सुश्रुत संहिता चौखम्बा — पृष्ठ 941–950

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 941–950

पृष्ठ 941

सुश्रुत संहिता चौखम्बा, पृष्ठ 941 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३७ ] Digitized by Ary र्व ध्वषिरसास्थाम phennai and eGangotri गुदे वर्त्तिं निदध्याद्वा शोधनद्रव्यसम्भृताम् ॥ ११८ ॥

प्रवेशयेद्वा मतिमान् बस्तिहारमथैषणीम् ।

पीडयेद्वाऽप्यधो नाभेर्बलेनोत्तर मुष्टिना ॥ ११ ९ ॥

आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च ।

कुर्याद्रोमूत्रपिष्टेषु वर्त्तर्वाऽपि ससैन्धवाः ॥ १२० ॥

सुद् गैलासर्षपसमाः प्रविभज्य वयांसि तु ।

• वस्तेरागमनार्थाय ता निध्याच्छलाकया ॥ १२१ ॥

आगारधूमवृहतीपिप्पलीफल सैन्धवैः । ७८३ कृतौ वा शुकगोमूत्रसुरापिष्टैः सनागरैः ॥ १२२ ॥

अनुवासन सिद्धञ्च वीक्ष्य कर्म प्रयोजयेत् ।

शर्करामधुमिश्रेण शीतेन मधुकाम्बुना ॥ १२३ ॥

दह्यमाने तदा बस्तौ दद्याद्वस्तिं विचक्षणः ।

क्षीरवृक्षकषायेण पयसा शीतलेन च ॥ १२४ ॥

शुक्रं दुष्टं शोणितं चाङ्गनानां पुष्पोद्रेकं तस्य नाशञ्च कष्टम् । मूत्राघातान्मूत्रदोषान् प्रवृद्धान् योनिव्याधिं “ संस्थितिं चापरायाः १२५ शुक्रोत्सेकं शर्करामश्मरीञ्च शूलं वस्तौ वङ्ङ्क्षणे मेहने च । घोरानन्यानवस्तिजांश्चापि रोगान् हित्वा मेहानुत्तरो हन्ति बस्तिः १२६ सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम " एव च । II बस्तेरुत्तरसंज्ञस्य समानं स्नेहवस्तिना ॥ १२७ ॥

इति सुश्रुतसंहितायां चिकित्सास्थानेऽनुवासनोत्तर बस्ति चिकित्सितं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥

१ शोधनद्रव्यसम्भृतां = विरेचनद्रव्यनिर्मिताम् । २ उत्तरमुष्टिना = मुष्टेरग्रभागेनै-त्यर्थः। ३ निदध्यात् = स्नेहापकर्षणार्थं प्रवेशयेदित्यर्थ ' । ४ फलं = मदनफलम् । ५ मुद्गादिप्रमाणा कृता वर्तिरित्यर्थः । ६ स्फिक्ताडनादिकं कर्मेत्यर्थः । ७ बस्ति-दाहे चिकित्सां दर्शयति — शर्करेति । = मधुकाम्बुना = मधुयष्टिक्काथेन । अत्र योगत्रयम् । त्रिष्वपि ' शर्करामधुमिश्रेण ' इत्यस्य सम्बन्धः ९ उत्तरबस्तिफलमभिदधाति - शुक्रमिति । पुष्पोद्रेकः = ऋतो-रसमये प्रवृत्तिः । १० संस्थितिः = निर्गमावरोधः । ११ क्रमः = चिकित्सेत्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां सप्तत्रिंशत्तमोऽध्याय CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 942

सुश्रुत संहिता चौखम्बा, पृष्ठ 942 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७८४by Arya Samaj Fo Fot सुश्रुतसंहितायां angotri अष्टत्रिंशत्तमोऽध्यायः । [ अ ० ३८ अथातो निरूहक्रमचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अथानुवासितमास्थापयेत् । स्वभ्यक्तस्विन्नशरीरमुत्सृष्टबहिर्वे-गमवाते शुचौ वेश्मनि मध्याह्ने प्रतंतायां शय्यायामधः सुपरिग्रहायां श्रोणीप्रदेशव्यूढायामनुपधानायां वामपार्श्वशायिन माकुचितदक्षि ग्णसक्थिमितरप्रसारितसक्थि सुमनसं जीर्णान्नं वाग्यतं सुनिषण्ण-देहं विदित्वा ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गलि भ्यां कणिकामुपरि निष्पीड्य, सव्यपारिणकनिष्ठिकाऽनामिकाभ्यां बस्तेर्मुखार्द्ध सङ्कोच्य, मध्यमा प्रदेशिन्यङ्गुष्टैरर्द्धन्तु विवृतास्यं कृ-स्वा, बस्तावौषधं प्रक्षिप्य, दक्षिणहस्ताङ्गुष्ठप्रदेशिनीभ्यां चानुसिक्त-मनीयतमबुद्बुदद्मसङ्कचितमवातमौषधासन्नमुपसङ्गृह्य, पुनरि-तरेण गृहीत्वा दक्षिणेनावसिञ्चेत् । ततः सूत्रेणैवोपधान्ते द्वित्रि-र्वाऽऽवेष्ट्य बध्नीयात् । अथ दक्षिणेनोत्तानेन पाणिना बस्ति गृही-त्वा वामहस्तमध्यमाङ्गुलिप्रदेशिनीभ्यां नेत्रमुपसङ्गृह्याङ्गुष्ठेन नेत्र-द्वारं पिधाय, घृताभ्यक्ताप्रनेत्रं घृताक्तगुदाय प्रयच्छेदनुपृष्ठवंशं सम-मुन्मुखमाकर्णिकं नेत्रं प्रैणिधत्स्वेति ब्रूयात् ॥ ३ ॥

बस्ति सव्ये करे कृत्वा दक्षिणेनावपीडयेत् ।

एकेनैवावपीडेन न द्रुतं न विलम्बितम् ॥ ४ ॥

ततो नेत्रमपनीय त्रिंशन्मात्राः " पीडनकालादुपेक्ष्योत्तिष्ठेत्या -ः अष्टत्रिशत्तमोऽध्यायः । १ “ कषायक्षीरतैलैर्यो निरूहः स निगद्यते ” निरूहस्य क्रमोऽनुक्रमः स एव चिकित्सितमिति निरूहक्रमचिकित्सितम् । २ निरूप्रणयनविधानमभिधत्ते-स्वभ्यक्तेति । ३ प्रतताय = स्तब्धायाम् ४ श्रशयद्वारस्य वामपाश्र्वाश्रयित्वा • दिति ५ ' वामं शरीरे सव्यं स्थात् ' इत्यमरः 1 ६ अनायतं = सारम् । दीर्घतारहितम् । ७ अवातं = भेषजप्रदानेन निस्सारितवात । ८ इतरेण = वामपा-खिना । ९ नेत्रं प्रणिधत्स्व प्रवेशयेत्यातुरं प्रति भिषग् ब्रूयादिति सम्बन्धः । १० मात्रालक्षणम् — “ कालेन यावता पाणिः पर्येति जानुमण्डले । सा मात्रा CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 943

सुश्रुत संहिता चौखम्बा, पृष्ठ 943 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Chennai अ ० ३८ ] Digitized by Aryf च किसास्थानम् apnai and eGangotri ७८२ तुरं ब्रूयात् । अथातुरमुपवेशये दुत्कुटुकं बस्त्यागमनार्थम् । निरूह-प्रत्यागमनकालस्तु मुहूत्र्त्तो भवति ॥ ५ ॥

अनेन विधिना वस्तिं दद्याद्वस्तिविशारदः ।

द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः ॥ ६ ॥

सम्यङ् निरूढलिङ्गे तु प्राप्ते बस्ति निवारयेत् ।

विशेषात् सुकुमाराणां हीन एव क्रमो हितः ॥ ७ ॥

अपि हीनक्रमं कुर्यान्न तु कुर्यादतिक्रमम् ।

यस्यै स्याद् बस्तिरल्पोऽल्पवेगो हीनमलानिलः ॥ ८ ॥

दुर्निरूढः स विज्ञेयो मूत्रार्त्त्यरुचिजाड्यवान् ।

यौन्येव प्राङ् मयोक्तानि लिङ्गान्यतिविरेचिते ॥ ९ ॥

तान्येवातिनिरूढेऽपि विज्ञेयानि विपश्चिता ।

यस्य क्रमेण गच्छन्ति विपित्तकफवायवः ॥ १० ॥

लाघवं चोपजायेत सुनिरूढं तमादिशेत् ।

सुनिरूढं ततो जन्तुं स्नातवन्तं तु भोजयेत् ॥ ११ ॥

पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात् ।

सर्वं वा जाङ्गलरसैर्भोजयेद्विकारिभिः ॥ १२ ॥

त्रिभागहीनमर्द्धं वा हीनमात्रमथापि वा ।

यथाऽग्निदोषं मात्रेयं भोजनस्य विधीयते ॥ १३ ॥

अनन्तरं ततो युञ्ज्याद्यर्थास्वं स्नेहवस्तिना ।

विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः ॥। १४ ॥

आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम् । कविभिः प्रोक्ता ह्रस्वदीर्घप्लुते मता " ॥ पराशरः – ' जानु मण्डलमावेष्टय दत्ते दक्षिण-पाणिना । कृष्टनेत्र श्टाशब्दशतं तिष्ठेदवेगवान् ॥ ” इति । १ मुहूर्तः = घटिकाद्वयम् । २ निरूहातियोगं निषेधति - विशेषादिति । ३ दुर्निरूढलक्षणमा ख्याति -यस्येति । ४ अतिनिरूढलक्षणमाख्याति - यानीति । ५ शूलगुदभ्रं शकफातियो -गादीनि लिङ्गानीत्यर्थः । ६ सुनिरूढलक्षणमाचष्टे – यस्येति । ७ सुनिरूढस्य पश्चारकर्म निर्दिशति-सुनिरूढमिति । ८ यथास्वं = वातादिदोषानुकूलम् । ९ निरूद्दानुवासनयोः ५० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 944

सुश्रुत संहिता चौखम्बा, पृष्ठ 944 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्रुतसंहितायां = Digitized by Arya Samaj Foundabon Chernal and eGangotri [ अ ० ३८ तर्दहस्तस्य पवनाद्भयं बलवदिष्यते ॥ १५ ॥

रसौदनस्तेन शस्तस्तदहश्चानुवासनम् ।

पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम् ॥ १६ ॥

अन्नोपस्तम्भिते कोष्ठे स्नेहवस्तिर्विधीयते ।

अनौयान्तं मुहूर्त्ता निरूहं शोधनैर्हरेत् ॥ १७ ॥

तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः ।

विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम् ॥ १८ ॥

शूलारैतिज्वरानाहं मरणं वा प्रवर्त्तयेत् ।

नं तु भुक्तवते देयमास्थापनमिति स्थितिः ॥ १ ९ ॥

विसूचिकां वा जनयेच्छर्दि वाऽपि सुदारुणाम् ।

कोपयेत् सर्वदोषान् वा तस्माद् दद्याद्भोजिते ॥ २० ॥

" जीर्णान्नस्याशये दोषाः पुंसः " प्रव्यक्तिमागताः ।

निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः ॥ २१ ॥

न वाऽऽस्थापनविक्षिप्तमन्नमग्निः १ प्रधावति ।

तस्मादास्थापनं देयं निराहाराय जानता ॥ २२ ॥

आवस्थिकं " " क्रमञ्चापि मत्वा कार्यं निरूहणम् ।

( मलेऽपकृष्टे दोषाणां बलवत्त्वं न विद्यते ॥ २३ ॥

सम्यग्दानलक्षणं वक्ति — विविक्तेति । विविक्तता = ग्लानिरहिता । १ सुनरूढस्य तदिने करणीयानुपचारानभिधत्ते - तदह इति । २ पश्चात् सान्वासनान्नि-रूहणात् । ३ मुहूर्तादागच्छतो निरूहस्य निर्हरणोपायमाख्याति - अनायान्तमिति । ४ यवक्षार इत्यर्थः । ५ चिरं सन्तिष्ठतो निरूहणाद् दोषान् दर्शयति - विगु. णेति । विगुणः = विपरीतः । ६ अरतिः = चेतसोऽनवस्थितिः । ' स्वाभीष्टवस्त्वला भेन चेतसो याऽनवस्थिति: । श्ररतिः सा ' इति । ७ भुक्तवत आस्थापनं निषेधति - नेति । ८ अभोजिते = अकृतभोजनायेत्यर्थः । ९ निराहाराय आस्थापनदाने गुणानाचष्टे - जीर्णेति । १० प्रव्यक्ति = निरावरण-ताम् । ११ प्रधावति = जरयति । १२ अवस्थाविशेषे भुक्तवतोऽपि निरूहदानमुप-दिशति – आवस्थिकमिति । क्रमं = विथिम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 945

सुश्रुत संहिता चौखम्बा, पृष्ठ 945 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Foundation Chennai and eGangotri अ ० ३८ ]। Digitized by Arya क्यार्कत्सास्थानम् ।

क्षीरौण्यग्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा ।

लवणानि फेलं क्षौद्रं शताह्वा सर्षपं वचा ॥ २४ ॥

एला त्रिकटुकं रास्ना सरलो देवदारु च ।

रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च ॥ २५ ॥

कटुका शर्करा मुस्तमुशीरं चन्दनं शटी । ७८७ मञ्जिष्ठा मैदनं चण्डा त्रायमाणा रसाञ्जनम् ॥ २६ ॥

बिल्वमध्यं यवानी च फैलिनी शक्रजा यवाः ।

काकोली क्षीरकाकोली जीवकर्षभकावुभौ ॥ २७ ॥

तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका ।

निरूहेषु यथालाभमेष वर्गो विधीयते ॥ २८ ॥

स्वस्थे क्वाथस्य चत्वारो भागाः स्नेहस्य पञ्चमः ।

क्रुद्धेऽनिले चतुर्थस्तु षष्ठः पित्ते कफेऽष्टमः ॥ २ ९ ॥

सर्वेषु चाष्टमो भागः कल्कानां लवणं पुनः ।

क्षौद्रं मूत्रं फलं क्षीरमम्लं मांसरसं तथा ॥ ३० ॥

युक्त्या प्रकल्पयेद्धीमान् निरूहे कल्पना त्वियम् ॥ ३१ ॥

कल्कैस्नेहकषायाणामविवेकाद्भिषग्वरैः ।

बस्ते: सुकल्पना प्रोक्ता तस्य दानं “ यथार्थकृत् ॥ ३२ ॥

१ आस्थापनोपयोगिकानि द्रव्याणि निदिशति - क्षीराणीति । २ फलं = त्रिफला । ३ त्रिवृदादीनि संशोधनानीत्यर्थः । ४ मदनं = मदनफलम्, चण्डा = अगुरुः । ५ फलिनी - प्रियङ्गुः शक्रजा यवाः = इन्द्रयवाः । ६ मधुलिका = मूर्वा । ७ निरूहेषु दोषानुसारेण क्काथादीनां मात्रा निर्दिशति - स्वस्थ इति । स्वस्थे -समवातपित्तकफे नरे । चत्वारो भागाः = अष्टौ पलानि । पञ्चमो भागः = पादोन-पञ्चपलानि । चतुर्थो भागः षट्पलानि । षष्ठो भागः चत्वारि पलानि । अष्टमो भागः त्रीणि पलानि । ८ युक्त्या = योगेन । " मधुस्नेहन कल्का ख्य कषायाचापतः क्रमात् । त्रीणि षट् द्वादश त्रीणि पलान्यनिलरोगिणाम् ॥ पित्ते चत्वारि चत्वारि द्वे द्विपञ्च चतुष्टयम् । षट् त्रीणि द्वे दश त्रीणि कफे चापि निरूहणम् ॥ ” इति तन्त्रान्तरम् । ९ बस्तिद्रव्ययोजनाक्रमं ब्रवीति — कल्केति । श्रविवेकात् = अपृथग्भावा-दित्यर्थः । १० वातपित्तकफशोणित हरणशोधनसङ्ग्रहण लेखन बं इणवाजीकरणादियथा--CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 946

सुश्रुत संहिता चौखम्बा, पृष्ठ 946 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७८८ Digitized by Arya Samaj सुकुतसंहितायां amdeGangotri

दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम् ।

पात्रे तलेने मथ्नीयादनुस्नेहं शनैः शनैः ॥ ३३ ॥

सम्यक् सुमथिते दद्यात् फलकल्कमतः परम् । [ अ ० ३८ ततो यथोचितान् कल्कान् भागैः स्वैः श्लक्ष्णपेषितान् ॥ ३४ ॥

गम्भीरे भाजनेऽन्यस्मिन्मथ्नीयात्तं खजेन च ।

कषायप्रसृतान् पञ्च सुपूतांस्तत्र दापयेत् ॥ ३५ ॥

रसक्षीराम्लमूत्राणां दोषावस्थामवेक्ष्य तु ।

यथा वा साधु मन्येत न सान्द्रो न तनुः समः ॥। ३६ ॥

अत ऊर्ध्वं द्वादशप्रसृतान् वक्ष्यामः–

दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम् ।

विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम् ॥ ३७ ॥

एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत् ।

सम्मूर्च्छिते कषायन्तु चतुःप्रसृतिसम्मितम् ॥ ३८ ॥

वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम् ।

एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत् ॥ ३ ९ ॥

ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम् ।

अपहासे भिषक्कुर्य्यात् तद्वत् प्रसृतिहापनम् ॥ ४० ॥

यथावयो निरूहाणां कल्पनेयमुदाहृता ।

सैन्धवादिद्रवान्तानां सिद्धिकामैर्भिषग्वरैः ॥ ४१ ॥

अत ऊर्ध्वं प्रवक्ष्यन्ते बस्तयोऽत्र विभागशः ।

यथादोषं प्रयुक्ता ये हन्युर्नानाविधान् गदान् ॥ ४२ ॥

शम्पाकोरुबुवर्षाभूवाजिगन्धानिशाच्छदैः । थंयोगकृर्दित्यर्थः । १ तलेन = पाणितलेन । २ फलकल्कं = मदनफलकल्कम् । ३ ख-जेन = मन्थानेन । तन्त्रान्तरे - " माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात् । श्रावा-प्यावाप्य पात्रे तन्मथ्नीयादन्तरान्तरा । सम्यक् पाणितलेनैव निरूहे योजनाविधिः । ” इति निरूहयोजना । ४ द्वादशप्रसृतिप्रमाण साधनं वर्णयति – दत्त्वेति । श्रक्षं = तोल-कम् । ५ सम्मूच्छिते - मिलिते । ६ द्विप्रसृतोन्मितं = चतुःपलप्रमाणम् । ७ वाते वातरोगे च शम्पाकाद्यास्थापनं दर्शयति - शम्पाकेति । शम्पाकः = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 947

सुश्रुत संहिता चौखम्बा, पृष्ठ 947 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३८ ] Digitized by An चिकित्सा ennai and eGangotri ७८ ९ पञ्चमूली बलाराम्नागुडूचीसुरदारुभिः ॥ ४३ ॥

क्वथितैः पालिकैरेभिमदनाष्टक संयुतैः ।

कल्कैर्मागधिकाम्भोदहवृषामिसिसैन्धवैः ॥ ४४ ॥

वत्साह्वयप्रियङ्गूङ्ग्रायष्ट्याह्वयरसाञ्जनैः ।

दद्यादास्थापनं कोष्णं क्षौद्राद्यैरभिसंस्कृतम् ॥ ४५ ॥

पृष्ठोरुत्रिकशूलाश्मविण्मूत्रानिलसङ्गिनाम् ।

ग्रहणीमारुतार्शोघ्नं रक्तमांसबलप्रदम् ॥ ४६ ॥

गुडूचीत्रिफलारास्नादशमूलबलापलैः ।

कथितैः श्लक्ष्णपिष्टैस्तु प्रियङ्गुघनसैन्धवैः ॥ ४७ ॥

शतपुष्पाव चाकृष्णायवानीकुष्ठबिल्वजैः ।

सगुडैर क्षमत्रैस्तु मदनार्द्धपलान्वितैः ॥ ४८ ॥

क्षौद्रतैलघृत क्षीर शुक्तकाञ्जिकमस्तुभिः ।

समालोड्य च मूत्रेण दद्यादास्थापनं परम् ॥ ४ ९ ॥

तेजोवर्णबलोत्साहवीर्य्याग्निप्राणवर्द्धनम् ।

सर्वमारुतरोगघ्नं वयःस्थापनमुत्तमम् ॥ ५० ॥

कुशादिपञ्चमूलान् त्रिफलोत्पलवासकैः ।

सारिवोशीरमञ्जिष्ठारास्ना " रेणुपरूषकैः ॥ ५१ ॥

पालिकैः क्वथितैः सम्यग् द्रव्यैरेभिश्च पेषितैः । श्रारग्वधः, उरुबुः = एरण्डः, वर्षाभू = पुनर्नवा, वाजिगन्धा = अश्वगन्धा, निशाच्छदः = ' कचूर ' इति । १ लघुग्ञ्चमूलीत्यर्थः । २ मदनस्याष्टौ फलानि, तैः संयुतैः । ३ इवषा = ' हाऊबेर ' इति, मिसिः = मधुरिका, ' सोभा ' इति प्रथते । ४ उग्रा = वचा । ५ श्राद्यपदेन स्नेहक्षीरकाञ्जिकमूत्र मांसरसानां ग्रहणम । अनुक्तोऽप्यत्र स्नेहो नि. क्षेपणीयः । तथा च हारीत: - " स्नेहो गुडो मांसरसः पयांसि साम्लानि मूत्रं मधु सैन्धवं च । एते निरूहे विदुषा प्रयोज्याः क्वाथश्च कल्को मदनात् फलं च ॥ ” इति । वाते ६ वातरोगे च गुडूच्याद्यास्थापनमाह - गुडूचीति । ७ पलं = मांसम् । ८ अक्षमात्रैः = तोलकपरिमाणैः । ९ पित्ते पित्तरोगे च कुशाद्यास्थापनं निर्दिशति - कुशादीति । कुशादिपञ्चमू · लं = कुशकाशनलदर्भकाण्डेक्षत्र इति, श्रब्दः = त्रिफला १० रेणुः = निर्गुण्डीबीजम् CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 948

सुश्रुत संहिता चौखम्बा, पृष्ठ 948 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७ ९ ० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३८ शृङ्गाटका मंगुप्तेभकेसरागुरुचन्दनैः ॥ ५२ ॥

विदारी मिसि मञ्जिष्ठाश्यामेन्द्रय वसिन्धुजैः ।

फलैपद्मकयष्ट्याह्वः क्षौद्र क्षीरघृताप्लुतैः ॥ ५३ ॥

दत्तमास्थापनं शीतमम्लही नैस्तथा द्रवैः ।

दाहासृग्दरपित्तासृपित्तगुल्मज्वराञ्जयेत् ॥ ५४ ॥

रोर्धंचन्दनमञ्जिष्ठारास्नाऽनन्ताबलर्द्धिभिः ।

सारिवावृषैकाश्मर्यमेदामधुकपद्मकैः ॥ ५५ ॥

स्थिरौदितृणमूलैश्च क्वाथः कर्षत्रयोन्मितैः पिष्टैर्जीवकका कोलीयुगर्द्धिमधुकोत्पलैः ॥ ५६ ॥

प्रपौण्डरीक जीवन्तीमेदारेणुपरूपकैः ।

अभीरुमिसिसिन्धूत्थवत्स कोशीरपद्मकैः ॥ ५७ ॥

कसेरुशर्करायुक्तैः सर्पिर्मधुपयः प्लुतैः ।

द्रवैस्तीक्ष्णाम्लत्रयैश्च दत्तो बस्तिः सुशीतलः ॥ ५८ ॥

गुल्मासृग्दरहृत्पाण्डुरोगान् सविषमज्वरान् ।

असृपित्तातिसारौ च हन्यात् पित्तकृतान् गदान् ॥ ५ ९ ॥

भद्रीनिम्बकुलत्थार्क कोशातक्यमृतामरैः ।

सारिवाबृहतीपाठामूर्वाऽऽरग्वध वत्सकैः II ॥ ६० ॥

क्वाथः कल्कस्तु कर्त्तव्यो वचामदन सर्षपैः ।

सैन्धवामरकुष्ठैलापिप्पलीबिल्वनागरैः ॥ ६१ ॥

कटुतैलमधुर ५२ मूत्रतैलाम्बुसंयुतैः । परूषकः = ‘ फालसा ' इत्युद्र्धुष्यते । १ आत्मगुप्ता = कपिकच्छूः, इभः = ' गजपीपल ' इति ख्यातः । २ मिसिः = ' सोआ ' इति, श्यामा = प्रियङ्गुः । ३ फलं = मदनफलम् । ४ पित्ते पित्तरोगे च रोघ्राद्यास्थापनमाख्याति - रोधेति । ५ वृष: - वास-कः । ६ स्थिरादिलघु पञ्चमूलम्, तृणमूलं = कुशादिपञ्चमूलम् । ७ काकोलीयुगं = काकोली क्षीरकाकोली च । ८ अभीरुः = शतावरी, मिसिः = मधुरिका, सिन्धूत्थं = सैन्धवम्, वत्सकः = कुटजः, ' कुरैयाः ' इति ख्यातः । ९ कफे कफरोगे च भद्राद्यास्थापनमाख्याति - भद्रेति । भद्रा = भद्रमुस्तकः, · ' कोशातकी = ' तरोई ' इति, अमृता = गुडूची, श्रमरः देवदारु । १० वत्सकः = कुट. जः । ११ मदनं = मदनफलम् । १२ क्षारः = यवक्षार इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 949

सुश्रुत संहिता चौखम्बा, पृष्ठ 949 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३८ ] Digitized by Alennai Chennai: and eGangotri कार्य्यमास्थापनं तूर्णं कामलापाण्डुमेहिनाम् ॥ ६२ ॥

मेदस्विनामनीनां कफरोगाशनद्विषाम् ।

गलगण्डगरग्लानिश्लोपदोदररोगिणाम् ॥ ६३ ॥

दर्शमूली निशा बिल्वपटोलत्रिफलामरैः ।

क्वथितैः कल्कपिष्टैस्तु मुस्तसैन्धवदारुभिः ॥ ६४ ॥

पाठामागंधि केन्द्राद्वैस्तैल क्षारमधुप्लुतैः ।

कुर्यादाम्थापनं सम्यङ् मूत्राम्लफैलयोजितैः ॥ ६५ ॥

कफपाण्डुगदालस्य मूत्रमारुतसङ्गिनाम् ।

माटोपापची श्लेष्मगुल्मक्रिमिविकारिणाम् ॥ ६६ ॥

वृषौश्मभेद वर्षाभूधान्यगन्धर्वहस्तकैः ।

दशमूलबलामूर्वाय व कोलनिशांच्छदैः ॥ ६७ ॥

कुलत्थबिल्वभूनिम्बैः क्वथितैः पलसम्मितैः ।

कल्कैर्मदनयष्ट्याह्नषड्ग्रन्थाऽमरसर्षपैः ॥ ६८ ॥

पिप्पलीमूलसिन्धूत्थ यवानीमिसिर्वत्सकैः ।

क्षौद्रेक्षुक्षीरगोमूत्रसर्पिस्तैलरसप्लुतैः ॥ ६ ९ ॥

तूर्णमास्थापनं कार्य्य संसृष्टबहुरोगिणाम् ।

गृध्रसी शर्कराऽष्टीला तूनीगुल्मगदापहम् ॥ ७० ॥

रास्तऽऽरग्वधवर्षाभूकटुकोशीर वारिदैः " ।

त्रायमाणाऽमृतारक्तापञ्चमूलीबिभीतकैः ॥ ७१ ॥

७ ९ १ १ कफे कफरोग च दशमूल्याद्यास्थापनमाचष्टे – दशमूलीति । त्रिकण्टकादि-लघुपञ्चमूलं, बिल्वाग्निमन्थादिबृहत् पन्चमूलं च दशमूलमुच्यते । निशा = हरिद्रा | २ मागधिका = पिप्पली, इन्द्राह्वः = कुटजः । ३ मदनफलमित्यर्थः । ४ " टोपो गुडगुडाशब्दः प्रोक्को जठरसम्भव: " इति भावमिश्रः । ५ वृषाद्यास्थापनमाह- - वृषेति । वृषः = वासकः, अश्मभेदः = पाषाणभेदः, वर्षाभू = पुनर्नवा, धान्यं - ' घनिया ' इति, गन्धर्वहस्तकः = एरण्डः । ६ निशा-च्छदः = ' कचूर ' इति ख्यातः । ७ षड्ग्रन्था = वचा । ८ मिसिः मधुरिका, वत्सकः = कुटजः । ९ सर्वरोगहररास्नाद्यास्थापनमुपदिशति - रास्नेति । १० वा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 950

सुश्रुत संहिता चौखम्बा, पृष्ठ 950 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-७ ९ २ [ अ ० ३८ Digitized by Arya Samaj Foundation Chennai and eGangotri

सर्बलैः पालिकैः क्वाथः कल्कस्तु मदनान्वितैः ।

यष्ट्याह्वमिसिसिन्धूत्थफलिनीन्द्रयवाह्वयैः ॥ ७२ ॥

रसाञ्जनरसक्षौद्रद्राक्षासौवीरसंयुतैः ।

युक्तो बस्तिः सुखोष्णोऽयं मांसशुक्रबलौजसाम् ॥ ७३ ॥

आयुषोऽग्नेश्च संस्कर्त्ता हन्ति चाशु गदानिमान् ।

गुल्मासृग्दरवीसर्पमूत्रकृच्छ्रक्षतक्षयान् ॥ ७४ ॥

विषमज्वरमसि ग्रहणीं वातकुण्डलीम् ।

जानुजङ्घाशिरोबस्तिग्रहोदावर्त्तमारुतान् ॥ ७५ ॥।

वातासृक्शर्कराऽष्टीलाकुक्षिशूलोदरारुचीः ।

रक्तपित्तकफोन्मादप्रमेहाध्मानहृद्ग्रहान् ॥ ७६ ॥

वातघ्नौषधनिःक्वाथाः सैन्धवत्रिवृतायुताः ।

साम्लाः सुखोष्णा योज्याः स्युर्बस्तयः कुपितेऽनिले ॥ ७७ ॥

न्यग्रोधादिगणक्वाथाः काकोल्यादिसमायुताः ।

विधेया बस्तयः पित्ते ससर्पिष्काः सशर्कराः ॥ ७८ ॥

आरग्वधादिनिःक्वाथाः पिप्पल्यादिसमायुताः ।

सक्षौद्रमूत्रा देयाः स्युर्बस्तयः कुपिते कफे ॥ ७ ९ ॥

शर्करेक्षुरसक्षीरघृतयुक्ताः सुशीतलाः ।

क्षीरवृक्षकँषायाढ्या बस्तयः शोणिते हिताः ॥ ८० ॥

शोधनद्रव्यनिःक्वाथास्तत्कल्कस्नेह सैन्धवैः । रिदः = मुस्ता । दुष्ण इत्यर्थः । १ बलया सहितैः सबलैः । २ सुखावह उष्णः सुखोष्णः किन्चि ३ वातरोगे आस्थापनमाचष्टे - वातघ्नेति । वातघ्नौषधानि भद्रदार्वादीनि, षोडशपलप्रमितानामेषामष्टगुणे जले क्वाथः । ४ पित्तरोगे आस्थापनमभिधत्ते — न्य-ग्रोधादीति । न्यग्रोधादीनां षोडशपलद्रव्याणामष्टगुणे जले क्वाथः । ५ श्लेष्म. णि आस्थापनं निर्दिशति - आरग्वधादीति । षोडशपलानामारग्वधादोनामष्टगुणे जले क्वाथः । ६ शोणितरोगे आस्थापनं दर्शयति - शर्करेति । ७ क्षीरवृक्षाणां न्यग्रोधादि-द्रव्याणां षोडशपलप्रमितानां कषायः क्काथैराढ्याः प्रधाना इत्यर्थः । - शोधनास्था-CC - 0. Gurukul Kangri Collection, Haridwar