सुश्रुत संहिता चौखम्बा — पृष्ठ 981–990

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 981–990

पृष्ठ 981

सुश्रुत संहिता चौखम्बा, पृष्ठ 981 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Foundation Chennai and eGangotri ८२३ ‘ अ ० १ ] Digitized by Arya Sam पस्थानम् | दध्ना दूषीविषरिश्च पेयो वा मधुसंयुतः ॥ ४३ ॥

द्रवद्रव्येषु सर्वेषु क्षीरमद्योदकादिषु ।

भवन्ति विविधा राज्यः फेनबुद्बुदजन्म च ॥ ४४ ॥

छायाञ्चात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः ।

भवन्ति यमलाश्छिद्रास्तन्व्यो वा विकृतास्तथा ॥ ४५ ॥

शार्कसूपान्नमांसानि क्लिन्नानि विरसानि च ।

सद्यः पर्य्यषितानीव विगन्धानि भवन्ति च ॥ ४६ ॥

गन्धवर्णरसैहनाः सर्वे भक्ष्याः फलानि च ।

पक्कान्याशु विशीर्य्यन्ते पाकमामानि यान्ति च ॥ ४७ ॥

विशीर्यते 8 कूर्चक तु दन्तकाष्ठगते विषे ।

जिह्वादन्तौष्ठमांसानां श्वयथुश्चोपजायते ॥ ४८ ॥

अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः ।

सक्षौद्रैः प्रच्छिते शोफे कर्तव्यं प्रतिसारणम् ॥ ४ ९ ॥

' अथवाऽङ्कोठमूलानि त्वचः सप्तच्छदस्य वा ।

शिरीषमाषका वाऽपि सक्षौद्राः प्रतिसारणम् ॥ ५० ॥

जिह्वानिर्लेखकवलौ दन्तकाष्ठवदादिशेत् ।

पिच्छिलो " बहुलोऽभ्यङ्गो विवर्णो वा विषान्वितः ॥ ५१ ॥

१ दूषीविषा रिद्वितीयाध्याये " पिप्पल्यो ध्यामकं मांसो " इत्यादिना वक्ष्यते । २ सविषद्रवद्रव्यलक्षणमाख्याति - द्रवेति । ३ विविधा राज्यो वाग्भटेन विशदी-कृता: - " नीला राजी रसे ताम्रा क्षीरे दधनि दृश्यते । श्यावा पीताऽसिता तक्रे घृते पानीयसन्निभा ॥ काली मद्याम्भसोः क्षौद्रे हरित्तैलेऽ ६ गोपमा ॥ ” इति । ४ यमला: युग्माः, छिद्रा: = छिद्रयुक्ताः । ५ सविषशाकसूपभक्ष्यफललक्षणमाचष्टे - शाकेति । ' मूलपत्रकरीराग्रफलकाण्डाधिरूढ कम् । त्वक् पुष्पं कत्रकं चैव शाकं दशविधं स्मृतम् ॥ ' इति शाकपदेन दशविधं शाकं बोद्धव्यम् । ६ विशीर्यन्ते = शटन्तीत्यर्थः । ७ सविषदन्तकाष्ठादिलक्षणं तच्चिकित्सां च प्रतिपादयति- विशीर्यत इति । विशीर्यते = शीर्णो भवति, कूर्चकः = दन्तमलशोधन कूर्च: ' कूची ' इति ख्यातः । प्रति • सारणं = घर्षणम् । ९ कुत्सिता माषा भाषकास्तत्साम्यात् शिरीषबीजानीत्यर्थो बो-द्धयः । १० सविषाभ्यङ्गलक्षणं तच्चिकित्सां च दर्शयति- पिच्छिल इति । बहुलः = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 982

सुश्रुत संहिता चौखम्बा, पृष्ठ 982 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२४ by Arya Samaj Fo सुश्रुतसंहितायां deGangotri [ अ ० १

स्फोटजन्मरुजास्रावत्वक्पाकः स्वेदनं ज्वरः ।

दरणं चापि मांसानामभ्यङ्गे विषसंयुते ॥ ५२ ॥

तत्र शीताम्बुसिक्तस्य कर्तव्यमनुलेपनम् ।

चन्दनं तगरं कुष्ठमुशीरं वेणुपत्रिका ॥ ५३ ॥

सोमवल्ल्यमृता श्वेता पद्मं कोलीयकं त्वचम् ।

कपित्थरसमूत्राभ्यां पानमेतच्च युज्यते ॥ ५४ ॥

उत्सादने परीषेके कषाये चानुलेपने ।

शय्यावस्त्रतनुत्रेषु ज्ञेयमभ्यङ्गलक्षणैः ॥ ५५ ॥

केशंशातः शिरोदुःखं खेभ्यश्च रुधिरागमः ।

ग्रन्थिजन्मोत्तमाङ्गेषु विषजुष्टेऽवलेखने ॥ ५६ ॥

प्रलेपो बहुशस्तत्र भाविताः कृष्णमृत्तिकाः ।

ऋष्यपित्तघृतश्यामापालिन्दीतण्डुलीयकैः ॥ ५७ ॥

गोमयस्वरसो वाऽपि हितो वा मालतीरसः ।

रसो मूषिकपर्ण्या वा धूमो वाऽगारसम्भवः ॥ ५८ ॥

शिरोऽभ्यङ्गः शिरस्त्राणं स्नानमुष्णीषमेव च ।

स्रजश्च विषसंसृष्टाः सार्धंयेदवलेखनात् ॥ ५ ९ ॥

मुँखालेपे मुखं श्यावं युक्तमभ्यङ्गलक्षणैः ।

पद्मिनीकण्टकप्रख्यैः कण्टकैश्चोपचीयते ॥ ६० ॥

तत्र क्षौद्रघृतं पानं प्रलेपश्चन्दनं घृतम् ।

पयस्या मधुकं फँञ्जी बन्धुजीवः पुनर्नवा ॥ ६१ ॥

घनः, अभ्यङ्गः - तैलाद्यभ्यञ्जनद्रव्यम् । १ वेणुपत्रिका = वंशपत्राणि, वेणुपत्रिका वंशपत्रीवृक्ष इति सुश्रुतार्थसन्दीपनम् । २ कालीयकं == दारुहरिद्रा । ३ तनुत्रे = कववे। ४ सविषाव लेखनलक्षणं तच्चिकित्सां चाख्याति - केशेति । केशशातः = कचपातनम्, खेभ्यः = स्रोतोभ्य इत्यर्थः । ५ ' ऋ'यो नीलाण्डको लोके स रोरु इति कीर्तितः ' इति बोद्धयम् । श्यामा = प्रियङ्गुः, पालिन्दी = श्याममूला त्रिवृत् । ६ अत्रलेखनोक्तलक्षणचिकित्सितादित्यर्थः । ७ सविषमुखलेपलक्षणं तच्चिकित्सां च निर्दिशति - मुखेति । श्यावं - कपिशवर्णं ' फीका ' इति बोद्धथम् । ८ फञ्जी = ' भारङ्गी ' इति ख्याता । बन्धुजीवः = बन्धूकः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 983

सुश्रुत संहिता चौखम्बा, पृष्ठ 983 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Arya Samada on Chennai and eGangotri ८२५

अस्वास्थ्यं कुञ्जरादीनां लालास्रावोऽक्षिरक्तता ।

स्फिक्पायु मेढ्रमुष्केषु यातुश्च स्फोटसम्भवः ॥ ६२ ॥

तत्राभ्यङ्गवदेवेष्टा योतृवाहनयोः क्रिया ।

शोणितागमनं खेभ्यः शिरोरुक्कफसंस्रवः ॥ ६३ ॥

धूमते लिङ्गमिन्द्रियाणाञ्च वैकृतम् ।

तत्र दुग्धैर्गवादीनां सर्पिः सातिविषैः शृतम् ॥ ६४ ॥

पाने नस्ये च सँश्वेतं हितं समदयन्तिकम् ।

गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत् ॥ ६५ ॥

जिघ्रतश्च शिरोदुःखं वारिपूर्णे च लोचने ।

तत्र बाष्पेरितं कर्म मुखालेपे च यत् स्मृतम् ॥ ३६ ॥

कर्णतैलगते श्रोत्र वैगुण्यं शोफवेदने ।

कर्णस्रावश्च तत्राशु कर्त्तव्यं प्रतिपूरणम् ॥ ६७ ॥

स्वरसो बहुपुत्रायाः सघृतः क्षौद्रसंयुतः ।

“ सोमवल्करसश्चापि सुशीतो हित इष्यते ॥ ६८ ॥

" अश्रूपदेहो दाहश्च वेदना दृष्टिविभ्रमः ।

अञ्जन विषसंसृष्टे भवेदान्ध्यमथापि च ॥ ६ ९ ॥

तत्र सद्यो घृतं पेयं तर्पणञ्च " समागधम् । ' दुपहरिया फूल ' इति प्रथते । १ विषजुष्टवाद्दनलक्षणं तच्चिकित्सा च वक्ति— अस्वास्थ्यमिति । २ याता = गन्ता, आरोहक इति यावत् । ३ सविषनस्यधूमलक्षणं तच्चिकित्सां च वक्ति - शोणितेति 1 । खेभ्यः = स्रोतोभ्यः । ४ अतिविषा ' अतीस ' इति ख्याता, तत्सहितैः सातिविषैः । ५ श्वेतया वचया सहितं सश्वेतम्, मदयन्तिकया मल्लिकया सहितं समदयन्तिकम् । मदयन्तिकावचयोः कल्को ग्राह्यः । ६ विषयुक्त पुष्पलक्षणं तच्चिकित्सां च ब्रवीति – गन्धेति । ७ बाष्पेरितं कर्म “ तत्र नस्याञ्जने कुष्ठम् " इत्यादिना प्राक् निवेदितम् । ८ विषयुक्तकर्णतैललक्षणं तच्चिकित्सां च वर्णयति - कर्णेति । श्रोत्रवैगुण्यं = कर्णाश्रवणम् । ९ प्रतिपूरण-विधिमेवाभिधत्ते - स्वरस इति । बहुपुत्रायाः = शतावर्याः । १० सोमवल्कः = कट्फलः, ‘ सोमवल्कः कट्फले स्याद् वलक्षखदिरद्र मे ' इति हेमचन्द्रः । ११ विषयुक्ताअनलक्षणं तच्चिकित्सां चाभिदधाति - अविति । श्रश्रु नेत्राम्बु तस्योपदेहो वृद्धिरित्यश्रूपदेइः । १२ मागधेन पिप्पल्या सहितं समागधम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 984

सुश्रुत संहिता चौखम्बा, पृष्ठ 984 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२६ सुश्रुतसहिताया campatri Digitized by Arya Samaj Foundatio Chennai and eGangotri [ अ ० १ अञ्जनं मेषशृङ्गस्य निर्य्यासो वरुणस्य च ॥ ७० ॥

मुष्ककस्यार्जकर्णस्य फेनो गोपित्त युतः ।

कपित्थमेषशृङ्गयोश्च पुष्पं भल्लातकस्य वा ॥ ७१ ॥

एकैकं कारयेत् पुष्पं बन्धूकाङ्कोटयोरपि ।

शोफैँः स्रावस्तथा स्वापः पादयोः स्फोटजन्म च ॥ ७२ ॥

भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम् ।

उपानत्पादपीठानि पादुकावत् प्रसाधयेत् ॥ ७३ ॥

भूषणौनि हताचषि न विभान्ति यथा पुरा ।

स्वानि स्थानानि हन्युश्च दाहपाकावदारणैः ॥ ७४ ॥

पादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत् ।

' विषोपसर्गो वाष्पादिर्भूषणान्तो य ईरितः ॥ ७५ ॥

समीक्ष्योपद्रवांस्तस्य विदधीत चिकित्सितम् ।

महासुगन्धिमगदं यं प्रवक्ष्यामि तं भिषक् ॥ ७६ ॥

पानालेपननस्येषु विदधीताञ्जनेषु च ।

विरेचनानि तीक्ष्णानि कुर्यात् प्रच्छर्दनानि च ॥ ७७ ॥

सिराश्च व्यधयेत् क्षिप्रं प्राप्तं विस्रावणं यदि ।

मूषिकोऽजरुहा वाऽपि हस्ते बद्धा तु भूपतेः ॥ ७८ ॥

१ अजकर्णस्य = सालभेदस्य, फेनः = समुद्रफेनः, नामैकदेशे नाममात्रस्य ग्रहणात् । गोपित्त संयुतः = गोरोचनामिश्रितः । २ पुष्पम् अञ्जनं कुर्यादित्यर्थः । ३ विषयुक्त-पादुकालक्षणं तच्चिकित्सां चाभिधत्ते - शोफ इति । ४ पादपीठं = पादस्थापनमा · सनम् । पादुकावत्, अनन्तरमेव वदपति - " पादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत् ” इति । ५ विषयुक्तभूषण लक्षणं तच्चिकित्सां चाभिदधाति - भूषणानीति । इता -चींषि - कान्तिरहितानि । ६ पूर्वोक्तेषु विषोपसर्गेष्वावस्थिक कियां दर्शयति – विषेति । ७ " चन्दना-गरुणी कुष्ठम् " द्दत्यादिना सप्तमेऽध्याये प्रवक्ष्यामीत्यर्थः । ८ प्राप्तं = सिराव्यधवि. ध्यध्यायमभिवीक्ष्य युक्तमित्यर्थः । ९ इणोद्धृतमुशनसा प्रोक्तं मूषिकाऽजरुहाल • क्षणम्— “ कन्दः श्वेतः सपिङको भेद्रे चाअनसन्निभः । गन्धलेपनपानैस्तु विषं जरयते नृणाम् ॥ दष्टानां विषपीतानां ये चान्ये विषमोहिताः । त्रिषं जरयते तेषां तस्मादज • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 985

सुश्रुत संहिता चौखम्बा, पृष्ठ 985 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Arya Sion Chennai and eGangotri ८२७

करोति निर्विषं सर्वमन्नं विषसमायुतम् ।

हृदयावरणं नित्यं कुर्याच्च मित्रमध्यगः ॥ ७ ९ ॥

पिबेद् घृतमजेर्याख्यममृताख्यञ्च बुद्धिमान् ।

सर्पिर्दधि पयः क्षौद्रं पिवेद्वा शीतलं जलम् ॥। ८० ॥

मयूरान्नकुलान् गोधाः पृषतान् हरिणानपि ।

सततं भक्षयेच्चापि रसांस्तेषां पिबेदपि ॥ ८१ ॥

गोधौनकुलमांसेषु हरिणस्य च बुद्धिमान् ।

दद्यात् सुपिष्टां पार्लिंन्दीं मधुकं शर्करां तथा ॥ ८२ ॥

शर्कराऽतिविषे देये मायूरे समहौषधे ।

पार्षते चापि देयाः स्युः पिप्पल्यः समहौषधाः ॥ ८३ ॥

सक्षौद्रः सघृतश्चैव शिम्बीयूँ पो हितः सदा ।

विपन्नानि च सेवेत भक्ष्यभोज्यानि बुद्धिमान् ॥ ८४ ॥

पिप्पलीमधुक क्षौद्रशर्करेक्षुरसाम्बुभिः ।

छर्दयेद् गुप्तहृदयो भक्षितं यदि वा विषम् ।

इति सुश्रुतसंहितायां कल्पस्थानेऽन्नपान रक्षाकल्पो नाम प्रथमोऽध्यायः ॥१ ॥

कहा स्मृता ॥ मूषिका लोमशा कृष्णा भवेत् साऽपि च तद्गुणा । " इति । १ चित्ते विषव्याप्तिप्रतिषेधं वक्ति - हृदयेति । हृदयावरणं मूषिकाऽजरुद्दाऽमृ-ताऽजेयपुराणघृतदूषीविषारिमहासुगन्धिशिम्बीयुषादिभिहृदयरक्षार्थं कुर्यादित्यर्थः । २ श्रजेयाख्यं घृतं द्वितीयाध्याये “ मधुकं तगरं कुष्ठम् " इत्यादिना, श्रमृताख्यं घृतं च सप्तमाध्याये " अपामार्गस्य बीजानि " इत्यादिना वक्ष्यते । ३ भक्ष्यभोज्येषु विषघ्नद्रव्ययोगविधिमभिधत्ते - गोधेति । ४ पालिन्दीं -श्याममूलां त्रिवृतम् । ५ समद्दौषधे = शुण्ठीसहिते । ६ शिम्बीयूषः = शमीधान्य-यूषः । ७ विषभक्षणे वमनमाख्याति - पिप्पलीति । ८ गुप्तहृदयः = विषघ्नौष • चेनावृतहृदय इत्यर्थः । इति सुश्रुतसंहितायाः कल्पस्थानीयसुधाऽऽख्यटिप्पन्यां प्रथमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 986

सुश्रुत संहिता चौखम्बा, पृष्ठ 986 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२ by Arya Samaj Foun सुश्रुतसंहितायां Gangotri द्वितीयोऽध्यायः । [ अ ० २ अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

स्थावरं जङ्गमञ्चैव द्विविधं विषमुच्यते ।

दशाधिष्ठानमाद्यन्तु द्वितीयं षोडशाश्रयम् ॥ ३ ॥

मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च ।

निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ॥ ४ ॥

तत्र, क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककर वाटविद्युच्छिखा. विजयानीत्यष्टौ मूलविषाणि । विषपत्रिकालम्बावरदारुकरम्भमहा-करम्भारिण पञ्चपत्रविषारिण । कुमुद्वतीवेणु काकरम्भमहारम्भकर्कोट-करेणुकखद्योतकचर्मरीभगन्धासर्पघातिनन्दनसारपाकानीति द्वादश फलविषाणि । वेत्रकादम्बवल्लीज करम्भमहाकरम्भाणि पञ्च पुष्प-कर्त्तरीय सौरीयककरघाटकरम्भनन्दननारा-विषाणि । अन्न्रपाचकक‍ द्वितीयोऽध्यायः । १ अन्नपानादौ प्रायेण स्थावरविषमवचार्यत इति प्राक् स्थावरविषविज्ञानीयोऽ-ध्याय श्रारभ्यते — अथेति । २ स्थावरजङ्गमारब्धं कृत्रिमसन्ज्ञं तृतीयमपि विषं बोध्यम् । तद् वक्ष्यति - " स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् " इति । ३ श्राद्यं = प्रथमम्, स्थावरमिति यावत् । ४ स्थावरस्य दशाधिष्ठानान्येव दर्शयति- मूलमिति । मूलविषं करवीरादि, चरके मूलजन्यविषस्य बहुत्वं दर्शितम् - " मुस्तकं पौष्करं क्रौञ्चं वत्सनाभं बलाह-कम् । कर्केटैं कालकूटं च करवीरकरुण्यकम् ॥ पाल केन्द्रायुधं तैलं मेघकं कुशपुष्प-कम् । रोहिषं पुण्डरीकं च लाङ्गलक्यञ्जनाभकम् ॥ सङ्कोचं मर्कटं शृङ्गीविषं दालाहलं तथा । एवमादीनि चान्यानि मूलजानि स्थिराणि च ॥ ” इति । एषां लक्षणं तु सङ्ग्र हादौ । पत्रविषं विषपत्रिकादि, फलविषं द्रष्टव्यम्, इह ग्रन्थविस्तरशङ्कया नोक्तम् कर्कोटकादि, पुष्पविषं वेत्रादि त्वक्सारनिर्यासविषाणि करम्भादीनि, क्षीरविषं वत्स • नाभसाक्तुकादि, धातुविषं फेनाश्मभस्मादि, कन्दविषं मूलविशेषत्वान्मूलशब्देनैव ग्रहीतव्यम् । ५ पञ्चपञ्चाशत्स्थावरविषाणि वर्णयति - तत्रेति । मूलादिविषाणां परिज्ञानार्थं यतनीयम् । क्लीतकं - मधुयष्टिः । ६ विद्युच्छिखा = कलिहारिका । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 987

सुश्रुत संहिता चौखम्बा, पृष्ठ 987 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ] Digitized by Aryap on Chennai and eGangotri चकानि सप्त त्वक्सारनिर्यासविषाणि । कुमुदन्नोस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि । ८२ ९ फेनाश्मभस्म हरितार्लञ्च द्वे धातुविषे । कालकूटवत्सनाभसर्प-पपालक कर्दमकवैराटकमुस्तकशृङ्गोविषप्रपुण्डरीकमूलकहालाहलम-हाविषकर्कटकानीति त्रयादश कन्दविषाणि । इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति ॥ ५ ॥

चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीत्तिते ।

षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु ॥ ६ ॥

उद्वेष्टनं मूलविषैः प्रलापो मोह एव च ।

जृम्भाऽङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु ॥ ७ ॥

मुष्कशोफः फलविषैर्दाहोऽन्नद्वेष एव च ।

भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव च ॥ ८ ॥

त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि ।

आस्य दौगन्ध्य पारुष्य शिरोरुक्कफसंस्रवाः ॥ ९ ॥

फेनागमः क्षीरविधैर्विड्भेदो गुरुजिह्नता ।

हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि ॥ १० ॥

प्रायेण कालवातीनि विषाण्येतानि निर्दिशेत् ।

कन्दुजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम् ॥ ११ ॥

स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च ।

श्रीवास्तम्भ वत्सनाभे पीतविण्मूत्रनेत्रता ॥ १२ ॥

सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च ।

ग्रीवादौर्बल्यवार्क्सङ्गौ पालकेऽनुमताविह ॥ १३ ॥

१ वणकहरितालवंशपत्रीमनःशिलाभेदाद्धरितालं त्रिविधम् । २ कन्दविषाणा-मवान्तरभेदानिर्दिशति - चत्वारीति । ३ मूलादिविषाणामुपद्रवान् दर्शयति— उद्वेष्टनमिति । उद्वेष्टनं = शरीराकुचनम् । ४ अन्नद्वेषः = अन्नारोचकता । ५ पा-रुष्यं = कर्कशता । ६ कालघातीनि कालान्तरमारकाणि । ७ कन्दविषाणां लक्ष-ग्यानि निर्दिशति — कन्दजानीति । ८ वेपथुः a कम्पनम् । ९ वाक् तङ्गः = वाग-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 988

सुश्रुत संहिता चौखम्बा, पृष्ठ 988 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ pigitized by Arya Samaj Found सुश्रुतसंहितायां Gangotri

प्रसेकः कर्दमाख्येन विभेदो नेत्रपीतता ।

वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते ॥ १४ ॥

गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु ।

शृङ्गीविषेणाङ्गसाद॑दाहोदर विवृद्धयः ॥ १५ ॥

ण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे ।

वैवर्ण्यं मूलकैश्छर्दिहिक्काशोफप्रमूढताः ॥ १६ ॥

चिरेणोच्छ्वसिति श्यावो नरो हालाहलेन वै ।

महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् ॥ १७ ॥

कर्कटेनोत्पतत्यूर्ध्वं हसन्दन्तान्दशत्यपि ।

कन्दजान्युप्रै वीर्याणि प्रयुक्तानि त्रयोदश ॥ १८ ॥

सर्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः । [ अ ०२ रूक्षैमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च ॥ १ ९ ॥

विकाशि विशदञ्चैव लघ्वपाकि च तत् स्मृतम् ।

तंद्रोदयात् कोपयेद्वायुमौष्ण्यात् पि सशोणितम् ॥ २० ॥

मतिं च मोहयेत् तैक्ष्ण्यान्मर्मबन्धान् छिनत्ति च ।

शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च ॥ २१ ॥

आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत् ।

क्षपयेच्च " विकाशित्वाद्दोषान्धातून्मलानपि ॥ २२ ॥

वैशद्यादतिरिच्येत " दुश्चिकित्स्यञ्च लाघवात् ।

दुर्हरञ्चाविपाकित्वात् तस्मात् क्लेशयते चिरम् ॥ २३ ॥

बरोधः । १ प्रसेकः = लालास्रावः । २ श्रङ्गसादः = श्रङ्गग्लानिः । ३ श्यावः = कपिशः। ४ उग्रवीर्याणि = तीव्रप्रभावाणि । ५ विषाणां दश गुणान् दर्शयति-रूक्षमिति । ६ व्यवायित्वं पानीयपतिततैलवत सर्वतः प्रसरणशीलत्वम् । ७ विका • सित्वं हिंसनशीलखम् । विपूर्वश्च हि कसतिहिंसार्थः । विशदं पिच्छाभागरहितम् । चरकेऽपि — “ लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मं च । उष्णमनिर्दे · श्यरसं दशगुणमुक्तं विषं तज्ज्ञैः ॥ ” इति । दश गुणानां प्रत्येकं कार्य निर्दि-शति - तदिति । ९ राजिकामरिचादिवत् तीक्ष्णत्वादित्यर्थः । १० क्षपयेत् = वि ॰ नाशयेत् । ११ अतिरिच्येत = सक्तं न भवेत् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 989

सुश्रुत संहिता चौखम्बा, पृष्ठ 989 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ] Digitized by Arya Shah Chennai and eGangotri स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् । ८३१ सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम् ॥। २४ ॥

यत् स्थावरं जङ्गमकृत्रिमं वा देहादशेषं यदनिर्गतं तत् ।

जीर्णं २ विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा ॥ २५ ॥

स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति ।

वीर्यात्पभावान्न निपातयेत्तत् कफावृतं वर्षगणानुबन्धि ॥ २६ ॥

तेनादितो भिन्नपुरीपवर्णो विगन्धवैरस्यमुखः पिपासी ।

मूर्च्छन् वमन् गद्गदवाग्विषण्णो भवेच्च दूष्योदरलिङ्गजुष्टः ॥ २७ ॥

आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी ।

भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः ॥ २८ ॥

स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान् । १ दशगुणयुक्तविषस्य सद्योव्यापादकत्वमुपदिशति – स्थावरमिति । यत् स्थावरं जङ्गमं कृत्रिमं वेति त्रिविधं यच्च देहादशेषमनिर्हृतं सद्यो व्यापादयेद् मार • येत्, तद् दशगुणान्वितं ज्ञेयमित्यर्थः । “ स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम् । कृत्रिमं गरसन्ज्ञं तु क्रियते विविधौषधः ॥ " इत्यष्टाङ्गहृदयम् । कृत्रिमं विषं द्विविधम्-एकं सविषं दूषीविषसब्क्षम्, अपरमविषं गरसन्ज्ञम् । तथा च काश्यपः – “ संयोग-जञ्च द्विविधं द्वितीयं विषमुच्यते । दूषीविषं तु सविषमविषं गर उच्यते ॥ ” इति । संयोगजं कृत्रिमं विषम्, द्वितीयं स्वाभाविकमिति तदर्थः । २ स्थावरं जङ्गमं च विषमेव जीर्यत्वादिभिः कारयेद् षीविषसन्ज्ञां लभते, तदाह-जीर्णमिति । जीर्णम् = अतिपुराणम्, विषघ्नौषधिभिर्हतं = विषघ्नीभिरौषधीभिवर्य-दानिकृतम्, दावाग्निः = वनोद्भवोऽग्निः । ३ स्वभावतो वा गुणविप्रहीनं स्वभा · वादेव दशानां गुणानां मध्ये एकद्वित्र्यादिगुणहीनमित्यर्थः । ४ कालान्तरप्रकोपि विषं दूषीविषं, तस्य भावस्तत्ता तां दूषीविषताम् । “ दूषीविषं तु शोणितदुष्टयारुः किटिमकोठलिङ्गं च । विषमेकैकं दोषं सन्दूष्य इरत्यस्नेवम् ॥ ” इति दृढबलः । ५ न निपातयेत् = सद्यश्विरेण वा न मारयेदित्यर्थः । कफावृतं = कफेन मन्दीकृतौष्ण्यादिगु • णम्, वर्षगणानुबन्धि = कफेनाग्नेर्मान्द्यादित्वादपाकाच्चिरस्थायि । ६ भिन्नपुरीष उद्गतमलः, भिन्नवर्णोविवर्णं इत्यर्थः । ७ शरीरावयवविशेषगतदूषीविषलक्षणानि निर्दिशथि – आमेति । ८ ध्वस्ता व्यस्ताः शिरोरुहाः केशाः अङ्गं च यस्य स ध्वस्तशिरोरुहाङ्गः । ९ यथोक्तान् = व्याधि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 990

सुश्रुत संहिता चौखम्बा, पृष्ठ 990 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

ized by Arya Samaj Foundabonara Gangotri सुश्रुतसंहिताय angotri [ अ ० २ कोपञ्च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तत्र रूपम् ॥ २ ९ ॥

निद्रा गुरुत्वञ्च विजृम्भणञ्च विश्लेषहर्षावथवाऽङ्गमंर्दः ।

ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान् ॥ ३० ॥

धातुक्षयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम् ।

वैवर्ण्यविषमज्वरान् वा कुर्य्यात् प्रवृद्धां प्रबलां तृषां वा ॥ ३१ ॥

उन्मादमन्यैज्जनयेत् तथाऽन्यदानाहमन्यत् क्षपयेच्च शुक्रम् ।

गाद्गद्यैमन्यज्जनयेच्च कुष्टं तांस्तान् विकारांश्च बहुप्रकारान् ॥ ३२ ॥

। दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः ।

यस्माद् दूषयते धातून् तस्माद् दूषीविषं स्मृतम् ॥ ३३ ॥

स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम् ।

श्यार्वा जिह्वा भवेत् स्तब्धा मूर्च्छा श्वासश्च जायते ॥ ३४ ॥

द्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा ।

विषमामाशयप्राप्तं कुरुते हृदि वेदनाम् ॥ ३५ ॥

तालुशोषं तृतीये तु शूलं चामाशये भृशम् । समुद्देशीयोक्तान् । १ विश्लेषो गात्रशैथिल्यं, दर्षो रोमाञ्चः । २ प्रकुपित दूषी. विषस्य कार्याण्याद्द — तत इति । ततः = पूर्वरूपानन्तरम्, अन्नमदो भोजनानन्तरं पूगफलेनेव मदः, श्रविपाको भुक्तान्नस्य पाकाभावः । ३ अन्यत् = दूषीविषम् । ४ गाद्गद्यम् = अव्यक्तास्फुटवाक्यत्वम् । ५ विसर्पविस्फोटादीन् विकारानित्यर्थः । ६ दूषीविषशब्दत्य निरुक्ति वक्ति - दूषितमिति । देश आनूपादिः, कालो दुर्दिनादिः, अन्नं कुलत्थ तिलमसूरादि । ७ स्थावर विषस्य सप्तवेगानां लक्षणानि निर्दिशति — स्थावरस्येति । चरकेऽष्टविषवेगा उक्ताः, तल्लक्षणानि च-- " तृण्मोह-दन्तहर्षप्रसेकवमथुक्लमा भवन्त्याद्ये । वेगे रसप्रदोषादसृकप्रदोषाद् द्वितीये तु । वैव-र्ण्यभ्रमवेपथुमूर्च्छाजृम्भाङ्गचिमिचिमात मकाः । दुष्टपिशितात्तृतीये मण्डलकण्डूश्वयथु. कोठाः ॥ वातादिजाश्चतुर्थे दाहच्छङ्गशूलमूर्च्छायाः । नोलादीनां तमसश्च दर्शनं पचमे वैगे ॥ षष्ठे हिक्का, भङ्गः स्कन्धस्य तु सप्तमेऽष्टमे मरणम् । नृणाम् – " इत्यु-क्तानि । श्रत्र चक्रपाणिना चरकसुश्रुतविरोधपरिहारः कृतः – ' सुश्रुते एकैककलाऽति • क्रमेण सप्तवेगा उदीरिताः । इइ कलालङ्घनेनैव सप्तवेगा ), अष्टमे तु सप्तकलालङ्घ-नोत्तरकालं मारको वेगो दष्टस्य दंशदेशगमनाय पीतविषस्य हृदयगमनाय भवतीति सुश्रुतेन सममविरोधः । ' इति । ८ श्यावा = • कपिशवर्णा । ९ चकाराज्जिह्वाश्या • CC - 0. Gurukul Kangri Collection, Haridwar