सुश्रुत संहिता चौखम्बा — पृष्ठ 911–920
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 911–920
पृष्ठ 911
पाठ पढ़ें पाठ छिपाएँ
अ ० ३४ ] , I ४८ चिकित्सास्थानम् cheni ७५३ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri यति, तत्राध्मानं हृदयग्रहस्तृष्णा मूर्च्छा दाहश्च भवति, तमयोगमि-त्या॒चक्षते । तमाशु वामयेन्मदनफललवणाम्बुभिर्विरेचयेत्तीक्ष्ण-तरैः कषायैश्च । दुर्वान्तस्य तु समुत्क्लिष्टा दोषा व्याप्य शरीरं कण्डूश्वयथुकुष्ठपिडकाज्वराङ्गमर्दनिस्तोदनानि कुर्वन्ति, ततस्तानव-शेषान्महौषधेनापहरेत् । अस्निग्धस्विन्नस्य मृदुविरिक्तस्याधोनाभेः स्तब्धपूर्णोदरता शूलं वातपुरीषसङ्ग: कण्डूमण्डलप्रादुर्भावो भवति, " तमास्थाव्य पुनः संस्तेय विरेचयेत्तीक्ष्णेन । नातिप्रवर्त्तमाने तिष्ठति वा दुष्टसंशोधने तत्सन्तेजनार्थमुष्णोदकं पाययेत् पाणि-' तापैश्च पार्श्वोदरमुपस्वेदयेत्, ततः प्रवर्तन्ते दोषाः । अनुप्रवृत्ते चाल्पदोषे जीणौषधं बहुदोषमहः शेषं बलञ्चावेक्ष्य भूयो मात्रां विदध्यात् । अप्रवृत्तदोषं दशरात्रादूर्ध्वमुपसंस्कृतदेहं स्नेहस्वेदा-भ्यां भूयः शोधयेत् । दुर्विरे च्यमास्थाप्य पुनः संस्नेह्य विरेचयेत् । ही भयलो भैर्वे गावातशीलाः प्रायशः स्त्रियो राजसमीपस्था वणिजः श्रोत्रियाश्च भवन्ति । तस्मादेते दुविरेच्याः, बहुवातत्वात्; अत एव तानतिस्निग्धान् स्वेदोपपन्नान् शोधयेत् ॥। १० ॥ स्निग्धस्विन्नस्यातिमात्रमतिमृदुकोष्टस्य वाऽतितीक्ष्णमधिकं वा दत्तमौषधमतियोगं कुर्य्यात् । तत्र वमनातियोगे पित्तातिप्रवृत्ति-र्बलविस्रंसो वातको पञ्च बलवान् भवति । तं घृतेनाभ्यज्यावगाह्य शीतास्वप्सु शर्करामधुमित्रैर्ले हैरुपचरेद्यथास्वम् ॥ विरेचनाति-योगे कफस्यातिप्रवृत्तिरुत्तरकालं च सरक्तस्य, तत्रापि बलविस्रंसो वातकोपश्च बलवान् भवति, तमतिशीताम्बुभिः परिषिच्यावगाह्य इति चरकः । १ वमनायोगे वामयेदित्यर्थः । २ विरेचनायोगे विरेचयेदित्यर्थः । ३ समुत्क्लिष्टाः = प्रकुपिताः । ४ आस्थाप्य निरूह्य, पुनः संस्नेह्य = स्नेहब -स्तिनेत्यर्थः । ५ दुर्विरेच्यानामुपायं दर्शयति – दुर्विश्च्यमिति । ६ हिया वेगाघातशीलाः स्त्रियः, भयेन राजसमीपस्था जनाः, लोभेन वणिजः श्रोत्रियाश्चेति यथासङ्ख्यमन्वयः । ७ दुर्विरेच्याः = क्कठिनतया विरेचनाहः । ८ श्रतियोगव्यापदमाचष्टे - स्निग्धेति ।
पृष्ठ 912
पाठ पढ़ें पाठ छिपाएँ
Sized byArya Samaj Foundati सुनतहिला ॐ and motri [ अ ० ३४ वाशीतैस्तण्डुलाम्बुभिर्मधुमित्रैश्छर्दयेत् 1 पिच्छा बस्ति चास्मै द द्यात्, क्षीरसर्पिषा चैनमनुवासयेत्, प्रियङ्ग्वादि चाम्मै तण्डु. लाम्बुना पातुं प्रयच्छेत्, क्षीररसयोश्चान्यतरेण भोजयेत् ॥ ११ ॥
तस्मिन्नेव वमनातियोगे प्रवृद्धे शोणितं ष्ठीवति छर्दयति वा, तत्र जिह्वानिःसरणमक्ष्णोर्व्यावृत्तिर्हेनुसंहननं तृष्णा हिक्का ज्वरो वैश्यमित्युपद्रवा भवन्ति । तमजासृक्चन्दनोशीराञ्जनलाजचूर्णैः सशर्करोदकैर्मन्थं पाययेत, फलरसैर्वा सघृतक्षौद्रशर्करैः शुङ्गाभिर्वा वटादीनां पेयां सिद्धां सक्षौद्रां वर्चोग्राहिभिर्वा " पयसा जाङ्गल-रसेन वा भोजयेत्, अतिस्रुतशोणितविधानेनोपचरेत् । जिह्वा-मतिर्संर्पितां कटुकलवणचूर्णप्रघृष्टां तिलद्राक्षाप्रलिप्तां वाऽन्तः पीडयेत्, प्रविष्टायामम्लमन्ये तस्य पुरस्तात् स्वादयेयुः । व्यावृत्ते चाक्षिणी घृताभ्यक्ते पीडयेत्, हनुसंहनने वातश्लेष्महरं नस्यं स्वेदांश्च विदध्यात्; तृष्णादिषु च यथास्वं प्रतिकुर्वीत, विसंज्ञे वेणुवीणागीतस्वनं श्रावयेत् ॥ १२ ॥
विरेचनातियोगे च सचन्द्रकं सलिलमधः स्त्रवति ततो मांसधावनप्रकाशमुत्तरकालं जीवशोणितं च ततो गुदनिःसरणं वेपथुर्वमनातियोगोपद्रवाश्चास्य भवन्ति । तमपि निःस्रुतशोणित-विधानेनोपचरेत्, निःसर्पितगुदस्य गुदमभ्यज्य परिस्वेद्यान्तःपीड -१ पिच्छावस्तिः — ' बदर्यैरावतोशेलुशाल्मलीधन्वनाङ्कुराः । क्षीरसिद्धाः क्षौद्रयुताः सास्राः पिच्छिलसज्ञिताः ॥ वाराहमाहिषौरभ्रबैढालै गेय कौक्कुटम् । सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ॥ ” इति निरूद्दक्रमचिकित्सिते वक्ष्यमाणा । २ कर्षेप्रमाण प्रियवादिमित्यर्थः । ३ जीवादानव्यापदं वर्णयति - तस्मिन्निति । 1 ४ जिह्वा निःसरणं = जिह्वाबहि · निगमनम् । ५ प्रजासृक् अजारुधिरम् । चरकेऽपि - " अञ्जनं चन्दनोशीरमजा-सक्छर्करोदकन् । लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम् ॥ शुङ्गाभिर्वा वटादीनां सिद्धां पेया॑ समाक्षिकाम् । वर्चः साङ्ग्राह्निकैः सिद्धं क्षीरं भोज्यं च दापयेत् ॥ जाङ्ग · लैर्वा रसैर्भोज्यं पिच्छावस्तिश्च शस्यते । मधुरैरनुवास्यश्च सिद्धेन क्षीरसर्पिषा ॥ ” इति ८ सचन्द्रकं == । ६ श्रुतिसर्पिताम् = अतिनिर्गताम् । ७ व्यावृत्ते = बहिर्गते । मयूरपिच्छस्थचन्द्र समानम् । ९ शरीरेन्द्रियसत्त्वात्मसंयोगाश्रयं रक्तं जीवशोणितमु-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 913
पाठ पढ़ें पाठ छिपाएँ
५० ३४ ] Digitized by विकल्यास्थत Chennai and eGangotri ७५५: येत् क्षुद्ररोगचिकित्सितं वा वीक्षेत, वेपथौ वातव्याधिविधानं कुर्वीत, जिह्वानिःसरणादिषूक्तः प्रतीकारः, अतिप्रवृत्ते वा जीव-शोणिते काश्मरीफलबदरीदूर्वोशीरैः शृतेन पयसा घृतमण्डाञ्जन-युक्तेन सुशीतेनास्थापयेत्, न्यग्रोधादिकषायक्षीरेक्षुरसघृतशोणित-संसृष्टैश्चैनं बस्तिभिरुपाचरेत्, शोणितष्ठीवने रक्तपित्तरक्ताती सारक्रियाश्चास्य विध्यात्, न्यग्रोधादि चास्य विदध्यात् पान-भोजनेषु ॥ १३ ॥
8 जीवशोणितरक्तपित्तयोश्च जिज्ञासार्थं तस्मिन् ' पिचुं प्लोतं वा क्षिपेत्, यद्युष्णोदकप्रक्षालितमपि वस्त्रं रञ्जयति तज्जीवशोणित-मवगन्तव्यम् । सभक्तं च शुने दद्याच्छक्तुसम्मिश्रं वा, स यद्युप-भुञ्जीत तज्जीवशोणितमवगन्तव्यम् । अन्यथा रक्तपित्तमिति ॥ १४ ॥
सशेषान्नेन बहुदोषेण रूक्षेणानिलप्राय कोष्ठेनानुष्य मस्निग्धं वा पीतमौषधमाध्मापयति, तत्रानिलमूत्रपुरीषसङ्गः समुन्नद्धोदरता पार्श्वभङ्ग गुदवस्तिनिस्तोदनं भक्तारुचिश्च भवति, तं चाध्मानमि-त्याचक्षते । तमुपस्वेद्यानाहवर्त्तिदीपनवस्तिक्रियाभिरुपचरेत् || १५ || क्षॉमेणातिमृदुकोष्ठेन मन्दाग्निना रूक्षेण वाऽतितीक्ष्णोष्णा-तिलवणमतिरूक्षं वा पीतमौषधं पित्तानिलौ प्रदूष्य परिकर्त्तिका-मापादयति, तत्र गुदनाभिमेद्र बस्तिशिरःसु सदाहं परिकर्त्तनमनि-लसङ्गो वायुविष्टम्भो भक्तारुचिश्च भवति । तत्र पिच्छावस्तिर्येष्टीम-. · धुक कृष्णतिलकल्कमधुघृतयुक्तः, शीताम्बुपरिषिक्तं चैनं पयसा च्यते । १ क्षुद्ररोगचिकित्सितं गुदभ्रंशविधानमिति तात्पर्यम् । २ घृतस्य मण्ड: उपरितनोऽच्छो भागः घृतमण्डः, अञ्जनयुक्तेन = स्रोतोऽजनयुतेनैत्यर्थः । ३ जीवशोणितपरिज्ञानोपायं दर्शयति- जीवेति । ४ पिचु = कार्पासादितू-लम्, प्लोतं = शुक्ल वस्त्र खण्डम् | ५ श्रध्मानव्यापदं प्रतिपादयति - सशेषान्ने-नेति । पाकावशिष्टमन्नं शेषान्नं तेन सह वर्तमानेनेत्यर्थः । ६ अनिल मूत्रपुरीष • सङ्गः = वातमूत्रविष्ठाऽवरोधः । ७ परिकर्तिकाव्यापदमभिधत्ते - क्षामेणेति । क्षामे. ण = बलकायाभ्यां क्षीणमुपगतेनेत्यर्थः । ८ परि परितः कृन्ततीव छिनत्तीव वस्त्या. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 914
पाठ पढ़ें पाठ छिपाएँ
७५६ सहिता -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३४ भुक्तवन्तं घृतमण्डेन यष्टीमधुकसिद्धेन तैलेन वाऽनुवासयेत् ॥१६ ॥
क्रूर कोष्ठस्यातिप्रभूतदोषस्य मृद्वौषधमवचारितं समुत्क्लिश्य दोषान्न निःशेषानपहरति । ततस्ते दोषाः परिस्रावमापादयन्ति, तत्र दौर्बल्योदरविष्टम्भारुचिगात्रसदनानि भवन्ति, सवेदनौ चास्य पित्तश्लेष्माणौ परिस्रवतः, तं परिस्रावमित्याचक्षते । तमजकर्णध-वतिनिशपलाशबलाकषायैर्मधुसंयुक्त रास्थापयेत्, उपशान्तदोष स्निग्धं च भूयः संशोधयेत् ॥ १७ ॥
अतिक्षेऽतिस्निग्धे वा भेषजमवचारितमप्राप्तं वातवर्च उदीर-यति वेगाघातेन वा, तदा प्रवाहिका भवति, तत्र सवातं सदाहं . सशूलं गुरु पिच्छिलं श्वेतं कृष्णं सरक्तं वा भृशं प्रवाहमाणः कफ-मुपविशति 1 । तां परिस्रावविधानेनोपचरेत् ॥ १८ ॥
यस्तूर्ध्वमधो वा भेषजवेगं प्रवृत्तमज्ञत्वाद्विनिहन्ति तस्यो -पसरणं हृदि कुर्वन्ति दोषाः, तत्र प्रधार्नमर्मसन्तापाट्टेदनाभिरत्यर्थं पीड्यमानो दन्तान् किटकिटायते उद्गताक्षो जिह्वां खादति " प्रताम्य-त्यचेताश्च भवति, तं परिवर्जयन्ति मूर्खाः । तमभ्यज्य धान्यस्वेदेन स्वेदयेत्, यष्टिमधुकसिद्धेन च तैलेनानुवासयेत्, शिरोविरेचनं चास्मै तीक्ष्णं विदध्यात्, ततो यष्टिमधुकमिश्रेण तण्डुलाम्बुना छर्दयेत्, यथादोषोच्छ्रायेण चैनं " बस्तिभिरुपाचरेत् ॥ १ ९ ॥ II " यस्तूर्ध्वमधो वा प्रवृत्तदोषः शीतागारमुदकमनिलमन्यद्वा सेवेत, तस्य दोषाः स्रोतः स्ववलीयमाना घनीभावमापन्ना वातमूत्रशकृ-दुगृहमापाद्य " विबध्यन्ते, तस्याटोपो दाहो ज्वरो वेदनाश्च तीव्रा दीनीति परिकर्तिका । १ पैत्तिकपरिकर्तिकायां घृतमण्डेन, वातिक्या तॆलेनेत्यर्थः । २ परिस्रावव्यापदमुपपादपति - क्रूरेति । ३ अजकर्णः सालभेदः, धवः = ' धाय ' -इति ख्यातः । ४ दोषपदेनात्र परिस्रावे तात्पर्यम् । ५ प्रवाहिकाव्यापदं वर्णयति-अतिरुक्ष इति । ६ उदीरयति = प्रवर्तयति । ७ उपविशति = अतिसारयति । = हृदयोपसरणव्यापदमभिदधाति — य इति । ९ प्रधानमर्म हृदयं तस्य सन्ता • पादित्यर्थः । १० प्रताम्यति = मुह्यति । ११ नैरूद्दिकैः स्नैदिकेश्च वस्तिभिरित्यर्थः । १२ विबन्धव्यापदं विवृणोति - यस्तूर्ध्वमिति । १३ विबध्यन्ते = विमनविरेच · CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 915
पाठ पढ़ें पाठ छिपाएँ
अ ० ३५ ] Digitized by चिकित्सास्थान Chennai and eGangotri ७५७ भवन्ति । तमाशु वामयित्वा प्राप्तकालां क्रियां कुर्वीत । त्वधोभागहरद्रव्यसैन्धवाम्लमूत्रसंसृष्टं विरेचनं पाययेत्, आस्था-पनमनुवासनं च यथादोषं विदध्यात्, यथादोषमाहारक्रमं च । उभयतोभागे तूपद्रवविशेषान् यथास्वं प्रतिकुर्वीत ॥ २० ॥
यो तु विरेचने गुदपरिकर्त्तिका तद्वमने कण्ठक्षणनं, यदधः परिस्रवणं स ऊर्ध्वभागे श्लेष्मप्रसेकः, या त्वधः प्रवाहिका सा तूर्ध्वं शुष्कोद्गारा इति ॥ २१ ॥
भवति चात्र ।
यास्त्वेता व्यापदः प्रोक्ता दश पञ्च च तत्त्वतः ।
एता विरेकातियोगदुर्योगायोगजाः स्मृताः ॥ २२ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने वमन विरेचनव्यापच्चिकित्सितं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
पञ्चत्रिंशत्तमोऽध्यायः ।
अथातो नेत्रबस्तिप्रमाणप्रविभाग चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
नप्रवृत्ति निवारयन्ति । १ अधोभागे = विरेचने । २ कासुचिद् वमनविरेचनव्या-पत्स्वन्तरं दर्शयति - येति । ३ ऊर्ध्वभागे = वमने । ४ पूर्वोक्तव्यापदां हेतून्निर्दि • शति - या इति । ५ विरेकः = विरेचनं वमनं चेत्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽख्यटिप्पन्यां चतुस्त्रिंशत्तमोऽध्यायः । पञ्चत्रिंशत्तमोऽध्यायः । ६ बस्तिनाऽपि मला निहियन्त इति वमनविरेचनानन्तरं बस्तिविध्युपदेशार्थं म • यमध्याय श्रारभ्यते— अथात इति । नीयते प्राप्यते स्नेहकरकाद्यपानमिति नेत्र निरूहान्वासनयन्त्रं, वसति मूत्रमत्रेति बवयोरभेदाद् बस्तिः मृगादीनां मूत्राशयः, " मूत्राशयो धनुर्वक्रो बस्तिरित्यभिधीयते " इति, अर्थाद् नाभेरधस्तादलाबूसदृशमघो • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 916
पाठ पढ़ें पाठ छिपाएँ
७५८ सुश्रुतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३५ तत्र स्नेहादीनां कर्मणां प्रधानतममाहुराचार्याः । कस्मात्? अनेककर्मकरत्वाद् बस्तेः । इह खलु बस्तिर्नानाविधद्रव्यसंयोगाद् दोषाणां संशोधनसंशमनसङ्ग्रहणानि करोति, क्षीणशुक्रं वाजी-करोति, कृशं बृंहयति, स्थूलं कर्शयति, चक्षुः प्रीणयति, वलीपलि-तमपहन्ति, वयः स्थापयति ॥ 3 ॥
शैरीरोपचयं वर्णबलमारोग्यमायुषः ।
कुरुते परिवृद्धिं च बस्तिः सम्यगुपौसितः ॥ ४ ॥
तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाधिमन्थार्दिताक्षेप-कपक्षाघातैकाङ्गसर्वाङ्गरोगाध्मानोदर योनिशूलशर्करा शूलवृद्ध्युपदं शानाहमूत्रकृच्छ गुल्म वातशोणितवातमूत्रपुरीषोदावर्त्तशुक्रार्त्तवस्तन्य-नाशहृद्धेनुमन्याग्रहार्शोश्मरीमूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते || ५ || भवति चात्र ।
वस्ति च पित्ते च कफे रक्ते च शस्यते ।
संसर्गे सन्निपाते च बस्तिरेव हितः सदा ॥ ६ ॥
तत्रं सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि कनि-ष्ठिकाऽनामिकामध्यमाङ्गुलिपरिणाहान्यग्रेऽध्यर्द्धाङ्गुलद्वयङ्गलार्द्ध-नालमनेकच्छिद्रं मूत्रभाजनं बस्तिरित्युच्यते । तयोः प्रमाणं प्रविभागश्च यस्मिन् चिकित्सिते तन्नेत्रबस्तिप्रमाणप्रविभाग चिकित्सितं व्याख्यास्याम इत्यर्थः । १ बस्तेः प्राधान्यं दर्शयति - तन्त्रेति । बस्तिकर्म = मूत्राधारपुटक साधककर्म, ` प्रधानतमम् । प्रधानतरं तु वमनविरेचनकर्म । २ पूर्वोक्तमेव बस्तेः प्रधानतमत्व-साधनं पद्येन द्रढयति - शरीरेति । ३ उपासितः = व्यवहृतः । ४ बस्तिसाध्यान् - रोगान् दर्शयति - तथेति । इनुग्रहः, मन्याग्रह इति योजना । ५ हृद्ग्रहः, ६ वस्तिकर्मेत्यर्थः । ७ नेत्रप्रमाणमास्थापनद्रव्यप्रमाणं च प्रतिपादयति - तत्रेति । सांवत्सरिकाष्ट-द्विरष्टवर्षाणामित्यत्र षडष्टदशाङ्गुलेत्यादीनां यथासंख्य मन्त्रयः । यथा सांवत्सरिकबा लस्य निरूहयन्त्रं षडङ्गुलप्रमाणं, कनिष्ठिकापरिणाहम् अग्रेऽध्यार्षाङ्गुलसन्निविष्ट-कर्णिक, मूले कङ्कपक्षनाडीतुल्य प्रवेशम्, श्रग्रे मुयवाहिस्रोतश्च विदध्यादिति क्रम-शोऽध्यवसितव्यम् । CC - 01 Gurukul Kangri Collection, Haridwar
पृष्ठ 917
पाठ पढ़ें पाठ छिपाएँ
श्र ० ३५ ] Digitized by Ar विकिस्सास्थानम् hennai and eGangotri ७५ ९ तृतीयाङ्गुलसन्निविष्टकर्णिकानि कङ्कश्येनबर्हिणपक्षनाडीतुल्यप्रवे · शानि मुद्गमाषकलाय मात्र स्रोतांसि विद्ध्यान्नेत्राणि । तेषु चास्था-पनद्रव्यप्रमाणमातुरहस्तसम्मितेन प्रसृतेन सम्मितौ प्रसृतौ द्वौ चत्वारोऽष्टौ विधेयाः ॥ ७ ॥
वर्षान्तरेषु नेत्राणां बस्तिमानस्य चैव हि ।
वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम् ॥ ८ ॥
पञ्चविंशतेरूर्ध्वं द्वादशाङ्गुलं, मूलेऽङ्गुष्ठोदर पैरीणाहम्, अग्रे कनिष्ठिकोदरपरीणाहम्, अग्रे त्र्यङ्गुलेसन्निविष्टकर्णिक, गृध्रपक्षना-डीतुल्यप्रवेशं, कोलास्थिमात्रच्छिद्रं, क्लिन्नकलाय मात्रच्छिद्रमि-त्येके I । सर्वाणि मूले बस्तिनिबन्धनार्थं द्विकर्णिकानि । आस्थापन-द्रव्यप्रमाणं तु विहितं द्वादशप्रसृताः । सप्ततेस्तूर्ध्व नेत्रप्रमाणमेत-देव, द्रव्यप्रमाणं तु द्विरष्टवर्षवत् ॥ ९ ॥
मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्वालवृद्धयोः ।
तयोस्तीक्ष्णः ८ प्रयुक्तस्तु वस्तिहिंस्याद् बलायुषी ॥ १० ॥
व्रणनेत्रमष्टाङ्गुलं मुद्गवाहिस्रोतः, ब्रणमवेक्ष्य यथास्वं स्नेह-हकषाये विदधीत ॥ ११ ॥
तंत्र, नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारम-१ कणिका = गुदेऽधिकान्तःप्रवेशरोधिनी । " ऊनेऽब्दे पञ्चपूर्णेऽस्मिन्नासप्तभ्योऽ · ङ्गुलानि षट् । सप्तमे सप्त तान्यष्टौ द्वादशे षोडशे नव ॥ द्वादशैव परं विंशाद् वीक्ष्य वर्षान्तरेषु च । वयोबलशरीराणि प्रमाणमभिवर्द्धयेत् ॥ स्वाङ्गुष्ठेन समं मूले स्थौल्ये. नाग्रे कनिष्ठया । पूर्णेऽब्देऽङ्गुलमादाय तदर्धार्धप्रवर्धितम् ॥ अङ्गुलं परमं छिद्रं मूलेऽप्रे बद्दते तु यत् । मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात् ॥ मूलच्छिद प्रमाणेन प्रान्ते घटितकर्णिकम् । वर्त्त्याऽग्रे पिहितं मूले यथास्वं द्वयङ्गुलान्तरम् । कर्णिकाद्वितयं नेत्रे कुर्यात् " इत्यष्टाङ्गहृदयम् । २ नेत्राणि = वस्तियन्त्राणि । ३ प्रसृतोऽत्र श्रर्द्धाञ्जलिः । ४ ' वर्षान्तरेषु ' इत्यत्र ' वर्षोत्तरेषु ' इति पाठान्तरम् । | ५ उत्कर्षयेत् = वर्द्धयेत् । ६ परीणाहोऽत्र स्थौल्यम् । ७ बालवृद्धयोर्बस्तौ विशेषं दर्शयति - मृदुरिति । मृदुद्रव्यकृतो बस्तिर्मृदुः । तीक्ष्णद्रव्यकृतो बस्तिस्तीक्ष्णः । ९ बस्ति नेत्रनिर्माणद्रव्यं तदाकारांश्च निर्दि-शति — तत्रेति । अष्टाङ्गहृदयेऽपि - " तयोस्तु नेत्रं हेमादिधातुदार्वस्थिवेणुजम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 918
पाठ पढ़ें पाठ छिपाएँ
igitized by Arya Samaj Foundation ai and Gangotri सुश्रुतसंहिताया [ अ ० ३५ यानि लक्ष्णानि दृढानि गोपुच्छाकृतीन्यूजूनि गुटिकामुखानि ॥१२ ॥
बस्तैयश्चाबन्ध्या मृदवो नातिबहला दृढाः प्रमाणवन्तो गोमहि-षवराहाजोर भ्राणाम् ॥ १३ ॥
नेत्राला हिता नाडी नलवंशास्थिसम्भवा ।
बस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम् ॥ १४ ॥
बस्ति निरुपदिग्धन्तु शुद्धं सुपरिमार्जितम् ।
मृद्वनुद्धेतहीनं च मुहुः स्नेहविमर्दितम् ॥ १५ ॥
नेत्रमूले प्रतिष्ठाप्य न्युब्जं तु विवृताननम् ।
बद्ध्वा लोहेन तप्तेन चर्मस्रोतांसि निर्दहेत् ॥ १६ ॥
परिवर्त्य ततो बस्तिं बद्ध्वा गुप्तं निधापयेत् ।
आस्थापनं च तैलं च यथावत्तेन दापयेत् ॥ १७ ॥
तंत्र द्विविधो बस्तिः - नैरूहिकः, स्नैहिकश्च । आस्थापनं, निरूह इत्यर्नर्थान्तरम् । तस्य विकल्पो माधुतैलिकः । तस्य पर्यायशब्दो यापनो, युक्तरथः सिद्धबस्तिरिति । स दोषनिर्हरणाच्छरीर रोगहर-णाद्वा निरूहः । वयःस्थापनादायुः स्थापनाद्वा आस्थापनम् । माधुतै-लिकविधानं च निरूहक्रमचिकित्सिते वक्ष्यामः । यथाप्रमाणगुण-विहितः स्नेहवस्तिविकल्पोऽनुवासनः " पादावकृष्टः । अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः । " तस्यापि विकल्पो-गोपुच्छाकारमच्छिद्रं श्लक्ष्णर्जुगुलिकामुखम् ॥ ” इति । १ बस्ति निर्माणद्रव्यमुपदिशति - बस्तय इति । २ उरभ्रः = मेष इत्यर्थः । ३ ता. न्तवं = वसनम् । ४ ग्रहणयोग्यवस्तेः परिकर्म बन्धविधिवोपपादयति- बस्तिमिति । निरुपदिग्धं = मांसाद्युपलेपरहितम् । ५ नाधिकं न दीनमित्यर्थः । ६ प्रतिष्ठाप्य = संयोज्य, वैपरीत्येन स्थापयित्वेति यावत्, पश्चाद्भावे स्थापयित्वेत्यर्थः । न्युब्जम् = श्रधोमुखम् । ७ परिवर्त्य = अन्तर्भागं बहिष्कर्तुमपवृत्य, वध्वा ' सूत्रेण ' इति शेषः । ८ बस्तिभेदानाख्याति - तन्त्रेति । " बस्ति द्विधाऽनुवासाख्यो निरूहश्च ततः परम् । यः स्नेहो दीयते स स्यादनुवासननामकः ॥ कषायक्षोरतैलैयों निरूहः स निगद्यते । बस्तिभिदीयते यस्मात्तस्माद् बस्तिरिति स्मृतः ॥ ” इति भावप्रकाशः । बस्तिभिर्मृगादीनां मूत्राशयैरिति तदर्थः । ९ अनर्थान्तरम् = एकार्थमित्यर्थः । १० पादैस्त्रिभिरवकृष्टो होनः पादावकृष्टः | ११ तस्यापि = अनुवासनस्यापि, विकल्पः == CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 919
पाठ पढ़ें पाठ छिपाएँ
अ ० ३५ ] Digitized by Arf चिकित्सास्थानम् hen Chennai and eGangotri ७६१ ऽर्द्धार्द्धमात्रावकृष्टोऽपरिहार्यो मात्रा बस्तिरिति ॥ १८ ॥
निरूहः शोधनो लेखी स्नैहिको बृंहणो मतः ।
निखेहशोधितान्मार्गान् सम्यक् स्नेहोऽनुगच्छति ॥ १ ९ ॥
अपेतसर्वदोषासु नौडीष्विव वहज्जलम् ।
सर्वदोषहरश्चासौ शरीरस्य च जीवनः ॥
तस्माद्विशुद्धदेहस्य स्नेहवस्तिर्विधीयते ॥ २० ॥
तँत्रोन्मादभयशोकपिपासाऽरोचकाजीर्णार्शः पाण्डुरोगभ्रममद-मूर्च्छाच्छर्दिकुष्ठमे होदरस्थौल्य श्वासकास कण्ठशोषशोफोप सृष्टक्षतक्षी-चतुस्त्रिमासगभिणी दुर्बलाग्न्यसहा बालवृद्धौ च वातरोगाहते क्षीणा नानुवास्या नास्थापयितव्याः ॥ २१ ॥
उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः ।
अवश्यं स्थापनीयास्ते नानुवास्याः कथञ्चन ॥ २२ ॥
असाध्यता विकाराणां स्यादेषामनुवासनात् ।
असाध्यत्वेऽपि भूयिष्ठं गात्राणां संदनं भवेत् ॥ २३ ॥
पकाशये तथा श्रोण्यां नाभ्यधस्ताच्च सर्वतः । त्रिविधो भेदः, भेदमेव दर्शयति — श्रद्धर्द्धिति । तन्त्रान्तरेऽनुवासनस्योत्तमादिमात्रा-भेदेन त्रैविध्यमुक्तम् — ' षट्पली तु भवेच्छ्रेष्ठा मध्यमा त्रिपली भवेत् । कनीयस्य · ध्यर्धपला त्रिधा मात्राऽनुवासने ॥ " इति । १ फलेनापि तयोर्भेदमभिदधाति - निरूह इति । लेखो = लेखनः, स्नैहिकः = अनुवासनः । २ विशुद्धदेहस्यैव स्नेहबस्ति विधानमुपदिशति - निरूहेति । ३ ना. डीषु - प्रणालिकासु । ४ बस्तिकर्मानर्हान्नरान्निर्दिशवि - तत्रेति । ५ वर्षादर्वाग् बालस्य नव-स्यूर्ध्ववृद्धस्य मृदुरपि बस्तिर्निषिद्धः । वातरोगादृते = वातरोगं विनेत्यर्थः । वातरोगी खनुवास्य एव । तदुक्तं भावप्रकाशे - " अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवला. निली ” इति । ६ क्वाप्यास्थापनस्यावस्थायामनुवासनं निषेधति - उदरीति । तदुक्तं वाग्भटे— “ मुविरक्तस्य यस्य स्यादाध्मानं पुनरेव तम् । सुस्निग्धैरम्ललवणै-निरूहैः समुपाचरेत् ॥ ” इति । ७ बस्त्यनर्दाणां बस्तिदाने दोषं दर्शयति- असाध्यतेति । विकाराणाम् = उद-रादीनाम् । ८ सदनं = ग्लानिः । ९ सम्यक्प्रदत्तो बस्तिर्येषु स्थानेषु तिष्ठति CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 920
पाठ पढ़ें पाठ छिपाएँ
Wired by Arya Samaj Foundating: ati श्रुतसंहिता tri [ अ ० ३५ सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति ॥ २४ ॥
पक्काशयाद्वस्तिवीर्य्यं खैर्देहमुपसर्पति ।
वृक्षमूले निषिक्तानामपां वीर्य्यमिव द्रुमम् ॥ २५ ॥
स चापि सहसा बस्तिः केवल: समलोऽपि वा ।
प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते ॥ २६ ॥
वीर्येण बस्तिरादत्ते दोषानापादमस्तकात् ।
पक्काशयस्थोऽम्बरगो भूमेर रसानिव ॥ २७ ॥
स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य सञ्चयान् ।
उत्खातमूलान हरति दोषाणां साधुयोजितः ॥ २८ ॥
दोषैत्रयस्य यस्माच्च प्रकोपे वायुरीश्वरः ।
तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः ॥ २ ९ ॥
वायोर्विषहते वेगं नान्या बस्तेर्ऋते क्रिया ।
पवनाविद्धतोयस्य वेला वेगमिवोद्धेः ॥ ३० ॥
शरीरोपचयं वर्णं बलमारोग्यमायुषः ।
कुरुते परिवृद्धिञ्च बस्तिः सम्यगुपासितः ॥ ३१ ॥
अत ऊर्ध्वं व्यापदो वक्ष्यामः तत्र, नेत्रं विचलितं, विवर्त्तितं, पार्श्वोवपीडितम्, अत्युत्क्षिप्तम्, अवसन्नं, तिर्य्यक्षिप्तमिति पट् तानि निर्दिशति - पक्वाशय इति । श्रोण्यां = कटयाम् । १ पक्काशयादिस्थानगतो यस्तिः कथं सर्वाङ्गगतदोषाणां शमनं करोतीति दर्शयति - पक्वाशयादिति । खैः - = स्रोतोभिरित्यर्थः । २ आचपदेन उदानादयः । विनीयते = विशेषेण सर्वशरीरावयवेषु प्राप्यते । यथा — श्रपानेन अधः, उदानेन ऊर्ध्व, व्यानेन सर्वत्र । ३ अम्बरगः-आकाशगत इत्यर्थः । ४ वातप्रकोपप्रशमने बस्तेः प्राधान्यं निर्दिशति - दोषेति । ५ विषइते = विशेषेण सहते । ६ बेला = तटमर्यादा । ' वेला काले च सीमायामब्धेः कूलविका-रयोः । अक्लिष्टमरणे रोगे ईश्वरस्य च भोजने ॥ ” इति मेदिनी । ७ सम्यगुपा-सितः = समीचीनतया सम्पादित इत्यर्थः । ८ बस्तिव्यापत्सु प्रथमं प्रणिधानदोषं निर्दिशति — तत्रेति । विचलितं = विशेषेण कम्पितम् विवर्तितम् = अपवर्तितम्, अत्युत्क्षिप्तम् = अतिशयेनोर्ध्व प्रेरितम्, श्रवसन्नम् = अधोगतिकम् । CC - 0. Gurukul Kangri Collection, Haridwar