सुश्रुत संहिता चौखम्बा — पृष्ठ 921–930
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 921–930
पृष्ठ 921
पाठ पढ़ें पाठ छिपाएँ
श्र ० ३५ ] Digitized by Ars Hennai and eGangotri Samaj ७६३ प्रणिधानदोषाः । अतिस्थूलं, कर्कशम्, अवनतम्, अणुभिन्नं, सन्नि-कृष्टविप्रकृष्टकर्णिकं, सूक्ष्मातिच्छिद्रम्, अतिदीर्घम्, अतिह्रस्वमस्त्रि-मदित्येकादश नेत्रदोषाः । बहुलता, अल्पता, सच्छिद्रता, प्रस्तीर्णता, दुर्बतेति पञ्च बस्तिदोषाः । अतिपीडितता, शिथिलपीडितता, भूयो. भूयोऽवपीडनं, कालातिक्रम इति चत्वारः पीडनदोषाः । श्रमता, हीनता, अतिमात्रता, अतिशीतता, अत्युष्णता, अतितीक्ष्णता, अति-मृदुता, अतिस्निग्धता, अतिरूक्षता, अतिसान्द्रता, अतिद्रवता इत्ये-कादश द्रव्यदोषाः । अवाक्शीपच्छीर्षन्युजोत्तानसङ्कुचितदेह स्थित-दक्षिणपार्श्वशायिनः प्रदानमिति सप्त शय्यादोषाः । एवमेताश्चतुश्च-त्वारिंशद् व्यापदो वैद्यनिमित्ताः । तुरनिमित्ताः पञ्चदश आतु-रोपद्रवचिकित्सिते वक्ष्यन्ते । स्नेहस्त्वष्टाभिः कारणैः प्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः, अशनाभिभूतो, मलव्यामिश्रो, दूरानु-प्रविष्टः, अस्विन्नम्य अनुष्णः, अल्पभुक्तवतः, अल्पश्चेति वैद्या-तुरनिमित्ता भवन्ति । त्रयोगस्तूभयोः, आध्मानं, परिकर्त्तिका, परिस्रावः, प्रवाहिका, हृदयोपसरणम्, अङ्गप्रग्रहः, अतियोगो, जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्ति ॥ ३२ ॥
भवति चात्र ।
षट्सप्ततिः समासेन व्यापदः परिकीर्त्तिताः ।
तासां वक्ष्यामि विज्ञानं सिद्धिञ्च तदनन्तरम् ॥ ३३ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिप्रमाणप्रविभाग चिकित्सितं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
१ नेत्रदोषान् दशैयति — अतिस्थूलमिति । २ अस्त्रिमत् = पालिमत् । ३ बस्तिदोषमभिदधाति - बहलतेति । बहलता - मांसोपचितता, प्रस्तीर्णता = वि. स्तृतता । ४ पीडनदोषमाख्याति - अतीति । प्रतिपीडितता = अतिपीडनम् । ५ द्रव्यदोषमभिधत्ते - आमतेति । श्रामता = श्रपक्कस्नेहता । ६ शय्यादोष-माख्याति — अवाक्शीर्षेति । श्रवाक्शीर्षः - अधोमस्तकः, उच्चीर्षः = ऊर्ध्वमस्तकः, न्युब्जः = अधोमुखः, स्थितः - उपविष्टः । ७ अङ्गप्रग्रहः - श्रङ्गवेदना । ८ विज्ञानं = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 922
पाठ पढ़ें पाठ छिपाएँ
gized by Arya Samaj Foundatioसुश्रुतसंहितायां motri षट्त्रिंशत्तमोऽध्यायः । [ अ ० ३६ अथातो नेत्रैबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अर्थ नेत्रे विचलिते तथा चैव विवर्त्तिते ।
गुदे क्षतं रुजा वा स्यात्तत्र सद्यः क्षतक्रियाः ॥ ३ ॥
अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायौ भवेद्रुजा ।
" विधिरत्रापि पित्तघ्तः कार्यः स्नेहैश्च सेचनम् ॥ ४ ॥
• तिर्य्यक्प्रणिहिते नेत्रे तथा पाश्र्ववपीडिते ।
मुखस्यावरणाद्वस्तिर्न सम्यक् प्रतिपद्यते ॥
ऋजु नेत्रं विधेयं स्यात्तत्र सम्यग्विजानता ॥ ५ ॥
अतिस्थूले कर्कशे च नेत्रे चावनते तथा ।
गुदे भवेत् क्षतं रुक् च साधनं पूर्ववत् स्मृतम् ॥ ६ ॥
आसन्नकर्णिके नेत्रे भिन्नेो वाऽप्यपार्थकः ।
अर्व॑सेको भवेद्वस्तेस्तस्माद्दोषान् विवर्जयेत् ॥ ७ ॥
प्रकृष्टकर्णिके " रक्तं गुदमर्मप्रपीडनात् । लक्षणम्, सिद्धिं = प्रतिक्रियया पुरुषार्थप्राप्तियोग्यतारूपां सिद्धिमित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सा स्थानीय सुधाऽऽख्यटिप्पन्यां पञ्चत्रिंशत्तमोऽध्यायः । षट्त्रिंशत्तमोऽध्यायः । १ नेत्रानन्तरमादिशब्दस्य लोपनिर्देशाद् नेत्रादिः बस्तिपुटकजन्य व्यापदां चिकि त्सितमिति नेत्रबस्तिव्यापच्चिकित्सितम् । श्रादिना प्रणिधानद्रव्यशय्याव्यापदो बो-द्धन्याः । २ नेत्रप्रणिधानव्यापद्वर्णनं तच्चिकित्सां च दर्शयति — अथेति । ३ सद्यः क्षतक्रिया = सद्योव्रणक्रिया मधुघृताभ्यङ्गाद्याः । ४ पायौ = गुदे । ५ विधिः = मधुरशीतादिपित्तद्दर विधानमित्यर्थः । ६ प्रणिधानमभिधाय नेत्रदोषव्यापद्वर्णेनं तच्चिकित्सांचाह - - अतिस्थूल इति । ७ पूर्ववत् = सद्यःक्षतक्रियेत्यर्थः । ८ अ · णुभिन्ने इत्यर्थः । ९ श्रवसेकः = भेषजस्य क्षरणम्, वस्ते: - बस्तितः । १० प्रकृ. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 923
पाठ पढ़ें पाठ छिपाएँ
अ ० ३६ ] Digitized by चिकित्सास्थानम् Chennai and eGangotri Foundation ७६५ क्षरत्यत्रापि पित्तघ्नो विधिर्वस्तिश्च पिच्छिलः ॥ ८ ॥
स्वे त्वणुस्रोतसि च क्लेशो बस्तिश्च पूर्ववत् ।
प्रत्यागच्छंस्ततः कुय्याद्रोगान् बस्तिविघातजान् ॥ ९ ॥
दीर्घे महास्रोतसि च ज्ञेयमत्यवपीडवत् ।
प्रस्तीर्णे बहले चापि बस्तौ दुर्बर्द्धदोषवत् ॥ १० ॥
बस्तावल्पेऽल्पता वाऽपि द्रव्यस्याल्पा गुणा मताः ।
दुर्वद्धे चाणुभिन्ने च विज्ञेयं भिन्ननेत्रवत् ॥ ११ ॥
अतिप्रपीडितो बस्तिः प्रयात्यामाशयं ततः ।
वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते ॥ १२ ॥
तत्र तूर्णं गलापीडं कुर्य्याच्चाप्यवधूननम् " ।
शिरःकायविरेकौ च तीक्ष्णौ " सेकांश्च शीतलान् ॥ १३ ॥
शनैः १२ प्रपीडितो बस्तिः पक्काधानं न गच्छति ।
न च सम्पादयत्यर्थास्तम्माद्युक्तं प्रपोडयेत् ॥ १४ ॥
भूयो भूयोऽवपीडेन वायुरन्तः प्रपीड्यते ।
तेनाध्मानं रुजश्चग्रा यथास्वं तत्र बस्तयः ॥ १५ ॥
कालातिक्रमणात् क्लेशो व्याधिश्वाभिप्रवर्धते ।
तत्र व्याधिबलघ्नं तु भूयो बस्ति निधापयेत् ॥ १६ ॥
ष्ट कर्णिके - चतुरङ्गुलेऽतिप्रवेशेन विप्रकृष्टकरिंग के । १ पित्तघ्नो विधिःमधुरशीता-दिविधानम् । २ ह्रस्वे = प्रमाणन्यूनै, अणुस्रोतसि - सूक्ष्मच्छिद्रे, पूर्ववत् = आसन्न-कणिकादिवत् । ३ प्रत्यागच्छन् = बहिरागच्छन्, बस्तिविघावजान् = मिथ्यायोग · प्रवृत्तान्, रोगान् = मूत्राघातमूत्र कृच्छादीनित्यर्थः । ४ श्रत्यवपीडवत् = वक्ष्यमा • जातिप्रपीडितवस्तिवत्, ज्ञेयं गलपीडादिचिकित्सितमित्यर्थः । ५ बस्तिदोषव्यापद्वर्णनं तच्चिकित्सां चाचष्टे - प्रस्तीर्ण इति । प्रस्तीर्णे = वि. स्तीर्णे। ६ दुर्बद्धदोषवत् = दुर्बद्ध इत्यादिनाऽनन्तरोक्तदोषत्र दित्यर्थः । ७ भिन्न-नेत्रे बस्तेरवसे कवदित्यर्थः । ८ बस्तिपीडनदोषव्यापद्वर्णनं तच्चिकित्सां च ब्रवीति-अतीति । ९ प्रपद्यते = निर्गच्छति । १० अवधूननं = केयादिषूत्क्षिप्य चालन-मित्यर्थः । ११ सेकान् = क्षीरेक्षुरसंयष्टिमध्वादीन् परिषेकान् । १२ शनैः प्रपीडि-डितः - मन्दं पीडितः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 924
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri ७६६ हतार्थी " सुश्रुतसंहिता [ अ ० ३६
गुदोपदेहशोफौ तु स्नेहोऽपक्कः करोति हि ।
तत्र संशोधनो बस्तिहितं चापि विरेचनम् ॥ १७ ॥
हीनमात्रावुभौ ' बस्ती नातिकार्य्यकरौ मतौ ।
अतिमात्रौ तथाऽऽनाहक्लमातीसारकारकौ ॥ १८ ॥
मूर्च्छा दाहमतीसारं पित्तं चात्युष्णतीक्ष्णौ ।
मृदुशीतावुभौ वातविबन्धाध्मानकारकौ ॥ १ ९ ॥
तत्र हीनादिषु हितः प्रत्यनीकः क्रियाविधिः ।
गुदवस्त्युपदेहं तु कुर्यात् सान्द्रो निरूहणः ॥ २० ॥
प्रवाहिकां वा जनयेत्तनुरल्पगुणावहः ।
तत्र सान्द्रे तनुं बस्ति तनौ सान्द्रञ्च दापयेत् ॥ २१ ॥
स्निग्धोऽतिजाड्यकृद्रूक्षः स्तम्भाध्मानकृदुच्यते ।
बस्ति रूक्षमतिस्निग्धे स्निग्धं रूक्षे च दापयेत् ॥ २२ ॥
अतिपीडितवद्दोषान् विद्धि चाप्यवशीर्षके ।
उच्छीर्षके समुन्नाहं बस्तिः कुर्याच्च मेहनम् ॥ २३ ॥
तत्रोत्तरो हितो बस्तिः सुश्विन्नस्य सुखावहः ।
न्युब्जस्य बस्तिर्नाप्नोति पक्काधानं विमार्गगः ॥ २४ ॥
हृद्गुदं बाधते चात्र वायुः कोष्ठमथापि च ।
उत्तानस्यावृते मार्गे वस्तिर्नान्तः प्रपद्यते ॥ २५ ॥
नेत्रं संवेजनभ्रान्तो वायुश्चान्तः प्रकुप्यति ।
देहे सङ्कुचिते दत्तः सक्थ्नोरप्युभयोस्तथा ॥ २६ ॥
न सम्यगनिलाविष्टो बस्तिः प्रत्येति देहिनः ।
स्थितस्य बस्तिर्दत्तस्तु क्षिप्रमायात्यवाङ्मुखः ॥ २७ ॥
१ पीडनदोषानभिधाय बस्तिद्रव्यदोषव्यापद्वणेनं तच्चिकित्सां चाभिधत्ते— गुदेति । उपदेह = उपलेपः । २ उभौ = आस्थापनानुवासनाख्यौ । ३ प्रत्यनीकः = सञ्जातोपद्रवबिरोधी । ४ सान्द्रे = घनै । ५ शय्यादिदोषव्यापद्वर्णेनं वच्चिकित्सां चाख्याति - अतिपीडितेति । 1 ६ उच्छीर्षके = ऊर्ध्वमस्तके पुरुषे इत्यर्थः । सम्यगु-न्नाहो यस्मिन् तत् समुन्नाहमाध्मानं कुर्यात् 1 । ७ न्युब्जस्य = अधोमुखस्येत्यर्थः । ८ नेत्र संबेजनेन नेत्रकम्पमेन भ्रान्त इति नेत्र संवेजन भ्रान्तः । ९ प्रत्येति = प्रत्या-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 925
पाठ पढ़ें पाठ छिपाएँ
अ ० ३६ ] Digitized by चिकित्सा अन्न म Chennai and eGangotri ७६७
न चौशयं तर्पयति तस्मान्नार्थकरो हि सः ।
नाप्नोति बस्तिर्दत्तस्तु कृत्स्नं पक्वाशयं पुनः ॥ २८ ॥
दक्षिणाश्रितपार्श्वस्य वामपार्खानुगो यतः ।
न्युजादीनां प्रदानं च बस्तेनैव प्रशस्यते ॥ २ ९ ॥
पश्चादनिलकोपोऽत्र यथास्वं तत्र कारयेत् ।
व्यापदः स्नेहबस्तेस्तु वक्ष्यन्ते तच्चिकित्सिते ॥ ३० ॥
अयोगाद्यास्तु वक्ष्यामि व्यापदः संचिकित्सिताः ।
अनुष्णोऽल्पौषधो होनो बस्तिर्नैति प्रयोजितः ॥ ३१ ॥
विष्टम्भाध्मान शूलैश्च तमयोगं प्रचक्षते ।
तत्र तीक्ष्णो ' हितो बस्तिस्तीक्ष्णं चापि विरेचनम् ॥ ३२ ॥
सशेषान्नेऽथवा भुक्ते बहुदोषे च योजितः ।
अत्याशितस्यातिबहुर्वस्तिर्मन्दोष्ण एव च ॥ ३३ ॥
अनुष्णलवणस्नेहो ह्यतिमात्रोऽथवा पुनः ।
तथा बहुपुरीषं च क्षिप्रमाध्मापयेन्नरम् ॥ ३४ ॥
हृत्कटीपार्श्वपृष्ठेषु शूलं तत्रातिदारुणम् ।
तत्र तीक्ष्णतरो बस्तिर्हितं चाप्यनुवासनम् ॥ ३५ ॥
अतितीक्ष्णोष्णलवणो रूक्षो बस्तिः प्रयोजितः ।
सपित्तं कोपयेद्वायुं कुर्य्याच्च परिकर्त्तिकाम् ॥ ३६ ॥
नाभिवस्तिगुदं तत्र छिनत्तीवाति देहिनः । गच्छति । १ श्राशयं = पक्काश्यम् । २ दक्षिणाश्रितपार्श्वस्य बस्तिर्दत्तः कृत्स्नं पक्वाशयं पुनर्नाप्नोतीति पूर्वेणान्वयः । कथं न पक्वाशयं प्राप्नोतीति वक्ति - यत: यस्यात् वामपार्श्वमनुगच्छतीति वामपुर-वनुगः पक्वाशयो जागर्ति । ३ वैधातुरोभयनिमित्ताः स्नेहवस्तिभवा व्यापद इत्यर्थः । ४ अयोगा - धमान - परिकर्तिका - परिस्राव - प्रवाहिका - हृदयोपसरणा - ङ्गप्रग्रहा - ति-योग - जीवादानव्यापद्वर्णंनं तच्चिकित्सितं च दर्शयति – अयोगाद्यास्त्विति । ५ श्रल्पान्यौषधानि यस्मिन् स बस्तिरल्पौषधो नेति नागच्छतीत्यर्थः । ६ अस्योपल-क्षणत्वात् पूर्वोक्तगुणत्रयविपरीत उष्णो बहुभेषजोऽपि हितः । ७ सशेषान्नै = अन्नाजीर्णावशेषे । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 926
पाठ पढ़ें पाठ छिपाएँ
७६८ सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३६ पिच्छाबस्तिर्हितस्तस्य स्नेहश्च मधुरैः शृतः ॥ ३७ ॥
अत्यम्ललवणस्तीक्ष्णः परिस्रावाय कल्पते ।
दौर्बल्यमङ्गसादश्च जायते तत्र देहिनः ॥ ३८ ॥
परिस्रवेत्ततः पित्तं दाहं सञ्जनयेद् गुदे ।
पिच्छाबरितर्हितस्तत्र बस्तिः क्षीरघृतेन च ॥ ३ ९ ॥
प्रवाहिका भवेत्तीक्ष्णान्निरूहात् सानुवासनात् ।
सदाहशूलं कृच्छ्रेण कफासृगुपवेश्यते ॥। ४० ॥
पिच्छाबस्तिर्हितग्तत्र पयसा चैव भोजनम् ।
सर्पिर्मधुरकैः सिद्धं तैलं चाप्यनुवासनम् ॥। ४१ ॥
अतितीक्ष्णो निरूहो वा सवाते चानुवासनः ।
हृदयस्योपसरणं कुरुते चाङ्गपीडनम् ॥ ४२ ॥
दोषैस्तत्र जस्तास्ता मदो मूर्च्छाङ्गगौरवम् ।
सर्वदोषहरं बस्ति शोधनं तत्र दापयेत् ॥ ४३ ॥
रूक्षस्य बहुवातस्य तथा दुःशयितस्य च ।
बस्तिरङ्गग्रहं कुर्य्याद्र्क्षो मृदूल्पभेषजः ॥ ४४ ॥
तत्राङ्गसादः प्रस्तम्भो जृम्भोद्वेष्टनवेपकाः ।
पर्वभेदश्च तत्रेष्ठाः स्वेदाभ्यञ्जनबस्तयः ॥ ४५ ॥
प्रत्युष्णतीक्ष्णोऽतिब हुर्दत्तोऽतिस्वेदितस्य च ।
अल्पदोषस्य वा बस्तिरतियोगाय कल्पते ॥ ४६ ॥
विरेचनातियोगेन समानं तस्य॒ लक्षणम् ।
पिच्छाबस्तिप्रयोगश्च तत्र शीतः सुखावहः ॥ ४७ ॥
प्रतियोगात्परं यत्र जीवादानं विरिक्तवत् ।
देयस्तत्र हितश्चापि पिच्छाबस्तिः सशोणितः ॥ ४८ ॥
नवैता व्यापदो यास्तु निरूहं प्रत्युदाहृताः । १ पिच्छा बस्ति वक्ष्यमाणः । २ अङ्गसादः = अङ्गग्लानिः । ३ यथा वातस्य तोदादयः, पित्तस्य श्रोषचोषादयः, कफस्य कड्वादय इत्यर्थः । ४ यतः शोधनेन ऊर्ध्वगतदोषस्याधोनयनं भवतीति तात्पर्यम् । ५ पर्वभेदः = प्रन्थिस्फुटनम् । ६ शीतोपचारश्चापि बोध्यः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 927
पाठ पढ़ें पाठ छिपाएँ
अ ० ३७ ] II ४ ९ चिकित्सास्थानम् । ७६ ९ सप्तत्रिंशत्तमोऽध्यायः । षट्त्रिंशत्तमोऽध्यायः । सप्तत्रिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri स्नेहबस्तिष्वपि हि ता विज्ञेयाः कुशलैरिह ॥ ४ ९ ॥
इत्युक्ता व्यापदः सर्वाः सलक्षणचिकित्सिताः ।
भिषजा च तथा कार्य्यं यथैता न भवन्ति हि ॥ ५० ॥
पक्षाद्विरेको वान्तस्य ततश्चापि निरूहणम् ।
सद्यो निरूढोऽनुवास्यः सप्तरात्राद्वि रेचितः ॥ ५१ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिव्यापच्चिकित्सितं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥
अथातोऽनुवासनोत्तरबस्ति चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
विरेचनात् सप्तरात्रे गते जातबलाय वै ।
कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ॥ ३ ॥
यथावयो निरूहाणां या मात्राः परिकीर्त्तिताः । १ भिषजा सम्यग् विचार्य एतादृशी चिकित्सा काय यथैतासां व्यापदामुत्पत्तिरेव न स्यादित्यर्थः । २ क्रमेण क्रियमाणानां वमनादिपञ्चकर्मणां कालावधिं दर्शयति — पक्षादिति । पक्षान्नार्वा नापि परतः । ३ विरेचितस्तु सप्ताद्दात्परतोऽनुवास्यो नार्वाक् । तदुक्त • मनन्तरेऽग्रेऽध्याये— “ विरेचनात्सप्तरात्रे गते जातबलाय वै । कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ॥ ” इति । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां ४ " सद्यो निरूढोऽनुवास्यः सप्तरात्राद्विरेचितः ” इति सङ्क्षेपेण यदुक्तं तद्वि-स्तरेण बोधनार्थमयमध्याय श्रारभ्यते — अथात इति । अनुवासनं = स्नैहबस्तिः । ५ विरेचनात्सप्ताहानन्तरमनुवासनविधिमभिधत्ते - विरेचनादिति । ६ कृतान्ना • य = कृताहारायेत्यर्थः । ७ अनुवासनवस्तिमात्रां दर्शयति - यथेति । वयोऽत्रस्थाम-नतिक्रम्येति यथावयः ।
पृष्ठ 928
पाठ पढ़ें पाठ छिपाएँ
७७० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३७ पादावकृष्टास्ताः कार्य्याः स्नेहवस्तिषु देहिनाम् ॥ ४ ॥
उत्सृष्टानिलविण्मूत्रे नरे बस्ति विधापयेत् ।
एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते ॥ ५ ॥
स्नेहवस्तिविधेयस्तु नाविशुद्धस्य देहिनः ।
स्नेहवीर्य्यं तथा दत्ते देहं चानुविसर्पति ॥ ६ ॥
अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम् ।
पानान्वासननस्येषु यानि हन्युर्गदान् बहून् ॥ ७ ॥
शैटीपुष्कर कृष्णाह्वामदनामरदारुभिः ।
शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः ॥ ८ ॥
सुपिष्टैर्द्विगुणं चीरं तैलं तोयचतुर्गुणम् ।
पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम् ॥ ९ ॥
स ग्रहणदोषमाना विषमज्वरम् ।
कट्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत् ॥ १२ ॥
वंचा पुष्कर कुष्ठै लामदनामरसिन्धुजैः ।
काकोलीद्वययष्ट्याहृमेदायुग्मनराधिपैः ॥ ११ ॥
पाठाजीवकजीवन्तीभार्गीचन्दनकट्फलैः ।
सरलाऽगुरुबिल्वाम्बुवाजिगन्धाऽग्निवृद्धिभिः ॥ १२ ॥
१ पादैस्त्रिभिरवकृष्टा न्यूना इति पादावकृष्टशः, चतुर्भागावशिष्टा, इत्यर्थः । “ उत्तमा स्यात्पलैः षड्भिर्मध्यमा स्यात् पलैस्त्रिभिः । पलाध्यर्थेन होना स्यादुक्का मात्राऽनुवा • सने ॥ ” इति भावमिश्रः । २ अनुवासनबस्तेः पूर्वकर्म निर्दिशति - उत्सृष्टेति । ३ प्रतिपद्यते = नैवान्तः प्रविशतीत्यर्थः । ४ अन्त्रासनम् = अनुवासनम् । ५ श्रनुवासनार्थं शटयादितैलं निर्दिशति -- शटीति । तैलमिदं प्रायशो वातरो. गेषु । शटी = ' कचूर ' इति ख्याता । पुष्करं - पुष्करमूलम्, कृष्णाह्वा = पिप्पली, मदनं = मदनफलम् । ६ हुताशनः = चित्रकः । ७ बचादिद्वितीय तैलं निर्दिशति-वचेति । इदमपि वातरोगेषु । श्रमरः = देवदारुः, सिन्धुजं = सैन्धवम् । काकोली-द्वयं = काकोलीक्षीरकाकोलीति द्वितयम्, मेदायुग्मं = मेदामहामेदाऽऽख्यम्, नराधिपः = आरग्वधः । ९ सरला = त्रिवृत्, अगुरु = ' अगर ' इति, अम्बु = ' नेत्रबाला ' इति, वाजि. गन्धा = ' असगन्ध ' इति, श्रग्निवृद्धिः = ' चीता ' इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 929
पाठ पढ़ें पाठ छिपाएँ
अ ० ३७ ] Digitized by चिकित्सा Chennai and eGangotri ७७१
विडङ्गारग्वधश्यामात्रिवृन्मार्गधि कार्धिभिः ।
पिष्टैस्तैलं पचेत् क्षीर पञ्चमूलरसान्वितम् ॥ १३ ॥
गुल्मानाहारिनपङ्गाशग्रहणीमूत्रसङ्गिनाम् ।
अन्वासनविधौ युक्तं शस्यतेऽनिलरोगिणाम् ॥ १४ ॥
चित्रैकातिविषापाठादन्तीबिल्ववचामिषैः ५ ।
सरलां शुर्मतीरास्नानीलिनीचतुरङ्गलैः ॥ १५ ॥
चव्याजमोद काकोलीमेदा युग्मसुरद्रुमैः ।
जीवकर्षभर्वर्षाभू बस्तगन्धाशताह्वयैः ॥ १६ ॥
रे श्वगन्धामञ्जिष्टाशटी पुष्कर तस्करैः.१० ' सक्षीरं विपचेत्तैलं मारुतामयनाशनम् ॥ १७ ॥
गृध्रसीखञ्ज ' ' कुब्जाढ्यमूत्रोदावर्त्त रोगिणाम् ॥ शस्यतेऽल्पबलाग्नीनां बस्तावाशु नियोजितम् ॥ १८ ॥
१ १२ भूतिकैरण्डवर्षाभू रास्नावृपकरोहिषैः ५३ ।
१४ दशमूलसहाभार्गीषड्यन्थाऽमरदारुभिः ॥ १ ९ ॥
बलानागबलामूर्वा वाजिगन्धाऽमृताद्वयैः " ।
१६ सहाचरवरीविश्वाकाकनासाविदारिभिः ॥ २० ॥
१ मागधिका = पिप्पली, ऋद्धिः वृद्धिश्चेति स्वनाम्ना प्रसिद्धम् । २ क्षीरमत्र तैलसमम् । पञ्चमूलं विश्वादिपञ्चमूलं तस्य रसेन काथेन चतुगुणेनान्त्रितमित्यर्थः । ३ अग्निषङ्गः = अग्निमान्धम्, मूत्रसङ्गः - 1 मूत्रकृच्छम् । ४ चित्रकादितृतीय तैलं निर्दिशति - चित्रकेति । एतत्तैलमपि वातरोगेषु । ५ श्रामिषं = गुग्गुलुः, जटामासीति हाराणचन्द्रः । ६ अंशुमती = शालपणीं । ७ मे. दायुग्मं = मैदा महामेदा चेति । एतदभावे श्रश्वगन्धा सारिवा च देया । ८ वर्षाभूः = -रक्तपुनर्नवा, बस्तगन्धा = अजगन्धा । ९ रेणुः = रेणुका, निर्गुण्डीबीजमित्यर्थः । १० तस्करः = चोरपुष्पी । ११ आढ्यः = श्रढयवातः, ऊरुस्तम्भ इति यावत । १२ भूतिकादिचतुर्थ तैलमभिधत्ते - भूतिकेति । प्रायशो वातरोगेषु तैलमिदम् । भूतिकं = कत्तृणम्, ' स्याद् भूतिकं तु भूनिम्बे दीप्यभूस्तृणकत्तृणे ' इति मेदिनी । भूतिकं यमानीति सुश्रुतार्थसन्दीरनम् । १३ रोहिषः = रोद्दिषतृणम्, गन्धतृणमिति यावत् । Y १४ सहा = मुद्गपर्णी । १५ अमृताह्वया = गुडूची । १६ सहाचरः = नीलझिण्टी, वरी = शतावरी, नामैकदेशे नाममात्र ग्रहणात् । विश्वा = शुण्ठी का कासा = वाय सफला । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 930
पाठ पढ़ें पाठ छिपाएँ
Rized by Arya Samaj Founda सुश्रुत संहितायां cangotri [ अ ० ३७
यवमाषात सीकोलकुलत्थैः क्वथितैः श्रुतम् ।
जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम् ॥ २१ ॥।
जङ्घोरुत्रिकपार्वांसबाहुमन्याशिरःस्थितान् ।
हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम् ॥ २२ ॥
जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः ।
ऋषभातिविषाकृष्णाकाकनासावचाऽमरैः ॥ २३ ॥
रास्नामदनयष्ट्याह्वसरलाऽभीरुचन्दनैः 1: 1 स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः ॥ २४ ॥
पिष्टैस्तैलघृतं पक्वं क्षीरेणाष्टगुणेन तु ।
तच्चानुवासने देयं शुक्राग्निबलवर्धनम् ॥ २२ ॥
बृंहणं वातपित्तघ्नं गुल्मानाहहरं परम् ।
नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम् ॥ २६ ॥
मधुकोशीरकाश्मय्यकटुकोत्पलचन्दनैः ।
श्यामापद्मकजीमूत शक्राद्वाऽतिविषाऽम्बुभिः ॥ २७ ॥
तैलपादं पचेत् सांपः पयसाऽष्टगुणेन च ।
न्यग्रोधादिगणक्काथयुक्तं बस्तिषु योजितम् ॥ २८ ॥
दाहासृग्दरवीसर्पवातशोणितविद्रधीन् ।
पित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान् ॥ २ ९ ॥
१ “ जीवकर्षभको मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषपण्य जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्ति " इति चरकः । २ जीवन्त्यादिपञ्चमं तैलमभिदधाति — जीवन्तीति । ' जीवन्तो ' इति नाम्नैव ख्याता । ३ श्रमरः = देवदारुः । ४ अभीरुः = शतावरी । ५ स्वङ्गुप्ता = श्रात्म-' गुप्ता, ' केवांछ ' इत्युक्षुष्यते । कलसी = पृश्निपर्णी । जीवन्त्यादितैलमिदं पित्तरक्तरो-गार्दितेषु बोद्धयम् । ६ मधुकादिषष्ठतैलं ब्रवीति - मधुकेति । मधुकः = ' मुलइटी ' इति ख्यातः । ७ जीमूतः = ' मोथा ' इति, अतिविषा = ' अतीस ' इति बोध्या । अम्बु = ' नेत्रवाला ' इति बोध्यम् । ८ तैलस्य पादश्चतुर्थीशो यस्मिन् सर्पिषि तत्तैलपादम् । ९ न्यग्रोधादिगणो द्रव्यसङ्ग्रहणीयाध्यायोक्तः । इदं मधुकादितैलमपि पित्तरक्तरोगा • दितेषु बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar