सुश्रुत संहिता चौखम्बा — पृष्ठ 971–980
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 971–980
पृष्ठ 971
पाठ पढ़ें पाठ छिपाएँ
अ ० ४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri चिकित्सास्थानम् । ८१३
तैलं ' कफे सवाते स्यात् केवले पवने वसाम् ।
दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते ॥ ५६ ॥
चतुर्विधस्य स्नेहस्य विधिरेवं प्रकीर्त्तितः ।
श्लेष्मेस्थानाविरोधित्वात् तेषु तैलं विधीयते ॥ ५७ ॥
अतः परं प्रवक्ष्यामि कवलग्रहणे विधिम् ।
चतुर्द्धा कवलः स्नेही प्रसादी शोधिरोपणौ ॥ ५८ ॥
स्निग्धोष्णैः ' स्नैहिको वाते, स्वादुशीतैः प्रसादनः ।
पित्ते, कट्बम्ललवणैः रूक्षोष्णैः शोधनः कफे ॥ ५ ९ ॥
कपायतिक्तमधुरैः कद्रूष्णैः रोपणो व्रणे ।
चतुर्विधस्य चैवास्य विशेषोऽयं प्रकीर्त्तितः ॥ ६० ॥
" तत्र त्रिकटुकवचासर्षपहरीतकी कल्कमालोड्य तैलशुक्तसु-रामूत्र दारमधूनामन्यतमेन सलवणमभिप्रतप्तमुपस्विन्नमृदितग-लकपोलललाटप्रदेशो धारयेत् ॥ ६१ ॥
सुखं संञ्चार्य्यते या तु मात्रा स कवलः स्मृतः ।
सञ्चय्र्या तु या मात्रा गण्डूषः स प्रकोर्त्तितः ॥ ६२ ॥
त्रेयः -- ' ' सप्तवषमुपादाय नस्यकम चतुर्विधम् । प्रतिमर्शोऽथ वमनं जन्मप्रभृति शस्य-ते ॥ धूमोऽथ द्वादशे वर्षे कवलः पञ्चमे मतः । दोषव्याधिवलावस्थां वीक्ष्य चैतान् प्रयोजयेत् ॥ ” इति । १ दोषानुसारेण स्नेहं विभजति - तैलमिति । केवले -दोषान्तररहिते, शुद्धे इत्यर्थः । २ शिरः श्लेष्मस्थानम् । ३ तेषु = केवलवाता -" दिष्वित्यर्थः । ४ कवलग्रहंवर्णयति -अत — इति । ५ भावप्रकाशे - " चतुर्विधः स्याद् गण्डूष: स्नैइनः शमनस्तथा । शोधनो रोपणश्चैव कवलश्चापि तादृशः ॥ ” इति । ६ चतुर्विधकवलानां द्रव्याणि दर्शयति - स्निग्धोष्णैरिति । ७ ‘ सुखं श्लेष्मागारम् ' इत्यन्यत्राप्यभियुक्तेाक्तेः कवले कफहरत्रिकटु कादियोगं निरूपयति -- तत्रेति । ८ ] वातादिहरद्रव्यस्य चर्वणेन सञ्चायते इत्यर्थः । " वातपि-त्तकफघ्नस्य द्रव्यस्य श्र्वलं मुखे । अर्द्ध निक्षिप्य सवर्व्य निष्ठीवेत् कवले विधिः ॥ ” इति भावमिश्रः । ९ स्नेद्दक्षीरकषायादिश्वपूर्णमुखत्वादसनार्येति भावः । तथा च भावप्रकाशे—-“ स्नेहक्षीरकषायादिद्रवैः सम्पूर्णमाननम् । आपूर्य स्थीयते तावद्विधिर्गण्डूषधारणे ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 972
पाठ पढ़ें पाठ छिपाएँ
८१ by Arya Samaj Foundatis सुश्रुतसंहितायां Gangotri [ अ ० ४० तावैच्च धारयितव्योऽनन्यमनसोन्नतदेहेन यावदोष परिपूर्ण-कपोलत्वं नासास्रोतोनयनपरिप्लावश्च भवति तदा विमोक्तव्यः, पुनश्चौन्यो गृहीतव्य इति ॥ ६३ ॥
एवं स्नेहवयःक्षौद्ररसमूत्राम्लसम्भृता: ।
कषायोष्णोदकाभ्याञ्च कवला दोषतो हिताः ॥ ६४ ॥
व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम् ।
इन्द्रियाणां प्रसादश्च कवले शुद्धिलक्षणम् ॥ ६५ ॥
होने जाड्यकफोत्क्लेशावरसज्ञानमेव च ।
अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमाः ॥। ६६ ॥
शोधनीये विशेषेण भवन्त्येव न संशयः ।
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ॥ ६७ ॥
सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहनाशनः ।
कवलस्य विधिहॊप समासेन " प्रकीर्त्तितः ॥ ६८ ॥
विभज्ये ' भेषजं बुद्ध्या कुर्वीत प्रतिसारणम् । इति । गण्डूषकवलौषधमानमुक्तम् -- " दद्यात् द्रव्येषु चूर्णं च गण्डूषे कोलमात्रकम् । कर्षः प्रमाणः कल्कश्च कवले दीयते बुधैः ॥ ” इति । १ गण्डूषधारणकालावधिमभिः घत्ते -- तावच्चेति । २ दोषः = कफः! “ कफपूर्णास्यता यावच्छेदो दोषस्य वा भवेत् । नेत्रघ्राणश्रुतिर्यावत्तावद् गण्डूषधारणम् ॥ ” इति । ३ “ गण्डूषान् सुस्थितः कुर्यात् स्विन्नभालगलादिकः । मनुष्यस्त्रींस्तथा पञ्च सप्त वाऽऽदोषनाशनात् ॥ ” इति भावमिश्रः । ४ दोषानुसारेण कवलान्निदिशति -- एवमिति । ५ सम्भृता: = सम्यग्धारिता इत्यर्थः । ६ दोषतः = व्याधितः । ७ कवलफलमभिदधाति-- व्याधेरिति । भाव. प्रकाशे फलमिदं गण्डूषस्योक्तम् -- " व्याधेरपचयस्तुष्टिवैशद्यं वक्त्रलाघवम् । इन्द्रि-याणां प्रसादश्च गण्डूषे विधृते भवेत् ॥ हरेदास्यस्य वैरस्यं शोषं पाकं व्रणं तृषान् । दन्तचालं च गण्डूषो वैशद्यं तु करोति हि ॥ कघल्ः कुरुते काङ्क्षां भक्ष्येषु हरते कफम् । तृष्णां शोषञ्च वैरस्यं दन्तचालं च नाशयेत् ॥ ” इति । गण्डूषकवलयोरवस्था-मर्यांदामाह— “ धार्यन्ते पञ्चमाद् वर्षाद् गण्डूषाः कवलादयः ॥ ” इति भावमिश्रः । ८ कवलस्य योगायोगातियोगलक्षणमाख्याति - हीन इति । ९ श्रागन्तुक-क्षारदाहनाशनकवलं निरूपयति- तिला इति । १० समासेन = सङ्क्षेपेण । ११ स-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 973
पाठ पढ़ें पाठ छिपाएँ
30 अ ० ४० ] Digitized by A श्च किरसंस्थिानम mai Foundation Chennai and eGangotri कल्को रसक्रिया क्षौद्रं चूर्णं चेति चतुर्विधम् ॥ ६ ९ ॥
अङ्गुल्यप्रणीतन्तु यथास्वं मुखरोगिणाम् ।
तस्मिंन् योगमयोगञ्च कवलोक्तं विभावयेत् ॥ ७० ॥
तानेव शमयेद् व्याधीन् कवलो यानपोहति । ८१५ दोषघ्नमनभिष्यन्दि भोजयेच्च तथा नरम् ॥ ७१ ॥
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां चिकित्सा-स्थाने चत्वारिंशोऽध्यायः । डुङ्क्षेपेण प्रतिसारणविषये ब्रवीति - विभज्येति । " दन्तजिह्वामुखानां यच्चूर्णक. हकावलेद्दकैः । शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् ॥ वैरस्यं मुखदौर्गन्ध्यं मुखशो-षस्तथा तृषाम् । अरुचि दन्तपीडां च निहन्ति प्रतिसारणम् ॥ ” इति भावप्रकाशः । १ रसक्रिया = फाणिताकृतिः । २ वातादिदोषानुसारेण तदारब्धरोगानुसारेण च यत्र यत्प्रतिसारणमनुकूलं तद् यथास्वम् । शालाक्ये श्रस्य विधि: - " कोलास्थिमात्रेण पिण्डेन यथादोषं यथाव्याधि पञ्च सप्त वा वारान् हीनमध्यमोत्तमेषु व्याधिषु च प्रतिसारणं कुर्वीत । न चैनमतिघर्षयेत् । श्रतिघर्षणादोष चोषदाइक्लेदश्वयथु तृष्णा भक्तच्छन्दवा-क्सङ्गा भवन्ति । असम्यक् प्रतिसारणात् पैच्छिल्य गुरुत्वानन्नाभिलाषप्रमोइविकारानु-पशयाः । सम्यक्प्रतिसारणाद् वैशद्यं लाघवं क्षवथुरप्रसेकोऽन्नाभिलाषश्च " इति । ३ प्रतिसारणस्य योगायोगातियोगलक्षणान्य तिदिशति - तस्मिन्निति । “ होने जाडयकफोत्क्लेशावरसज्ञानमेव च । प्रतियोगान् मुखे पाकः शोषस्तृष्णा वमिः क्लमः ॥ ” इति भावमिश्रः । ४ शमयेदिति क्रियया प्रतिसारणमिति कर्तृपदम-ध्याहार्यम् । इति पण्डितश्री कपिलदेव मिश्रतनुजन्मना मिश्रोपाहश्री सुदामाशमणा निम्मितायां सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां चिकित्सा-स्थाने चत्वारिंशत्तमोऽध्यायः । समाप्तमिदं चिकित्सास्थानम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 974
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 975
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri अथ कल्पस्थानम् ।
प्रथमोऽध्यायः ।
अर्थातोऽन्नपानरक्षाकल्पं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः ।
सुश्रुतप्रभृतीन् शिष्याञ्छशासाहतैशासनः ॥ ३ ॥
रिपवो विक्रमाक्रान्ता ये च स्वे कृत्यतां गताः ।
सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम् ॥ ४ ॥
विषैनिहन्युर्निपुणं नृपतिं दुष्टचेतसः । अथ कल्पस्थानम् ।
यस्योल्बणेन यमुना गरलेन दूनाऽपेया व्रजस्थितिजुषाञ्च युगान्तराले ।
निस्सार्य कालियमहिं गरलत्वशून्या येन व्यधायि मुरलीधरमानंतस्वम् ॥ १ ॥
१ " विषजुष्टस्य विज्ञानं विषनिश्चयमेव च । चिकित्सितं च वक्ष्यामि कल्पे तु प्रविभागशः ॥ ” इति द्वित्रणीयाध्याये प्रतिज्ञानात् चिकित्सास्थानानन्तरं कल्पस्थान -मारभ्यते -- अधात इति । तत्र स्वस्थस्य व्याधिजर्जरितस्य च अन्नपानैरेव प्राणवा-रणमिति प्रागन्नपान रक्षाकल्पं व्याख्याति । कल्पों लक्षगचिकित्सितकल्पनम् । अन्ने घनसाधर्म्याद् भक्ष्यं, पाने द्रवसाधम्यल्लेह्यमपि गृह्यते । आदिशब्दो लुप्तनिर्दिष्टः । तथा च अन्नपानशब्दाभ्यां भक्ष्यभोज्य लेह्य चोष्य भेदाच्चतुर्विधस्य, आदिना दन्तका ष्ठादीनामपि परिग्रहः, तेषामप्युपदेशात् । एव च विषजुष्टान्नपानदन्तकाष्ठादीनां रक्षया सहितं कल्पमन्नपानरक्षाकल्पं व्याख्यास्यामो विशेषेण कथयिष्याम इत्यर्थः । २ अहतं शासनं यस्य सोऽहतशासनः अनुल्लङ्क्षिताज्ञ इत्यर्थः । ३ विषाद् राज्ञो रक्षणीयत्वं निरूपयति- रिपव इति । विक्रमाक्रान्ताः = राज्ञः शौर्यातिशयेन पराजिता इत्यर्थः! स्वे = श्रात्मीया जनाः, कृत्यतां = विद्वेषताम्, ' कृत्यो विद्विषि कार्यो च कृत्या स्याद् देवताक्रिया ' इति हेमचन्द्रः । ४ सिटक्षवः दातुमिच्छवः, क्रोधविषं क्रोधेन विषमित्यर्थः । विवरं = छिद्रमित्यर्थः । ५२ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 976
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri ८१ figitize [ अ ० १ स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया ॥ ५ ॥
विषकन्योपयोगाद्वा क्षरणाज्जह्यादसून्नरः ।
तस्माद्वैद्येन सततं विषाद्रक्ष्यो नराधिपः ॥ ६ ॥
यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम् ।
न विश्वस्यात् ततो राजा कदाचिदपि कस्यचित् ॥ ७ ॥
कुलीनं धार्मिकं स्निग्धं सुभृतं सन्ततोत्थितम् ।
अलुब्धमशठं ' भक्तं कृतज्ञं प्रियदर्शनम् ॥ ८ ॥
क्रोधपारुष्यं मात्सर्य्यमायाऽऽलस्यविवर्जितम् ।
जितेन्द्रियं क्षमावन्तं शुचिं शीलदयाऽन्वितम् ॥ ९ ॥
मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम् ।
पटुं प्रगल्भं निपुणं दक्षमालस्यैवर्जितम् ॥ १० ॥
१ सुभगेच्छया सौभाग्यार्थं राजानं निजपति च निहन्युरित्यर्थः । तदुक्तमष्टाङ्ग-हृदये— “ सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वाऽऽरातिचोदिताः । गरमाहारसम्पृक्तं यच्छ · न्त्यासन्नवर्तिनः ॥ ” इति । २ विषकन्याया उपयोगात् संसर्गात् । आजन्मनः किञ्चित् किञ्चिद् विवद्धर्थं तीक्ष्णविषाभ्यसनाद् विषमयी कन्या विषकन्येति प्राञ्च इति हाराण · चन्द्रः । “ इन्ति स्पृशन्ती स्वेदेन गम्यमाना च मैथुने । पक्वं वृन्तादिव फलं प्रशात-यति मेहनम् ॥ ” इति बोद्धव्यम् । ज्यौतिषे विषकन्या तु - " भद्रा तिथिर्यदाश्लेषा शतभं कृत्तिका तथा । मन्दाररविवाराश्चेद् विषकन्या बुधैः स्मृता ॥ " इत्युक्ता सा प्रकरणविरोधान्नात्र युक्ता । ३ राज्ञा कदापि कस्यचिदपि विश्वासो नैव विधेय इति प्रतिपादयति - यस्मा -च्चेति । वारं वारं सदसन्मार्गगामित्वेनास्थिरत्वं चेतोऽनित्यत्वम् । ४ ' न विश्व-सेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ' इति विदुरः । ५ महानसे नियोगार्हस्य वैद्य. स्य गुणानाख्याति — कुलीनमिति । कुलीनं सत्कुलोद्भवम्, यस्मात् सत्कुलोत्प-न्नोऽदुष्टबीजोत्पन्नतया विषादिदुष्टकर्मणि न प्रवर्तते । एवं धार्मिकोऽपि श्रुतिस्मृतिविहि-तधर्मज्ञानतया दुष्टकर्मप्रवर्तने भयं कुरुते । स्निग्धं = राज्ञा सह सौर्हृदमापन्नम् । सुभृतं = प्रचुरवृत्तिकम्, सततोत्थितः = रात्रिन्दिवमुद्योगशीलः । ६ ' प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । व्यक्तापराधचेष्टश्च शठोऽयं ७ परुषो कथितो बुधैः ॥ इति विष्णुपुराणोक्तशठलक्षणरहितम शठमित्यर्थः । निष्ठु-रभाषी तस्य भावः पारुष्यम्, मात्सर्यम् = श्रन्यशुभद्वेषता । ८ पुनरत्र श्रालस्याभि ० CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 977
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Arya Sama Foundation Chennai and eGangotri ८१ ९
पूर्वोक्तेश्च गुणैर्यक्तं नित्यं सन्निहितागर्दम् ।
महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजितम् ॥ ११ ॥
प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि ।
सजालैकं गवाक्षाढ्यमासवर्गनिषेवितम् ॥ १२ ॥
विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम् ।
परीक्षितस्त्रीपुरुषं भवेच्चापि महासनम् ॥ १३ ॥
तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम् ।
शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः ॥ १४ ॥
संविभक्ताः ' ' सुमनसो नीचकेशनखाः स्थिराः ।
स्नाता दृढं संयमिनः I कृतोष्णीषाः सुसंयताः ॥। १५ ॥
तस्य ' चाज्ञाविधेयाः स्युविविधाः परिकर्मिणः ।
आहारस्थितयश्चापि ५३ भवन्ति प्राणिनो यतः ॥ १६ ॥
तस्मान्महानसे वैद्यः प्रमादरहितो " भवेत् ।
१५ माहानसिकवोढारः सौपौदनिकपौपिकाः ॥। १७ ॥
धानमतिशयनिषेधार्थम् । १ “ तत्त्वाधिगतशास्त्रार्थः ” इत्यादि कैयुक्तसेनीयोक्तैः पूर्वो-क्तैर्गुणैरित्यर्थः । २ अगदं = विषहरभेषजम् । ३ महानसे = पाकशालायाम् । ४ तद्विद्यैः पाकशास्त्रतत्त्वशैर्भिषग्भिः पूजितमिति तद्विद्यपूजितम् । ५ कीदृशं महानसं विधेयमिति दर्शयति - प्रशस्तेति । प्रशस्ता दिक् = प्राग्नेयी दिक् । तदुक्तम् -- ' महानसं चापि कार्यमाग्नेय्याम् ' इति । ६ अत्र जालकः मशक • मक्षिकादिजन्तुप्रवेशरोधकः ' चिक - परदा ' इति बोद्धव्यः । गवाक्षः = वातायनम्, धूमनिस्सरणार्थमित्यर्थः । ७ विकक्षसृष्टसंसृष्टं = विगतशुष्कतृणस्थानसम्बन्धम् । ‘ कक्षः स्मृतो भुजामूले कक्षोऽरण्ये च वीरुधि । कक्षः शुष्कतृणे प्रोक्तः कक्षः कच्छ उदाहृतः ॥ ' इति धरणिः । ८ पूर्वोक्तैः कुलीनधार्मिकत्वादिभिवैद्य गुणैरन्वितमित्यर्थः । ९ परिचारकगुणा-नाचष्टे - शुचय इति । दक्षिणा: औदार्यवन्तः । १० संविभक्ताः = भागशः कर्मसु नियोजिताः । ११ संयमिनः = जिह्वालौल्या दिरहिताः सुसंयताः = सावधानाः । १२ त-स्य = अध्यक्षस्येत्यर्थः । १३ श्राहारेण स्थितिर्येषां ते आहारस्थितयः । १४ प्रमादरः हितः = सावधान इत्यर्थः । १५ माहानसिक परिकर्मिणां वैद्यवशगत्वं प्रतिपादयन्नाद-माहेति । महानसे नियुक्ता माहानसिकाः पाकशालाऽध्यक्षाः, वोढारो बाह्यकर्मकराः, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 978
पाठ पढ़ें पाठ छिपाएँ
८२० सुश्रुतसंहितायां -Digitized by Arya Samaj Foundation Chennai and eGangotri भवेयुर्वैद्यवशगा ये चाप्यन्येऽत्र केचन । [ अ ० १ इङ्गितज्ञो ' मनुष्याणां वाक्चेष्टा मुखवैकृतैः ॥ १८ ॥
विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धिमान् ।
न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च ॥ १ ९ ॥
पार्थं बहु सङ्कीर्ण भाषते चापि मूढवत् ।
स्फोटयेत्यङ्गुलीर्भूमिमकस्माद्विलिखेद्धसेत् ॥ २० ॥
वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते ।
क्षामो विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि ॥ २१ ॥
आलभेतासकृद्दीनः करेण च शिरोरुहान् ।
निर्यिसुरपद्वारैर्वीक्षते च पुनः पुनः ॥ २२ ॥
वर्तते विपरीतं तु विषदाता विचेतनः ।
१॰केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया ॥ २३ ॥
"
असतामपि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः ।
तस्मात् परीक्षणं कार्य्यं भृत्यानामादृतैर्नृपैः ॥ २४ ॥
अन्ने १२ पाने दन्तकाष्ठे तथाऽभ्यङ्गेऽवलेखने । सौपाः सूपव्यञ्जनादिपाचकाः, श्रदनिकाः तण्डुलपाचकाः, पौपिकाः पूपादिभक्ष्य साधकाः । १ अन्नादौ शत्रवो विषं ददतीति तेषां ज्ञानार्थं लक्षणमाह – इङ्गितज्ञ इति । इङ्गितमभिप्रायसूचकभावविशेषं जानातोति इङ्गितज्ञ वैद्य इत्यर्थः । विषस्योत्पत्तिमाह वाग्भटे— “ मथ्यमाने जलनिधाममृतार्थं सुरासुरैः । जातः प्रागमृतोत्पत्तेः पुरुषो घोरद-र्शनः ॥ दीप्ततेजाश्चतुर्दष्टो हरिकेशोऽनलेक्षणः । जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसं. ज्ञितः ॥ हुङ्कृतो ब्रह्मणा मूर्ती ततः स्थावरजङ्गमे । सोऽध्यतिष्ठन्निजं रूपमुज्झित्वा -वञ्चनात्मकम् ॥ ” इति । २ मुखवैकृतं = मुखवैवर्ण्यादि । ३ एभिः वक्ष्यमाणैः । ४ स्वीयासत्कर्मं जनितव्यामोहात् पृष्टः सन् उत्तरं न ददातीत्यर्थः । ५ अपार्थं = निर • थकम्, सङ्कीर्णम् = अस्फुटम् । ६ भयजनितपर्वव्यथाऽपनोदनाय अङ्गुलीः स्फोटय-तीत्यर्थः । अकस्मात् = हेतुं विनाऽपि । ७ विवर्णवक्त्रः = मलिनमुखः । ८ श्राल. भेत = स्पृशेत्, श्राङ्पूर्वकस्य लभधातोः स्पर्शार्थकत्वात् । ९ निर्यातुमिच्छुनिर्थियासुः । १० कदाचित् सन्तोऽपि राज्ञो भयाद् विषदातृजनवच्चेष्टा कुर्वन्तीति विषदातुः परीक्षणे राज्ञा यत्नवता भाव्यमिति प्रतिपादयति – केचिदिति । ११ असतां = विषदातॄणामित्यर्थः । १२ गरविषाधिष्ठानानि निर्दिशति -अन्न इति । १३ अत्रले-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 979
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Arya Samaj Pundation Chennai and eGangotri ८२१ उत्सादने कषाये च परिषेकेऽनुलेपने ॥ २५ ॥
क्षु वस्त्रेषु शय्यासु कवचाभरणेषु च ।
पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम् ॥ २६ ॥
विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु ।
लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम् ॥ २७ ॥
नृपभक्ताद्बलिं न्यस्तं सविषं भक्षयन्ति ये ।
तत्रैव ते विनश्यन्ति मक्षिकावायसादयः ॥ २८ ॥
हुतभुक्तेन चान्नेन भृशं चटचटायते ।
मयूरकण्ठप्रतिमो जायते चापि दुःसहः ॥ २ ९ ॥
भिन्नाचिस्तीक्ष्णधूमश्च न चिराञ्च्चोपशाम्यति ।
चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु ॥ ३० ॥
दृष्ट्वाऽन्नं विषसंसृष्टं म्रियन्ते जीवजीवकाः ।
कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति ॥ ३१ ॥
हृष्येन्मयूर ' उद्विग्नः क्रोशतः शुकसारिके ।
हल: क्ष्वेडति चात्यर्थं भृङ्गराजस्तु कूजति ॥ ३२ ॥
पृषतो विसृजत्यश्रुं विष्ठां मुञ्चति मर्कटः ।
सन्निकृष्टशंस्ततः कुर्याद्राज्ञस्तान् मृगपक्षिणः ॥ ३३ । ।
वेश्मनोऽथ विभूषार्थं रक्षार्थञ्चात्मनः सदा ।
उपक्षिः ` स्य चान्नस्य बाष्पेणोर्ध्वं प्रसर्पता ॥ ३४ ॥
हृत्पीडा भ्रान्तनेत्रत्वं शिरोदुःखञ्च जायते । खनं = कङ्कतिका । १ स्रक्षु = पुष्पमात्येषु । २ सविषान्नलक्षणं दर्शयति-नृपेति । नृपभक्तात् = राज्ञ श्रोदनात् । ३ हुतं भुङ्क्त इति हुतभुग् श्रग्निः । ४ विशेषेण रागवश्वं वैराग्यम् । ' सविषान्नं दृष्ट्वा चकोराक्षिणी रक्ते भवतः ' इति ५ एतद्दर्शनेन विषनाशोऽपि भवतीति बोद्धयम् । ६ उद्विग्नः = कुल्लूकभट्टः । चलितः, विजेरत्र चलनार्थकत्वात् । क्रोशतः = रोदनशब्दं कुरुतः । ७ क्ष्वेडति = शब्दायते । ८ पृषतः = चित्रविन्दुमान् मृगभेदः । ९ सविषान्नस्य बाष्पोष्मणा यद् भवति तद्दर्शयति - उपक्षिप्तस्येति । उपक्षिप्त-स्य = भोक्तुं परिवेषितस्य । उपक्षिप्तस्येत्यत्र ' उखाक्षिप्तस्य ' इति पाठान्तरम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 980
पाठ पढ़ें पाठ छिपाएँ
८२ by Arya Samaj Found सुश्रुतसंहिता TeGangotri [ अ ० १ तत्र नस्याञ्जने कुष्ठं लाम॑ज्जं नलदं मधु ॥ ३५ ॥
कुर्याच्छरीषरजनीचन्दनैश्च प्रलेपनम् ।
हृदि चन्दनलेपस्तु तथा सुखमवाप्नुयात् ॥ ३६ ॥
पाणिप्राप्तं पाणिदाहं नखशांतं करोति च ।
अत्र प्रलेपः श्यामेन्द्रगोपासोमोत्पलानि च ॥ ३७ ॥
सं चेत् प्रमादान्मोहाद्वा तदन्नमुपसेवते ।
अष्ठीलावत्ततो जिह्वा भवत्यरसवेदिनी ॥ ३८ ॥
तुद्यते दह्यते चापि श्लेष्मा चास्यात् प्रसिच्यते ।
तत्र बाष्पेरितं कर्म यच्च स्याद्दान्तकाष्टिकम् ॥। ३ ९ ॥
मूर्च्छा छर्दिमतीसारमाध्मानं दाहवेपथू ।
इन्द्रियाणाञ्च वैकृत्यं कुर्यादामाशयं गतम् ॥। ४० ॥
तत्राशु मदनाला बुबिम्बीकोशातकीफलैः ।
छर्दनं दध्युर्दे श्विद्भयामथवा तण्डुलाम्बुना ॥ ४१ ॥
I
दाह " मूर्च्छा मतीसारं तृष्णामिन्द्रियवैकृतम् " ।
आटोपं पाण्डुतां कार्यं कुर्य्यात् पक्काशयं गतम् ॥। ४२ ॥
१३ विरेचनं ससर्पिष्कं तत्रोक्तं नीलिनीफलम् । १ लामज्जम् = उशोरम्, नलदं = जटामांसी, ' नलदं स्यात् पुष्परसोशीरमां सीषु न द्वयो: ' इति मेदिनी । २ नखशातं = नखपातम् । ३ श्यामा = श्याममूला त्रिवृत्, इन्द्रा = इन्द्रवारुणी, गोपा = सुगन्धमूला सारिवा, केषाञ्चनमते ' इन्द्रगोपः ' इत्येक • पदं, तत्र ' बीरबहूटी ' इत्यर्थो बोद्धव्यः । सोमा = गुडूची, उत्पलं = नीलकमलम् । ४ सविषान्नभोजनदोषं चिकित्सां चाह - स इति । ५ श्रष्ठीला = पाषाणपि-ण्डिका । ६ आस्यात् = मुखात् । ७ वाष्पेरितं कर्म " तत्र नस्याञ्जने कुष्ठम् ” इत्यादिना पूर्वोक्तं कर्म, दान्तकाष्टिकम् “ अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः ” इत्यादिना वक्ष्यमाणं प्रतिसारणम् । ८ श्रामाशयगत विषलक्षणं तच्चिकित्सां च वति - मूर्च्छामिति । ९ अलाबुः = कटुतुम्बी । १० उदकेन श्वयति वर्धते इत्यु • दश्विद् अर्धजलेन मथितं तक्रमित्यर्थः । ' उदकस्योदः सन्ज्ञायाम् ' इत्युदादेशः । ' उद-श्वितोऽन्यतरस्याम् ' इति निर्देशात् सम्प्रसारणाभावः । ११ पक्काशयगतविषलक्षणं तच्चिकित्सां च ब्रवीति - दाहमिति । १२ इन्द्रिय-वैकृतम् == इन्द्रियविकलता । १३ नीलिनी - ' नील ' इति ख्याता । CC - 0. Gurukul Kangri Collection, Haridwar