सुश्रुत संहिता चौखम्बा — पृष्ठ 891–900

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 891–900

पृष्ठ 891

सुश्रुत संहिता चौखम्बा, पृष्ठ 891 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३१ ] Digitized by Arya कि स्वास्थान hennai and eGangotri ७३३ ऊर्ध्वं स्नेहपानक्रममुपदेक्ष्यामः - अर्थ खलु लघुकोष्ठा-यातुराय कृतमङ्गलस्वस्तिवाचनायोदयगिरिशिखरसंस्थिते प्रतप्तक-नकनिकरपीतलोहिते सवितरि यथाबलं तैलस्य घृतस्य वा मात्रां पातुं प्रयच्छेत् । पीतमात्रे चोष्णोदकेनोपस्पृश्य सोपानत्को यथा-सुखं विहरेत् ॥ १४ ॥

रूक्षतविषार्त्तानां वातपित्तविकारिणाम् ।

ही मेधास्मृतीनाञ्च सर्पिःपानं प्रशस्यते ॥ १५ ॥

' कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः ।

पिवेयुस्तैलसात्म्याश्च तैलं दायथिनश्च ये ॥ १६ ॥

" व्यायामकर्शिताः शुष्करेतोरक्ता महारुजः ।

महाग्निमारुतप्राणा बसायोग्या नराः स्मृताः ॥ १७ ॥

क्रूराशयाः क्लेशलहा वादार्त्ता दीप्तवह्नयः ।

मज्जानमाप्नयुः सर्वे सर्पिर्वा स्वौषधान्वितम् ॥ १८ ॥

केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् ।

देयं बहुकफे चापि व्योषक्षारसमायुतम् ॥। १ ९ ॥

१ स्नेहपान विधिमभिदधाति - अथेति । १२ उदयगिरिशिखर संस्थिते = उदया-चलशृङ्गसमुपस्थिते, प्रातःकाले इत्यर्थः । ३ उपस्पृश्य == आचम्य । ४ सर्पिःपानयोग्यान्नरान्निर्दिशति - रूक्षेति । चरके विशेष: -- “ वातपित्तप्रकृतयो वातपित्तविकारिणः । चक्षुःकामाः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः ॥ श्रायुःप्रक र्षकामाश्च बलवर्णवरार्थिनः । पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये ॥ दीप्त्योजः. स्मृति मेधाग्निबुद्धीन्द्रियबलार्थिनः । पिवेयुः सर्पिरार्ताश्च दाहशस्त्रविषाग्निभिः ॥ ” इति । पतैलपानयोग्यान्नरान् दर्शयति-- कृमीति । चरके - “ प्रवृद्धइतेष्ममेदस्काश्च--लस्थूलगलोदराः । वातव्याधिभिराविष्टा वातप्रकृतयश्च ये ॥ बलं तनुत्वं लघुतां - दृढतां स्थिरगात्रताम् । स्निग्धलचणत नुक्तां ये च काङ्क्षन्ति देहिनः ॥ कृमिकोष्ठाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः । पिवेयुः शीतले काले तैलं तैलोचिताश्च ये ॥ " इति । ६ वसापानयोग्यान्नरान् वर्णयति - व्यायामेति । अत्रापि विशेषश्वरकेऽनुस. न्धेयः । ७ मज्जपानार्द्दजनानाख्याति -- क्रूराशया इति । क्रूराशयाः = क्रूरकोष्ठा इत्यर्थः I । दोषविशेषेण स्नेहपानानुपानं वति = केवलमिति । भावप्रकाशे-“ घृते कोष्ं जलं पेयं तैले यूषः प्रशस्यते । वसामज्ज्ञोः पिबेन्मण्डमनुपान CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 892

सुश्रुत संहिता चौखम्बा, पृष्ठ 892 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७३४ by Arya Samaj F सुश्रुतसंहिता Gangotri दोषीणामल्पभूयस्त्वं संसर्ग समवेक्ष्य च । [ अ ० ३१ युज्यात्त्रिषष्टिधाभिन्नैः समासव्यासतो रसैः ॥ २० ॥

स्नेहसात्म्यः क्लेशसहः काले नात्युष्णशीतले ।

अच्छमेव पिबेत् स्नेहमच्छपानं हि पूजितम् ॥ २१ ॥

शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि ।

वातपित्ताधिके रात्रौ वातश्लेष्माधिके दिवा ॥ २२ ॥

वातपित्ताधिकस्योष्णे तृण्मूच्छों मादकारकः ।

शीते वातकफार्त्तस्य गौरवारुचिशूलकृत् ॥ २३ ॥

स्नेहॅपीतस्य चेत् तृष्णा पिबेदुष्णोदकं नरः ।

एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुना वमेत् ॥ २४ ॥

दिर्घाच्छीतैः शिरः शीतं तोयं चाप्यवगाहयेत् ।

या C मात्रा परिजीर्येत चतुर्भागगतेऽहनि ॥ २५ ॥

सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता । सुखावद्दम् ॥ ” इति । चरकस्तु – “ जलमुष्णं घृते पेयं यूषस्तैले नु शस्यते । वसाम • ज्ज्ञोस्तु मण्डः स्यात्सर्वेषूष्णमथाम्बु वा ॥ " इत्याह । १ दोष संसर्गविशेषे त्रिषष्टिरससंयुक्तमपि सर्पिर्योज्यमिति दर्शयति- दोषाणा-मिति। २ त्रिषष्टीरसभेदोऽयमुत्तरतन्त्रान्ते व्यक्तीभविष्यति । ३ अशनात्पृ-क्स्नेहपानविषये कथयति - स्नेदेति । शक्तिलक्षणबलयुक्तेन क्लेशसह इत्यर्थः । “ अच्छ पेयस्तु यः स्नेहो न तामाहुर्विचारणाम् । स्नेहस्य स भिषग्दृष्टः कल्पः प्राथम-कल्पिकः । " इति चरकः । ४ पानं द्विविधम् - अशनात् पृथक्, अशनव्यामिश्रं वा तत्र यत्पृथक् तदच्छपानम् । ५ स्नेहपाने कालविचारणां दर्शयति- शीतेति । श्रत्राष्टाङ्गसङ्ग्रहः – “ सर्वं सर्वस्य च स्नेहं युब्ज्याद् भास्वति निर्मले । ऋतौ साधारणे दोषसात्म्येऽनिलकफे कफे ॥ दिवा निश्यनिले पित्ते संसर्गे पित्तवत्यपि " इति । अपि च - " खरमाणस्तु शीतेऽपि दिवा तैलं प्रयोजयेत् । उष्णेऽपि रात्रौ सर्पिस्तु दोषादीन् वीच्य चान्यथा ॥ " इति । चरकः- “ सर्पिः शरदि पातव्यं वसा मज्जा च माधवे । तैलं प्रावृषि नात्यु-ष्णशीते स्नेहं पिवेन्नरः ॥ ” इति । ६ उक्तकालविपर्यये दोषं दर्शयति-- वातेति । ८ दिह्यात् = लिम्पेत् । त्सामाइ— स्नेद्देति । CC - 0. Gurukul Kangri Collection, Haridwar ७ स्नेहपाने तृष्णोपद्रव चिकि. ९ दोषादिविशेषेण स्नेहमात्रां

पृष्ठ 893

सुश्रुत संहिता चौखम्बा, पृष्ठ 893 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३१ ] Digitized by कि किस्सास्थिम pennai and eGangotri ७३५ या मात्रा परिजीर्येत तथाऽर्द्धदिवसे गते ॥ २६ ॥

सा वृष्या बृंहणी चैव मध्यदोषे च पूजिता ।

या मात्रा परिजीर्येत चतुर्भागावशेषिते ॥ २७ ॥

स्नेहनीया च सा मात्रा बहुदोषे च पूजिता ।

या मात्रा परिजीर्येत्तु तथा परिणतेऽहनि ॥ २८ ॥

ग्लानिमूर्च्छामदान् हित्वा सा मात्रा पूजिता भवेत् ।

अहोरात्रादसन्दुष्टा या मात्रा परिजीर्यति ॥ २ ९ ॥

सा तु कुष्ठविषोन्मादग्रहापस्मारनाशिनी ।

यथाऽग्नि प्रथमां मात्रां पाययेत विचक्षणः ॥ ३० ॥

पीतो ह्यतिबहुस्नेहो जनयेत् प्राणसंशयम् ।

मिथ्याचाराद् बहुत्वाद्वा यस्य स्नेहो न जीर्यति ॥ ३१ ॥

विष्टभ्य चापि जीर्येत्तं वारिणोष्णेन वामयेत् ।

जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं पिबेत् ॥ ३२ ॥

तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा । स्युः तृडदाह भ्रम सादारतिक्लमाः ॥ ३३ ॥

विभजते - येति । अष्टाङ्गहृदये – ' द्वाभ्यां चतुर्भिरष्टाभिर्यामै जीर्यन्ति याः क्रमात् । ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च हसीयसीम् । कल्पयेद्वीदय दोषादीन् प्रागेव तु ह्रसीयसीम् ” इति । भावप्रकाशेऽपि - “ अहोरात्रेण महती जीर्यत्यहि तु मध्यमा । जीर्यत्यल्पा दिनार्द्धेन सा विज्ञेया सुखावहा । ' इति । उत्तमादिस्नेहमात्रार्द्राः पुरुषा उक्ताश्चरके - " प्रभूतस्नेहनित्या ये क्षुत्पिपासा-सहा नराः । पावकश्चोत्तमबलो येषां ये चोत्तमा बले ॥ गुल्मिनः सर्पदष्टाश्च विसर्पो. पहताश्च ये । उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च ॥ पिबेयुरुत्तमां मात्राम्, ~~~ अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः । कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये ॥ नातिवह्वाशिनश्चैव मृदुकोष्ठास्तथैव च । पिबेयुमंध्यमां मात्रां मध्यमाश्चापि ये बले । ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः । रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये । ज्वरातीसारका साश्च येषां चिरसमुत्थिताः । स्नेहमात्रां पिबेयुस्ते हस्त्रां ये चावरा बले ॥ ” इति । १ प्रथममात्रायाः प्राशस्त्यं दर्शयति - यथाऽग्नीति । २ स्नेहस्य जीतायां कर्तव्योपचारानाइ - मिथ्येति । ३ श्रष्टाङ्गसङ्ग्रहेऽन्यदप्युक्तम् - " ततो गुरुप्राव · CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 894

सुश्रुत संहिता चौखम्बा, पृष्ठ 894 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७३ Pigitized by Arya Samaj Fo तुश्रुतसंहितायां - Gangotri [ अ ० ३१

परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम् ।

यवागं पाययेच्चोष्णां कामं क्लिन्नाल्पतण्डुलाम् ॥ ३४ ॥

देयौ यूषरसौ वाऽपि सुगन्धी स्नेहवर्जितौ ।

कृतौ वाऽत्यल्पसर्पिष्कौ विलेपीर्वा विधीयते ॥ ३५ ॥

पिबेत्र त्र्यहं चतुरहं पञ्चाहं पडहं तथा ।

सप्तरात्रात् परं स्नेहः सौत्म्यीभवति सेवितः ॥ ३६ ॥

" सुकुमारं कृशं वृद्धं शिशुं स्नेहद्विषं तथा ।

तृष्णार्त्तमुष्णकाले च सह भक्तेन पाययेत् ॥ ३७ ॥

पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तुकः ।

पीतमैकध्यमेतद्धि सद्यः स्नेहनमुच्यते ॥ ३८ ॥

भृष्टमांसरसे स्निग्धा यवागूः सूपकल्पिता ।

' सक्षुद्रा पीयमाना तु सद्यःस्नेहनमुच्यते ॥ ३ ९ ॥

सर्पिष्मती पयः सिद्धा यवागूः स्वल्पतण्डुला ।

सुखोष्णा सेव्यमाना तु सद्यः स्नेहनमुच्यते ॥ ४० ॥

रणो निवाते शयने स्थितः । जरयान्तं प्रतीक्षेत तृप्यन्तुष्णाल्पवारिपः । शिरोरुग् मनिष्ठीवमूर्च्छादाद्दारु चिक्लमः । जानीयाद् भेषजं जीयॅज्जीर्णं तच्छान्ति लाघवात् । अनुलोमानिलस्वास्थ्यक्षुत्तृष्णोद्गारशुद्धिभिः । " इति । १ स्नेहे जीर्णे पश्चात्कर्म निर्दिशति - परिषिच्येति । पूर्वकर्म तु " द्रवोष्णम-नभिष्यन्दि भोज्यमन्नं प्रमाणतः । नातिस्निग्धमसङ्कीर्णे श्वः स्नेहं पातुमिच्छता । " इत्याह चरकः । २ स्नेहपानस्य कालावधिं दर्शयति - पिवेदिति । त्र्यहं मृदु • कोष्ठः, चतुःपञ्चषढद्दानि मध्यमकोष्ठः, सप्तरात्रं क्रूरकोष्ठ ः पिवेदिति तात्पर्यम् । तदुक्तं चरके— “ मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसे या । स्निह्यति क्रूरकोष्ठस्तु सप्तरा-त्रेण मानवः ॥ " इति । ३ सात्म्यीभूते स्नेहे यो दोषः सोऽष्टाङ्गसङ्ग्रहे कथितः --- " सात्म्यीभूतो हि कुरुते न मलानामुदीरणम् । अतियोगेन वा व्याधीन् यथाऽम्भो यतियोजनात् ॥ ” इति । यदि तु सप्ताहेनापि स्नेहलक्षणं नोत्पद्यते तदा दिनमेकं विश्रमय्य पुनः स्नेहो योज्य इति सदूवैद्याः । ४ सृकुमारादिषु अन्नादिना सह स्नेहप्रयोगमुपदिशति - सुकुमारमिति । ५ दघ्नो CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 895

सुश्रुत संहिता चौखम्बा, पृष्ठ 895 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३१ ] Digitized by Arya विकित्सास्थानम enpai and eGangotri

पिप्पल्यो लवणं सर्पिस्तिला पिष्टं वराहजा ।

वसा च पीतमैकध्यं सद्यः स्नेहनमुच्यते ॥ ४१ ॥

शर्करा चूर्ण संसृष्टे दोहनस्थे घृते तु गाम् ।

दुग्ध्वा क्षीरं पिबेद्रूक्षः सद्यः स्नेहनमुच्यते ॥ ४२ ॥

यवकीलकुलत्थानां क्काथो मागधिकाऽन्वितः ।

पयो दधि सुरा चेति घृतमप्यष्टमं भवेत् ॥ ४३ ॥

सिद्धमेतैघृतं पीतं सद्यःस्नेहनमुत्तमम् ।

राज्ञे राजसमेभ्यो वा देयमेतद् घृतोत्तमम् ॥ ४४ ॥

बैलहीनेषु वृद्धेषु मृद्वग्निस्त्रीमहात्मसु । ७३७ अल्पदोषेषु योज्याः स्युर्ये योगाः सम्यगीरिताः ॥ ४५ ॥

विवर्जयेत् स्नेहपानमजीर्णी तरुणज्वरी ।

दुर्बलो s रोचकी स्थूलो मूर्च्छार्तो मदपीडितः ॥ ४६ ॥

छर्दितः पिपासार्त्तः श्रान्तः पानक्ल मान्वितः ।

दत्तत्रस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः ॥ ४७ ॥

अकाले दुर्दिने चैव न च स्नेहं पिवेन्नरः ।

अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत् ॥ ४८ ॥

स्स्रेहपानाद्भवन्त्येषा नॄणां नानाविधा गदाः ।

गदा वा कृच्छ्रतां यान्ति न सिध्यन्त्यथवा पुनः ॥ ४ ९ ॥

गर्भाशयेऽवशेषाः स्यू रक्तक्लेद्मलास्ततः ।

स्नेहं जह्यान्निषेवेत पाचनं रूक्षमेव च ॥ ५० ॥

दशरात्रात् ततः स्नेहं यथावदवचारयेत् । मण्ड: दधिमस्तुकः । १ सद्यः स्नेहनयोगानां विषयं दर्शयति - बलही -नेष्विति । २ पिप्पल्यादिना पूर्वमुक्ता योगा इत्यर्थः । ३ स्नेहपानानर्हजनान्नि-दिंशति - विवर्जयेदिति । स्नेहपानयोग्यजनानाह - ' स्वेद्य संशोध्यमद्यस्त्रीव्यायामा. सक्तचित्तकाः । वृद्धबालकृशा रूक्षाः क्षीणात्राः क्षीणरेतसः । वातार्तास्तिमिरात ये तेषां स्नेहनमुत्तमम् ॥ ” इति । ४७ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 896

सुश्रुत संहिता चौखम्बा, पृष्ठ 896 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७३८Digitized by Arya Samaj F सुश्रुतसंहितायांand eGangotri [ अ ० ३१ पुरीषं ग्रथितं रूक्षं कृच्छ्रादन्नं विपच्यते ॥ ५१ ॥

उरो विहते वायुः कोष्ठादुपरि धावति ।

दुर्वण दुर्बलश्चैव रूक्षो भवति मानवः ॥ ५२ ॥

सुस्निग्धो त्वग्विट्शैथिल्यं दीप्तोऽग्निर्मृदुगात्रता ।

ग्लानिर्लाघवमङ्गानामधस्तात् स्नेहृदर्शनम् ।

सम्यकूस्निग्धस्य लिङ्गानि स्नेह द्वेषस्तथैव च ॥। ५३ ॥

भक्तद्वेषो मुखस्रावो गुददाहः प्रवाहिका ।

पुरीषातिप्रवृत्तिश्च भृशस्निग्धस्य लक्षणम् ॥ ५४ ॥

रूक्षस्य स्नेहनं स्नेहैरविस्निग्धस्य रूक्षणम् ।

श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः ॥ ५५ ॥

दीप्तान्तरग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः ।

दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपयोगी पुरुषो भवेत्त ॥ ५६ ॥

स्नेहो हितो दुर्बलवहिदेह सन्धुक्षणे व्याधिनिपीडितस्य ।

बलान्वितौ भोजर्नदोषजातैः प्रमर्दितुं तौ सहसा न साध्यौ ॥ ५७ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने स्नेहोपयौगिकचिकित्सितं नामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥

१ अस्निग्धस्य लक्षणं वक्ति - पुरीषमिति । २ सुस्निग्धलक्षणं ब्रवीति— सुस्निग्धेति । ३ स्नेहद्वेषः = स्नेहारुचिः । ४ अतिस्निग्धलक्षणं दर्शयति-भक्तद्वेष इति । चरकस्तु - " पाण्डुता गौरवं जाढ्यं पुरोषस्याविपक्कता । तन्द्रीररु. चिरुवलेशः स्यादतिस्निग्धलक्षणम् ॥ ” इति । ५ अस्निग्धातिस्निग्धयोः प्रतीकारं प्रतिपादयति- रूक्षस्येति । ६ पिण्याकः: = तिलकल्कः । ७ स्नेहपानफलमभिधत्ते - दीप्तेति । ८ प्रत्यग्रधातुः अभिनव. धातुः, संशुद्धधातुरित्यर्थः । ९ भोजनदोषजातै: - दुर्भक्तस्वभावगुणभूतदोषसमूहैः । स्नेहसेवने हिताहितमाह चरकः - " उष्णोदकोपचारी स्याद् ब्रह्मचारी क्षपा. शयः । शकृन्मूत्रानिलोद्गारानुदीर्णाश्च न धारयेत् ॥ व्यायाममुच्चैर्वचनं क्रोधशोको हिमातपौ । वजेयेदप्रवातं च सेवेत शयनासनम् ॥ ” इति । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्या-मेकत्रिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 897

सुश्रुत संहिता चौखम्बा, पृष्ठ 897 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३२ ] Digitized by Arfation Chennai and eGangotri ७३ ९

द्वात्रिंशत्तमोऽध्यायः ।

अथातः स्वेदवचारणीयं चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

चतुर्विधः स्वेदः, तद्यथा - तापस्वेदः, ऊष्मस्वेदः, उपनाहस्वेदः, द्रवस्वेद इति । अत्र सर्वस्वेदविकल्पावरोधः ॥ ३ ॥

तत्र तापस्वेद्ः पाणिकांस्यकन्दुकपालवालुकावस्त्रैः प्रयुज्यते, शयानस्य चाङ्गतापो बहुशः खादिराङ्गारैरिति ॥ ४ ॥

ऊष्मस्वेदस्तु कपालपाषाणेष्टकालोहपिण्डानग्निवर्णानद्भिरासि-चेदम्लद्रव्यैर्वा, तैरार्द्रालक्तकपरिवेष्टितैरङ्गप्रदेशं स्वेदयेत् । मां-सरखपयोदधिस्नेहधान्याम्लवातहर पत्रभङ्गक्वाथपूर्णां वा कुम्भी-मनुतप्तां प्रवृत्योष्माणं गृह्णीयात् । पार्श्वच्छिद्रेण वा कुम्भेनाधोमु-खेन तस्य मुखमभिसन्धाय तस्मिन् छिद्रे हस्तिशुण्डाकारां नाडीं प्रणिधाय तं स्वेदयेत् ॥ ५ ॥

सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम् ।

हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् ।

सुखा सर्वाङ्गगा ह्येषा न च क्लिश्नाति मानवम् ॥ ६ ॥

व्यामार्द्धमाया त्रिर्वक्रा हस्तिहस्तसमाकृतिः ।

स्वेदनार्थे हिता नाडी कैलिजी हस्तिशुण्डिका ॥ ७ ॥

पुरुषायाममात्राञ्च भूमिमुत्कीर्य्यं खादिरैः । द्वात्रिशत्तमोऽध्यायः । १ स्वेदनं स्वेदस्तस्यावचारणमधिकृत्य कृतं स्वेदावचारणीयं चिकित्सितं व्याख्या-स्यामः । २ भावप्रकाशकारोऽपि - " वेदश्चतुर्विधः प्रोक्तस्तापोष्मस्वेदसज्ञितः । उपनाहो द्रवः स्वेदः सर्वे वातार्तिहारिणः ॥ ” इति । ३ कन्दुः- स्वेदनी, अत्र ' तावा ' इति बोद्धयम् । ४ श्रलक्तकः = ‘ महावर ' इति ख्यातः । ५ वातद्दरपत्रभङ्गकाथपूर्णाम् = एर. ण्डादिवातहरद्रव्यपल्लव क्वाथपरिपूर्णाम् । ६ कम्बलादिना गुरुप्रावरणेन श्रावृतं पिहितमिति गुरुप्रावरणावृतम् । ७ कैलिझीनाडीविधिमभिधत्ते - व्यामेति । व्यामः = स्वे स्वे पाइर्वे प्रसारितयोर्बाह्वोर्मध्यम् । ' व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् ' इत्यमरः । ८ ष. टोपकरणकाशादिद्रव्यैविरचिता कैलिञ्जीत्यर्थः । ९ भूस्वेदविधिम CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 898

सुश्रुत संहिता चौखम्बा, पृष्ठ 898 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

· ७ by Arya Samaj Fo सुत्त संहितायां Sangotri [ अ ० ३२ काष्ठैर्दग्ध्वा तथाऽभ्युदये क्षीरधान्याम्लवारिभिः ॥ ८ ॥

पत्रेभङ्गैरवच्छाद्य शयानं स्वेदयेत्ततः ।

पूर्ववत् स्वेदयेद्दग्ध्वा भस्मापोह्यापि वा शिलाम् ॥ ९ ॥

" पूर्ववत् कुटीं वा चतुर्द्वारां कृत्वा तस्यामुपविष्टस्यान्तश्चतुर्द्वारे--ऽङ्गारानुपसन्धाय तं स्वेदयेत् ॥ १० ॥

कोशधान्यानि वा सम्यगुपस्वेद्यास्तीर्य किलिञ्जेऽन्यस्मिन् वा तत्प्रतिरूपके शयानं प्रावृत्य स्वेदयेत्; एवं पांशुगोशकृत्तपस पलालोष्मभिः स्वेदयेत् ॥ ११ ॥

उपनाहस्वेदस्तु वातहरमूलकल्कै र म्लेपिष्टै लवणप्रगाढैः सुस्नि-ग्धैः सुखोष्णैः प्रदि स्वेदयेत् । एवं काकोल्यादिभिरेलादिभिः सुरसादिभिस्तिलात सीसर्षपकल्कैः कृशरापायसोत्कारिकाभिर्वेश-वारैः शाल्वणैर्वा तनुवस्त्रावनद्धैः स्वेदयेत् ॥ १२ ॥

द्रवस्वेदस्तु वातहरद्रव्यक्काथपूर्ण कोष्णकटाहे द्रोण्यां वाऽव-गाह्य स्वेदयेत् । एवं पयोमांसरस यूपतैलधान्याम्लघृतवसा मूत्रेष्वव-गाहेत, सुखोष्णैः कषायैश्च परिषिचेदिति ॥ १३ ॥

भिदधाति - पुरुषेति । उत्कीर्य = खनित्वा । १ अभ्युच्य = संसिच्य । २ पत्र-भङ्गैः = पूर्ववद् वातद्दरैरण्डादिपल्लवैरित्यर्थः । ३ अश्मस्वेदविधानं व्यक्ति – पूर्वं व-दिति । अपोह्य = दूरीकृत्य । ४ कुटीस्वेदविधिं प्रतिपादयति - पूर्ववदिति । चरके - अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम् । घनभित्ति कुटीं कृत्वा कुष्ठाद्यैः सम्प्रलेपयेत् ॥ कुटीमध्ये भिषक शय्यां स्वास्तीर्णामुपकल्पयेत् । प्रावाराजिन कौशेय कुथ कम्बलगोलकैः ॥ हसन्तिकाभि · रङ्गारपूर्णाभिस्तां च सर्वशः । परिवार्यान्तरारोहेदभ्यक्तः स्विद्यते सुखम् ॥ ” इति । चरके त्रयोदशविधाः स्वेदा यथा - " सङ्करः प्रस्तरो नाडी परिषेकोऽवगाहनम् । जेन्ताकोऽश्मघनः कर्षः कुटी भूः कुम्भिकैव च ॥ कूपो होलाक इत्येते स्वेदयन्ति त्रयोदश । " इति । ५ प्रस्तरस्वेदविधिमुपपादयति - कोशेति । कोशधान्यानि = माषादीनि शमी-धान्यानीत्यर्थः । उपस्वेध = उष्णीकृत्य, किलिन्जे = कटे । ६ अम्लेन काञ्जिकतक्रा-दिना पिटैरित्यर्थः । ७ सुरसादिद्रव्य सङ्ग्रहणीयाध्यायोक्तः । ८ श्रवगाह परिषेच. न विधिमाख्याति - द्ववेति । ९ चकारात् पूर्वोक्तपयोमांसरसादिभिश्चेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 899

सुश्रुत संहिता चौखम्बा, पृष्ठ 899 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३२ ] Digitized bf चविसा स्थान on Chennai and eGangotri ७४१ तत्र तापोष्मस्वेदौ विशेषतः श्लेष्मघ्नौ, उपनाहस्वेदो वातन्नः, अन्यतरस्मिन् पित्तसंसृष्टे द्रवस्वेद इति ॥ १४ ॥

कफँमेदोऽन्विते वायौ निवातातपगुरुप्रावरणनियुद्धाध्वव्या-यामभारहरणामर्षैः स्वेदमुत्पादयेदिति ॥ १५ ॥

भवन्ति चात्र ।

चतुर्विधो योऽभिहितो द्विधा स्वेदः प्रयुज्यते ।

सर्वस्मिन्नेव देहे तु देहस्यावयवे तथा ॥ १६ ॥

येषां नस्यं विधातव्यं बस्तिश्चैव हि देहिनाम् ।

शोधनीयाश्च ये केचित् पूर्वं स्वेद्यास्तु ते मताः ॥ १७ ॥

पश्चात् स्वेद्या हृते शल्ये मूढगर्भाऽनुपद्रवा ।

सम्यक् प्रजाता काले या पश्चात् स्वेद्या विजानता ॥१८ ॥

स्वेद्यः पूर्वञ्च पञ्चाच्च भगन्दर्यर्शसस्तथा ।

अश्मर्या चातुरो जन्तुः शेषान् शास्त्रे प्रचक्ष्महे ॥ १ ९ ॥

नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविद्भिः कथञ्चित् । १ दोषविशेषे स्वेदविशेषोपयोगं दर्शयति - तन्त्रेति । २ अन्यतरस्मिन् = एकतर • स्मिन्, वाते श्लेष्मणि वेत्यर्थः । ३ श्रधुना अनग्निकत्वेदमभिदधाति - कफेति । चरकोऽपि - " व्यायाम उष्ण-सदनं गुरुप्रावरणं क्षुधा । बहुपानं भयक्रोधावुपनाहाहवातपाः ॥ स्वेदयन्ति दशैतानि नरमग्निगुणादृते । ” इति । ४ वृषणद्वयहृदय दृष्ट्यतिरिक्ते सर्वस्मिन् देहे इत्यर्थः । तथा च -- " वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा । मध्यमं वङ्क्षणौ शेषमङ्गावयव-मिष्टतः ॥ ” इति चरकैकवाक्यता । श्रत्र चरकवचने, ' स्वेदयेन्मृदु ' इति स्वेदैकसाध्ये वृषणादिगते व्याधौ मृदुस्वेदः । स्वेदव्यतिरिक्तोपायान्तरदर्शने तु नैव वेति बोद्धयम् । ५ पूर्वस्वेद्यान् पश्चात् स्वेद्यांश्चातुरान्निर्दिशति - येषामिति । स्वेदसाध्यान् विकारानाह चरकः - " प्रतिश्याये च कासे च हिक्काश्वासेष्वलाववे । कर्णमन्याशिर-श्शूले स्वरभेदे गलग्रहे ॥ श्रदितैकाङ्गसर्वाङ्गपक्षाघाते विनामके । कोष्ठानाइविबन्धेषु शुक्राघाते विजृम्भके ॥ पार्श्वपृष्ठकटीकुक्षिसङ्ग्रहे गृध्रसीषु च । मूत्रकृच्छे मद्दत्त्वे च मुष्कयोरङ्गमर्दके ॥ पादजानूरुजङ्घातिसङ्ग्रहे श्वयथावपि । खल्लीष्वामेषु शीते च वेपथौ वातकण्टके " सङ्कोचायामशूलेषु स्तम्भगौरवसुप्तिषु । सर्वाङ्गेषु विकारेषु स्वेदनं हितमुच्यते ॥ ” इति । ६ स्वेदात्पूर्वं स्नेहस्योपयोगितां दर्शयति - नानभ्यक्त इति । चरकोऽपि— CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 900

सुश्रुत संहिता चौखम्बा, पृष्ठ 900 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७४२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri | अ ० ३२ दृष्टं लोके काष्ठमस्निग्धमाशु गच्छेद् भङ्गं स्वेदयोगैर्गृहीतम् ॥ २० ॥

स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः स्वस्थानस्था ये च मार्गेषु लीनाः ।

सम्यकस्वेदैर्योजितैस्ते द्रवत्वं प्राप्ताः कोष्ठं यान्ति देहादशेषात् ॥ २१ ॥

अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्त श्रद्धां स्रोतसां निर्मलत्वम् । कुर्यात् स्वेदो हन्ति निद्रां सतन्द्रां सन्धीन् स्तब्धांश्चेष्टयेदाशु युक्तः २२

स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वं मार्दवं चातुरस्य ।

सम्यक स्विन्ने लक्षणं प्राहुरेतन्मिथ्यास्विन्ने व्यत्ययेनैतदेव ॥ २३ ॥

स्विन्नेऽत्यर्थं सन्धिपीडा विदाहः स्फोटोत्पत्तिः पित्तरक्तप्रकोपः ।

मूर्च्छाभ्रान्तिर्दाहतृष्णे क्लमश्च कुर्य्यातूर्ण तत्र शीतं विधानम् ॥ २४ ॥

पोण्डही पित्तरक्त क्षयार्त्तः क्षामोऽजीर्णी चोदरार्त्तो विषार्त्तः ।

तृट्च्छद्यर्तो गर्भिणी पीतमद्यो नैते स्वेद्या यश्च मत्र्त्योऽतिसारी ॥

स्वेदादेषां यान्ति देहा विनाशं नोसाध्यत्वं यान्ति चैषां विकाराः ।

स्वेदैः साध्यो दुर्बलो जीर्णभक्तः स्यातां चेद्वौ स्वेदनीयौ ततस्तौ ॥

एतेषां स्वेदसाध्या ये व्याधयस्तेषु बुद्धिमान् ।

मृदून् स्वेदान प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु ॥ २६ ॥

“ स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले । पुरोषमूत्ररेतांसि न सज्जन्ति कथञ्चन ॥ शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः । नमयन्ति यथान्यायं किं पुनर्जीवतो नरान् ” ॥ अपि च – “ स्नेहमग्रे प्रयुञ्जीत तनः स्वेदमनन्तरम् । स्नैहस्वे दोपपन्नस्य संशोधनमथेतरत् ॥ ” इति । १ यान्ति = बहिनिस्सरन्ति । २ स्वेदगुणान्निर्दिशति — -अग्नेरिति । ३ सम्यक् स्विन्नलक्षणान्याह - स्वेदेति । ४ मिथ्यास्विन्ने व्याधि. वृद्धि:, देहस्य गौरवम्, उष्णाभिलाषः, देहस्य काठिन्यं चेति व्यत्ययेन बोध्यम् । ५ अतिस्विन्नलक्षणानि दर्शयति - स्विन्न इति । ६ स्वेदानर्ज्ञानातुरानाइ– पाण्डुरिति । चरकः — “ कषायमद्यनित्यानां गर्भिण्या रक्तपित्तनाम् । पित्तिनां सातिसाराणां रूक्षाणां मधुमेहिनाम् ॥ विदग्धभ्रष्टब्रध्नानां विषमद्यविकारिणाम् । श्रान्तानां नष्टप्तव्ज्ञानां स्थूलानां पित्तमेहिनाम् ॥ तृष्यतां क्षुधिनां च क्रुद्धानां शोच. तामपि । कामल्युदरिगां चैव क्षतानामाढयरोगिगाम् ॥ दुर्बलातिविशुष्काणामुपक्षीणौ-जसां तथा । भिषक् तैमिरिकाणां च न स्वेदमवतारयेत् ॥ ” इति । ७ स्वेदप्रयोगे हृन्मुष्कदृष्टिरक्षाविधानमभिदधाति - एतेषामिति । ८ चरके -" वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा । मध्यमं वङ्क्षणौ शेषमङ्गावयवमिष्टतः ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar