सुश्रुत संहिता चौखम्बा — पृष्ठ 891–900
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 891–900
पृष्ठ 891
पाठ पढ़ें पाठ छिपाएँ
अ ० ३१ ] Digitized by Arya कि स्वास्थान hennai and eGangotri ७३३ ऊर्ध्वं स्नेहपानक्रममुपदेक्ष्यामः - अर्थ खलु लघुकोष्ठा-यातुराय कृतमङ्गलस्वस्तिवाचनायोदयगिरिशिखरसंस्थिते प्रतप्तक-नकनिकरपीतलोहिते सवितरि यथाबलं तैलस्य घृतस्य वा मात्रां पातुं प्रयच्छेत् । पीतमात्रे चोष्णोदकेनोपस्पृश्य सोपानत्को यथा-सुखं विहरेत् ॥ १४ ॥
रूक्षतविषार्त्तानां वातपित्तविकारिणाम् ।
ही मेधास्मृतीनाञ्च सर्पिःपानं प्रशस्यते ॥ १५ ॥
' कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः ।
पिवेयुस्तैलसात्म्याश्च तैलं दायथिनश्च ये ॥ १६ ॥
" व्यायामकर्शिताः शुष्करेतोरक्ता महारुजः ।
महाग्निमारुतप्राणा बसायोग्या नराः स्मृताः ॥ १७ ॥
क्रूराशयाः क्लेशलहा वादार्त्ता दीप्तवह्नयः ।
मज्जानमाप्नयुः सर्वे सर्पिर्वा स्वौषधान्वितम् ॥ १८ ॥
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् ।
देयं बहुकफे चापि व्योषक्षारसमायुतम् ॥। १ ९ ॥
१ स्नेहपान विधिमभिदधाति - अथेति । १२ उदयगिरिशिखर संस्थिते = उदया-चलशृङ्गसमुपस्थिते, प्रातःकाले इत्यर्थः । ३ उपस्पृश्य == आचम्य । ४ सर्पिःपानयोग्यान्नरान्निर्दिशति - रूक्षेति । चरके विशेष: -- “ वातपित्तप्रकृतयो वातपित्तविकारिणः । चक्षुःकामाः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः ॥ श्रायुःप्रक र्षकामाश्च बलवर्णवरार्थिनः । पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये ॥ दीप्त्योजः. स्मृति मेधाग्निबुद्धीन्द्रियबलार्थिनः । पिवेयुः सर्पिरार्ताश्च दाहशस्त्रविषाग्निभिः ॥ ” इति । पतैलपानयोग्यान्नरान् दर्शयति-- कृमीति । चरके - “ प्रवृद्धइतेष्ममेदस्काश्च--लस्थूलगलोदराः । वातव्याधिभिराविष्टा वातप्रकृतयश्च ये ॥ बलं तनुत्वं लघुतां - दृढतां स्थिरगात्रताम् । स्निग्धलचणत नुक्तां ये च काङ्क्षन्ति देहिनः ॥ कृमिकोष्ठाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः । पिवेयुः शीतले काले तैलं तैलोचिताश्च ये ॥ " इति । ६ वसापानयोग्यान्नरान् वर्णयति - व्यायामेति । अत्रापि विशेषश्वरकेऽनुस. न्धेयः । ७ मज्जपानार्द्दजनानाख्याति -- क्रूराशया इति । क्रूराशयाः = क्रूरकोष्ठा इत्यर्थः I । दोषविशेषेण स्नेहपानानुपानं वति = केवलमिति । भावप्रकाशे-“ घृते कोष्ं जलं पेयं तैले यूषः प्रशस्यते । वसामज्ज्ञोः पिबेन्मण्डमनुपान CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 892
पाठ पढ़ें पाठ छिपाएँ
७३४ by Arya Samaj F सुश्रुतसंहिता Gangotri दोषीणामल्पभूयस्त्वं संसर्ग समवेक्ष्य च । [ अ ० ३१ युज्यात्त्रिषष्टिधाभिन्नैः समासव्यासतो रसैः ॥ २० ॥
स्नेहसात्म्यः क्लेशसहः काले नात्युष्णशीतले ।
अच्छमेव पिबेत् स्नेहमच्छपानं हि पूजितम् ॥ २१ ॥
शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि ।
वातपित्ताधिके रात्रौ वातश्लेष्माधिके दिवा ॥ २२ ॥
वातपित्ताधिकस्योष्णे तृण्मूच्छों मादकारकः ।
शीते वातकफार्त्तस्य गौरवारुचिशूलकृत् ॥ २३ ॥
स्नेहॅपीतस्य चेत् तृष्णा पिबेदुष्णोदकं नरः ।
एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुना वमेत् ॥ २४ ॥
दिर्घाच्छीतैः शिरः शीतं तोयं चाप्यवगाहयेत् ।
या C मात्रा परिजीर्येत चतुर्भागगतेऽहनि ॥ २५ ॥
सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता । सुखावद्दम् ॥ ” इति । चरकस्तु – “ जलमुष्णं घृते पेयं यूषस्तैले नु शस्यते । वसाम • ज्ज्ञोस्तु मण्डः स्यात्सर्वेषूष्णमथाम्बु वा ॥ " इत्याह । १ दोष संसर्गविशेषे त्रिषष्टिरससंयुक्तमपि सर्पिर्योज्यमिति दर्शयति- दोषाणा-मिति। २ त्रिषष्टीरसभेदोऽयमुत्तरतन्त्रान्ते व्यक्तीभविष्यति । ३ अशनात्पृ-क्स्नेहपानविषये कथयति - स्नेदेति । शक्तिलक्षणबलयुक्तेन क्लेशसह इत्यर्थः । “ अच्छ पेयस्तु यः स्नेहो न तामाहुर्विचारणाम् । स्नेहस्य स भिषग्दृष्टः कल्पः प्राथम-कल्पिकः । " इति चरकः । ४ पानं द्विविधम् - अशनात् पृथक्, अशनव्यामिश्रं वा तत्र यत्पृथक् तदच्छपानम् । ५ स्नेहपाने कालविचारणां दर्शयति- शीतेति । श्रत्राष्टाङ्गसङ्ग्रहः – “ सर्वं सर्वस्य च स्नेहं युब्ज्याद् भास्वति निर्मले । ऋतौ साधारणे दोषसात्म्येऽनिलकफे कफे ॥ दिवा निश्यनिले पित्ते संसर्गे पित्तवत्यपि " इति । अपि च - " खरमाणस्तु शीतेऽपि दिवा तैलं प्रयोजयेत् । उष्णेऽपि रात्रौ सर्पिस्तु दोषादीन् वीच्य चान्यथा ॥ " इति । चरकः- “ सर्पिः शरदि पातव्यं वसा मज्जा च माधवे । तैलं प्रावृषि नात्यु-ष्णशीते स्नेहं पिवेन्नरः ॥ ” इति । ६ उक्तकालविपर्यये दोषं दर्शयति-- वातेति । ८ दिह्यात् = लिम्पेत् । त्सामाइ— स्नेद्देति । CC - 0. Gurukul Kangri Collection, Haridwar ७ स्नेहपाने तृष्णोपद्रव चिकि. ९ दोषादिविशेषेण स्नेहमात्रां
पृष्ठ 893
पाठ पढ़ें पाठ छिपाएँ
अ ० ३१ ] Digitized by कि किस्सास्थिम pennai and eGangotri ७३५ या मात्रा परिजीर्येत तथाऽर्द्धदिवसे गते ॥ २६ ॥
सा वृष्या बृंहणी चैव मध्यदोषे च पूजिता ।
या मात्रा परिजीर्येत चतुर्भागावशेषिते ॥ २७ ॥
स्नेहनीया च सा मात्रा बहुदोषे च पूजिता ।
या मात्रा परिजीर्येत्तु तथा परिणतेऽहनि ॥ २८ ॥
ग्लानिमूर्च्छामदान् हित्वा सा मात्रा पूजिता भवेत् ।
अहोरात्रादसन्दुष्टा या मात्रा परिजीर्यति ॥ २ ९ ॥
सा तु कुष्ठविषोन्मादग्रहापस्मारनाशिनी ।
यथाऽग्नि प्रथमां मात्रां पाययेत विचक्षणः ॥ ३० ॥
पीतो ह्यतिबहुस्नेहो जनयेत् प्राणसंशयम् ।
मिथ्याचाराद् बहुत्वाद्वा यस्य स्नेहो न जीर्यति ॥ ३१ ॥
विष्टभ्य चापि जीर्येत्तं वारिणोष्णेन वामयेत् ।
जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं पिबेत् ॥ ३२ ॥
तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा । स्युः तृडदाह भ्रम सादारतिक्लमाः ॥ ३३ ॥
विभजते - येति । अष्टाङ्गहृदये – ' द्वाभ्यां चतुर्भिरष्टाभिर्यामै जीर्यन्ति याः क्रमात् । ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च हसीयसीम् । कल्पयेद्वीदय दोषादीन् प्रागेव तु ह्रसीयसीम् ” इति । भावप्रकाशेऽपि - “ अहोरात्रेण महती जीर्यत्यहि तु मध्यमा । जीर्यत्यल्पा दिनार्द्धेन सा विज्ञेया सुखावहा । ' इति । उत्तमादिस्नेहमात्रार्द्राः पुरुषा उक्ताश्चरके - " प्रभूतस्नेहनित्या ये क्षुत्पिपासा-सहा नराः । पावकश्चोत्तमबलो येषां ये चोत्तमा बले ॥ गुल्मिनः सर्पदष्टाश्च विसर्पो. पहताश्च ये । उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च ॥ पिबेयुरुत्तमां मात्राम्, ~~~ अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः । कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये ॥ नातिवह्वाशिनश्चैव मृदुकोष्ठास्तथैव च । पिबेयुमंध्यमां मात्रां मध्यमाश्चापि ये बले । ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः । रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये । ज्वरातीसारका साश्च येषां चिरसमुत्थिताः । स्नेहमात्रां पिबेयुस्ते हस्त्रां ये चावरा बले ॥ ” इति । १ प्रथममात्रायाः प्राशस्त्यं दर्शयति - यथाऽग्नीति । २ स्नेहस्य जीतायां कर्तव्योपचारानाइ - मिथ्येति । ३ श्रष्टाङ्गसङ्ग्रहेऽन्यदप्युक्तम् - " ततो गुरुप्राव · CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 894
पाठ पढ़ें पाठ छिपाएँ
७३ Pigitized by Arya Samaj Fo तुश्रुतसंहितायां - Gangotri [ अ ० ३१
परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम् ।
यवागं पाययेच्चोष्णां कामं क्लिन्नाल्पतण्डुलाम् ॥ ३४ ॥
देयौ यूषरसौ वाऽपि सुगन्धी स्नेहवर्जितौ ।
कृतौ वाऽत्यल्पसर्पिष्कौ विलेपीर्वा विधीयते ॥ ३५ ॥
पिबेत्र त्र्यहं चतुरहं पञ्चाहं पडहं तथा ।
सप्तरात्रात् परं स्नेहः सौत्म्यीभवति सेवितः ॥ ३६ ॥
" सुकुमारं कृशं वृद्धं शिशुं स्नेहद्विषं तथा ।
तृष्णार्त्तमुष्णकाले च सह भक्तेन पाययेत् ॥ ३७ ॥
पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तुकः ।
पीतमैकध्यमेतद्धि सद्यः स्नेहनमुच्यते ॥ ३८ ॥
भृष्टमांसरसे स्निग्धा यवागूः सूपकल्पिता ।
' सक्षुद्रा पीयमाना तु सद्यःस्नेहनमुच्यते ॥ ३ ९ ॥
सर्पिष्मती पयः सिद्धा यवागूः स्वल्पतण्डुला ।
सुखोष्णा सेव्यमाना तु सद्यः स्नेहनमुच्यते ॥ ४० ॥
रणो निवाते शयने स्थितः । जरयान्तं प्रतीक्षेत तृप्यन्तुष्णाल्पवारिपः । शिरोरुग् मनिष्ठीवमूर्च्छादाद्दारु चिक्लमः । जानीयाद् भेषजं जीयॅज्जीर्णं तच्छान्ति लाघवात् । अनुलोमानिलस्वास्थ्यक्षुत्तृष्णोद्गारशुद्धिभिः । " इति । १ स्नेहे जीर्णे पश्चात्कर्म निर्दिशति - परिषिच्येति । पूर्वकर्म तु " द्रवोष्णम-नभिष्यन्दि भोज्यमन्नं प्रमाणतः । नातिस्निग्धमसङ्कीर्णे श्वः स्नेहं पातुमिच्छता । " इत्याह चरकः । २ स्नेहपानस्य कालावधिं दर्शयति - पिवेदिति । त्र्यहं मृदु • कोष्ठः, चतुःपञ्चषढद्दानि मध्यमकोष्ठः, सप्तरात्रं क्रूरकोष्ठ ः पिवेदिति तात्पर्यम् । तदुक्तं चरके— “ मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसे या । स्निह्यति क्रूरकोष्ठस्तु सप्तरा-त्रेण मानवः ॥ " इति । ३ सात्म्यीभूते स्नेहे यो दोषः सोऽष्टाङ्गसङ्ग्रहे कथितः --- " सात्म्यीभूतो हि कुरुते न मलानामुदीरणम् । अतियोगेन वा व्याधीन् यथाऽम्भो यतियोजनात् ॥ ” इति । यदि तु सप्ताहेनापि स्नेहलक्षणं नोत्पद्यते तदा दिनमेकं विश्रमय्य पुनः स्नेहो योज्य इति सदूवैद्याः । ४ सृकुमारादिषु अन्नादिना सह स्नेहप्रयोगमुपदिशति - सुकुमारमिति । ५ दघ्नो CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 895
पाठ पढ़ें पाठ छिपाएँ
अ ० ३१ ] Digitized by Arya विकित्सास्थानम enpai and eGangotri
पिप्पल्यो लवणं सर्पिस्तिला पिष्टं वराहजा ।
वसा च पीतमैकध्यं सद्यः स्नेहनमुच्यते ॥ ४१ ॥
शर्करा चूर्ण संसृष्टे दोहनस्थे घृते तु गाम् ।
दुग्ध्वा क्षीरं पिबेद्रूक्षः सद्यः स्नेहनमुच्यते ॥ ४२ ॥
यवकीलकुलत्थानां क्काथो मागधिकाऽन्वितः ।
पयो दधि सुरा चेति घृतमप्यष्टमं भवेत् ॥ ४३ ॥
सिद्धमेतैघृतं पीतं सद्यःस्नेहनमुत्तमम् ।
राज्ञे राजसमेभ्यो वा देयमेतद् घृतोत्तमम् ॥ ४४ ॥
बैलहीनेषु वृद्धेषु मृद्वग्निस्त्रीमहात्मसु । ७३७ अल्पदोषेषु योज्याः स्युर्ये योगाः सम्यगीरिताः ॥ ४५ ॥
विवर्जयेत् स्नेहपानमजीर्णी तरुणज्वरी ।
दुर्बलो s रोचकी स्थूलो मूर्च्छार्तो मदपीडितः ॥ ४६ ॥
छर्दितः पिपासार्त्तः श्रान्तः पानक्ल मान्वितः ।
दत्तत्रस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः ॥ ४७ ॥
अकाले दुर्दिने चैव न च स्नेहं पिवेन्नरः ।
अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत् ॥ ४८ ॥
स्स्रेहपानाद्भवन्त्येषा नॄणां नानाविधा गदाः ।
गदा वा कृच्छ्रतां यान्ति न सिध्यन्त्यथवा पुनः ॥ ४ ९ ॥
गर्भाशयेऽवशेषाः स्यू रक्तक्लेद्मलास्ततः ।
स्नेहं जह्यान्निषेवेत पाचनं रूक्षमेव च ॥ ५० ॥
दशरात्रात् ततः स्नेहं यथावदवचारयेत् । मण्ड: दधिमस्तुकः । १ सद्यः स्नेहनयोगानां विषयं दर्शयति - बलही -नेष्विति । २ पिप्पल्यादिना पूर्वमुक्ता योगा इत्यर्थः । ३ स्नेहपानानर्हजनान्नि-दिंशति - विवर्जयेदिति । स्नेहपानयोग्यजनानाह - ' स्वेद्य संशोध्यमद्यस्त्रीव्यायामा. सक्तचित्तकाः । वृद्धबालकृशा रूक्षाः क्षीणात्राः क्षीणरेतसः । वातार्तास्तिमिरात ये तेषां स्नेहनमुत्तमम् ॥ ” इति । ४७ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 896
पाठ पढ़ें पाठ छिपाएँ
७३८Digitized by Arya Samaj F सुश्रुतसंहितायांand eGangotri [ अ ० ३१ पुरीषं ग्रथितं रूक्षं कृच्छ्रादन्नं विपच्यते ॥ ५१ ॥
उरो विहते वायुः कोष्ठादुपरि धावति ।
दुर्वण दुर्बलश्चैव रूक्षो भवति मानवः ॥ ५२ ॥
सुस्निग्धो त्वग्विट्शैथिल्यं दीप्तोऽग्निर्मृदुगात्रता ।
ग्लानिर्लाघवमङ्गानामधस्तात् स्नेहृदर्शनम् ।
सम्यकूस्निग्धस्य लिङ्गानि स्नेह द्वेषस्तथैव च ॥। ५३ ॥
भक्तद्वेषो मुखस्रावो गुददाहः प्रवाहिका ।
पुरीषातिप्रवृत्तिश्च भृशस्निग्धस्य लक्षणम् ॥ ५४ ॥
रूक्षस्य स्नेहनं स्नेहैरविस्निग्धस्य रूक्षणम् ।
श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः ॥ ५५ ॥
दीप्तान्तरग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः ।
दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपयोगी पुरुषो भवेत्त ॥ ५६ ॥
स्नेहो हितो दुर्बलवहिदेह सन्धुक्षणे व्याधिनिपीडितस्य ।
बलान्वितौ भोजर्नदोषजातैः प्रमर्दितुं तौ सहसा न साध्यौ ॥ ५७ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने स्नेहोपयौगिकचिकित्सितं नामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥
१ अस्निग्धस्य लक्षणं वक्ति - पुरीषमिति । २ सुस्निग्धलक्षणं ब्रवीति— सुस्निग्धेति । ३ स्नेहद्वेषः = स्नेहारुचिः । ४ अतिस्निग्धलक्षणं दर्शयति-भक्तद्वेष इति । चरकस्तु - " पाण्डुता गौरवं जाढ्यं पुरोषस्याविपक्कता । तन्द्रीररु. चिरुवलेशः स्यादतिस्निग्धलक्षणम् ॥ ” इति । ५ अस्निग्धातिस्निग्धयोः प्रतीकारं प्रतिपादयति- रूक्षस्येति । ६ पिण्याकः: = तिलकल्कः । ७ स्नेहपानफलमभिधत्ते - दीप्तेति । ८ प्रत्यग्रधातुः अभिनव. धातुः, संशुद्धधातुरित्यर्थः । ९ भोजनदोषजातै: - दुर्भक्तस्वभावगुणभूतदोषसमूहैः । स्नेहसेवने हिताहितमाह चरकः - " उष्णोदकोपचारी स्याद् ब्रह्मचारी क्षपा. शयः । शकृन्मूत्रानिलोद्गारानुदीर्णाश्च न धारयेत् ॥ व्यायाममुच्चैर्वचनं क्रोधशोको हिमातपौ । वजेयेदप्रवातं च सेवेत शयनासनम् ॥ ” इति । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्या-मेकत्रिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 897
पाठ पढ़ें पाठ छिपाएँ
अ ० ३२ ] Digitized by Arfation Chennai and eGangotri ७३ ९
द्वात्रिंशत्तमोऽध्यायः ।
अथातः स्वेदवचारणीयं चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
चतुर्विधः स्वेदः, तद्यथा - तापस्वेदः, ऊष्मस्वेदः, उपनाहस्वेदः, द्रवस्वेद इति । अत्र सर्वस्वेदविकल्पावरोधः ॥ ३ ॥
तत्र तापस्वेद्ः पाणिकांस्यकन्दुकपालवालुकावस्त्रैः प्रयुज्यते, शयानस्य चाङ्गतापो बहुशः खादिराङ्गारैरिति ॥ ४ ॥
ऊष्मस्वेदस्तु कपालपाषाणेष्टकालोहपिण्डानग्निवर्णानद्भिरासि-चेदम्लद्रव्यैर्वा, तैरार्द्रालक्तकपरिवेष्टितैरङ्गप्रदेशं स्वेदयेत् । मां-सरखपयोदधिस्नेहधान्याम्लवातहर पत्रभङ्गक्वाथपूर्णां वा कुम्भी-मनुतप्तां प्रवृत्योष्माणं गृह्णीयात् । पार्श्वच्छिद्रेण वा कुम्भेनाधोमु-खेन तस्य मुखमभिसन्धाय तस्मिन् छिद्रे हस्तिशुण्डाकारां नाडीं प्रणिधाय तं स्वेदयेत् ॥ ५ ॥
सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम् ।
हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् ।
सुखा सर्वाङ्गगा ह्येषा न च क्लिश्नाति मानवम् ॥ ६ ॥
व्यामार्द्धमाया त्रिर्वक्रा हस्तिहस्तसमाकृतिः ।
स्वेदनार्थे हिता नाडी कैलिजी हस्तिशुण्डिका ॥ ७ ॥
पुरुषायाममात्राञ्च भूमिमुत्कीर्य्यं खादिरैः । द्वात्रिशत्तमोऽध्यायः । १ स्वेदनं स्वेदस्तस्यावचारणमधिकृत्य कृतं स्वेदावचारणीयं चिकित्सितं व्याख्या-स्यामः । २ भावप्रकाशकारोऽपि - " वेदश्चतुर्विधः प्रोक्तस्तापोष्मस्वेदसज्ञितः । उपनाहो द्रवः स्वेदः सर्वे वातार्तिहारिणः ॥ ” इति । ३ कन्दुः- स्वेदनी, अत्र ' तावा ' इति बोद्धयम् । ४ श्रलक्तकः = ‘ महावर ' इति ख्यातः । ५ वातद्दरपत्रभङ्गकाथपूर्णाम् = एर. ण्डादिवातहरद्रव्यपल्लव क्वाथपरिपूर्णाम् । ६ कम्बलादिना गुरुप्रावरणेन श्रावृतं पिहितमिति गुरुप्रावरणावृतम् । ७ कैलिझीनाडीविधिमभिधत्ते - व्यामेति । व्यामः = स्वे स्वे पाइर्वे प्रसारितयोर्बाह्वोर्मध्यम् । ' व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् ' इत्यमरः । ८ ष. टोपकरणकाशादिद्रव्यैविरचिता कैलिञ्जीत्यर्थः । ९ भूस्वेदविधिम CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 898
पाठ पढ़ें पाठ छिपाएँ
· ७ by Arya Samaj Fo सुत्त संहितायां Sangotri [ अ ० ३२ काष्ठैर्दग्ध्वा तथाऽभ्युदये क्षीरधान्याम्लवारिभिः ॥ ८ ॥
पत्रेभङ्गैरवच्छाद्य शयानं स्वेदयेत्ततः ।
पूर्ववत् स्वेदयेद्दग्ध्वा भस्मापोह्यापि वा शिलाम् ॥ ९ ॥
" पूर्ववत् कुटीं वा चतुर्द्वारां कृत्वा तस्यामुपविष्टस्यान्तश्चतुर्द्वारे--ऽङ्गारानुपसन्धाय तं स्वेदयेत् ॥ १० ॥
कोशधान्यानि वा सम्यगुपस्वेद्यास्तीर्य किलिञ्जेऽन्यस्मिन् वा तत्प्रतिरूपके शयानं प्रावृत्य स्वेदयेत्; एवं पांशुगोशकृत्तपस पलालोष्मभिः स्वेदयेत् ॥ ११ ॥
उपनाहस्वेदस्तु वातहरमूलकल्कै र म्लेपिष्टै लवणप्रगाढैः सुस्नि-ग्धैः सुखोष्णैः प्रदि स्वेदयेत् । एवं काकोल्यादिभिरेलादिभिः सुरसादिभिस्तिलात सीसर्षपकल्कैः कृशरापायसोत्कारिकाभिर्वेश-वारैः शाल्वणैर्वा तनुवस्त्रावनद्धैः स्वेदयेत् ॥ १२ ॥
द्रवस्वेदस्तु वातहरद्रव्यक्काथपूर्ण कोष्णकटाहे द्रोण्यां वाऽव-गाह्य स्वेदयेत् । एवं पयोमांसरस यूपतैलधान्याम्लघृतवसा मूत्रेष्वव-गाहेत, सुखोष्णैः कषायैश्च परिषिचेदिति ॥ १३ ॥
भिदधाति - पुरुषेति । उत्कीर्य = खनित्वा । १ अभ्युच्य = संसिच्य । २ पत्र-भङ्गैः = पूर्ववद् वातद्दरैरण्डादिपल्लवैरित्यर्थः । ३ अश्मस्वेदविधानं व्यक्ति – पूर्वं व-दिति । अपोह्य = दूरीकृत्य । ४ कुटीस्वेदविधिं प्रतिपादयति - पूर्ववदिति । चरके - अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम् । घनभित्ति कुटीं कृत्वा कुष्ठाद्यैः सम्प्रलेपयेत् ॥ कुटीमध्ये भिषक शय्यां स्वास्तीर्णामुपकल्पयेत् । प्रावाराजिन कौशेय कुथ कम्बलगोलकैः ॥ हसन्तिकाभि · रङ्गारपूर्णाभिस्तां च सर्वशः । परिवार्यान्तरारोहेदभ्यक्तः स्विद्यते सुखम् ॥ ” इति । चरके त्रयोदशविधाः स्वेदा यथा - " सङ्करः प्रस्तरो नाडी परिषेकोऽवगाहनम् । जेन्ताकोऽश्मघनः कर्षः कुटी भूः कुम्भिकैव च ॥ कूपो होलाक इत्येते स्वेदयन्ति त्रयोदश । " इति । ५ प्रस्तरस्वेदविधिमुपपादयति - कोशेति । कोशधान्यानि = माषादीनि शमी-धान्यानीत्यर्थः । उपस्वेध = उष्णीकृत्य, किलिन्जे = कटे । ६ अम्लेन काञ्जिकतक्रा-दिना पिटैरित्यर्थः । ७ सुरसादिद्रव्य सङ्ग्रहणीयाध्यायोक्तः । ८ श्रवगाह परिषेच. न विधिमाख्याति - द्ववेति । ९ चकारात् पूर्वोक्तपयोमांसरसादिभिश्चेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 899
पाठ पढ़ें पाठ छिपाएँ
अ ० ३२ ] Digitized bf चविसा स्थान on Chennai and eGangotri ७४१ तत्र तापोष्मस्वेदौ विशेषतः श्लेष्मघ्नौ, उपनाहस्वेदो वातन्नः, अन्यतरस्मिन् पित्तसंसृष्टे द्रवस्वेद इति ॥ १४ ॥
कफँमेदोऽन्विते वायौ निवातातपगुरुप्रावरणनियुद्धाध्वव्या-यामभारहरणामर्षैः स्वेदमुत्पादयेदिति ॥ १५ ॥
भवन्ति चात्र ।
चतुर्विधो योऽभिहितो द्विधा स्वेदः प्रयुज्यते ।
सर्वस्मिन्नेव देहे तु देहस्यावयवे तथा ॥ १६ ॥
येषां नस्यं विधातव्यं बस्तिश्चैव हि देहिनाम् ।
शोधनीयाश्च ये केचित् पूर्वं स्वेद्यास्तु ते मताः ॥ १७ ॥
पश्चात् स्वेद्या हृते शल्ये मूढगर्भाऽनुपद्रवा ।
सम्यक् प्रजाता काले या पश्चात् स्वेद्या विजानता ॥१८ ॥
स्वेद्यः पूर्वञ्च पञ्चाच्च भगन्दर्यर्शसस्तथा ।
अश्मर्या चातुरो जन्तुः शेषान् शास्त्रे प्रचक्ष्महे ॥ १ ९ ॥
नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविद्भिः कथञ्चित् । १ दोषविशेषे स्वेदविशेषोपयोगं दर्शयति - तन्त्रेति । २ अन्यतरस्मिन् = एकतर • स्मिन्, वाते श्लेष्मणि वेत्यर्थः । ३ श्रधुना अनग्निकत्वेदमभिदधाति - कफेति । चरकोऽपि - " व्यायाम उष्ण-सदनं गुरुप्रावरणं क्षुधा । बहुपानं भयक्रोधावुपनाहाहवातपाः ॥ स्वेदयन्ति दशैतानि नरमग्निगुणादृते । ” इति । ४ वृषणद्वयहृदय दृष्ट्यतिरिक्ते सर्वस्मिन् देहे इत्यर्थः । तथा च -- " वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा । मध्यमं वङ्क्षणौ शेषमङ्गावयव-मिष्टतः ॥ ” इति चरकैकवाक्यता । श्रत्र चरकवचने, ' स्वेदयेन्मृदु ' इति स्वेदैकसाध्ये वृषणादिगते व्याधौ मृदुस्वेदः । स्वेदव्यतिरिक्तोपायान्तरदर्शने तु नैव वेति बोद्धयम् । ५ पूर्वस्वेद्यान् पश्चात् स्वेद्यांश्चातुरान्निर्दिशति - येषामिति । स्वेदसाध्यान् विकारानाह चरकः - " प्रतिश्याये च कासे च हिक्काश्वासेष्वलाववे । कर्णमन्याशिर-श्शूले स्वरभेदे गलग्रहे ॥ श्रदितैकाङ्गसर्वाङ्गपक्षाघाते विनामके । कोष्ठानाइविबन्धेषु शुक्राघाते विजृम्भके ॥ पार्श्वपृष्ठकटीकुक्षिसङ्ग्रहे गृध्रसीषु च । मूत्रकृच्छे मद्दत्त्वे च मुष्कयोरङ्गमर्दके ॥ पादजानूरुजङ्घातिसङ्ग्रहे श्वयथावपि । खल्लीष्वामेषु शीते च वेपथौ वातकण्टके " सङ्कोचायामशूलेषु स्तम्भगौरवसुप्तिषु । सर्वाङ्गेषु विकारेषु स्वेदनं हितमुच्यते ॥ ” इति । ६ स्वेदात्पूर्वं स्नेहस्योपयोगितां दर्शयति - नानभ्यक्त इति । चरकोऽपि— CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 900
पाठ पढ़ें पाठ छिपाएँ
७४२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri | अ ० ३२ दृष्टं लोके काष्ठमस्निग्धमाशु गच्छेद् भङ्गं स्वेदयोगैर्गृहीतम् ॥ २० ॥
स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः स्वस्थानस्था ये च मार्गेषु लीनाः ।
सम्यकस्वेदैर्योजितैस्ते द्रवत्वं प्राप्ताः कोष्ठं यान्ति देहादशेषात् ॥ २१ ॥
अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्त श्रद्धां स्रोतसां निर्मलत्वम् । कुर्यात् स्वेदो हन्ति निद्रां सतन्द्रां सन्धीन् स्तब्धांश्चेष्टयेदाशु युक्तः २२
स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वं मार्दवं चातुरस्य ।
सम्यक स्विन्ने लक्षणं प्राहुरेतन्मिथ्यास्विन्ने व्यत्ययेनैतदेव ॥ २३ ॥
स्विन्नेऽत्यर्थं सन्धिपीडा विदाहः स्फोटोत्पत्तिः पित्तरक्तप्रकोपः ।
मूर्च्छाभ्रान्तिर्दाहतृष्णे क्लमश्च कुर्य्यातूर्ण तत्र शीतं विधानम् ॥ २४ ॥
पोण्डही पित्तरक्त क्षयार्त्तः क्षामोऽजीर्णी चोदरार्त्तो विषार्त्तः ।
तृट्च्छद्यर्तो गर्भिणी पीतमद्यो नैते स्वेद्या यश्च मत्र्त्योऽतिसारी ॥
स्वेदादेषां यान्ति देहा विनाशं नोसाध्यत्वं यान्ति चैषां विकाराः ।
स्वेदैः साध्यो दुर्बलो जीर्णभक्तः स्यातां चेद्वौ स्वेदनीयौ ततस्तौ ॥
एतेषां स्वेदसाध्या ये व्याधयस्तेषु बुद्धिमान् ।
मृदून् स्वेदान प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु ॥ २६ ॥
“ स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले । पुरोषमूत्ररेतांसि न सज्जन्ति कथञ्चन ॥ शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः । नमयन्ति यथान्यायं किं पुनर्जीवतो नरान् ” ॥ अपि च – “ स्नेहमग्रे प्रयुञ्जीत तनः स्वेदमनन्तरम् । स्नैहस्वे दोपपन्नस्य संशोधनमथेतरत् ॥ ” इति । १ यान्ति = बहिनिस्सरन्ति । २ स्वेदगुणान्निर्दिशति — -अग्नेरिति । ३ सम्यक् स्विन्नलक्षणान्याह - स्वेदेति । ४ मिथ्यास्विन्ने व्याधि. वृद्धि:, देहस्य गौरवम्, उष्णाभिलाषः, देहस्य काठिन्यं चेति व्यत्ययेन बोध्यम् । ५ अतिस्विन्नलक्षणानि दर्शयति - स्विन्न इति । ६ स्वेदानर्ज्ञानातुरानाइ– पाण्डुरिति । चरकः — “ कषायमद्यनित्यानां गर्भिण्या रक्तपित्तनाम् । पित्तिनां सातिसाराणां रूक्षाणां मधुमेहिनाम् ॥ विदग्धभ्रष्टब्रध्नानां विषमद्यविकारिणाम् । श्रान्तानां नष्टप्तव्ज्ञानां स्थूलानां पित्तमेहिनाम् ॥ तृष्यतां क्षुधिनां च क्रुद्धानां शोच. तामपि । कामल्युदरिगां चैव क्षतानामाढयरोगिगाम् ॥ दुर्बलातिविशुष्काणामुपक्षीणौ-जसां तथा । भिषक् तैमिरिकाणां च न स्वेदमवतारयेत् ॥ ” इति । ७ स्वेदप्रयोगे हृन्मुष्कदृष्टिरक्षाविधानमभिदधाति - एतेषामिति । ८ चरके -" वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा । मध्यमं वङ्क्षणौ शेषमङ्गावयवमिष्टतः ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar