सुश्रुत संहिता चौखम्बा — पृष्ठ 931–940

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 931–940

पृष्ठ 931

सुश्रुत संहिता चौखम्बा, पृष्ठ 931 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३७ ] Digitized bf किल्लास्थानम् Chennai and _७७३

मृणालोत्पलशालूकसारिवाद्वयकेशरैः ।

चन्दनद्वयभूनिम्बपद्मबीजकसेरुकैः ॥ ३० ॥

पटोलकटुकारक्तौ गुन्द्रापर्पटवासकैः ।

पिष्टैस्तैलमिदं पक्कं तृणमूलँर सेन च ॥ ३१ ॥

क्षीरद्विगुणसंयुक्तं बस्तिकर्मणि योजितम् ।

नस्येऽभ्यञ्जनपाने वा हन्यात् पित्तगदान् बहून् ॥ ३२ ॥

त्रिफलौऽतिविषामर्वात्रिवृच्चित्रकवासकैः ।

निम्बारग्बध षड्यन्थासप्तपर्णनिशाद्वयैः ॥ ३३ ॥

गुडूचीन्द्रसुराकृष्णाकुष्ठसर्षपनागरैः ।

तैलमेभिः समैः पक्कं सुरसादिरसाप्लुतम् ॥ ३४ ॥

पानाभ्यञ्जनगण्डूषनस्य बस्तिषु योजितम् ।

स्थूलताऽऽलस्यकण्ड्वादीन् जयेत्कफकृतान् गदान् ॥ ३५ ॥

पौठाजमोदाशार्ङ्गष्टापिप्पलोद्वयनागरैः ।

सरलाऽगुरुकालीयभार्गीचव्यामरद्रुमैः " ॥ ३६ ॥

मरिचैलाऽभयाक ट्वीशटीग्रन्थिककट्फलैः ।

तैलमेरण्डतैलं वा पक्कमेभिः समायुतम् ॥ ३७ ॥

" वल्लीकण्टकमूलाभ्यां क्वाथेन द्विगुणेन च । १२ १ मृणालादिसप्तमर्तेलमभिदधाति - मृणालेति । शालूकः = कमलकन्दः । २ भू-निम्बः = ' चिरायता ' इति प्रसिद्धः । ३ रक्ता = मञ्जिष्ठा, गुन्द्रा = भद्रमुस्तकः । ४ तृणमूलं कुशादितृणपञ्चमूलं तस्य रसेन क्वाथेनेत्यर्थः । इदमपि पित्तरक्तरोगार्दितेषु बोध्यम् । ५ त्रिफलाद्यष्टमतैलं निर्दिशति - त्रिफलेति । " एका हरीतकी योज्या द्वौ च योज्यौ विभीतकौ । चरखार्या मलकान्येवं त्रिफलैषा प्रकीर्तिता " इति शार्ङ्ग-धरः । ६ षड्ग्रन्था = ' पिपरामूल ' इति ख्याता, सप्तपर्णः = ' सतवन - सातला ' इति ख्यातः । निशाद्वयं = हरिद्राद्वितयम् । ७ इन्द्रसुरा इन्द्रवारुणी, कृष्णा = पिप्पली । ८ सुरसादिगणो द्रव्यसङ्ग्रहणीये द्रष्टव्यः । त्रिफलादितैलमिदं कफग्रस्तेषु, एवमनन्त-रोक्तपाठादितैलमपि । ९ पाठादिनवमतैलमाह - पाठेति । शार्ङ्गष्टा = गुआ । १० अमरद्रुमः = देवदारुः । ११ कट्वी = कटुका, ग्रन्थिकः = ' पिपरामूल ' इति ख्यातः । १२ विदार्यादिपञ्चमूलं वल्लीसंज्ञकं, करमर्दादिपञ्चमूलं कण्टकसंज्ञं च द्रव्यसङ्ग्रहणीयाध्यायेऽवलोकनीयम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 932

सुश्रुत संहिता चौखम्बा, पृष्ठ 932 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation! सुश्रुतसंहिता Gangotri [ अ ० ३७ हन्यादन्वासनैदत्तं सर्वान् कफकृतान् गदान् ॥ ३८ ॥

विडेङ्गोदीच्य सिन्धूत्थशटीपुष्करचित्रकैः ।

कट्फलातिविषाभागवचाकुष्ठसुराह्वयैः ॥ ३ ९ ॥

मेदामदनयष्टचाश्यामानिचुले नागरैः ।

शताह्वानीलिनीरास्नाकलंसीवृषरेणुभिः ॥ ४० ॥

बिल्वाजमोदकृष्णाह्वादन्तीचव्यनैराधिपैः ।

तैलमेरण्डतैलं वा मुष्ककादिरसाप्लुतम् ॥। ४१ ॥

प्लोहोदावर्त्तंवातासृग्गुल्मानाहकफामयान् ।

प्रमेहशर्कराऽर्शासि हन्यादाश्वनुवासनैः ॥ ४२ ॥

अंशुद्धमपि वातेन केवलेनातिपीडितम् ।

अहोरात्रस्य कॉलेषु सर्वेष्वेवानुवासयेत् ॥ ४३ ॥

रूक्षस्य बहुवातस्य द्वौ त्रीनप्यनुवासनम् ।

दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत् ॥ ४४ ॥

अस्निग्धमपि वातेन । केवलेनातिपीडितम् ।

स्नेहप्रगाढ मतिमान्निरूहैः समुपाचरेत् ॥ ४५ ॥

अथ सम्यङ्निरूढं तु वातादिष्वनुवासयेत् ।

बिल्वयष्ट्याह्नमदनफलतैलैर्यथाक्रमम् " ॥ ४३ ॥

रात्रौ ' ' बस्तिं न दद्यात्तु दोषोत्क्लेशो " हि रात्रिजः । १ विडङ्गादिदशमतॆलमभिधत्ते - विडङ्गेति । विडङ्गादितैलमिदं कफभूयिष्टे वाते प्रयोज्यम् । उदीच्यं - सुगन्धवाला, सिन्धूत्थं = सैन्धवम् । २ निचुलः = जलवे • तसः । ३ कलसी - पृश्निपर्यो । ४ नराधिपः = आरग्वधः । ५ मुष्ककादि • र्द्रव्यसङ्ग्रहणीयाध्यायोक्तो गणः । ६ वातातिकोपेऽशुद्धस्याप्यनुवासनविधिमुप. दिशति - अशुद्धमिति । श्रनिर्हृतमलादिनाऽशुद्ध मित्यर्थः । ७! पूर्वाह्लादिषु काले-ष्वित्यर्थः I निर्दिशति-। द्वौ त्रीन् वारानित्यर्थः । ९ निरूहणानन्तरकर्म अथेति। १० क्रममनतिक्रम्येति यथाक्रमम् । यथा - वाते विश्त्रतैलं, पित्ते यष्ट्याह्न • तैलं, श्लेष्मणि मदनफल तैलमित्यर्थः । ११ रात्री बस्तिदानं निषेधति - रात्रा. विति । १२ दोषोत्क्लेशः = दोषधातुमलेषु विक्लेदनलक्षण उत्क्लेशः । तदुक्तम्– " विशुद्धे तु हृदये निशि क्लिन्नेषु धातुषु । विदग्धेऽन्नरसे स्रोतस्सूपलिप्तेषु देहिनाम् । व्यापारेभ्यो निवृत्तानां दोषोत्क्लेशो भवेदिति ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 933

सुश्रुत संहिता चौखम्बा, पृष्ठ 933 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३७ ] Digitized by A चिकस Chennai and eGangotri स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम् ॥ ४७ ॥

अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते ।

स्फुटस्रोतोमुखे देहे स्नेहौजेः परिसर्पति ॥ ४८ ॥

पित्तेऽधिके कफे क्षीणे रूक्षे वातरुगर्दिते । ७७५ नरे रात्रौ च दातव्यं काले चोष्णेऽनुवासनम् ॥ ४ ९ ॥

उष्णे पित्ताधिके वाऽपि दिवा दाहादयो गदाः ।

सम्भवन्ति यतस्तस्मात् प्रदोषे योजयेद्भिषक् ॥ ५० ॥

शीते वसन्ते च दिवा ग्रीष्मप्रावृडूघनात्यये ।

स्नेह्यो दिनान्ते पानोक्तौन् दोषान् परिजिहीर्षता ॥ ५१ ॥

अहोरात्रस्य कालेषु सर्वेष्वेवानिलाधिकम् ।

तीत्रायां रुजि जीर्णान्नं भोजयित्वाऽनुवासयेत् ॥ ५२ ॥

चाभुक्तवतः स्नेहः प्रणिधेयः कथञ्चन ।

शुद्धत्वाच्छ्रन्य कोष्ठस्य स्नेह ऊर्ध्वं समुत्पतेत् ॥ ५३ ॥

सदाऽनुवासयेच्चापि भोजयित्वाऽऽर्द्रपाणिनम् ।

ज्वरं विदग्धभुक्तस्य कुर्य्यात् स्नेहः प्रयोजितः ॥ ५४ ॥

न चातिग्निग्धमशनं भोजयित्वाऽनुवासयेत् ।! मदं मूर्च्छा च जनयेद् द्विधास्नेहः प्रयोजितः ॥ ५५ ॥

रूक्षं भुक्तवतो ह्यन्नं बलं वर्णं च हापयेत् ।

युक्त स्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत् ॥ ५६ ॥।

१ दिवा बस्तिदानगुणं सहेतुकं दर्शयति- अह्नीति | २ स्नेहौजः = स्नेहब -लम्, परिसर्पति = अनुक्रामति । ३ प्रागुक्तस्य रात्रिनिषिद्धस्य बस्तिदानस्यापवादमभिदधाति - पित्त इति । ४ रात्रौ = प्रथमप्रहरे इत्यर्थः । ५ पानोक्तान् = प्राक् स्नेहौपयौगिकाध्याये “ वा-तपित्ताधिकस्योष्णे ” इत्यादिना स्नेहपानाभिहितान्, परिजिहीर्षता - परिहर्तुमिच्छ तेत्यर्थः । तन्त्रान्तरे-- " शीतक ले दिवा स्नेहमुष्णकाले विवेन्निशि । वातपित्ताधिके रात्रौ वातश्लेष्माधिके दिवा ॥ ” इति । ६ भोजनं विना बस्तिकर्मणो निषेधं दर्शयति - नेति । ७ समुत्पतेत् = ऊर्ध्वं गच्छेत् । भोजनोत्तरमविलम्बितमनु-वासनार्थमुपदिशति – सदेति । ९ युक्तस्नेहं = किञ्चित्स्नेहम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 934

सुश्रुत संहिता चौखम्बा, पृष्ठ 934 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७७ by Arya Samaj Fou तसंहिताय ideGangotri यूषक्षीररसैस्तस्माद् यथाव्याधिमवेक्ष्य वा । [ अ ० ३७ यथोचितात् पादैहीनं भोजयित्वाऽनुवासयेत् ॥ ५७ ॥

अनुवास्यं स्वभ्यक्तमुष्णाम्बुवेदितं शनैः ।

भोजयित्वा यथाशास्त्रं कृतचङ्क्रमणं ततः ॥ ५८ ॥

विसर्ज्य च शकृन्मूत्रं योजयेत् स्नेहवस्तिना ।

प्रणिधानविधानं तु निरूहे सम्प्रवक्ष्यते ॥ ५ ९ ॥

ततः प्रणिहितस्नेह उत्तानो वाक्छतं भवेत् ।

प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति ॥ ६० ॥

ताडयेत्तलयोरेनं त्रींस्त्रीन् वारान् शनैः शनैः ।

स्फिचोश्चैनं ततः शय्यां त्रीन वारानुत्क्षिपेत् ततः ॥ ६१ ॥

एवं प्रणिहिते बस्तौ मन्दायासोऽथ मन्दवाक् ।

स्वास्तीर्णे शयने काममासीताचारिके रतः ॥ ६२ ॥

सं तु सैन्धवचूर्णेन शताह्वेन च योजितः ।

देयः सुखोष्णश्च तथा निरेति सहसा सुखम् ॥ ६३ ॥

यस्यानुवासनो दत्तः सकृदन्वक्षं माव्रजेत् ।

अत्यौष्ण्यादतितैक्ष्ण्याद्वा वायुना वा प्रपीडितः ॥ ६४ ॥

सवातोऽधिकमात्रो वा गुरुत्वाद् वा सभेषजः । ५१ तस्यान्योऽल्पतरो देयो न हि स्निह्यत्यतिष्ठति ॥ ६५ ॥

१ यथाव्याधि = व्याध्यनुरूपमित्यर्थः । २ " अर्धहीनं त्रिभागं वा भोजयि-त्वाऽनुवासयेत् ” इति तन्त्रान्तरोक्तत्वात् पादेन पादाभ्यां पादैर्वा हीनं पादहीनम् । ३ सङ्क्षेपेणानुवासनविधिमभिधत्ते - अथेति । ४ स्नेहवस्तिप्रणिधानवि. धानमित्यर्थः । ५ प्रणिहितस्नेहस्य पश्चात्कर्म प्रतिपादयति - तत इति । ६ ताडयेत् = स्नेहस्य सद्योबहिरागमननिवारणाय हन्यादित्यर्थः । स्नेहस्य शीघ्रागमन-रक्षार्थमेतद्विधानं चरकेऽप्युक्तम् - " ईषच्च पादाङ्गुलियुग्ममान्छेदुत्तानदेहस्य तलौ प्रमृज्यात् । स्नैद्देन पार्ण्यङ्गुलिपिण्डिकाश्च ये चास्य गात्रावयवा रुगार्ताः ॥ तांश्चाव • मृगीत सुखं ततश्च निद्रामुपासीत कृतोपधानः " इति । तल्योः = हस्तपादतलयोः । ७ उत्क्षिपेत् = आतुरेण सदो नयेत् । ८ सः = स्नेहः । ९ शीघ्रं प्रत्यावृत्त. ऽनुवासने चिकित्सामाह - यस्येति । १० अक्षस्य यन्त्रस्य अनु पश्चादित्यन्वक्षम्, तत्क्षणादिति तात्पर्यम् । ११ अतिष्ठति स्नेहे न हि स्निह्यतीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 935

सुश्रुत संहिता चौखम्बा, पृष्ठ 935 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३७ ] Digitized by f चकित्सास्थानम् Chennai and eGangotri ७७७

विष्टब्धानिलविण्मूत्रः स्नेहहीनेऽनुवासने ।

दाहक्लमप्रवाहार्त्तिकरश्चात्यनुवासनः ॥ ६६ ॥

सौनिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु ।

ओषचोषौ विना शीघ्रं स सम्यगनुवासितः ॥ ६७ ॥।

जीर्णान्नमथ सोयाह्ने स्नेहे प्रत्यागते पुनः ।

लव्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि ॥ ६८ ॥

प्रातरुष्णोदकं देयं धान्यनागरसाधितम् ।

तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते ॥ ६ ९ ॥

स्नेहवस्तिक्रमेष्वेवं विधिमाहुर्मनीषिणः ।

अनेन विधिना षड् वा सप्त वाऽष्टौ नवैव वा ॥ ७० ॥

विधेया बस्तयस्तेषामन्तरा तु निरूहणम् ।

दत्तस्तु प्रथमो बस्तिः स्नेहृयेद्वस्तिवङ्क्षणौ ॥ ७१ ॥

सम्यग्दत्तो द्वितीयस्तु मूर्द्धस्थमनिलं जयेत् ।

जनयेद् बलवर्णौ च तृतीयस्तु प्रयोजितः ॥ ७२ ॥

रसं चतुर्थो रक्तन्तु पञ्चमः स्नेहयेत्तथा ।

षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च ॥ ७३ ॥।

अष्टमी नवमश्चास्थि मज्जानं च यथाक्रमम् ।

एवं शुक्रंगतान् दोषान् द्विगुणः साधु साधयेत् ॥ ७१ ॥

१ सम्यगनुवासितस्य लक्षणं वक्ति - सानिल तु इति । २ सायाह्ने, न पूर्वाह्णे इति भावः । ३ वक्ष्यमाणस्नेहवस्तिक्रमेष्वित्यर्थः । ४ " त्रीन् पञ्च वाऽऽहुश्चतुरोऽथ षड् वा वातादिकानामनुवासनीयान् । स्नेहान् प्रदायाशु भिषग् विदध्यात् स्रोतोविशुद्ध्यर्थमतो निरूहान् ॥ ” इति चरकः । ५ स्नेहबस्तेः प्रथमादिदानेन कार्यं निरूपयति — दत्तस्त्विति । दोषभेदेनानु-वासनबस्तिनियममाह चरकः - " " एकं तथा त्रीन् कफजे विकारे पित्तात्मके पञ्च तु सप्त वाऽपि । वाते नवेकादश वा पुनर्वा बस्तीनयुग्मान् कुशलो विदध्यात् ॥ ” इति । जतूकर्णेऽपि — “ निरूहे व्युषिते भुक्तवतोऽनुवासनं पर द्वितीयेऽहनि पञ्च मे वा तथैका-दशाहेऽपकर्षतो द्वित्रिचतुरादिर्वातादिषूच्यते । " इति । ६ व्याधिसमुद्देशीयोक्तान् शुकगतान् दोषानित्यर्थः । द्विगुणः = अधादशसङ्ख्यः स्नेहवस्तिः, साधु, साधयेत् = स्नेहयेदित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 936

सुश्रुत संहिता चौखम्बा, पृष्ठ 936 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७७८ Digitized by Arya Saman मुख संहिताय and eGangotri [ अ ० ३७

अष्टादशाष्टादशकान् बस्तीनां यो निषेवते ।

यथोक्तेन विधानेन परिहारक्रमेण च ॥ ७५ ॥

स कुञ्जरबलोऽश्वस्य जवैस्तुल्योऽमरप्रभः ।

वीतपाप्मा श्रुतधरः सहस्रायुर्नरो भवेत् ॥ ७६ ॥

स्नेह बस्ति निरूहं वा नैकमेवातिशीलयेत् ।

स्नेहादग्निवधोत्क्लेशौ निरूहात् पवनाद्भयम् ॥ ७७ ॥

तस्मान्निरूढोऽनुवास्यो निरूह्यञ्चानुवासितः ।

नैवं पित्तकफोत्क्लेशौ स्यातां न पवनाद्भयम् ॥ ७८ ॥

रूक्षाय बहुबाताय स्नेहबस्ति दिने दिने ।

दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात् त्र्यहात् ॥ ७ ९ ॥

स्नेहोऽल्पमत्रो रूक्षाणां सर्वकालमनत्ययः ।

तथा निरूहः स्रिग्धानामल्पमात्रः प्रशस्यते ॥ ८० ॥

अतं ऊद्ध्व प्रवक्ष्यामि व्यापदः स्नेहवस्तिजाः ।

बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः ॥ ८१ ॥

अल्पवीर्यं तदा स्नेहमभिभूय पृथग्विधान् ।

कुर्वन्त्युपद्रवान् स्नेहः स चापि न निवर्त्तते ॥ ८२ ॥

-१ अनुवासनफलं दर्शयति- अष्टादशेति । श्रष्टादशाष्टादशकान् = षट्त्रिंशत · मित्यर्थः। २ बस्तिविधानम् – “ प्रक्षिप्य बस्तौ मथितं खजेन सुबद्धमुच्छ्वास्य च निर्वलोकम् । श्रृङ्गुष्ठमध्येन मुखं पिधाय नेत्राग्रसंस्थामपनीय वर्तिम् ॥ तैलाक्तगात्रं कृतमूत्रविट्कं नातिक्षुधार्तं शयने मनुष्यम् । समेऽथवेषन्नतशीर्षके वा नात्युच्छ्रिते स्वास्तरणोपपन्ने ॥ सव्येन पार्श्वेन सुखं शयानं कृत्वर्जुदेहं स्वभुजोपधानम् । सङ्कोच्य सव्येतरदस्य सक्थि वामं प्रसार्य प्रणयेत्ततस्तम् ॥ स्निग्धे गुदे नेत्रचतुर्थभागं स्निग्धं शनैर्ऋज्वनुपृष्ठवंशम् । अकम्पनावेपनलाघवादीन् पाण्योर्गुणांश्चापि विदर्शयंस्तम् ॥ प्रपीड्य चैकग्रहणेन दत्तं नेत्रं शनैरेव ततोऽपकर्षेत् । " इति चरकोक्तमपि बोध्यम् । परिहारक्रमेण = श्रातुरोपद्रवीयोक्तपरिहारानुक्रमेण । ३ अनुवासननिरूहयोरेकस्यै-वातिशीलने दोषं दर्शयति स्नेहेति । ४ स्नेहबस्तेरवस्थाविशेषेण प्रत्यहं विधि-मभिधत्ते - रुक्षायेति । ५ अग्न्याबाधभयात् = अग्निमान्द्य भीतेरित्यर्थः । ६ अल्पमात्रः = पादहीनोऽर्ध भागहीनो वेत्यर्थः । ७ वातादिदोषाभिभूतस्नेहवस्ति-व्यापदमाख्याति — अत इति । ८ सः = स्नेहः, न निवर्तते = = न गच्छति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 937

सुश्रुत संहिता चौखम्बा, पृष्ठ 937 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

STO 30 ] Digitized by Arya ' Sama चिकित्सास्थानम् Foundation Chennai | and eGangotri ७७ ९

तत्र वाताभिभूते तु स्नेहे मुखकषायता ।

जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वरः ॥ ८३ ॥

पित्ताभिभूते हे तु मुखस्य कटुता भवेत् ।

दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता ॥ ८४ ॥

श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता ।

गौरवं छर्दिरुच्छ्वासः कृच्छ्राच्छीतज्वरोऽरुचिः ॥ ८५ ॥

तत्र दोषाभिभूते तु स्नेहे वस्तिं निधापयेत् ।

यथास्वं दोषशमनान्युपयोज्यानि यानि च ॥ ८६ ॥

अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा तदा ।

गुरुरामाशयः शूलं वायोश्चाप्रतिसञ्चरः ॥ ८७ ॥

हृत्पीडा मुखवैरस्यं श्वासो मूर्च्छा भ्रमोऽरुचिः ।

तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते ॥ ८८ ॥

अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः ।

तदाऽङ्गसद्नाध्मानौ श्वासः शूलं च जायते ॥। ८ ९ ॥

पक्काशयगुरुत्वं च तत्र दद्यान्निरूहणम् ।

अतितीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम् ॥ ९ ० ॥

शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम् ।

गात्रेषु सर्वेन्द्रियाणामुर्पले पोऽवसादनम् ॥ ९ १ ॥

स्नेह्गन्धि मुखं तत्र का सश्वासावरोचकः ।

अतिपीडितवत्तत्र सिद्धिरास्थापनं तथा ॥ ९ २ ॥

१ उच्छ्वासः = ऊर्ध्वश्वासः । २ पूर्वोक्तव्यापच्चिकित्सामाचष्टे – तत्रेति । ३ यथास्वं = यथादोषप्रत्यनीकं स्नेह बस्ति निरूपस्ति वेत्यर्थः । ४ अत्याशिते स्नेहवस्तिव्यापदं तच्चिकित्सां च दर्शयति - अत्याशित इति । ५ दीपनः = श्रग्निसन्दीपनः । ६ अशुद्धस्यानुवासनदानै व्यापदं तच्चिकित्सा चाभिदधाति - अशुद्धस्येति । अशुद्धस्य = श्रकृत विरेचननिरूहस्येत्यर्थः । ७ शुद्ध-स्य दूरानुसृते स्नैहे व्यापदं तच्चिकित्सां च वक्ति - शुद्धस्येति । दूरानुसृते = आमाशयं प्रविष्टे । ८ उपलेपः = मलवृद्धिः । ९ स्नेहस्यैव गन्धोऽस्येति स्नेहगन्धि । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 938

सुश्रुत संहिता चौखम्बा, पृष्ठ 938 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७८० Sama Digitized by Arya Sa सुश्रुतसंहित या mai and eGangotri [ अ ० ३७

" अस्विन्नस्थाविशुद्धस्य स्नेहोऽल्पः सम्प्रयोजितः ।

शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवोहते ॥ ९ ३ ॥

विबन्धगौरवाध्मानशूलाः पक्काशयं प्रति ।

तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम् ॥ ९ ४ ॥

अल्पं भुक्तवतोऽल्पो हि स्नेहो मन्दगुणस्तथा ।

दत्तो नैति क्लमोत्क्लेशौ भृशं चारतिमावहेत् ॥ ९ ५ ॥

तत्राप्यास्थापनं कार्य्यं शोधनीयेन बस्तिना ।

अन्वासनञ्च स्नेहेन शोधनीयेन शस्यते ॥ ९ ६ ॥

अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति ।

कुर्याद्वस्तिगुणांश्चापि जीर्ण स्वल्पगुणो भवेत् ॥ ९ ७ ॥

यस्यै नोपद्रवं कुर्य्यात् स्नेहवस्तिरनिःसृतः ।

सर्वोऽल्पो वाऽऽवृतो रौस्यादुपेक्ष्यः स विजानता ॥ ९ ८ ॥

अनान्तं त्वहोरात्रात स्नेह संशोधनैर्हरेत् ।

स्नेहबस्तावनायाते नान्य: स्नेहो विधीयते ॥ ९९ ॥

इत्युक्ता व्यापदः सर्वाः सलक्षणचिकित्सिताः ।

वस्तेरुत्तरसंज्ञस्य विधिं वक्ष्याम्यतः परम् ॥ १०० ॥

" चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलसम्मितम् । १ अस्विन्नशुद्धयोरल्पादिस्नेहदाने व्यापदं तच्चिकित्सां च दर्शयति-- अस्वि • न्नस्येति । २ प्रवाइते = प्रवाहिकाऽऽर्त इव मन्दवेगं प्रवर्तते इत्यर्थः । ३ अल्पभु-क्तस्य मन्दगुणस्नेहदाने व्यापदं तच्चिकित्सां च निर्दिशति - अल्पमिति । ४ अ. रर्ति = चेत सोऽनवस्थितिम् । ' स्वाभीष्टवस्वलाभेन चेतसो याऽनवस्थिति: । अरतिः सा'इति । ५ न दुष्यति - न व्यापदं करोति । ६ अनुपद्रवकारिणः स्नैइबस्तेर निस्सरणे उपेक्षाकरणार्थमुपदिशति - यस्येति । ७ उपेक्ष्यः = श्रानयनाय यत्नं न कुर्यादित्यर्थः । ८ सोपद्रवस्य स्नेहवस्तिविषये ब्रवीति — अनायान्तमिति । अनायान्तम् = अनागच्छन्तमित्यर्थः । ९ नान्यः = शोधनार्थं निरूहब स्तिरेव नेतर इत्यर्थः । १० उत्तरबस्तिनेत्रप्रमाणं प्रतिपादयति - चतुर्दशेति । वाग्भटे नेत्रस्य द्वादशा-ङ्गुलमेव मानमुक्तम्– “ श्रातुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम् । वृत्तं गोपुच्छवन्मूल-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 939

सुश्रुत संहिता चौखम्बा, पृष्ठ 939 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३७ ] Digitized by Arya Sarr किस्सास्थानम् and eGangotri मालतीपुष्पवृन्ताग्रं छिद्रं सर्षपनिर्गमम् ॥ १०१ ॥

स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्त्तितः । ७८१ पञ्चविंशादधो मात्रां विदध्याद् बुद्धिकल्पिताम् ॥ १०२ ॥

निविष्टकर्णिकं मध्ये, नौरीणां चतुरङ्गुले ।

मूत्रस्रोतः परीणाहं मुद्गवाहि दशाङ्गुलम् ॥ १०३ ॥

मायामसमंकेचिदिच्छन्ति खलु तद्विदः ।

तासामपत्यमार्गे तु निदध्याच्चतुरङ्गुलम् ॥ १०४ ॥

द्व्यङ्गुलं मूत्रमार्गे तु कन्यानां त्वेकमङ्गुलम् ।

विधेयं चाङ्गुलं तासां विधिवद्वक्ष्यते यथा ॥ १०५ ॥

स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसम्मितम् ।

देयं प्रमाणं परममर्वाग्बुद्धिविकल्पितम् ॥ १०६ ॥

और भ्रः शौकरो वाऽपि बस्तिराजश्च पूजितः ।

तदलाभे प्रयुञ्जीत गलचर्म तु " पक्षिणाम् ॥ १०७ ॥

तस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा ।

५५ " अथातुरमुपस्निग्धं स्विन्नं प्रशिथिलाशयम् १२ ॥। १०८ ॥

मध्ययोः कृतकर्णिकम् ॥ सिद्धार्थकप्रवेशायं श्लक्ष्णं हेमादिसम्भवम् । कुन्दाश्वमार-सुमनः पुष्पवृन्तोपमं दृढम् ॥ ” इति । सप्ताङ्गुलं प्रणिधानप्रमाणम्, तदाह क्षार-पाणि: - " अङ्गुलान्यथ चत्वारि पञ्च षट् सप्त वा तथा । सप्ताङ्गुलं परं नेत्रं प्रणिधेयं भिषग्विदा ॥ हिंस्याद् बस्ति नरं चेह प्रमाणादधिकं ततः । ” इति । १ उत्तरबस्तिद्रव्यमात्रामुपदिशति - स्नेदेति । प्रकुचः = पलम्, चत्वारि तोल-कानीत्यर्थः । २ अधः = = अर्वागित्यर्थः । ३ स्त्रीणामुत्तरबस्तिनेत्रप्रमाणं दर्शयति— नारीणामिति । चतुरङ्गुले - चतुरङ्गुलावसाने । ४ परीणाहं = स्थौल्यम् । ५ स्त्री--णां मार्गभेदेन प्रणिधानविधिमभिधत्ते - तासामिति । ६ कभ्यानाम् = अप्राप्तार्तं -वानामित्यर्थः । “ मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम् ” इति वाग्भटः । ७ स्त्री. यामुत्तरबस्तिस्नेहमानमाइ ८ – स्नेहस्येति । प्रसृतमर्द्धाञ्जलिः । स्वाङ्गुलीमूल. सम्मितं प्रसृतं परममित्यर्थः । ९ स्त्रीणामुत्तरबस्तियोग्यबस्ति निरूपयति- औरभ्र इति । १० गृध्रादिपक्षिणामित्यर्थः । ११ पुरुषाणामुत्तरबस्तिप्रणिधान विधिमाख्याति - अथेति । १२ मलमूत्रनिर्ग-मेन शुद्धतया प्रशिथिलौ आशयौ यस्य तं प्रशिथिलाशयम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 940

सुश्रुत संहिता चौखम्बा, पृष्ठ 940 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७८२ Digitized by Arya Sama सुश्रुतसंहितायां and eGangotri [ अ ० ३७

यवागूं सघृतक्षीरां पीतवन्तं यथाबलम् ।

निषण्णमाजानुसमे पीठे सोपाश्रये समम् ॥ १० ९ ॥

स्वभ्यक्तबस्तिमूर्द्धानं तैलेनोष्णेन मानवम् ।

ततः समं स्थापयित्वा नालेमस्य प्रहर्षितम् ॥ ११० ॥

पूर्वं शलाकयाऽन्विष्य ततो नेत्रमनन्तरम् ।

शनैः शनैर्धृताभ्यक्तं विदध्यादङ्गुलानि षट् ॥। १११ ॥

मेढायामसमं केचिदिच्छन्ति प्रणिधानकम् ।

ततोऽवपीडयेद्वस्तिं शनैर्नेत्रं च निर्हरेत् ॥ ११२ ॥

ततः प्रत्यागतस्नेहमपराह्ने विचक्षणः भोजयेत् पयसा मात्रां यूषेणाथ रसेन वा ॥ ११३ ॥

अनेन विधिना दद्याद्वस्तींस्त्रींश्चतुरोऽपि वा ।

' ऊर्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः ॥ ११४ ॥

सम्यक्प्रपीडयेद्योनिं दद्यात् सुमृदुपीडितम् ।

त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति ॥ ११५ ॥

गर्भाशयविशुद्धयर्थं स्नेहेन द्विगुणेन तु ।

कौथप्रमाणं प्रसृतं स्त्रिया द्विप्रसृतं भवेत् ॥ ११६ ॥

कन्येतरस्याः, कन्यायास्तद्वंद्वस्तिप्रमाणकम् ।

अप्रत्यागच्छति भिषक् वस्तावुत्तरसंज्ञिते ॥ ११७ ॥

भूयो बस्ति निदध्यात्तु संयुक्तं शोधनैर्गणैः । १ उपाश्रयेण श्रवष्टम्भेन सहितः सोपाश्रयस्तस्मिन् । २ नालं = मेहनम् ३ डल्हणः - प्राग्दत्तस्नेह प्रत्यागमने कालान्तरितस्तदहरेव त्रिश्चतुर्वा मात्रां वर्धयित्वा स्नेहो देयः । एवं त्रीणि दिनानि स्नैद्दिकमुत्तरबस्ति दवान्यहमेव विश्रम्य पुन-त्र्यहं दद्यादाव्याधिनिवृत्तेः । तथा च वाव्भट: - " बस्ती स्त्रिरात्रमेवं च स्नेहमात्रां विवर्धयेत् । त्र्यहमेव च विश्रम्य प्रणिदध्यात् पुनस्त्र्यइम् ॥ ” इति । ४ स्त्रीणामुत्तरवस्तिप्रणिधानविधानमभिधत्ते – ऊर्ध्वेति । स्त्रियै = प्राप्तार्तवायैः इत्यर्थः । ५ स्वाङ्गुलीमूलसम्मितप्रसृतापेक्षया द्विगुणेनेत्यर्थः । ६ स्त्रीणां निरू. होत्तरवस्तिप्रमाणमाह— क्वाथेति । ७ तद्वत् = पुरुषवदित्यर्थः । उत्तरबस्तौ श्रनागच्छति स्नेहे प्रत्यागमनोपायं निरूपयति — अप्रत्यागच्छतीति । CC - 0. Gurukul Kangri Collection, Haridwar