सुश्रुत संहिता चौखम्बा — पृष्ठ 961–970

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 961–970

पृष्ठ 961

सुश्रुत संहिता चौखम्बा, पृष्ठ 961 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

छप ० ४० ] Digitized by Anytheni hennai and eGangotri ८०३ मङ्गुलिपरिणाहं क्षौमेणाष्टाङ्गलं वेष्टयित्वा लेपयेदेषा वर्त्तिः प्रायो-गिके, स्नेहफलसौरमधूच्छिष्ट सर्जेरसगुग्गुलुप्रभृतिभिः स्नेहमिश्रः स्नैहिके, शिरोविरेचनद्रव्यैर्वैरेचने, बृहतोकण्टकारिकात्रिकटुका-समर्दहविङ्गुदीत्वङ्मनः शिलाच्छिन्नरुहा कर्कटशृङ्गीप्रभृतिभिः कासहरैश्च कासने, स्नायुचमैखुरशृङ्गकर्कटका स्थिशुष्कमत्स्यवल्लूर -कृमिप्रभृतिभिर्वामैनीयैश्च वामनीये ॥ ४ ॥

तत्रं बस्तिनेत्रद्रव्यैर्धूमनेत्रद्रव्याणि व्याख्यातानि भवन्ति । घूमनेत्रन्तु कनिष्ठिका परिणाम ५ कलायमात्रस्रोतो मूलेऽङ्गुष्ठपरि-गाहं धूमवर्त्तिप्रवेशस्रोतोऽङ्गुलान्यष्टचत्वारिंशत्प्रायोगिके, द्वात्रिंशत् स्नेहने, चतुर्विंशतिर्विरेचने, पोडशाङ्गुलं कासहने वामनीये च । एतेऽपि कोलास्थिमात्रच्छिद्रे भवतः । ब्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्थं कलायपरिमण्डलं " कुलत्थवाहिस्रोत इति ॥ ५ ॥

अर्थ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रितः " स्नेहाक्तदी-प्तायां वत्तिं नेत्रस्रोतसि प्रणिधाय धूमं पिबेत् ॥ ६ ॥

मुखेन तं पिबेत् पूर्वं नासिकाभ्यां ततः पिवेत् । काऽङ्गुलि समस्थौल्यम् । १ वर्तिः == सर्वधूमनेत्रेभ्यः षड्भागप्रमाणा । तदुक्तवान् विदेदः– “ अङ्गुष्ठएरियान मध्ये स्थूलाऽन्तयोस्तनुः । धूमनेत्रस्य षड्भागं वर्तमानं प्रचक्षते || " इति । २ स्नेहफलानां तिलातसोशिग्रु बिभीतकादिफलानां सारस्तदन्तर्गतो मज्जा, मधू च्छिष्ट = सिक्थम्, ' मोम ' इति ख्यातम् । ३ शिरोविरेचनद्रव्यैः = पिप्पलीविडङ्ग-शिग्रुसिद्धार्थ कापामार्ग क्षवक कणिज्जकप्रभृतिभिरित्यर्थः । ४ वल्लुरं = शुष्कमांसम् । ५ वामनीयैः = संशोधनसंशमनीयोक्तमदनफलादिभिरित्यर्थः । वक्ति - तत्रेति । बस्तिनेत्रद्रव्यैः-- -! सुवर्णरूप्यत्र-६ घूमनेत्रसाधनद्रव्याणि पुसीसताम्रकांस्यादिभिः । ७ घूमनेत्रप्रमाणं प्रतिपादयति - धूमेति । घूमनेत्रं तदुच्यते येन धूमपानं क्रियते । ८ श्रग्रे = मुखनासिकाप्रणयनस्थाने । मूले वर्ति-संवरणस्थाने । धूमवर्तिप्रवेशस्रोतः यावता स्रोतसा धूमवर्तिप्रवेशो भवति तावन्मात्र-स्रोतस्कम् । ९ चतुर्ष्वपि मूलच्छिद्रमानमुक्त्वा दैर्घ्यमानमाचष्टे – अङ्गुलानीति । १० कलायपरिमण्डलं कलाय वद्वर्तुलमुखम् । ११ धूमपानविधानमाख्याति - अथेति । १२ श्रादौ स्नेहाक्तः पश्चाद्दीप्तमग्रं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 962

सुश्रुत संहिता चौखम्बा, पृष्ठ 962 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८०४ Digitized by Arya Sama हिलास rand eGangotri अ ० ४० मुखपीतं मुखैनैव वमेत् पीतञ्च नासया ॥ ७ ॥

मुखेन धूममादाय नासिकाभ्यां न निर्हरेत् ।

तेन हि प्रतिलोमेन दृष्टिस्तत्र विहन्यते ॥ ८ ॥

विशेषतस्तु प्रायोगिकं घ्राणेनाददीत 9 स्नैहिकं मुखनासाभ्यां, नासिकया वैरेचनिकं, मुखेनैवेतरौ ॥ ९ ॥

तत्र प्रायोगिके वत्ति व्यपगतशरकाण्डां निवातातपशुष्कामङ्गा-रेष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य धूममाहरेति ब्रूयात्; एवं स्ने-हनं वैरेचनिकञ्च कुर्यादिति । इतरयोव्यपेतधूमाङ्गारे स्थिरे समा-हिते शरावे प्रक्षिप्य वर्त्ति मूलैच्छिद्रेणान्येन शरावेण पिधाय त-स्मिन् छिद्रे नेत्रमूलं संयोज्य धूममासेवेत, प्रशान्ते धूमे वर्त्तिमव-शिष्टां प्रक्षिप्य पुनरपि धूमं पाययेदादोपविशुद्धेरेव धूमपानोपाय-विधिः ॥ १० ॥

तत्र शोकश्रमभयाम पष्ण्यविषरक्तपित्तघ्न मूर्च्छा दाहपिपासा-पाण्डुरोगतालुशोषच्छर्दिशिरोऽभिघातोद्वारापतपिततिमिरप्रमेहोदरा-मानोर्ध्ववातार्त्ता बालवृद्धदुर्ब उ विरिक्तास्थापित जागरितगर्भिणी-रूक्ष क्षीणक्षतोरस्कमधुघृतदधिदुग्ध मत्स्य मद्ययवागूपीताल्पककाश्च न

धूममासेवेरन् ॥। ११ ॥

यस्याः सा तां स्नेहाक्तदीप्ताग्राम् । १ चकारोऽप्यथकः, तथा च नासया नासिकया पीतमपि मुखेनैव वमेदित्यर्थः । २ तन्त्रान्तरेऽपि— “ निर्वमेत्तु मुखेनैव नाप्तया न कथञ्चन । विलोमतो गतो धूमः कुर्याद्दर्शनविभ्रमम् ॥ ” इति । वाग्भटेऽपि - " मुखेनैव वमेद्धूमं नासया दृग्विघातकृत् ” इति। ३ इतरौ = कासध्नवामनीयौ । धूमपानविधिप्रसङ्गे वाग्भटस्तु - " प्राक् पिबे -न्नासयोलिलष्टे दोषे प्रायशिरोगते । उत्क्लेशनार्थं वक्त्रेण विरतं तु कण्ठगे ॥ " इति । चक्षुष्येण उभयमार्ग पानहेतुरुक्तः - " उरः कण्ठादिरोगेषु मुखेनैव पिवेन्नरः । शिरःकर्णाक्षिनासास्थे नातातो धममाचरेत् ॥ ” इति । ४ धूमविशेषेण धूम्रपाने विशेषविधिमभिधत्ते - तत्रेति । ५ मूले छिद्रं यस्य स तेन मूलच्छिद्रेण अन्येन शरावेणेत्यर्थः । ६ धूमपानानन्नरान्निर्दिशति – तन्त्र शोकेति गृह्यतेऽशीतिकान्न च " इति भावमिश्रः ॥ " धूमस्तु द्वादशाद् वर्षाद् CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 963

सुश्रुत संहिता चौखम्बा, पृष्ठ 963 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

० ४० ] Digitized by Aryasa किस्सा pehnai and eGangotri ८०५

अकालपीतः कुरुते भ्रमं मूर्च्छा शिरोरुजम् ।

नाणश्रोत्राक्षिजिह्वानामुपघातञ्च दारुणम् ॥ १२ ॥

श्राद्यस्तु यो धूमा द्वादशसु कालेषूपादेयाः । तद्यथा— क्षुतद-न्तप्रक्षालननस्यस्नानभोजन दिवास्वप्न मैथुनच्छर्दिमूत्रोच्चारहसित-रुषितशस्त्रकर्मान्तेष्विति । तत्र विभागो मूत्रोच्चार क्षवथुसितरुषि-तमैथुनान्तेषु स्नैहिकः, स्नानच्छर्दनादिवास्वप्नान्तेषु वैरेचनिकः, दन्तप्रक्षालनस्यस्नानभोजनशस्त्रकर्मान्तेषु प्रायोगिक इति ॥ १३ ॥

तत्र स्नैहिको वातं शमयति, स्नेहादुपलेपाच्च । वैरेचनः श्ले-माणमुत्क्लेश्यापक पति, रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च । प्रायोगि कः श्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति शमयति वातं साधा-रणत्वात् पूर्वाभ्यामिति ॥ १४ ॥

भवन्ति चात्र ।

नंगे धूमोपयोगाच्च प्रसन्नेन्द्रियवाङ्मनाः ।

दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः ॥ १५ ॥

तथा कासश्वासारोचकास्योपले पस्वरभेदमुखास्रावक्षवथुवम-थुक्थंतन्द्रानिद्राहनुमन्यास्तम्भाः पीनसशिरोरोगकर्णाक्षिशूला वात-कफनिमित्ताश्चास्य मुखरोगा न भवन्ति ॥ १६ ॥

तस्य योगायोगातियोगा विज्ञातव्याः । तत्र योगो रोगप्रशमनः, अयोगो रोगाप्रशमनः, तालुगलशोपपरिदाहपिपासा मूर्च्छा भ्रममद-कर्णक्ष्वेडदृष्टिनासारोगदौर्बल्यान्यतियोगो जनयति ॥ १७ ॥

१ चरकोऽपि – “ वाधिर्यमान्ध्यमूकस्वं रक्तपित्तं शिरोभ्रमम् । अकाले चातिपीतञ्च धूमः कुर्यादुपद्रवान् ॥ ” इति । २ कालपीतधूमपानव्यापदमभिधाय धूमपान -कालानभिधत्ते — आद्यास्त्विति । वाग्भट: - " क्षुतजृम्भितविण्मूत्रस्त्रीसेवाशस्त्रकर्म -णाम् । हासस्य दन्तकाष्ठर य धूममन्ते पिबेन्मृदुन् || कालेष्वेषु निशाऽऽहारनावनान्ते च मध्यमम् । निद्रानरयाञ्जनस्नानच्छर्दितान्ते विरेचनम् ॥ ” इति । ३ रुषितः = रुष्ट इत्यर्थः । ४ घूमानां प्रत्येकं कायमाख्याति — तत्रेति । नाभ्याम् । वरोधः । ६ धूमपानगुणानाचष्टे - नर इति । ५ पूर्वाभ्यां स्नेहविरेच-७ क्रथः = अकस्मादुच्छ्वासा-धूमस्य योगायोगातियोगलक्षणमाख्याति --- तस्येति । ९ दृष्टिनासा CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 964

सुश्रुत संहिता चौखम्बा, पृष्ठ 964 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८०६by Arya Samaj Foullo क्षुद्र संहिता angotri [ अ ० ४० प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत मुखनासिकाभ्याञ्च पर्या यत्रींश्चतुरो वेति । स्नैहिकं यावदप्रवृत्तिः । वैरेचनिकमादोष-दर्शनात्, तिलतण्डुलयवागूपीतेन पातव्यो वामनीयः, ग्रामान्तरेषु कासन इति ॥ १८ ॥

धूमं शरा वसम्पुटोपनीतेन नेत्रेण त्रणमानयेत्, घूमना-द्वेदनोपशमो व्रणवैशद्यमात्रावोपशमश्च भवति ॥ १ ९ ॥

विधिरेष समासेन धूमस्याभिहितो मया ।

नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः ॥ २० ॥

औषध मौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति न-स्यैम् । तद् द्विविधं शिरोविरेचनं, स्नेहनञ्च । तद् द्विविधमपि पञ्च-धा । तद्यथा - नत्यं, शिरोविरेचनं, प्रतिमर्शः, अवपीडः, प्रधमनञ्च । शब्दयोः रोगदौर्बल्याभ्यां सम्बन्धः, तथा च दृष्टिदौबल्यं, नासारोग इति बोध्यम् । १ प्रायोगिकादिधूमानां पानमर्यादामभिधत्ते - प्रायोगिकमिति । " आक्षेप-मोक्षैःपातव्यो धूमस्तु त्रिस्त्रिभिस्त्रिभिः " इति वाग्भटः । आक्षेपमोक्षैः = यादानविसगैरिति तदर्थ: । निमिः– “ धूमपाने तु विज्ञेय रच्छ्वासत्रिगुणः कलाः । तिस्रः कलाश्चात्र मात्रा प्रमाणं स्यात् त्रिमात्रिकम् ॥ पिवेत् स्वस्थाविधौ मात्रां दुर्बलस्तु कलां पिवेत् । अभिष्यण्णे प्रमाणं स्यात् प्रमाणं च पिवेद्वजि ॥ ” इति । २ इति बलवतः पुरुषस्य । तदुक्तं भोजे - " प्रमाणं स्नैहिके धूने कृशो मात्रां पिवेन्नरः । वलवांस्तु पिबेत्तावद्यावदश्रुर्न गच्छति ॥ ” इति । ३ श्रादोषदर्शनाद् = विकृत कफ़दर्शनपर्यन्तम् । वाग्भटः - " अहः पिबेत् सकृत् स्निग्धं द्विर्मध्य शोधनं परम् । द्विश्चतुर्वा " इति । शोधनं = विरेचनमित्यर्थः । ४ व्रणधूपनविधिमभिधत्ते - धूममिति । " शरावसम्टे क्षिप्त्वा कल्कमङ्गार-रदीपितम् । छिद्रे नेत्रं निवेश्याथ व्रणं तेनेव धूरयेत् ॥ " इत्यष्टाङ्गहृदयम् । भाव-प्रकाशॆ गृहदेयधूयमाह- ' मयूरपिच्छं निम्बस्य पत्राणि बृहतीफलम् । मरिचं हिङ्गु मांसी न्च बीजं कार्पाससम्भवम् ॥ छागरोमादिनिर्मोक विष्ठा वैढालिको तथा । गजदन्तश्च तच्चूर्णं किञ्चिद् घृतविमिश्रितम् ॥ गेहेषु धूपनं दत्त सर्वान् बालग्रहान् हरेत् । पिशा-चान् राक्षसान् हत्वा सर्वज्वरहरं भवेत् ॥ ” इति । ५ नस्यलचणं तद्भेदांश्च दर्शयति- औषधमिति । श्रौषधं - पिप्पलीविडङ्गा-पामार्गादिबोजचूर्णम् । ६ भावमिश्रः - " नस्यं तत्कथ्यते धीरेनसाग्राह्यं यदौष-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 965

सुश्रुत संहिता चौखम्बा, पृष्ठ 965 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४० ] Digitized by Arya कठिनम् erhai and eGangotri ८०७ तेषु नस्यं प्रधानं शिरोविरेचनं च, नस्यविकल्पः प्रतिमर्शः, शिरो-विरेचनविकल्पोऽवपीडः प्रधमनचं, ततो नस्यशब्दः पञ्चधा नि-यमितः ॥ २ ॥

तत्रे यः स्नेहनार्थं शून्यशिरसां ग्रीवास्कन्धोरसां च वलजननाथ दृष्टिप्रसादजननार्थं वा स्नेहो विधीयते तस्मिन् वैशेषिको नस्यशब्दः । तत्तु देयं वाताभिभूते शिरसि दन्तकेशश्मश्रुप्रपात दारुणकर्णशूल-कर्णक्ष्वेडतिमिरखरोपघातनासारोगास्य शोषावबाहुका कालजवलि-पलितप्रादुर्भावदारुणप्रबोधेषु वातपैत्तिकेषु मुखरोगेष्वन्येषु च वातपित्तहरद्रव्यसिद्धेन स्नेहेनेति ॥ २२ ॥

शिरोविरेचनं श्लेष्मणाऽभिव्याप्ततालुकण्ठशिरसामरोचक-शिरोगौरवशूलपीनसार्द्धावभेदक कृमिप्रतिश्यायापस्मारगन्धाज्ञाने-ध्वन्येषु चोर्ध्वजत्रुगतेषु कफजेपु विकारेषु शिरोविरेचनं द्रव्यै-स्तत्सिद्धेन वा स्नेहेनेति ॥ २३ ॥

तत्रैतद्विविधमभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणां, म-धम् । नावनं नस्यकर्मेति तस्य नामद्वयं मतम् ॥ ” इति । १ चकारः प्रतिमर्शस्य समुच्चयार्थम् । तथा च - " प्रतिमर्शो भवेत्स्नेहो निर्दोष उभयार्थकृत् " इति चरकः । २ स्नैहिकनस्यस्य ये योग्यास्तान्निर्दिशति — तत्रेति । ३ दारुणः = दारुण. काख्य क्षुद्ररोगभेदः । ४ अन्येषु = वातपैत्तिकशिरोरोगादिषु । स्नैहिकनस्यकालाव-धिस्तन्त्रान्तरे — ' ‘ एकान्तरं द्वयन्तरं वा नस्यं दद्याद् विचक्षणः । सप्ताहं तु परं देयं विश्रान्तस्य पुनः पुनः ॥ पक्षं विंशतिरात्रं वा यावदा साधु मन्यते । " इति भोजः । अन्यत्र तु - ' त्र्यहं पञ्चाहमथवा सप्ताहं वा सुयन्त्रितः । परं नत्राइमूर्ध्वं तु नवा-हात् सात्म्यतां व्रजेत् ॥ न तन्नस्यगुणं कुर्यात् सात्म्यत्वाद्दोषकृन्न च । तस्मान्नस्य-प्रयोगस्तु स्नेहिको न हितः सदा ॥ ” इति । ५ शिरोविरेचनयोग्यानाह - शिर इति । ६ अर्द्धावभेदकः = ' आधाशीशी-अधकपारी ' इति ख्यातः । ७ शिरोविरेचनद्रव्यैः = पिप्पलीविडङ्गशिग्र सिद्धार्थ कापा-मार्गक्षवक फणिज्जकपीलुप्रभृतिभिः । ८ स्नैहिक वैरेचनिकयोः कालनिर्धारणमुच्यते-तन्त्रेति । सङ्ग्रहे विशेषः- ' लालास्राव सुप्तिप्रलापदन्त कटकटाय नक्रथन कृच्छ्रोन्मीलन-पूतिमुखकर्णनादतृष्णाऽदित शिरोरोगश्वासकासोन्निद्रेषु रात्रौ " इति । स्वस्थवृत्ते नस्य-प्रयोगकालनिर्धारणमष्टाङ्गहृदये - " स्वस्थवृत्ते तु पूर्वाह्णे शरत्कालवसन्तयोः । शीते मध्यन्दिने ग्रीष्मे सायं वर्षासु सातपे ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 966

सुश्रुत संहिता चौखम्बा, पृष्ठ 966 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८०८ • सुश्रुतसंहितायां Gangotri Digitized by Arya Samaj Foundation Chennai and eGangotri ध्याह्ने पित्तरोगिणामपराह्ने वातरोगिणाम् ॥ २४ ॥

[ अ ० ४० अर्थ पुरुषाय शिरोविरेचनीयाय त्यक्तमूत्रपुरीषाय भुक्त-वते व्यभ्रे काले दन्तकाष्ठधूमपानाभ्यां विशुद्धवक्त्रस्रोतसे पाणिता-पपरिस्विन्नम्मृदितगलकपोलललाटप्रदेशाय वातातपरजोहीने वेश्म-न्युत्तानशायिने प्रसारितकरचरणाय किञ्चित् प्रविलम्वितशिरसे वस्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय विशुद्ध-स्रोतसि दक्षिणहस्तेन स्नेहमुष्णाम्बुना प्रतनं रजतसुवर्णताभ्र मरिण-मृत्पात्रशुक्तीनामन्यतमस्थं शुक्त्या पिचुना वा सुखोष्णं स्नेहमद्रतः मासिञ्चेदवच्छिन्नवारं यथा नेत्रे न प्राप्नोति ॥ २५ ॥

" स्नेहोऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत् ।

न कुप्येन्न प्रभाषेच्च न क्षुयान्न हसेत्तथा ॥ २६ ॥

एतैर्हि विहितः स्नेहो न सम्यक् प्रतिपद्यते ।

ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः ॥ २७ ॥

तस्य प्रमाणमष्टौ विन्दवः प्रदेशिनीपर्वद्वयनिःसृताः प्रथमा मात्रा, द्वितीया शुक्तिः, तृतीया पाणिशुक्तिरित्येतास्तिस्रो मात्रा यथावलं प्रयोज्याः ॥ २८ ॥

१. नरयदानविधानमाह --- अथेति । " अथोत्तानर्जुदेहस्य पाणिपादे प्रसारिते । किचिदुन्नतपादस्य किञ्चिन्मूर्धनि नामिते ॥ नासापुटं विधायकं पर्यायेण निषेचयेत् । उष्णाम्बुतप्तं भैषज्यं प्रनाढया पिन्चुताऽथवा ॥ दत्ते पादतलत्कन्धहस्तकर्णादि सद येत् । " इति । २ पिचुना = कार्पासादिमयतू लेनेत्यर्थः । ३ स्नेहशब्दस्योपलक्षण-त्वादेवमेव कल्कक्काथादिकमपि देयम् । दत्तमात्रे नत्ये कर्तव्यतामाह वृद्धवाग्भटः--“ दत्तमात्रे नस्ये कर्णललाट केशभूमिगण्ड मन्यास्कन्ध पाणिपादतलान्यनुखं मर्दयेत्, शनैः शनैश्वोच्छिङध्यात् । " इति । ४ २ नेहावसेककाले यानि न कर्तव्यानि तानि निर्दिशति स्नेह इति । ५ प्र. तिक्षणं श्यायते इति प्रतिश्यायः नासा स्राव रोग:, ' जुकाम ' इति ख्यातः । ६ अल्प-मध्यमोत्तमभेदेन स्नैहिकनस्य प्रमाणं प्रतिपादयति -- तस्येति । तत्य = स्नेहस्य | ७ शुक्तिः = द्वात्रिंशद्विन्दवः, पाणिशुक्तिः = चतुःषष्टिबिन्दवः । भोजे तु --- " प्रायोगिक स्नैहिकं च द्विविधं नस्यमुच्यते । प्रायोगिके बिन्दवोऽष्टौ स्नैहिके शुक्तिरिष्यते ॥ दोषोच्छ्रायं समासाद्य दद्याद् द्वित्रिचतुर्गुणम् । " इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 967

सुश्रुत संहिता चौखम्बा, पृष्ठ 967 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चिकित्सास्थानम rehnai: अ ०४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri ८० ९ स्नेहनस्यं नोपगिलेत् कथञ्चिदपि बुद्धिमान् ॥ २ ९ ॥

शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा ।

कफोत्क्लेशभयाच्चैनां निष्ठीवेदविधारयन् ॥ ३० ॥

दत्ते च पुनरपि संस्वेद्य गलकपोलादीन् धूममासेवेत, भोजये-च्चैनमभिष्यन्दि, ततोऽस्याचारिकमादिशेत्; रजोधूमस्नेहातपम-द्यद्रवपानशिरःस्नानातियानक्रोधादीनि च परिहरेत् ॥ ३१ ॥

तस्य योगातियोगायोगानामिदं विज्ञानं भवति ॥ ३२ ॥

लाघवं शिरसो योगे सुखस्वप्नप्रबोधनम् ।

विकारोपशमः शुद्धिरिन्द्रियाणां मनःसुखम् ॥ ३३ ॥

कफप्रसेकः शिरसो गुरुतेन्द्रियविभ्रमः ।

लक्षणं मूर्न्यतिस्निग्धे रूक्षं तत्रावचारयेत् ॥ ३४ ॥

योगे वातवैगुण्यमिन्द्रियाणाञ्च रूक्षता ।

रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत् ॥ ३५ ॥

चत्वारो विन्दवः पड् वा तथाऽष्टौ वा यथाबलम् । १ स्नैइिकनस्यस्य पश्चारकर्म दर्शयति- स्नेदेति । नोपगिलेत् = न पिबेदि • त्यर्थः । तदुक्तवान् विदेहः = " निष्ठोवेन्न पिवेन्नस्थं व्यापदः पिवतस्त्विमाः । भवन्ति कासवछदिश्च कुत्साऽन्ने वमथुस्तथा ॥ ” इति । तन्त्रान्तरे विशेष: - " उपविश्याथ निष्ठीवेन्नासावक्त्रागतं द्रवम् । वामदक्षिणपाश्र्वाभ्यां निष्ठीवेत्सम्मुखं न हि ॥ ” इति । “ एकपाइर्वष्ठीवने न सर्वाः सिराः भेषजेन सम्यग् व्याप्यन्ते " इति वाग्भटः । क्वचिन्नस्यं पिबेदपि, तदप्युक्तवान् विदेह: -- “ क्षीणं मांसं बलं यस्य वातार्तिश्चोर्ध्वजत्रजा । सुदो. प्ताग्निः स्नेहसात्म्यः स नस्यं नासया पिवेत् ॥ धातूंश्च तर्पयेद् देहे पीतं नस्यं तु नस्यतः ॥ ” इति । २ घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानीत्युक्तं शारीरस्थाने । ३ वाक्शतानन्तरमिति शेषः । " वाक्शतादूर्ध्वमुत्थाय धूमं प्रायोगिकं पिवेत् " इति भोजः । ४ स्नैहिकनस्यस्य योगायोगातियोगलक्षणान्याह — तस्येति । ५ कफप्रसेकः = श्लेष्मसंभवः । ६ नस्ये शिरोविरेचन स्नेह प्रमाणमाख्यावि- चत्वार इति । विदेहः स्पष्टतरमाह -- " चतुरश्चतुरो निन्दूने कैकस्मिन् समाचरेत् । एषा लघ्वी मता मात्रा तथा शीघ्रं विरेचयेन् ॥ अध्यर्धा द्विगुणां वाऽपि त्रिगुणां वा चतु गुणाम् । यथाव्याधि विदित्वा तु मात्रां समवचारयेत् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 968

सुश्रुत संहिता चौखम्बा, पृष्ठ 968 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८१० सुश्रुतसंहितायां -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४० शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत् ॥ ३६ ॥

नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः ।

शुद्धहीनातिसंज्ञानि विशेषाच्छस्त्रचिन्तकैः ॥ ३७ ॥

लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः ।

चित्तेन्द्रियप्रसादश्च शिरसः शुद्धिलक्षणम् ॥ ३८ ॥

कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः ।

मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्त्तितम् ॥ ३ ९ ॥

मस्तुलुङ्गागमो वातवृद्धिरिन्द्रियविभ्रमः ।

शून्यता शिरसश्चापि मूर्ध्नि गाढविरेचिते ॥। ४० ॥

हीनातिशुद्धे शिरसि कफवातन्नमाचरेत् ।

सम्यग्विशुद्धे शिरसि सर्पिर्नस्यं निषेचयेत् ॥ ४१ ॥।

एकान्तरं द्व्यन्तरं वा सप्ताहं वा पुनः पुनः ।

एकविंशतिरात्रं वा यावद् वा साधु मन्यते ॥ ४२ ॥

मारुतेनाभिभूतस्य वाऽत्यन्तं यस्य देहिनः ।

द्विकालञ्चापि दातव्यं नस्यं तस्य विजानता ॥ ४३ ॥

शिरोविरेचन वदभिष्यणं सर्पदष्ट विसंज्ञेभ्यो अवपीडस्तु दद्याच्छिरोविरेचनद्रव्याणामन्यतममवपिष्यावपीड्य च, शर्करे-क्षुरसक्षीरघृतमांसरसानामन्यतमं क्षीणानां शोणितपित्ते च विद-ध्यात् ॥ ४४ ॥

कृशदुर्बलभीरूणां सुकुमारस्य योषिताम् । १ वैरेचनिकनस्यस्य योगायोगातियोगलक्षणानि निर्दिशति - नस्य इति । २ मस्तुलुङ्गं मस्तकान्तर्घृताकारः स्नेहस्तस्यागमो निर्गमः, इन्द्रियविभ्रमः = इन्द्रिया · णामयथाविषयग्रहः । ३ लक्षणानुसारेण नस्यविधिमभिधत्ते - हीनेति । ४ " दद्या. सर्पिः सदा पित्ते " इति वक्ष्यमाणत्वात् सर्पिर्नस्यमिति पित्तप्रकृतौ बोद्धव्यम् । वात-प्रकृतौ पक्कं तैलम् । ५ अवपीडनस्यार्थान्नरान्निर्दिशति - अवेति । विदेहोऽवपीडस्य द्वैविध्यमुक्तवान् — ' ‘ विषाभिघातसन्न्यासमूर्च्छामोहापतन्त्र के । मदापस्मारकामातिंचि-न्ताक्रोधभयादिषु || मानसेषु च रोगेषु मूढव्याकुलचेतसाम् । संज्ञाप्रबोधहेश्वर्थमवपीडं प्रयोजयेत् ॥ शिरोविरेचनस्नेह मुष्काख्यं (? ) तद्विरेचनम् | क्षौद्रादिकल्कपिष्टं च स्तम्भनं त्ववपीडनम् ॥ ” इति । ६ मेदःकफातिव्याप्तशिरोऽभिष्यण्णः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 969

सुश्रुत संहिता चौखम्बा, पृष्ठ 969 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

8 ] Digitized by Arya at palion Chennai and eGangotri ८११ शृताः स्नेहाः शिरःशुद्धयै कल्कस्तेभ्यो यथा हितः ॥ ४५ ॥

चेतोविकारकृमिविषाभिपन्नानां चूर्णं प्रधमेत् ॥ ४६ ॥

नस्येनं परिहर्त्तव्यो भुक्तवानपतपितोऽत्यर्थं तरुणप्रतिश्यायी गर्भिणी पीतस्नेहोदकमद्यद्रवोऽजीर्णी दत्तवस्तिः क्रुद्धो गरार्तस्ट-पितः शोकाभिभूतः श्रान्तो बालो वृद्धो वेगावरोधितः शिरःस्नातु-कामश्चेति; । अनार्त्तवे चौथे नस्यधूमौ परिहरेत् ॥ ४७ ॥

तत्र हीनातिमात्रातिशीतोष्णसहसा प्रदानादतिप्रविलम्बितशि-रस उच्छिङ्घतो विचलतोऽभ्यवहरतो वा प्रतिषिद्धप्रदानाच्च व्या-पदो भवन्ति तृष्णोद्गारादयो दो निमित्ताः क्षयजाश्च ॥ ४८ ॥

भवतश्चात्र ।

नये शिरोविरेके च व्यापदो द्विविधाः स्मृताः ।

दोषोत्क्लेशात् क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् ॥ ४ ९ ॥

दोषोत्क्लेशनिमित्तांस्तु जयेच्छ मनशोधनैः ।

अथ क्षयनिमित्तास्तु यथास्वं बृंहणं हितम् ॥ ५२ ॥

" प्रतिमर्शश्चतुर्दशसु कालेषूपादेयः । तद्यथा— तल्पोत्थितेन प्रक्षालितदन्तेन, गृहान्निर्गच्छता, व्यायामव्यवायाव्वपरिश्रान्तेन, १ प्रथमने विशेषमाह विदेह: - " नाडी षढङ्गुलायामा द्विमुखी च तया धमेत् । त्रिश्चूर्णे मुच्चुटीमात्रमेष प्रघमने विधिः ॥ शुक्तिप्रमाणं जिघ्रेद्वा बद्धं सूक्ष्मेग वास-सा ॥ ” इति । तर्जन्यङ्गुष्ठमात्रग्राह्यं चूर्णं मुच्चुटीमात्रमिति तदर्थः । २ नस्यानई-पुरुषान् दर्शयति -- नस्येनेति । ३ सङ्ग्रहे चोक्तम् — “ गर्भिण्या भक्तद्वेषज्वर-मूर्द्धाऽर्घावभेदकाः स्युः, अपत्यं च व्यङ्गं विकलेन्द्रियमुन्मादापस्मारयुक्तं वा स्यात्, विशेषेण तु गर्भिणी रूक्षे नत्यकर्मणि वर्षाभूकाकोलीकपिकच्छुभिः शृतं पयः पिवेत्, बलाविदार्य शुमती मेदाभिर्वैभिरेव च शृतं हविर्वातहर सिद्धश्च स्नेहः शिरोबस्तौ कर्ण-पूरणे च योज्यः, सर्वं च बृंहणमन्नपानम् " इति । ४ चकारादार्तवेऽप्यभ्रे । ५ नस्यव्यापदोऽभिधत्ते -तत्रेति । ६ उच्चिङ्घतः = नासयोर्ध्वमाकर्षतः । ७ दोषनिमित्ताः = दोषोत्क्लेशकारणाः, क्षयजा: दोषक्षयजन्या इत्यर्थः । नस्य-व्यापदां चिकित्सितमभिधत्ते - दोषेति । ९ संशमन संशोधनैरित्यर्थः । तत्र स्वल्पे शमनं मइति शोधनम् । १० प्रतिमर्शनस्यस्य चतुर्दशसमयमाख्याति - प्रतिमर्श इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 970

सुश्रुत संहिता चौखम्बा, पृष्ठ 970 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Bigitized by Arya Samaj Foundation Chehhaan Gangotri श्रुतसंहितायां [ अ ० ४० मूत्रोच्चारकवलाञ्जनान्ते, भुक्तवता, छर्दितवता, दिवास्वप्नोत्थितेन,, सायञ्चेति ॥ ५१ ॥

तत्र तल्पोत्थितेनासेवितः प्रतिमर्शो रात्रावुपचितं नासास्रोतो-गतं मलमुपहन्ति मनःप्रसादश्र्च करोति, प्रक्षालितदन्तेनासेवितो दन्तानां दृढतां वढ्नसौगन्ध्यं चापादयति, गृहान्निर्गच्छता सेवितो नासास्रोतसः क्लिन्नतया रजोधूमो वा न बाधते, व्यायाममैथुनाध्व-परिश्रान्तेनासेवितः श्रममुपहन्ति, मूत्रोच्चारान्ते सेवितो दृष्टे. र्गुरुत्वमपनयति, कबलाञ्जनान्ते सेवितो दृष्टि प्रसादयति, भुक्त • वता सेवितः स्रोतसां विशुद्धिं लघुतां चापादयति, वान्तेनासेवितः स्रोतोविलग्नं श्लेष्माणमपोह्य भक्ताकाङ्क्षामापादयति, दिवास्य-नोत्थितेनासेवितो निद्राशेषं गुरुत्वं मलं चापो चिन्तैकाग्रचं जन-यति, सायं चासेवितः सुखनिद्राप्रबोधं चेति ॥ ५२ ॥

ईषदुतिः स्नेहो यावद्वक्त्रं प्रपद्यते ।

नस्ये निषिक्तं तं विद्यात् प्रतिमर्शं प्रमाणतः ॥ ५३ ॥

नॅश्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजा ।

इन्द्रियाणां च वैमल्यं कुर्य्यादास्यं सुगन्धि च ॥ ५४ ॥

हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम् ।

बलीपलितखालित्यव्यङ्गानां चाप्यसम्भवम् ॥ ५५ ॥

१ उच्चारः = पुरीषोत्सर्गः । १२. यथोक्त काल सेवित प्रतिमर्शगुणान् वक्ति - तत्रेति । ३ श्रमं = व्यायाममैथुनजन्य श्रममित्यर्थः । ४ पोह्य = दूरीकृत्य । ५ प्रतिमर्शमा-त्राप्रमाणमाह - ईषदिति । उच्चिङ्घतः = नासिकयोर्ध्वमाकर्षत इत्यर्थः । ६ प्रमा णतः = मात्रायुक्तम् । वृद्धवाग्भटे प्रतिमर्शप्रमाणं स्वन्यथा दृश्यते - “ प्रमाणं प्रतिमः र्शस्य बिन्दुद्वितयमिष्यते । बिन्दुर्वा येन चोरक्लेशो नानुसिलष्टस्य जायते ॥ निहितो यत्र वा स्नेहो न साक्षादुपलभ्यते । ” इति । शिरोविरेचनवदस्यापि पानं निषिद्धम् । तदाह विदेहः— “ उच्छिन्न पिवेत् स्नेहं निष्ठीवेन्मुखमागतम् ” इति । ७ सामान्येन नस्यफलमाचष्टे - नस्येनेति । नस्य सप्तवर्षाभ्यन्तरे प्रशीतिवर्षा. दूर्ध्वं च नैव कार्यम् । तदाह भावमिश्रः - " अष्टवर्षस्य बालस्य नस्यकर्म समाचरेत् । श्रशीतिवर्षादूर्ध्वं च नावनं नैव दीयते ॥ ” इति । निबन्धसङ्ग्रहव्याख्यायां कृष्णा-CC - 0. Gurukul Kangri Collection, Haridwar