सुश्रुत संहिता चौखम्बा — पृष्ठ 911–920

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 911–920

पृष्ठ 911

सुश्रुत संहिता चौखम्बा, पृष्ठ 911 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३४ ] , I ४८ चिकित्सास्थानम् cheni ७५३ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri यति, तत्राध्मानं हृदयग्रहस्तृष्णा मूर्च्छा दाहश्च भवति, तमयोगमि-त्या॒चक्षते । तमाशु वामयेन्मदनफललवणाम्बुभिर्विरेचयेत्तीक्ष्ण-तरैः कषायैश्च । दुर्वान्तस्य तु समुत्क्लिष्टा दोषा व्याप्य शरीरं कण्डूश्वयथुकुष्ठपिडकाज्वराङ्गमर्दनिस्तोदनानि कुर्वन्ति, ततस्तानव-शेषान्महौषधेनापहरेत् । अस्निग्धस्विन्नस्य मृदुविरिक्तस्याधोनाभेः स्तब्धपूर्णोदरता शूलं वातपुरीषसङ्ग: कण्डूमण्डलप्रादुर्भावो भवति, " तमास्थाव्य पुनः संस्तेय विरेचयेत्तीक्ष्णेन । नातिप्रवर्त्तमाने तिष्ठति वा दुष्टसंशोधने तत्सन्तेजनार्थमुष्णोदकं पाययेत् पाणि-' तापैश्च पार्श्वोदरमुपस्वेदयेत्, ततः प्रवर्तन्ते दोषाः । अनुप्रवृत्ते चाल्पदोषे जीणौषधं बहुदोषमहः शेषं बलञ्चावेक्ष्य भूयो मात्रां विदध्यात् । अप्रवृत्तदोषं दशरात्रादूर्ध्वमुपसंस्कृतदेहं स्नेहस्वेदा-भ्यां भूयः शोधयेत् । दुर्विरे च्यमास्थाप्य पुनः संस्नेह्य विरेचयेत् । ही भयलो भैर्वे गावातशीलाः प्रायशः स्त्रियो राजसमीपस्था वणिजः श्रोत्रियाश्च भवन्ति । तस्मादेते दुविरेच्याः, बहुवातत्वात्; अत एव तानतिस्निग्धान् स्वेदोपपन्नान् शोधयेत् ॥। १० ॥ स्निग्धस्विन्नस्यातिमात्रमतिमृदुकोष्टस्य वाऽतितीक्ष्णमधिकं वा दत्तमौषधमतियोगं कुर्य्यात् । तत्र वमनातियोगे पित्तातिप्रवृत्ति-र्बलविस्रंसो वातको पञ्च बलवान् भवति । तं घृतेनाभ्यज्यावगाह्य शीतास्वप्सु शर्करामधुमित्रैर्ले हैरुपचरेद्यथास्वम् ॥ विरेचनाति-योगे कफस्यातिप्रवृत्तिरुत्तरकालं च सरक्तस्य, तत्रापि बलविस्रंसो वातकोपश्च बलवान् भवति, तमतिशीताम्बुभिः परिषिच्यावगाह्य इति चरकः । १ वमनायोगे वामयेदित्यर्थः । २ विरेचनायोगे विरेचयेदित्यर्थः । ३ समुत्क्लिष्टाः = प्रकुपिताः । ४ आस्थाप्य निरूह्य, पुनः संस्नेह्य = स्नेहब -स्तिनेत्यर्थः । ५ दुर्विरेच्यानामुपायं दर्शयति – दुर्विश्च्यमिति । ६ हिया वेगाघातशीलाः स्त्रियः, भयेन राजसमीपस्था जनाः, लोभेन वणिजः श्रोत्रियाश्चेति यथासङ्ख्यमन्वयः । ७ दुर्विरेच्याः = क्कठिनतया विरेचनाहः । ८ श्रतियोगव्यापदमाचष्टे - स्निग्धेति ।

पृष्ठ 912

सुश्रुत संहिता चौखम्बा, पृष्ठ 912 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Sized byArya Samaj Foundati सुनतहिला ॐ and motri [ अ ० ३४ वाशीतैस्तण्डुलाम्बुभिर्मधुमित्रैश्छर्दयेत् 1 पिच्छा बस्ति चास्मै द द्यात्, क्षीरसर्पिषा चैनमनुवासयेत्, प्रियङ्ग्वादि चाम्मै तण्डु. लाम्बुना पातुं प्रयच्छेत्, क्षीररसयोश्चान्यतरेण भोजयेत् ॥ ११ ॥

तस्मिन्नेव वमनातियोगे प्रवृद्धे शोणितं ष्ठीवति छर्दयति वा, तत्र जिह्वानिःसरणमक्ष्णोर्व्यावृत्तिर्हेनुसंहननं तृष्णा हिक्का ज्वरो वैश्यमित्युपद्रवा भवन्ति । तमजासृक्चन्दनोशीराञ्जनलाजचूर्णैः सशर्करोदकैर्मन्थं पाययेत, फलरसैर्वा सघृतक्षौद्रशर्करैः शुङ्गाभिर्वा वटादीनां पेयां सिद्धां सक्षौद्रां वर्चोग्राहिभिर्वा " पयसा जाङ्गल-रसेन वा भोजयेत्, अतिस्रुतशोणितविधानेनोपचरेत् । जिह्वा-मतिर्संर्पितां कटुकलवणचूर्णप्रघृष्टां तिलद्राक्षाप्रलिप्तां वाऽन्तः पीडयेत्, प्रविष्टायामम्लमन्ये तस्य पुरस्तात् स्वादयेयुः । व्यावृत्ते चाक्षिणी घृताभ्यक्ते पीडयेत्, हनुसंहनने वातश्लेष्महरं नस्यं स्वेदांश्च विदध्यात्; तृष्णादिषु च यथास्वं प्रतिकुर्वीत, विसंज्ञे वेणुवीणागीतस्वनं श्रावयेत् ॥ १२ ॥

विरेचनातियोगे च सचन्द्रकं सलिलमधः स्त्रवति ततो मांसधावनप्रकाशमुत्तरकालं जीवशोणितं च ततो गुदनिःसरणं वेपथुर्वमनातियोगोपद्रवाश्चास्य भवन्ति । तमपि निःस्रुतशोणित-विधानेनोपचरेत्, निःसर्पितगुदस्य गुदमभ्यज्य परिस्वेद्यान्तःपीड -१ पिच्छावस्तिः — ' बदर्यैरावतोशेलुशाल्मलीधन्वनाङ्कुराः । क्षीरसिद्धाः क्षौद्रयुताः सास्राः पिच्छिलसज्ञिताः ॥ वाराहमाहिषौरभ्रबैढालै गेय कौक्कुटम् । सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ॥ ” इति निरूद्दक्रमचिकित्सिते वक्ष्यमाणा । २ कर्षेप्रमाण प्रियवादिमित्यर्थः । ३ जीवादानव्यापदं वर्णयति - तस्मिन्निति । 1 ४ जिह्वा निःसरणं = जिह्वाबहि · निगमनम् । ५ प्रजासृक् अजारुधिरम् । चरकेऽपि - " अञ्जनं चन्दनोशीरमजा-सक्छर्करोदकन् । लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम् ॥ शुङ्गाभिर्वा वटादीनां सिद्धां पेया॑ समाक्षिकाम् । वर्चः साङ्ग्राह्निकैः सिद्धं क्षीरं भोज्यं च दापयेत् ॥ जाङ्ग · लैर्वा रसैर्भोज्यं पिच्छावस्तिश्च शस्यते । मधुरैरनुवास्यश्च सिद्धेन क्षीरसर्पिषा ॥ ” इति ८ सचन्द्रकं == । ६ श्रुतिसर्पिताम् = अतिनिर्गताम् । ७ व्यावृत्ते = बहिर्गते । मयूरपिच्छस्थचन्द्र समानम् । ९ शरीरेन्द्रियसत्त्वात्मसंयोगाश्रयं रक्तं जीवशोणितमु-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 913

सुश्रुत संहिता चौखम्बा, पृष्ठ 913 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५० ३४ ] Digitized by विकल्यास्थत Chennai and eGangotri ७५५: येत् क्षुद्ररोगचिकित्सितं वा वीक्षेत, वेपथौ वातव्याधिविधानं कुर्वीत, जिह्वानिःसरणादिषूक्तः प्रतीकारः, अतिप्रवृत्ते वा जीव-शोणिते काश्मरीफलबदरीदूर्वोशीरैः शृतेन पयसा घृतमण्डाञ्जन-युक्तेन सुशीतेनास्थापयेत्, न्यग्रोधादिकषायक्षीरेक्षुरसघृतशोणित-संसृष्टैश्चैनं बस्तिभिरुपाचरेत्, शोणितष्ठीवने रक्तपित्तरक्ताती सारक्रियाश्चास्य विध्यात्, न्यग्रोधादि चास्य विदध्यात् पान-भोजनेषु ॥ १३ ॥

8 जीवशोणितरक्तपित्तयोश्च जिज्ञासार्थं तस्मिन् ' पिचुं प्लोतं वा क्षिपेत्, यद्युष्णोदकप्रक्षालितमपि वस्त्रं रञ्जयति तज्जीवशोणित-मवगन्तव्यम् । सभक्तं च शुने दद्याच्छक्तुसम्मिश्रं वा, स यद्युप-भुञ्जीत तज्जीवशोणितमवगन्तव्यम् । अन्यथा रक्तपित्तमिति ॥ १४ ॥

सशेषान्नेन बहुदोषेण रूक्षेणानिलप्राय कोष्ठेनानुष्य मस्निग्धं वा पीतमौषधमाध्मापयति, तत्रानिलमूत्रपुरीषसङ्गः समुन्नद्धोदरता पार्श्वभङ्ग गुदवस्तिनिस्तोदनं भक्तारुचिश्च भवति, तं चाध्मानमि-त्याचक्षते । तमुपस्वेद्यानाहवर्त्तिदीपनवस्तिक्रियाभिरुपचरेत् || १५ || क्षॉमेणातिमृदुकोष्ठेन मन्दाग्निना रूक्षेण वाऽतितीक्ष्णोष्णा-तिलवणमतिरूक्षं वा पीतमौषधं पित्तानिलौ प्रदूष्य परिकर्त्तिका-मापादयति, तत्र गुदनाभिमेद्र बस्तिशिरःसु सदाहं परिकर्त्तनमनि-लसङ्गो वायुविष्टम्भो भक्तारुचिश्च भवति । तत्र पिच्छावस्तिर्येष्टीम-. · धुक कृष्णतिलकल्कमधुघृतयुक्तः, शीताम्बुपरिषिक्तं चैनं पयसा च्यते । १ क्षुद्ररोगचिकित्सितं गुदभ्रंशविधानमिति तात्पर्यम् । २ घृतस्य मण्ड: उपरितनोऽच्छो भागः घृतमण्डः, अञ्जनयुक्तेन = स्रोतोऽजनयुतेनैत्यर्थः । ३ जीवशोणितपरिज्ञानोपायं दर्शयति- जीवेति । ४ पिचु = कार्पासादितू-लम्, प्लोतं = शुक्ल वस्त्र खण्डम् | ५ श्रध्मानव्यापदं प्रतिपादयति - सशेषान्ने-नेति । पाकावशिष्टमन्नं शेषान्नं तेन सह वर्तमानेनेत्यर्थः । ६ अनिल मूत्रपुरीष • सङ्गः = वातमूत्रविष्ठाऽवरोधः । ७ परिकर्तिकाव्यापदमभिधत्ते - क्षामेणेति । क्षामे. ण = बलकायाभ्यां क्षीणमुपगतेनेत्यर्थः । ८ परि परितः कृन्ततीव छिनत्तीव वस्त्या. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 914

सुश्रुत संहिता चौखम्बा, पृष्ठ 914 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७५६ सहिता -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३४ भुक्तवन्तं घृतमण्डेन यष्टीमधुकसिद्धेन तैलेन वाऽनुवासयेत् ॥१६ ॥

क्रूर कोष्ठस्यातिप्रभूतदोषस्य मृद्वौषधमवचारितं समुत्क्लिश्य दोषान्न निःशेषानपहरति । ततस्ते दोषाः परिस्रावमापादयन्ति, तत्र दौर्बल्योदरविष्टम्भारुचिगात्रसदनानि भवन्ति, सवेदनौ चास्य पित्तश्लेष्माणौ परिस्रवतः, तं परिस्रावमित्याचक्षते । तमजकर्णध-वतिनिशपलाशबलाकषायैर्मधुसंयुक्त रास्थापयेत्, उपशान्तदोष स्निग्धं च भूयः संशोधयेत् ॥ १७ ॥

अतिक्षेऽतिस्निग्धे वा भेषजमवचारितमप्राप्तं वातवर्च उदीर-यति वेगाघातेन वा, तदा प्रवाहिका भवति, तत्र सवातं सदाहं . सशूलं गुरु पिच्छिलं श्वेतं कृष्णं सरक्तं वा भृशं प्रवाहमाणः कफ-मुपविशति 1 । तां परिस्रावविधानेनोपचरेत् ॥ १८ ॥

यस्तूर्ध्वमधो वा भेषजवेगं प्रवृत्तमज्ञत्वाद्विनिहन्ति तस्यो -पसरणं हृदि कुर्वन्ति दोषाः, तत्र प्रधार्नमर्मसन्तापाट्टेदनाभिरत्यर्थं पीड्यमानो दन्तान् किटकिटायते उद्गताक्षो जिह्वां खादति " प्रताम्य-त्यचेताश्च भवति, तं परिवर्जयन्ति मूर्खाः । तमभ्यज्य धान्यस्वेदेन स्वेदयेत्, यष्टिमधुकसिद्धेन च तैलेनानुवासयेत्, शिरोविरेचनं चास्मै तीक्ष्णं विदध्यात्, ततो यष्टिमधुकमिश्रेण तण्डुलाम्बुना छर्दयेत्, यथादोषोच्छ्रायेण चैनं " बस्तिभिरुपाचरेत् ॥ १ ९ ॥ II " यस्तूर्ध्वमधो वा प्रवृत्तदोषः शीतागारमुदकमनिलमन्यद्वा सेवेत, तस्य दोषाः स्रोतः स्ववलीयमाना घनीभावमापन्ना वातमूत्रशकृ-दुगृहमापाद्य " विबध्यन्ते, तस्याटोपो दाहो ज्वरो वेदनाश्च तीव्रा दीनीति परिकर्तिका । १ पैत्तिकपरिकर्तिकायां घृतमण्डेन, वातिक्या तॆलेनेत्यर्थः । २ परिस्रावव्यापदमुपपादपति - क्रूरेति । ३ अजकर्णः सालभेदः, धवः = ' धाय ' -इति ख्यातः । ४ दोषपदेनात्र परिस्रावे तात्पर्यम् । ५ प्रवाहिकाव्यापदं वर्णयति-अतिरुक्ष इति । ६ उदीरयति = प्रवर्तयति । ७ उपविशति = अतिसारयति । = हृदयोपसरणव्यापदमभिदधाति — य इति । ९ प्रधानमर्म हृदयं तस्य सन्ता • पादित्यर्थः । १० प्रताम्यति = मुह्यति । ११ नैरूद्दिकैः स्नैदिकेश्च वस्तिभिरित्यर्थः । १२ विबन्धव्यापदं विवृणोति - यस्तूर्ध्वमिति । १३ विबध्यन्ते = विमनविरेच · CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 915

सुश्रुत संहिता चौखम्बा, पृष्ठ 915 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३५ ] Digitized by चिकित्सास्थान Chennai and eGangotri ७५७ भवन्ति । तमाशु वामयित्वा प्राप्तकालां क्रियां कुर्वीत । त्वधोभागहरद्रव्यसैन्धवाम्लमूत्रसंसृष्टं विरेचनं पाययेत्, आस्था-पनमनुवासनं च यथादोषं विदध्यात्, यथादोषमाहारक्रमं च । उभयतोभागे तूपद्रवविशेषान् यथास्वं प्रतिकुर्वीत ॥ २० ॥

यो तु विरेचने गुदपरिकर्त्तिका तद्वमने कण्ठक्षणनं, यदधः परिस्रवणं स ऊर्ध्वभागे श्लेष्मप्रसेकः, या त्वधः प्रवाहिका सा तूर्ध्वं शुष्कोद्गारा इति ॥ २१ ॥

भवति चात्र ।

यास्त्वेता व्यापदः प्रोक्ता दश पञ्च च तत्त्वतः ।

एता विरेकातियोगदुर्योगायोगजाः स्मृताः ॥ २२ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने वमन विरेचनव्यापच्चिकित्सितं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

पञ्चत्रिंशत्तमोऽध्यायः ।

अथातो नेत्रबस्तिप्रमाणप्रविभाग चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

नप्रवृत्ति निवारयन्ति । १ अधोभागे = विरेचने । २ कासुचिद् वमनविरेचनव्या-पत्स्वन्तरं दर्शयति - येति । ३ ऊर्ध्वभागे = वमने । ४ पूर्वोक्तव्यापदां हेतून्निर्दि • शति - या इति । ५ विरेकः = विरेचनं वमनं चेत्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽख्यटिप्पन्यां चतुस्त्रिंशत्तमोऽध्यायः । पञ्चत्रिंशत्तमोऽध्यायः । ६ बस्तिनाऽपि मला निहियन्त इति वमनविरेचनानन्तरं बस्तिविध्युपदेशार्थं म • यमध्याय श्रारभ्यते— अथात इति । नीयते प्राप्यते स्नेहकरकाद्यपानमिति नेत्र निरूहान्वासनयन्त्रं, वसति मूत्रमत्रेति बवयोरभेदाद् बस्तिः मृगादीनां मूत्राशयः, " मूत्राशयो धनुर्वक्रो बस्तिरित्यभिधीयते " इति, अर्थाद् नाभेरधस्तादलाबूसदृशमघो • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 916

सुश्रुत संहिता चौखम्बा, पृष्ठ 916 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७५८ सुश्रुतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३५ तत्र स्नेहादीनां कर्मणां प्रधानतममाहुराचार्याः । कस्मात्? अनेककर्मकरत्वाद् बस्तेः । इह खलु बस्तिर्नानाविधद्रव्यसंयोगाद् दोषाणां संशोधनसंशमनसङ्ग्रहणानि करोति, क्षीणशुक्रं वाजी-करोति, कृशं बृंहयति, स्थूलं कर्शयति, चक्षुः प्रीणयति, वलीपलि-तमपहन्ति, वयः स्थापयति ॥ 3 ॥

शैरीरोपचयं वर्णबलमारोग्यमायुषः ।

कुरुते परिवृद्धिं च बस्तिः सम्यगुपौसितः ॥ ४ ॥

तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाधिमन्थार्दिताक्षेप-कपक्षाघातैकाङ्गसर्वाङ्गरोगाध्मानोदर योनिशूलशर्करा शूलवृद्ध्युपदं शानाहमूत्रकृच्छ गुल्म वातशोणितवातमूत्रपुरीषोदावर्त्तशुक्रार्त्तवस्तन्य-नाशहृद्धेनुमन्याग्रहार्शोश्मरीमूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते || ५ || भवति चात्र ।

वस्ति च पित्ते च कफे रक्ते च शस्यते ।

संसर्गे सन्निपाते च बस्तिरेव हितः सदा ॥ ६ ॥

तत्रं सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि कनि-ष्ठिकाऽनामिकामध्यमाङ्गुलिपरिणाहान्यग्रेऽध्यर्द्धाङ्गुलद्वयङ्गलार्द्ध-नालमनेकच्छिद्रं मूत्रभाजनं बस्तिरित्युच्यते । तयोः प्रमाणं प्रविभागश्च यस्मिन् चिकित्सिते तन्नेत्रबस्तिप्रमाणप्रविभाग चिकित्सितं व्याख्यास्याम इत्यर्थः । १ बस्तेः प्राधान्यं दर्शयति - तन्त्रेति । बस्तिकर्म = मूत्राधारपुटक साधककर्म, ` प्रधानतमम् । प्रधानतरं तु वमनविरेचनकर्म । २ पूर्वोक्तमेव बस्तेः प्रधानतमत्व-साधनं पद्येन द्रढयति - शरीरेति । ३ उपासितः = व्यवहृतः । ४ बस्तिसाध्यान् - रोगान् दर्शयति - तथेति । इनुग्रहः, मन्याग्रह इति योजना । ५ हृद्ग्रहः, ६ वस्तिकर्मेत्यर्थः । ७ नेत्रप्रमाणमास्थापनद्रव्यप्रमाणं च प्रतिपादयति - तत्रेति । सांवत्सरिकाष्ट-द्विरष्टवर्षाणामित्यत्र षडष्टदशाङ्गुलेत्यादीनां यथासंख्य मन्त्रयः । यथा सांवत्सरिकबा लस्य निरूहयन्त्रं षडङ्गुलप्रमाणं, कनिष्ठिकापरिणाहम् अग्रेऽध्यार्षाङ्गुलसन्निविष्ट-कर्णिक, मूले कङ्कपक्षनाडीतुल्य प्रवेशम्, श्रग्रे मुयवाहिस्रोतश्च विदध्यादिति क्रम-शोऽध्यवसितव्यम् । CC - 01 Gurukul Kangri Collection, Haridwar

पृष्ठ 917

सुश्रुत संहिता चौखम्बा, पृष्ठ 917 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्र ० ३५ ] Digitized by Ar विकिस्सास्थानम् hennai and eGangotri ७५ ९ तृतीयाङ्गुलसन्निविष्टकर्णिकानि कङ्कश्येनबर्हिणपक्षनाडीतुल्यप्रवे · शानि मुद्गमाषकलाय मात्र स्रोतांसि विद्ध्यान्नेत्राणि । तेषु चास्था-पनद्रव्यप्रमाणमातुरहस्तसम्मितेन प्रसृतेन सम्मितौ प्रसृतौ द्वौ चत्वारोऽष्टौ विधेयाः ॥ ७ ॥

वर्षान्तरेषु नेत्राणां बस्तिमानस्य चैव हि ।

वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम् ॥ ८ ॥

पञ्चविंशतेरूर्ध्वं द्वादशाङ्गुलं, मूलेऽङ्गुष्ठोदर पैरीणाहम्, अग्रे कनिष्ठिकोदरपरीणाहम्, अग्रे त्र्यङ्गुलेसन्निविष्टकर्णिक, गृध्रपक्षना-डीतुल्यप्रवेशं, कोलास्थिमात्रच्छिद्रं, क्लिन्नकलाय मात्रच्छिद्रमि-त्येके I । सर्वाणि मूले बस्तिनिबन्धनार्थं द्विकर्णिकानि । आस्थापन-द्रव्यप्रमाणं तु विहितं द्वादशप्रसृताः । सप्ततेस्तूर्ध्व नेत्रप्रमाणमेत-देव, द्रव्यप्रमाणं तु द्विरष्टवर्षवत् ॥ ९ ॥

मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्वालवृद्धयोः ।

तयोस्तीक्ष्णः ८ प्रयुक्तस्तु वस्तिहिंस्याद् बलायुषी ॥ १० ॥

व्रणनेत्रमष्टाङ्गुलं मुद्गवाहिस्रोतः, ब्रणमवेक्ष्य यथास्वं स्नेह-हकषाये विदधीत ॥ ११ ॥

तंत्र, नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारम-१ कणिका = गुदेऽधिकान्तःप्रवेशरोधिनी । " ऊनेऽब्दे पञ्चपूर्णेऽस्मिन्नासप्तभ्योऽ · ङ्गुलानि षट् । सप्तमे सप्त तान्यष्टौ द्वादशे षोडशे नव ॥ द्वादशैव परं विंशाद् वीक्ष्य वर्षान्तरेषु च । वयोबलशरीराणि प्रमाणमभिवर्द्धयेत् ॥ स्वाङ्गुष्ठेन समं मूले स्थौल्ये. नाग्रे कनिष्ठया । पूर्णेऽब्देऽङ्गुलमादाय तदर्धार्धप्रवर्धितम् ॥ अङ्गुलं परमं छिद्रं मूलेऽप्रे बद्दते तु यत् । मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात् ॥ मूलच्छिद प्रमाणेन प्रान्ते घटितकर्णिकम् । वर्त्त्याऽग्रे पिहितं मूले यथास्वं द्वयङ्गुलान्तरम् । कर्णिकाद्वितयं नेत्रे कुर्यात् " इत्यष्टाङ्गहृदयम् । २ नेत्राणि = वस्तियन्त्राणि । ३ प्रसृतोऽत्र श्रर्द्धाञ्जलिः । ४ ' वर्षान्तरेषु ' इत्यत्र ' वर्षोत्तरेषु ' इति पाठान्तरम् । | ५ उत्कर्षयेत् = वर्द्धयेत् । ६ परीणाहोऽत्र स्थौल्यम् । ७ बालवृद्धयोर्बस्तौ विशेषं दर्शयति - मृदुरिति । मृदुद्रव्यकृतो बस्तिर्मृदुः । तीक्ष्णद्रव्यकृतो बस्तिस्तीक्ष्णः । ९ बस्ति नेत्रनिर्माणद्रव्यं तदाकारांश्च निर्दि-शति — तत्रेति । अष्टाङ्गहृदयेऽपि - " तयोस्तु नेत्रं हेमादिधातुदार्वस्थिवेणुजम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 918

सुश्रुत संहिता चौखम्बा, पृष्ठ 918 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

igitized by Arya Samaj Foundation ai and Gangotri सुश्रुतसंहिताया [ अ ० ३५ यानि लक्ष्णानि दृढानि गोपुच्छाकृतीन्यूजूनि गुटिकामुखानि ॥१२ ॥

बस्तैयश्चाबन्ध्या मृदवो नातिबहला दृढाः प्रमाणवन्तो गोमहि-षवराहाजोर भ्राणाम् ॥ १३ ॥

नेत्राला हिता नाडी नलवंशास्थिसम्भवा ।

बस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम् ॥ १४ ॥

बस्ति निरुपदिग्धन्तु शुद्धं सुपरिमार्जितम् ।

मृद्वनुद्धेतहीनं च मुहुः स्नेहविमर्दितम् ॥ १५ ॥

नेत्रमूले प्रतिष्ठाप्य न्युब्जं तु विवृताननम् ।

बद्ध्वा लोहेन तप्तेन चर्मस्रोतांसि निर्दहेत् ॥ १६ ॥

परिवर्त्य ततो बस्तिं बद्ध्वा गुप्तं निधापयेत् ।

आस्थापनं च तैलं च यथावत्तेन दापयेत् ॥ १७ ॥

तंत्र द्विविधो बस्तिः - नैरूहिकः, स्नैहिकश्च । आस्थापनं, निरूह इत्यर्नर्थान्तरम् । तस्य विकल्पो माधुतैलिकः । तस्य पर्यायशब्दो यापनो, युक्तरथः सिद्धबस्तिरिति । स दोषनिर्हरणाच्छरीर रोगहर-णाद्वा निरूहः । वयःस्थापनादायुः स्थापनाद्वा आस्थापनम् । माधुतै-लिकविधानं च निरूहक्रमचिकित्सिते वक्ष्यामः । यथाप्रमाणगुण-विहितः स्नेहवस्तिविकल्पोऽनुवासनः " पादावकृष्टः । अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः । " तस्यापि विकल्पो-गोपुच्छाकारमच्छिद्रं श्लक्ष्णर्जुगुलिकामुखम् ॥ ” इति । १ बस्ति निर्माणद्रव्यमुपदिशति - बस्तय इति । २ उरभ्रः = मेष इत्यर्थः । ३ ता. न्तवं = वसनम् । ४ ग्रहणयोग्यवस्तेः परिकर्म बन्धविधिवोपपादयति- बस्तिमिति । निरुपदिग्धं = मांसाद्युपलेपरहितम् । ५ नाधिकं न दीनमित्यर्थः । ६ प्रतिष्ठाप्य = संयोज्य, वैपरीत्येन स्थापयित्वेति यावत्, पश्चाद्भावे स्थापयित्वेत्यर्थः । न्युब्जम् = श्रधोमुखम् । ७ परिवर्त्य = अन्तर्भागं बहिष्कर्तुमपवृत्य, वध्वा ' सूत्रेण ' इति शेषः । ८ बस्तिभेदानाख्याति - तन्त्रेति । " बस्ति द्विधाऽनुवासाख्यो निरूहश्च ततः परम् । यः स्नेहो दीयते स स्यादनुवासननामकः ॥ कषायक्षोरतैलैयों निरूहः स निगद्यते । बस्तिभिदीयते यस्मात्तस्माद् बस्तिरिति स्मृतः ॥ ” इति भावप्रकाशः । बस्तिभिर्मृगादीनां मूत्राशयैरिति तदर्थः । ९ अनर्थान्तरम् = एकार्थमित्यर्थः । १० पादैस्त्रिभिरवकृष्टो होनः पादावकृष्टः | ११ तस्यापि = अनुवासनस्यापि, विकल्पः == CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 919

सुश्रुत संहिता चौखम्बा, पृष्ठ 919 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३५ ] Digitized by Arf चिकित्सास्थानम् hen Chennai and eGangotri ७६१ ऽर्द्धार्द्धमात्रावकृष्टोऽपरिहार्यो मात्रा बस्तिरिति ॥ १८ ॥

निरूहः शोधनो लेखी स्नैहिको बृंहणो मतः ।

निखेहशोधितान्मार्गान् सम्यक् स्नेहोऽनुगच्छति ॥ १ ९ ॥

अपेतसर्वदोषासु नौडीष्विव वहज्जलम् ।

सर्वदोषहरश्चासौ शरीरस्य च जीवनः ॥

तस्माद्विशुद्धदेहस्य स्नेहवस्तिर्विधीयते ॥ २० ॥

तँत्रोन्मादभयशोकपिपासाऽरोचकाजीर्णार्शः पाण्डुरोगभ्रममद-मूर्च्छाच्छर्दिकुष्ठमे होदरस्थौल्य श्वासकास कण्ठशोषशोफोप सृष्टक्षतक्षी-चतुस्त्रिमासगभिणी दुर्बलाग्न्यसहा बालवृद्धौ च वातरोगाहते क्षीणा नानुवास्या नास्थापयितव्याः ॥ २१ ॥

उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः ।

अवश्यं स्थापनीयास्ते नानुवास्याः कथञ्चन ॥ २२ ॥

असाध्यता विकाराणां स्यादेषामनुवासनात् ।

असाध्यत्वेऽपि भूयिष्ठं गात्राणां संदनं भवेत् ॥ २३ ॥

पकाशये तथा श्रोण्यां नाभ्यधस्ताच्च सर्वतः । त्रिविधो भेदः, भेदमेव दर्शयति — श्रद्धर्द्धिति । तन्त्रान्तरेऽनुवासनस्योत्तमादिमात्रा-भेदेन त्रैविध्यमुक्तम् — ' षट्पली तु भवेच्छ्रेष्ठा मध्यमा त्रिपली भवेत् । कनीयस्य · ध्यर्धपला त्रिधा मात्राऽनुवासने ॥ " इति । १ फलेनापि तयोर्भेदमभिदधाति - निरूह इति । लेखो = लेखनः, स्नैहिकः = अनुवासनः । २ विशुद्धदेहस्यैव स्नेहबस्ति विधानमुपदिशति - निरूहेति । ३ ना. डीषु - प्रणालिकासु । ४ बस्तिकर्मानर्हान्नरान्निर्दिशवि - तत्रेति । ५ वर्षादर्वाग् बालस्य नव-स्यूर्ध्ववृद्धस्य मृदुरपि बस्तिर्निषिद्धः । वातरोगादृते = वातरोगं विनेत्यर्थः । वातरोगी खनुवास्य एव । तदुक्तं भावप्रकाशे - " अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवला. निली ” इति । ६ क्वाप्यास्थापनस्यावस्थायामनुवासनं निषेधति - उदरीति । तदुक्तं वाग्भटे— “ मुविरक्तस्य यस्य स्यादाध्मानं पुनरेव तम् । सुस्निग्धैरम्ललवणै-निरूहैः समुपाचरेत् ॥ ” इति । ७ बस्त्यनर्दाणां बस्तिदाने दोषं दर्शयति- असाध्यतेति । विकाराणाम् = उद-रादीनाम् । ८ सदनं = ग्लानिः । ९ सम्यक्प्रदत्तो बस्तिर्येषु स्थानेषु तिष्ठति CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 920

सुश्रुत संहिता चौखम्बा, पृष्ठ 920 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Wired by Arya Samaj Foundating: ati श्रुतसंहिता tri [ अ ० ३५ सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति ॥ २४ ॥

पक्काशयाद्वस्तिवीर्य्यं खैर्देहमुपसर्पति ।

वृक्षमूले निषिक्तानामपां वीर्य्यमिव द्रुमम् ॥ २५ ॥

स चापि सहसा बस्तिः केवल: समलोऽपि वा ।

प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते ॥ २६ ॥

वीर्येण बस्तिरादत्ते दोषानापादमस्तकात् ।

पक्काशयस्थोऽम्बरगो भूमेर रसानिव ॥ २७ ॥

स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य सञ्चयान् ।

उत्खातमूलान हरति दोषाणां साधुयोजितः ॥ २८ ॥

दोषैत्रयस्य यस्माच्च प्रकोपे वायुरीश्वरः ।

तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः ॥ २ ९ ॥

वायोर्विषहते वेगं नान्या बस्तेर्ऋते क्रिया ।

पवनाविद्धतोयस्य वेला वेगमिवोद्धेः ॥ ३० ॥

शरीरोपचयं वर्णं बलमारोग्यमायुषः ।

कुरुते परिवृद्धिञ्च बस्तिः सम्यगुपासितः ॥ ३१ ॥

अत ऊर्ध्वं व्यापदो वक्ष्यामः तत्र, नेत्रं विचलितं, विवर्त्तितं, पार्श्वोवपीडितम्, अत्युत्क्षिप्तम्, अवसन्नं, तिर्य्यक्षिप्तमिति पट् तानि निर्दिशति - पक्वाशय इति । श्रोण्यां = कटयाम् । १ पक्काशयादिस्थानगतो यस्तिः कथं सर्वाङ्गगतदोषाणां शमनं करोतीति दर्शयति - पक्वाशयादिति । खैः - = स्रोतोभिरित्यर्थः । २ आचपदेन उदानादयः । विनीयते = विशेषेण सर्वशरीरावयवेषु प्राप्यते । यथा — श्रपानेन अधः, उदानेन ऊर्ध्व, व्यानेन सर्वत्र । ३ अम्बरगः-आकाशगत इत्यर्थः । ४ वातप्रकोपप्रशमने बस्तेः प्राधान्यं निर्दिशति - दोषेति । ५ विषइते = विशेषेण सहते । ६ बेला = तटमर्यादा । ' वेला काले च सीमायामब्धेः कूलविका-रयोः । अक्लिष्टमरणे रोगे ईश्वरस्य च भोजने ॥ ” इति मेदिनी । ७ सम्यगुपा-सितः = समीचीनतया सम्पादित इत्यर्थः । ८ बस्तिव्यापत्सु प्रथमं प्रणिधानदोषं निर्दिशति — तत्रेति । विचलितं = विशेषेण कम्पितम् विवर्तितम् = अपवर्तितम्, अत्युत्क्षिप्तम् = अतिशयेनोर्ध्व प्रेरितम्, श्रवसन्नम् = अधोगतिकम् । CC - 0. Gurukul Kangri Collection, Haridwar