सुश्रुत संहिता चौखम्बा — पृष्ठ 921–930

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 921–930

पृष्ठ 921

सुश्रुत संहिता चौखम्बा, पृष्ठ 921 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्र ० ३५ ] Digitized by Ars Hennai and eGangotri Samaj ७६३ प्रणिधानदोषाः । अतिस्थूलं, कर्कशम्, अवनतम्, अणुभिन्नं, सन्नि-कृष्टविप्रकृष्टकर्णिकं, सूक्ष्मातिच्छिद्रम्, अतिदीर्घम्, अतिह्रस्वमस्त्रि-मदित्येकादश नेत्रदोषाः । बहुलता, अल्पता, सच्छिद्रता, प्रस्तीर्णता, दुर्बतेति पञ्च बस्तिदोषाः । अतिपीडितता, शिथिलपीडितता, भूयो. भूयोऽवपीडनं, कालातिक्रम इति चत्वारः पीडनदोषाः । श्रमता, हीनता, अतिमात्रता, अतिशीतता, अत्युष्णता, अतितीक्ष्णता, अति-मृदुता, अतिस्निग्धता, अतिरूक्षता, अतिसान्द्रता, अतिद्रवता इत्ये-कादश द्रव्यदोषाः । अवाक्शीपच्छीर्षन्युजोत्तानसङ्कुचितदेह स्थित-दक्षिणपार्श्वशायिनः प्रदानमिति सप्त शय्यादोषाः । एवमेताश्चतुश्च-त्वारिंशद् व्यापदो वैद्यनिमित्ताः । तुरनिमित्ताः पञ्चदश आतु-रोपद्रवचिकित्सिते वक्ष्यन्ते । स्नेहस्त्वष्टाभिः कारणैः प्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः, अशनाभिभूतो, मलव्यामिश्रो, दूरानु-प्रविष्टः, अस्विन्नम्य अनुष्णः, अल्पभुक्तवतः, अल्पश्चेति वैद्या-तुरनिमित्ता भवन्ति । त्रयोगस्तूभयोः, आध्मानं, परिकर्त्तिका, परिस्रावः, प्रवाहिका, हृदयोपसरणम्, अङ्गप्रग्रहः, अतियोगो, जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्ति ॥ ३२ ॥

भवति चात्र ।

षट्सप्ततिः समासेन व्यापदः परिकीर्त्तिताः ।

तासां वक्ष्यामि विज्ञानं सिद्धिञ्च तदनन्तरम् ॥ ३३ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिप्रमाणप्रविभाग चिकित्सितं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

१ नेत्रदोषान् दशैयति — अतिस्थूलमिति । २ अस्त्रिमत् = पालिमत् । ३ बस्तिदोषमभिदधाति - बहलतेति । बहलता - मांसोपचितता, प्रस्तीर्णता = वि. स्तृतता । ४ पीडनदोषमाख्याति - अतीति । प्रतिपीडितता = अतिपीडनम् । ५ द्रव्यदोषमभिधत्ते - आमतेति । श्रामता = श्रपक्कस्नेहता । ६ शय्यादोष-माख्याति — अवाक्शीर्षेति । श्रवाक्शीर्षः - अधोमस्तकः, उच्चीर्षः = ऊर्ध्वमस्तकः, न्युब्जः = अधोमुखः, स्थितः - उपविष्टः । ७ अङ्गप्रग्रहः - श्रङ्गवेदना । ८ विज्ञानं = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 922

सुश्रुत संहिता चौखम्बा, पृष्ठ 922 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

gized by Arya Samaj Foundatioसुश्रुतसंहितायां motri षट्त्रिंशत्तमोऽध्यायः । [ अ ० ३६ अथातो नेत्रैबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अर्थ नेत्रे विचलिते तथा चैव विवर्त्तिते ।

गुदे क्षतं रुजा वा स्यात्तत्र सद्यः क्षतक्रियाः ॥ ३ ॥

अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायौ भवेद्रुजा ।

" विधिरत्रापि पित्तघ्तः कार्यः स्नेहैश्च सेचनम् ॥ ४ ॥

• तिर्य्यक्प्रणिहिते नेत्रे तथा पाश्र्ववपीडिते ।

मुखस्यावरणाद्वस्तिर्न सम्यक् प्रतिपद्यते ॥

ऋजु नेत्रं विधेयं स्यात्तत्र सम्यग्विजानता ॥ ५ ॥

अतिस्थूले कर्कशे च नेत्रे चावनते तथा ।

गुदे भवेत् क्षतं रुक् च साधनं पूर्ववत् स्मृतम् ॥ ६ ॥

आसन्नकर्णिके नेत्रे भिन्नेो वाऽप्यपार्थकः ।

अर्व॑सेको भवेद्वस्तेस्तस्माद्दोषान् विवर्जयेत् ॥ ७ ॥

प्रकृष्टकर्णिके " रक्तं गुदमर्मप्रपीडनात् । लक्षणम्, सिद्धिं = प्रतिक्रियया पुरुषार्थप्राप्तियोग्यतारूपां सिद्धिमित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सा स्थानीय सुधाऽऽख्यटिप्पन्यां पञ्चत्रिंशत्तमोऽध्यायः । षट्त्रिंशत्तमोऽध्यायः । १ नेत्रानन्तरमादिशब्दस्य लोपनिर्देशाद् नेत्रादिः बस्तिपुटकजन्य व्यापदां चिकि त्सितमिति नेत्रबस्तिव्यापच्चिकित्सितम् । श्रादिना प्रणिधानद्रव्यशय्याव्यापदो बो-द्धन्याः । २ नेत्रप्रणिधानव्यापद्वर्णनं तच्चिकित्सां च दर्शयति — अथेति । ३ सद्यः क्षतक्रिया = सद्योव्रणक्रिया मधुघृताभ्यङ्गाद्याः । ४ पायौ = गुदे । ५ विधिः = मधुरशीतादिपित्तद्दर विधानमित्यर्थः । ६ प्रणिधानमभिधाय नेत्रदोषव्यापद्वर्णेनं तच्चिकित्सांचाह - - अतिस्थूल इति । ७ पूर्ववत् = सद्यःक्षतक्रियेत्यर्थः । ८ अ · णुभिन्ने इत्यर्थः । ९ श्रवसेकः = भेषजस्य क्षरणम्, वस्ते: - बस्तितः । १० प्रकृ. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 923

सुश्रुत संहिता चौखम्बा, पृष्ठ 923 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३६ ] Digitized by चिकित्सास्थानम् Chennai and eGangotri Foundation ७६५ क्षरत्यत्रापि पित्तघ्नो विधिर्वस्तिश्च पिच्छिलः ॥ ८ ॥

स्वे त्वणुस्रोतसि च क्लेशो बस्तिश्च पूर्ववत् ।

प्रत्यागच्छंस्ततः कुय्याद्रोगान् बस्तिविघातजान् ॥ ९ ॥

दीर्घे महास्रोतसि च ज्ञेयमत्यवपीडवत् ।

प्रस्तीर्णे बहले चापि बस्तौ दुर्बर्द्धदोषवत् ॥ १० ॥

बस्तावल्पेऽल्पता वाऽपि द्रव्यस्याल्पा गुणा मताः ।

दुर्वद्धे चाणुभिन्ने च विज्ञेयं भिन्ननेत्रवत् ॥ ११ ॥

अतिप्रपीडितो बस्तिः प्रयात्यामाशयं ततः ।

वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते ॥ १२ ॥

तत्र तूर्णं गलापीडं कुर्य्याच्चाप्यवधूननम् " ।

शिरःकायविरेकौ च तीक्ष्णौ " सेकांश्च शीतलान् ॥ १३ ॥

शनैः १२ प्रपीडितो बस्तिः पक्काधानं न गच्छति ।

न च सम्पादयत्यर्थास्तम्माद्युक्तं प्रपोडयेत् ॥ १४ ॥

भूयो भूयोऽवपीडेन वायुरन्तः प्रपीड्यते ।

तेनाध्मानं रुजश्चग्रा यथास्वं तत्र बस्तयः ॥ १५ ॥

कालातिक्रमणात् क्लेशो व्याधिश्वाभिप्रवर्धते ।

तत्र व्याधिबलघ्नं तु भूयो बस्ति निधापयेत् ॥ १६ ॥

ष्ट कर्णिके - चतुरङ्गुलेऽतिप्रवेशेन विप्रकृष्टकरिंग के । १ पित्तघ्नो विधिःमधुरशीता-दिविधानम् । २ ह्रस्वे = प्रमाणन्यूनै, अणुस्रोतसि - सूक्ष्मच्छिद्रे, पूर्ववत् = आसन्न-कणिकादिवत् । ३ प्रत्यागच्छन् = बहिरागच्छन्, बस्तिविघावजान् = मिथ्यायोग · प्रवृत्तान्, रोगान् = मूत्राघातमूत्र कृच्छादीनित्यर्थः । ४ श्रत्यवपीडवत् = वक्ष्यमा • जातिप्रपीडितवस्तिवत्, ज्ञेयं गलपीडादिचिकित्सितमित्यर्थः । ५ बस्तिदोषव्यापद्वर्णनं तच्चिकित्सां चाचष्टे - प्रस्तीर्ण इति । प्रस्तीर्णे = वि. स्तीर्णे। ६ दुर्बद्धदोषवत् = दुर्बद्ध इत्यादिनाऽनन्तरोक्तदोषत्र दित्यर्थः । ७ भिन्न-नेत्रे बस्तेरवसे कवदित्यर्थः । ८ बस्तिपीडनदोषव्यापद्वर्णनं तच्चिकित्सां च ब्रवीति-अतीति । ९ प्रपद्यते = निर्गच्छति । १० अवधूननं = केयादिषूत्क्षिप्य चालन-मित्यर्थः । ११ सेकान् = क्षीरेक्षुरसंयष्टिमध्वादीन् परिषेकान् । १२ शनैः प्रपीडि-डितः - मन्दं पीडितः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 924

सुश्रुत संहिता चौखम्बा, पृष्ठ 924 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri ७६६ हतार्थी " सुश्रुतसंहिता [ अ ० ३६

गुदोपदेहशोफौ तु स्नेहोऽपक्कः करोति हि ।

तत्र संशोधनो बस्तिहितं चापि विरेचनम् ॥ १७ ॥

हीनमात्रावुभौ ' बस्ती नातिकार्य्यकरौ मतौ ।

अतिमात्रौ तथाऽऽनाहक्लमातीसारकारकौ ॥ १८ ॥

मूर्च्छा दाहमतीसारं पित्तं चात्युष्णतीक्ष्णौ ।

मृदुशीतावुभौ वातविबन्धाध्मानकारकौ ॥ १ ९ ॥

तत्र हीनादिषु हितः प्रत्यनीकः क्रियाविधिः ।

गुदवस्त्युपदेहं तु कुर्यात् सान्द्रो निरूहणः ॥ २० ॥

प्रवाहिकां वा जनयेत्तनुरल्पगुणावहः ।

तत्र सान्द्रे तनुं बस्ति तनौ सान्द्रञ्च दापयेत् ॥ २१ ॥

स्निग्धोऽतिजाड्यकृद्रूक्षः स्तम्भाध्मानकृदुच्यते ।

बस्ति रूक्षमतिस्निग्धे स्निग्धं रूक्षे च दापयेत् ॥ २२ ॥

अतिपीडितवद्दोषान् विद्धि चाप्यवशीर्षके ।

उच्छीर्षके समुन्नाहं बस्तिः कुर्याच्च मेहनम् ॥ २३ ॥

तत्रोत्तरो हितो बस्तिः सुश्विन्नस्य सुखावहः ।

न्युब्जस्य बस्तिर्नाप्नोति पक्काधानं विमार्गगः ॥ २४ ॥

हृद्गुदं बाधते चात्र वायुः कोष्ठमथापि च ।

उत्तानस्यावृते मार्गे वस्तिर्नान्तः प्रपद्यते ॥ २५ ॥

नेत्रं संवेजनभ्रान्तो वायुश्चान्तः प्रकुप्यति ।

देहे सङ्कुचिते दत्तः सक्थ्नोरप्युभयोस्तथा ॥ २६ ॥

न सम्यगनिलाविष्टो बस्तिः प्रत्येति देहिनः ।

स्थितस्य बस्तिर्दत्तस्तु क्षिप्रमायात्यवाङ्मुखः ॥ २७ ॥

१ पीडनदोषानभिधाय बस्तिद्रव्यदोषव्यापद्वणेनं तच्चिकित्सां चाभिधत्ते— गुदेति । उपदेह = उपलेपः । २ उभौ = आस्थापनानुवासनाख्यौ । ३ प्रत्यनीकः = सञ्जातोपद्रवबिरोधी । ४ सान्द्रे = घनै । ५ शय्यादिदोषव्यापद्वर्णेनं वच्चिकित्सां चाख्याति - अतिपीडितेति । 1 ६ उच्छीर्षके = ऊर्ध्वमस्तके पुरुषे इत्यर्थः । सम्यगु-न्नाहो यस्मिन् तत् समुन्नाहमाध्मानं कुर्यात् 1 । ७ न्युब्जस्य = अधोमुखस्येत्यर्थः । ८ नेत्र संबेजनेन नेत्रकम्पमेन भ्रान्त इति नेत्र संवेजन भ्रान्तः । ९ प्रत्येति = प्रत्या-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 925

सुश्रुत संहिता चौखम्बा, पृष्ठ 925 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३६ ] Digitized by चिकित्सा अन्न म Chennai and eGangotri ७६७

न चौशयं तर्पयति तस्मान्नार्थकरो हि सः ।

नाप्नोति बस्तिर्दत्तस्तु कृत्स्नं पक्वाशयं पुनः ॥ २८ ॥

दक्षिणाश्रितपार्श्वस्य वामपार्खानुगो यतः ।

न्युजादीनां प्रदानं च बस्तेनैव प्रशस्यते ॥ २ ९ ॥

पश्चादनिलकोपोऽत्र यथास्वं तत्र कारयेत् ।

व्यापदः स्नेहबस्तेस्तु वक्ष्यन्ते तच्चिकित्सिते ॥ ३० ॥

अयोगाद्यास्तु वक्ष्यामि व्यापदः संचिकित्सिताः ।

अनुष्णोऽल्पौषधो होनो बस्तिर्नैति प्रयोजितः ॥ ३१ ॥

विष्टम्भाध्मान शूलैश्च तमयोगं प्रचक्षते ।

तत्र तीक्ष्णो ' हितो बस्तिस्तीक्ष्णं चापि विरेचनम् ॥ ३२ ॥

सशेषान्नेऽथवा भुक्ते बहुदोषे च योजितः ।

अत्याशितस्यातिबहुर्वस्तिर्मन्दोष्ण एव च ॥ ३३ ॥

अनुष्णलवणस्नेहो ह्यतिमात्रोऽथवा पुनः ।

तथा बहुपुरीषं च क्षिप्रमाध्मापयेन्नरम् ॥ ३४ ॥

हृत्कटीपार्श्वपृष्ठेषु शूलं तत्रातिदारुणम् ।

तत्र तीक्ष्णतरो बस्तिर्हितं चाप्यनुवासनम् ॥ ३५ ॥

अतितीक्ष्णोष्णलवणो रूक्षो बस्तिः प्रयोजितः ।

सपित्तं कोपयेद्वायुं कुर्य्याच्च परिकर्त्तिकाम् ॥ ३६ ॥

नाभिवस्तिगुदं तत्र छिनत्तीवाति देहिनः । गच्छति । १ श्राशयं = पक्काश्यम् । २ दक्षिणाश्रितपार्श्वस्य बस्तिर्दत्तः कृत्स्नं पक्वाशयं पुनर्नाप्नोतीति पूर्वेणान्वयः । कथं न पक्वाशयं प्राप्नोतीति वक्ति - यत: यस्यात् वामपार्श्वमनुगच्छतीति वामपुर-वनुगः पक्वाशयो जागर्ति । ३ वैधातुरोभयनिमित्ताः स्नेहवस्तिभवा व्यापद इत्यर्थः । ४ अयोगा - धमान - परिकर्तिका - परिस्राव - प्रवाहिका - हृदयोपसरणा - ङ्गप्रग्रहा - ति-योग - जीवादानव्यापद्वर्णंनं तच्चिकित्सितं च दर्शयति – अयोगाद्यास्त्विति । ५ श्रल्पान्यौषधानि यस्मिन् स बस्तिरल्पौषधो नेति नागच्छतीत्यर्थः । ६ अस्योपल-क्षणत्वात् पूर्वोक्तगुणत्रयविपरीत उष्णो बहुभेषजोऽपि हितः । ७ सशेषान्नै = अन्नाजीर्णावशेषे । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 926

सुश्रुत संहिता चौखम्बा, पृष्ठ 926 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७६८ सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३६ पिच्छाबस्तिर्हितस्तस्य स्नेहश्च मधुरैः शृतः ॥ ३७ ॥

अत्यम्ललवणस्तीक्ष्णः परिस्रावाय कल्पते ।

दौर्बल्यमङ्गसादश्च जायते तत्र देहिनः ॥ ३८ ॥

परिस्रवेत्ततः पित्तं दाहं सञ्जनयेद् गुदे ।

पिच्छाबरितर्हितस्तत्र बस्तिः क्षीरघृतेन च ॥ ३ ९ ॥

प्रवाहिका भवेत्तीक्ष्णान्निरूहात् सानुवासनात् ।

सदाहशूलं कृच्छ्रेण कफासृगुपवेश्यते ॥। ४० ॥

पिच्छाबस्तिर्हितग्तत्र पयसा चैव भोजनम् ।

सर्पिर्मधुरकैः सिद्धं तैलं चाप्यनुवासनम् ॥। ४१ ॥

अतितीक्ष्णो निरूहो वा सवाते चानुवासनः ।

हृदयस्योपसरणं कुरुते चाङ्गपीडनम् ॥ ४२ ॥

दोषैस्तत्र जस्तास्ता मदो मूर्च्छाङ्गगौरवम् ।

सर्वदोषहरं बस्ति शोधनं तत्र दापयेत् ॥ ४३ ॥

रूक्षस्य बहुवातस्य तथा दुःशयितस्य च ।

बस्तिरङ्गग्रहं कुर्य्याद्र्क्षो मृदूल्पभेषजः ॥ ४४ ॥

तत्राङ्गसादः प्रस्तम्भो जृम्भोद्वेष्टनवेपकाः ।

पर्वभेदश्च तत्रेष्ठाः स्वेदाभ्यञ्जनबस्तयः ॥ ४५ ॥

प्रत्युष्णतीक्ष्णोऽतिब हुर्दत्तोऽतिस्वेदितस्य च ।

अल्पदोषस्य वा बस्तिरतियोगाय कल्पते ॥ ४६ ॥

विरेचनातियोगेन समानं तस्य॒ लक्षणम् ।

पिच्छाबस्तिप्रयोगश्च तत्र शीतः सुखावहः ॥ ४७ ॥

प्रतियोगात्परं यत्र जीवादानं विरिक्तवत् ।

देयस्तत्र हितश्चापि पिच्छाबस्तिः सशोणितः ॥ ४८ ॥

नवैता व्यापदो यास्तु निरूहं प्रत्युदाहृताः । १ पिच्छा बस्ति वक्ष्यमाणः । २ अङ्गसादः = अङ्गग्लानिः । ३ यथा वातस्य तोदादयः, पित्तस्य श्रोषचोषादयः, कफस्य कड्वादय इत्यर्थः । ४ यतः शोधनेन ऊर्ध्वगतदोषस्याधोनयनं भवतीति तात्पर्यम् । ५ पर्वभेदः = प्रन्थिस्फुटनम् । ६ शीतोपचारश्चापि बोध्यः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 927

सुश्रुत संहिता चौखम्बा, पृष्ठ 927 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३७ ] II ४ ९ चिकित्सास्थानम् । ७६ ९ सप्तत्रिंशत्तमोऽध्यायः । षट्त्रिंशत्तमोऽध्यायः । सप्तत्रिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri स्नेहबस्तिष्वपि हि ता विज्ञेयाः कुशलैरिह ॥ ४ ९ ॥

इत्युक्ता व्यापदः सर्वाः सलक्षणचिकित्सिताः ।

भिषजा च तथा कार्य्यं यथैता न भवन्ति हि ॥ ५० ॥

पक्षाद्विरेको वान्तस्य ततश्चापि निरूहणम् ।

सद्यो निरूढोऽनुवास्यः सप्तरात्राद्वि रेचितः ॥ ५१ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिव्यापच्चिकित्सितं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥

अथातोऽनुवासनोत्तरबस्ति चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

विरेचनात् सप्तरात्रे गते जातबलाय वै ।

कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ॥ ३ ॥

यथावयो निरूहाणां या मात्राः परिकीर्त्तिताः । १ भिषजा सम्यग् विचार्य एतादृशी चिकित्सा काय यथैतासां व्यापदामुत्पत्तिरेव न स्यादित्यर्थः । २ क्रमेण क्रियमाणानां वमनादिपञ्चकर्मणां कालावधिं दर्शयति — पक्षादिति । पक्षान्नार्वा नापि परतः । ३ विरेचितस्तु सप्ताद्दात्परतोऽनुवास्यो नार्वाक् । तदुक्त • मनन्तरेऽग्रेऽध्याये— “ विरेचनात्सप्तरात्रे गते जातबलाय वै । कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ॥ ” इति । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां ४ " सद्यो निरूढोऽनुवास्यः सप्तरात्राद्विरेचितः ” इति सङ्क्षेपेण यदुक्तं तद्वि-स्तरेण बोधनार्थमयमध्याय श्रारभ्यते — अथात इति । अनुवासनं = स्नैहबस्तिः । ५ विरेचनात्सप्ताहानन्तरमनुवासनविधिमभिधत्ते - विरेचनादिति । ६ कृतान्ना • य = कृताहारायेत्यर्थः । ७ अनुवासनवस्तिमात्रां दर्शयति - यथेति । वयोऽत्रस्थाम-नतिक्रम्येति यथावयः ।

पृष्ठ 928

सुश्रुत संहिता चौखम्बा, पृष्ठ 928 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७७० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३७ पादावकृष्टास्ताः कार्य्याः स्नेहवस्तिषु देहिनाम् ॥ ४ ॥

उत्सृष्टानिलविण्मूत्रे नरे बस्ति विधापयेत् ।

एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते ॥ ५ ॥

स्नेहवस्तिविधेयस्तु नाविशुद्धस्य देहिनः ।

स्नेहवीर्य्यं तथा दत्ते देहं चानुविसर्पति ॥ ६ ॥

अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम् ।

पानान्वासननस्येषु यानि हन्युर्गदान् बहून् ॥ ७ ॥

शैटीपुष्कर कृष्णाह्वामदनामरदारुभिः ।

शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः ॥ ८ ॥

सुपिष्टैर्द्विगुणं चीरं तैलं तोयचतुर्गुणम् ।

पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम् ॥ ९ ॥

स ग्रहणदोषमाना विषमज्वरम् ।

कट्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत् ॥ १२ ॥

वंचा पुष्कर कुष्ठै लामदनामरसिन्धुजैः ।

काकोलीद्वययष्ट्याहृमेदायुग्मनराधिपैः ॥ ११ ॥

पाठाजीवकजीवन्तीभार्गीचन्दनकट्फलैः ।

सरलाऽगुरुबिल्वाम्बुवाजिगन्धाऽग्निवृद्धिभिः ॥ १२ ॥

१ पादैस्त्रिभिरवकृष्टा न्यूना इति पादावकृष्टशः, चतुर्भागावशिष्टा, इत्यर्थः । “ उत्तमा स्यात्पलैः षड्भिर्मध्यमा स्यात् पलैस्त्रिभिः । पलाध्यर्थेन होना स्यादुक्का मात्राऽनुवा • सने ॥ ” इति भावमिश्रः । २ अनुवासनबस्तेः पूर्वकर्म निर्दिशति - उत्सृष्टेति । ३ प्रतिपद्यते = नैवान्तः प्रविशतीत्यर्थः । ४ अन्त्रासनम् = अनुवासनम् । ५ श्रनुवासनार्थं शटयादितैलं निर्दिशति -- शटीति । तैलमिदं प्रायशो वातरो. गेषु । शटी = ' कचूर ' इति ख्याता । पुष्करं - पुष्करमूलम्, कृष्णाह्वा = पिप्पली, मदनं = मदनफलम् । ६ हुताशनः = चित्रकः । ७ बचादिद्वितीय तैलं निर्दिशति-वचेति । इदमपि वातरोगेषु । श्रमरः = देवदारुः, सिन्धुजं = सैन्धवम् । काकोली-द्वयं = काकोलीक्षीरकाकोलीति द्वितयम्, मेदायुग्मं = मेदामहामेदाऽऽख्यम्, नराधिपः = आरग्वधः । ९ सरला = त्रिवृत्, अगुरु = ' अगर ' इति, अम्बु = ' नेत्रबाला ' इति, वाजि. गन्धा = ' असगन्ध ' इति, श्रग्निवृद्धिः = ' चीता ' इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 929

सुश्रुत संहिता चौखम्बा, पृष्ठ 929 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३७ ] Digitized by चिकित्सा Chennai and eGangotri ७७१

विडङ्गारग्वधश्यामात्रिवृन्मार्गधि कार्धिभिः ।

पिष्टैस्तैलं पचेत् क्षीर पञ्चमूलरसान्वितम् ॥ १३ ॥

गुल्मानाहारिनपङ्गाशग्रहणीमूत्रसङ्गिनाम् ।

अन्वासनविधौ युक्तं शस्यतेऽनिलरोगिणाम् ॥ १४ ॥

चित्रैकातिविषापाठादन्तीबिल्ववचामिषैः ५ ।

सरलां शुर्मतीरास्नानीलिनीचतुरङ्गलैः ॥ १५ ॥

चव्याजमोद काकोलीमेदा युग्मसुरद्रुमैः ।

जीवकर्षभर्वर्षाभू बस्तगन्धाशताह्वयैः ॥ १६ ॥

रे श्वगन्धामञ्जिष्टाशटी पुष्कर तस्करैः.१० ' सक्षीरं विपचेत्तैलं मारुतामयनाशनम् ॥ १७ ॥

गृध्रसीखञ्ज ' ' कुब्जाढ्यमूत्रोदावर्त्त रोगिणाम् ॥ शस्यतेऽल्पबलाग्नीनां बस्तावाशु नियोजितम् ॥ १८ ॥

१ १२ भूतिकैरण्डवर्षाभू रास्नावृपकरोहिषैः ५३ ।

१४ दशमूलसहाभार्गीषड्यन्थाऽमरदारुभिः ॥ १ ९ ॥

बलानागबलामूर्वा वाजिगन्धाऽमृताद्वयैः " ।

१६ सहाचरवरीविश्वाकाकनासाविदारिभिः ॥ २० ॥

१ मागधिका = पिप्पली, ऋद्धिः वृद्धिश्चेति स्वनाम्ना प्रसिद्धम् । २ क्षीरमत्र तैलसमम् । पञ्चमूलं विश्वादिपञ्चमूलं तस्य रसेन काथेन चतुगुणेनान्त्रितमित्यर्थः । ३ अग्निषङ्गः = अग्निमान्धम्, मूत्रसङ्गः - 1 मूत्रकृच्छम् । ४ चित्रकादितृतीय तैलं निर्दिशति - चित्रकेति । एतत्तैलमपि वातरोगेषु । ५ श्रामिषं = गुग्गुलुः, जटामासीति हाराणचन्द्रः । ६ अंशुमती = शालपणीं । ७ मे. दायुग्मं = मैदा महामेदा चेति । एतदभावे श्रश्वगन्धा सारिवा च देया । ८ वर्षाभूः = -रक्तपुनर्नवा, बस्तगन्धा = अजगन्धा । ९ रेणुः = रेणुका, निर्गुण्डीबीजमित्यर्थः । १० तस्करः = चोरपुष्पी । ११ आढ्यः = श्रढयवातः, ऊरुस्तम्भ इति यावत । १२ भूतिकादिचतुर्थ तैलमभिधत्ते - भूतिकेति । प्रायशो वातरोगेषु तैलमिदम् । भूतिकं = कत्तृणम्, ' स्याद् भूतिकं तु भूनिम्बे दीप्यभूस्तृणकत्तृणे ' इति मेदिनी । भूतिकं यमानीति सुश्रुतार्थसन्दीरनम् । १३ रोहिषः = रोद्दिषतृणम्, गन्धतृणमिति यावत् । Y १४ सहा = मुद्गपर्णी । १५ अमृताह्वया = गुडूची । १६ सहाचरः = नीलझिण्टी, वरी = शतावरी, नामैकदेशे नाममात्र ग्रहणात् । विश्वा = शुण्ठी का कासा = वाय सफला । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 930

सुश्रुत संहिता चौखम्बा, पृष्ठ 930 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Rized by Arya Samaj Founda सुश्रुत संहितायां cangotri [ अ ० ३७

यवमाषात सीकोलकुलत्थैः क्वथितैः श्रुतम् ।

जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम् ॥ २१ ॥।

जङ्घोरुत्रिकपार्वांसबाहुमन्याशिरःस्थितान् ।

हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम् ॥ २२ ॥

जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः ।

ऋषभातिविषाकृष्णाकाकनासावचाऽमरैः ॥ २३ ॥

रास्नामदनयष्ट्याह्वसरलाऽभीरुचन्दनैः 1: 1 स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः ॥ २४ ॥

पिष्टैस्तैलघृतं पक्वं क्षीरेणाष्टगुणेन तु ।

तच्चानुवासने देयं शुक्राग्निबलवर्धनम् ॥ २२ ॥

बृंहणं वातपित्तघ्नं गुल्मानाहहरं परम् ।

नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम् ॥ २६ ॥

मधुकोशीरकाश्मय्यकटुकोत्पलचन्दनैः ।

श्यामापद्मकजीमूत शक्राद्वाऽतिविषाऽम्बुभिः ॥ २७ ॥

तैलपादं पचेत् सांपः पयसाऽष्टगुणेन च ।

न्यग्रोधादिगणक्काथयुक्तं बस्तिषु योजितम् ॥ २८ ॥

दाहासृग्दरवीसर्पवातशोणितविद्रधीन् ।

पित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान् ॥ २ ९ ॥

१ “ जीवकर्षभको मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषपण्य जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्ति " इति चरकः । २ जीवन्त्यादिपञ्चमं तैलमभिदधाति — जीवन्तीति । ' जीवन्तो ' इति नाम्नैव ख्याता । ३ श्रमरः = देवदारुः । ४ अभीरुः = शतावरी । ५ स्वङ्गुप्ता = श्रात्म-' गुप्ता, ' केवांछ ' इत्युक्षुष्यते । कलसी = पृश्निपर्णी । जीवन्त्यादितैलमिदं पित्तरक्तरो-गार्दितेषु बोद्धयम् । ६ मधुकादिषष्ठतैलं ब्रवीति - मधुकेति । मधुकः = ' मुलइटी ' इति ख्यातः । ७ जीमूतः = ' मोथा ' इति, अतिविषा = ' अतीस ' इति बोध्या । अम्बु = ' नेत्रवाला ' इति बोध्यम् । ८ तैलस्य पादश्चतुर्थीशो यस्मिन् सर्पिषि तत्तैलपादम् । ९ न्यग्रोधादिगणो द्रव्यसङ्ग्रहणीयाध्यायोक्तः । इदं मधुकादितैलमपि पित्तरक्तरोगा • दितेषु बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar