सुश्रुत संहिता चौखम्बा — पृष्ठ 971–980

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 971–980

पृष्ठ 971

सुश्रुत संहिता चौखम्बा, पृष्ठ 971 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri चिकित्सास्थानम् । ८१३

तैलं ' कफे सवाते स्यात् केवले पवने वसाम् ।

दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते ॥ ५६ ॥

चतुर्विधस्य स्नेहस्य विधिरेवं प्रकीर्त्तितः ।

श्लेष्मेस्थानाविरोधित्वात् तेषु तैलं विधीयते ॥ ५७ ॥

अतः परं प्रवक्ष्यामि कवलग्रहणे विधिम् ।

चतुर्द्धा कवलः स्नेही प्रसादी शोधिरोपणौ ॥ ५८ ॥

स्निग्धोष्णैः ' स्नैहिको वाते, स्वादुशीतैः प्रसादनः ।

पित्ते, कट्बम्ललवणैः रूक्षोष्णैः शोधनः कफे ॥ ५ ९ ॥

कपायतिक्तमधुरैः कद्रूष्णैः रोपणो व्रणे ।

चतुर्विधस्य चैवास्य विशेषोऽयं प्रकीर्त्तितः ॥ ६० ॥

" तत्र त्रिकटुकवचासर्षपहरीतकी कल्कमालोड्य तैलशुक्तसु-रामूत्र दारमधूनामन्यतमेन सलवणमभिप्रतप्तमुपस्विन्नमृदितग-लकपोलललाटप्रदेशो धारयेत् ॥ ६१ ॥

सुखं संञ्चार्य्यते या तु मात्रा स कवलः स्मृतः ।

सञ्चय्र्या तु या मात्रा गण्डूषः स प्रकोर्त्तितः ॥ ६२ ॥

त्रेयः -- ' ' सप्तवषमुपादाय नस्यकम चतुर्विधम् । प्रतिमर्शोऽथ वमनं जन्मप्रभृति शस्य-ते ॥ धूमोऽथ द्वादशे वर्षे कवलः पञ्चमे मतः । दोषव्याधिवलावस्थां वीक्ष्य चैतान् प्रयोजयेत् ॥ ” इति । १ दोषानुसारेण स्नेहं विभजति - तैलमिति । केवले -दोषान्तररहिते, शुद्धे इत्यर्थः । २ शिरः श्लेष्मस्थानम् । ३ तेषु = केवलवाता -" दिष्वित्यर्थः । ४ कवलग्रहंवर्णयति -अत — इति । ५ भावप्रकाशे - " चतुर्विधः स्याद् गण्डूष: स्नैइनः शमनस्तथा । शोधनो रोपणश्चैव कवलश्चापि तादृशः ॥ ” इति । ६ चतुर्विधकवलानां द्रव्याणि दर्शयति - स्निग्धोष्णैरिति । ७ ‘ सुखं श्लेष्मागारम् ' इत्यन्यत्राप्यभियुक्तेाक्तेः कवले कफहरत्रिकटु कादियोगं निरूपयति -- तत्रेति । ८ ] वातादिहरद्रव्यस्य चर्वणेन सञ्चायते इत्यर्थः । " वातपि-त्तकफघ्नस्य द्रव्यस्य श्र्वलं मुखे । अर्द्ध निक्षिप्य सवर्व्य निष्ठीवेत् कवले विधिः ॥ ” इति भावमिश्रः । ९ स्नेद्दक्षीरकषायादिश्वपूर्णमुखत्वादसनार्येति भावः । तथा च भावप्रकाशे—-“ स्नेहक्षीरकषायादिद्रवैः सम्पूर्णमाननम् । आपूर्य स्थीयते तावद्विधिर्गण्डूषधारणे ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 972

सुश्रुत संहिता चौखम्बा, पृष्ठ 972 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८१ by Arya Samaj Foundatis सुश्रुतसंहितायां Gangotri [ अ ० ४० तावैच्च धारयितव्योऽनन्यमनसोन्नतदेहेन यावदोष परिपूर्ण-कपोलत्वं नासास्रोतोनयनपरिप्लावश्च भवति तदा विमोक्तव्यः, पुनश्चौन्यो गृहीतव्य इति ॥ ६३ ॥

एवं स्नेहवयःक्षौद्ररसमूत्राम्लसम्भृता: ।

कषायोष्णोदकाभ्याञ्च कवला दोषतो हिताः ॥ ६४ ॥

व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम् ।

इन्द्रियाणां प्रसादश्च कवले शुद्धिलक्षणम् ॥ ६५ ॥

होने जाड्यकफोत्क्लेशावरसज्ञानमेव च ।

अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमाः ॥। ६६ ॥

शोधनीये विशेषेण भवन्त्येव न संशयः ।

तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ॥ ६७ ॥

सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहनाशनः ।

कवलस्य विधिहॊप समासेन " प्रकीर्त्तितः ॥ ६८ ॥

विभज्ये ' भेषजं बुद्ध्या कुर्वीत प्रतिसारणम् । इति । गण्डूषकवलौषधमानमुक्तम् -- " दद्यात् द्रव्येषु चूर्णं च गण्डूषे कोलमात्रकम् । कर्षः प्रमाणः कल्कश्च कवले दीयते बुधैः ॥ ” इति । १ गण्डूषधारणकालावधिमभिः घत्ते -- तावच्चेति । २ दोषः = कफः! “ कफपूर्णास्यता यावच्छेदो दोषस्य वा भवेत् । नेत्रघ्राणश्रुतिर्यावत्तावद् गण्डूषधारणम् ॥ ” इति । ३ “ गण्डूषान् सुस्थितः कुर्यात् स्विन्नभालगलादिकः । मनुष्यस्त्रींस्तथा पञ्च सप्त वाऽऽदोषनाशनात् ॥ ” इति भावमिश्रः । ४ दोषानुसारेण कवलान्निदिशति -- एवमिति । ५ सम्भृता: = सम्यग्धारिता इत्यर्थः । ६ दोषतः = व्याधितः । ७ कवलफलमभिदधाति-- व्याधेरिति । भाव. प्रकाशे फलमिदं गण्डूषस्योक्तम् -- " व्याधेरपचयस्तुष्टिवैशद्यं वक्त्रलाघवम् । इन्द्रि-याणां प्रसादश्च गण्डूषे विधृते भवेत् ॥ हरेदास्यस्य वैरस्यं शोषं पाकं व्रणं तृषान् । दन्तचालं च गण्डूषो वैशद्यं तु करोति हि ॥ कघल्ः कुरुते काङ्क्षां भक्ष्येषु हरते कफम् । तृष्णां शोषञ्च वैरस्यं दन्तचालं च नाशयेत् ॥ ” इति । गण्डूषकवलयोरवस्था-मर्यांदामाह— “ धार्यन्ते पञ्चमाद् वर्षाद् गण्डूषाः कवलादयः ॥ ” इति भावमिश्रः । ८ कवलस्य योगायोगातियोगलक्षणमाख्याति - हीन इति । ९ श्रागन्तुक-क्षारदाहनाशनकवलं निरूपयति- तिला इति । १० समासेन = सङ्क्षेपेण । ११ स-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 973

सुश्रुत संहिता चौखम्बा, पृष्ठ 973 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

30 अ ० ४० ] Digitized by A श्च किरसंस्थिानम mai Foundation Chennai and eGangotri कल्को रसक्रिया क्षौद्रं चूर्णं चेति चतुर्विधम् ॥ ६ ९ ॥

अङ्गुल्यप्रणीतन्तु यथास्वं मुखरोगिणाम् ।

तस्मिंन् योगमयोगञ्च कवलोक्तं विभावयेत् ॥ ७० ॥

तानेव शमयेद् व्याधीन् कवलो यानपोहति । ८१५ दोषघ्नमनभिष्यन्दि भोजयेच्च तथा नरम् ॥ ७१ ॥

इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां चिकित्सा-स्थाने चत्वारिंशोऽध्यायः । डुङ्क्षेपेण प्रतिसारणविषये ब्रवीति - विभज्येति । " दन्तजिह्वामुखानां यच्चूर्णक. हकावलेद्दकैः । शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् ॥ वैरस्यं मुखदौर्गन्ध्यं मुखशो-षस्तथा तृषाम् । अरुचि दन्तपीडां च निहन्ति प्रतिसारणम् ॥ ” इति भावप्रकाशः । १ रसक्रिया = फाणिताकृतिः । २ वातादिदोषानुसारेण तदारब्धरोगानुसारेण च यत्र यत्प्रतिसारणमनुकूलं तद् यथास्वम् । शालाक्ये श्रस्य विधि: - " कोलास्थिमात्रेण पिण्डेन यथादोषं यथाव्याधि पञ्च सप्त वा वारान् हीनमध्यमोत्तमेषु व्याधिषु च प्रतिसारणं कुर्वीत । न चैनमतिघर्षयेत् । श्रतिघर्षणादोष चोषदाइक्लेदश्वयथु तृष्णा भक्तच्छन्दवा-क्सङ्गा भवन्ति । असम्यक् प्रतिसारणात् पैच्छिल्य गुरुत्वानन्नाभिलाषप्रमोइविकारानु-पशयाः । सम्यक्प्रतिसारणाद् वैशद्यं लाघवं क्षवथुरप्रसेकोऽन्नाभिलाषश्च " इति । ३ प्रतिसारणस्य योगायोगातियोगलक्षणान्य तिदिशति - तस्मिन्निति । “ होने जाडयकफोत्क्लेशावरसज्ञानमेव च । प्रतियोगान् मुखे पाकः शोषस्तृष्णा वमिः क्लमः ॥ ” इति भावमिश्रः । ४ शमयेदिति क्रियया प्रतिसारणमिति कर्तृपदम-ध्याहार्यम् । इति पण्डितश्री कपिलदेव मिश्रतनुजन्मना मिश्रोपाहश्री सुदामाशमणा निम्मितायां सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां चिकित्सा-स्थाने चत्वारिंशत्तमोऽध्यायः । समाप्तमिदं चिकित्सास्थानम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 974

सुश्रुत संहिता चौखम्बा, पृष्ठ 974 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 975

सुश्रुत संहिता चौखम्बा, पृष्ठ 975 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri अथ कल्पस्थानम् ।

प्रथमोऽध्यायः ।

अर्थातोऽन्नपानरक्षाकल्पं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः ।

सुश्रुतप्रभृतीन् शिष्याञ्छशासाहतैशासनः ॥ ३ ॥

रिपवो विक्रमाक्रान्ता ये च स्वे कृत्यतां गताः ।

सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम् ॥ ४ ॥

विषैनिहन्युर्निपुणं नृपतिं दुष्टचेतसः । अथ कल्पस्थानम् ।

यस्योल्बणेन यमुना गरलेन दूनाऽपेया व्रजस्थितिजुषाञ्च युगान्तराले ।

निस्सार्य कालियमहिं गरलत्वशून्या येन व्यधायि मुरलीधरमानंतस्वम् ॥ १ ॥

१ " विषजुष्टस्य विज्ञानं विषनिश्चयमेव च । चिकित्सितं च वक्ष्यामि कल्पे तु प्रविभागशः ॥ ” इति द्वित्रणीयाध्याये प्रतिज्ञानात् चिकित्सास्थानानन्तरं कल्पस्थान -मारभ्यते -- अधात इति । तत्र स्वस्थस्य व्याधिजर्जरितस्य च अन्नपानैरेव प्राणवा-रणमिति प्रागन्नपान रक्षाकल्पं व्याख्याति । कल्पों लक्षगचिकित्सितकल्पनम् । अन्ने घनसाधर्म्याद् भक्ष्यं, पाने द्रवसाधम्यल्लेह्यमपि गृह्यते । आदिशब्दो लुप्तनिर्दिष्टः । तथा च अन्नपानशब्दाभ्यां भक्ष्यभोज्य लेह्य चोष्य भेदाच्चतुर्विधस्य, आदिना दन्तका ष्ठादीनामपि परिग्रहः, तेषामप्युपदेशात् । एव च विषजुष्टान्नपानदन्तकाष्ठादीनां रक्षया सहितं कल्पमन्नपानरक्षाकल्पं व्याख्यास्यामो विशेषेण कथयिष्याम इत्यर्थः । २ अहतं शासनं यस्य सोऽहतशासनः अनुल्लङ्क्षिताज्ञ इत्यर्थः । ३ विषाद् राज्ञो रक्षणीयत्वं निरूपयति- रिपव इति । विक्रमाक्रान्ताः = राज्ञः शौर्यातिशयेन पराजिता इत्यर्थः! स्वे = श्रात्मीया जनाः, कृत्यतां = विद्वेषताम्, ' कृत्यो विद्विषि कार्यो च कृत्या स्याद् देवताक्रिया ' इति हेमचन्द्रः । ४ सिटक्षवः दातुमिच्छवः, क्रोधविषं क्रोधेन विषमित्यर्थः । विवरं = छिद्रमित्यर्थः । ५२ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 976

सुश्रुत संहिता चौखम्बा, पृष्ठ 976 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri ८१ figitize [ अ ० १ स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया ॥ ५ ॥

विषकन्योपयोगाद्वा क्षरणाज्जह्यादसून्नरः ।

तस्माद्वैद्येन सततं विषाद्रक्ष्यो नराधिपः ॥ ६ ॥

यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम् ।

न विश्वस्यात् ततो राजा कदाचिदपि कस्यचित् ॥ ७ ॥

कुलीनं धार्मिकं स्निग्धं सुभृतं सन्ततोत्थितम् ।

अलुब्धमशठं ' भक्तं कृतज्ञं प्रियदर्शनम् ॥ ८ ॥

क्रोधपारुष्यं मात्सर्य्यमायाऽऽलस्यविवर्जितम् ।

जितेन्द्रियं क्षमावन्तं शुचिं शीलदयाऽन्वितम् ॥ ९ ॥

मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम् ।

पटुं प्रगल्भं निपुणं दक्षमालस्यैवर्जितम् ॥ १० ॥

१ सुभगेच्छया सौभाग्यार्थं राजानं निजपति च निहन्युरित्यर्थः । तदुक्तमष्टाङ्ग-हृदये— “ सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वाऽऽरातिचोदिताः । गरमाहारसम्पृक्तं यच्छ · न्त्यासन्नवर्तिनः ॥ ” इति । २ विषकन्याया उपयोगात् संसर्गात् । आजन्मनः किञ्चित् किञ्चिद् विवद्धर्थं तीक्ष्णविषाभ्यसनाद् विषमयी कन्या विषकन्येति प्राञ्च इति हाराण · चन्द्रः । “ इन्ति स्पृशन्ती स्वेदेन गम्यमाना च मैथुने । पक्वं वृन्तादिव फलं प्रशात-यति मेहनम् ॥ ” इति बोद्धव्यम् । ज्यौतिषे विषकन्या तु - " भद्रा तिथिर्यदाश्लेषा शतभं कृत्तिका तथा । मन्दाररविवाराश्चेद् विषकन्या बुधैः स्मृता ॥ " इत्युक्ता सा प्रकरणविरोधान्नात्र युक्ता । ३ राज्ञा कदापि कस्यचिदपि विश्वासो नैव विधेय इति प्रतिपादयति - यस्मा -च्चेति । वारं वारं सदसन्मार्गगामित्वेनास्थिरत्वं चेतोऽनित्यत्वम् । ४ ' न विश्व-सेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ' इति विदुरः । ५ महानसे नियोगार्हस्य वैद्य. स्य गुणानाख्याति — कुलीनमिति । कुलीनं सत्कुलोद्भवम्, यस्मात् सत्कुलोत्प-न्नोऽदुष्टबीजोत्पन्नतया विषादिदुष्टकर्मणि न प्रवर्तते । एवं धार्मिकोऽपि श्रुतिस्मृतिविहि-तधर्मज्ञानतया दुष्टकर्मप्रवर्तने भयं कुरुते । स्निग्धं = राज्ञा सह सौर्हृदमापन्नम् । सुभृतं = प्रचुरवृत्तिकम्, सततोत्थितः = रात्रिन्दिवमुद्योगशीलः । ६ ' प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । व्यक्तापराधचेष्टश्च शठोऽयं ७ परुषो कथितो बुधैः ॥ इति विष्णुपुराणोक्तशठलक्षणरहितम शठमित्यर्थः । निष्ठु-रभाषी तस्य भावः पारुष्यम्, मात्सर्यम् = श्रन्यशुभद्वेषता । ८ पुनरत्र श्रालस्याभि ० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 977

सुश्रुत संहिता चौखम्बा, पृष्ठ 977 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Arya Sama Foundation Chennai and eGangotri ८१ ९

पूर्वोक्तेश्च गुणैर्यक्तं नित्यं सन्निहितागर्दम् ।

महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजितम् ॥ ११ ॥

प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि ।

सजालैकं गवाक्षाढ्यमासवर्गनिषेवितम् ॥ १२ ॥

विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम् ।

परीक्षितस्त्रीपुरुषं भवेच्चापि महासनम् ॥ १३ ॥

तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम् ।

शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः ॥ १४ ॥

संविभक्ताः ' ' सुमनसो नीचकेशनखाः स्थिराः ।

स्नाता दृढं संयमिनः I कृतोष्णीषाः सुसंयताः ॥। १५ ॥

तस्य ' चाज्ञाविधेयाः स्युविविधाः परिकर्मिणः ।

आहारस्थितयश्चापि ५३ भवन्ति प्राणिनो यतः ॥ १६ ॥

तस्मान्महानसे वैद्यः प्रमादरहितो " भवेत् ।

१५ माहानसिकवोढारः सौपौदनिकपौपिकाः ॥। १७ ॥

धानमतिशयनिषेधार्थम् । १ “ तत्त्वाधिगतशास्त्रार्थः ” इत्यादि कैयुक्तसेनीयोक्तैः पूर्वो-क्तैर्गुणैरित्यर्थः । २ अगदं = विषहरभेषजम् । ३ महानसे = पाकशालायाम् । ४ तद्विद्यैः पाकशास्त्रतत्त्वशैर्भिषग्भिः पूजितमिति तद्विद्यपूजितम् । ५ कीदृशं महानसं विधेयमिति दर्शयति - प्रशस्तेति । प्रशस्ता दिक् = प्राग्नेयी दिक् । तदुक्तम् -- ' महानसं चापि कार्यमाग्नेय्याम् ' इति । ६ अत्र जालकः मशक • मक्षिकादिजन्तुप्रवेशरोधकः ' चिक - परदा ' इति बोद्धव्यः । गवाक्षः = वातायनम्, धूमनिस्सरणार्थमित्यर्थः । ७ विकक्षसृष्टसंसृष्टं = विगतशुष्कतृणस्थानसम्बन्धम् । ‘ कक्षः स्मृतो भुजामूले कक्षोऽरण्ये च वीरुधि । कक्षः शुष्कतृणे प्रोक्तः कक्षः कच्छ उदाहृतः ॥ ' इति धरणिः । ८ पूर्वोक्तैः कुलीनधार्मिकत्वादिभिवैद्य गुणैरन्वितमित्यर्थः । ९ परिचारकगुणा-नाचष्टे - शुचय इति । दक्षिणा: औदार्यवन्तः । १० संविभक्ताः = भागशः कर्मसु नियोजिताः । ११ संयमिनः = जिह्वालौल्या दिरहिताः सुसंयताः = सावधानाः । १२ त-स्य = अध्यक्षस्येत्यर्थः । १३ श्राहारेण स्थितिर्येषां ते आहारस्थितयः । १४ प्रमादरः हितः = सावधान इत्यर्थः । १५ माहानसिक परिकर्मिणां वैद्यवशगत्वं प्रतिपादयन्नाद-माहेति । महानसे नियुक्ता माहानसिकाः पाकशालाऽध्यक्षाः, वोढारो बाह्यकर्मकराः, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 978

सुश्रुत संहिता चौखम्बा, पृष्ठ 978 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२० सुश्रुतसंहितायां -Digitized by Arya Samaj Foundation Chennai and eGangotri भवेयुर्वैद्यवशगा ये चाप्यन्येऽत्र केचन । [ अ ० १ इङ्गितज्ञो ' मनुष्याणां वाक्चेष्टा मुखवैकृतैः ॥ १८ ॥

विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धिमान् ।

न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च ॥ १ ९ ॥

पार्थं बहु सङ्कीर्ण भाषते चापि मूढवत् ।

स्फोटयेत्यङ्गुलीर्भूमिमकस्माद्विलिखेद्धसेत् ॥ २० ॥

वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते ।

क्षामो विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि ॥ २१ ॥

आलभेतासकृद्दीनः करेण च शिरोरुहान् ।

निर्यिसुरपद्वारैर्वीक्षते च पुनः पुनः ॥ २२ ॥

वर्तते विपरीतं तु विषदाता विचेतनः ।

१॰केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया ॥ २३ ॥

"

असतामपि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः ।

तस्मात् परीक्षणं कार्य्यं भृत्यानामादृतैर्नृपैः ॥ २४ ॥

अन्ने १२ पाने दन्तकाष्ठे तथाऽभ्यङ्गेऽवलेखने । सौपाः सूपव्यञ्जनादिपाचकाः, श्रदनिकाः तण्डुलपाचकाः, पौपिकाः पूपादिभक्ष्य साधकाः । १ अन्नादौ शत्रवो विषं ददतीति तेषां ज्ञानार्थं लक्षणमाह – इङ्गितज्ञ इति । इङ्गितमभिप्रायसूचकभावविशेषं जानातोति इङ्गितज्ञ वैद्य इत्यर्थः । विषस्योत्पत्तिमाह वाग्भटे— “ मथ्यमाने जलनिधाममृतार्थं सुरासुरैः । जातः प्रागमृतोत्पत्तेः पुरुषो घोरद-र्शनः ॥ दीप्ततेजाश्चतुर्दष्टो हरिकेशोऽनलेक्षणः । जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसं. ज्ञितः ॥ हुङ्कृतो ब्रह्मणा मूर्ती ततः स्थावरजङ्गमे । सोऽध्यतिष्ठन्निजं रूपमुज्झित्वा -वञ्चनात्मकम् ॥ ” इति । २ मुखवैकृतं = मुखवैवर्ण्यादि । ३ एभिः वक्ष्यमाणैः । ४ स्वीयासत्कर्मं जनितव्यामोहात् पृष्टः सन् उत्तरं न ददातीत्यर्थः । ५ अपार्थं = निर • थकम्, सङ्कीर्णम् = अस्फुटम् । ६ भयजनितपर्वव्यथाऽपनोदनाय अङ्गुलीः स्फोटय-तीत्यर्थः । अकस्मात् = हेतुं विनाऽपि । ७ विवर्णवक्त्रः = मलिनमुखः । ८ श्राल. भेत = स्पृशेत्, श्राङ्पूर्वकस्य लभधातोः स्पर्शार्थकत्वात् । ९ निर्यातुमिच्छुनिर्थियासुः । १० कदाचित् सन्तोऽपि राज्ञो भयाद् विषदातृजनवच्चेष्टा कुर्वन्तीति विषदातुः परीक्षणे राज्ञा यत्नवता भाव्यमिति प्रतिपादयति – केचिदिति । ११ असतां = विषदातॄणामित्यर्थः । १२ गरविषाधिष्ठानानि निर्दिशति -अन्न इति । १३ अत्रले-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 979

सुश्रुत संहिता चौखम्बा, पृष्ठ 979 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Arya Samaj Pundation Chennai and eGangotri ८२१ उत्सादने कषाये च परिषेकेऽनुलेपने ॥ २५ ॥

क्षु वस्त्रेषु शय्यासु कवचाभरणेषु च ।

पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम् ॥ २६ ॥

विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु ।

लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम् ॥ २७ ॥

नृपभक्ताद्बलिं न्यस्तं सविषं भक्षयन्ति ये ।

तत्रैव ते विनश्यन्ति मक्षिकावायसादयः ॥ २८ ॥

हुतभुक्तेन चान्नेन भृशं चटचटायते ।

मयूरकण्ठप्रतिमो जायते चापि दुःसहः ॥ २ ९ ॥

भिन्नाचिस्तीक्ष्णधूमश्च न चिराञ्च्चोपशाम्यति ।

चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु ॥ ३० ॥

दृष्ट्वाऽन्नं विषसंसृष्टं म्रियन्ते जीवजीवकाः ।

कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति ॥ ३१ ॥

हृष्येन्मयूर ' उद्विग्नः क्रोशतः शुकसारिके ।

हल: क्ष्वेडति चात्यर्थं भृङ्गराजस्तु कूजति ॥ ३२ ॥

पृषतो विसृजत्यश्रुं विष्ठां मुञ्चति मर्कटः ।

सन्निकृष्टशंस्ततः कुर्याद्राज्ञस्तान् मृगपक्षिणः ॥ ३३ । ।

वेश्मनोऽथ विभूषार्थं रक्षार्थञ्चात्मनः सदा ।

उपक्षिः ` स्य चान्नस्य बाष्पेणोर्ध्वं प्रसर्पता ॥ ३४ ॥

हृत्पीडा भ्रान्तनेत्रत्वं शिरोदुःखञ्च जायते । खनं = कङ्कतिका । १ स्रक्षु = पुष्पमात्येषु । २ सविषान्नलक्षणं दर्शयति-नृपेति । नृपभक्तात् = राज्ञ श्रोदनात् । ३ हुतं भुङ्क्त इति हुतभुग् श्रग्निः । ४ विशेषेण रागवश्वं वैराग्यम् । ' सविषान्नं दृष्ट्वा चकोराक्षिणी रक्ते भवतः ' इति ५ एतद्दर्शनेन विषनाशोऽपि भवतीति बोद्धयम् । ६ उद्विग्नः = कुल्लूकभट्टः । चलितः, विजेरत्र चलनार्थकत्वात् । क्रोशतः = रोदनशब्दं कुरुतः । ७ क्ष्वेडति = शब्दायते । ८ पृषतः = चित्रविन्दुमान् मृगभेदः । ९ सविषान्नस्य बाष्पोष्मणा यद् भवति तद्दर्शयति - उपक्षिप्तस्येति । उपक्षिप्त-स्य = भोक्तुं परिवेषितस्य । उपक्षिप्तस्येत्यत्र ' उखाक्षिप्तस्य ' इति पाठान्तरम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 980

सुश्रुत संहिता चौखम्बा, पृष्ठ 980 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२ by Arya Samaj Found सुश्रुतसंहिता TeGangotri [ अ ० १ तत्र नस्याञ्जने कुष्ठं लाम॑ज्जं नलदं मधु ॥ ३५ ॥

कुर्याच्छरीषरजनीचन्दनैश्च प्रलेपनम् ।

हृदि चन्दनलेपस्तु तथा सुखमवाप्नुयात् ॥ ३६ ॥

पाणिप्राप्तं पाणिदाहं नखशांतं करोति च ।

अत्र प्रलेपः श्यामेन्द्रगोपासोमोत्पलानि च ॥ ३७ ॥

सं चेत् प्रमादान्मोहाद्वा तदन्नमुपसेवते ।

अष्ठीलावत्ततो जिह्वा भवत्यरसवेदिनी ॥ ३८ ॥

तुद्यते दह्यते चापि श्लेष्मा चास्यात् प्रसिच्यते ।

तत्र बाष्पेरितं कर्म यच्च स्याद्दान्तकाष्टिकम् ॥। ३ ९ ॥

मूर्च्छा छर्दिमतीसारमाध्मानं दाहवेपथू ।

इन्द्रियाणाञ्च वैकृत्यं कुर्यादामाशयं गतम् ॥। ४० ॥

तत्राशु मदनाला बुबिम्बीकोशातकीफलैः ।

छर्दनं दध्युर्दे श्विद्भयामथवा तण्डुलाम्बुना ॥ ४१ ॥

I

दाह " मूर्च्छा मतीसारं तृष्णामिन्द्रियवैकृतम् " ।

आटोपं पाण्डुतां कार्यं कुर्य्यात् पक्काशयं गतम् ॥। ४२ ॥

१३ विरेचनं ससर्पिष्कं तत्रोक्तं नीलिनीफलम् । १ लामज्जम् = उशोरम्, नलदं = जटामांसी, ' नलदं स्यात् पुष्परसोशीरमां सीषु न द्वयो: ' इति मेदिनी । २ नखशातं = नखपातम् । ३ श्यामा = श्याममूला त्रिवृत्, इन्द्रा = इन्द्रवारुणी, गोपा = सुगन्धमूला सारिवा, केषाञ्चनमते ' इन्द्रगोपः ' इत्येक • पदं, तत्र ' बीरबहूटी ' इत्यर्थो बोद्धव्यः । सोमा = गुडूची, उत्पलं = नीलकमलम् । ४ सविषान्नभोजनदोषं चिकित्सां चाह - स इति । ५ श्रष्ठीला = पाषाणपि-ण्डिका । ६ आस्यात् = मुखात् । ७ वाष्पेरितं कर्म " तत्र नस्याञ्जने कुष्ठम् ” इत्यादिना पूर्वोक्तं कर्म, दान्तकाष्टिकम् “ अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः ” इत्यादिना वक्ष्यमाणं प्रतिसारणम् । ८ श्रामाशयगत विषलक्षणं तच्चिकित्सां च वति - मूर्च्छामिति । ९ अलाबुः = कटुतुम्बी । १० उदकेन श्वयति वर्धते इत्यु • दश्विद् अर्धजलेन मथितं तक्रमित्यर्थः । ' उदकस्योदः सन्ज्ञायाम् ' इत्युदादेशः । ' उद-श्वितोऽन्यतरस्याम् ' इति निर्देशात् सम्प्रसारणाभावः । ११ पक्काशयगतविषलक्षणं तच्चिकित्सां च ब्रवीति - दाहमिति । १२ इन्द्रिय-वैकृतम् == इन्द्रियविकलता । १३ नीलिनी - ' नील ' इति ख्याता । CC - 0. Gurukul Kangri Collection, Haridwar