सुश्रुत संहिता चौखम्बा — पृष्ठ 881–890

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 881–890

पृष्ठ 881

सुश्रुत संहिता चौखम्बा, पृष्ठ 881 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

०३० } Digitized by Aryennai and eGangotri ७२३

पञ्च तेषामधो मध्ये सिन्धुनामा महानदः ।

हेठवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः ॥ २ ९ ॥

तस्योद्देशेषु ' चाप्यस्ति मुञ्जवानंशुमानपि ।

कौश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमौनसम् ॥ ३० ॥

गायत्रस्त्रैष्टुभः पाङ्ङ्क्तो जागतः शाक्करस्तथा ।

अत्र सन्त्यपरे चापि सोमाः सोमसमप्रभाः ॥ ३१ ॥

न तान् पश्यन्त्यधर्मिष्ठाः कृतघ्नाश्चापि मानवाः ।

भेषजद्वेषिणश्चापि ब्राह्मणद्वेषिरणस्तथा ॥ ३२ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने स्वभावव्याधिप्रतिषेधनीयं रसायन --चिकित्सितं नामैकोनत्रिंशोऽध्यायः ॥ २ ९ ॥

त्रिंशत्तमोऽध्यायः ।

अथातो निवृत्तसन्तापीयं रसायनचिकित्सितं व्याख्यास्यामः ॥१ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः । १ सिन्धुः = काश्मीर देशप्रसिद्धो नदः । २ इठवत् जलकुम्भिकावत्, प्लवते = तरति । ३ उद्देशेषु = निकटवर्ति प्रदेशेष्वित्यर्थः । ४ " शारदामठमारभ्य कुङ्कुमाद्रितटान्तकम् । तावत् काश्मीरदेशः स्यात् पञ्चाश-द्योजनात्मकः ॥ ' इति तन्त्रशास्त्रम् । ५ मानसस्थानमुक्तं मृगेन्द्र संहितायां - मेरोर्याम्ये गन्धमादनो नाम विष्कम्भ शैलस्तस्य मूले नन्दनाख्यमुपवनमस्ति, तत्र मानसं नाम सर इत्युक्तम् । यथा - ' यामाद्रिमूले गन्धर्वै सुरसिद्धाप्सरोवृतम् । नन्दनं मानसं तत्र् सरो मानसतस्करम् ' इति । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्यटिप्पन्या-मेकोनत्रिंशत्तमोऽध्यायः । त्रिंशत्तमोऽध्यायः । ६ सोमसाम्यादष्टादशानां श्वेतकापोत्यादीनामोषधीनामु योगमुपदेष्टुं निरृत्तस-न्तीपीयं नाम रसायनमधिकरोति - अथात इति । निवृत्तसन्तापपदमधिकृत्य कृतं रसायनं निवृत्तसन्तापीयम् । ७ निवृत्तः शारीरमानसजनितसन्तापो येषां ते निवृत्त-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 882

सुश्रुत संहिता चौखम्बा, पृष्ठ 882 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

-७२४ सुश्रुतसंहिताया: --Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३० तथैौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः ॥ ३ ॥

थ • सप्त पुरुषा रसायनं नोपयुञ्जीरन् । तद् यथा—- अनात्म-वानलसो दरिद्रः प्रभादी व्यसनी पापकृद् भेषजापमानी चेति । सप्तभिरेव कारणैर्न सम्पद्यते - अज्ञानादनारम्भादस्थिरचित्तत्वादा-रिद्र्यादनायत्तत्वादधर्मादौषधालाभाच्चेति ॥ ४ ॥

अथौषधीर्व्याख्यास्यामः -श्वेत कापोती, कृष्णकापोती, गोनसी, अजगरी, वाराही, कन्या, छत्रा, अतिच्छत्रा, करेणुः, अजा, चक्रका, आदित्यपर्णिनी, ब्रह्मसुवर्चला, श्रावणी, महाश्रावणी, गोलोमी, अजलोमी, महावेगवती, चेत्यष्टादश सोमसमवीर्य्या महौषधयो व्याख्याताः । तासां सोमवत् क्रियाशीः स्तुतयः शास्त्रे -ऽभिहिताः । तासामागारेऽभिहुतानां याः क्षीरवत्यस्तासां क्षीरकुडैवं सकृदेवोपयुञ्जीत । यारत्वक्षीरा मूलवत्यस्तासां प्रदेशिनीप्रमाणां नि त्रीणि काण्डा-नि प्रमाणमुपयोगे, श्वेतकापोती समूलपत्रा भक्षयितव्या, गोनस्य-जगरीकृष्ण कापोतीनां सर्नखमुष्टिं खण्डशः कल्पयित्वा क्षीरेण विपाच्य परिस्राव्याभिचारितमभिहुत सकृदेवोपयुञ्जीत । चक्र-कायाः पयः सकृदेव । ब्रह्मसुवर्चेला सप्तरात्रमुपयोक्तव्या । भक्ष्य-कल्पेन | शेषाणां पञ्च पलानि तीराढककथितानि प्रस्थेऽवशिष्टे -ऽवतार्थ परिस्राव्य सकृदेवोपयुञ्जीत । सोमवदाहारविहारौ व्या-ख्यातौ, केवलं नवनीतमभ्यङ्गार्थे, शेषं सोमवदानिर्गमादिति ॥ ५ ॥

सन्तापाः । १ रसायनसेवनायोग्यपुरुषान् दर्शयति --- अथेति । २ अनात्मवानि. त्यादीनां सप्तानां पुरुषाणामज्ञानादिभिः सप्तभिर्यथासंख्यं परेणान्षयः । १३ सोमसमवीर्या महौषधीर्वर्णयति - श्वेतकापोतीति । ४ श्रष्टादशौषधीनां मध्ये क्षीरवतीनामोषधीनां सेवनविधिमुपदिश्यति - तासामिति । श्राशीः = मङ्गलपा-ठादिः । ५ क्षीरस्य कुडवं पोटशतोलकानि । ६ श्रीराणामोषधीनां सेवनविधानं निर्दिशति -- या इति । ७ श्रयामविस्ताराभ्यां प्रदेशिनीप्रमाणानीत्यर्थः । ८ सनखमुष्टिम् = अन्तर्वद्धनखमुष्टिपरिमितम् । ९ निर्गमात् = गूढागारे आवासप-यन्तमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 883

सुश्रुत संहिता चौखम्बा, पृष्ठ 883 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३० ] Digitized by Ary तस्वास्थानम् and eGangotri भवन्ति चात्र ।

युवानं सिंहविक्रान्तं कान्तं श्रतनिगादिनम् ।

कुर्य्यरेताः क्रमेणैव द्विसहस्रायुषं नरम् ॥ ६ ॥

अङ्गदी कुण्डली मौली दिव्यस्रक्चन्दनाम्बरः ।

चरत्यमोघसङ्कल्पो नभस्यम्बुददुर्गमे ॥ ७ ॥

व्रजन्ति पक्षिणो येन जललम्बाश्च तोयदाः ।

गतिः सौषधिसिद्धस्य सोमसिद्धगतिः परा ॥ ८ ॥

अथ वक्ष्यामि विज्ञानमौषधीनां पृथक् पृथक् ।

मण्डलैः कपिलैश्चित्रैः सर्पाभा पञ्चपणिनी ॥ ९ ॥

पञ्चारत्निप्रमाणा च विज्ञेयाऽजगरी बुधैः ।

निष्पत्रा कैनकाभासा मूले द्व्यङ्गुलसम्मिता ॥ १० ॥

सर्पाकारा लोहितान्ता श्वेतकापोतिरुच्यते ।

द्विपणिनीं मूलभवामरुणां कृष्णमण्डलाम् ॥ ११ ॥

द्वचरत्निमात्रां जानीयाद्गोनसी गोनसाकृतिम् ।

सक्षीरां रोमशां मृद्वीं रसेनेक्षुरसोपमाम् ॥ १२ ॥

एवं रूपरसाञ्चापि कृष्णकापोतिमादिशेत् ।

कृष्णसर्पस्वरूपेण वाराहीकन्दसम्भवा ॥ १३ ॥

एकपत्रा महावीर्या भिन्नाञ्जनसमप्रभा ।

छत्रातिच्छत्रके विद्यार्द्रक्षोघ्ने कन्दसम्भवे ॥ १४ ॥

जरामृत्युनिवारिण्यौ श्वेतकापोतिसंस्थिते ।

कान्तैर्द्वादशभिः पत्रैर्मयूराङ्गरुहोपमैः ॥ १५ ॥

कन्दजा काञ्चनक्षीरी कन्या नाम महौषधी ।

करेणुः सुबहुक्षीरा कन्देन गजरूपिणी ॥ १६ ॥

७२५ १ श्रोषधीनां सेवनफलमभिदधाति -- युवानमिति । २ जलेन लम्बा अधो लम्बमानाः 1 ३ ओषधीनां विज्ञानोपायीभूतलक्षणानि निदिशति — अथेति । ४ कनकवत् सुवर्णवदाभासो वर्णो यस्याः सा कनकाभासा । । ५ गोनसाकृति == गोनासिकाकाराम्, अथवा गोनसः सर्पविशेषस्तद्वदाकृतियस्याः सा ताम् । ६ रक्षोध्ने = रक्षसां प्रध्वंसकरे । ७ श्वेतकापोतिसंस्थिते = श्वेतकापोतिकाकारे । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 884

सुश्रुत संहिता चौखम्बा, पृष्ठ 884 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७२६ सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri हस्तिकर्ण पलाशस्य तुल्यपर्णा द्विपर्णिनी । [ अ ० ३० अजास्तनाभकन्दा तु सक्षीरा क्षुपरूपिणी ॥ १७ ॥

अजा महौषधी क्षेया शङ्खकुन्देन्दुपाण्डुरा ।

श्वेतां विचित्रकुसुमां काकादन्या समां क्षुपाम् ॥ १८ ॥

चक्रक्रामोषधीं विद्याज्जरामृत्युनिवारिणीम् ।

मूलिनी पश्चभिः पत्रैः सुरक्तांशुककोमलैः ॥ १ ९ ॥

आदित्यपर्णिनी ज्ञेया सदाऽऽदित्यानुवर्तिनी ।

कनकाभा जलान्तेषु सर्वतः परिसर्पति ॥ २० ॥

सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला ।

अरत्निमात्रक्षुपका पत्रैर्व्यङ्गुलसम्मितैः ॥ २१ ॥

पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसन्निभैः ।

श्रावणी महती ज्ञेया कनकाभा पयस्विनी ॥ २२ ॥

श्रावणी पाण्डुराभासा महाश्रावणिलक्षणा ।

गोलोमी चाजलोमी च रोमशे कन्दसम्भवे ॥ २३ ॥

हंसपादीव विच्छिन्नैः पत्रैर्मूलसमुद्भवैः ।

अथवा शङ्खपुष्प्या च समाना सर्वरूपतः ॥ २४ ॥

वेगेन महताऽऽविष्टा सर्पनिर्मोकसन्निभा ।

एषा वेगवती नाम जायते ह्यम्बुदक्षये ॥ २५ ॥

संप्तादौ सर्वरूपिण्यो ह्योषध्यो याः प्रकीर्त्तिताः ।

तासामुद्धरणं कार्य्यं मन्त्रेणानेन सर्वदा ॥ २६ ॥

' महेन्द्र रामकृष्णानां ब्राह्मणानां गवामपि । तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै || २७ || ' १ हस्तिकर्णः = ' हाथीकन्द ' इति ख्यातः । राजनिघण्ड: - " हस्तिकन्दो हस्तिपत्रः स्थूलकन्दोऽतिपत्रकः । बृहत्पत्रोऽतिपत्रश्च हस्तिकर्णस्तु कर्णकः ॥ ” इति । २ बद्ध-मुष्टिकरोऽररिनः 1 । ३ अम्बुदक्षये = शरदीत्यर्थः । ४ श्रोषध्यानयनप्रकारं दर्शयति – सप्तादाविति । ' सर्परूपग्य ' इत्यत्र ' सर्व--रूपिण्य ' इति धाराणचन्द्र सम्मत पाठः । ५ शिवाय = कल्याणं कर्तुमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 885

सुश्रुत संहिता चौखम्बा, पृष्ठ 885 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३० ] Digitized by Arya ईक्कक्रि ai and eGangotri ७२७

मन्त्रेणानेन मतिमान् सर्वा एवाभिमन्त्रयेत् ।

अश्रद्दधानैरलसैः कृतघ्नैः पापकर्मभिः ॥ २८ ॥

नैवासादयितुं शक्याः सोमाः सोमसमास्तथा ।

पीतविशेममृतं देवैर्ब्रह्मपुरोगमैः ॥ २ ९ ॥

निहितं सोमं वीर्य्यासु सोमे चाप्योषधीपतौ ।

देवसुन्दे ह्रदवरे तथा सिन्धौ महानृदे ॥ ३० ॥

दृश्यते च जलान्तेषु मेध्या ब्रह्मसुवर्चला ।

आदित्यपर्णिनी ज्ञेया तथैव हिमसङ्क्षये ॥ ३१ ॥

दृश्यतेऽजगरी नित्यं गोनसी चाम्बुदगमे काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् ॥ ३२ ॥

करेणुस्तत्र कन्या च छत्रातिच्छत्रके तथा ।

गोलोमी चाजलोमी च महती श्रावणी तथा ॥ ३३ ॥

वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते ।

कौशिकीं सरितं तीर्त्वा सञ्जयन्त्यास्तु पूर्वतः ॥ ३४ ॥

क्षितिप्रदेशो वल्मीकैराचितो योजनत्रयम् ।

विज्ञेया तत्र कापोती श्वेता वल्मोकमूर्द्वसु ॥ ३५ ॥

मलये नर्लसेतौ च वेगवत्यौषधी ध्रुवा ।

कार्त्तिक्यां पौर्णमास्याञ्च भक्षयेत्तामुपोषितः ॥ ३६ ॥

सोमवच्चात्र वर्त्तेत फलं तावच्च कीर्त्तितम् ।

सर्वा विचेयास्त्वोषध्यः सोमाञ्चाप्यर्बुदे गिरौ ॥ ३७ ॥

सशृङ्गैर्देवचरितैरम्दानीकभेदिभिः ।

व्याप्तस्तीर्थैश्च विख्यातैः सिद्धर्षिसुरसेवितैः ॥ ३८ ॥

गुहाभिर्भीमरूपाभिः सिंहोन्नादितकुक्षिभिः । १ श्रोषधीनाममृततुल्य गुणवे कारणं दर्शयति - पोतेति २ सोमवोर्यास्वोषधीष्वित्यर्थः । ३ श्रोषध्युत्पत्तिस्थानानि दर्शयति – देवसुन्द इति । ४ जलान्तेषु = जलम-ध्येषु । ५ हिमसङ्क्षये = वसन्ते इत्यर्थः । ६ अम्बुदागमे = वर्षासु । ७ कृष्ण-सर्पाख्या = वाराही । ८ योजनत्रयं = द्वादशकोशात्मकः । ९ नलेन वानरवि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 886

सुश्रुत संहिता चौखम्बा, पृष्ठ 886 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७२८ सुश्रुतसंहितायां-[ अ ० ३१ Digitized by Arya Samaj Foundation Chennai and eGangotri

गजालोडित तोयाभिरापगाभिः समन्ततः ।

विविधैर्धातुभिश्वित्रैः सर्वत्रैवोपशोभितः ॥ ३ ९ ॥

नदीषु शैलेषु सरःसु चापि पुण्येष्वरण्येषु तथाऽऽश्रमेषु ।

सर्वत्र सर्वाः पैरिमार्गितव्याः सर्वत्र भूमिर्हि वसूनि धत्ते ॥ ४० ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने निवृत्तसन्तापीयं रसायन-चिकित्सितं नाम त्रिंशोऽध्यायः ॥ ३० ॥

एकत्रिंशत्तमोऽध्यायः ।

अथातः स्नेहोपयौगिकं चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

स्नेहसारोऽयं पुरुषः, प्राणाश्च स्नेहभूयिष्ठाः स्नेहसाध्याश्च भवन्ति । स्नेहो हि पानानुवासनमस्तिष्क शिरोबस्त्युत्तरवस्तिनस्य-कर्णपूरणगात्राभ्यङ्गभोजनेषूपयोज्यः || ३ || तंत्र द्वियोनिश्चतुर्विकल्पोऽभिहितः स्नेहः स्नेहगुणाश्च । तत्र शेषेण निर्मिते रामायणप्रसिद्धे सामुद्रसेतो, रामेश्वरनिकटे इत्यर्थः । १ परिमार्गि तव्याः = अन्वेषणीयाः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधा ss ख्य टिप्पन्यां त्रिंशत्तमोऽध्यायः । एकत्रिंशत्तमोऽध्यायः । २ पूर्वाध्यायेषु रसायनमुक्तं, तच्च शरीरस्य शुद्धिमन्तरा न फलदमिति संशोध-नोपदेशार्थं प्राक् स्नेहोपयौगिकं चिकित्सितमारभ्यते - अथात इति । स्नेहस्य सर्पिरादेरुपयोगो वाह्योऽभ्यन्तरश्च तमधिकृत्य कृतं स्नेोपयौगिकं चिकित्सितं व्या-ख्यास्यामः । ३ स्नेहस्य प्राधान्यं दर्शयति - स्नेदेति । स्नेहः सारो बलं यस्य सः । ४ स्नेहस्य द्वियोनिरबं प्रतिपादयति - तत्रेति । द्वियोनिः = स्थावरजङ्गमभेदेन द्विप्रकारकः । तदुक्तं- " स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते " इति । चतु-विकल्पः = चतुर्भेद इत्यर्थः । तदुक्तम् - " स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा । मज्जा च " इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 887

सुश्रुत संहिता चौखम्बा, पृष्ठ 887 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३१ ] Digitized by Arya Sabha कितना अक hhal and eGangotri ७२ ९ जङ्गमेभ्यो गव्यं घृतं प्रधानम्, स्थावरेभ्यस्तिलतैलं प्रधानमिति ॥ ४ ॥

अत ऊर्ध्वं यथाप्रयोजनं यथाप्रधानं च स्थावरस्नेहानुपदे-क्ष्यामः - तंत्र, तिल्वकैरण्डकोशाम्र दन्तीद्रवन्ती सप्तलाशङ्किनी पलाश-विषाणिकागवाक्षीकम्पिल्लकशम्पाकनी लिनोस्नेहा विरेचयन्ति । जीमूतककुटजकृतवेधनेक्ष्वाकुधामार्गव मदनस्नेहा वामयन्ति । विड-ङ्गखरमञ्जरीमधु शिसूर्य वल्लीपीलुसिद्धार्थकज्योतिष्मती स्नेहाः शिरो विरेचयन्ति । करञ्जपूतिककृतमालमातुलुङ्गेदी किराततिक्तक स्नेहा दुष्टव्रणेषूपयुज्यन्ते । तुवरककपित्थकम्पिल्लकभल्लातक पटोलस्नेहा महाव्याधिषु, त्रपुसैर्वारुककर्काकतुम्बीकूष्माण्डस्नेहा मूर्त्रसङ्गेषु, " कपोतवङ्का वल्गुजहरीतकी स्नेहाः शर्कराऽश्मरीषु । कुसुम्भ सर्षपात-सीपिचुमदतिमुक्तकभाण्डीकटुतुम्बीकटभीस्नेहाः प्रमेहेषु । तालना-स्नैह्रस्य द्वित्रिचतुःसंयोगेन संज्ञान्तरं तन्त्रान्तरे - " द्वाभ्यां त्रिभिश्चतुभिर्वा यम-कस्त्रिवृतो महान् ” इति । द्वाभ्यां स्नेहाभ्यां घृततैलाभ्यां यमकाख्यः स्नेहः स्यात् । त्रिभिः स्नेह घृततैलवसारूपैस्त्रिवृताख्यः स्यात् । चतुभिर्धृततैलवसामज्जभिर्मद्दान् महास्नेह इत्यर्थइति तदर्थः । १ अष्टाङ्गहृदयेऽपि " सर्पिर्मज्जा वसा तैलं स्नेद्देषु प्रवरं मतम् । तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥ ” इति । चरके— " नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते । यथा सर्पिरतः सर्पिः सर्वस्नेहो -त्तमं मतम् ॥ ” इति । २ चरकेऽपि ~ - ~ ‘ ' सर्वेषां तैलजातानां तिलतैलं विशिष्यते । बलार्थे स्नेहने चाग्र्य-मैरण्डं तु विरेचने ॥ ” इति । ३ विविधस्थावरस्नेहानां गुणानुपयोगांश्च दर्शयति--तत्रेति । तत्र = स्नैहेवु मध्ये इत्यर्थः 1 । तिल्त्रकः = लोध्रः । ४ विषाणिका - मेष-शृङ्गी, गवाक्षी = इन्द्रवारुणी, कम्पिल्लकः = ' कवीला ' इति ख्यातः, शम्पाकः = आर • ग्वधः । ५ खरमञ्जरी = अपामार्गः, सूर्यवल्ली = श्रर्कपुष्पी । ६ विरेचयन्तिः = नस्य प्रयोगेण शिरसः श्लेष्माणं स्रावयन्ति । ७ किराततिक्तः = ' चिरायता ' इति ख्यातः । महाकुष्ठप्रमेदादिमहाव्याधिष्वित्यर्थः । ९ मूत्र सङ्गेषु = मूत्रकृच्छ्राध्माना-श्मरीषु । १० कपोतवङ्का = ब्रह्मसुवर्चला, अवल्गुजा = बाकुची । ११ पिचुमर्दः = निम्बः, अतिमुक्तकः = ' तेंदुआ ' इति ख्यातः । भाण्डी ' भाण्डनी इति लोके प्रसिद्धो विटप भाण्डधावनार्थमासुतीवलाः समाहरन्तीति ढल्हणः । कटभी ' मालकांगनी ' CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 888

सुश्रुत संहिता चौखम्बा, पृष्ठ 888 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७३० सुश्रुतसंहितायांJTM Digitized by Arya Sama Foundation Chennai and eGangotri [ अ ० ३१ रिकेलपनसमोचप्रियालबिल्व मधूकश्लेष्मातकाम्रातकफलस्नेहाः पि-त्तसंसृष्टे वायौ । बिभीतक भल्लातकपिण्डीत कस्नेहाः कृष्णीकरणे । श्रवणकटुण्टुकस्नेहाः पाण्डूकरणे । सरलपीतदारुशिंशपागुरु-सारस्नेहा दद्रुकुष्ठकिटिभेषु । सर्व एव स्नेहा वातमुपघ्नन्ति । तैल. गुणाश्च समासेन व्याख्याताः ॥ ५ ॥

अत ऊर्ध्वं कषायस्नेहपाकक्रममुपदेक्ष्यामः- तत्र केचिदाहुः-त्वक्पत्रमूलादीनां भागस्तच्चतुर्गुणं जलमावाप्य चतुर्भागावशेषं निःक्काथ्यापहरेदित्येष कषायपाककल्पः । स्नेहप्रसृतेषु षट्सु चतु-र्गुणं द्रवमावाप्य चतुरश्चात्समान् भेषजपिण्डानित्येष स्नेहपाक-कल्पः । एतत्तु न सम्यक्, ' कस्मादागमासिद्धत्वात् ॥ ६ ॥

. 6 पलकुडवादीनामतो मानन्तु व्याख्यास्यामः -तंत्र, द्वादश धा-न्यमाषा मध्यमाः सुवर्णमाषकः, ते षोडश सुवर्णम्; अथवा मध्य-मनिष्पावा एकोनविंशतिर्धरणम्, तान्यर्द्धतृतीयानि कर्षः, तत-इति लोके । १ पिण्डीतकः = मदनः । २ श्रवणः = ' इङ्गुदी ' इति डल्हणः, मुण्ड-तिकेति हाराणचन्द्रः । कङ्गुकः - ' कङ्गुनी - काकुन - कउनी ' इति देशभेदेनोद्धुष्यते । टुण्टुकः - स्योनाकः । ३ व्याख्याताः = द्रवद्रव्यविधौ कथिता इत्यर्थः । ४ कषायपाकस्नेहपाकक्रमे एकीयमतं दर्शयति - तत्रेति । ५ तदुक्तम् — “ चतु • भोगावशिष्टं क्वाथमुपहरेत् " इति । ६ श्रागमासिद्धत्वात् = शास्त्रविरुद्धत्वात् । ७ पल-कुडवादिमानपरिभाषां प्रतिपादयति - तत्रेति । ८ मध्यमाः = मध्यमप्रमाणाः, न क्षुद्रा न च महान्त इति यावत् । ९ श्रर्द्धस्तृतीयोंऽशो येषां तान्यर्ध तृतीयानि, अर्द्ध-हीनत्रितयानि, सार्द्धद्वयमिति यावत् । १२ मध्यमधान्यमाषाः-१६ सुवर्णमाषकाः— १२ मध्यमनिष्पावाः— १ ९ सुवर्णमाषकाः— २॥ धरणानि— ४ कर्षाः— मानप्रदशकचक्रम् । अथवा-१ सुवर्णमाषकः । १ सुवर्णम् । सुवर्णमाषकः । धरणम् । १ १ १ कर्षः । १ पलम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 889

सुश्रुत संहिता चौखम्बा, पृष्ठ 889 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३१ ] Digitized by Aryasa Henhai and eGangotri ७३१ श्वोर्ध्वं चतुर्गुणमभिवर्द्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभि-निष्पद्यन्ते, तुला पलशतं, ताः पुनर्विंशतिर्भारः, शुष्काणामिदं मान-मार्द्रद्रवाणाञ्च द्विगुणभिति ॥ ७ ॥

तत्रान्यैतमपरिमाणसम्मितानां यथायोगं त्वक्पत्रमूलादीना-मातपपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा भेद्यान्यणुशो भेद-यित्वाऽवकुटचाष्टगुणेन पोडशगुणेन वाऽम्भसाऽभिषिच्य स्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वाऽपहरेदित्येष कपाय पाककल्पः । स्ने-हाच्चतुर्गुणो द्रवः स्नेह चतुर्थांशो भेषजकल्कः, तदैकध्यं संसृज्य ४ पलानि-४ कुडवाः— ४ प्रस्था: -४ प्राढकाः-१०० पलानि -२० तुला-१ कुडवः । १ प्रस्थः । १ श्राढकः । १ द्रोणः । १ तुला । १ भारः । एतत्सुश्रुताचार्य सम्मतं मानं मागधं मानम् । तदुक्तम् - " मानं तु द्विविधं प्रोक्तं कालिङ्गं मागधं तथा । कालिङ्गान्मागधं श्रेष्ठमिति मानविदो विदुः ॥ कालिङ्गमपि मानं च चरकाचार्यसम्मतम् । " इति । १ कानिचिद् द्रव्याणि आर्द्राण्यपि न द्विगुणानि ग्राह्याणि, तान्युक्तानि भाव-प्रकाशे - ' वासानिम्बपटोल के तक चला कूष्माण्ड केन्दीवरीवर्षा भूकुटजाश्च कन्दसहिताः सापूतिगन्यामृताः । ऐन्दीनागबलाकुरण्टकपुरोक्षत्रामृता सर्वदा सार्दा एव तु न कचि-दद्विगुणिताः कार्येषु योज्या बुधैः ॥ ” इति । शार्ङ्गधरे- " गुड्डूची कुटजो वासा कूष्माण्डं च शतावरी । अश्वगन्धा सहचरी शतपुष्पा प्रसारिणी ॥ प्रयोक्तव्या सहैवा र्दा द्विगुणा नैव योजयेत् ” इति । २ स्वमतानुसारेण कषायपाककल्पं स्नेहपाककल्पं चोपपादयति - तत्रान्यत -मेति । तत्र = मानद्वयमध्ये, श्रन्यतमपरिमाणसम्मितानाम् = एकतमपलादिमानतोलि -तानाम् । ३ वाशब्देन चतुर्गुणेनैत्यस्य समुच्चयः क्रियते । तथा च त्रयाणामपि कषायपाकविषयमवलम्ब्याह तन्त्रान्तरे - " कर्षादौ तु पलं यावद्दद्यात् षोडशिकं जलम् । ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत् । चतुर्गुणमतश्चोर्ध्वं यावत् प्रस्थादिकं भवेत् । ” इति । प्रकारान्तरमाह-- " मृदौ चतुर्गुणं देयं कठिनेऽष्टगुणं जलम् । कठिनात् कठिने देयं जलं षोडशिकं मतम् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 890

सुश्रुत संहिता चौखम्बा, पृष्ठ 890 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७३२ i and eGangotri Chennai [ अ ० ३१ Digitized by Arya Samaj सुश्रुतसंहितायां विपचेदित्येष स्नेहपाककल्पः । अथवा तत्रोदकद्रोणे त्वक्पत्रफल-मूलादीनां तुलामावाप्य चतुर्भागावशिष्टं निःक्वाथ्यापहरेदित्येप कषायपाककल्पः स्नेहकुडवे भेषजपलं पिष्टं कल्कं चतुर्गुणं द्रवमा-वाप्य विपचेदित्येष स्नेहपाककल्पः || ८ || भवतश्चात्र ।

स्नेहभेषजतोयानां प्रमाणं यत्र नेरितम् ।

तत्रायं विधिरास्थेयो निर्दिष्टे तत्तदेव तु ॥ ९ ॥

नुक्ते द्रवकार्ये तु सर्वत्र सलिलं मतम् ।

कल्कक्वाथावनिर्देशे गणात्तस्मात् प्रयोजयेत् ॥ १० ॥

ऊर्ध्वं स्नेहपाकक्रममुपदेक्ष्यामः स तु त्रिविधः त-द्यथा— मृदु:, मध्यमः, खर, इति । तत्र स्नेहौषधिविवेकमात्रं यत्र भेषजं स मृदुरिति । मधूच्छिष्टमिव विशदमैविलेपि भेषजं यत्र स मध्यमः, कृष्णमवसन्नमीषद्विशदं चिक्कणं च यत्र भेषजं स खर इति । अत ऊर्ध्वं दुग्धस्नेहो भवति, तं पुनः साधु साधयेत् । तत्र पानाभ्यवहारयोर्मृदुः, नस्याभ्यङ्गयोर्मध्यमः, वस्तिकर्णपूरणयोस्तु खरं इति ॥ ११ ॥

भवतश्चात्र ।

शब्दस्योपशमे प्राप्ते फेनस्योपरमे तथा ।

गन्धवर्णरसादीनां सम्पत्तौ सिद्धिमादिशेत् ॥ १२ ॥

घृतस्यैवं विपक्वस्य जानीयात् कुशलो भिषक् ।

फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् ॥ १३ ॥

१ कषायस्नेहपाकपरिभाषां दर्शयति- स्नेहेति । २ यस्मादेव गणात् स्नेह • पाकोऽभीष्टस्तस्मादेव गणात् क्वाथकल्कप्रकाराभ्यां समाचरेदित्यर्थः । ३ त्रिविधस्ने. हपाकक्रियालक्षणं वक्ति -- अत इति । ४ विवेकमात्रं = पृथग्भावमात्रम् । ५ श्रङ्गुः ल्यादावविलेपीत्यर्थः । ६ चरकसंहितायामन्यथा दृश्यते -- " खरोऽभ्यङ्गे मृदुर्नस्ये पाने बस्तौ च मध्यमः " इति । तद् द्वयमपि श्रद्धेयम् । ७ स्नेह सिद्धिलक्षणमभि-धत्ते - शब्दस्येति । CC - 0. Gurukul Kangri Collection, Haridwar