सुश्रुत संहिता चौखम्बा — पृष्ठ 951–960
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 951–960
पृष्ठ 951
पाठ पढ़ें पाठ छिपाएँ
अ ० ३८ ] Digitized by Arya विकित्सास्थानम् annai and eGangotri ७ ९ ३ युक्ताः खजेन मथिता बस्तयः शोधनाः स्मृताः ॥। ८१ ॥
त्रिफलाक्वाथगोमूत्र क्षौद्र क्षारसमायुताः ।
ऊषकोदिप्रतीवापा बस्तयो लेखनाः स्मृताः ॥ ८२ ॥
बृंहणद्रव्यनिःक्वाथाः कल्कैर्मधुरकैर्युताः ।
सर्पिर्मांसरसोपेता बरतयो बृंहणाः स्मृताः ॥ ८३ ॥
चटकौण्डोच्चटाक्वाथाः सक्षीरघृतशर्कराः ।
आत्मगुप्ताफलावापाः स्मृता वाजीकरा नृणाम् ॥ ८४ ॥
वैदय्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः ।
क्षीरसिद्धाः चौद्रयुताः सास्राः पिच्छिलसंज्ञिताः ॥ ८५ ॥
वाराहमाहिषौरभ्रवैडालैणेयकौक्कुटम् ।
सद्यैस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ॥ ८६ ॥
प्रियङ्ग्वादिगणक्वाथा अम्बष्ठाद्येन संयुताः ।
सक्षौद्राः सघृताश्चैव ग्राहिणो बस्तयः स्मृताः ॥ ८७ ॥
एतेष्वेव च योगेषु स्नेहाः सिद्धाः पृथक् पृथक् ।
समस्तेष्वथवा सम्यग्विधेयाः स्नेहबस्तयः ॥ ८८ ॥
पनमाख्याति - शोधनेति । शोधनद्रव्यं वमनविरेचनपठितं ज्ञेयम् । १ लेखना • स्थापनं वक्ति - त्रिफलेति । २ ऊषकादिर्द्रव्य सङ्ग्रहणीयाध्यायोक्तो गणः । ३ बृंहणास्थापनं ब्रवीति — बृंहणेति । बृंहणद्रव्यं विदारीगन्धादिकम् । ४ वा-जीकरणास्थापनमाचष्टे - चटकेति । चटकानामण्डानि, उच्चटा श्वेतगुआ, “ श्वेता गुञ्जोच्चय प्रोक्ता " इति भावप्रकाशः । ५ पिच्छाबस्तिकल्पनामभिधत्ते - बदरीति । ऐरावती = नागबला, धन्वनः = ' घामनि ' इति भाषाप्रसिद्धो धनुर्वृक्षः । बदर्यादीनां धन्वनपर्यन्तानामङ्कुराः समुदायेन पलप्रमिताः । ६ सद्योजातं सबरकं तत्कालीनम्, जीववतामिति भावः । ७ सङ्ग्राह्यास्थापनकल्पनामुपदिशति – प्रियङ्ग्वादीति । प्रियवादिगणो-क्तद्रव्याणां षोडशपलप्रमितानामष्टगुणे जले क्वाथः । अम्बष्ठादिगणो द्रव्यसङ्ग्रहणी. याध्यायोक्तः, स कल्करूपेण योजनीयः । तदुक्तं वृद्धवाग्भटे - " ग्राही प्रियङ्ग्वष्ठादी क्काथकल्कैः क्रमेण ” इति । ८ पूर्वोक्तकल्पेषु स्नेहवस्तिविधानार्थमुपदिशति - एतेष्विति । एतेषु = पूर्वोकेषु CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 952
पाठ पढ़ें पाठ छिपाएँ
७ ९ ४ Digitized by Arya Samaj सुश्रुतसंहितायां and e Shennai and eGangotri [ अ ० ३८
बन्ध्यानां शतपाकेन शोधितानां यथाक्रमम् ।
बलातैलेन देयाः स्युर्बस्तयस्त्रैवृतेने च ॥ ८ ९ ॥
नरस्योत्तमसत्वस्य तीक्ष्णं बस्ति निधापयेत् ।
मध्यमं मध्यसत्त्वस्य विपरीतस्य वै मृदुम् ॥ ९ ० ॥
एवं कालं बलं दोषं विकारञ्च विकारवित् ।
बस्तिद्रव्यबलं चैव वीक्ष्य बस्तीन् प्रयोजयेत् ॥ ९ १ ॥
दद्यादुत्क्लेशनं पूर्व मध्ये दोषहरं पुनः ।
पश्चात् संशमनीयञ्च दद्याद्वस्ति विचक्षणः ॥ ९ २ ॥
एरण्डबीजमधुकं पिप्पलीसैन्धवं वचा ।
हवुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः ॥ ९ ३ ॥
शताह्वा मधुकं बीजं कौटजं फलमेव च ।
सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः ॥ ९ ४ ॥
प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम् ।
सक्षीरः शस्यते बस्तिर्दोषाणां शमनः परः ॥ ९ ५ ॥
नृपाणां 19 तत्समानानां तथा सुमहतामपि ।
नारीणां सुकुमाराणां शिशुस्थविरयोरपि ॥ ९ ६ ॥
दोषनिर्हरणार्थाय बलवर्णोदयाय च । गणेष्वित्यर्थः । १ बन्ध्यानां शतपाकबला तैलेन बस्तिमभिदधाति — बन्ध्याना-मिति । २ त्रिभिः स्नैहै घृततैलव सारूपैर्वृतं त्रिवृतं, ततः स्वार्थिकोऽय् । “ द्वाभ्यां त्रिभिश्चतुभिर्वा यमकस्त्रिवृतो महान् " इति भावमिश्रः । ३ सत्त्वभेदेन बस्तिभेदं दर्शयति - नरस्येति । ४ विपरीतस्य = हीनबलस्येत्यर्थः । ५ कालादिभेदेन बस्तिभेदमाख्याति - एवमिति । यथा शीतकाले तीक्ष्णः, उष्णकाले मृदुः, वसन्ते शरदि च शीतोष्णयोर्मध्यः साधारणः, श्रेष्ठवले तीक्ष्णः, मध्यबले मध्यः, कनिष्ठबले मृदुः, कफवातदोषे तीच्णः, कफपित्तदोषे मध्यः, पित्तरक्तदोषे मृदुः, चका-रात् क्रूरमध्यमृदुकोष्ठेषु क्रमशस्तीक्ष्णमध्यमृदवो बोध्याः । ६ एरण्डबीजाद्युत्क्लेशन बस्ति वक्ति - एरण्डेति । ७ इवुषा = ' हाऊवेर ' इति ख्याता, फलं = मदनफलम् । ८ दोषहर बस्तिमभिदधाति -शताह्नेति । शता-ह्रा = ' सौंफ ' इति प्रथते । ९ प्रियवादिदोषशमनबस्तिमाख्याति - प्रियग्विति । मधुकं = यष्टीमधु । १० सर्वकालोपयोगाईमाधुतैलिकबस्तिप्रशंसामाह - नृपाणामिति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 953
पाठ पढ़ें पाठ छिपाएँ
ennai and eGangotri अ ० ३८ ] Digitized by Arya चिकित्सा आगतम् eine समासेनोपदेक्ष्यामि विधानं माधुतैलिकम् ॥ ९ ७ ॥
यानस्त्रीभोज्यपानेषु नियमश्चात्र नोच्यते ।
फलञ्च विपुलं दृष्टं व्यापदाञ्चाप्यसम्भवः ॥ ९ ८ ॥
योज्यस्त्वतः सुखेनैव निरूहक्रममिच्छता ।
यदेच्छति तदैवैष प्रयोक्तव्यो विपश्चिता ॥ ९९ ॥
मधुले समे स्यातां क्वाथश्चैरण्डमूलजः ।
पलार्द्धं शतपुष्पायास्ततोऽर्द्ध सैन्धवस्य च ॥ १०० ॥
फलेनैकेन संयुक्तः ख्रजेन च विलोडितः ।
देयः सुखोष्णो भिषजा माधुतैलिकसंज्ञितः ॥ १०१ ॥
वचैामधुकतैलञ्च क्वाथः सरससैन्धवः ।
पिप्पलीफलसंयुक्तो बस्तिर्युक्तरथः स्मृतः ॥ १०२ ॥
सुरदारु वरा रास्ना शतपुष्पा वचा मधु ।
हिङ्गुसैन्धवसंयुक्तो वस्तिर्दोषहरः स्मृतः ॥ १०३ ॥
पर्व्वमूलीकषायञ्च तैलं मागधिक मधु । ७ ९ ५ बस्तिरेष विधातव्यः सशताह्वः ससैन्धवः ॥ १०४ ॥
" यवकोलकुलत्थानां क्वाथो मागधिका मधु ।
ससैन्धवः सयष्ट्याह्नः सिद्धबस्तिरिति स्मृतः ॥ १०५ ॥
५१ ' मुस्तापाठाऽमृतातिक्ताबलारास्नापुनर्नवाः ।
मञ्जिष्ठाऽऽरग्वधोशीरत्रायमाणाख्यगोक्षुरान् ॥ १०६ ॥
पालिकान् पञ्चमूलाल्पसहितान्मदनाष्टकम् । तत्समानानां = राजतुल्य पुरुषाणाम् । १ मधुना तैलेन संसृष्टं माधुतैलिकम् । २ माधुतैलिकवस्तिकल्पनां निदिशति - मध्विति । ३ खजेन = मन्थानेने. त्यर्थः । ४ सुखोष्णः किञ्चिदुष्णः । ५ युक्तरथाख्य बस्तिकल्पनां वक्ति - वचेति । रसः = मांसरसः । ६ युक्तरथाख्यो माधुतैलिक इत्यर्थः । ७ दोषहर माधु तैलिकब-स्तिमाह – सुरदार्विति । वरा = त्रिफला । ८ पाञ्च मूलिकमाधुतै लिकबस्ति वक्ति – पञ्चेति । ९ मागधिका = पिप्पली । १० सिद्धबस्त्याख्यमाधुतैलिकमुपदिशति - यवेति । भावप्रकाशे तु - " पञ्चमूलस्य निःक्काथैस्तैलं मागधिका मधु । ससैन्धवः सयष्टयाह्नः सिद्ध बस्तिरिति स्मृतः ॥ ” इति पाठः । ११ मुस्त।द्यास्थापनबस्ति ब्रवोति - मुस्तेति । १२ पालिकान् = प्रत्येकमेकै-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 954
पाठ पढ़ें पाठ छिपाएँ
७ ९ ६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३८ जलाढके पचेत् क्वाथं पादशेषं पुनः पचेत् ॥ १०७ ॥
क्षीरार्धाढके संयुक्तमा क्षीरात् सुपरिस्रुतम् ।
पादेन जाङ्गलरसस्तथा मधुघृतं समम् ॥ १०८ ॥
शताह्वाफलिनीयष्ट्रीवत्सकैः सरसाञ्जनैः ।
कार्षिकैः सैन्धवोन्मिश्रैः कल्कैर्बस्तिः प्रयोजितः ॥ १० ९ ॥
वातासृङ्मोहशो फार्शोगुल्ममूत्रविबन्धनुत् ।
विसर्पज्वरविड्भङ्गरक्तपित्तविनाशनः ॥ ११० ॥
बल्यः सञ्जीवनो वृष्यश्चक्षुष्यः शूलनाशनः ।
स्थापनानामयं राजा बस्तिर्मुस्तादिको मतः ॥ १११ ॥
अवेक्ष्य भेषजं बुद्ध्या विकारञ्च विकारवित् ।
बीजेनानेन मतिमान् कुर्याद् बस्तिशतान्यपि ॥ ११२ ॥
" अजीर्णे न प्रयुञ्जीत दिवास्वप्नं च वर्जयेत् । 8 आहाराचारिकं शेषमन्यद् युक्तं समाचरेत् ॥ ११३ ॥
यस्मान्मधु च तैलञ्च प्राधान्येन प्रदीयते ।
माधुतैलिक इत्येवं भिषग्भिर्बस्तिरुच्यते ॥ ११४ ॥
रथेष्वपि च युक्तेषु हस्त्यश्वे चापि कल्पिते ।
यस्मान्न प्रतिषिद्धोऽयमतो युक्तरथः स्मृतः ॥ ११ ५ ॥
बलोपचयवर्णानां यस्माद् व्याधिशतस्य च ।
भवत्येतेन सिद्धिस्तु सिद्धबस्तिरतो मतः ॥ ११६ ॥
सुखिनामल्पदोषाणां नित्यं स्निग्धाश्च ये नराः ।
मृदुकोष्ठांश्च ये तेषां विधेया माधुतैलिकाः ॥ ११७ ॥
कपलप्रमितान्, पञ्चमूलाल्पसहितान् = लघुपञ्चमूलसंयुक्तान् । १ जलाढके = अष्ट • विंशत्यधिकशतपलप्रमितजले इत्यर्थः । २ अर्धाढकसंयुक्तं = चतुःषष्टिपल संयुक्तम् । ३ “ वातघ्नौषधनिःक्काथा " इत्यादिबस्तिषूक्तबीजेनेत्यर्थः । ४ कृतास्थापनस्य वर्ज्याणि निर्दिशति - अणीर्ण इति । ५ माधुतैलिकादि-सन्ज्ञां वित्रृणोति — यस्मादिति । ६ उपचयः - वृद्धिः, वर्णः = गौरश्यामादिः P ७ मातुतैलिकबैस्तियोग्यान्नराह - सुखिनामिति । मृदुः कोष्ठः कुक्षिमध्यो येषां CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 955
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya Sa कित्सास्थानम् : and eGangotri
मृदुत्वात् पादहीनत्वादकृत्स्नविधिसेवनात् ।
एकबस्तिप्रदानाच्च सिद्धबस्तिष्वयन्त्रणा ॥ ११८ ॥
७ ९ ७ इति सुश्रुतसंहितायां चिकित्सास्थाने निरूह कम चिकित्सितं नामाष्टत्रिंशोऽध्यायः ३८
एकोनचत्वारिंशत्तमोऽध्यायः ।
अथात आतुरोपद्रवचिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः ।
निरूढस्य चै कायाग्निर्मन्दो भवति देहिनः ॥ ३ ॥
# सोऽन्नैरत्यर्थ गुरुभिरुपयुक्तः प्रशाम्यति । ४ अल्पो महद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः ॥ ४
स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्द्धते ।
काष्ठैरणुभिरल्पैश्च संन्धुक्षित इवानलः ॥ ५ ॥
हृतदोषप्रमाणेन सदाऽऽहारविधिः स्मृतः ।
त्रीणि चात्र प्रमाणानि प्रस्थोऽर्द्धाढकसाढकम् ॥ ६ ॥
तत्रावरं प्रस्थमात्रं द्वे शेषे 8 मध्यमोत्तमे । मृदुकोष्ठाः । १ माधुतैलिकयोगानां नियन्त्रणत्वे हेतुमभिधत्ते - मृदुत्वादिति । पादहीनत्वात् - पादेन पादाभ्यां वा हीनत्वात्, पादैन होने नव प्रसृताः, पादाभ्यां होने षट् प्रसृता भवन्ति । श्रकृत्स्नविधिसेवनात् = वमनादि संस्कारवर्जनादित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यामष्ट-त्रिंशत्तमोऽध्यायः । एकोनचत्वारिंशत्तमोऽध्यायः । २ श्रातुराणामुपद्रवा वमनविरेचनादिपञ्चकर्मनिमित्ता व्यापदस्तेषां चिकित्सितमि-- स्यातुरोपद्रवचिकित्सितम् । ३ चकारादनुवासितस्य समुच्चयः । ४ स्नेहादिना मन्दतामापन्नस्य कायाग्नेः क्रमशो यथा प्राकृतावस्थापन्नत्वं भवतीति तद्दर्शयति-सोऽन्नैरिति । सः - कायाग्निः । ५ सन्धुक्षितः = प्रज्वलित इत्यर्थः । ६ प्रस्थ: -सार्धत्रयोदशपलः, अर्धाढकं = चतुःषष्टिपलप्रमितम्, श्राढकम् =! • श्रष्टाविंशत्यधिकश-उपलप्रमितम् । ७ द्वे शेषे = अर्द्धाढ काढके । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 956
पाठ पढ़ें पाठ छिपाएँ
७ ९ ८ सुश्रुतसंहितायां gitized by Arya Samaj Founcesion Chermal and eGangotri [ अ ० ३ ९ प्रेम्थे परिस्रुते देया यवागूः स्वल्पतण्डुला ॥ ७ ॥
द्वे ' चैवार्द्धाढके देये तिस्रश्चाप्याढके गते ।
विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः ॥ ८ ॥
दद्यादुक्तेन विधिना क्लिन्नँसिक्थामपिच्छिलाम् ।
अस्निग्धलवणं स्वच्छमुद्गयूषयुतं ततः ॥ ९ ॥
अंशद्वैयप्रमाणेन दद्यात् सुस्विन्नमोदनम् ।
ततस्तु कृतसंज्ञेनं हृद्येनेन्द्रियबोधिना ॥ १० ॥
त्रीनंशान् बितरेद्भोक्तुमातुरायौदनं मृदुम ।
ततो यथोचितं भक्तम्भोक्तुमस्मै विचक्षणः ॥ ११ ॥
लावैहरिणादीनां रसैर्दद्यात् सुसंस्कृतैः ।
हीनमध्योत्तमेष्वेषु ' विरेकेषु प्रकीर्तितः ॥ १२ ॥
एकद्वित्रिगुणाः सम्यगाहारस्य क्रमस्त्वयम् ।
र्कफपित्ताधिकान्मद्यनित्यान् हीनविशोधितान् ॥ १३ ॥
पेयाऽभिष्यन्दयेत्तेषां " तर्पणादिक्रमो हितः ।
वेदनालाभनियमशोकवैचिन्त्यहेतुभिः ॥ १४ ॥
१ हृतदोषप्रमाणविशेषेण अन्नसंसर्जनक्रमविशेषं दर्शयति - प्रस्थ इति । प्रस्थे परिस्रुते प्रस्थपरिमाणे रुधिरे गते स्वल्पतण्डुला अष्टांशतण्डुलकृता यवागूः पेया देया । तदुक्तं तन्त्रान्तरे— “ पेयां पिबेदुचितभक्तकृताष्टभागां त्रिर्दिः सकृत्प्रवरमध्यजघन्यशुद्धः " इति । २ द्वे = द्वौ वारौ । ३ उचिताद्भक्तात् = अभ्यस्तात्तण्डुलात् । ४ क्लिन्न.. सिक्थां = श्रतिपक्कतण्डुलाम्, श्रपिच्छिलां = मण्डरहिताम् । ५ अंशद्वयप्रमाणेन = अभ्यस्ततण्डुलार्ध'प्रमाणेनेत्यर्थः । ६ कृतसज्ञेन यूषेण, अत्र ' ततः सघृतमण्डेन ' इति पाठान्तरम् । ७ यथोचितं = पूर्वाभ्यस्त प्रमाणं, परिपूर्णमित्यर्थः । ८ षु पूर्वोक्तेषु हीनमध्योत्तमेषु विरेकेषु विरेचनेषु हृतदोषमानापेक्षया एकद्वित्रिगुणोऽयमाहारस्य क्रमः सम्यक् प्रकीर्तित इत्यर्थः । ९ क्वचिद् विषये पेयादिक्रमं निषेधति - कफेति । १० तेषां = दीनशोधिता-नाम्, तर्पणादिक्रमः प्रथमेऽन्नकाले लाजादिभिस्तर्पणं, ततो यूषादिभिः । तन्त्रान्तरे-" स्रुतात्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम् । पेयां न पाययेत् ” इति । ११ उक्तान्नसंसर्जनक्रममन्यत्राप्यतिदिशति - वेदनेति । वेदनालाभो ज्वरादिरोग-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 957
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya Sam कित्सास्थान mpai and eGangotri ७ ९९
नरानुपोषितांश्चापि विरिक्तवदुपाचरेत् ।
आढकार्द्धाढकप्रस्थसंख्या ह्येषा विरेचने ॥ १५ ॥
श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छति तद्विदः ।
एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चन ॥ १६ ॥
बेलं यत् त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा ।
तत्रानुक्रममेकन्तु बलस्थः सकृदाचरेत् ॥ १७ ॥
द्विराचरेन्मध्यबलस्त्रीन् वारान् दुर्बलस्तथा ।
केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु ॥ १८ ॥
संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत् ।
प्राक् स्वादुतिक्तौ स्निग्धाम्ललवणान् कटुकं ततः ॥ १ ९ ॥
स्वाद्वम्ललवणान् भूयः स्वादुतित्तावतः परम् ।
स्निग्धैरुक्षान् रसांश्चैव व्यत्यासात् स्वस्थवत्ततः ॥ २० ॥
केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम् ।
स सप्तरात्रं मनुजो भुञ्जीत लघु भोजनम् ॥ २१ ॥
“ कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम् । प्राप्तिः, नियमो व्रतोपवासादिकः, वैचित्यं चित्तविकलतेत्यर्थः । १ श्लेष्मान्तरवाव कफान्तिकत्वाद्विरेकस्य तां प्रस्थादिसंख्यां तद्विदो विरेचनविदो नेच्छन्तीत्यर्थः । भोजेऽपि —— “ तस्मान्मतिमता नित्यमात्मानं परिरक्षता । पित्तान्तं वमनं स्थाप्यं कफान्तं च विरेचनम् ॥ ” इति । २ बलविशेषेणान्न संसर्जन क्रमविशेषं दर्शयति - बलमिति । ३ अनुक्रमं = यवा • ग्वादिक्रमम् । ४ क्रमेण कृतसंसर्गस्य षडसाव चारणक्रमं निर्दिशति - संसर्गेणेति । संसर्गेण = संसर्जनेन, यवाग्वाद्युपयोगेनेत्यर्थः । ५ स्निग्धान् मधुराम्ललवणान्, रूक्षान् कटुतिक्तकषायान् व्यत्यासात् = विपर्ययादित्यर्थः । वृद्धवाग्भटस्तु — " दद्या-न्मधुरहृद्यानि ततोऽम्ललवणौ रसौ । स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः ॥ अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः । व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत् || " इत्याह । ६ स्नेहपीतवान्तयोरन्न संसर्जन क्रममभिदधाति — केवलमिति । ७ ' मनुष्या मानुषा मर्त्या मनुजा मानवा नराः ' इत्यमरः । ८ कृतसिराव्यधविरिक्तयोः परिहा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 958
पाठ पढ़ें पाठ छिपाएँ
८०० Digitized by Arya Samaj ( सुश्रुतसंहितायां nde Gangotri [ अ ० ३ ९ सना परिहरेन्मासं यावद्वा बलवान् भवेत् ॥ २२ ॥
त्र्यहं त्र्यहं परिहरेदेकैकं बस्तिमातुरः ।
तृतीये तु परीहारे यथायोगं समाचरेत् ॥ २३ ॥
तैलपूर्णाममृद्भाण्डसधर्माणो त्रणातुराः ।
स्निग्धैशुद्धाक्षरोगार्त्ता ज्वरातीसारिणश्च ये ॥ २४ ॥
क्रुध्यतः कुपितं पित्तं कुर्य्यात् तांस्तानुपद्रवान् ।
आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति ॥ २५ ॥
मैथुनोपगमाद् घोरान् व्याधीनाप्नोति दुर्मतिः ।
आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च ॥ २६ ॥
गुह्यप्रदेशे श्वयथु कासश्वासौ च दारुणौ ।
रुधिरं शुक्रवच्चापि सरजस्कं प्रवर्त्तते ॥ २७ ॥
लभते च दिवास्वप्नात्तांस्तान् व्याधीन् कफात्मकान् ।
प्लीहोदरं " प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम् ॥। २८ ॥
मोहं सदनमङ्गानामविपाकं तथाऽरुचिम् ।
तमसा " चाभिभूतस्तु स्वप्नमेवाभिनन्दति ॥ २ ९ ॥
उच्चैःः सम्भाषणाद्वायुः शिरस्यापादयेद्र्जम् । रकालावधिं दर्शयति — कृत इति । १ उपद्रव हेतुत्वेन वक्ष्यमाणं क्रोधादिकं परिहरे-दित्यर्थः। २ बस्तौ परिदारकालावधिमभिधत्ते — त्र्यहमिति । एकैकं बस्ति सेवि-त्वा त्र्यहं त्र्यहं वक्ष्यमाणं परिहार्य परिहरेदित्यर्थः । ३ योगान् सम्यङ्गिरूढानुवासि-तयोगलक्षणानतिक्रमेणेति यथायोगं यथासारम्यमित्यर्थः । ४ शुद्धसमानधर्मिणोऽन्यानपि रोगिणो निर्दिशति - तैलेति । यथा तैलपूर्णमप-कमृद्भाजनमयत्नेन चाल्यमानं विशीर्यते, तद्वदयत्नेनोपचर्यमाणा व्रणातुरादयोऽवस्था • न्तरं प्राप्यन्त इति ढल्हणः । ५ यथावत् सेवितस्नेहाः स्निग्धाः, वमनादिना निर्हृत-तदोषाः शुद्धाः । ६ स्नेहपीतादीनां परिहार्यापरिहरणे ये दोषास्तान्निरूपयति - क्रुध्यत इति । ७ दाइपिपासाद्युपद्रवानित्यर्थः । ८ सम्मोहमदापस्मारोन्मादादिविविधं भ्रममित्यर्थः । ९ मैथुनोपगममूलानेव घोरान् व्याधीन् विवृणोति - आक्षेपकमिति । १० दिवा. स्वप्नमूलान् कफात्मकान् व्याधीन् निरूपयति - प्लीहोदरमिति । ११ तमसा = तमोगुणेनेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 959
पाठ पढ़ें पाठ छिपाएँ
To 38 ] Digitized by Arya Sarral Foundation Chennai and eGangotri ८०१ औन्ध्यं जाड्यमजिव्रत्वं बाधिय्य मूकतां तथा ॥ ३० ॥।
हनुमोक्षमधीमन्थमर्दितञ्च सुदारुणम ।
नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम् ॥ ३१ ॥
लभते दन्तचालं च तांस्तांच्चान्यानुपद्रवान् ।
यानयानेन लभते छर्दिमूर्च्छा भ्रमक्लमान् ॥ ३२ ॥
तथैवाङ्गग्रहं घोरमिन्द्रियाणाञ्च विभ्रमम् ।
चिरौसनात्तथा ग्नानाच्छ्रोण्यां भवति वेदना ॥ ३३ ॥
अतिचङ्कमणाद्वायुर्जेयोः कुरुते रुजः ।
सक्थिप्रशोषं शोफं वा पादहर्षमथापि वा ॥। ३४ ॥
शीतसम्भोगतोयानां सेवा मारुतवृद्धये ।
ततोऽङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः ॥ ३५ ॥
वातातपाभ्यां वैवर्ण्य ज्वरं चापि समाप्नुयात् ।
विरुद्धार्ध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति ॥ ३६ ॥
असात्म्य भोजनं हन्याद् बलवर्णमसंशयम् ।
अनात्मवन्तः पशुवद् भुञ्जते येऽप्रमाणतः ।
रोगानीकस्य " ते मूलमजीर्णं प्राप्नुवन्ति हि ॥ ३७ ॥
व्यापदां " कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान् । १ उच्चैःसम्भाषणमूलान् व्याधीन दर्शयति-- आन्ध्यमिति । गन्धं गृह्णा-तीति जिनः, न जिनोऽजिनस्तस्य भावस्तत्त्वं गन्धाज्ञतेत्यर्थः । २ श्रधीमन्थः - श्रक्षि-रोगः, श्रदितं - वातव्याधिरोग विशेषः । ३ यानयानेन = अश्वादिना गमनेन । ४ चिरासनात् = एकस्मिन् स्थाने बहुकालपर्यन्तमुपवेशनात्, स्थानात् = ऊध्वों. भवनात् । ५ श्रतिचङ्क्रमणात् = अतिपरिभ्रमणात । ६ माल्यचन्दनाद्युपभोगः सम्भोगः । ७ वाताद् वैदय, पित्ताज्ज्वरमिति यथासंख्यमन्वयः । ८ पयोमांसादिविरुद्धाशनम्, तन्निषिद्धम् - " न मत्स्यान् पयसाऽभ्यवहरेत् ” इति । श्रध्यशनम् = श्रजीर्णे भोजनम्, “ अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ” इति । ९ श्रसात्म्य भोजनं = प्रकृतिप्रतिकूल भोजनम् 1 १० रोगानीकस्य = व्याधिसमूह-स्येत्यर्थः । ११ पूर्वोक्तदोषाणां सङ्क्षेपेण चिकित्सामाचष्टे -- व्यापदामिति । व्यापदाम् = --A ५१ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 960
पाठ पढ़ें पाठ छिपाएँ
८०२ Digitized by Arya Samaj सुश्रुतसंहिता intre Gangotri [ अ ० ४० प्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना ॥ ३८ ॥
विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरिः ।
सषष्टिकाश्चैव पुराणशालयस्तथैव मुद्गा लघु यच्च कीर्त्तितम् ॥ ३ ९ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने आतुरोपद्रवचिकित्सितनामैकोन-चत्वारिंशोऽध्यायः ॥ ३ ९ ॥
चत्वारिंशत्तमोऽध्यायः ।
अथातो धूमनस्य कवलग्रह चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
धूमः पञ्चविधो भवति । तद्यथा— '- प्रायोगिकः, स्नेहिको वैरे-चनिकः, कासैघ्नो, वामनीयश्चेति ॥ ३ ॥
तत्रैलादिना कुष्ठतगरवर्त्स्न्येन श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्ड-उपद्रवाणाम् । १ प्रत्यनीकेन == विरोधिना । ' प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ' । २ विरिक्तेन वान्तेन च सेव्यमन्नपानं निर्दिशति - विरिक्तेति । ३ अत्र तच्च सेव्यमिति शेषः । इतिसुश्रुतसंहितायाश्चिकित्सास्थावीयसुधाऽऽख्यटिप्पन्या मे कोन-चत्वारिंशोऽध्यायः । चत्वारिंशत्तमोऽध्यायः । ४ कवलग्रह शब्दानन्तरमादिशब्दस्य लुप्तनिर्देशाद् गण्डूषप्रतिसारणयोरपि चिकि-त्सितं बोध्यम्, चिकित्सासादृश्यात् । ५ स्वस्थस्य सततप्रयोगे साधुः प्रायोगिकः । ६ कासम् उरः कण्ठरोगं च हन्तीति कासध्नः । भावप्रकाशे विशेषः - " धूमस्तु षड्विधः प्रोक्तः शमनो बृंहणस्तथा । रेचनः कासदा चैव वामनो व्रणधूपनः ॥ शमनस्य
तु पर्यायौ मध्यः प्रायोगिकस्तथा । बृंहणस्य च पर्यायौ स्नेहनो मृदुरे व च ॥
रेचनस्यापि पर्यायौ शोधनस्तीक्ष्ण एव च । " इति । ७ धूमवर्तिसाधनद्रव्याणि निर्दिशति — तत्रेति । कुष्ठतगरवर्ज्येण = कुष्ठतगररहितेन, एलादिना = एलादिवर्गे • णेत्यर्थः । निभिः– “ धूमो हि वक्रकुष्ठाभ्यां विलालयति शक्तितः । मस्तिष्कं तद्धि विष्यण्यं नाशाय प्रतिपद्यते ॥ ” इति । ८ शरकाण्डं = शरेषिका, ' सरकंडा ' इति ख्यातम्, श्रृङ्गुलिपरिणादं = कनिष्ठि • CC - 0. Gurukul Kangri Collection, Haridwar