सुश्रुत संहिता चौखम्बा — पृष्ठ 901–910
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 901–910
पृष्ठ 901
पाठ पढ़ें पाठ छिपाएँ
अ ० ३३ ] Digitized by A चिईकसाम् hennai and eGangotri ७४३
सर्वान् स्वेदान्निवाते च जीर्णान्नस्यावचारयेत् ।
स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी ॥ २७ ॥
स्विद्यमानस्य च मुहुर्हृदयं शीतलैः स्पृशेत् ।
सम्यकूस्विन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः ॥ २८ ॥
स्वभ्यक्तं प्रावृताङ्गश्च निवातशरणस्थितम् ।
भोजयेदभिष्यदि सर्वं चाचारमादिशेत् ॥ २ ९ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने स्वेदावचारणीयं चिकित्सितं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
त्रयस्त्रिंशत्तमोऽध्यायः ।
अथातो वमनविरेचनसाध्योपद्रवचिकित्सितं व्याख्यास्यामः ॥१ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
दोषाः क्षीणा बृंहयितव्याः, कुपिताः प्रशमयितव्याः, वृद्धा निर्हर्तव्याः समाः परिपाल्या इति सिद्धान्तः ॥ ३ ॥
इति । स्वेदैकसाध्ये वृषणादिगते व्याधौ मृदुस्वेदः । स्वेदव्यतिरिक्तापायान्तरसम्भवे तु नैव वैति बोध्यमिति तदर्थः । १ स्वेदस्य पश्चात् क्रियामुपदिशति - स्वभ्यक्त-मिति । “ स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः पथ्याशनो भवेत् । तदहः स्विन्नगात्रस्तु व्यायामं वर्जयेन्नरः ॥ ” इति चरकः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां द्वात्रिंशत्तमोऽध्यायः । त्रयस्त्रिंशत्तमोऽध्यायः । २ वमन विरेचन साध्येषु व्याधिषु स्नेहस्वेदोपपन्नस्यैवाधिकृतत्वात् पञ्च कर्मविध्य -न्तर्गतवमनविरेचनविधानार्थमयमध्याय आरभ्यते - अथात इति । पश्चकर्माणि तु — ' ' प्रथमं वमनं पश्चाद्विरेकश्चानुवासनम् । पतानि पञ्चकर्माणि निरूहो नावनं तथा ॥ " इत्याह भावप्रकाशे । वमन विरेचनाभ्यां साध्यानामुपद्रवाणां व्याधीनां चिकि-त्सितमित्यर्थः । ३ दोषाणामवस्थाविशेषेण चिकित्साविशेषं दर्शयति - दोषा इति । ४ निर्हर्त -CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 902
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-७४४ CC - 0. Gurukul Kangri Collection, Haridwar [ अ ० ३३ कर्षद्वयं पलं क्षीरादयो Digitized by Arya Samaj Foundation Chennai and eGangotri प्राधान्येन वमनविरेचने वर्त्तेते निर्हरणे दोषाणाम् । तस्मा-त्तयोव॒िधानमुच्यमानमुपधारय ॥ ४ ॥
अथातुरं स्निग्धं स्विन्नमभिष्यन्दिभिराहारैरनवबद्धदोषमव-लोक्य श्वो वमनं पाययिताऽस्मीति सम्भोजयेत् तीक्ष्णाग्नि बल-वन्तं बहुदोषं महाव्याधिपरीतं वमनसात्म्यञ्च ॥ ५ ॥
भवति चात्र ।
पेशलैर्विविधैरन्नैदोँषानुत्क्लेश्य देहिनः ।
स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्त्तते ॥ ६ ॥।
परेद्युः पूर्वाह्णे साधणे काले वमनद्रव्यकषायकल्कचू-र्णस्नेहानामन्यतमस्य मात्रां पाययित्वा वामयेत् । यथायोगं कोष्ठ-विशेषमवेक्ष्य 9 असात्म्ययीभत्सं दुर्गन्धदुर्दर्शनानि च वमनानि विदध्यात्, अतो विपरीतानि विरेचनानि । तत्र सुकुमारं कृशं बालं वृद्धं भीरु ं वा वमनसाध्येषु विकारेषु तीरदधितक्रयवागूनामन्यत -ममाकण्ठं पाययेत्, पीतौषधञ्च पाणिभिरग्नितप्तैः प्रताप्यमानं मुहूर्त्तमुपेक्षेत । तस्य च स्वेदप्रादुर्भावेण शिथिलतामापन्नं स्वेभ्यः व्याः = न्यूनीकर्तव्याः । १ वमनविरेचनयोः प्राधान्यमाचष्टे - प्राधान्येनेति । २ निर्हरणे = दूरीकरणे । ३ वमनौषधपानविधानमभिधत्ते - अथेति । अनभिष्य-न्दिभिः = ग्राम्यानूपौदकमांसपयोमाषादिभिरित्यर्थः । ४ - पेशलैः कोमलैः, ग्राम्यौ दकानूपमांसरसाद्यनभिष्यन्दिभिराद्दारैरिति यावत् । चरकः— “ ग्राम्यौदकानूपरसैः समसैरुत्क्लेशनीयः पयसा च वम्यः । रसस्तथा जाङ्गलजैः सयूपैः स्निग्धैः कफावृद्धि-करैविरेच्यः ॥ ” इति । ५ अपरेद्युः = अन्यस्मिन् दिने, भोजः -- " एकाहोपरत: स्नेहात् स्विन्नः प्रच्छर्दनं ' पिबेत् । भुक्त्वा ग्राम्यौदकैर्मासैरानूपैश्च सुसंस्कृतैः ॥ ” इति । साधारणे काले नाति-शीतोष्णे । ६ मात्रारतन्त्रान्तरे स्पष्टीकृताः-- " क्काथपाने नव प्रस्था ज्येष्ठा मात्रा प्रकीर्तिता । मध्यमा षष्मिता बोध्या त्रिप्रस्था च कनीयसी ॥ ” इति । वमनादौ प्रस्थशब्देन सार्ध त्रयोदशपलान्युच्यन्ते । तदुक्तं तन्त्रान्तरे – “ वमने च विरेके च तथा शोणितमोक्षणे । सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः ॥ ” इति । कल्कादिमानं तु— “ कल्कमोदकचूर्णानां कर्षमद्याच्च लेहतः । वाऽपि वयोरोगाद्यपेक्षया ॥ ” इति । ७ बीभत्सः विकृताकृतिः ।
पृष्ठ 903
पाठ पढ़ें पाठ छिपाएँ
अ ० ३३ ] Digitized by Ar चिकित्सास्थान म hennai and eGangotri ७४५ स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं जानीयात, ततः प्रवृत्तहृल्लासं ज्ञा-त्वा जानुमात्रासनोपविष्टमा तैललाटे पृष्ठे पार्श्वयोः कण्ठे च पाणि-भिः सुपरिगृहीतमङ्गुलीगन्धर्व हस्तोत्पलनालानामन्यतमेन कण्ठम-भिस्पृशन्तं वामयेत्तावद्यावत्सम्यग्वान्तलिङ्गानीति ॥ ७ ॥
भवतश्चात्र ।
कफप्रसेकं हृदयाविशुद्धिं कण्डूञ्च दुश्छर्दित लिङ्गमाहुः ।
पित्तातियोर्गंञ्च विसंज्ञताञ्च हृत्कण्ठपीडामपि चातिवान्ते ॥ ८ ॥
पित्ते ' कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि ।
लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत् ॥ ९ ॥
सम्यग्वान्तं चैनमभिसमीक्ष्य स्नेहनविरेचनशमनानां धूमाना-मन्यतमं सामर्थ्यतः पाययित्वाऽऽचारिकमादिशेत् ॥ १० ॥
भवन्ति चात्र ।
ततोऽपराह्णे शुचिशुद्धदेहमुष्णाभिरद्भिः परिषिक्तगात्रम् ।
कुलत्थमुद्राढकिजाङ्गलानां यूषै रसैर्वाऽप्युपभोजयेत्तु ॥ ११ ॥
कीसोपले परवरभेद निद्रातन्द्रास्य दौर्गन्ध्यविषोपसर्गाः । वमनद्रव्यसंस्कृता ज्ञेयाः । अथवा क्षीरादिकं दोषानुसारेण पूर्वमाकण्ठं पाययेत्तदन-न्तरं भैषज्यमात्रां पाययेत् । तथा चाष्टाङ्गसङ्ग्रहे— “ भीरुकृश बालसुकुमारत्वाद् दोषा-नुरोधेनाकण्ठं पीतयूषॆक्षुरस क्षीरमांसरसमचतुषोदकयवागूमण्डान्यतमम् ” इति । १ अष्टाङ्गहृदयेऽपि—– “ उभे पाइर्वे ललाटे च वमतश्चास्य धारयेत् । प्रपीडयेत्तथा नाभि पृष्ठं च प्रतिलोमतः ॥ ” इति । २ गन्धर्वस्य मृगभेदस्य हस्त इव पत्रमस्येति गन्धर्वहस्तः, शुक्लैरण्ड इत्यर्थः । ३ वमनस्य हीनातियोगलक्षणानि निर्दिशति--कफेति । ४ अतियोगम् = अतिप्रवृत्तिम् । ५ सम्यग्वान्तलक्षणं दर्शयति- पित्त इति । चरकोऽपि - " क्रमात् कफः पित्त-मधानिलश्च यस्यैति सम्यग्वमितः स इष्टः । हृत्पार्श्वमूर्चेन्द्रिय मार्गशुद्धौ तथा लघु-खेऽपि च लक्ष्यमाणे ॥ ” इति । केषाञ्चन मते वमनविरेचनयोश्चतुर्विधा शुद्धि: -श्रन्तिकी, वैगिकी, मानिकी, लैङ्गिकी चेति । ६ धूमानां = चत्वारिंशत्तमेऽध्याये ७ आचारिकम् = एकोनचत्वारिंशत्त-८ वमनफलमभिदधाति-- कासेति 1 । उपलेपः = स्रोतस्तु ६ सम्यग्वान्तकर्म वक्ति - सम्यगिति । धूमनस्य कवलग्रह चिकित्सिते वच्यमाणानाम् । मेऽध्याये वक्ष्यमाणम् । मलाभिवृद्धिः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 904
पाठ पढ़ें पाठ छिपाएँ
७४६ • सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३३ कफप्रसेकग्रहणीप्रदोषा न सन्ति जन्तोर्वमतः कदाचित् ॥ १२ ॥
छिन्ने तरौ पुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति ।
तथा हृते श्लेष्मणि शोधनेन तज्जा विकाराः प्रशमं प्रयान्ति ॥ १३ ॥
ने वामयेत् तैमिरिकोर्ध्ववातगुल्मोदर लोहकृमिश्रमार्त्तान् ।
स्थूलक्षतक्षीणकृशातिवृद्धमूत्रातुरान् केवलवातरोगान् ॥ १४ ॥
स्वरोपघाताध्ययनप्रसक्तदुश्छर्दिदुः कोष्ठवृडार्त्तबालान् ।
ऊर्ध्वात्रेपित्तिक्षुधितातिरूक्षगर्भिण्युदावर्ति निरूहितांश्च ॥ १५ ॥
अवम्यवमनाद्रोगाः कृच्छ्रतां यान्ति देहिनाम् ।
असाध्यतां वा गच्छन्ति नैते वाम्यास्ततः स्मृताः ॥ १६ ॥
एतेऽप्यजोर्णव्यथिता वाम्या ये च विषातुराः ।
अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना ॥ १७ ॥
वाम्यौस्तु - विपशोपस्तन्यदोषमन्दाग्न्युन्मादापस्मारश्लीपदार्थ-दविदारिका मेदोमेह गरज्वंरारुच्यपच्यामातो सारहृद्रोगचित्तविभ्रम-विसर्पविद्रव्य जीर्णमुखप्र से कहल्लासश्वासकास पीनसपृतिनासकण्ठौ. ष्ठवक्त्रपाककर्णस्रावाधिजिह्वोपजिह्विकागलशुण्डिकाधः शोणितपि-त्तिनः कफस्थानजेषु विकारेष्वन्ये च कफव्याधिपरीता इति || १८ || विरेचनमपि स्निग्धस्विन्नाय वान्ताय च देयम् । अवान्त-१ वमनानर्हजनान् दर्शयति - नेति । ऊर्ध्ववातस्य लक्षयमुक्तं तन्त्रान्तरे– “ अधः प्रतिहतो वायुः श्लेष्मणा कुपितेन च । करोत्यनिशमुद्गारमूर्ध्ववातः स उच्यते ॥ ” इति । २ ऊर्ध्वास्रः = यध्य नासाक्षिकर्णास्य मार्गे रक्तं प्रवर्तते सः, ऊर्ध्वरक्तीत्यर्थः । ३ वमनार्हजनान्निर्दिशति - वाम्यास्त्विति । ४ ज्वरशब्देन नवज्वरो विष मज्वरश्च प्रत्येतव्यः । तथा च चरके - शेषास्तु वम्याः, विशेषतस्तु पीनसकुष्ठनवज्व-रराजयदमकासश्वासेत्यादिना कथितः । अथ विरेचनविधिः । ५ वमनविध्यनन्तरं विरेचनविधिमभिधत्ते - विरेचनमिति । भावप्रकाशैऽपि— " स्निग्धस्विन्नाय वान्ताय दद्यात्सम्यग् विरेचनम् । श्रवान्तस्य स्वधः स्रस्तो ग्रहण छादयेत् कफः ॥ मन्दाग्नि गौरवं कुर्याज्जनयेश प्रवाहिक ' म् । अथवा पाचनैरामं बलासं परिपाचयेत् ॥ ” इति । विरेचनं कदा कदा कार्यमित्युक्तं तत्रैव - " ऋतौ वसन्ते शरदि देहशुद्धौ विरे-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 905
पाठ पढ़ें पाठ छिपाएँ
अ ० ३३ ] Digitized by Ary चिकित्सास्थानम hnai and eGangotri Chennai ७४७ स्य हि सम्यग्विरिक्तस्यापि सतोऽधः स्रस्तः श्लेष्मा ग्रहणीं छाद-यति, गौरवमापादयति, प्रवाहिकां वा जनयति ॥ १ ९ ॥ अथातुरं श्वो विरेचनं पाययिताऽस्मीति पूर्वाह्णे लघु भोजयेत्, फलाम्लमुष्णोदकं चैनमनुपाययेत् । अथापरेऽहनि विगतश्लेष्म-धातुमातुरोपक्रमणीयादवेक्ष्यातुरमथास्मै औषधमात्रां पातुं प्रय-च्छेत् ॥ २० ॥
तंत्र ' मृदुः क्रूरो मध्यम इति त्रिविधः कोष्ठो भवति । तत्र बहु-पित्तो मृदुः, स दुग्धेनापि विरिच्यते । बहुवातश्लेष्मा क्रूरः, स दुर्विरेच्यः । समदोषो मध्यमः, स साधारण इति । तत्र मृदौ मात्रा मृद्वी, तीक्ष्णा क्रूरे, मध्ये मध्या कर्त्तव्येति । पीतौषधश्च तन्मनाः शय्याऽभ्याशे विरिच्यते ॥ २१ ॥
विरेचनं पीतवांस्तु न वेगान् धारयेद् बुधः ।
निवातशायी शीताम्बु न स्पृशेन्न प्रवाहयेत् ॥ २२ ॥
यथा च वमने प्रसेकौषधकफपित्तानिलाः क्रमेण गच्छन्ति, एवं विरेचने मूत्रपुरीषपित्तौषधकफा इति ॥ २३ ॥
भवन्ति चात्र ।
" कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते ।
मूर्च्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम् ॥ २४ ॥
" गतेषु दोषेषु कफान्वितेषु नाभ्या लघुत्वे मनसश्च तुष्टौ । चयेत् । अन्यदाऽऽत्ययिके कार्ये शाधनं शीलयेद् बुधः ॥ ” इति । तच्च विरेचनम्— " वान्तं षडहसंसृष्टं पुनः संस्नेहितं क्रमात् । उष्णं लघु त्र्यहं भुक्तं षोडशेऽह्नि विरेच. येत् ॥ ” इति क्रमेण कार्यम् । १ " द्वे पले ज्येष्ठमाख्यातं मध्यमं तु पलं भवेत् । पलार्धमुपयुञ्जीत कनीयस्तु विरेचनम् ॥ ” इति पुरुषस्य बलापेक्षया प्रधानमध्यादिभे • देनौषधमात्रामित्यर्थः । २ त्रिविधकोष्ठलक्षणं प्रतिपादयति - तत्रेति । ३ मृद्वी = मृदुगुणोपेता, तीक्ष्णा = तीक्ष्णगुणोपेता । ४ तत्र विरेके मनो यस्य स तन्मनाः, शय्याभ्यासे = खट्वादि-निकटे इत्यर्थः । ५ विरेचने कर्तव्यकर्मोपदिशति - विरेचनमिति । ६ प्रसेकः = लालास्रावम् । ७• विरेचनस्यायोगाति योगलक्षणमभिदधाति -हृदिति । सम्यग् विरि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 906
पाठ पढ़ें पाठ छिपाएँ
७४८ by Arya Samaj F सुश्रुतसहित angotri [ अ ० ३३ गतेऽनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्य॒वस्येत् ॥ २५ ॥
मन्दाग्निम क्षीणमसद्विरिक्तं न पाययेताहनि तत्र पेयम् ।
क्षीणं तृडात्त सुविरेचितञ्च तन्वीमशीतां लघु पाययेच्च ॥ २३ ॥
बुद्धेः प्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं बलमग्निदीप्तिम् ।
चिराच्च पार्कं वयसः करोति विरेचनं सम्यगुपास्यमानम् ॥ २७ ॥
यथौदकानामुदकेऽपनीते चरस्थिराणां भवति प्रणाशः ।
पित्ते हृते त्वेवमुपद्रवाणां पित्तात्मकानां भवति प्रणाशः ॥। २८ ॥
मन्दाग्न्यतिस्नेहितबालवृद्धस्थूलाः क्षतक्षीणभयोपतप्ताः ।
श्रान्तस्तृषार्त्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक् ॥२ ९ ॥
नवप्रतिश्यायमदात्ययी च नवज्वरी या च नवप्रसूता ।
शल्यार्दितश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च ॥ ३० ॥
अत्यर्थपित्ताभिपरीतदेहान् विरेचयेत्तानपि मन्दमन्दम् ।
विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः ॥ ३१
विरेच्यास्तु ज्वरगरारुच्यर्शोऽर्बुदोदरग्रन्थिविद्रधिपाण्डुरोगा-पस्मारहृद्रोगवातरक्तभगन्दरच्छदियोनिरोगविसर्प गुल्म पक्वाशयरु-ग्विबन्धविसूचिकाऽलसकमूत्राघातकुष्ठ विस्फोटकप्रमेहानाहप्लीहशो-फवृद्धिशस्त्रक्षतक्षाराग्निदग्धदुष्टव्रणाक्षिपाककाच तिमिराभिष्यन्द-शिरः कर्णाक्षिनासास्यगुदमेढ़ दाहोर्ध्व रक्तपित्तकृमिकोष्ठिनः पित्त-स्थानजेष्वन्येषु च विकारेष्वन्ये च पैत्तिकव्याधिपरीता इति || ३२ || " सरत्वसौक्ष्म्यतैक्ष्ण्यौष्ण्यविकाशित्वैर्विरेचनम् । क्तल क्षणमाख्याति — गतेष्विति । गतेषु = विरिक्तेषु । १ विरेचने पश्चात्कर्माह ----मन्दाग्निमिति । २ पेयाविधिः ---- ‘ “ चतुर्दशगुणे नीरे रक्तशाल्यादिभिः कृता । द्रवाधिका स्वरुपसिथा पेया प्रोक्ता भिषग्वरैः ॥ " इत्यादिबध्यः । ३ विरेचनफलमभिधत्ते - बुद्धेरिति ४ चरा मत्स्यादयो जङ्गमाः, स्थिराः पद्मादयः स्थावरास्तेषां चरस्थिराणाम् । ५ पित्तात्मकानां = पित्तकारणानामित्यर्थः । ६ विरेचनानर्ह रोगिणो निर्दिशति - मन्देति । ७ अनुपस्कृताः = श्रसंस्कृता इत्यर्थः । ८ विरेचनार्हान् रोगिणो दर्शयति - विरेच्यास्त्विति । ९ काचः = नेत्ररो • गभेदः । १० वमनविरेचनयोर्दोषनिर्हरणे विशेषं वक्ति - सरत्वेति । सरत्वं विस. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 907
पाठ पढ़ें पाठ छिपाएँ
undation Chennai ' अ ० ३३ ] Digitized by Arya चिकित्सास्थानम् and eGangotri वमनन्तु हरेद्दोषं प्रकृत्या गतमन्यथा ॥ ३३ ॥।
यात्य॑धो दोषमादाय पच्यमानं विरेचनम् ।
गुणोत्कर्षाद् व्रजेत्यूर्ध्वमपक्कं वमनं पुनः ॥ ३४ ॥
मृदुकोष्ठस्य दीप्ताग्नेरतितीक्ष्णं विरेचनम् ।
न सम्यनिहरे शेषानतिवेगं प्रधावितम् ॥ ३५ ॥
पीतं यदौषधं प्रातर्भुक्तपाकसमे क्षणे ।
पक्तिं गच्छति दोषांश्च निर्हरेत् तत् प्रशस्यते ॥ ३६ ॥
दुर्बलस्य चलान दोषानल्पानल्पान् पुनः पुनः ।
हरेत् प्रभूतानल्पांस्तु शमयेत् प्रच्युतानपि ॥ ३७ ॥
“ रेद्दोपांश्चान् पक्कान् बलिनो दुर्बलस्य वा ।
चला ह्युपेक्षिता दोषाः क्लेशयेयुश्चिरं नरम् ॥ ३८ ॥
मन्दाग्नि क्रूरकोष्ठञ्च सतारलवणैर्धृतैः ।
सन्धुक्षिताग्निं स्निग्धञ्च स्विन्नञ्चैव विरेचयेत् ॥। ३ ९ ॥
" स्निग्धस्विन्नस्य भैषज्यैर्दोषस्तूत्वले शितो बलात् ।
" विलीयतेन मार्गेषु स्निग्धे भाण्ड इवोदकम् ॥ ४० ॥
७४ ९ रणस्वभावत्वम्, सौक्ष्म्यं = सूक्ष्मस्रोतोऽनुसारित्वम्, तैक्ष्ण्यं = शीघ्रतया दोषनाषण-करत्वम्, औष्ण्यं = सौम्यद्रव्योपमर्दन करणं सामर्थ्यम्, विकाशिरखं = धातोः शैथिल्य -करणसामर्थ्यम् । १ श्रधो याति = पृथिव्यम्बुगुणभूयिष्ठं विरेचनद्रव्यं गुरुत्वात्पच्यमानमेवाघो गच्छतीत्यर्थः । २ ऊर्ध्वं व्रजति = अग्निवायुगुणभूयिष्ठं वमनद्रव्यं लघुखादपक्चमे-वोर्ध्वं यातीत्यर्थः! ३ विरेचनस्यासम्यक्प्रवृत्तौ हेतुमुपदिशति - मृद्विति । ४ अ-तिवेगप्रधावितम् = अतिवेगप्रवर्तितम् । ५ विरेचनस्य सम्यग्युक्तिमाह - पीतमिति । ६ दुर्बलस्य दोषहरणे विशेषविधिमभिदधाति - दुर्बलस्येति । चलान् - कुपि · तान् । ७ प्रच्युतान् = चलितानित्यर्थः । भोजेऽपि - ' दोषमल्पं च शमयेच्चलितं चापि दुर्बले । बहुदोषं तु चलितं शनैरल्प प्रवाइयेत् ॥ ” इति । स्थानाच्चलि-तानां दोषाणामवश्यं निर्हरणं कर्तव्यमित्युपदिशति - हरेदिति । ९ मन्दाग्नेः क्रूरकोष्ठस्य च संशोधनविधिमभिधत्ते - मन्दाग्निमिति । १० संशोधनस्य स्नेह-स्वेदपूर्वकप्रयोगे हेतुमुपपादयति - स्निग्धेति । ११ न विलीयते = न लग्नो भवति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 908
पाठ पढ़ें पाठ छिपाएँ
Pigitized igitized by Arya Samaj Foundation and Gangotri [ अ ० ३३
चातिस्नेहपीतस्तु पिबेत् स्नेहविरेचनम् ।
दोषाः प्रचलिताः स्थानाद् भूयः श्लिष्यन्ति वर्त्मसु ॥ ४१ ॥
विषाभिघातपिडकाशोफपाण्डुविसर्पिणः ।
नौतिस्निग्धा विशोध्याः स्युस्तथा कुष्ठप्रमेहिणः ॥ ४२ ॥
विरूक्ष्य स्नेहसात्म्यन्तु भूयः संस्नेह्य शोधयेत् ।
तेन दोषा हृतास्तस्य भवन्ति बलवर्द्धनाः ॥ ४३ ॥
प्रागपीतं नरं शोध्यं पाययेतौषधं मृदु ।
ततो विज्ञातकोष्ठस्य कार्य्यं संशोधनं पुनः ॥ ४४ ॥
सुखं दृष्टफलं हृद्यमल्पमात्रं महागुणम् ।
व्यापत्स्वल्पात्ययं चापि पिबेन्नृपतिरौषधम् ॥ ४५ ॥
स्नेहस्वेदावनभ्यस्य यस्तु संशोधनं पिबेत् ।
दारु शुष्कमिवानामे देहस्तस्य विशीर्य्यते ॥ ४६ ॥
स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः ।
दोषाः कोष्ठगता जन्तोः सुखा हर्त्तु विशोधनैः ॥ ४७ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनसाध्योपद्रवचिकित्सितं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
१ अतिस्निग्धस्य स्नेहविरेचनं निषेधति - नेति । २ श्लिष्यन्ति = संयुज्यन्ते इत्यर्थः । ३ विषाद्दिपीडितानां संशोधने विशेषविधिमभिधत्ते - विषेति । ३ अत्र ईषदर्थकः । ४ स्नेहसात्म्यस्य संशोधनविधिमभिदधाति - विरूक्ष्येति । नञ् ५ श्रविज्ञातकोष्ठस्य संशोधने मृदुविरेचनप्रदानायोपदिशति - प्रागिति । प्राग् न पीतं विरेचनं येन सः तं प्रागपीतम् । ६ नृपतियोग्यं विरेचनमाख्याति – सुखमिति । ७ अल्पात्ययम् = अल्पविना-शम् । ८ स्नेहस्वेदनरहितसंशोधने दोषमाचष्टे - स्नेदेति । ९ श्रनामे == वक्रीकरणे । विरेचनोत्तरकर्माण्याइ = " पीखा विरेचनं शीतजलैः संसिच्य चक्षुषी । सुगन्धि किञ्चिदाघ्राय ताम्बूलं शीलयेद् बुधः ॥ निर्वातस्थो न वेगांश्च धारयेन्न शयीत च । शीताम्बु न स्पृशेत् क्वापि कोष्णनीरं पिवेन्मुहुः ॥ " इति भावमिश्रः । इति सुश्रुतसंहितायाश्चिकित्सा स्थानीयसुधाऽऽख्यटिप्पन्यां त्रयस्त्रिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 909
पाठ पढ़ें पाठ छिपाएँ
प्र ० ३४ ] Digitized by Arya Samaj Foundation Chennai and eGangotri चिकित्सास्थानम् चतुस्त्रिंशत्तमोऽध्यायः । ७५१ अथातो वर्मनविरेचनव्यापच्चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
वैद्योतुरनिमित्तं वमनं विरेचनं च पञ्चदशधा व्यापद्यते । तत्र वमनस्याधो गतिरूद्र्ध्वं विरेचनस्येति पृथक् । सामान्यमुभयोः-सावशेषौषध ं, जीर्णौषधत्वं, होनदोषापहृतत्वं, वातशूलम्, प्रयोग:, अतियोगः, जीवादानम्, आध्मानं, परिकर्त्तिका, परि-स्रावः, प्रवाहिका, हृदयोपसरणं, विबन्ध इति ॥ ३ ॥
तत्रं बुभुक्षापीडितस्यातितीक्ष्णाग्नेर्मृदुकोष्टस्य चावतिष्ठमानं दुर्बलस्य वा गुणसामान्यभावाद्वमनमधो गच्छति, तत्रेप्सितान-वाप्तिर्दोषोत्क्लेशश्च । तमाशु स्नेहयित्वा भूयस्तीक्ष्णतरैर्वा मयेत् || ४ || अपरिशुद्धामाशयस्योत्कृष्टश्लेष्मणः सशेषान्नस्य वाऽयमति-प्रभूतं वा विरेचनं पीतमूर्ध्वं गच्छति, तत्रेप्सितानवाप्तिर्दोषो-त्क्लेशश्च । तत्राशुद्धामाशय मुल्बणश्लेष्माणमाशु वामयित्वा भूय-स्तीक्ष्णतरैर्विरेचयेत्, आमाशये त्वामवत् संविधानम्, अहृद्ये-ऽतिप्रभूते च हृद्यं प्रमाणयुक्तञ्च । अत ऊर्ध्वमुत्तिष्ठत्यौषधे न तृतीयं पाययेत् । ततस्त्वेनं मधुघृतफाणितयुक्तै लै हैविरेचयेत् ॥ ५ ॥
दोषविग्रथितमल्पमौषधमवस्थितमूर्ध्वभागिक मधोभागिकं वा चतुस्त्रिंशत्तमोऽध्यायः । १ वमनविरेचनजनिता व्यापत्तस्याश्चिकित्सितमित्यर्थः । २ पञ्चदशविधत्रमनविरे. चनव्यापदो ब्रवीति — वैद्येति । वैधातुरग्रहणेन भेषजपरिचारकयोरपि ग्रहणम् । तथा च चरकः– “ प्रेष्य भैषज्यवैद्यानां वैगुण्यादातुरस्य च " इति । चरके दश व्यापद ढक्ताः — ' आध्मानं परिकर्तिश्च स्रावो हृद्गात्रयोर्ग्रहः । जीवादानं सविभ्रंशः स्तम्भः सोपद्रवः क्लमः ॥ अयोगादतियोगाच्च दशैता व्यापदो मताः " इति । ३ वमनस्याधोगमनव्यापदं वक्ति - तन्त्रेति । चरके - " क्षुधार्तमृदुकोष्ठाभ्यां वल्पोरिक्लष्टकफेन वा । तीक्ष्णं पीतं स्थितं क्षुब्धं वमनं स्याद्विरेचनम् ॥ ” इति । ४ श्रवतिष्ठमानं = पाकं गच्छदित्यर्थः । ५ ईप्सितानवाप्तिः = अभीष्टवमनाप्राप्तिः, दोषोत्क्लेशः = कफोत्कर्षः । ६ विरेचनस्योर्ध्वगमनव्यापदं कथयति -- अपरिशुद्धे-ति । ७ दोषोत्क्लेशः = पित्तोत्कर्ष इत्यर्थः । ८ सावशेषौषधव्यापदं वर्णयति— CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 910
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation. ७२ ' सुश्रुतसंहितार्थी Gangot [ अ ० ३४ न स्रंसयति दोषान् । तत्र तृष्णा पार्श्वशूलं छर्दिर्मूर्च्छा पर्व भेदो हृल्लासोऽरतिरुद्गाराविशुद्धिश्च भवति I । तमुष्णाभिरद्भिराशु बाम-येदूर्ध्वभागिके, अधोभागिकेऽपि च सावशेषौषधमतिप्रधावितदोष-मतिबलमसम्यग्विरिक्तमप्येवं वामयेत् ॥ ६ ॥
क्रूरकोष्ठस्यातितीक्ष्णाग्नेरल्पमौषधमल्पगुणं वा भक्तवत् पाक--मुपैति, तत्र समुदीर्णा दोषा यथाकालमनिर्हीयमाणा व्याधिविभ्रमं बलविभ्रंशञ्चापादयन्ति, तमनल्पममन्द मौषधञ्च पाययेत् ॥ ७ ॥
अस्निग्धस्विन्नेनाल्पगुणं वा भेषजमुपयुक्तमल्पान् दोपान हन्ति । तत्र वमने दोषशेषो गौरवमुत्क्लेशं हृदयाविशुद्धिं व्याधि-वृद्धिं च करोति, तत्र तं यथायोगं पाययित्वा वामयेद् दृढतरम् । विरेचने तु गुदपरिकर्तनमाध्मानं शिरोगौरवमनिःसरणं वायोर्व्याधिवृद्धिं च करोति । तमुपपाद्य भूयः स्नेहस्वेदाभ्यां विरे-चयेद् दृढतरम्, दृढं बहुप्रचलितदोषं वा तृतीये दिवसेऽल्पगुणं चेति ॥ ८ ॥
अस्निग्ध स्विन्नेन रूक्षौषधमुपयुक्तमब्रह्मचारिणा वा वायुं कोप-यति । तत्र वायुः प्रकुपितः पार्श्वपृष्ठश्रोणिमन्याममशूलं मूर्च्छा भ्रमं संज्ञानाशञ्च करोति, तं वातशूलमित्याचक्षते । तमभ्यज्य धान्यं-स्वेदेन स्वेदयित्वा यष्टीमधुकविपक्केन तैलेनानुवासयेत् ॥ ९ ॥
स्नेहस्वेदाभ्यामविभावितशरीरेणाल्पमौषधमल्पगुणं वा पीत-मूर्ध्वमधो वा " नाभ्येति दोषांश्चत्क्लिश्य तैः सह बलक्षयमापाद-दोषेति । दोषविग्रथितं = दोषमिश्रितम् । १ जीर्णौषधव्यापदं ब्रवीति — क्रूरेति । २ समुदीर्णाः = प्रकुपिता इत्यर्थः । ३ अनत्पं = प्रभूतम्, अमन्दं = तीक्ष्णम् । ४ हीनदोषापहृतव्यापदमभिदधाति-अस्निग्धेति । ५ तं = दोषशेषम्, यथायोगं स्नेहादियोगपूर्वक मित्यर्थः । ६ अल्पगुणं = मृद्दौषधम् । ७ वातशूलव्यादिमभिधत्ते - अस्निग्धस्विन्नेनेति । = भाषादिशमीधान्यस्वेदेनेत्यर्थः । ९ अयोगव्यापदमाख्याति - स्नेदेति । अभिभावितशरीरेण = श्रप्राप्तदेहेन । १० नाभ्येति = न याति । " प्रातिलोम्येन दोषाणां हरणात्ते यकृत्स्नशः । श्रयोगसंज्ञे " CC - 0. Gurukul Kangri Collection, Haridwar