सुश्रुत संहिता चौखम्बा — पृष्ठ 881–890
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 881–890
पृष्ठ 881
पाठ पढ़ें पाठ छिपाएँ
०३० } Digitized by Aryennai and eGangotri ७२३
पञ्च तेषामधो मध्ये सिन्धुनामा महानदः ।
हेठवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः ॥ २ ९ ॥
तस्योद्देशेषु ' चाप्यस्ति मुञ्जवानंशुमानपि ।
कौश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमौनसम् ॥ ३० ॥
गायत्रस्त्रैष्टुभः पाङ्ङ्क्तो जागतः शाक्करस्तथा ।
अत्र सन्त्यपरे चापि सोमाः सोमसमप्रभाः ॥ ३१ ॥
न तान् पश्यन्त्यधर्मिष्ठाः कृतघ्नाश्चापि मानवाः ।
भेषजद्वेषिणश्चापि ब्राह्मणद्वेषिरणस्तथा ॥ ३२ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने स्वभावव्याधिप्रतिषेधनीयं रसायन --चिकित्सितं नामैकोनत्रिंशोऽध्यायः ॥ २ ९ ॥
त्रिंशत्तमोऽध्यायः ।
अथातो निवृत्तसन्तापीयं रसायनचिकित्सितं व्याख्यास्यामः ॥१ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः । १ सिन्धुः = काश्मीर देशप्रसिद्धो नदः । २ इठवत् जलकुम्भिकावत्, प्लवते = तरति । ३ उद्देशेषु = निकटवर्ति प्रदेशेष्वित्यर्थः । ४ " शारदामठमारभ्य कुङ्कुमाद्रितटान्तकम् । तावत् काश्मीरदेशः स्यात् पञ्चाश-द्योजनात्मकः ॥ ' इति तन्त्रशास्त्रम् । ५ मानसस्थानमुक्तं मृगेन्द्र संहितायां - मेरोर्याम्ये गन्धमादनो नाम विष्कम्भ शैलस्तस्य मूले नन्दनाख्यमुपवनमस्ति, तत्र मानसं नाम सर इत्युक्तम् । यथा - ' यामाद्रिमूले गन्धर्वै सुरसिद्धाप्सरोवृतम् । नन्दनं मानसं तत्र् सरो मानसतस्करम् ' इति । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्यटिप्पन्या-मेकोनत्रिंशत्तमोऽध्यायः । त्रिंशत्तमोऽध्यायः । ६ सोमसाम्यादष्टादशानां श्वेतकापोत्यादीनामोषधीनामु योगमुपदेष्टुं निरृत्तस-न्तीपीयं नाम रसायनमधिकरोति - अथात इति । निवृत्तसन्तापपदमधिकृत्य कृतं रसायनं निवृत्तसन्तापीयम् । ७ निवृत्तः शारीरमानसजनितसन्तापो येषां ते निवृत्त-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 882
पाठ पढ़ें पाठ छिपाएँ
-७२४ सुश्रुतसंहिताया: --Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३० तथैौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः ॥ ३ ॥
थ • सप्त पुरुषा रसायनं नोपयुञ्जीरन् । तद् यथा—- अनात्म-वानलसो दरिद्रः प्रभादी व्यसनी पापकृद् भेषजापमानी चेति । सप्तभिरेव कारणैर्न सम्पद्यते - अज्ञानादनारम्भादस्थिरचित्तत्वादा-रिद्र्यादनायत्तत्वादधर्मादौषधालाभाच्चेति ॥ ४ ॥
अथौषधीर्व्याख्यास्यामः -श्वेत कापोती, कृष्णकापोती, गोनसी, अजगरी, वाराही, कन्या, छत्रा, अतिच्छत्रा, करेणुः, अजा, चक्रका, आदित्यपर्णिनी, ब्रह्मसुवर्चला, श्रावणी, महाश्रावणी, गोलोमी, अजलोमी, महावेगवती, चेत्यष्टादश सोमसमवीर्य्या महौषधयो व्याख्याताः । तासां सोमवत् क्रियाशीः स्तुतयः शास्त्रे -ऽभिहिताः । तासामागारेऽभिहुतानां याः क्षीरवत्यस्तासां क्षीरकुडैवं सकृदेवोपयुञ्जीत । यारत्वक्षीरा मूलवत्यस्तासां प्रदेशिनीप्रमाणां नि त्रीणि काण्डा-नि प्रमाणमुपयोगे, श्वेतकापोती समूलपत्रा भक्षयितव्या, गोनस्य-जगरीकृष्ण कापोतीनां सर्नखमुष्टिं खण्डशः कल्पयित्वा क्षीरेण विपाच्य परिस्राव्याभिचारितमभिहुत सकृदेवोपयुञ्जीत । चक्र-कायाः पयः सकृदेव । ब्रह्मसुवर्चेला सप्तरात्रमुपयोक्तव्या । भक्ष्य-कल्पेन | शेषाणां पञ्च पलानि तीराढककथितानि प्रस्थेऽवशिष्टे -ऽवतार्थ परिस्राव्य सकृदेवोपयुञ्जीत । सोमवदाहारविहारौ व्या-ख्यातौ, केवलं नवनीतमभ्यङ्गार्थे, शेषं सोमवदानिर्गमादिति ॥ ५ ॥
सन्तापाः । १ रसायनसेवनायोग्यपुरुषान् दर्शयति --- अथेति । २ अनात्मवानि. त्यादीनां सप्तानां पुरुषाणामज्ञानादिभिः सप्तभिर्यथासंख्यं परेणान्षयः । १३ सोमसमवीर्या महौषधीर्वर्णयति - श्वेतकापोतीति । ४ श्रष्टादशौषधीनां मध्ये क्षीरवतीनामोषधीनां सेवनविधिमुपदिश्यति - तासामिति । श्राशीः = मङ्गलपा-ठादिः । ५ क्षीरस्य कुडवं पोटशतोलकानि । ६ श्रीराणामोषधीनां सेवनविधानं निर्दिशति -- या इति । ७ श्रयामविस्ताराभ्यां प्रदेशिनीप्रमाणानीत्यर्थः । ८ सनखमुष्टिम् = अन्तर्वद्धनखमुष्टिपरिमितम् । ९ निर्गमात् = गूढागारे आवासप-यन्तमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 883
पाठ पढ़ें पाठ छिपाएँ
अ ० ३० ] Digitized by Ary तस्वास्थानम् and eGangotri भवन्ति चात्र ।
युवानं सिंहविक्रान्तं कान्तं श्रतनिगादिनम् ।
कुर्य्यरेताः क्रमेणैव द्विसहस्रायुषं नरम् ॥ ६ ॥
अङ्गदी कुण्डली मौली दिव्यस्रक्चन्दनाम्बरः ।
चरत्यमोघसङ्कल्पो नभस्यम्बुददुर्गमे ॥ ७ ॥
व्रजन्ति पक्षिणो येन जललम्बाश्च तोयदाः ।
गतिः सौषधिसिद्धस्य सोमसिद्धगतिः परा ॥ ८ ॥
अथ वक्ष्यामि विज्ञानमौषधीनां पृथक् पृथक् ।
मण्डलैः कपिलैश्चित्रैः सर्पाभा पञ्चपणिनी ॥ ९ ॥
पञ्चारत्निप्रमाणा च विज्ञेयाऽजगरी बुधैः ।
निष्पत्रा कैनकाभासा मूले द्व्यङ्गुलसम्मिता ॥ १० ॥
सर्पाकारा लोहितान्ता श्वेतकापोतिरुच्यते ।
द्विपणिनीं मूलभवामरुणां कृष्णमण्डलाम् ॥ ११ ॥
द्वचरत्निमात्रां जानीयाद्गोनसी गोनसाकृतिम् ।
सक्षीरां रोमशां मृद्वीं रसेनेक्षुरसोपमाम् ॥ १२ ॥
एवं रूपरसाञ्चापि कृष्णकापोतिमादिशेत् ।
कृष्णसर्पस्वरूपेण वाराहीकन्दसम्भवा ॥ १३ ॥
एकपत्रा महावीर्या भिन्नाञ्जनसमप्रभा ।
छत्रातिच्छत्रके विद्यार्द्रक्षोघ्ने कन्दसम्भवे ॥ १४ ॥
जरामृत्युनिवारिण्यौ श्वेतकापोतिसंस्थिते ।
कान्तैर्द्वादशभिः पत्रैर्मयूराङ्गरुहोपमैः ॥ १५ ॥
कन्दजा काञ्चनक्षीरी कन्या नाम महौषधी ।
करेणुः सुबहुक्षीरा कन्देन गजरूपिणी ॥ १६ ॥
७२५ १ श्रोषधीनां सेवनफलमभिदधाति -- युवानमिति । २ जलेन लम्बा अधो लम्बमानाः 1 ३ ओषधीनां विज्ञानोपायीभूतलक्षणानि निदिशति — अथेति । ४ कनकवत् सुवर्णवदाभासो वर्णो यस्याः सा कनकाभासा । । ५ गोनसाकृति == गोनासिकाकाराम्, अथवा गोनसः सर्पविशेषस्तद्वदाकृतियस्याः सा ताम् । ६ रक्षोध्ने = रक्षसां प्रध्वंसकरे । ७ श्वेतकापोतिसंस्थिते = श्वेतकापोतिकाकारे । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 884
पाठ पढ़ें पाठ छिपाएँ
७२६ सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri हस्तिकर्ण पलाशस्य तुल्यपर्णा द्विपर्णिनी । [ अ ० ३० अजास्तनाभकन्दा तु सक्षीरा क्षुपरूपिणी ॥ १७ ॥
अजा महौषधी क्षेया शङ्खकुन्देन्दुपाण्डुरा ।
श्वेतां विचित्रकुसुमां काकादन्या समां क्षुपाम् ॥ १८ ॥
चक्रक्रामोषधीं विद्याज्जरामृत्युनिवारिणीम् ।
मूलिनी पश्चभिः पत्रैः सुरक्तांशुककोमलैः ॥ १ ९ ॥
आदित्यपर्णिनी ज्ञेया सदाऽऽदित्यानुवर्तिनी ।
कनकाभा जलान्तेषु सर्वतः परिसर्पति ॥ २० ॥
सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला ।
अरत्निमात्रक्षुपका पत्रैर्व्यङ्गुलसम्मितैः ॥ २१ ॥
पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसन्निभैः ।
श्रावणी महती ज्ञेया कनकाभा पयस्विनी ॥ २२ ॥
श्रावणी पाण्डुराभासा महाश्रावणिलक्षणा ।
गोलोमी चाजलोमी च रोमशे कन्दसम्भवे ॥ २३ ॥
हंसपादीव विच्छिन्नैः पत्रैर्मूलसमुद्भवैः ।
अथवा शङ्खपुष्प्या च समाना सर्वरूपतः ॥ २४ ॥
वेगेन महताऽऽविष्टा सर्पनिर्मोकसन्निभा ।
एषा वेगवती नाम जायते ह्यम्बुदक्षये ॥ २५ ॥
संप्तादौ सर्वरूपिण्यो ह्योषध्यो याः प्रकीर्त्तिताः ।
तासामुद्धरणं कार्य्यं मन्त्रेणानेन सर्वदा ॥ २६ ॥
' महेन्द्र रामकृष्णानां ब्राह्मणानां गवामपि । तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै || २७ || ' १ हस्तिकर्णः = ' हाथीकन्द ' इति ख्यातः । राजनिघण्ड: - " हस्तिकन्दो हस्तिपत्रः स्थूलकन्दोऽतिपत्रकः । बृहत्पत्रोऽतिपत्रश्च हस्तिकर्णस्तु कर्णकः ॥ ” इति । २ बद्ध-मुष्टिकरोऽररिनः 1 । ३ अम्बुदक्षये = शरदीत्यर्थः । ४ श्रोषध्यानयनप्रकारं दर्शयति – सप्तादाविति । ' सर्परूपग्य ' इत्यत्र ' सर्व--रूपिण्य ' इति धाराणचन्द्र सम्मत पाठः । ५ शिवाय = कल्याणं कर्तुमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 885
पाठ पढ़ें पाठ छिपाएँ
अ ० ३० ] Digitized by Arya ईक्कक्रि ai and eGangotri ७२७
मन्त्रेणानेन मतिमान् सर्वा एवाभिमन्त्रयेत् ।
अश्रद्दधानैरलसैः कृतघ्नैः पापकर्मभिः ॥ २८ ॥
नैवासादयितुं शक्याः सोमाः सोमसमास्तथा ।
पीतविशेममृतं देवैर्ब्रह्मपुरोगमैः ॥ २ ९ ॥
निहितं सोमं वीर्य्यासु सोमे चाप्योषधीपतौ ।
देवसुन्दे ह्रदवरे तथा सिन्धौ महानृदे ॥ ३० ॥
दृश्यते च जलान्तेषु मेध्या ब्रह्मसुवर्चला ।
आदित्यपर्णिनी ज्ञेया तथैव हिमसङ्क्षये ॥ ३१ ॥
दृश्यतेऽजगरी नित्यं गोनसी चाम्बुदगमे काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् ॥ ३२ ॥
करेणुस्तत्र कन्या च छत्रातिच्छत्रके तथा ।
गोलोमी चाजलोमी च महती श्रावणी तथा ॥ ३३ ॥
वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते ।
कौशिकीं सरितं तीर्त्वा सञ्जयन्त्यास्तु पूर्वतः ॥ ३४ ॥
क्षितिप्रदेशो वल्मीकैराचितो योजनत्रयम् ।
विज्ञेया तत्र कापोती श्वेता वल्मोकमूर्द्वसु ॥ ३५ ॥
मलये नर्लसेतौ च वेगवत्यौषधी ध्रुवा ।
कार्त्तिक्यां पौर्णमास्याञ्च भक्षयेत्तामुपोषितः ॥ ३६ ॥
सोमवच्चात्र वर्त्तेत फलं तावच्च कीर्त्तितम् ।
सर्वा विचेयास्त्वोषध्यः सोमाञ्चाप्यर्बुदे गिरौ ॥ ३७ ॥
सशृङ्गैर्देवचरितैरम्दानीकभेदिभिः ।
व्याप्तस्तीर्थैश्च विख्यातैः सिद्धर्षिसुरसेवितैः ॥ ३८ ॥
गुहाभिर्भीमरूपाभिः सिंहोन्नादितकुक्षिभिः । १ श्रोषधीनाममृततुल्य गुणवे कारणं दर्शयति - पोतेति २ सोमवोर्यास्वोषधीष्वित्यर्थः । ३ श्रोषध्युत्पत्तिस्थानानि दर्शयति – देवसुन्द इति । ४ जलान्तेषु = जलम-ध्येषु । ५ हिमसङ्क्षये = वसन्ते इत्यर्थः । ६ अम्बुदागमे = वर्षासु । ७ कृष्ण-सर्पाख्या = वाराही । ८ योजनत्रयं = द्वादशकोशात्मकः । ९ नलेन वानरवि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 886
पाठ पढ़ें पाठ छिपाएँ
७२८ सुश्रुतसंहितायां-[ अ ० ३१ Digitized by Arya Samaj Foundation Chennai and eGangotri
गजालोडित तोयाभिरापगाभिः समन्ततः ।
विविधैर्धातुभिश्वित्रैः सर्वत्रैवोपशोभितः ॥ ३ ९ ॥
नदीषु शैलेषु सरःसु चापि पुण्येष्वरण्येषु तथाऽऽश्रमेषु ।
सर्वत्र सर्वाः पैरिमार्गितव्याः सर्वत्र भूमिर्हि वसूनि धत्ते ॥ ४० ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने निवृत्तसन्तापीयं रसायन-चिकित्सितं नाम त्रिंशोऽध्यायः ॥ ३० ॥
एकत्रिंशत्तमोऽध्यायः ।
अथातः स्नेहोपयौगिकं चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
स्नेहसारोऽयं पुरुषः, प्राणाश्च स्नेहभूयिष्ठाः स्नेहसाध्याश्च भवन्ति । स्नेहो हि पानानुवासनमस्तिष्क शिरोबस्त्युत्तरवस्तिनस्य-कर्णपूरणगात्राभ्यङ्गभोजनेषूपयोज्यः || ३ || तंत्र द्वियोनिश्चतुर्विकल्पोऽभिहितः स्नेहः स्नेहगुणाश्च । तत्र शेषेण निर्मिते रामायणप्रसिद्धे सामुद्रसेतो, रामेश्वरनिकटे इत्यर्थः । १ परिमार्गि तव्याः = अन्वेषणीयाः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधा ss ख्य टिप्पन्यां त्रिंशत्तमोऽध्यायः । एकत्रिंशत्तमोऽध्यायः । २ पूर्वाध्यायेषु रसायनमुक्तं, तच्च शरीरस्य शुद्धिमन्तरा न फलदमिति संशोध-नोपदेशार्थं प्राक् स्नेहोपयौगिकं चिकित्सितमारभ्यते - अथात इति । स्नेहस्य सर्पिरादेरुपयोगो वाह्योऽभ्यन्तरश्च तमधिकृत्य कृतं स्नेोपयौगिकं चिकित्सितं व्या-ख्यास्यामः । ३ स्नेहस्य प्राधान्यं दर्शयति - स्नेदेति । स्नेहः सारो बलं यस्य सः । ४ स्नेहस्य द्वियोनिरबं प्रतिपादयति - तत्रेति । द्वियोनिः = स्थावरजङ्गमभेदेन द्विप्रकारकः । तदुक्तं- " स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते " इति । चतु-विकल्पः = चतुर्भेद इत्यर्थः । तदुक्तम् - " स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा । मज्जा च " इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 887
पाठ पढ़ें पाठ छिपाएँ
अ ० ३१ ] Digitized by Arya Sabha कितना अक hhal and eGangotri ७२ ९ जङ्गमेभ्यो गव्यं घृतं प्रधानम्, स्थावरेभ्यस्तिलतैलं प्रधानमिति ॥ ४ ॥
अत ऊर्ध्वं यथाप्रयोजनं यथाप्रधानं च स्थावरस्नेहानुपदे-क्ष्यामः - तंत्र, तिल्वकैरण्डकोशाम्र दन्तीद्रवन्ती सप्तलाशङ्किनी पलाश-विषाणिकागवाक्षीकम्पिल्लकशम्पाकनी लिनोस्नेहा विरेचयन्ति । जीमूतककुटजकृतवेधनेक्ष्वाकुधामार्गव मदनस्नेहा वामयन्ति । विड-ङ्गखरमञ्जरीमधु शिसूर्य वल्लीपीलुसिद्धार्थकज्योतिष्मती स्नेहाः शिरो विरेचयन्ति । करञ्जपूतिककृतमालमातुलुङ्गेदी किराततिक्तक स्नेहा दुष्टव्रणेषूपयुज्यन्ते । तुवरककपित्थकम्पिल्लकभल्लातक पटोलस्नेहा महाव्याधिषु, त्रपुसैर्वारुककर्काकतुम्बीकूष्माण्डस्नेहा मूर्त्रसङ्गेषु, " कपोतवङ्का वल्गुजहरीतकी स्नेहाः शर्कराऽश्मरीषु । कुसुम्भ सर्षपात-सीपिचुमदतिमुक्तकभाण्डीकटुतुम्बीकटभीस्नेहाः प्रमेहेषु । तालना-स्नैह्रस्य द्वित्रिचतुःसंयोगेन संज्ञान्तरं तन्त्रान्तरे - " द्वाभ्यां त्रिभिश्चतुभिर्वा यम-कस्त्रिवृतो महान् ” इति । द्वाभ्यां स्नेहाभ्यां घृततैलाभ्यां यमकाख्यः स्नेहः स्यात् । त्रिभिः स्नेह घृततैलवसारूपैस्त्रिवृताख्यः स्यात् । चतुभिर्धृततैलवसामज्जभिर्मद्दान् महास्नेह इत्यर्थइति तदर्थः । १ अष्टाङ्गहृदयेऽपि " सर्पिर्मज्जा वसा तैलं स्नेद्देषु प्रवरं मतम् । तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥ ” इति । चरके— " नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते । यथा सर्पिरतः सर्पिः सर्वस्नेहो -त्तमं मतम् ॥ ” इति । २ चरकेऽपि ~ - ~ ‘ ' सर्वेषां तैलजातानां तिलतैलं विशिष्यते । बलार्थे स्नेहने चाग्र्य-मैरण्डं तु विरेचने ॥ ” इति । ३ विविधस्थावरस्नेहानां गुणानुपयोगांश्च दर्शयति--तत्रेति । तत्र = स्नैहेवु मध्ये इत्यर्थः 1 । तिल्त्रकः = लोध्रः । ४ विषाणिका - मेष-शृङ्गी, गवाक्षी = इन्द्रवारुणी, कम्पिल्लकः = ' कवीला ' इति ख्यातः, शम्पाकः = आर • ग्वधः । ५ खरमञ्जरी = अपामार्गः, सूर्यवल्ली = श्रर्कपुष्पी । ६ विरेचयन्तिः = नस्य प्रयोगेण शिरसः श्लेष्माणं स्रावयन्ति । ७ किराततिक्तः = ' चिरायता ' इति ख्यातः । महाकुष्ठप्रमेदादिमहाव्याधिष्वित्यर्थः । ९ मूत्र सङ्गेषु = मूत्रकृच्छ्राध्माना-श्मरीषु । १० कपोतवङ्का = ब्रह्मसुवर्चला, अवल्गुजा = बाकुची । ११ पिचुमर्दः = निम्बः, अतिमुक्तकः = ' तेंदुआ ' इति ख्यातः । भाण्डी ' भाण्डनी इति लोके प्रसिद्धो विटप भाण्डधावनार्थमासुतीवलाः समाहरन्तीति ढल्हणः । कटभी ' मालकांगनी ' CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 888
पाठ पढ़ें पाठ छिपाएँ
७३० सुश्रुतसंहितायांJTM Digitized by Arya Sama Foundation Chennai and eGangotri [ अ ० ३१ रिकेलपनसमोचप्रियालबिल्व मधूकश्लेष्मातकाम्रातकफलस्नेहाः पि-त्तसंसृष्टे वायौ । बिभीतक भल्लातकपिण्डीत कस्नेहाः कृष्णीकरणे । श्रवणकटुण्टुकस्नेहाः पाण्डूकरणे । सरलपीतदारुशिंशपागुरु-सारस्नेहा दद्रुकुष्ठकिटिभेषु । सर्व एव स्नेहा वातमुपघ्नन्ति । तैल. गुणाश्च समासेन व्याख्याताः ॥ ५ ॥
अत ऊर्ध्वं कषायस्नेहपाकक्रममुपदेक्ष्यामः- तत्र केचिदाहुः-त्वक्पत्रमूलादीनां भागस्तच्चतुर्गुणं जलमावाप्य चतुर्भागावशेषं निःक्काथ्यापहरेदित्येष कषायपाककल्पः । स्नेहप्रसृतेषु षट्सु चतु-र्गुणं द्रवमावाप्य चतुरश्चात्समान् भेषजपिण्डानित्येष स्नेहपाक-कल्पः । एतत्तु न सम्यक्, ' कस्मादागमासिद्धत्वात् ॥ ६ ॥
. 6 पलकुडवादीनामतो मानन्तु व्याख्यास्यामः -तंत्र, द्वादश धा-न्यमाषा मध्यमाः सुवर्णमाषकः, ते षोडश सुवर्णम्; अथवा मध्य-मनिष्पावा एकोनविंशतिर्धरणम्, तान्यर्द्धतृतीयानि कर्षः, तत-इति लोके । १ पिण्डीतकः = मदनः । २ श्रवणः = ' इङ्गुदी ' इति डल्हणः, मुण्ड-तिकेति हाराणचन्द्रः । कङ्गुकः - ' कङ्गुनी - काकुन - कउनी ' इति देशभेदेनोद्धुष्यते । टुण्टुकः - स्योनाकः । ३ व्याख्याताः = द्रवद्रव्यविधौ कथिता इत्यर्थः । ४ कषायपाकस्नेहपाकक्रमे एकीयमतं दर्शयति - तत्रेति । ५ तदुक्तम् — “ चतु • भोगावशिष्टं क्वाथमुपहरेत् " इति । ६ श्रागमासिद्धत्वात् = शास्त्रविरुद्धत्वात् । ७ पल-कुडवादिमानपरिभाषां प्रतिपादयति - तत्रेति । ८ मध्यमाः = मध्यमप्रमाणाः, न क्षुद्रा न च महान्त इति यावत् । ९ श्रर्द्धस्तृतीयोंऽशो येषां तान्यर्ध तृतीयानि, अर्द्ध-हीनत्रितयानि, सार्द्धद्वयमिति यावत् । १२ मध्यमधान्यमाषाः-१६ सुवर्णमाषकाः— १२ मध्यमनिष्पावाः— १ ९ सुवर्णमाषकाः— २॥ धरणानि— ४ कर्षाः— मानप्रदशकचक्रम् । अथवा-१ सुवर्णमाषकः । १ सुवर्णम् । सुवर्णमाषकः । धरणम् । १ १ १ कर्षः । १ पलम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 889
पाठ पढ़ें पाठ छिपाएँ
अ ० ३१ ] Digitized by Aryasa Henhai and eGangotri ७३१ श्वोर्ध्वं चतुर्गुणमभिवर्द्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभि-निष्पद्यन्ते, तुला पलशतं, ताः पुनर्विंशतिर्भारः, शुष्काणामिदं मान-मार्द्रद्रवाणाञ्च द्विगुणभिति ॥ ७ ॥
तत्रान्यैतमपरिमाणसम्मितानां यथायोगं त्वक्पत्रमूलादीना-मातपपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा भेद्यान्यणुशो भेद-यित्वाऽवकुटचाष्टगुणेन पोडशगुणेन वाऽम्भसाऽभिषिच्य स्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वाऽपहरेदित्येष कपाय पाककल्पः । स्ने-हाच्चतुर्गुणो द्रवः स्नेह चतुर्थांशो भेषजकल्कः, तदैकध्यं संसृज्य ४ पलानि-४ कुडवाः— ४ प्रस्था: -४ प्राढकाः-१०० पलानि -२० तुला-१ कुडवः । १ प्रस्थः । १ श्राढकः । १ द्रोणः । १ तुला । १ भारः । एतत्सुश्रुताचार्य सम्मतं मानं मागधं मानम् । तदुक्तम् - " मानं तु द्विविधं प्रोक्तं कालिङ्गं मागधं तथा । कालिङ्गान्मागधं श्रेष्ठमिति मानविदो विदुः ॥ कालिङ्गमपि मानं च चरकाचार्यसम्मतम् । " इति । १ कानिचिद् द्रव्याणि आर्द्राण्यपि न द्विगुणानि ग्राह्याणि, तान्युक्तानि भाव-प्रकाशे - ' वासानिम्बपटोल के तक चला कूष्माण्ड केन्दीवरीवर्षा भूकुटजाश्च कन्दसहिताः सापूतिगन्यामृताः । ऐन्दीनागबलाकुरण्टकपुरोक्षत्रामृता सर्वदा सार्दा एव तु न कचि-दद्विगुणिताः कार्येषु योज्या बुधैः ॥ ” इति । शार्ङ्गधरे- " गुड्डूची कुटजो वासा कूष्माण्डं च शतावरी । अश्वगन्धा सहचरी शतपुष्पा प्रसारिणी ॥ प्रयोक्तव्या सहैवा र्दा द्विगुणा नैव योजयेत् ” इति । २ स्वमतानुसारेण कषायपाककल्पं स्नेहपाककल्पं चोपपादयति - तत्रान्यत -मेति । तत्र = मानद्वयमध्ये, श्रन्यतमपरिमाणसम्मितानाम् = एकतमपलादिमानतोलि -तानाम् । ३ वाशब्देन चतुर्गुणेनैत्यस्य समुच्चयः क्रियते । तथा च त्रयाणामपि कषायपाकविषयमवलम्ब्याह तन्त्रान्तरे - " कर्षादौ तु पलं यावद्दद्यात् षोडशिकं जलम् । ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत् । चतुर्गुणमतश्चोर्ध्वं यावत् प्रस्थादिकं भवेत् । ” इति । प्रकारान्तरमाह-- " मृदौ चतुर्गुणं देयं कठिनेऽष्टगुणं जलम् । कठिनात् कठिने देयं जलं षोडशिकं मतम् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 890
पाठ पढ़ें पाठ छिपाएँ
७३२ i and eGangotri Chennai [ अ ० ३१ Digitized by Arya Samaj सुश्रुतसंहितायां विपचेदित्येष स्नेहपाककल्पः । अथवा तत्रोदकद्रोणे त्वक्पत्रफल-मूलादीनां तुलामावाप्य चतुर्भागावशिष्टं निःक्वाथ्यापहरेदित्येप कषायपाककल्पः स्नेहकुडवे भेषजपलं पिष्टं कल्कं चतुर्गुणं द्रवमा-वाप्य विपचेदित्येष स्नेहपाककल्पः || ८ || भवतश्चात्र ।
स्नेहभेषजतोयानां प्रमाणं यत्र नेरितम् ।
तत्रायं विधिरास्थेयो निर्दिष्टे तत्तदेव तु ॥ ९ ॥
नुक्ते द्रवकार्ये तु सर्वत्र सलिलं मतम् ।
कल्कक्वाथावनिर्देशे गणात्तस्मात् प्रयोजयेत् ॥ १० ॥
ऊर्ध्वं स्नेहपाकक्रममुपदेक्ष्यामः स तु त्रिविधः त-द्यथा— मृदु:, मध्यमः, खर, इति । तत्र स्नेहौषधिविवेकमात्रं यत्र भेषजं स मृदुरिति । मधूच्छिष्टमिव विशदमैविलेपि भेषजं यत्र स मध्यमः, कृष्णमवसन्नमीषद्विशदं चिक्कणं च यत्र भेषजं स खर इति । अत ऊर्ध्वं दुग्धस्नेहो भवति, तं पुनः साधु साधयेत् । तत्र पानाभ्यवहारयोर्मृदुः, नस्याभ्यङ्गयोर्मध्यमः, वस्तिकर्णपूरणयोस्तु खरं इति ॥ ११ ॥
भवतश्चात्र ।
शब्दस्योपशमे प्राप्ते फेनस्योपरमे तथा ।
गन्धवर्णरसादीनां सम्पत्तौ सिद्धिमादिशेत् ॥ १२ ॥
घृतस्यैवं विपक्वस्य जानीयात् कुशलो भिषक् ।
फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् ॥ १३ ॥
१ कषायस्नेहपाकपरिभाषां दर्शयति- स्नेहेति । २ यस्मादेव गणात् स्नेह • पाकोऽभीष्टस्तस्मादेव गणात् क्वाथकल्कप्रकाराभ्यां समाचरेदित्यर्थः । ३ त्रिविधस्ने. हपाकक्रियालक्षणं वक्ति -- अत इति । ४ विवेकमात्रं = पृथग्भावमात्रम् । ५ श्रङ्गुः ल्यादावविलेपीत्यर्थः । ६ चरकसंहितायामन्यथा दृश्यते -- " खरोऽभ्यङ्गे मृदुर्नस्ये पाने बस्तौ च मध्यमः " इति । तद् द्वयमपि श्रद्धेयम् । ७ स्नेह सिद्धिलक्षणमभि-धत्ते - शब्दस्येति । CC - 0. Gurukul Kangri Collection, Haridwar