषः प्रतिसंसृष्टभक्तः प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु अंशुमन्तमादायाध्वरकल्पेनाहृतमभिषुतम-भिहुतं चान्तरागारे कृतमङ्गलस्वस्तिवाचनः सोमकन्दं सुवर्ण सूच्या विदार्य्यं पयो गृह्णीयात् सौवर्णे राजते वा पात्रेऽञ्जलिमात्रं, ततः सकृदेवोपयुञ्जीत नास्वादयन् तत उपस्पृश्य शेषमस्ववसाद्य यमनियमाभ्यामात्मानं संयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्य-मानो विहरेत् ॥ १० ॥
२ तुल्यगुणाः = समानफला १ सोमस्य संज्ञान्तरं दर्शयति - यश्चेति । इत्यर्थः । ३ सोमसेवनविधानमुपदिशति - अत इति । शुमदाख्यं सोमम्, उपयुयुतुः = उपयोगं कर्तुमिच्छुरित्यर्थः । परिवृतं त्रिवृतम् आगारं कुटीमित्यर्थः । अन्यतमम् = एकतम मं ४ तिसृभिभित्तिभिः कुटोनिर्माणप्रकारमाइ चरकः - " नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् । निवासे निर्भये शस्ते प्राप्योपकरणे पुरे । दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम् ॥ विस्तारोत्सेधसम्पन्नां त्रिगर्भो सूक्ष्मलोचनाम् । घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम् ॥ शब्दादीनामशस्तानामगम्यां स्त्रीविवर्जिताम् । इष्टोपकरणोपेतां सज्जवैद्यौष-घद्विजाम् ॥ अथोदगयने शुक्ले तिथिनक्षत्र पूजिते । मुहूर्त करणोपेते प्रशस्ते कृतवापनः ॥ धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः । विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्त-यन् ॥ देवताः पूजयिखाऽग्रे द्विजातींश्च प्रदक्षिणम् । देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत् कुटीम् ॥ ” इति । ५ अध्वरकल्पेनाहृतं = प्रग्निष्टोम विधानेनानीतम्, श्रभिषुतं पीडितम्, अ. भिहुतम् = अग्नौ प्राग्वत् प्रक्षिप्तम् । उभयत्र ' ऋत्विग्भिः ' इति शेषो बोध्यः । ६ द्यन्तरागारे = अन्तःकोष्ठे इत्यर्थः । ७ सुवर्णसूच्या = कनकशलाकया । ८ अ. ब्जलिमात्रं = कुडबपरिमाणम्, षोडशतोलकानीत्यर्थः । ९ शेषं गृहीत क्षीरमं -शुमतः कन्दम्, अप्सु = नद्यादिजले, अवसाद्य = प्रक्षिप्य । १० विइरेत् = गमनप-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 875
पाठ पढ़ें पाठ छिपाएँ
अ ० २२ ] Digitized by Arya Samai Foundation Chennai and eGangotri कत्सास्थान कारणः सञ्जायते जन्तुरर्दितं चास्य जायते ॥ ३० ॥
चलमप्युत्तरं दन्तमतो नापहरेद् भिषक् ।
धावने जातिमदनश्वादुकण्टकखादिरम् ॥ ३१ ॥
केषायं जातिमदनकटुकस्वादुकण्टकैः ।
यष्ट्याह्वरोत्र मञ्जिष्ठाखदिरैश्चापि यत् कृतम् ॥ ३२ ॥
तैलं ' शोधनं तद्धि हन्यादन्तगतां गतिम् ।
कीर्त्तिता दन्तमूले तु क्रिया द्न्तेषु वक्ष्यते ॥ ३३ ॥
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृर्तस्य वा ।
निर्यूहौश्चानिलग्नानां दन्तहर्षप्रमर्दनाः ॥ ३४ ॥
स्नैहिकश्च हितो धूमो नस्यं स्निग्धं च भोजनम् ।
रसो रसयवाग्वश्च क्षीरं सन्तानिका घृतम् ॥ ३५ ॥
शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापहः ।
अहिसन् दन्तमूलानि शर्करामुद्धरेद्भिषक् ॥ ३६ ॥
लाक्षाचूर्मधुयुतैस्ततस्ताः प्रतिसारयेत् ।
दन्तहर्षक्रियां चापि कुर्य्यान्निरवशेषतः ॥ ३७ ॥
कपालिको कृच्छ्रतमा तत्राप्येषा क्रिया हिता ।
" जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ॥ ३८ ॥
तथाऽवपीडैर्वातघ्नै: स्नेहगण्डूषधारणैः ।
भद्रदार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ॥ ३ ९ ॥
चलमुद्धृत्य च स्थानं विदहेच्छुषिरस्य " च । I ६७१ १ चलमपि = ईषरकम्पयुक्तमपि । २ कषायः = काथः, जाति = मालती । ‘ ङथापोः संज्ञाच्छन्दसोर्बहुलम् ' इति हस्व: । स्वादुकण्टकः = गोक्षुरकः ।. ३ दन्तरोगेषु दन्तहर्षचिकित्सामा ख्याति - स्नेहानामिति । ४ त्रैवृतस्य = = सम्मिलितस्नेहत्रितयस्येत्यर्थः । ५ निर्यहाः = काथाः । ६ सन्तानिका = ' मलाई ' इति प्रसिद्धा । ७ शर्करायाश्चिकित्सां वक्ति - अहिंसन्निति! ८ प्रतिसारयेत् -घर्षयेत् । ९ कपालिकायाश्चिकित्सामा चष्टे - कपालिकेति । १० कृमिदन्तचिकि-त्सितमभिधत्ते - जयेदिति । विस्रावणैः = लेखनेंहिंङ्गुतुत्य का दिले पैश्चेत्यर्थः । ११ शुषि-रस्य == = पूयकृतच्छिद्रस्येत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 876
पाठ पढ़ें पाठ छिपाएँ
६७ digitized by Arya Samaj Fou कुश्रुतसंहितायां Gangotri ततोविदारीयष्ट्याह्वशृङ्गाटककसेरुकैः ॥ ४० ॥
तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत् । [ अ ० २२ मोक्षे समुद्दिष्टां कुर्य्याच्चादितवत् क्रियम् ॥ ४१ ॥
फलान्यग्लानि शीताम्बु रूक्षान्नं दन्तधावनम् ।
तथाऽतिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत् ॥ ४२ ॥
सौध्यानां दन्तरोगाणां चिकित्सितमुदीरितम् ।
जिह्वाँगतानां साध्यानां कर्म वक्ष्यामि सिद्धये ॥। ४३ ॥
श्रोष्ठप्रकोपेऽनिलजे यदुक्तं प्राकू चिकित्सितम् ।
कण्टकेष्वनिलोत्थेषु।तत् कार्य्यं भिषजा भवेत् ॥ ४४ ॥
पित्त॑जेषु विघृष्टेषु निःसृते दुष्टशोणिते ।
प्रतिसारणगण्डूषं नभ्यं च मधुरं हितम् ॥ ४५ ॥
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये ।
पिप्पल्यादिर्मधुयुतः कार्य्यस्तु प्रतिसारणे ॥ ४६ ॥
गृह्णीयात् कवलांश्चापि गौरसर्षप सैन्धवैः ।
पटोलनिम्बवार्त्ता कुक्षारयूपैश्च भोजयेत् ॥ ४७ ॥
—उपैंजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत् ।
शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत् ॥ ४८ ॥
जिह्वागतानां कर्मोक्तं तालव्यानां प्रवक्ष्यते । १ इनुमोक्षचिकित्सितमाह - हन्विति । २ मस्तिष्क शिरोब स्तिनस्यधूमोपनाहा-दिकां क्रियामित्यर्थः । ३ असाध्या दन्तरोगास्तु श्यावदन्तदालभञ्जनाख्या इति, तेषां चिकित्सितं नोदाहृतमिति तात्पर्यम् । ४ वातिकजिह्वा कण्टकचितिं निर्दि-शति - जिह्रेति । ५ पैत्तिकजिह्वा कण्टकचिकित्सामाह - पित्तजेष्विति । गोजीशे. फालिका पत्रैविघृष्टष्वित्यर्थः । ६ प्रतिसारणं गण्डूषश्चेति द्वयं काकोल्यादि मधुरद्र • व्यैरेव कायम् । ७ श्लैष्मिकजिह्वा कण्टकचिकित्सितं दर्शयति-- कण्टकेष्विति । लिखितेषु = असृजः = रुधिरस्य, क्षये = स्रावावसाने इत्यर्थः । ८ क्षारो यवक्षारस्तत्प्रधानो युषः वारयूषस्तैः । ९ उपजिह्वायाश्चिकित्सां ब्रवीति — उपेति । संलिख्य = शस्त्रे -णावलिख्य । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 877
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ९ ] चिकित्सास्थान hehnai Digitized by Arya Samaj Foundation Chehnai and eGangotri ७१ ९ 1
रसायनं पीतवांस्तु निवाते न्मनाः शुचिः ।
आसीत तिष्ठेत् कामेच्च न कथञ्चन संविशेत् ॥ ११ ॥
सायं वा भुक्तवान् श्रुतशान्तिः कुशशय्यायां कृष्णाजिनोत्तरायां सुहृद्भिरुपास्यमानः शयीत, तृषितो वा शीतोदकमात्रां पिबेत् । ( अशनायितो वा क्षी ' ) ततः प्रातरुत्थायोपश्रुतशान्तिः कृतमङ्गलो गां स्पृष्ट्वा तथैवासीत, तस्य जीर्णे सोमे छर्दिरुत्पद्यते, ततः शोणि-ताक्तं कृमिव्र्व्यामिश्रं छर्दितवते सायं शृतशीतं क्षीरं वितरेत् । तत-स्तृतीयेऽहनि कृमिव्यामिश्रमतिसार्य्यते स तेनानिष्टप्रतिग्रहभुक्तप्र-भृतिभिर्विशेषैर्मुक्तः शुद्धतनुर्भवति, ततः सायं स्नाताय पूर्ववदेव क्षीरं वितरेत्, क्षौमवस्त्रास्तृतायां चैनं शय्यायां शाययेत् । ततश्चतुर्थेऽह-नि तस्य श्वयथुरुत्पद्यते, ततः सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति, तदहश्च शय्यायां पांशुभिरवकीर्य्यमाणः शयीत, ततः सायं पूर्ववदेव क्षीरं वितरेत् । एवं पञ्चमषष्ठयोर्दिव योर्वर्त्तेत, केवलमुभयकालमस्मै तीरं वितरेत् । ततः सप्तमेऽ-हनि निर्मांसस्त्वगस्थिभूतः केवलं सोमपरिग्रहादेवोच्छ्वसिति, तदहश्च क्षीरेण सुखोष्णे परिषिच्य तिलमधुकचन्दनानुलिप्त-देहं पयः पाययेत् । ततोऽष्टमेऽहनि प्रातरेव क्षीरपरिषिक्तं चन्द-नप्रदिग्धगात्रं " पयः पाययित्वा पांशुशय्यां समुत्सृज्य क्षौमास्तृ-तायां शाययेत्, ततो मांसमाप्याय्यते, त्वक् चावदलति, दन्त-नखरोमाणि चास्य पतन्ति । तस्य नवमदिवसात् प्रभृत्यणुतै-लाभ्यङ्गः " सोमवल्ककषायपरिषेकः । ततो दशमेऽहन्येतदेव वित-रेत्, ततोऽस्य त्वस्थिरतामुपैति । एवमेकादशद्वादशयोवॅर्तेत । रिभ्रमणस्थानासनचतुर्विधकार्याविहारं कुर्यादित्यर्थः । १ तत्रैव सोमे मनो यस्य स तन्मनाः । २ न संविशेत् = न स्वप्यात् । ३ अत्र मात्राशब्दस्य अल्पार्थकत्वात् स्वल्पं शीतोदकमित्यर्थः । ४ छर्दिम-नम् । ५ क्रियाविशेषणमेतत् । ६ वितरेत = दद्यादित्यर्थः । ७ श्राद्धाद्यनिष्टप्रति ग्रहभोजनादिभिरित्यर्थः । पशुभिः = धूलिभिः । ९ सुखोष्णेन = ईषदुष्णेन । १० चन्दनप्रदिग्धगात्रं चन्दनानुलिप्तशरीरम् । ११ अणुतैलं वातव्याधिचिकित्सिते CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 878
पाठ पढ़ें पाठ छिपाएँ
७२० सुश्रुतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २ ९ ततस्त्रयोदशात् प्रभृति सोमवल्ककषायपरिषेकः, एवमाषोडशाद् व-र्त्तेत । ततः सप्तदशाष्टादशयोदिवस योदर्शना जायन्ते शिखरिणः स्नि-ग्धवज्रवैदूर्य्यस्फटिकनिकाशाः समाः स्थिराः सहिष्णवः, तदाप्रभृति चानवैःशालितण्डुलैः क्षीरयवागूमुपसेवेत यावत् पञ्चविंशतिरिति । ततोऽस्मै दद्याच्छल्योदनं मृदूभयकालं पयसा, ततोऽस्य नखा जायन्ते विद्रुमेन्द्रगोपकतरुणादित्यप्रकाशाः, स्थिराः स्निग्धा लक्ष-णसम्पन्नाः केशाश्च जायन्ते, त्वक् च नीलोत्पलातसी पुष्पवैदूर्य-प्रकाशाः । ऊर्ध्वञ्च मासात् केशान् वापयेत्, वापयित्वा चोशी-रचन्दनकृष्णतिलकल्कैः शिरः प्रदिद्यात् पयसा वा स्नापयेत् । ततोऽस्यानन्तरं सप्तरात्रात् केशा जायन्ते भ्रमराञ्जननिभाः कुचिताः स्निग्धाः । ततस्त्रिरात्रात् प्रथमावसथपरिसरान्निष्क्रम्य मुहूर्त्त स्थित्वा पुनरेवान्तः प्रविशेत् " ततोऽस्य बलातैलमभ्यङ्गार्थे-ऽवचार्य, यवपिष्टमुद्वर्त्तनार्थे, 6 सुखोष्णञ्च पयः परिषेकार्थे, अर्जकर्णकषायमुत्सादनार्थे, सोशीरं कूपोदकं स्नानार्थ, चन्दनमनु-लेपार्थे, आमलकरसविमिश्राश्वास्य यूपसूपविकल्पाः, क्षीरमधुक-सिद्धश्च कृष्णतिलमवचारणार्थे, एवं दशरात्रं, ततोऽन्यद् दशरात्रं द्वितीये परिसरे वर्त्तेत । ततस्तृतीये परिसरे स्थिरीकुर्वन्नात्मानम-न्यद्दशरात्रमासीत, किञ्चिदातपपवनान् वा सेवेत, पुनश्चान्तः प्रवि-शेत्, न चात्मानमादर्शेऽप्सु वा निरीक्षेत रूपशालित्वात् । ततोऽ द्रष्टव्यम् । सोमवल्ककषायपरिषेकः = सोमवल्कक्काथस्नानम् । १ दशनाः = दन्ताः । २ इन्द्रगोपः = ' वीरबहूटी ' इति ख्यातः प्रावृषि जायमानो रक्तवर्णः कीटः । ३ लक्ष • णसम्पन्नाः = घनत्व कृष्णत्वादिगुणयुक्ता इत्यर्थः । ४ वैदूर्य्यच्छार्यालक्षणं यथा – “ एकं वेणुपलाशकोमलरुचा मायूरकण्ठश्विषा मार्जारक्षणपिङ्गलच्छविजुषा सेयं त्रिधा छायया । यद् गात्रं गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैदूर्य्यं विशदं वदन्ति सुधियः स्वच्छच तच्छोभनम् ॥ ” इवि । ५ बलातैलं मूढगर्भचिकित्सितोक्तम् । ६ अजकर्णः सालभेदस्तस्य कषायः कल्कः । ७ मुद्गादिद्विदलस्य वस्त्रगालितो युषः, सूपस्त्वगालितः । ८ परिसरे प रिवृतप्रकोष्ठे । ९ यतो मनोहरं रूपं मनोविभ्रमावहं स्यादिति तात्पर्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 879
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ९ Digitized by Arya sachaorlai Samaj and eGangotri ७२१ न्यद्दशरात्रं क्रोधादीन् परिहरेत् । एवं सर्वेषामुपयोगविकल्पः । . विशेषतस्तु वल्लीप्रतानक्षुपादयः सोमा ब्राह्म एक्षत्रियवैश्यैर्भक्षयि-तव्याः । तेषान्तु प्रमाणमर्द्धचतुर्थमुष्टयः ॥ १२ ॥
अंशुमन्तं सौवर्ण पात्रेऽभिषुणुयात्, चद्रमसं राजते चोप-ज्याष्टगुणमैश्वर्यमवाप्येशानं देवमनुप्रविशति शेषांस्तु ताम्रमये मृण्मये वा रोहिते वा चर्म्मणि वितते, शूद्रवर्जं त्रिभिर्वर्णैः सोमा उपयोक्तव्याः । ततश्चतुर्थे मासे पौर्णमास्यां शुचौ देशे ब्राह्म-णानर्चयित्वा कृतमङ्गलो निष्क्रम्य यथोक्तं व्रजेदिति ॥ १३ ॥
श्रोषधीनां पतिं सोममुपयुज्य विचक्षणः ।
दशवर्षसहस्राणि नवां धारयते तनुम् ॥ १४ ॥
नाग्निर्न तोयं न विषं न शस्त्रं नास्त्रमेव च ।
तस्यालमायुःक्षपणे समर्थाश्च भवन्ति हि ॥ १५ ॥
भद्राणां षष्टिवर्षाणां प्रस्रुतानामनेकधा ।
कुञ्जराणां सहस्रस्य बलं समधिगच्छति ॥ १६ ॥
क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि ।
यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः ॥ १७ ॥
कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः ।
प्रह्लादयति भूतानां मनांसि स महाद्युतिः ॥ १८ ॥
साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दति तत्त्वतः ।
चरत्यमोघसङ्कल्पो देववच्चाखिलं जगत् ॥ १ ९ ॥
१ श्रादिग्रहणात् कन्दादीनां परिग्रहः । २ अर्द्धचतुर्थमुष्टयः = प्रष्टादशतोलकानि । ३ विविध सोमाभिषवयोग्यपात्राणि निर्दिशति - अंशुमन्तमिति । श्रभिषुणुया-तू = कण्डयेदित्यर्थः । ४ अष्टगुणमैश्वर्यम् प्रणिमाद्यष्टैश्वर्यम् । ' श्रणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ ' इत्यमरः । ईशानं = शङ्करम् । ५ रोहिते = लोहितमृगविशेषे । ६ सोमसेवनफलमभिवत्ते — ओषधीनामिति । ७ भद्राणां = श्रेष्ठजातीयाना-मित्यर्थः । प्रस्रुतानां प्रस्यन्दन्मदानाम् । ८ अमोघः अनिष्फलः सङ्कल्यो यस्य ४६ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 880
पाठ पढ़ें पाठ छिपाएँ
७२२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri सर्वेषामेव सोमानां पत्राणि दश पञ्च च । [ अ ० २ ९ तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च ॥ २० ॥
एकैकं जायते पत्रं सोमस्याहरहस्तदा ।
शुक्लस्य पौर्णमास्यान्तु भवेत् पञ्चदशच्छदः ॥ २१ ॥
शीर्यते पत्रमेकैकं दिवसे दिवसे पुनः ।
कृष्णपक्षक्षये चापि लतो भवति केवला ॥ २२ ॥
अंशुमानाज्यगन्धस्तु कन्दवान् रजतप्रभः ।
कदल्याकारकन्दस्तु मुञ्जवांल्लनच्छदः ॥ २३ ॥
चन्द्रमाः कनकाभासो जले चरति सर्वदा ।
गरुडाहृतनामा च श्वेताक्षश्चापि पाण्डुरौ ॥ २४ ॥
सर्पनिर्मोकसदृशौ तौ वृक्षाग्रावलम्बिनौ ।
तथाऽन्ये मण्डलैश्चित्रैश्चित्रिता इव भान्ति ते ॥ २५ ॥
सर्व एव तु विज्ञेयाः सोमाः पञ्चदशच्छदाः ।
क्षीरकन्दलतावन्तः पत्रैर्नानाविधैः स्मृताः ॥ २६ ॥
हिमँवत्यर्बुदे सह्ये महेन्द्रे मलये तथा ।
श्रीपर्वते देवगिरौ गिरौ देवसहे तथा ॥ २७ ॥
पारियात्रे च विन्ध्ये च देवसुन्दे हृदे तथा ।
उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः ॥ २८ ॥
सः । १ विविधसोमलक्षणानि निर्दिशति - सर्वेषामिति । दशपञ्च पत्राणि = पञ्च • दश दलानीत्यर्थः । ' पत्रं पलाशं छदनं दलं परौं छदः पुमान् ' इत्यमरः । २ कृष्ण-पक्षेऽमायां सर्वेषां पञ्चदशपत्राणां निपतनात् केवलं लतामात्रेणैवावशिष्टः सोमो दृश्यते इति भावः । ३ निर्मोकः = कन्चुकः, ' केंचुल ' इति ख्यातः । ' समौ कञ्चु • कनिर्मोकौ ' इत्यमरः । ४ सोमोत्पत्तिस्थानानि दशयति - हिमवतीति । हिममस्त्यस्मिन्निति हिमवान् तस्मिन् हिमाचले, * र्बुदे - ' आबू ' इति ख्याते महीधरे, सह्ये = मलयाद्रिसमीपवर्तिनि शैले, महेन्द्र = कलिङ्गदेशस्थे कुलपर्वते, मलये = ऋष्यमूकप्रदेशान्तरेऽद्रिविशेषे, श्रीपर्वते - श्री शैले, ' मेरुमन्दर कैलासमलया गन्धमादनः । महेन्द्रः श्रीपर्वतश्च हेमकू. टस्तथैव च ॥ अष्टावेते तु सम्पूज्या गिरयः पूर्वदिक् क्रमात् ' । देवगिर्यादयः शैला ज्ञातव्या । ५ वितस्तायाः = एतन्नामिकायः काश्मीरदेशस्थाया नद्याः । CC - 0. Gurukul Kangri Collection, Haridwar