सुश्रुत संहिता चौखम्बा — पृष्ठ 951–960

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 951–960

पृष्ठ 951

सुश्रुत संहिता चौखम्बा, पृष्ठ 951 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३८ ] Digitized by Arya विकित्सास्थानम् annai and eGangotri ७ ९ ३ युक्ताः खजेन मथिता बस्तयः शोधनाः स्मृताः ॥। ८१ ॥

त्रिफलाक्वाथगोमूत्र क्षौद्र क्षारसमायुताः ।

ऊषकोदिप्रतीवापा बस्तयो लेखनाः स्मृताः ॥ ८२ ॥

बृंहणद्रव्यनिःक्वाथाः कल्कैर्मधुरकैर्युताः ।

सर्पिर्मांसरसोपेता बरतयो बृंहणाः स्मृताः ॥ ८३ ॥

चटकौण्डोच्चटाक्वाथाः सक्षीरघृतशर्कराः ।

आत्मगुप्ताफलावापाः स्मृता वाजीकरा नृणाम् ॥ ८४ ॥

वैदय्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः ।

क्षीरसिद्धाः चौद्रयुताः सास्राः पिच्छिलसंज्ञिताः ॥ ८५ ॥

वाराहमाहिषौरभ्रवैडालैणेयकौक्कुटम् ।

सद्यैस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ॥ ८६ ॥

प्रियङ्ग्वादिगणक्वाथा अम्बष्ठाद्येन संयुताः ।

सक्षौद्राः सघृताश्चैव ग्राहिणो बस्तयः स्मृताः ॥ ८७ ॥

एतेष्वेव च योगेषु स्नेहाः सिद्धाः पृथक् पृथक् ।

समस्तेष्वथवा सम्यग्विधेयाः स्नेहबस्तयः ॥ ८८ ॥

पनमाख्याति - शोधनेति । शोधनद्रव्यं वमनविरेचनपठितं ज्ञेयम् । १ लेखना • स्थापनं वक्ति - त्रिफलेति । २ ऊषकादिर्द्रव्य सङ्ग्रहणीयाध्यायोक्तो गणः । ३ बृंहणास्थापनं ब्रवीति — बृंहणेति । बृंहणद्रव्यं विदारीगन्धादिकम् । ४ वा-जीकरणास्थापनमाचष्टे - चटकेति । चटकानामण्डानि, उच्चटा श्वेतगुआ, “ श्वेता गुञ्जोच्चय प्रोक्ता " इति भावप्रकाशः । ५ पिच्छाबस्तिकल्पनामभिधत्ते - बदरीति । ऐरावती = नागबला, धन्वनः = ' घामनि ' इति भाषाप्रसिद्धो धनुर्वृक्षः । बदर्यादीनां धन्वनपर्यन्तानामङ्कुराः समुदायेन पलप्रमिताः । ६ सद्योजातं सबरकं तत्कालीनम्, जीववतामिति भावः । ७ सङ्ग्राह्यास्थापनकल्पनामुपदिशति – प्रियङ्ग्वादीति । प्रियवादिगणो-क्तद्रव्याणां षोडशपलप्रमितानामष्टगुणे जले क्वाथः । अम्बष्ठादिगणो द्रव्यसङ्ग्रहणी. याध्यायोक्तः, स कल्करूपेण योजनीयः । तदुक्तं वृद्धवाग्भटे - " ग्राही प्रियङ्ग्वष्ठादी क्काथकल्कैः क्रमेण ” इति । ८ पूर्वोक्तकल्पेषु स्नेहवस्तिविधानार्थमुपदिशति - एतेष्विति । एतेषु = पूर्वोकेषु CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 952

सुश्रुत संहिता चौखम्बा, पृष्ठ 952 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७ ९ ४ Digitized by Arya Samaj सुश्रुतसंहितायां and e Shennai and eGangotri [ अ ० ३८

बन्ध्यानां शतपाकेन शोधितानां यथाक्रमम् ।

बलातैलेन देयाः स्युर्बस्तयस्त्रैवृतेने च ॥ ८ ९ ॥

नरस्योत्तमसत्वस्य तीक्ष्णं बस्ति निधापयेत् ।

मध्यमं मध्यसत्त्वस्य विपरीतस्य वै मृदुम् ॥ ९ ० ॥

एवं कालं बलं दोषं विकारञ्च विकारवित् ।

बस्तिद्रव्यबलं चैव वीक्ष्य बस्तीन् प्रयोजयेत् ॥ ९ १ ॥

दद्यादुत्क्लेशनं पूर्व मध्ये दोषहरं पुनः ।

पश्चात् संशमनीयञ्च दद्याद्वस्ति विचक्षणः ॥ ९ २ ॥

एरण्डबीजमधुकं पिप्पलीसैन्धवं वचा ।

हवुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः ॥ ९ ३ ॥

शताह्वा मधुकं बीजं कौटजं फलमेव च ।

सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः ॥ ९ ४ ॥

प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम् ।

सक्षीरः शस्यते बस्तिर्दोषाणां शमनः परः ॥ ९ ५ ॥

नृपाणां 19 तत्समानानां तथा सुमहतामपि ।

नारीणां सुकुमाराणां शिशुस्थविरयोरपि ॥ ९ ६ ॥

दोषनिर्हरणार्थाय बलवर्णोदयाय च । गणेष्वित्यर्थः । १ बन्ध्यानां शतपाकबला तैलेन बस्तिमभिदधाति — बन्ध्याना-मिति । २ त्रिभिः स्नैहै घृततैलव सारूपैर्वृतं त्रिवृतं, ततः स्वार्थिकोऽय् । “ द्वाभ्यां त्रिभिश्चतुभिर्वा यमकस्त्रिवृतो महान् " इति भावमिश्रः । ३ सत्त्वभेदेन बस्तिभेदं दर्शयति - नरस्येति । ४ विपरीतस्य = हीनबलस्येत्यर्थः । ५ कालादिभेदेन बस्तिभेदमाख्याति - एवमिति । यथा शीतकाले तीक्ष्णः, उष्णकाले मृदुः, वसन्ते शरदि च शीतोष्णयोर्मध्यः साधारणः, श्रेष्ठवले तीक्ष्णः, मध्यबले मध्यः, कनिष्ठबले मृदुः, कफवातदोषे तीच्णः, कफपित्तदोषे मध्यः, पित्तरक्तदोषे मृदुः, चका-रात् क्रूरमध्यमृदुकोष्ठेषु क्रमशस्तीक्ष्णमध्यमृदवो बोध्याः । ६ एरण्डबीजाद्युत्क्लेशन बस्ति वक्ति - एरण्डेति । ७ इवुषा = ' हाऊवेर ' इति ख्याता, फलं = मदनफलम् । ८ दोषहर बस्तिमभिदधाति -शताह्नेति । शता-ह्रा = ' सौंफ ' इति प्रथते । ९ प्रियवादिदोषशमनबस्तिमाख्याति - प्रियग्विति । मधुकं = यष्टीमधु । १० सर्वकालोपयोगाईमाधुतैलिकबस्तिप्रशंसामाह - नृपाणामिति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 953

सुश्रुत संहिता चौखम्बा, पृष्ठ 953 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

ennai and eGangotri अ ० ३८ ] Digitized by Arya चिकित्सा आगतम् eine समासेनोपदेक्ष्यामि विधानं माधुतैलिकम् ॥ ९ ७ ॥

यानस्त्रीभोज्यपानेषु नियमश्चात्र नोच्यते ।

फलञ्च विपुलं दृष्टं व्यापदाञ्चाप्यसम्भवः ॥ ९ ८ ॥

योज्यस्त्वतः सुखेनैव निरूहक्रममिच्छता ।

यदेच्छति तदैवैष प्रयोक्तव्यो विपश्चिता ॥ ९९ ॥

मधुले समे स्यातां क्वाथश्चैरण्डमूलजः ।

पलार्द्धं शतपुष्पायास्ततोऽर्द्ध सैन्धवस्य च ॥ १०० ॥

फलेनैकेन संयुक्तः ख्रजेन च विलोडितः ।

देयः सुखोष्णो भिषजा माधुतैलिकसंज्ञितः ॥ १०१ ॥

वचैामधुकतैलञ्च क्वाथः सरससैन्धवः ।

पिप्पलीफलसंयुक्तो बस्तिर्युक्तरथः स्मृतः ॥ १०२ ॥

सुरदारु वरा रास्ना शतपुष्पा वचा मधु ।

हिङ्गुसैन्धवसंयुक्तो वस्तिर्दोषहरः स्मृतः ॥ १०३ ॥

पर्व्वमूलीकषायञ्च तैलं मागधिक मधु । ७ ९ ५ बस्तिरेष विधातव्यः सशताह्वः ससैन्धवः ॥ १०४ ॥

" यवकोलकुलत्थानां क्वाथो मागधिका मधु ।

ससैन्धवः सयष्ट्याह्नः सिद्धबस्तिरिति स्मृतः ॥ १०५ ॥

५१ ' मुस्तापाठाऽमृतातिक्ताबलारास्नापुनर्नवाः ।

मञ्जिष्ठाऽऽरग्वधोशीरत्रायमाणाख्यगोक्षुरान् ॥ १०६ ॥

पालिकान् पञ्चमूलाल्पसहितान्मदनाष्टकम् । तत्समानानां = राजतुल्य पुरुषाणाम् । १ मधुना तैलेन संसृष्टं माधुतैलिकम् । २ माधुतैलिकवस्तिकल्पनां निदिशति - मध्विति । ३ खजेन = मन्थानेने. त्यर्थः । ४ सुखोष्णः किञ्चिदुष्णः । ५ युक्तरथाख्य बस्तिकल्पनां वक्ति - वचेति । रसः = मांसरसः । ६ युक्तरथाख्यो माधुतैलिक इत्यर्थः । ७ दोषहर माधु तैलिकब-स्तिमाह – सुरदार्विति । वरा = त्रिफला । ८ पाञ्च मूलिकमाधुतै लिकबस्ति वक्ति – पञ्चेति । ९ मागधिका = पिप्पली । १० सिद्धबस्त्याख्यमाधुतैलिकमुपदिशति - यवेति । भावप्रकाशे तु - " पञ्चमूलस्य निःक्काथैस्तैलं मागधिका मधु । ससैन्धवः सयष्टयाह्नः सिद्ध बस्तिरिति स्मृतः ॥ ” इति पाठः । ११ मुस्त।द्यास्थापनबस्ति ब्रवोति - मुस्तेति । १२ पालिकान् = प्रत्येकमेकै-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 954

सुश्रुत संहिता चौखम्बा, पृष्ठ 954 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७ ९ ६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३८ जलाढके पचेत् क्वाथं पादशेषं पुनः पचेत् ॥ १०७ ॥

क्षीरार्धाढके संयुक्तमा क्षीरात् सुपरिस्रुतम् ।

पादेन जाङ्गलरसस्तथा मधुघृतं समम् ॥ १०८ ॥

शताह्वाफलिनीयष्ट्रीवत्सकैः सरसाञ्जनैः ।

कार्षिकैः सैन्धवोन्मिश्रैः कल्कैर्बस्तिः प्रयोजितः ॥ १० ९ ॥

वातासृङ्मोहशो फार्शोगुल्ममूत्रविबन्धनुत् ।

विसर्पज्वरविड्भङ्गरक्तपित्तविनाशनः ॥ ११० ॥

बल्यः सञ्जीवनो वृष्यश्चक्षुष्यः शूलनाशनः ।

स्थापनानामयं राजा बस्तिर्मुस्तादिको मतः ॥ १११ ॥

अवेक्ष्य भेषजं बुद्ध्या विकारञ्च विकारवित् ।

बीजेनानेन मतिमान् कुर्याद् बस्तिशतान्यपि ॥ ११२ ॥

" अजीर्णे न प्रयुञ्जीत दिवास्वप्नं च वर्जयेत् । 8 आहाराचारिकं शेषमन्यद् युक्तं समाचरेत् ॥ ११३ ॥

यस्मान्मधु च तैलञ्च प्राधान्येन प्रदीयते ।

माधुतैलिक इत्येवं भिषग्भिर्बस्तिरुच्यते ॥ ११४ ॥

रथेष्वपि च युक्तेषु हस्त्यश्वे चापि कल्पिते ।

यस्मान्न प्रतिषिद्धोऽयमतो युक्तरथः स्मृतः ॥ ११५ ॥

बलोपचयवर्णानां यस्माद् व्याधिशतस्य च ।

भवत्येतेन सिद्धिस्तु सिद्धबस्तिरतो मतः ॥ ११६ ॥

सुखिनामल्पदोषाणां नित्यं स्निग्धाश्च ये नराः ।

मृदुकोष्ठांश्च ये तेषां विधेया माधुतैलिकाः ॥ ११७ ॥

कपलप्रमितान्, पञ्चमूलाल्पसहितान् = लघुपञ्चमूलसंयुक्तान् । १ जलाढके = अष्ट • विंशत्यधिकशतपलप्रमितजले इत्यर्थः । २ अर्धाढकसंयुक्तं = चतुःषष्टिपल संयुक्तम् । ३ “ वातघ्नौषधनिःक्काथा " इत्यादिबस्तिषूक्तबीजेनेत्यर्थः । ४ कृतास्थापनस्य वर्ज्याणि निर्दिशति - अणीर्ण इति । ५ माधुतैलिकादि-सन्ज्ञां वित्रृणोति — यस्मादिति । ६ उपचयः - वृद्धिः, वर्णः = गौरश्यामादिः P ७ मातुतैलिकबैस्तियोग्यान्नराह - सुखिनामिति । मृदुः कोष्ठः कुक्षिमध्यो येषां CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 955

सुश्रुत संहिता चौखम्बा, पृष्ठ 955 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya Sa कित्सास्थानम् : and eGangotri

मृदुत्वात् पादहीनत्वादकृत्स्नविधिसेवनात् ।

एकबस्तिप्रदानाच्च सिद्धबस्तिष्वयन्त्रणा ॥ ११८ ॥

७ ९ ७ इति सुश्रुतसंहितायां चिकित्सास्थाने निरूह कम चिकित्सितं नामाष्टत्रिंशोऽध्यायः ३८

एकोनचत्वारिंशत्तमोऽध्यायः ।

अथात आतुरोपद्रवचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः ।

निरूढस्य चै कायाग्निर्मन्दो भवति देहिनः ॥ ३ ॥

# सोऽन्नैरत्यर्थ गुरुभिरुपयुक्तः प्रशाम्यति । ४ अल्पो महद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः ॥ ४

स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्द्धते ।

काष्ठैरणुभिरल्पैश्च संन्धुक्षित इवानलः ॥ ५ ॥

हृतदोषप्रमाणेन सदाऽऽहारविधिः स्मृतः ।

त्रीणि चात्र प्रमाणानि प्रस्थोऽर्द्धाढकसाढकम् ॥ ६ ॥

तत्रावरं प्रस्थमात्रं द्वे शेषे 8 मध्यमोत्तमे । मृदुकोष्ठाः । १ माधुतैलिकयोगानां नियन्त्रणत्वे हेतुमभिधत्ते - मृदुत्वादिति । पादहीनत्वात् - पादेन पादाभ्यां वा हीनत्वात्, पादैन होने नव प्रसृताः, पादाभ्यां होने षट् प्रसृता भवन्ति । श्रकृत्स्नविधिसेवनात् = वमनादि संस्कारवर्जनादित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यामष्ट-त्रिंशत्तमोऽध्यायः । एकोनचत्वारिंशत्तमोऽध्यायः । २ श्रातुराणामुपद्रवा वमनविरेचनादिपञ्चकर्मनिमित्ता व्यापदस्तेषां चिकित्सितमि-- स्यातुरोपद्रवचिकित्सितम् । ३ चकारादनुवासितस्य समुच्चयः । ४ स्नेहादिना मन्दतामापन्नस्य कायाग्नेः क्रमशो यथा प्राकृतावस्थापन्नत्वं भवतीति तद्दर्शयति-सोऽन्नैरिति । सः - कायाग्निः । ५ सन्धुक्षितः = प्रज्वलित इत्यर्थः । ६ प्रस्थ: -सार्धत्रयोदशपलः, अर्धाढकं = चतुःषष्टिपलप्रमितम्, श्राढकम् =! • श्रष्टाविंशत्यधिकश-उपलप्रमितम् । ७ द्वे शेषे = अर्द्धाढ काढके । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 956

सुश्रुत संहिता चौखम्बा, पृष्ठ 956 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७ ९ ८ सुश्रुतसंहितायां gitized by Arya Samaj Founcesion Chermal and eGangotri [ अ ० ३ ९ प्रेम्थे परिस्रुते देया यवागूः स्वल्पतण्डुला ॥ ७ ॥

द्वे ' चैवार्द्धाढके देये तिस्रश्चाप्याढके गते ।

विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः ॥ ८ ॥

दद्यादुक्तेन विधिना क्लिन्नँसिक्थामपिच्छिलाम् ।

अस्निग्धलवणं स्वच्छमुद्गयूषयुतं ततः ॥ ९ ॥

अंशद्वैयप्रमाणेन दद्यात् सुस्विन्नमोदनम् ।

ततस्तु कृतसंज्ञेनं हृद्येनेन्द्रियबोधिना ॥ १० ॥

त्रीनंशान् बितरेद्भोक्तुमातुरायौदनं मृदुम ।

ततो यथोचितं भक्तम्भोक्तुमस्मै विचक्षणः ॥ ११ ॥

लावैहरिणादीनां रसैर्दद्यात् सुसंस्कृतैः ।

हीनमध्योत्तमेष्वेषु ' विरेकेषु प्रकीर्तितः ॥ १२ ॥

एकद्वित्रिगुणाः सम्यगाहारस्य क्रमस्त्वयम् ।

र्कफपित्ताधिकान्मद्यनित्यान् हीनविशोधितान् ॥ १३ ॥

पेयाऽभिष्यन्दयेत्तेषां " तर्पणादिक्रमो हितः ।

वेदनालाभनियमशोकवैचिन्त्यहेतुभिः ॥ १४ ॥

१ हृतदोषप्रमाणविशेषेण अन्नसंसर्जनक्रमविशेषं दर्शयति - प्रस्थ इति । प्रस्थे परिस्रुते प्रस्थपरिमाणे रुधिरे गते स्वल्पतण्डुला अष्टांशतण्डुलकृता यवागूः पेया देया । तदुक्तं तन्त्रान्तरे— “ पेयां पिबेदुचितभक्तकृताष्टभागां त्रिर्दिः सकृत्प्रवरमध्यजघन्यशुद्धः " इति । २ द्वे = द्वौ वारौ । ३ उचिताद्भक्तात् = अभ्यस्तात्तण्डुलात् । ४ क्लिन्न.. सिक्थां = श्रतिपक्कतण्डुलाम्, श्रपिच्छिलां = मण्डरहिताम् । ५ अंशद्वयप्रमाणेन = अभ्यस्ततण्डुलार्ध'प्रमाणेनेत्यर्थः । ६ कृतसज्ञेन यूषेण, अत्र ' ततः सघृतमण्डेन ' इति पाठान्तरम् । ७ यथोचितं = पूर्वाभ्यस्त प्रमाणं, परिपूर्णमित्यर्थः । ८ षु पूर्वोक्तेषु हीनमध्योत्तमेषु विरेकेषु विरेचनेषु हृतदोषमानापेक्षया एकद्वित्रिगुणोऽयमाहारस्य क्रमः सम्यक् प्रकीर्तित इत्यर्थः । ९ क्वचिद् विषये पेयादिक्रमं निषेधति - कफेति । १० तेषां = दीनशोधिता-नाम्, तर्पणादिक्रमः प्रथमेऽन्नकाले लाजादिभिस्तर्पणं, ततो यूषादिभिः । तन्त्रान्तरे-" स्रुतात्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम् । पेयां न पाययेत् ” इति । ११ उक्तान्नसंसर्जनक्रममन्यत्राप्यतिदिशति - वेदनेति । वेदनालाभो ज्वरादिरोग-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 957

सुश्रुत संहिता चौखम्बा, पृष्ठ 957 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya Sam कित्सास्थान mpai and eGangotri ७ ९९

नरानुपोषितांश्चापि विरिक्तवदुपाचरेत् ।

आढकार्द्धाढकप्रस्थसंख्या ह्येषा विरेचने ॥ १५ ॥

श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छति तद्विदः ।

एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चन ॥ १६ ॥

बेलं यत् त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा ।

तत्रानुक्रममेकन्तु बलस्थः सकृदाचरेत् ॥ १७ ॥

द्विराचरेन्मध्यबलस्त्रीन् वारान् दुर्बलस्तथा ।

केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु ॥ १८ ॥

संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत् ।

प्राक् स्वादुतिक्तौ स्निग्धाम्ललवणान् कटुकं ततः ॥ १ ९ ॥

स्वाद्वम्ललवणान् भूयः स्वादुतित्तावतः परम् ।

स्निग्धैरुक्षान् रसांश्चैव व्यत्यासात् स्वस्थवत्ततः ॥ २० ॥

केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम् ।

स सप्तरात्रं मनुजो भुञ्जीत लघु भोजनम् ॥ २१ ॥

“ कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम् । प्राप्तिः, नियमो व्रतोपवासादिकः, वैचित्यं चित्तविकलतेत्यर्थः । १ श्लेष्मान्तरवाव कफान्तिकत्वाद्विरेकस्य तां प्रस्थादिसंख्यां तद्विदो विरेचनविदो नेच्छन्तीत्यर्थः । भोजेऽपि —— “ तस्मान्मतिमता नित्यमात्मानं परिरक्षता । पित्तान्तं वमनं स्थाप्यं कफान्तं च विरेचनम् ॥ ” इति । २ बलविशेषेणान्न संसर्जन क्रमविशेषं दर्शयति - बलमिति । ३ अनुक्रमं = यवा • ग्वादिक्रमम् । ४ क्रमेण कृतसंसर्गस्य षडसाव चारणक्रमं निर्दिशति - संसर्गेणेति । संसर्गेण = संसर्जनेन, यवाग्वाद्युपयोगेनेत्यर्थः । ५ स्निग्धान् मधुराम्ललवणान्, रूक्षान् कटुतिक्तकषायान् व्यत्यासात् = विपर्ययादित्यर्थः । वृद्धवाग्भटस्तु — " दद्या-न्मधुरहृद्यानि ततोऽम्ललवणौ रसौ । स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः ॥ अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः । व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत् || " इत्याह । ६ स्नेहपीतवान्तयोरन्न संसर्जन क्रममभिदधाति — केवलमिति । ७ ' मनुष्या मानुषा मर्त्या मनुजा मानवा नराः ' इत्यमरः । ८ कृतसिराव्यधविरिक्तयोः परिहा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 958

सुश्रुत संहिता चौखम्बा, पृष्ठ 958 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८०० Digitized by Arya Samaj ( सुश्रुतसंहितायां nde Gangotri [ अ ० ३ ९ सना परिहरेन्मासं यावद्वा बलवान् भवेत् ॥ २२ ॥

त्र्यहं त्र्यहं परिहरेदेकैकं बस्तिमातुरः ।

तृतीये तु परीहारे यथायोगं समाचरेत् ॥ २३ ॥

तैलपूर्णाममृद्भाण्डसधर्माणो त्रणातुराः ।

स्निग्धैशुद्धाक्षरोगार्त्ता ज्वरातीसारिणश्च ये ॥ २४ ॥

क्रुध्यतः कुपितं पित्तं कुर्य्यात् तांस्तानुपद्रवान् ।

आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति ॥ २५ ॥

मैथुनोपगमाद् घोरान् व्याधीनाप्नोति दुर्मतिः ।

आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च ॥ २६ ॥

गुह्यप्रदेशे श्वयथु कासश्वासौ च दारुणौ ।

रुधिरं शुक्रवच्चापि सरजस्कं प्रवर्त्तते ॥ २७ ॥

लभते च दिवास्वप्नात्तांस्तान् व्याधीन् कफात्मकान् ।

प्लीहोदरं " प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम् ॥। २८ ॥

मोहं सदनमङ्गानामविपाकं तथाऽरुचिम् ।

तमसा " चाभिभूतस्तु स्वप्नमेवाभिनन्दति ॥ २ ९ ॥

उच्चैःः सम्भाषणाद्वायुः शिरस्यापादयेद्र्जम् । रकालावधिं दर्शयति — कृत इति । १ उपद्रव हेतुत्वेन वक्ष्यमाणं क्रोधादिकं परिहरे-दित्यर्थः। २ बस्तौ परिदारकालावधिमभिधत्ते — त्र्यहमिति । एकैकं बस्ति सेवि-त्वा त्र्यहं त्र्यहं वक्ष्यमाणं परिहार्य परिहरेदित्यर्थः । ३ योगान् सम्यङ्गिरूढानुवासि-तयोगलक्षणानतिक्रमेणेति यथायोगं यथासारम्यमित्यर्थः । ४ शुद्धसमानधर्मिणोऽन्यानपि रोगिणो निर्दिशति - तैलेति । यथा तैलपूर्णमप-कमृद्भाजनमयत्नेन चाल्यमानं विशीर्यते, तद्वदयत्नेनोपचर्यमाणा व्रणातुरादयोऽवस्था • न्तरं प्राप्यन्त इति ढल्हणः । ५ यथावत् सेवितस्नेहाः स्निग्धाः, वमनादिना निर्हृत-तदोषाः शुद्धाः । ६ स्नेहपीतादीनां परिहार्यापरिहरणे ये दोषास्तान्निरूपयति - क्रुध्यत इति । ७ दाइपिपासाद्युपद्रवानित्यर्थः । ८ सम्मोहमदापस्मारोन्मादादिविविधं भ्रममित्यर्थः । ९ मैथुनोपगममूलानेव घोरान् व्याधीन् विवृणोति - आक्षेपकमिति । १० दिवा. स्वप्नमूलान् कफात्मकान् व्याधीन् निरूपयति - प्लीहोदरमिति । ११ तमसा = तमोगुणेनेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 959

सुश्रुत संहिता चौखम्बा, पृष्ठ 959 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

To 38 ] Digitized by Arya Sarral Foundation Chennai and eGangotri ८०१ औन्ध्यं जाड्यमजिव्रत्वं बाधिय्य मूकतां तथा ॥ ३० ॥।

हनुमोक्षमधीमन्थमर्दितञ्च सुदारुणम ।

नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम् ॥ ३१ ॥

लभते दन्तचालं च तांस्तांच्चान्यानुपद्रवान् ।

यानयानेन लभते छर्दिमूर्च्छा भ्रमक्लमान् ॥ ३२ ॥

तथैवाङ्गग्रहं घोरमिन्द्रियाणाञ्च विभ्रमम् ।

चिरौसनात्तथा ग्नानाच्छ्रोण्यां भवति वेदना ॥ ३३ ॥

अतिचङ्कमणाद्वायुर्जेयोः कुरुते रुजः ।

सक्थिप्रशोषं शोफं वा पादहर्षमथापि वा ॥। ३४ ॥

शीतसम्भोगतोयानां सेवा मारुतवृद्धये ।

ततोऽङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः ॥ ३५ ॥

वातातपाभ्यां वैवर्ण्य ज्वरं चापि समाप्नुयात् ।

विरुद्धार्ध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति ॥ ३६ ॥

असात्म्य भोजनं हन्याद् बलवर्णमसंशयम् ।

अनात्मवन्तः पशुवद् भुञ्जते येऽप्रमाणतः ।

रोगानीकस्य " ते मूलमजीर्णं प्राप्नुवन्ति हि ॥ ३७ ॥

व्यापदां " कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान् । १ उच्चैःसम्भाषणमूलान् व्याधीन दर्शयति-- आन्ध्यमिति । गन्धं गृह्णा-तीति जिनः, न जिनोऽजिनस्तस्य भावस्तत्त्वं गन्धाज्ञतेत्यर्थः । २ श्रधीमन्थः - श्रक्षि-रोगः, श्रदितं - वातव्याधिरोग विशेषः । ३ यानयानेन = अश्वादिना गमनेन । ४ चिरासनात् = एकस्मिन् स्थाने बहुकालपर्यन्तमुपवेशनात्, स्थानात् = ऊध्वों. भवनात् । ५ श्रतिचङ्क्रमणात् = अतिपरिभ्रमणात । ६ माल्यचन्दनाद्युपभोगः सम्भोगः । ७ वाताद् वैदय, पित्ताज्ज्वरमिति यथासंख्यमन्वयः । ८ पयोमांसादिविरुद्धाशनम्, तन्निषिद्धम् - " न मत्स्यान् पयसाऽभ्यवहरेत् ” इति । श्रध्यशनम् = श्रजीर्णे भोजनम्, “ अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ” इति । ९ श्रसात्म्य भोजनं = प्रकृतिप्रतिकूल भोजनम् 1 १० रोगानीकस्य = व्याधिसमूह-स्येत्यर्थः । ११ पूर्वोक्तदोषाणां सङ्क्षेपेण चिकित्सामाचष्टे -- व्यापदामिति । व्यापदाम् = --A ५१ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 960

सुश्रुत संहिता चौखम्बा, पृष्ठ 960 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८०२ Digitized by Arya Samaj सुश्रुतसंहिता intre Gangotri [ अ ० ४० प्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना ॥ ३८ ॥

विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरिः ।

सषष्टिकाश्चैव पुराणशालयस्तथैव मुद्गा लघु यच्च कीर्त्तितम् ॥ ३ ९ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने आतुरोपद्रवचिकित्सितनामैकोन-चत्वारिंशोऽध्यायः ॥ ३ ९ ॥

चत्वारिंशत्तमोऽध्यायः ।

अथातो धूमनस्य कवलग्रह चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

धूमः पञ्चविधो भवति । तद्यथा— '- प्रायोगिकः, स्नेहिको वैरे-चनिकः, कासैघ्नो, वामनीयश्चेति ॥ ३ ॥

तत्रैलादिना कुष्ठतगरवर्त्स्न्येन श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्ड-उपद्रवाणाम् । १ प्रत्यनीकेन == विरोधिना । ' प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ' । २ विरिक्तेन वान्तेन च सेव्यमन्नपानं निर्दिशति - विरिक्तेति । ३ अत्र तच्च सेव्यमिति शेषः । इतिसुश्रुतसंहितायाश्चिकित्सास्थावीयसुधाऽऽख्यटिप्पन्या मे कोन-चत्वारिंशोऽध्यायः । चत्वारिंशत्तमोऽध्यायः । ४ कवलग्रह शब्दानन्तरमादिशब्दस्य लुप्तनिर्देशाद् गण्डूषप्रतिसारणयोरपि चिकि-त्सितं बोध्यम्, चिकित्सासादृश्यात् । ५ स्वस्थस्य सततप्रयोगे साधुः प्रायोगिकः । ६ कासम् उरः कण्ठरोगं च हन्तीति कासध्नः । भावप्रकाशे विशेषः - " धूमस्तु षड्विधः प्रोक्तः शमनो बृंहणस्तथा । रेचनः कासदा चैव वामनो व्रणधूपनः ॥ शमनस्य

तु पर्यायौ मध्यः प्रायोगिकस्तथा । बृंहणस्य च पर्यायौ स्नेहनो मृदुरे व च ॥

रेचनस्यापि पर्यायौ शोधनस्तीक्ष्ण एव च । " इति । ७ धूमवर्तिसाधनद्रव्याणि निर्दिशति — तत्रेति । कुष्ठतगरवर्ज्येण = कुष्ठतगररहितेन, एलादिना = एलादिवर्गे • णेत्यर्थः । निभिः– “ धूमो हि वक्रकुष्ठाभ्यां विलालयति शक्तितः । मस्तिष्कं तद्धि विष्यण्यं नाशाय प्रतिपद्यते ॥ ” इति । ८ शरकाण्डं = शरेषिका, ' सरकंडा ' इति ख्यातम्, श्रृङ्गुलिपरिणादं = कनिष्ठि • CC - 0. Gurukul Kangri Collection, Haridwar