सुश्रुत संहिता चौखम्बा — पृष्ठ 941–950
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 941–950
पृष्ठ 941
पाठ पढ़ें पाठ छिपाएँ
अ ० ३७ ] Digitized by Ary र्व ध्वषिरसास्थाम phennai and eGangotri गुदे वर्त्तिं निदध्याद्वा शोधनद्रव्यसम्भृताम् ॥ ११८ ॥
प्रवेशयेद्वा मतिमान् बस्तिहारमथैषणीम् ।
पीडयेद्वाऽप्यधो नाभेर्बलेनोत्तर मुष्टिना ॥ ११ ९ ॥
आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च ।
कुर्याद्रोमूत्रपिष्टेषु वर्त्तर्वाऽपि ससैन्धवाः ॥ १२० ॥
सुद् गैलासर्षपसमाः प्रविभज्य वयांसि तु ।
• वस्तेरागमनार्थाय ता निध्याच्छलाकया ॥ १२१ ॥
आगारधूमवृहतीपिप्पलीफल सैन्धवैः । ७८३ कृतौ वा शुकगोमूत्रसुरापिष्टैः सनागरैः ॥ १२२ ॥
अनुवासन सिद्धञ्च वीक्ष्य कर्म प्रयोजयेत् ।
शर्करामधुमिश्रेण शीतेन मधुकाम्बुना ॥ १२३ ॥
दह्यमाने तदा बस्तौ दद्याद्वस्तिं विचक्षणः ।
क्षीरवृक्षकषायेण पयसा शीतलेन च ॥ १२४ ॥
शुक्रं दुष्टं शोणितं चाङ्गनानां पुष्पोद्रेकं तस्य नाशञ्च कष्टम् । मूत्राघातान्मूत्रदोषान् प्रवृद्धान् योनिव्याधिं “ संस्थितिं चापरायाः १२५ शुक्रोत्सेकं शर्करामश्मरीञ्च शूलं वस्तौ वङ्ङ्क्षणे मेहने च । घोरानन्यानवस्तिजांश्चापि रोगान् हित्वा मेहानुत्तरो हन्ति बस्तिः १२६ सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम " एव च । II बस्तेरुत्तरसंज्ञस्य समानं स्नेहवस्तिना ॥ १२७ ॥
इति सुश्रुतसंहितायां चिकित्सास्थानेऽनुवासनोत्तर बस्ति चिकित्सितं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
१ शोधनद्रव्यसम्भृतां = विरेचनद्रव्यनिर्मिताम् । २ उत्तरमुष्टिना = मुष्टेरग्रभागेनै-त्यर्थः। ३ निदध्यात् = स्नेहापकर्षणार्थं प्रवेशयेदित्यर्थ ' । ४ फलं = मदनफलम् । ५ मुद्गादिप्रमाणा कृता वर्तिरित्यर्थः । ६ स्फिक्ताडनादिकं कर्मेत्यर्थः । ७ बस्ति-दाहे चिकित्सां दर्शयति — शर्करेति । = मधुकाम्बुना = मधुयष्टिक्काथेन । अत्र योगत्रयम् । त्रिष्वपि ' शर्करामधुमिश्रेण ' इत्यस्य सम्बन्धः ९ उत्तरबस्तिफलमभिदधाति - शुक्रमिति । पुष्पोद्रेकः = ऋतो-रसमये प्रवृत्तिः । १० संस्थितिः = निर्गमावरोधः । ११ क्रमः = चिकित्सेत्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां सप्तत्रिंशत्तमोऽध्याय CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 942
पाठ पढ़ें पाठ छिपाएँ
७८४ by Arya Samaj Fo Fot सुश्रुतसंहितायां angotri अष्टत्रिंशत्तमोऽध्यायः । [ अ ० ३८ अथातो निरूहक्रमचिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अथानुवासितमास्थापयेत् । स्वभ्यक्तस्विन्नशरीरमुत्सृष्टबहिर्वे-गमवाते शुचौ वेश्मनि मध्याह्ने प्रतंतायां शय्यायामधः सुपरिग्रहायां श्रोणीप्रदेशव्यूढायामनुपधानायां वामपार्श्वशायिन माकुचितदक्षि ग्णसक्थिमितरप्रसारितसक्थि सुमनसं जीर्णान्नं वाग्यतं सुनिषण्ण-देहं विदित्वा ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गलि भ्यां कणिकामुपरि निष्पीड्य, सव्यपारिणकनिष्ठिकाऽनामिकाभ्यां बस्तेर्मुखार्द्ध सङ्कोच्य, मध्यमा प्रदेशिन्यङ्गुष्टैरर्द्धन्तु विवृतास्यं कृ-स्वा, बस्तावौषधं प्रक्षिप्य, दक्षिणहस्ताङ्गुष्ठप्रदेशिनीभ्यां चानुसिक्त-मनीयतमबुद्बुदद्मसङ्कचितमवातमौषधासन्नमुपसङ्गृह्य, पुनरि-तरेण गृहीत्वा दक्षिणेनावसिञ्चेत् । ततः सूत्रेणैवोपधान्ते द्वित्रि-र्वाऽऽवेष्ट्य बध्नीयात् । अथ दक्षिणेनोत्तानेन पाणिना बस्ति गृही-त्वा वामहस्तमध्यमाङ्गुलिप्रदेशिनीभ्यां नेत्रमुपसङ्गृह्याङ्गुष्ठेन नेत्र-द्वारं पिधाय, घृताभ्यक्ताप्रनेत्रं घृताक्तगुदाय प्रयच्छेदनुपृष्ठवंशं सम-मुन्मुखमाकर्णिकं नेत्रं प्रैणिधत्स्वेति ब्रूयात् ॥ ३ ॥
बस्ति सव्ये करे कृत्वा दक्षिणेनावपीडयेत् ।
एकेनैवावपीडेन न द्रुतं न विलम्बितम् ॥ ४ ॥
ततो नेत्रमपनीय त्रिंशन्मात्राः " पीडनकालादुपेक्ष्योत्तिष्ठेत्या -ः अष्टत्रिशत्तमोऽध्यायः । १ “ कषायक्षीरतैलैर्यो निरूहः स निगद्यते ” निरूहस्य क्रमोऽनुक्रमः स एव चिकित्सितमिति निरूहक्रमचिकित्सितम् । २ निरूप्रणयनविधानमभिधत्ते-स्वभ्यक्तेति । ३ प्रतताय = स्तब्धायाम् ४ श्रशयद्वारस्य वामपाश्र्वाश्रयित्वा • दिति ५ ' वामं शरीरे सव्यं स्थात् ' इत्यमरः 1 ६ अनायतं = सारम् । दीर्घतारहितम् । ७ अवातं = भेषजप्रदानेन निस्सारितवात । ८ इतरेण = वामपा-खिना । ९ नेत्रं प्रणिधत्स्व प्रवेशयेत्यातुरं प्रति भिषग् ब्रूयादिति सम्बन्धः । १० मात्रालक्षणम् — “ कालेन यावता पाणिः पर्येति जानुमण्डले । सा मात्रा CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 943
पाठ पढ़ें पाठ छिपाएँ
Chennai अ ० ३८ ] Digitized by Aryf च किसास्थानम् apnai and eGangotri ७८२ तुरं ब्रूयात् । अथातुरमुपवेशये दुत्कुटुकं बस्त्यागमनार्थम् । निरूह-प्रत्यागमनकालस्तु मुहूत्र्त्तो भवति ॥ ५ ॥
अनेन विधिना वस्तिं दद्याद्वस्तिविशारदः ।
द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः ॥ ६ ॥
सम्यङ् निरूढलिङ्गे तु प्राप्ते बस्ति निवारयेत् ।
विशेषात् सुकुमाराणां हीन एव क्रमो हितः ॥ ७ ॥
अपि हीनक्रमं कुर्यान्न तु कुर्यादतिक्रमम् ।
यस्यै स्याद् बस्तिरल्पोऽल्पवेगो हीनमलानिलः ॥ ८ ॥
दुर्निरूढः स विज्ञेयो मूत्रार्त्त्यरुचिजाड्यवान् ।
यौन्येव प्राङ् मयोक्तानि लिङ्गान्यतिविरेचिते ॥ ९ ॥
तान्येवातिनिरूढेऽपि विज्ञेयानि विपश्चिता ।
यस्य क्रमेण गच्छन्ति विपित्तकफवायवः ॥ १० ॥
लाघवं चोपजायेत सुनिरूढं तमादिशेत् ।
सुनिरूढं ततो जन्तुं स्नातवन्तं तु भोजयेत् ॥ ११ ॥
पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात् ।
सर्वं वा जाङ्गलरसैर्भोजयेद्विकारिभिः ॥ १२ ॥
त्रिभागहीनमर्द्धं वा हीनमात्रमथापि वा ।
यथाऽग्निदोषं मात्रेयं भोजनस्य विधीयते ॥ १३ ॥
अनन्तरं ततो युञ्ज्याद्यर्थास्वं स्नेहवस्तिना ।
विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः ॥। १४ ॥
आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम् । कविभिः प्रोक्ता ह्रस्वदीर्घप्लुते मता " ॥ पराशरः – ' जानु मण्डलमावेष्टय दत्ते दक्षिण-पाणिना । कृष्टनेत्र श्टाशब्दशतं तिष्ठेदवेगवान् ॥ ” इति । १ मुहूर्तः = घटिकाद्वयम् । २ निरूहातियोगं निषेधति - विशेषादिति । ३ दुर्निरूढलक्षणमा ख्याति -यस्येति । ४ अतिनिरूढलक्षणमाख्याति - यानीति । ५ शूलगुदभ्रं शकफातियो -गादीनि लिङ्गानीत्यर्थः । ६ सुनिरूढलक्षणमाचष्टे – यस्येति । ७ सुनिरूढस्य पश्चारकर्म निर्दिशति-सुनिरूढमिति । ८ यथास्वं = वातादिदोषानुकूलम् । ९ निरूद्दानुवासनयोः ५० CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 944
पाठ पढ़ें पाठ छिपाएँ
श्रुतसंहितायां = Digitized by Arya Samaj Foundabon Chernal and eGangotri [ अ ० ३८ तर्दहस्तस्य पवनाद्भयं बलवदिष्यते ॥ १५ ॥
रसौदनस्तेन शस्तस्तदहश्चानुवासनम् ।
पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम् ॥ १६ ॥
अन्नोपस्तम्भिते कोष्ठे स्नेहवस्तिर्विधीयते ।
अनौयान्तं मुहूर्त्ता निरूहं शोधनैर्हरेत् ॥ १७ ॥
तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः ।
विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम् ॥ १८ ॥
शूलारैतिज्वरानाहं मरणं वा प्रवर्त्तयेत् ।
नं तु भुक्तवते देयमास्थापनमिति स्थितिः ॥ १ ९ ॥
विसूचिकां वा जनयेच्छर्दि वाऽपि सुदारुणाम् ।
कोपयेत् सर्वदोषान् वा तस्माद् दद्याद्भोजिते ॥ २० ॥
" जीर्णान्नस्याशये दोषाः पुंसः " प्रव्यक्तिमागताः ।
निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः ॥ २१ ॥
न वाऽऽस्थापनविक्षिप्तमन्नमग्निः १ प्रधावति ।
तस्मादास्थापनं देयं निराहाराय जानता ॥ २२ ॥
आवस्थिकं " " क्रमञ्चापि मत्वा कार्यं निरूहणम् ।
( मलेऽपकृष्टे दोषाणां बलवत्त्वं न विद्यते ॥ २३ ॥
सम्यग्दानलक्षणं वक्ति — विविक्तेति । विविक्तता = ग्लानिरहिता । १ सुनरूढस्य तदिने करणीयानुपचारानभिधत्ते - तदह इति । २ पश्चात् सान्वासनान्नि-रूहणात् । ३ मुहूर्तादागच्छतो निरूहस्य निर्हरणोपायमाख्याति - अनायान्तमिति । ४ यवक्षार इत्यर्थः । ५ चिरं सन्तिष्ठतो निरूहणाद् दोषान् दर्शयति - विगु. णेति । विगुणः = विपरीतः । ६ अरतिः = चेतसोऽनवस्थितिः । ' स्वाभीष्टवस्त्वला भेन चेतसो याऽनवस्थिति: । श्ररतिः सा ' इति । ७ भुक्तवत आस्थापनं निषेधति - नेति । ८ अभोजिते = अकृतभोजनायेत्यर्थः । ९ निराहाराय आस्थापनदाने गुणानाचष्टे - जीर्णेति । १० प्रव्यक्ति = निरावरण-ताम् । ११ प्रधावति = जरयति । १२ अवस्थाविशेषे भुक्तवतोऽपि निरूहदानमुप-दिशति – आवस्थिकमिति । क्रमं = विथिम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 945
पाठ पढ़ें पाठ छिपाएँ
Foundation Chennai and eGangotri अ ० ३८ ]। Digitized by Arya क्यार्कत्सास्थानम् ।
क्षीरौण्यग्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा ।
लवणानि फेलं क्षौद्रं शताह्वा सर्षपं वचा ॥ २४ ॥
एला त्रिकटुकं रास्ना सरलो देवदारु च ।
रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च ॥ २५ ॥
कटुका शर्करा मुस्तमुशीरं चन्दनं शटी । ७८७ मञ्जिष्ठा मैदनं चण्डा त्रायमाणा रसाञ्जनम् ॥ २६ ॥
बिल्वमध्यं यवानी च फैलिनी शक्रजा यवाः ।
काकोली क्षीरकाकोली जीवकर्षभकावुभौ ॥ २७ ॥
तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका ।
निरूहेषु यथालाभमेष वर्गो विधीयते ॥ २८ ॥
स्वस्थे क्वाथस्य चत्वारो भागाः स्नेहस्य पञ्चमः ।
क्रुद्धेऽनिले चतुर्थस्तु षष्ठः पित्ते कफेऽष्टमः ॥ २ ९ ॥
सर्वेषु चाष्टमो भागः कल्कानां लवणं पुनः ।
क्षौद्रं मूत्रं फलं क्षीरमम्लं मांसरसं तथा ॥ ३० ॥
युक्त्या प्रकल्पयेद्धीमान् निरूहे कल्पना त्वियम् ॥ ३१ ॥
कल्कैस्नेहकषायाणामविवेकाद्भिषग्वरैः ।
बस्ते: सुकल्पना प्रोक्ता तस्य दानं “ यथार्थकृत् ॥ ३२ ॥
१ आस्थापनोपयोगिकानि द्रव्याणि निदिशति - क्षीराणीति । २ फलं = त्रिफला । ३ त्रिवृदादीनि संशोधनानीत्यर्थः । ४ मदनं = मदनफलम्, चण्डा = अगुरुः । ५ फलिनी - प्रियङ्गुः शक्रजा यवाः = इन्द्रयवाः । ६ मधुलिका = मूर्वा । ७ निरूहेषु दोषानुसारेण क्काथादीनां मात्रा निर्दिशति - स्वस्थ इति । स्वस्थे -समवातपित्तकफे नरे । चत्वारो भागाः = अष्टौ पलानि । पञ्चमो भागः = पादोन-पञ्चपलानि । चतुर्थो भागः षट्पलानि । षष्ठो भागः चत्वारि पलानि । अष्टमो भागः त्रीणि पलानि । ८ युक्त्या = योगेन । " मधुस्नेहन कल्का ख्य कषायाचापतः क्रमात् । त्रीणि षट् द्वादश त्रीणि पलान्यनिलरोगिणाम् ॥ पित्ते चत्वारि चत्वारि द्वे द्विपञ्च चतुष्टयम् । षट् त्रीणि द्वे दश त्रीणि कफे चापि निरूहणम् ॥ ” इति तन्त्रान्तरम् । ९ बस्तिद्रव्ययोजनाक्रमं ब्रवीति — कल्केति । श्रविवेकात् = अपृथग्भावा-दित्यर्थः । १० वातपित्तकफशोणित हरणशोधनसङ्ग्रहण लेखन बं इणवाजीकरणादियथा--CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 946
पाठ पढ़ें पाठ छिपाएँ
७८८ Digitized by Arya Samaj सुकुतसंहितायां amdeGangotri
दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम् ।
पात्रे तलेने मथ्नीयादनुस्नेहं शनैः शनैः ॥ ३३ ॥
सम्यक् सुमथिते दद्यात् फलकल्कमतः परम् । [ अ ० ३८ ततो यथोचितान् कल्कान् भागैः स्वैः श्लक्ष्णपेषितान् ॥ ३४ ॥
गम्भीरे भाजनेऽन्यस्मिन्मथ्नीयात्तं खजेन च ।
कषायप्रसृतान् पञ्च सुपूतांस्तत्र दापयेत् ॥ ३५ ॥
रसक्षीराम्लमूत्राणां दोषावस्थामवेक्ष्य तु ।
यथा वा साधु मन्येत न सान्द्रो न तनुः समः ॥। ३६ ॥
अत ऊर्ध्वं द्वादशप्रसृतान् वक्ष्यामः–
दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम् ।
विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम् ॥ ३७ ॥
एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत् ।
सम्मूर्च्छिते कषायन्तु चतुःप्रसृतिसम्मितम् ॥ ३८ ॥
वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम् ।
एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत् ॥ ३ ९ ॥
ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम् ।
अपहासे भिषक्कुर्य्यात् तद्वत् प्रसृतिहापनम् ॥ ४० ॥
यथावयो निरूहाणां कल्पनेयमुदाहृता ।
सैन्धवादिद्रवान्तानां सिद्धिकामैर्भिषग्वरैः ॥ ४१ ॥
अत ऊर्ध्वं प्रवक्ष्यन्ते बस्तयोऽत्र विभागशः ।
यथादोषं प्रयुक्ता ये हन्युर्नानाविधान् गदान् ॥ ४२ ॥
शम्पाकोरुबुवर्षाभूवाजिगन्धानिशाच्छदैः । थंयोगकृर्दित्यर्थः । १ तलेन = पाणितलेन । २ फलकल्कं = मदनफलकल्कम् । ३ ख-जेन = मन्थानेन । तन्त्रान्तरे - " माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात् । श्रावा-प्यावाप्य पात्रे तन्मथ्नीयादन्तरान्तरा । सम्यक् पाणितलेनैव निरूहे योजनाविधिः । ” इति निरूहयोजना । ४ द्वादशप्रसृतिप्रमाण साधनं वर्णयति – दत्त्वेति । श्रक्षं = तोल-कम् । ५ सम्मूच्छिते - मिलिते । ६ द्विप्रसृतोन्मितं = चतुःपलप्रमाणम् । ७ वाते वातरोगे च शम्पाकाद्यास्थापनं दर्शयति - शम्पाकेति । शम्पाकः = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 947
पाठ पढ़ें पाठ छिपाएँ
अ ० ३८ ] Digitized by An चिकित्सा ennai and eGangotri ७८ ९ पञ्चमूली बलाराम्नागुडूचीसुरदारुभिः ॥ ४३ ॥
क्वथितैः पालिकैरेभिमदनाष्टक संयुतैः ।
कल्कैर्मागधिकाम्भोदहवृषामिसिसैन्धवैः ॥ ४४ ॥
वत्साह्वयप्रियङ्गूङ्ग्रायष्ट्याह्वयरसाञ्जनैः ।
दद्यादास्थापनं कोष्णं क्षौद्राद्यैरभिसंस्कृतम् ॥ ४५ ॥
पृष्ठोरुत्रिकशूलाश्मविण्मूत्रानिलसङ्गिनाम् ।
ग्रहणीमारुतार्शोघ्नं रक्तमांसबलप्रदम् ॥ ४६ ॥
गुडूचीत्रिफलारास्नादशमूलबलापलैः ।
कथितैः श्लक्ष्णपिष्टैस्तु प्रियङ्गुघनसैन्धवैः ॥ ४७ ॥
शतपुष्पाव चाकृष्णायवानीकुष्ठबिल्वजैः ।
सगुडैर क्षमत्रैस्तु मदनार्द्धपलान्वितैः ॥ ४८ ॥
क्षौद्रतैलघृत क्षीर शुक्तकाञ्जिकमस्तुभिः ।
समालोड्य च मूत्रेण दद्यादास्थापनं परम् ॥ ४ ९ ॥
तेजोवर्णबलोत्साहवीर्य्याग्निप्राणवर्द्धनम् ।
सर्वमारुतरोगघ्नं वयःस्थापनमुत्तमम् ॥ ५० ॥
कुशादिपञ्चमूलान् त्रिफलोत्पलवासकैः ।
सारिवोशीरमञ्जिष्ठारास्ना " रेणुपरूषकैः ॥ ५१ ॥
पालिकैः क्वथितैः सम्यग् द्रव्यैरेभिश्च पेषितैः । श्रारग्वधः, उरुबुः = एरण्डः, वर्षाभू = पुनर्नवा, वाजिगन्धा = अश्वगन्धा, निशाच्छदः = ' कचूर ' इति । १ लघुग्ञ्चमूलीत्यर्थः । २ मदनस्याष्टौ फलानि, तैः संयुतैः । ३ इवषा = ' हाऊबेर ' इति, मिसिः = मधुरिका, ' सोभा ' इति प्रथते । ४ उग्रा = वचा । ५ श्राद्यपदेन स्नेहक्षीरकाञ्जिकमूत्र मांसरसानां ग्रहणम । अनुक्तोऽप्यत्र स्नेहो नि. क्षेपणीयः । तथा च हारीत: - " स्नेहो गुडो मांसरसः पयांसि साम्लानि मूत्रं मधु सैन्धवं च । एते निरूहे विदुषा प्रयोज्याः क्वाथश्च कल्को मदनात् फलं च ॥ ” इति । वाते ६ वातरोगे च गुडूच्याद्यास्थापनमाह - गुडूचीति । ७ पलं = मांसम् । ८ अक्षमात्रैः = तोलकपरिमाणैः । ९ पित्ते पित्तरोगे च कुशाद्यास्थापनं निर्दिशति - कुशादीति । कुशादिपञ्चमू · लं = कुशकाशनलदर्भकाण्डेक्षत्र इति, श्रब्दः = त्रिफला १० रेणुः = निर्गुण्डीबीजम् CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 948
पाठ पढ़ें पाठ छिपाएँ
७ ९ ० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३८ शृङ्गाटका मंगुप्तेभकेसरागुरुचन्दनैः ॥ ५२ ॥
विदारी मिसि मञ्जिष्ठाश्यामेन्द्रय वसिन्धुजैः ।
फलैपद्मकयष्ट्याह्वः क्षौद्र क्षीरघृताप्लुतैः ॥ ५३ ॥
दत्तमास्थापनं शीतमम्लही नैस्तथा द्रवैः ।
दाहासृग्दरपित्तासृपित्तगुल्मज्वराञ्जयेत् ॥ ५४ ॥
रोर्धंचन्दनमञ्जिष्ठारास्नाऽनन्ताबलर्द्धिभिः ।
सारिवावृषैकाश्मर्यमेदामधुकपद्मकैः ॥ ५५ ॥
स्थिरौदितृणमूलैश्च क्वाथः कर्षत्रयोन्मितैः पिष्टैर्जीवकका कोलीयुगर्द्धिमधुकोत्पलैः ॥ ५६ ॥
प्रपौण्डरीक जीवन्तीमेदारेणुपरूपकैः ।
अभीरुमिसिसिन्धूत्थवत्स कोशीरपद्मकैः ॥ ५७ ॥
कसेरुशर्करायुक्तैः सर्पिर्मधुपयः प्लुतैः ।
द्रवैस्तीक्ष्णाम्लत्रयैश्च दत्तो बस्तिः सुशीतलः ॥ ५८ ॥
गुल्मासृग्दरहृत्पाण्डुरोगान् सविषमज्वरान् ।
असृपित्तातिसारौ च हन्यात् पित्तकृतान् गदान् ॥ ५ ९ ॥
भद्रीनिम्बकुलत्थार्क कोशातक्यमृतामरैः ।
सारिवाबृहतीपाठामूर्वाऽऽरग्वध वत्सकैः II ॥ ६० ॥
क्वाथः कल्कस्तु कर्त्तव्यो वचामदन सर्षपैः ।
सैन्धवामरकुष्ठैलापिप्पलीबिल्वनागरैः ॥ ६१ ॥
कटुतैलमधुर ५२ मूत्रतैलाम्बुसंयुतैः । परूषकः = ‘ फालसा ' इत्युद्र्धुष्यते । १ आत्मगुप्ता = कपिकच्छूः, इभः = ' गजपीपल ' इति ख्यातः । २ मिसिः = ' सोआ ' इति, श्यामा = प्रियङ्गुः । ३ फलं = मदनफलम् । ४ पित्ते पित्तरोगे च रोघ्राद्यास्थापनमाख्याति - रोधेति । ५ वृष: - वास-कः । ६ स्थिरादिलघु पञ्चमूलम्, तृणमूलं = कुशादिपञ्चमूलम् । ७ काकोलीयुगं = काकोली क्षीरकाकोली च । ८ अभीरुः = शतावरी, मिसिः = मधुरिका, सिन्धूत्थं = सैन्धवम्, वत्सकः = कुटजः, ' कुरैयाः ' इति ख्यातः । ९ कफे कफरोगे च भद्राद्यास्थापनमाख्याति - भद्रेति । भद्रा = भद्रमुस्तकः, · ' कोशातकी = ' तरोई ' इति, अमृता = गुडूची, श्रमरः देवदारु । १० वत्सकः = कुट. जः । ११ मदनं = मदनफलम् । १२ क्षारः = यवक्षार इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 949
पाठ पढ़ें पाठ छिपाएँ
अ ० ३८ ] Digitized by Alennai Chennai: and eGangotri कार्य्यमास्थापनं तूर्णं कामलापाण्डुमेहिनाम् ॥ ६२ ॥
मेदस्विनामनीनां कफरोगाशनद्विषाम् ।
गलगण्डगरग्लानिश्लोपदोदररोगिणाम् ॥ ६३ ॥
दर्शमूली निशा बिल्वपटोलत्रिफलामरैः ।
क्वथितैः कल्कपिष्टैस्तु मुस्तसैन्धवदारुभिः ॥ ६४ ॥
पाठामागंधि केन्द्राद्वैस्तैल क्षारमधुप्लुतैः ।
कुर्यादाम्थापनं सम्यङ् मूत्राम्लफैलयोजितैः ॥ ६५ ॥
कफपाण्डुगदालस्य मूत्रमारुतसङ्गिनाम् ।
माटोपापची श्लेष्मगुल्मक्रिमिविकारिणाम् ॥ ६६ ॥
वृषौश्मभेद वर्षाभूधान्यगन्धर्वहस्तकैः ।
दशमूलबलामूर्वाय व कोलनिशांच्छदैः ॥ ६७ ॥
कुलत्थबिल्वभूनिम्बैः क्वथितैः पलसम्मितैः ।
कल्कैर्मदनयष्ट्याह्नषड्ग्रन्थाऽमरसर्षपैः ॥ ६८ ॥
पिप्पलीमूलसिन्धूत्थ यवानीमिसिर्वत्सकैः ।
क्षौद्रेक्षुक्षीरगोमूत्रसर्पिस्तैलरसप्लुतैः ॥ ६ ९ ॥
तूर्णमास्थापनं कार्य्य संसृष्टबहुरोगिणाम् ।
गृध्रसी शर्कराऽष्टीला तूनीगुल्मगदापहम् ॥ ७० ॥
रास्तऽऽरग्वधवर्षाभूकटुकोशीर वारिदैः " ।
त्रायमाणाऽमृतारक्तापञ्चमूलीबिभीतकैः ॥ ७१ ॥
७ ९ १ १ कफे कफरोग च दशमूल्याद्यास्थापनमाचष्टे – दशमूलीति । त्रिकण्टकादि-लघुपञ्चमूलं, बिल्वाग्निमन्थादिबृहत् पन्चमूलं च दशमूलमुच्यते । निशा = हरिद्रा | २ मागधिका = पिप्पली, इन्द्राह्वः = कुटजः । ३ मदनफलमित्यर्थः । ४ " टोपो गुडगुडाशब्दः प्रोक्को जठरसम्भव: " इति भावमिश्रः । ५ वृषाद्यास्थापनमाह- - वृषेति । वृषः = वासकः, अश्मभेदः = पाषाणभेदः, वर्षाभू = पुनर्नवा, धान्यं - ' घनिया ' इति, गन्धर्वहस्तकः = एरण्डः । ६ निशा-च्छदः = ' कचूर ' इति ख्यातः । ७ षड्ग्रन्था = वचा । ८ मिसिः मधुरिका, वत्सकः = कुटजः । ९ सर्वरोगहररास्नाद्यास्थापनमुपदिशति - रास्नेति । १० वा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 950
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-७ ९ २ [ अ ० ३८ Digitized by Arya Samaj Foundation Chennai and eGangotri
सर्बलैः पालिकैः क्वाथः कल्कस्तु मदनान्वितैः ।
यष्ट्याह्वमिसिसिन्धूत्थफलिनीन्द्रयवाह्वयैः ॥ ७२ ॥
रसाञ्जनरसक्षौद्रद्राक्षासौवीरसंयुतैः ।
युक्तो बस्तिः सुखोष्णोऽयं मांसशुक्रबलौजसाम् ॥ ७३ ॥
आयुषोऽग्नेश्च संस्कर्त्ता हन्ति चाशु गदानिमान् ।
गुल्मासृग्दरवीसर्पमूत्रकृच्छ्रक्षतक्षयान् ॥ ७४ ॥
विषमज्वरमसि ग्रहणीं वातकुण्डलीम् ।
जानुजङ्घाशिरोबस्तिग्रहोदावर्त्तमारुतान् ॥ ७५ ॥।
वातासृक्शर्कराऽष्टीलाकुक्षिशूलोदरारुचीः ।
रक्तपित्तकफोन्मादप्रमेहाध्मानहृद्ग्रहान् ॥ ७६ ॥
वातघ्नौषधनिःक्वाथाः सैन्धवत्रिवृतायुताः ।
साम्लाः सुखोष्णा योज्याः स्युर्बस्तयः कुपितेऽनिले ॥ ७७ ॥
न्यग्रोधादिगणक्वाथाः काकोल्यादिसमायुताः ।
विधेया बस्तयः पित्ते ससर्पिष्काः सशर्कराः ॥ ७८ ॥
आरग्वधादिनिःक्वाथाः पिप्पल्यादिसमायुताः ।
सक्षौद्रमूत्रा देयाः स्युर्बस्तयः कुपिते कफे ॥ ७ ९ ॥
शर्करेक्षुरसक्षीरघृतयुक्ताः सुशीतलाः ।
क्षीरवृक्षकँषायाढ्या बस्तयः शोणिते हिताः ॥ ८० ॥
शोधनद्रव्यनिःक्वाथास्तत्कल्कस्नेह सैन्धवैः । रिदः = मुस्ता । दुष्ण इत्यर्थः । १ बलया सहितैः सबलैः । २ सुखावह उष्णः सुखोष्णः किन्चि ३ वातरोगे आस्थापनमाचष्टे - वातघ्नेति । वातघ्नौषधानि भद्रदार्वादीनि, षोडशपलप्रमितानामेषामष्टगुणे जले क्वाथः । ४ पित्तरोगे आस्थापनमभिधत्ते — न्य-ग्रोधादीति । न्यग्रोधादीनां षोडशपलद्रव्याणामष्टगुणे जले क्वाथः । ५ श्लेष्म. णि आस्थापनं निर्दिशति - आरग्वधादीति । षोडशपलानामारग्वधादोनामष्टगुणे जले क्वाथः । ६ शोणितरोगे आस्थापनं दर्शयति - शर्करेति । ७ क्षीरवृक्षाणां न्यग्रोधादि-द्रव्याणां षोडशपलप्रमितानां कषायः क्काथैराढ्याः प्रधाना इत्यर्थः । - शोधनास्था-CC - 0. Gurukul Kangri Collection, Haridwar