सुश्रुत संहिता चौखम्बा — पृष्ठ 961–970
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 961–970
पृष्ठ 961
पाठ पढ़ें पाठ छिपाएँ
छप ० ४० ] Digitized by Anytheni hennai and eGangotri ८०३ मङ्गुलिपरिणाहं क्षौमेणाष्टाङ्गलं वेष्टयित्वा लेपयेदेषा वर्त्तिः प्रायो-गिके, स्नेहफलसौरमधूच्छिष्ट सर्जेरसगुग्गुलुप्रभृतिभिः स्नेहमिश्रः स्नैहिके, शिरोविरेचनद्रव्यैर्वैरेचने, बृहतोकण्टकारिकात्रिकटुका-समर्दहविङ्गुदीत्वङ्मनः शिलाच्छिन्नरुहा कर्कटशृङ्गीप्रभृतिभिः कासहरैश्च कासने, स्नायुचमैखुरशृङ्गकर्कटका स्थिशुष्कमत्स्यवल्लूर -कृमिप्रभृतिभिर्वामैनीयैश्च वामनीये ॥ ४ ॥
तत्रं बस्तिनेत्रद्रव्यैर्धूमनेत्रद्रव्याणि व्याख्यातानि भवन्ति । घूमनेत्रन्तु कनिष्ठिका परिणाम ५ कलायमात्रस्रोतो मूलेऽङ्गुष्ठपरि-गाहं धूमवर्त्तिप्रवेशस्रोतोऽङ्गुलान्यष्टचत्वारिंशत्प्रायोगिके, द्वात्रिंशत् स्नेहने, चतुर्विंशतिर्विरेचने, पोडशाङ्गुलं कासहने वामनीये च । एतेऽपि कोलास्थिमात्रच्छिद्रे भवतः । ब्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्थं कलायपरिमण्डलं " कुलत्थवाहिस्रोत इति ॥ ५ ॥
अर्थ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रितः " स्नेहाक्तदी-प्तायां वत्तिं नेत्रस्रोतसि प्रणिधाय धूमं पिबेत् ॥ ६ ॥
मुखेन तं पिबेत् पूर्वं नासिकाभ्यां ततः पिवेत् । काऽङ्गुलि समस्थौल्यम् । १ वर्तिः == सर्वधूमनेत्रेभ्यः षड्भागप्रमाणा । तदुक्तवान् विदेदः– “ अङ्गुष्ठएरियान मध्ये स्थूलाऽन्तयोस्तनुः । धूमनेत्रस्य षड्भागं वर्तमानं प्रचक्षते || " इति । २ स्नेहफलानां तिलातसोशिग्रु बिभीतकादिफलानां सारस्तदन्तर्गतो मज्जा, मधू च्छिष्ट = सिक्थम्, ' मोम ' इति ख्यातम् । ३ शिरोविरेचनद्रव्यैः = पिप्पलीविडङ्ग-शिग्रुसिद्धार्थ कापामार्ग क्षवक कणिज्जकप्रभृतिभिरित्यर्थः । ४ वल्लुरं = शुष्कमांसम् । ५ वामनीयैः = संशोधनसंशमनीयोक्तमदनफलादिभिरित्यर्थः । वक्ति - तत्रेति । बस्तिनेत्रद्रव्यैः-- -! सुवर्णरूप्यत्र-६ घूमनेत्रसाधनद्रव्याणि पुसीसताम्रकांस्यादिभिः । ७ घूमनेत्रप्रमाणं प्रतिपादयति - धूमेति । घूमनेत्रं तदुच्यते येन धूमपानं क्रियते । ८ श्रग्रे = मुखनासिकाप्रणयनस्थाने । मूले वर्ति-संवरणस्थाने । धूमवर्तिप्रवेशस्रोतः यावता स्रोतसा धूमवर्तिप्रवेशो भवति तावन्मात्र-स्रोतस्कम् । ९ चतुर्ष्वपि मूलच्छिद्रमानमुक्त्वा दैर्घ्यमानमाचष्टे – अङ्गुलानीति । १० कलायपरिमण्डलं कलाय वद्वर्तुलमुखम् । ११ धूमपानविधानमाख्याति - अथेति । १२ श्रादौ स्नेहाक्तः पश्चाद्दीप्तमग्रं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 962
पाठ पढ़ें पाठ छिपाएँ
८०४ Digitized by Arya Sama हिलास rand eGangotri अ ० ४० मुखपीतं मुखैनैव वमेत् पीतञ्च नासया ॥ ७ ॥
मुखेन धूममादाय नासिकाभ्यां न निर्हरेत् ।
तेन हि प्रतिलोमेन दृष्टिस्तत्र विहन्यते ॥ ८ ॥
विशेषतस्तु प्रायोगिकं घ्राणेनाददीत 9 स्नैहिकं मुखनासाभ्यां, नासिकया वैरेचनिकं, मुखेनैवेतरौ ॥ ९ ॥
तत्र प्रायोगिके वत्ति व्यपगतशरकाण्डां निवातातपशुष्कामङ्गा-रेष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य धूममाहरेति ब्रूयात्; एवं स्ने-हनं वैरेचनिकञ्च कुर्यादिति । इतरयोव्यपेतधूमाङ्गारे स्थिरे समा-हिते शरावे प्रक्षिप्य वर्त्ति मूलैच्छिद्रेणान्येन शरावेण पिधाय त-स्मिन् छिद्रे नेत्रमूलं संयोज्य धूममासेवेत, प्रशान्ते धूमे वर्त्तिमव-शिष्टां प्रक्षिप्य पुनरपि धूमं पाययेदादोपविशुद्धेरेव धूमपानोपाय-विधिः ॥ १० ॥
तत्र शोकश्रमभयाम पष्ण्यविषरक्तपित्तघ्न मूर्च्छा दाहपिपासा-पाण्डुरोगतालुशोषच्छर्दिशिरोऽभिघातोद्वारापतपिततिमिरप्रमेहोदरा-मानोर्ध्ववातार्त्ता बालवृद्धदुर्ब उ विरिक्तास्थापित जागरितगर्भिणी-रूक्ष क्षीणक्षतोरस्कमधुघृतदधिदुग्ध मत्स्य मद्ययवागूपीताल्पककाश्च न
धूममासेवेरन् ॥। ११ ॥
यस्याः सा तां स्नेहाक्तदीप्ताग्राम् । १ चकारोऽप्यथकः, तथा च नासया नासिकया पीतमपि मुखेनैव वमेदित्यर्थः । २ तन्त्रान्तरेऽपि— “ निर्वमेत्तु मुखेनैव नाप्तया न कथञ्चन । विलोमतो गतो धूमः कुर्याद्दर्शनविभ्रमम् ॥ ” इति । वाग्भटेऽपि - " मुखेनैव वमेद्धूमं नासया दृग्विघातकृत् ” इति। ३ इतरौ = कासध्नवामनीयौ । धूमपानविधिप्रसङ्गे वाग्भटस्तु - " प्राक् पिबे -न्नासयोलिलष्टे दोषे प्रायशिरोगते । उत्क्लेशनार्थं वक्त्रेण विरतं तु कण्ठगे ॥ " इति । चक्षुष्येण उभयमार्ग पानहेतुरुक्तः - " उरः कण्ठादिरोगेषु मुखेनैव पिवेन्नरः । शिरःकर्णाक्षिनासास्थे नातातो धममाचरेत् ॥ ” इति । ४ धूमविशेषेण धूम्रपाने विशेषविधिमभिधत्ते - तत्रेति । ५ मूले छिद्रं यस्य स तेन मूलच्छिद्रेण अन्येन शरावेणेत्यर्थः । ६ धूमपानानन्नरान्निर्दिशति – तन्त्र शोकेति गृह्यतेऽशीतिकान्न च " इति भावमिश्रः ॥ " धूमस्तु द्वादशाद् वर्षाद् CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 963
पाठ पढ़ें पाठ छिपाएँ
० ४० ] Digitized by Aryasa किस्सा pehnai and eGangotri ८०५
अकालपीतः कुरुते भ्रमं मूर्च्छा शिरोरुजम् ।
नाणश्रोत्राक्षिजिह्वानामुपघातञ्च दारुणम् ॥ १२ ॥
श्राद्यस्तु यो धूमा द्वादशसु कालेषूपादेयाः । तद्यथा— क्षुतद-न्तप्रक्षालननस्यस्नानभोजन दिवास्वप्न मैथुनच्छर्दिमूत्रोच्चारहसित-रुषितशस्त्रकर्मान्तेष्विति । तत्र विभागो मूत्रोच्चार क्षवथुसितरुषि-तमैथुनान्तेषु स्नैहिकः, स्नानच्छर्दनादिवास्वप्नान्तेषु वैरेचनिकः, दन्तप्रक्षालनस्यस्नानभोजनशस्त्रकर्मान्तेषु प्रायोगिक इति ॥ १३ ॥
तत्र स्नैहिको वातं शमयति, स्नेहादुपलेपाच्च । वैरेचनः श्ले-माणमुत्क्लेश्यापक पति, रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च । प्रायोगि कः श्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति शमयति वातं साधा-रणत्वात् पूर्वाभ्यामिति ॥ १४ ॥
भवन्ति चात्र ।
नंगे धूमोपयोगाच्च प्रसन्नेन्द्रियवाङ्मनाः ।
दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः ॥ १५ ॥
तथा कासश्वासारोचकास्योपले पस्वरभेदमुखास्रावक्षवथुवम-थुक्थंतन्द्रानिद्राहनुमन्यास्तम्भाः पीनसशिरोरोगकर्णाक्षिशूला वात-कफनिमित्ताश्चास्य मुखरोगा न भवन्ति ॥ १६ ॥
तस्य योगायोगातियोगा विज्ञातव्याः । तत्र योगो रोगप्रशमनः, अयोगो रोगाप्रशमनः, तालुगलशोपपरिदाहपिपासा मूर्च्छा भ्रममद-कर्णक्ष्वेडदृष्टिनासारोगदौर्बल्यान्यतियोगो जनयति ॥ १७ ॥
१ चरकोऽपि – “ वाधिर्यमान्ध्यमूकस्वं रक्तपित्तं शिरोभ्रमम् । अकाले चातिपीतञ्च धूमः कुर्यादुपद्रवान् ॥ ” इति । २ कालपीतधूमपानव्यापदमभिधाय धूमपान -कालानभिधत्ते — आद्यास्त्विति । वाग्भट: - " क्षुतजृम्भितविण्मूत्रस्त्रीसेवाशस्त्रकर्म -णाम् । हासस्य दन्तकाष्ठर य धूममन्ते पिबेन्मृदुन् || कालेष्वेषु निशाऽऽहारनावनान्ते च मध्यमम् । निद्रानरयाञ्जनस्नानच्छर्दितान्ते विरेचनम् ॥ ” इति । ३ रुषितः = रुष्ट इत्यर्थः । ४ घूमानां प्रत्येकं कायमाख्याति — तत्रेति । नाभ्याम् । वरोधः । ६ धूमपानगुणानाचष्टे - नर इति । ५ पूर्वाभ्यां स्नेहविरेच-७ क्रथः = अकस्मादुच्छ्वासा-धूमस्य योगायोगातियोगलक्षणमाख्याति --- तस्येति । ९ दृष्टिनासा CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 964
पाठ पढ़ें पाठ छिपाएँ
८०६ by Arya Samaj Foullo क्षुद्र संहिता angotri [ अ ० ४० प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत मुखनासिकाभ्याञ्च पर्या यत्रींश्चतुरो वेति । स्नैहिकं यावदप्रवृत्तिः । वैरेचनिकमादोष-दर्शनात्, तिलतण्डुलयवागूपीतेन पातव्यो वामनीयः, ग्रामान्तरेषु कासन इति ॥ १८ ॥
धूमं शरा वसम्पुटोपनीतेन नेत्रेण त्रणमानयेत्, घूमना-द्वेदनोपशमो व्रणवैशद्यमात्रावोपशमश्च भवति ॥ १ ९ ॥
विधिरेष समासेन धूमस्याभिहितो मया ।
नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः ॥ २० ॥
औषध मौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति न-स्यैम् । तद् द्विविधं शिरोविरेचनं, स्नेहनञ्च । तद् द्विविधमपि पञ्च-धा । तद्यथा - नत्यं, शिरोविरेचनं, प्रतिमर्शः, अवपीडः, प्रधमनञ्च । शब्दयोः रोगदौर्बल्याभ्यां सम्बन्धः, तथा च दृष्टिदौबल्यं, नासारोग इति बोध्यम् । १ प्रायोगिकादिधूमानां पानमर्यादामभिधत्ते - प्रायोगिकमिति । " आक्षेप-मोक्षैःपातव्यो धूमस्तु त्रिस्त्रिभिस्त्रिभिः " इति वाग्भटः । आक्षेपमोक्षैः = यादानविसगैरिति तदर्थ: । निमिः– “ धूमपाने तु विज्ञेय रच्छ्वासत्रिगुणः कलाः । तिस्रः कलाश्चात्र मात्रा प्रमाणं स्यात् त्रिमात्रिकम् ॥ पिवेत् स्वस्थाविधौ मात्रां दुर्बलस्तु कलां पिवेत् । अभिष्यण्णे प्रमाणं स्यात् प्रमाणं च पिवेद्वजि ॥ ” इति । २ इति बलवतः पुरुषस्य । तदुक्तं भोजे - " प्रमाणं स्नैहिके धूने कृशो मात्रां पिवेन्नरः । वलवांस्तु पिबेत्तावद्यावदश्रुर्न गच्छति ॥ ” इति । ३ श्रादोषदर्शनाद् = विकृत कफ़दर्शनपर्यन्तम् । वाग्भटः - " अहः पिबेत् सकृत् स्निग्धं द्विर्मध्य शोधनं परम् । द्विश्चतुर्वा " इति । शोधनं = विरेचनमित्यर्थः । ४ व्रणधूपनविधिमभिधत्ते - धूममिति । " शरावसम्टे क्षिप्त्वा कल्कमङ्गार-रदीपितम् । छिद्रे नेत्रं निवेश्याथ व्रणं तेनेव धूरयेत् ॥ " इत्यष्टाङ्गहृदयम् । भाव-प्रकाशॆ गृहदेयधूयमाह- ' मयूरपिच्छं निम्बस्य पत्राणि बृहतीफलम् । मरिचं हिङ्गु मांसी न्च बीजं कार्पाससम्भवम् ॥ छागरोमादिनिर्मोक विष्ठा वैढालिको तथा । गजदन्तश्च तच्चूर्णं किञ्चिद् घृतविमिश्रितम् ॥ गेहेषु धूपनं दत्त सर्वान् बालग्रहान् हरेत् । पिशा-चान् राक्षसान् हत्वा सर्वज्वरहरं भवेत् ॥ ” इति । ५ नस्यलचणं तद्भेदांश्च दर्शयति- औषधमिति । श्रौषधं - पिप्पलीविडङ्गा-पामार्गादिबोजचूर्णम् । ६ भावमिश्रः - " नस्यं तत्कथ्यते धीरेनसाग्राह्यं यदौष-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 965
पाठ पढ़ें पाठ छिपाएँ
अ ० ४० ] Digitized by Arya कठिनम् erhai and eGangotri ८०७ तेषु नस्यं प्रधानं शिरोविरेचनं च, नस्यविकल्पः प्रतिमर्शः, शिरो-विरेचनविकल्पोऽवपीडः प्रधमनचं, ततो नस्यशब्दः पञ्चधा नि-यमितः ॥ २ ॥
तत्रे यः स्नेहनार्थं शून्यशिरसां ग्रीवास्कन्धोरसां च वलजननाथ दृष्टिप्रसादजननार्थं वा स्नेहो विधीयते तस्मिन् वैशेषिको नस्यशब्दः । तत्तु देयं वाताभिभूते शिरसि दन्तकेशश्मश्रुप्रपात दारुणकर्णशूल-कर्णक्ष्वेडतिमिरखरोपघातनासारोगास्य शोषावबाहुका कालजवलि-पलितप्रादुर्भावदारुणप्रबोधेषु वातपैत्तिकेषु मुखरोगेष्वन्येषु च वातपित्तहरद्रव्यसिद्धेन स्नेहेनेति ॥ २२ ॥
शिरोविरेचनं श्लेष्मणाऽभिव्याप्ततालुकण्ठशिरसामरोचक-शिरोगौरवशूलपीनसार्द्धावभेदक कृमिप्रतिश्यायापस्मारगन्धाज्ञाने-ध्वन्येषु चोर्ध्वजत्रुगतेषु कफजेपु विकारेषु शिरोविरेचनं द्रव्यै-स्तत्सिद्धेन वा स्नेहेनेति ॥ २३ ॥
तत्रैतद्विविधमभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणां, म-धम् । नावनं नस्यकर्मेति तस्य नामद्वयं मतम् ॥ ” इति । १ चकारः प्रतिमर्शस्य समुच्चयार्थम् । तथा च - " प्रतिमर्शो भवेत्स्नेहो निर्दोष उभयार्थकृत् " इति चरकः । २ स्नैहिकनस्यस्य ये योग्यास्तान्निर्दिशति — तत्रेति । ३ दारुणः = दारुण. काख्य क्षुद्ररोगभेदः । ४ अन्येषु = वातपैत्तिकशिरोरोगादिषु । स्नैहिकनस्यकालाव-धिस्तन्त्रान्तरे — ' ‘ एकान्तरं द्वयन्तरं वा नस्यं दद्याद् विचक्षणः । सप्ताहं तु परं देयं विश्रान्तस्य पुनः पुनः ॥ पक्षं विंशतिरात्रं वा यावदा साधु मन्यते । " इति भोजः । अन्यत्र तु - ' त्र्यहं पञ्चाहमथवा सप्ताहं वा सुयन्त्रितः । परं नत्राइमूर्ध्वं तु नवा-हात् सात्म्यतां व्रजेत् ॥ न तन्नस्यगुणं कुर्यात् सात्म्यत्वाद्दोषकृन्न च । तस्मान्नस्य-प्रयोगस्तु स्नेहिको न हितः सदा ॥ ” इति । ५ शिरोविरेचनयोग्यानाह - शिर इति । ६ अर्द्धावभेदकः = ' आधाशीशी-अधकपारी ' इति ख्यातः । ७ शिरोविरेचनद्रव्यैः = पिप्पलीविडङ्गशिग्र सिद्धार्थ कापा-मार्गक्षवक फणिज्जकपीलुप्रभृतिभिः । ८ स्नैहिक वैरेचनिकयोः कालनिर्धारणमुच्यते-तन्त्रेति । सङ्ग्रहे विशेषः- ' लालास्राव सुप्तिप्रलापदन्त कटकटाय नक्रथन कृच्छ्रोन्मीलन-पूतिमुखकर्णनादतृष्णाऽदित शिरोरोगश्वासकासोन्निद्रेषु रात्रौ " इति । स्वस्थवृत्ते नस्य-प्रयोगकालनिर्धारणमष्टाङ्गहृदये - " स्वस्थवृत्ते तु पूर्वाह्णे शरत्कालवसन्तयोः । शीते मध्यन्दिने ग्रीष्मे सायं वर्षासु सातपे ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 966
पाठ पढ़ें पाठ छिपाएँ
८०८ • सुश्रुतसंहितायां Gangotri Digitized by Arya Samaj Foundation Chennai and eGangotri ध्याह्ने पित्तरोगिणामपराह्ने वातरोगिणाम् ॥ २४ ॥
[ अ ० ४० अर्थ पुरुषाय शिरोविरेचनीयाय त्यक्तमूत्रपुरीषाय भुक्त-वते व्यभ्रे काले दन्तकाष्ठधूमपानाभ्यां विशुद्धवक्त्रस्रोतसे पाणिता-पपरिस्विन्नम्मृदितगलकपोलललाटप्रदेशाय वातातपरजोहीने वेश्म-न्युत्तानशायिने प्रसारितकरचरणाय किञ्चित् प्रविलम्वितशिरसे वस्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय विशुद्ध-स्रोतसि दक्षिणहस्तेन स्नेहमुष्णाम्बुना प्रतनं रजतसुवर्णताभ्र मरिण-मृत्पात्रशुक्तीनामन्यतमस्थं शुक्त्या पिचुना वा सुखोष्णं स्नेहमद्रतः मासिञ्चेदवच्छिन्नवारं यथा नेत्रे न प्राप्नोति ॥ २५ ॥
" स्नेहोऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत् ।
न कुप्येन्न प्रभाषेच्च न क्षुयान्न हसेत्तथा ॥ २६ ॥
एतैर्हि विहितः स्नेहो न सम्यक् प्रतिपद्यते ।
ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः ॥ २७ ॥
तस्य प्रमाणमष्टौ विन्दवः प्रदेशिनीपर्वद्वयनिःसृताः प्रथमा मात्रा, द्वितीया शुक्तिः, तृतीया पाणिशुक्तिरित्येतास्तिस्रो मात्रा यथावलं प्रयोज्याः ॥ २८ ॥
१. नरयदानविधानमाह --- अथेति । " अथोत्तानर्जुदेहस्य पाणिपादे प्रसारिते । किचिदुन्नतपादस्य किञ्चिन्मूर्धनि नामिते ॥ नासापुटं विधायकं पर्यायेण निषेचयेत् । उष्णाम्बुतप्तं भैषज्यं प्रनाढया पिन्चुताऽथवा ॥ दत्ते पादतलत्कन्धहस्तकर्णादि सद येत् । " इति । २ पिचुना = कार्पासादिमयतू लेनेत्यर्थः । ३ स्नेहशब्दस्योपलक्षण-त्वादेवमेव कल्कक्काथादिकमपि देयम् । दत्तमात्रे नत्ये कर्तव्यतामाह वृद्धवाग्भटः--“ दत्तमात्रे नस्ये कर्णललाट केशभूमिगण्ड मन्यास्कन्ध पाणिपादतलान्यनुखं मर्दयेत्, शनैः शनैश्वोच्छिङध्यात् । " इति । ४ २ नेहावसेककाले यानि न कर्तव्यानि तानि निर्दिशति स्नेह इति । ५ प्र. तिक्षणं श्यायते इति प्रतिश्यायः नासा स्राव रोग:, ' जुकाम ' इति ख्यातः । ६ अल्प-मध्यमोत्तमभेदेन स्नैहिकनस्य प्रमाणं प्रतिपादयति -- तस्येति । तत्य = स्नेहस्य | ७ शुक्तिः = द्वात्रिंशद्विन्दवः, पाणिशुक्तिः = चतुःषष्टिबिन्दवः । भोजे तु --- " प्रायोगिक स्नैहिकं च द्विविधं नस्यमुच्यते । प्रायोगिके बिन्दवोऽष्टौ स्नैहिके शुक्तिरिष्यते ॥ दोषोच्छ्रायं समासाद्य दद्याद् द्वित्रिचतुर्गुणम् । " इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 967
पाठ पढ़ें पाठ छिपाएँ
चिकित्सास्थानम rehnai: अ ०४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri ८० ९ स्नेहनस्यं नोपगिलेत् कथञ्चिदपि बुद्धिमान् ॥ २ ९ ॥
शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा ।
कफोत्क्लेशभयाच्चैनां निष्ठीवेदविधारयन् ॥ ३० ॥
दत्ते च पुनरपि संस्वेद्य गलकपोलादीन् धूममासेवेत, भोजये-च्चैनमभिष्यन्दि, ततोऽस्याचारिकमादिशेत्; रजोधूमस्नेहातपम-द्यद्रवपानशिरःस्नानातियानक्रोधादीनि च परिहरेत् ॥ ३१ ॥
तस्य योगातियोगायोगानामिदं विज्ञानं भवति ॥ ३२ ॥
लाघवं शिरसो योगे सुखस्वप्नप्रबोधनम् ।
विकारोपशमः शुद्धिरिन्द्रियाणां मनःसुखम् ॥ ३३ ॥
कफप्रसेकः शिरसो गुरुतेन्द्रियविभ्रमः ।
लक्षणं मूर्न्यतिस्निग्धे रूक्षं तत्रावचारयेत् ॥ ३४ ॥
योगे वातवैगुण्यमिन्द्रियाणाञ्च रूक्षता ।
रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत् ॥ ३५ ॥
चत्वारो विन्दवः पड् वा तथाऽष्टौ वा यथाबलम् । १ स्नैइिकनस्यस्य पश्चारकर्म दर्शयति- स्नेदेति । नोपगिलेत् = न पिबेदि • त्यर्थः । तदुक्तवान् विदेहः = " निष्ठोवेन्न पिवेन्नस्थं व्यापदः पिवतस्त्विमाः । भवन्ति कासवछदिश्च कुत्साऽन्ने वमथुस्तथा ॥ ” इति । तन्त्रान्तरे विशेष: - " उपविश्याथ निष्ठीवेन्नासावक्त्रागतं द्रवम् । वामदक्षिणपाश्र्वाभ्यां निष्ठीवेत्सम्मुखं न हि ॥ ” इति । “ एकपाइर्वष्ठीवने न सर्वाः सिराः भेषजेन सम्यग् व्याप्यन्ते " इति वाग्भटः । क्वचिन्नस्यं पिबेदपि, तदप्युक्तवान् विदेह: -- “ क्षीणं मांसं बलं यस्य वातार्तिश्चोर्ध्वजत्रजा । सुदो. प्ताग्निः स्नेहसात्म्यः स नस्यं नासया पिवेत् ॥ धातूंश्च तर्पयेद् देहे पीतं नस्यं तु नस्यतः ॥ ” इति । २ घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानीत्युक्तं शारीरस्थाने । ३ वाक्शतानन्तरमिति शेषः । " वाक्शतादूर्ध्वमुत्थाय धूमं प्रायोगिकं पिवेत् " इति भोजः । ४ स्नैहिकनस्यस्य योगायोगातियोगलक्षणान्याह — तस्येति । ५ कफप्रसेकः = श्लेष्मसंभवः । ६ नस्ये शिरोविरेचन स्नेह प्रमाणमाख्यावि- चत्वार इति । विदेहः स्पष्टतरमाह -- " चतुरश्चतुरो निन्दूने कैकस्मिन् समाचरेत् । एषा लघ्वी मता मात्रा तथा शीघ्रं विरेचयेन् ॥ अध्यर्धा द्विगुणां वाऽपि त्रिगुणां वा चतु गुणाम् । यथाव्याधि विदित्वा तु मात्रां समवचारयेत् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 968
पाठ पढ़ें पाठ छिपाएँ
८१० सुश्रुतसंहितायां -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४० शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत् ॥ ३६ ॥
नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः ।
शुद्धहीनातिसंज्ञानि विशेषाच्छस्त्रचिन्तकैः ॥ ३७ ॥
लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः ।
चित्तेन्द्रियप्रसादश्च शिरसः शुद्धिलक्षणम् ॥ ३८ ॥
कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः ।
मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्त्तितम् ॥ ३ ९ ॥
मस्तुलुङ्गागमो वातवृद्धिरिन्द्रियविभ्रमः ।
शून्यता शिरसश्चापि मूर्ध्नि गाढविरेचिते ॥। ४० ॥
हीनातिशुद्धे शिरसि कफवातन्नमाचरेत् ।
सम्यग्विशुद्धे शिरसि सर्पिर्नस्यं निषेचयेत् ॥ ४१ ॥।
एकान्तरं द्व्यन्तरं वा सप्ताहं वा पुनः पुनः ।
एकविंशतिरात्रं वा यावद् वा साधु मन्यते ॥ ४२ ॥
मारुतेनाभिभूतस्य वाऽत्यन्तं यस्य देहिनः ।
द्विकालञ्चापि दातव्यं नस्यं तस्य विजानता ॥ ४३ ॥
शिरोविरेचन वदभिष्यणं सर्पदष्ट विसंज्ञेभ्यो अवपीडस्तु दद्याच्छिरोविरेचनद्रव्याणामन्यतममवपिष्यावपीड्य च, शर्करे-क्षुरसक्षीरघृतमांसरसानामन्यतमं क्षीणानां शोणितपित्ते च विद-ध्यात् ॥ ४४ ॥
कृशदुर्बलभीरूणां सुकुमारस्य योषिताम् । १ वैरेचनिकनस्यस्य योगायोगातियोगलक्षणानि निर्दिशति - नस्य इति । २ मस्तुलुङ्गं मस्तकान्तर्घृताकारः स्नेहस्तस्यागमो निर्गमः, इन्द्रियविभ्रमः = इन्द्रिया · णामयथाविषयग्रहः । ३ लक्षणानुसारेण नस्यविधिमभिधत्ते - हीनेति । ४ " दद्या. सर्पिः सदा पित्ते " इति वक्ष्यमाणत्वात् सर्पिर्नस्यमिति पित्तप्रकृतौ बोद्धव्यम् । वात-प्रकृतौ पक्कं तैलम् । ५ अवपीडनस्यार्थान्नरान्निर्दिशति - अवेति । विदेहोऽवपीडस्य द्वैविध्यमुक्तवान् — ' ‘ विषाभिघातसन्न्यासमूर्च्छामोहापतन्त्र के । मदापस्मारकामातिंचि-न्ताक्रोधभयादिषु || मानसेषु च रोगेषु मूढव्याकुलचेतसाम् । संज्ञाप्रबोधहेश्वर्थमवपीडं प्रयोजयेत् ॥ शिरोविरेचनस्नेह मुष्काख्यं (? ) तद्विरेचनम् | क्षौद्रादिकल्कपिष्टं च स्तम्भनं त्ववपीडनम् ॥ ” इति । ६ मेदःकफातिव्याप्तशिरोऽभिष्यण्णः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 969
पाठ पढ़ें पाठ छिपाएँ
8 ] Digitized by Arya at palion Chennai and eGangotri ८११ शृताः स्नेहाः शिरःशुद्धयै कल्कस्तेभ्यो यथा हितः ॥ ४५ ॥
चेतोविकारकृमिविषाभिपन्नानां चूर्णं प्रधमेत् ॥ ४६ ॥
नस्येनं परिहर्त्तव्यो भुक्तवानपतपितोऽत्यर्थं तरुणप्रतिश्यायी गर्भिणी पीतस्नेहोदकमद्यद्रवोऽजीर्णी दत्तवस्तिः क्रुद्धो गरार्तस्ट-पितः शोकाभिभूतः श्रान्तो बालो वृद्धो वेगावरोधितः शिरःस्नातु-कामश्चेति; । अनार्त्तवे चौथे नस्यधूमौ परिहरेत् ॥ ४७ ॥
तत्र हीनातिमात्रातिशीतोष्णसहसा प्रदानादतिप्रविलम्बितशि-रस उच्छिङ्घतो विचलतोऽभ्यवहरतो वा प्रतिषिद्धप्रदानाच्च व्या-पदो भवन्ति तृष्णोद्गारादयो दो निमित्ताः क्षयजाश्च ॥ ४८ ॥
भवतश्चात्र ।
नये शिरोविरेके च व्यापदो द्विविधाः स्मृताः ।
दोषोत्क्लेशात् क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् ॥ ४ ९ ॥
दोषोत्क्लेशनिमित्तांस्तु जयेच्छ मनशोधनैः ।
अथ क्षयनिमित्तास्तु यथास्वं बृंहणं हितम् ॥ ५२ ॥
" प्रतिमर्शश्चतुर्दशसु कालेषूपादेयः । तद्यथा— तल्पोत्थितेन प्रक्षालितदन्तेन, गृहान्निर्गच्छता, व्यायामव्यवायाव्वपरिश्रान्तेन, १ प्रथमने विशेषमाह विदेह: - " नाडी षढङ्गुलायामा द्विमुखी च तया धमेत् । त्रिश्चूर्णे मुच्चुटीमात्रमेष प्रघमने विधिः ॥ शुक्तिप्रमाणं जिघ्रेद्वा बद्धं सूक्ष्मेग वास-सा ॥ ” इति । तर्जन्यङ्गुष्ठमात्रग्राह्यं चूर्णं मुच्चुटीमात्रमिति तदर्थः । २ नस्यानई-पुरुषान् दर्शयति -- नस्येनेति । ३ सङ्ग्रहे चोक्तम् — “ गर्भिण्या भक्तद्वेषज्वर-मूर्द्धाऽर्घावभेदकाः स्युः, अपत्यं च व्यङ्गं विकलेन्द्रियमुन्मादापस्मारयुक्तं वा स्यात्, विशेषेण तु गर्भिणी रूक्षे नत्यकर्मणि वर्षाभूकाकोलीकपिकच्छुभिः शृतं पयः पिवेत्, बलाविदार्य शुमती मेदाभिर्वैभिरेव च शृतं हविर्वातहर सिद्धश्च स्नेहः शिरोबस्तौ कर्ण-पूरणे च योज्यः, सर्वं च बृंहणमन्नपानम् " इति । ४ चकारादार्तवेऽप्यभ्रे । ५ नस्यव्यापदोऽभिधत्ते -तत्रेति । ६ उच्चिङ्घतः = नासयोर्ध्वमाकर्षतः । ७ दोषनिमित्ताः = दोषोत्क्लेशकारणाः, क्षयजा: दोषक्षयजन्या इत्यर्थः । नस्य-व्यापदां चिकित्सितमभिधत्ते - दोषेति । ९ संशमन संशोधनैरित्यर्थः । तत्र स्वल्पे शमनं मइति शोधनम् । १० प्रतिमर्शनस्यस्य चतुर्दशसमयमाख्याति - प्रतिमर्श इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 970
पाठ पढ़ें पाठ छिपाएँ
Bigitized by Arya Samaj Foundation Chehhaan Gangotri श्रुतसंहितायां [ अ ० ४० मूत्रोच्चारकवलाञ्जनान्ते, भुक्तवता, छर्दितवता, दिवास्वप्नोत्थितेन,, सायञ्चेति ॥ ५१ ॥
तत्र तल्पोत्थितेनासेवितः प्रतिमर्शो रात्रावुपचितं नासास्रोतो-गतं मलमुपहन्ति मनःप्रसादश्र्च करोति, प्रक्षालितदन्तेनासेवितो दन्तानां दृढतां वढ्नसौगन्ध्यं चापादयति, गृहान्निर्गच्छता सेवितो नासास्रोतसः क्लिन्नतया रजोधूमो वा न बाधते, व्यायाममैथुनाध्व-परिश्रान्तेनासेवितः श्रममुपहन्ति, मूत्रोच्चारान्ते सेवितो दृष्टे. र्गुरुत्वमपनयति, कबलाञ्जनान्ते सेवितो दृष्टि प्रसादयति, भुक्त • वता सेवितः स्रोतसां विशुद्धिं लघुतां चापादयति, वान्तेनासेवितः स्रोतोविलग्नं श्लेष्माणमपोह्य भक्ताकाङ्क्षामापादयति, दिवास्य-नोत्थितेनासेवितो निद्राशेषं गुरुत्वं मलं चापो चिन्तैकाग्रचं जन-यति, सायं चासेवितः सुखनिद्राप्रबोधं चेति ॥ ५२ ॥
ईषदुतिः स्नेहो यावद्वक्त्रं प्रपद्यते ।
नस्ये निषिक्तं तं विद्यात् प्रतिमर्शं प्रमाणतः ॥ ५३ ॥
नॅश्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजा ।
इन्द्रियाणां च वैमल्यं कुर्य्यादास्यं सुगन्धि च ॥ ५४ ॥
हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम् ।
बलीपलितखालित्यव्यङ्गानां चाप्यसम्भवम् ॥ ५५ ॥
१ उच्चारः = पुरीषोत्सर्गः । १२. यथोक्त काल सेवित प्रतिमर्शगुणान् वक्ति - तत्रेति । ३ श्रमं = व्यायाममैथुनजन्य श्रममित्यर्थः । ४ पोह्य = दूरीकृत्य । ५ प्रतिमर्शमा-त्राप्रमाणमाह - ईषदिति । उच्चिङ्घतः = नासिकयोर्ध्वमाकर्षत इत्यर्थः । ६ प्रमा णतः = मात्रायुक्तम् । वृद्धवाग्भटे प्रतिमर्शप्रमाणं स्वन्यथा दृश्यते - “ प्रमाणं प्रतिमः र्शस्य बिन्दुद्वितयमिष्यते । बिन्दुर्वा येन चोरक्लेशो नानुसिलष्टस्य जायते ॥ निहितो यत्र वा स्नेहो न साक्षादुपलभ्यते । ” इति । शिरोविरेचनवदस्यापि पानं निषिद्धम् । तदाह विदेहः— “ उच्छिन्न पिवेत् स्नेहं निष्ठीवेन्मुखमागतम् ” इति । ७ सामान्येन नस्यफलमाचष्टे - नस्येनेति । नस्य सप्तवर्षाभ्यन्तरे प्रशीतिवर्षा. दूर्ध्वं च नैव कार्यम् । तदाह भावमिश्रः - " अष्टवर्षस्य बालस्य नस्यकर्म समाचरेत् । श्रशीतिवर्षादूर्ध्वं च नावनं नैव दीयते ॥ ” इति । निबन्धसङ्ग्रहव्याख्यायां कृष्णा-CC - 0. Gurukul Kangri Collection, Haridwar