सुश्रुत संहिता चौखम्बा — पृष्ठ 901–910

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 901–910

पृष्ठ 901

सुश्रुत संहिता चौखम्बा, पृष्ठ 901 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३३ ] Digitized by A चिईकसाम् hennai and eGangotri ७४३

सर्वान् स्वेदान्निवाते च जीर्णान्नस्यावचारयेत् ।

स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी ॥ २७ ॥

स्विद्यमानस्य च मुहुर्हृदयं शीतलैः स्पृशेत् ।

सम्यकूस्विन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः ॥ २८ ॥

स्वभ्यक्तं प्रावृताङ्गश्च निवातशरणस्थितम् ।

भोजयेदभिष्यदि सर्वं चाचारमादिशेत् ॥ २ ९ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने स्वेदावचारणीयं चिकित्सितं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥

त्रयस्त्रिंशत्तमोऽध्यायः ।

अथातो वमनविरेचनसाध्योपद्रवचिकित्सितं व्याख्यास्यामः ॥१ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

दोषाः क्षीणा बृंहयितव्याः, कुपिताः प्रशमयितव्याः, वृद्धा निर्हर्तव्याः समाः परिपाल्या इति सिद्धान्तः ॥ ३ ॥

इति । स्वेदैकसाध्ये वृषणादिगते व्याधौ मृदुस्वेदः । स्वेदव्यतिरिक्तापायान्तरसम्भवे तु नैव वैति बोध्यमिति तदर्थः । १ स्वेदस्य पश्चात् क्रियामुपदिशति - स्वभ्यक्त-मिति । “ स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः पथ्याशनो भवेत् । तदहः स्विन्नगात्रस्तु व्यायामं वर्जयेन्नरः ॥ ” इति चरकः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां द्वात्रिंशत्तमोऽध्यायः । त्रयस्त्रिंशत्तमोऽध्यायः । २ वमन विरेचन साध्येषु व्याधिषु स्नेहस्वेदोपपन्नस्यैवाधिकृतत्वात् पञ्च कर्मविध्य -न्तर्गतवमनविरेचनविधानार्थमयमध्याय आरभ्यते - अथात इति । पश्चकर्माणि तु — ' ' प्रथमं वमनं पश्चाद्विरेकश्चानुवासनम् । पतानि पञ्चकर्माणि निरूहो नावनं तथा ॥ " इत्याह भावप्रकाशे । वमन विरेचनाभ्यां साध्यानामुपद्रवाणां व्याधीनां चिकि-त्सितमित्यर्थः । ३ दोषाणामवस्थाविशेषेण चिकित्साविशेषं दर्शयति - दोषा इति । ४ निर्हर्त -CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 902

सुश्रुत संहिता चौखम्बा, पृष्ठ 902 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-७४४ CC - 0. Gurukul Kangri Collection, Haridwar [ अ ० ३३ कर्षद्वयं पलं क्षीरादयो Digitized by Arya Samaj Foundation Chennai and eGangotri प्राधान्येन वमनविरेचने वर्त्तेते निर्हरणे दोषाणाम् । तस्मा-त्तयोव॒िधानमुच्यमानमुपधारय ॥ ४ ॥

अथातुरं स्निग्धं स्विन्नमभिष्यन्दिभिराहारैरनवबद्धदोषमव-लोक्य श्वो वमनं पाययिताऽस्मीति सम्भोजयेत् तीक्ष्णाग्नि बल-वन्तं बहुदोषं महाव्याधिपरीतं वमनसात्म्यञ्च ॥ ५ ॥

भवति चात्र ।

पेशलैर्विविधैरन्नैदोँषानुत्क्लेश्य देहिनः ।

स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्त्तते ॥ ६ ॥।

परेद्युः पूर्वाह्णे साधणे काले वमनद्रव्यकषायकल्कचू-र्णस्नेहानामन्यतमस्य मात्रां पाययित्वा वामयेत् । यथायोगं कोष्ठ-विशेषमवेक्ष्य 9 असात्म्ययीभत्सं दुर्गन्धदुर्दर्शनानि च वमनानि विदध्यात्, अतो विपरीतानि विरेचनानि । तत्र सुकुमारं कृशं बालं वृद्धं भीरु ं वा वमनसाध्येषु विकारेषु तीरदधितक्रयवागूनामन्यत -ममाकण्ठं पाययेत्, पीतौषधञ्च पाणिभिरग्नितप्तैः प्रताप्यमानं मुहूर्त्तमुपेक्षेत । तस्य च स्वेदप्रादुर्भावेण शिथिलतामापन्नं स्वेभ्यः व्याः = न्यूनीकर्तव्याः । १ वमनविरेचनयोः प्राधान्यमाचष्टे - प्राधान्येनेति । २ निर्हरणे = दूरीकरणे । ३ वमनौषधपानविधानमभिधत्ते - अथेति । अनभिष्य-न्दिभिः = ग्राम्यानूपौदकमांसपयोमाषादिभिरित्यर्थः । ४ - पेशलैः कोमलैः, ग्राम्यौ दकानूपमांसरसाद्यनभिष्यन्दिभिराद्दारैरिति यावत् । चरकः— “ ग्राम्यौदकानूपरसैः समसैरुत्क्लेशनीयः पयसा च वम्यः । रसस्तथा जाङ्गलजैः सयूपैः स्निग्धैः कफावृद्धि-करैविरेच्यः ॥ ” इति । ५ अपरेद्युः = अन्यस्मिन् दिने, भोजः -- " एकाहोपरत: स्नेहात् स्विन्नः प्रच्छर्दनं ' पिबेत् । भुक्त्वा ग्राम्यौदकैर्मासैरानूपैश्च सुसंस्कृतैः ॥ ” इति । साधारणे काले नाति-शीतोष्णे । ६ मात्रारतन्त्रान्तरे स्पष्टीकृताः-- " क्काथपाने नव प्रस्था ज्येष्ठा मात्रा प्रकीर्तिता । मध्यमा षष्मिता बोध्या त्रिप्रस्था च कनीयसी ॥ ” इति । वमनादौ प्रस्थशब्देन सार्ध त्रयोदशपलान्युच्यन्ते । तदुक्तं तन्त्रान्तरे – “ वमने च विरेके च तथा शोणितमोक्षणे । सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः ॥ ” इति । कल्कादिमानं तु— “ कल्कमोदकचूर्णानां कर्षमद्याच्च लेहतः । वाऽपि वयोरोगाद्यपेक्षया ॥ ” इति । ७ बीभत्सः विकृताकृतिः ।

पृष्ठ 903

सुश्रुत संहिता चौखम्बा, पृष्ठ 903 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३३ ] Digitized by Ar चिकित्सास्थान म hennai and eGangotri ७४५ स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं जानीयात, ततः प्रवृत्तहृल्लासं ज्ञा-त्वा जानुमात्रासनोपविष्टमा तैललाटे पृष्ठे पार्श्वयोः कण्ठे च पाणि-भिः सुपरिगृहीतमङ्गुलीगन्धर्व हस्तोत्पलनालानामन्यतमेन कण्ठम-भिस्पृशन्तं वामयेत्तावद्यावत्सम्यग्वान्तलिङ्गानीति ॥ ७ ॥

भवतश्चात्र ।

कफप्रसेकं हृदयाविशुद्धिं कण्डूञ्च दुश्छर्दित लिङ्गमाहुः ।

पित्तातियोर्गंञ्च विसंज्ञताञ्च हृत्कण्ठपीडामपि चातिवान्ते ॥ ८ ॥

पित्ते ' कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि ।

लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत् ॥ ९ ॥

सम्यग्वान्तं चैनमभिसमीक्ष्य स्नेहनविरेचनशमनानां धूमाना-मन्यतमं सामर्थ्यतः पाययित्वाऽऽचारिकमादिशेत् ॥ १० ॥

भवन्ति चात्र ।

ततोऽपराह्णे शुचिशुद्धदेहमुष्णाभिरद्भिः परिषिक्तगात्रम् ।

कुलत्थमुद्राढकिजाङ्गलानां यूषै रसैर्वाऽप्युपभोजयेत्तु ॥ ११ ॥

कीसोपले परवरभेद निद्रातन्द्रास्य दौर्गन्ध्यविषोपसर्गाः । वमनद्रव्यसंस्कृता ज्ञेयाः । अथवा क्षीरादिकं दोषानुसारेण पूर्वमाकण्ठं पाययेत्तदन-न्तरं भैषज्यमात्रां पाययेत् । तथा चाष्टाङ्गसङ्ग्रहे— “ भीरुकृश बालसुकुमारत्वाद् दोषा-नुरोधेनाकण्ठं पीतयूषॆक्षुरस क्षीरमांसरसमचतुषोदकयवागूमण्डान्यतमम् ” इति । १ अष्टाङ्गहृदयेऽपि—– “ उभे पाइर्वे ललाटे च वमतश्चास्य धारयेत् । प्रपीडयेत्तथा नाभि पृष्ठं च प्रतिलोमतः ॥ ” इति । २ गन्धर्वस्य मृगभेदस्य हस्त इव पत्रमस्येति गन्धर्वहस्तः, शुक्लैरण्ड इत्यर्थः । ३ वमनस्य हीनातियोगलक्षणानि निर्दिशति--कफेति । ४ अतियोगम् = अतिप्रवृत्तिम् । ५ सम्यग्वान्तलक्षणं दर्शयति- पित्त इति । चरकोऽपि - " क्रमात् कफः पित्त-मधानिलश्च यस्यैति सम्यग्वमितः स इष्टः । हृत्पार्श्वमूर्चेन्द्रिय मार्गशुद्धौ तथा लघु-खेऽपि च लक्ष्यमाणे ॥ ” इति । केषाञ्चन मते वमनविरेचनयोश्चतुर्विधा शुद्धि: -श्रन्तिकी, वैगिकी, मानिकी, लैङ्गिकी चेति । ६ धूमानां = चत्वारिंशत्तमेऽध्याये ७ आचारिकम् = एकोनचत्वारिंशत्त-८ वमनफलमभिदधाति-- कासेति 1 । उपलेपः = स्रोतस्तु ६ सम्यग्वान्तकर्म वक्ति - सम्यगिति । धूमनस्य कवलग्रह चिकित्सिते वच्यमाणानाम् । मेऽध्याये वक्ष्यमाणम् । मलाभिवृद्धिः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 904

सुश्रुत संहिता चौखम्बा, पृष्ठ 904 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७४६ • सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३३ कफप्रसेकग्रहणीप्रदोषा न सन्ति जन्तोर्वमतः कदाचित् ॥ १२ ॥

छिन्ने तरौ पुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति ।

तथा हृते श्लेष्मणि शोधनेन तज्जा विकाराः प्रशमं प्रयान्ति ॥ १३ ॥

ने वामयेत् तैमिरिकोर्ध्ववातगुल्मोदर लोहकृमिश्रमार्त्तान् ।

स्थूलक्षतक्षीणकृशातिवृद्धमूत्रातुरान् केवलवातरोगान् ॥ १४ ॥

स्वरोपघाताध्ययनप्रसक्तदुश्छर्दिदुः कोष्ठवृडार्त्तबालान् ।

ऊर्ध्वात्रेपित्तिक्षुधितातिरूक्षगर्भिण्युदावर्ति निरूहितांश्च ॥ १५ ॥

अवम्यवमनाद्रोगाः कृच्छ्रतां यान्ति देहिनाम् ।

असाध्यतां वा गच्छन्ति नैते वाम्यास्ततः स्मृताः ॥ १६ ॥

एतेऽप्यजोर्णव्यथिता वाम्या ये च विषातुराः ।

अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना ॥ १७ ॥

वाम्यौस्तु - विपशोपस्तन्यदोषमन्दाग्न्युन्मादापस्मारश्लीपदार्थ-दविदारिका मेदोमेह गरज्वंरारुच्यपच्यामातो सारहृद्रोगचित्तविभ्रम-विसर्पविद्रव्य जीर्णमुखप्र से कहल्लासश्वासकास पीनसपृतिनासकण्ठौ. ष्ठवक्त्रपाककर्णस्रावाधिजिह्वोपजिह्विकागलशुण्डिकाधः शोणितपि-त्तिनः कफस्थानजेषु विकारेष्वन्ये च कफव्याधिपरीता इति || १८ || विरेचनमपि स्निग्धस्विन्नाय वान्ताय च देयम् । अवान्त-१ वमनानर्हजनान् दर्शयति - नेति । ऊर्ध्ववातस्य लक्षयमुक्तं तन्त्रान्तरे– “ अधः प्रतिहतो वायुः श्लेष्मणा कुपितेन च । करोत्यनिशमुद्गारमूर्ध्ववातः स उच्यते ॥ ” इति । २ ऊर्ध्वास्रः = यध्य नासाक्षिकर्णास्य मार्गे रक्तं प्रवर्तते सः, ऊर्ध्वरक्तीत्यर्थः । ३ वमनार्हजनान्निर्दिशति - वाम्यास्त्विति । ४ ज्वरशब्देन नवज्वरो विष मज्वरश्च प्रत्येतव्यः । तथा च चरके - शेषास्तु वम्याः, विशेषतस्तु पीनसकुष्ठनवज्व-रराजयदमकासश्वासेत्यादिना कथितः । अथ विरेचनविधिः । ५ वमनविध्यनन्तरं विरेचनविधिमभिधत्ते - विरेचनमिति । भावप्रकाशैऽपि— " स्निग्धस्विन्नाय वान्ताय दद्यात्सम्यग् विरेचनम् । श्रवान्तस्य स्वधः स्रस्तो ग्रहण छादयेत् कफः ॥ मन्दाग्नि गौरवं कुर्याज्जनयेश प्रवाहिक ' म् । अथवा पाचनैरामं बलासं परिपाचयेत् ॥ ” इति । विरेचनं कदा कदा कार्यमित्युक्तं तत्रैव - " ऋतौ वसन्ते शरदि देहशुद्धौ विरे-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 905

सुश्रुत संहिता चौखम्बा, पृष्ठ 905 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३३ ] Digitized by Ary चिकित्सास्थानम hnai and eGangotri Chennai ७४७ स्य हि सम्यग्विरिक्तस्यापि सतोऽधः स्रस्तः श्लेष्मा ग्रहणीं छाद-यति, गौरवमापादयति, प्रवाहिकां वा जनयति ॥ १ ९ ॥ अथातुरं श्वो विरेचनं पाययिताऽस्मीति पूर्वाह्णे लघु भोजयेत्, फलाम्लमुष्णोदकं चैनमनुपाययेत् । अथापरेऽहनि विगतश्लेष्म-धातुमातुरोपक्रमणीयादवेक्ष्यातुरमथास्मै औषधमात्रां पातुं प्रय-च्छेत् ॥ २० ॥

तंत्र ' मृदुः क्रूरो मध्यम इति त्रिविधः कोष्ठो भवति । तत्र बहु-पित्तो मृदुः, स दुग्धेनापि विरिच्यते । बहुवातश्लेष्मा क्रूरः, स दुर्विरेच्यः । समदोषो मध्यमः, स साधारण इति । तत्र मृदौ मात्रा मृद्वी, तीक्ष्णा क्रूरे, मध्ये मध्या कर्त्तव्येति । पीतौषधश्च तन्मनाः शय्याऽभ्याशे विरिच्यते ॥ २१ ॥

विरेचनं पीतवांस्तु न वेगान् धारयेद् बुधः ।

निवातशायी शीताम्बु न स्पृशेन्न प्रवाहयेत् ॥ २२ ॥

यथा च वमने प्रसेकौषधकफपित्तानिलाः क्रमेण गच्छन्ति, एवं विरेचने मूत्रपुरीषपित्तौषधकफा इति ॥ २३ ॥

भवन्ति चात्र ।

" कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते ।

मूर्च्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम् ॥ २४ ॥

" गतेषु दोषेषु कफान्वितेषु नाभ्या लघुत्वे मनसश्च तुष्टौ । चयेत् । अन्यदाऽऽत्ययिके कार्ये शाधनं शीलयेद् बुधः ॥ ” इति । तच्च विरेचनम्— " वान्तं षडहसंसृष्टं पुनः संस्नेहितं क्रमात् । उष्णं लघु त्र्यहं भुक्तं षोडशेऽह्नि विरेच. येत् ॥ ” इति क्रमेण कार्यम् । १ " द्वे पले ज्येष्ठमाख्यातं मध्यमं तु पलं भवेत् । पलार्धमुपयुञ्जीत कनीयस्तु विरेचनम् ॥ ” इति पुरुषस्य बलापेक्षया प्रधानमध्यादिभे • देनौषधमात्रामित्यर्थः । २ त्रिविधकोष्ठलक्षणं प्रतिपादयति - तत्रेति । ३ मृद्वी = मृदुगुणोपेता, तीक्ष्णा = तीक्ष्णगुणोपेता । ४ तत्र विरेके मनो यस्य स तन्मनाः, शय्याभ्यासे = खट्वादि-निकटे इत्यर्थः । ५ विरेचने कर्तव्यकर्मोपदिशति - विरेचनमिति । ६ प्रसेकः = लालास्रावम् । ७• विरेचनस्यायोगाति योगलक्षणमभिदधाति -हृदिति । सम्यग् विरि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 906

सुश्रुत संहिता चौखम्बा, पृष्ठ 906 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७४८ by Arya Samaj F सुश्रुतसहित angotri [ अ ० ३३ गतेऽनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्य॒वस्येत् ॥ २५ ॥

मन्दाग्निम क्षीणमसद्विरिक्तं न पाययेताहनि तत्र पेयम् ।

क्षीणं तृडात्त सुविरेचितञ्च तन्वीमशीतां लघु पाययेच्च ॥ २३ ॥

बुद्धेः प्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं बलमग्निदीप्तिम् ।

चिराच्च पार्कं वयसः करोति विरेचनं सम्यगुपास्यमानम् ॥ २७ ॥

यथौदकानामुदकेऽपनीते चरस्थिराणां भवति प्रणाशः ।

पित्ते हृते त्वेवमुपद्रवाणां पित्तात्मकानां भवति प्रणाशः ॥। २८ ॥

मन्दाग्न्यतिस्नेहितबालवृद्धस्थूलाः क्षतक्षीणभयोपतप्ताः ।

श्रान्तस्तृषार्त्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक् ॥२ ९ ॥

नवप्रतिश्यायमदात्ययी च नवज्वरी या च नवप्रसूता ।

शल्यार्दितश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च ॥ ३० ॥

अत्यर्थपित्ताभिपरीतदेहान् विरेचयेत्तानपि मन्दमन्दम् ।

विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः ॥ ३१

विरेच्यास्तु ज्वरगरारुच्यर्शोऽर्बुदोदरग्रन्थिविद्रधिपाण्डुरोगा-पस्मारहृद्रोगवातरक्तभगन्दरच्छदियोनिरोगविसर्प गुल्म पक्वाशयरु-ग्विबन्धविसूचिकाऽलसकमूत्राघातकुष्ठ विस्फोटकप्रमेहानाहप्लीहशो-फवृद्धिशस्त्रक्षतक्षाराग्निदग्धदुष्टव्रणाक्षिपाककाच तिमिराभिष्यन्द-शिरः कर्णाक्षिनासास्यगुदमेढ़ दाहोर्ध्व रक्तपित्तकृमिकोष्ठिनः पित्त-स्थानजेष्वन्येषु च विकारेष्वन्ये च पैत्तिकव्याधिपरीता इति || ३२ || " सरत्वसौक्ष्म्यतैक्ष्ण्यौष्ण्यविकाशित्वैर्विरेचनम् । क्तल क्षणमाख्याति — गतेष्विति । गतेषु = विरिक्तेषु । १ विरेचने पश्चात्कर्माह ----मन्दाग्निमिति । २ पेयाविधिः ---- ‘ “ चतुर्दशगुणे नीरे रक्तशाल्यादिभिः कृता । द्रवाधिका स्वरुपसिथा पेया प्रोक्ता भिषग्वरैः ॥ " इत्यादिबध्यः । ३ विरेचनफलमभिधत्ते - बुद्धेरिति ४ चरा मत्स्यादयो जङ्गमाः, स्थिराः पद्मादयः स्थावरास्तेषां चरस्थिराणाम् । ५ पित्तात्मकानां = पित्तकारणानामित्यर्थः । ६ विरेचनानर्ह रोगिणो निर्दिशति - मन्देति । ७ अनुपस्कृताः = श्रसंस्कृता इत्यर्थः । ८ विरेचनार्हान् रोगिणो दर्शयति - विरेच्यास्त्विति । ९ काचः = नेत्ररो • गभेदः । १० वमनविरेचनयोर्दोषनिर्हरणे विशेषं वक्ति - सरत्वेति । सरत्वं विस. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 907

सुश्रुत संहिता चौखम्बा, पृष्ठ 907 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

undation Chennai ' अ ० ३३ ] Digitized by Arya चिकित्सास्थानम् and eGangotri वमनन्तु हरेद्दोषं प्रकृत्या गतमन्यथा ॥ ३३ ॥।

यात्य॑धो दोषमादाय पच्यमानं विरेचनम् ।

गुणोत्कर्षाद् व्रजेत्यूर्ध्वमपक्कं वमनं पुनः ॥ ३४ ॥

मृदुकोष्ठस्य दीप्ताग्नेरतितीक्ष्णं विरेचनम् ।

न सम्यनिहरे शेषानतिवेगं प्रधावितम् ॥ ३५ ॥

पीतं यदौषधं प्रातर्भुक्तपाकसमे क्षणे ।

पक्तिं गच्छति दोषांश्च निर्हरेत् तत् प्रशस्यते ॥ ३६ ॥

दुर्बलस्य चलान दोषानल्पानल्पान् पुनः पुनः ।

हरेत् प्रभूतानल्पांस्तु शमयेत् प्रच्युतानपि ॥ ३७ ॥

“ रेद्दोपांश्चान् पक्कान् बलिनो दुर्बलस्य वा ।

चला ह्युपेक्षिता दोषाः क्लेशयेयुश्चिरं नरम् ॥ ३८ ॥

मन्दाग्नि क्रूरकोष्ठञ्च सतारलवणैर्धृतैः ।

सन्धुक्षिताग्निं स्निग्धञ्च स्विन्नञ्चैव विरेचयेत् ॥। ३ ९ ॥

" स्निग्धस्विन्नस्य भैषज्यैर्दोषस्तूत्वले शितो बलात् ।

" विलीयतेन मार्गेषु स्निग्धे भाण्ड इवोदकम् ॥ ४० ॥

७४ ९ रणस्वभावत्वम्, सौक्ष्म्यं = सूक्ष्मस्रोतोऽनुसारित्वम्, तैक्ष्ण्यं = शीघ्रतया दोषनाषण-करत्वम्, औष्ण्यं = सौम्यद्रव्योपमर्दन करणं सामर्थ्यम्, विकाशिरखं = धातोः शैथिल्य -करणसामर्थ्यम् । १ श्रधो याति = पृथिव्यम्बुगुणभूयिष्ठं विरेचनद्रव्यं गुरुत्वात्पच्यमानमेवाघो गच्छतीत्यर्थः । २ ऊर्ध्वं व्रजति = अग्निवायुगुणभूयिष्ठं वमनद्रव्यं लघुखादपक्चमे-वोर्ध्वं यातीत्यर्थः! ३ विरेचनस्यासम्यक्प्रवृत्तौ हेतुमुपदिशति - मृद्विति । ४ अ-तिवेगप्रधावितम् = अतिवेगप्रवर्तितम् । ५ विरेचनस्य सम्यग्युक्तिमाह - पीतमिति । ६ दुर्बलस्य दोषहरणे विशेषविधिमभिदधाति - दुर्बलस्येति । चलान् - कुपि · तान् । ७ प्रच्युतान् = चलितानित्यर्थः । भोजेऽपि - ' दोषमल्पं च शमयेच्चलितं चापि दुर्बले । बहुदोषं तु चलितं शनैरल्प प्रवाइयेत् ॥ ” इति । स्थानाच्चलि-तानां दोषाणामवश्यं निर्हरणं कर्तव्यमित्युपदिशति - हरेदिति । ९ मन्दाग्नेः क्रूरकोष्ठस्य च संशोधनविधिमभिधत्ते - मन्दाग्निमिति । १० संशोधनस्य स्नेह-स्वेदपूर्वकप्रयोगे हेतुमुपपादयति - स्निग्धेति । ११ न विलीयते = न लग्नो भवति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 908

सुश्रुत संहिता चौखम्बा, पृष्ठ 908 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Pigitized igitized by Arya Samaj Foundation and Gangotri [ अ ० ३३

चातिस्नेहपीतस्तु पिबेत् स्नेहविरेचनम् ।

दोषाः प्रचलिताः स्थानाद् भूयः श्लिष्यन्ति वर्त्मसु ॥ ४१ ॥

विषाभिघातपिडकाशोफपाण्डुविसर्पिणः ।

नौतिस्निग्धा विशोध्याः स्युस्तथा कुष्ठप्रमेहिणः ॥ ४२ ॥

विरूक्ष्य स्नेहसात्म्यन्तु भूयः संस्नेह्य शोधयेत् ।

तेन दोषा हृतास्तस्य भवन्ति बलवर्द्धनाः ॥ ४३ ॥

प्रागपीतं नरं शोध्यं पाययेतौषधं मृदु ।

ततो विज्ञातकोष्ठस्य कार्य्यं संशोधनं पुनः ॥ ४४ ॥

सुखं दृष्टफलं हृद्यमल्पमात्रं महागुणम् ।

व्यापत्स्वल्पात्ययं चापि पिबेन्नृपतिरौषधम् ॥ ४५ ॥

स्नेहस्वेदावनभ्यस्य यस्तु संशोधनं पिबेत् ।

दारु शुष्कमिवानामे देहस्तस्य विशीर्य्यते ॥ ४६ ॥

स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः ।

दोषाः कोष्ठगता जन्तोः सुखा हर्त्तु विशोधनैः ॥ ४७ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनसाध्योपद्रवचिकित्सितं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥

१ अतिस्निग्धस्य स्नेहविरेचनं निषेधति - नेति । २ श्लिष्यन्ति = संयुज्यन्ते इत्यर्थः । ३ विषाद्दिपीडितानां संशोधने विशेषविधिमभिधत्ते - विषेति । ३ अत्र ईषदर्थकः । ४ स्नेहसात्म्यस्य संशोधनविधिमभिदधाति - विरूक्ष्येति । नञ् ५ श्रविज्ञातकोष्ठस्य संशोधने मृदुविरेचनप्रदानायोपदिशति - प्रागिति । प्राग् न पीतं विरेचनं येन सः तं प्रागपीतम् । ६ नृपतियोग्यं विरेचनमाख्याति – सुखमिति । ७ अल्पात्ययम् = अल्पविना-शम् । ८ स्नेहस्वेदनरहितसंशोधने दोषमाचष्टे - स्नेदेति । ९ श्रनामे == वक्रीकरणे । विरेचनोत्तरकर्माण्याइ = " पीखा विरेचनं शीतजलैः संसिच्य चक्षुषी । सुगन्धि किञ्चिदाघ्राय ताम्बूलं शीलयेद् बुधः ॥ निर्वातस्थो न वेगांश्च धारयेन्न शयीत च । शीताम्बु न स्पृशेत् क्वापि कोष्णनीरं पिवेन्मुहुः ॥ " इति भावमिश्रः । इति सुश्रुतसंहितायाश्चिकित्सा स्थानीयसुधाऽऽख्यटिप्पन्यां त्रयस्त्रिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 909

सुश्रुत संहिता चौखम्बा, पृष्ठ 909 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्र ० ३४ ] Digitized by Arya Samaj Foundation Chennai and eGangotri चिकित्सास्थानम् चतुस्त्रिंशत्तमोऽध्यायः । ७५१ अथातो वर्मनविरेचनव्यापच्चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

वैद्योतुरनिमित्तं वमनं विरेचनं च पञ्चदशधा व्यापद्यते । तत्र वमनस्याधो गतिरूद्र्ध्वं विरेचनस्येति पृथक् । सामान्यमुभयोः-सावशेषौषध ं, जीर्णौषधत्वं, होनदोषापहृतत्वं, वातशूलम्, प्रयोग:, अतियोगः, जीवादानम्, आध्मानं, परिकर्त्तिका, परि-स्रावः, प्रवाहिका, हृदयोपसरणं, विबन्ध इति ॥ ३ ॥

तत्रं बुभुक्षापीडितस्यातितीक्ष्णाग्नेर्मृदुकोष्टस्य चावतिष्ठमानं दुर्बलस्य वा गुणसामान्यभावाद्वमनमधो गच्छति, तत्रेप्सितान-वाप्तिर्दोषोत्क्लेशश्च । तमाशु स्नेहयित्वा भूयस्तीक्ष्णतरैर्वा मयेत् || ४ || अपरिशुद्धामाशयस्योत्कृष्टश्लेष्मणः सशेषान्नस्य वाऽयमति-प्रभूतं वा विरेचनं पीतमूर्ध्वं गच्छति, तत्रेप्सितानवाप्तिर्दोषो-त्क्लेशश्च । तत्राशुद्धामाशय मुल्बणश्लेष्माणमाशु वामयित्वा भूय-स्तीक्ष्णतरैर्विरेचयेत्, आमाशये त्वामवत् संविधानम्, अहृद्ये-ऽतिप्रभूते च हृद्यं प्रमाणयुक्तञ्च । अत ऊर्ध्वमुत्तिष्ठत्यौषधे न तृतीयं पाययेत् । ततस्त्वेनं मधुघृतफाणितयुक्तै लै हैविरेचयेत् ॥ ५ ॥

दोषविग्रथितमल्पमौषधमवस्थितमूर्ध्वभागिक मधोभागिकं वा चतुस्त्रिंशत्तमोऽध्यायः । १ वमनविरेचनजनिता व्यापत्तस्याश्चिकित्सितमित्यर्थः । २ पञ्चदशविधत्रमनविरे. चनव्यापदो ब्रवीति — वैद्येति । वैधातुरग्रहणेन भेषजपरिचारकयोरपि ग्रहणम् । तथा च चरकः– “ प्रेष्य भैषज्यवैद्यानां वैगुण्यादातुरस्य च " इति । चरके दश व्यापद ढक्ताः — ' आध्मानं परिकर्तिश्च स्रावो हृद्गात्रयोर्ग्रहः । जीवादानं सविभ्रंशः स्तम्भः सोपद्रवः क्लमः ॥ अयोगादतियोगाच्च दशैता व्यापदो मताः " इति । ३ वमनस्याधोगमनव्यापदं वक्ति - तन्त्रेति । चरके - " क्षुधार्तमृदुकोष्ठाभ्यां वल्पोरिक्लष्टकफेन वा । तीक्ष्णं पीतं स्थितं क्षुब्धं वमनं स्याद्विरेचनम् ॥ ” इति । ४ श्रवतिष्ठमानं = पाकं गच्छदित्यर्थः । ५ ईप्सितानवाप्तिः = अभीष्टवमनाप्राप्तिः, दोषोत्क्लेशः = कफोत्कर्षः । ६ विरेचनस्योर्ध्वगमनव्यापदं कथयति -- अपरिशुद्धे-ति । ७ दोषोत्क्लेशः = पित्तोत्कर्ष इत्यर्थः । ८ सावशेषौषधव्यापदं वर्णयति— CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 910

सुश्रुत संहिता चौखम्बा, पृष्ठ 910 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation. ७२' सुश्रुतसंहितार्थी Gangot [ अ ० ३४ न स्रंसयति दोषान् । तत्र तृष्णा पार्श्वशूलं छर्दिर्मूर्च्छा पर्व भेदो हृल्लासोऽरतिरुद्गाराविशुद्धिश्च भवति I । तमुष्णाभिरद्भिराशु बाम-येदूर्ध्वभागिके, अधोभागिकेऽपि च सावशेषौषधमतिप्रधावितदोष-मतिबलमसम्यग्विरिक्तमप्येवं वामयेत् ॥ ६ ॥

क्रूरकोष्ठस्यातितीक्ष्णाग्नेरल्पमौषधमल्पगुणं वा भक्तवत् पाक--मुपैति, तत्र समुदीर्णा दोषा यथाकालमनिर्हीयमाणा व्याधिविभ्रमं बलविभ्रंशञ्चापादयन्ति, तमनल्पममन्द मौषधञ्च पाययेत् ॥ ७ ॥

अस्निग्धस्विन्नेनाल्पगुणं वा भेषजमुपयुक्तमल्पान् दोपान हन्ति । तत्र वमने दोषशेषो गौरवमुत्क्लेशं हृदयाविशुद्धिं व्याधि-वृद्धिं च करोति, तत्र तं यथायोगं पाययित्वा वामयेद् दृढतरम् । विरेचने तु गुदपरिकर्तनमाध्मानं शिरोगौरवमनिःसरणं वायोर्व्याधिवृद्धिं च करोति । तमुपपाद्य भूयः स्नेहस्वेदाभ्यां विरे-चयेद् दृढतरम्, दृढं बहुप्रचलितदोषं वा तृतीये दिवसेऽल्पगुणं चेति ॥ ८ ॥

अस्निग्ध स्विन्नेन रूक्षौषधमुपयुक्तमब्रह्मचारिणा वा वायुं कोप-यति । तत्र वायुः प्रकुपितः पार्श्वपृष्ठश्रोणिमन्याममशूलं मूर्च्छा भ्रमं संज्ञानाशञ्च करोति, तं वातशूलमित्याचक्षते । तमभ्यज्य धान्यं-स्वेदेन स्वेदयित्वा यष्टीमधुकविपक्केन तैलेनानुवासयेत् ॥ ९ ॥

स्नेहस्वेदाभ्यामविभावितशरीरेणाल्पमौषधमल्पगुणं वा पीत-मूर्ध्वमधो वा " नाभ्येति दोषांश्चत्क्लिश्य तैः सह बलक्षयमापाद-दोषेति । दोषविग्रथितं = दोषमिश्रितम् । १ जीर्णौषधव्यापदं ब्रवीति — क्रूरेति । २ समुदीर्णाः = प्रकुपिता इत्यर्थः । ३ अनत्पं = प्रभूतम्, अमन्दं = तीक्ष्णम् । ४ हीनदोषापहृतव्यापदमभिदधाति-अस्निग्धेति । ५ तं = दोषशेषम्, यथायोगं स्नेहादियोगपूर्वक मित्यर्थः । ६ अल्पगुणं = मृद्दौषधम् । ७ वातशूलव्यादिमभिधत्ते - अस्निग्धस्विन्नेनेति । = भाषादिशमीधान्यस्वेदेनेत्यर्थः । ९ अयोगव्यापदमाख्याति - स्नेदेति । अभिभावितशरीरेण = श्रप्राप्तदेहेन । १० नाभ्येति = न याति । " प्रातिलोम्येन दोषाणां हरणात्ते यकृत्स्नशः । श्रयोगसंज्ञे " CC - 0. Gurukul Kangri Collection, Haridwar