सुश्रुत संहिता चौखम्बा — पृष्ठ 981–990
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 981–990
पृष्ठ 981
पाठ पढ़ें पाठ छिपाएँ
Foundation Chennai and eGangotri ८२३ ‘ अ ० १ ] Digitized by Arya Sam पस्थानम् | दध्ना दूषीविषरिश्च पेयो वा मधुसंयुतः ॥ ४३ ॥
द्रवद्रव्येषु सर्वेषु क्षीरमद्योदकादिषु ।
भवन्ति विविधा राज्यः फेनबुद्बुदजन्म च ॥ ४४ ॥
छायाञ्चात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः ।
भवन्ति यमलाश्छिद्रास्तन्व्यो वा विकृतास्तथा ॥ ४५ ॥
शार्कसूपान्नमांसानि क्लिन्नानि विरसानि च ।
सद्यः पर्य्यषितानीव विगन्धानि भवन्ति च ॥ ४६ ॥
गन्धवर्णरसैहनाः सर्वे भक्ष्याः फलानि च ।
पक्कान्याशु विशीर्य्यन्ते पाकमामानि यान्ति च ॥ ४७ ॥
विशीर्यते 8 कूर्चक तु दन्तकाष्ठगते विषे ।
जिह्वादन्तौष्ठमांसानां श्वयथुश्चोपजायते ॥ ४८ ॥
अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः ।
सक्षौद्रैः प्रच्छिते शोफे कर्तव्यं प्रतिसारणम् ॥ ४ ९ ॥
' अथवाऽङ्कोठमूलानि त्वचः सप्तच्छदस्य वा ।
शिरीषमाषका वाऽपि सक्षौद्राः प्रतिसारणम् ॥ ५० ॥
जिह्वानिर्लेखकवलौ दन्तकाष्ठवदादिशेत् ।
पिच्छिलो " बहुलोऽभ्यङ्गो विवर्णो वा विषान्वितः ॥ ५१ ॥
१ दूषीविषा रिद्वितीयाध्याये " पिप्पल्यो ध्यामकं मांसो " इत्यादिना वक्ष्यते । २ सविषद्रवद्रव्यलक्षणमाख्याति - द्रवेति । ३ विविधा राज्यो वाग्भटेन विशदी-कृता: - " नीला राजी रसे ताम्रा क्षीरे दधनि दृश्यते । श्यावा पीताऽसिता तक्रे घृते पानीयसन्निभा ॥ काली मद्याम्भसोः क्षौद्रे हरित्तैलेऽ ६ गोपमा ॥ ” इति । ४ यमला: युग्माः, छिद्रा: = छिद्रयुक्ताः । ५ सविषशाकसूपभक्ष्यफललक्षणमाचष्टे - शाकेति । ' मूलपत्रकरीराग्रफलकाण्डाधिरूढ कम् । त्वक् पुष्पं कत्रकं चैव शाकं दशविधं स्मृतम् ॥ ' इति शाकपदेन दशविधं शाकं बोद्धव्यम् । ६ विशीर्यन्ते = शटन्तीत्यर्थः । ७ सविषदन्तकाष्ठादिलक्षणं तच्चिकित्सां च प्रतिपादयति- विशीर्यत इति । विशीर्यते = शीर्णो भवति, कूर्चकः = दन्तमलशोधन कूर्च: ' कूची ' इति ख्यातः । प्रति • सारणं = घर्षणम् । ९ कुत्सिता माषा भाषकास्तत्साम्यात् शिरीषबीजानीत्यर्थो बो-द्धयः । १० सविषाभ्यङ्गलक्षणं तच्चिकित्सां च दर्शयति- पिच्छिल इति । बहुलः = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 982
पाठ पढ़ें पाठ छिपाएँ
८२४ by Arya Samaj Fo सुश्रुतसंहितायां deGangotri [ अ ० १
स्फोटजन्मरुजास्रावत्वक्पाकः स्वेदनं ज्वरः ।
दरणं चापि मांसानामभ्यङ्गे विषसंयुते ॥ ५२ ॥
तत्र शीताम्बुसिक्तस्य कर्तव्यमनुलेपनम् ।
चन्दनं तगरं कुष्ठमुशीरं वेणुपत्रिका ॥ ५३ ॥
सोमवल्ल्यमृता श्वेता पद्मं कोलीयकं त्वचम् ।
कपित्थरसमूत्राभ्यां पानमेतच्च युज्यते ॥ ५४ ॥
उत्सादने परीषेके कषाये चानुलेपने ।
शय्यावस्त्रतनुत्रेषु ज्ञेयमभ्यङ्गलक्षणैः ॥ ५५ ॥
केशंशातः शिरोदुःखं खेभ्यश्च रुधिरागमः ।
ग्रन्थिजन्मोत्तमाङ्गेषु विषजुष्टेऽवलेखने ॥ ५६ ॥
प्रलेपो बहुशस्तत्र भाविताः कृष्णमृत्तिकाः ।
ऋष्यपित्तघृतश्यामापालिन्दीतण्डुलीयकैः ॥ ५७ ॥
गोमयस्वरसो वाऽपि हितो वा मालतीरसः ।
रसो मूषिकपर्ण्या वा धूमो वाऽगारसम्भवः ॥ ५८ ॥
शिरोऽभ्यङ्गः शिरस्त्राणं स्नानमुष्णीषमेव च ।
स्रजश्च विषसंसृष्टाः सार्धंयेदवलेखनात् ॥ ५ ९ ॥
मुँखालेपे मुखं श्यावं युक्तमभ्यङ्गलक्षणैः ।
पद्मिनीकण्टकप्रख्यैः कण्टकैश्चोपचीयते ॥ ६० ॥
तत्र क्षौद्रघृतं पानं प्रलेपश्चन्दनं घृतम् ।
पयस्या मधुकं फँञ्जी बन्धुजीवः पुनर्नवा ॥ ६१ ॥
घनः, अभ्यङ्गः - तैलाद्यभ्यञ्जनद्रव्यम् । १ वेणुपत्रिका = वंशपत्राणि, वेणुपत्रिका वंशपत्रीवृक्ष इति सुश्रुतार्थसन्दीपनम् । २ कालीयकं == दारुहरिद्रा । ३ तनुत्रे = कववे। ४ सविषाव लेखनलक्षणं तच्चिकित्सां चाख्याति - केशेति । केशशातः = कचपातनम्, खेभ्यः = स्रोतोभ्य इत्यर्थः । ५ ' ऋ'यो नीलाण्डको लोके स रोरु इति कीर्तितः ' इति बोद्धयम् । श्यामा = प्रियङ्गुः, पालिन्दी = श्याममूला त्रिवृत् । ६ अत्रलेखनोक्तलक्षणचिकित्सितादित्यर्थः । ७ सविषमुखलेपलक्षणं तच्चिकित्सां च निर्दिशति - मुखेति । श्यावं - कपिशवर्णं ' फीका ' इति बोद्धथम् । ८ फञ्जी = ' भारङ्गी ' इति ख्याता । बन्धुजीवः = बन्धूकः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 983
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Arya Samada on Chennai and eGangotri ८२५
अस्वास्थ्यं कुञ्जरादीनां लालास्रावोऽक्षिरक्तता ।
स्फिक्पायु मेढ्रमुष्केषु यातुश्च स्फोटसम्भवः ॥ ६२ ॥
तत्राभ्यङ्गवदेवेष्टा योतृवाहनयोः क्रिया ।
शोणितागमनं खेभ्यः शिरोरुक्कफसंस्रवः ॥ ६३ ॥
धूमते लिङ्गमिन्द्रियाणाञ्च वैकृतम् ।
तत्र दुग्धैर्गवादीनां सर्पिः सातिविषैः शृतम् ॥ ६४ ॥
पाने नस्ये च सँश्वेतं हितं समदयन्तिकम् ।
गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत् ॥ ६५ ॥
जिघ्रतश्च शिरोदुःखं वारिपूर्णे च लोचने ।
तत्र बाष्पेरितं कर्म मुखालेपे च यत् स्मृतम् ॥ ३६ ॥
कर्णतैलगते श्रोत्र वैगुण्यं शोफवेदने ।
कर्णस्रावश्च तत्राशु कर्त्तव्यं प्रतिपूरणम् ॥ ६७ ॥
स्वरसो बहुपुत्रायाः सघृतः क्षौद्रसंयुतः ।
“ सोमवल्करसश्चापि सुशीतो हित इष्यते ॥ ६८ ॥
" अश्रूपदेहो दाहश्च वेदना दृष्टिविभ्रमः ।
अञ्जन विषसंसृष्टे भवेदान्ध्यमथापि च ॥ ६ ९ ॥
तत्र सद्यो घृतं पेयं तर्पणञ्च " समागधम् । ' दुपहरिया फूल ' इति प्रथते । १ विषजुष्टवाद्दनलक्षणं तच्चिकित्सा च वक्ति— अस्वास्थ्यमिति । २ याता = गन्ता, आरोहक इति यावत् । ३ सविषनस्यधूमलक्षणं तच्चिकित्सां च वक्ति - शोणितेति 1 । खेभ्यः = स्रोतोभ्यः । ४ अतिविषा ' अतीस ' इति ख्याता, तत्सहितैः सातिविषैः । ५ श्वेतया वचया सहितं सश्वेतम्, मदयन्तिकया मल्लिकया सहितं समदयन्तिकम् । मदयन्तिकावचयोः कल्को ग्राह्यः । ६ विषयुक्त पुष्पलक्षणं तच्चिकित्सां च ब्रवीति – गन्धेति । ७ बाष्पेरितं कर्म “ तत्र नस्याञ्जने कुष्ठम् " इत्यादिना प्राक् निवेदितम् । ८ विषयुक्तकर्णतैललक्षणं तच्चिकित्सां च वर्णयति - कर्णेति । श्रोत्रवैगुण्यं = कर्णाश्रवणम् । ९ प्रतिपूरण-विधिमेवाभिधत्ते - स्वरस इति । बहुपुत्रायाः = शतावर्याः । १० सोमवल्कः = कट्फलः, ‘ सोमवल्कः कट्फले स्याद् वलक्षखदिरद्र मे ' इति हेमचन्द्रः । ११ विषयुक्ताअनलक्षणं तच्चिकित्सां चाभिदधाति - अविति । श्रश्रु नेत्राम्बु तस्योपदेहो वृद्धिरित्यश्रूपदेइः । १२ मागधेन पिप्पल्या सहितं समागधम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 984
पाठ पढ़ें पाठ छिपाएँ
८२६ सुश्रुतसहिताया campatri Digitized by Arya Samaj Foundatio Chennai and eGangotri [ अ ० १ अञ्जनं मेषशृङ्गस्य निर्य्यासो वरुणस्य च ॥ ७० ॥
मुष्ककस्यार्जकर्णस्य फेनो गोपित्त युतः ।
कपित्थमेषशृङ्गयोश्च पुष्पं भल्लातकस्य वा ॥ ७१ ॥
एकैकं कारयेत् पुष्पं बन्धूकाङ्कोटयोरपि ।
शोफैँः स्रावस्तथा स्वापः पादयोः स्फोटजन्म च ॥ ७२ ॥
भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम् ।
उपानत्पादपीठानि पादुकावत् प्रसाधयेत् ॥ ७३ ॥
भूषणौनि हताचषि न विभान्ति यथा पुरा ।
स्वानि स्थानानि हन्युश्च दाहपाकावदारणैः ॥ ७४ ॥
पादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत् ।
' विषोपसर्गो वाष्पादिर्भूषणान्तो य ईरितः ॥ ७५ ॥
समीक्ष्योपद्रवांस्तस्य विदधीत चिकित्सितम् ।
महासुगन्धिमगदं यं प्रवक्ष्यामि तं भिषक् ॥ ७६ ॥
पानालेपननस्येषु विदधीताञ्जनेषु च ।
विरेचनानि तीक्ष्णानि कुर्यात् प्रच्छर्दनानि च ॥ ७७ ॥
सिराश्च व्यधयेत् क्षिप्रं प्राप्तं विस्रावणं यदि ।
मूषिकोऽजरुहा वाऽपि हस्ते बद्धा तु भूपतेः ॥ ७८ ॥
१ अजकर्णस्य = सालभेदस्य, फेनः = समुद्रफेनः, नामैकदेशे नाममात्रस्य ग्रहणात् । गोपित्त संयुतः = गोरोचनामिश्रितः । २ पुष्पम् अञ्जनं कुर्यादित्यर्थः । ३ विषयुक्त-पादुकालक्षणं तच्चिकित्सां चाभिधत्ते - शोफ इति । ४ पादपीठं = पादस्थापनमा · सनम् । पादुकावत्, अनन्तरमेव वदपति - " पादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत् ” इति । ५ विषयुक्तभूषण लक्षणं तच्चिकित्सां चाभिदधाति - भूषणानीति । इता -चींषि - कान्तिरहितानि । ६ पूर्वोक्तेषु विषोपसर्गेष्वावस्थिक कियां दर्शयति – विषेति । ७ " चन्दना-गरुणी कुष्ठम् " द्दत्यादिना सप्तमेऽध्याये प्रवक्ष्यामीत्यर्थः । ८ प्राप्तं = सिराव्यधवि. ध्यध्यायमभिवीक्ष्य युक्तमित्यर्थः । ९ इणोद्धृतमुशनसा प्रोक्तं मूषिकाऽजरुहाल • क्षणम्— “ कन्दः श्वेतः सपिङको भेद्रे चाअनसन्निभः । गन्धलेपनपानैस्तु विषं जरयते नृणाम् ॥ दष्टानां विषपीतानां ये चान्ये विषमोहिताः । त्रिषं जरयते तेषां तस्मादज • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 985
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Arya Sion Chennai and eGangotri ८२७
करोति निर्विषं सर्वमन्नं विषसमायुतम् ।
हृदयावरणं नित्यं कुर्याच्च मित्रमध्यगः ॥ ७ ९ ॥
पिबेद् घृतमजेर्याख्यममृताख्यञ्च बुद्धिमान् ।
सर्पिर्दधि पयः क्षौद्रं पिवेद्वा शीतलं जलम् ॥। ८० ॥
मयूरान्नकुलान् गोधाः पृषतान् हरिणानपि ।
सततं भक्षयेच्चापि रसांस्तेषां पिबेदपि ॥ ८१ ॥
गोधौनकुलमांसेषु हरिणस्य च बुद्धिमान् ।
दद्यात् सुपिष्टां पार्लिंन्दीं मधुकं शर्करां तथा ॥ ८२ ॥
शर्कराऽतिविषे देये मायूरे समहौषधे ।
पार्षते चापि देयाः स्युः पिप्पल्यः समहौषधाः ॥ ८३ ॥
सक्षौद्रः सघृतश्चैव शिम्बीयूँ पो हितः सदा ।
विपन्नानि च सेवेत भक्ष्यभोज्यानि बुद्धिमान् ॥ ८४ ॥
पिप्पलीमधुक क्षौद्रशर्करेक्षुरसाम्बुभिः ।
छर्दयेद् गुप्तहृदयो भक्षितं यदि वा विषम् ।
इति सुश्रुतसंहितायां कल्पस्थानेऽन्नपान रक्षाकल्पो नाम प्रथमोऽध्यायः ॥१ ॥
कहा स्मृता ॥ मूषिका लोमशा कृष्णा भवेत् साऽपि च तद्गुणा । " इति । १ चित्ते विषव्याप्तिप्रतिषेधं वक्ति - हृदयेति । हृदयावरणं मूषिकाऽजरुद्दाऽमृ-ताऽजेयपुराणघृतदूषीविषारिमहासुगन्धिशिम्बीयुषादिभिहृदयरक्षार्थं कुर्यादित्यर्थः । २ श्रजेयाख्यं घृतं द्वितीयाध्याये “ मधुकं तगरं कुष्ठम् " इत्यादिना, श्रमृताख्यं घृतं च सप्तमाध्याये " अपामार्गस्य बीजानि " इत्यादिना वक्ष्यते । ३ भक्ष्यभोज्येषु विषघ्नद्रव्ययोगविधिमभिधत्ते - गोधेति । ४ पालिन्दीं -श्याममूलां त्रिवृतम् । ५ समद्दौषधे = शुण्ठीसहिते । ६ शिम्बीयूषः = शमीधान्य-यूषः । ७ विषभक्षणे वमनमाख्याति - पिप्पलीति । ८ गुप्तहृदयः = विषघ्नौष • चेनावृतहृदय इत्यर्थः । इति सुश्रुतसंहितायाः कल्पस्थानीयसुधाऽऽख्यटिप्पन्यां प्रथमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 986
पाठ पढ़ें पाठ छिपाएँ
८२ by Arya Samaj Foun सुश्रुतसंहितायां Gangotri द्वितीयोऽध्यायः । [ अ ० २ अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
स्थावरं जङ्गमञ्चैव द्विविधं विषमुच्यते ।
दशाधिष्ठानमाद्यन्तु द्वितीयं षोडशाश्रयम् ॥ ३ ॥
मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च ।
निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ॥ ४ ॥
तत्र, क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककर वाटविद्युच्छिखा. विजयानीत्यष्टौ मूलविषाणि । विषपत्रिकालम्बावरदारुकरम्भमहा-करम्भारिण पञ्चपत्रविषारिण । कुमुद्वतीवेणु काकरम्भमहारम्भकर्कोट-करेणुकखद्योतकचर्मरीभगन्धासर्पघातिनन्दनसारपाकानीति द्वादश फलविषाणि । वेत्रकादम्बवल्लीज करम्भमहाकरम्भाणि पञ्च पुष्प-कर्त्तरीय सौरीयककरघाटकरम्भनन्दननारा-विषाणि । अन्न्रपाचकक द्वितीयोऽध्यायः । १ अन्नपानादौ प्रायेण स्थावरविषमवचार्यत इति प्राक् स्थावरविषविज्ञानीयोऽ-ध्याय श्रारभ्यते — अथेति । २ स्थावरजङ्गमारब्धं कृत्रिमसन्ज्ञं तृतीयमपि विषं बोध्यम् । तद् वक्ष्यति - " स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् " इति । ३ श्राद्यं = प्रथमम्, स्थावरमिति यावत् । ४ स्थावरस्य दशाधिष्ठानान्येव दर्शयति- मूलमिति । मूलविषं करवीरादि, चरके मूलजन्यविषस्य बहुत्वं दर्शितम् - " मुस्तकं पौष्करं क्रौञ्चं वत्सनाभं बलाह-कम् । कर्केटैं कालकूटं च करवीरकरुण्यकम् ॥ पाल केन्द्रायुधं तैलं मेघकं कुशपुष्प-कम् । रोहिषं पुण्डरीकं च लाङ्गलक्यञ्जनाभकम् ॥ सङ्कोचं मर्कटं शृङ्गीविषं दालाहलं तथा । एवमादीनि चान्यानि मूलजानि स्थिराणि च ॥ ” इति । एषां लक्षणं तु सङ्ग्र हादौ । पत्रविषं विषपत्रिकादि, फलविषं द्रष्टव्यम्, इह ग्रन्थविस्तरशङ्कया नोक्तम् कर्कोटकादि, पुष्पविषं वेत्रादि त्वक्सारनिर्यासविषाणि करम्भादीनि, क्षीरविषं वत्स • नाभसाक्तुकादि, धातुविषं फेनाश्मभस्मादि, कन्दविषं मूलविशेषत्वान्मूलशब्देनैव ग्रहीतव्यम् । ५ पञ्चपञ्चाशत्स्थावरविषाणि वर्णयति - तत्रेति । मूलादिविषाणां परिज्ञानार्थं यतनीयम् । क्लीतकं - मधुयष्टिः । ६ विद्युच्छिखा = कलिहारिका । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 987
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ] Digitized by Aryap on Chennai and eGangotri चकानि सप्त त्वक्सारनिर्यासविषाणि । कुमुदन्नोस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि । ८२ ९ फेनाश्मभस्म हरितार्लञ्च द्वे धातुविषे । कालकूटवत्सनाभसर्प-पपालक कर्दमकवैराटकमुस्तकशृङ्गोविषप्रपुण्डरीकमूलकहालाहलम-हाविषकर्कटकानीति त्रयादश कन्दविषाणि । इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति ॥ ५ ॥
चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीत्तिते ।
षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु ॥ ६ ॥
उद्वेष्टनं मूलविषैः प्रलापो मोह एव च ।
जृम्भाऽङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु ॥ ७ ॥
मुष्कशोफः फलविषैर्दाहोऽन्नद्वेष एव च ।
भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव च ॥ ८ ॥
त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि ।
आस्य दौगन्ध्य पारुष्य शिरोरुक्कफसंस्रवाः ॥ ९ ॥
फेनागमः क्षीरविधैर्विड्भेदो गुरुजिह्नता ।
हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि ॥ १० ॥
प्रायेण कालवातीनि विषाण्येतानि निर्दिशेत् ।
कन्दुजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम् ॥ ११ ॥
स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च ।
श्रीवास्तम्भ वत्सनाभे पीतविण्मूत्रनेत्रता ॥ १२ ॥
सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च ।
ग्रीवादौर्बल्यवार्क्सङ्गौ पालकेऽनुमताविह ॥ १३ ॥
१ वणकहरितालवंशपत्रीमनःशिलाभेदाद्धरितालं त्रिविधम् । २ कन्दविषाणा-मवान्तरभेदानिर्दिशति - चत्वारीति । ३ मूलादिविषाणामुपद्रवान् दर्शयति— उद्वेष्टनमिति । उद्वेष्टनं = शरीराकुचनम् । ४ अन्नद्वेषः = अन्नारोचकता । ५ पा-रुष्यं = कर्कशता । ६ कालघातीनि कालान्तरमारकाणि । ७ कन्दविषाणां लक्ष-ग्यानि निर्दिशति — कन्दजानीति । ८ वेपथुः a कम्पनम् । ९ वाक् तङ्गः = वाग-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 988
पाठ पढ़ें पाठ छिपाएँ
८ pigitized by Arya Samaj Found सुश्रुतसंहितायां Gangotri
प्रसेकः कर्दमाख्येन विभेदो नेत्रपीतता ।
वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते ॥ १४ ॥
गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु ।
शृङ्गीविषेणाङ्गसाद॑दाहोदर विवृद्धयः ॥ १५ ॥
ण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे ।
वैवर्ण्यं मूलकैश्छर्दिहिक्काशोफप्रमूढताः ॥ १६ ॥
चिरेणोच्छ्वसिति श्यावो नरो हालाहलेन वै ।
महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् ॥ १७ ॥
कर्कटेनोत्पतत्यूर्ध्वं हसन्दन्तान्दशत्यपि ।
कन्दजान्युप्रै वीर्याणि प्रयुक्तानि त्रयोदश ॥ १८ ॥
सर्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः । [ अ ०२ रूक्षैमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च ॥ १ ९ ॥
विकाशि विशदञ्चैव लघ्वपाकि च तत् स्मृतम् ।
तंद्रोदयात् कोपयेद्वायुमौष्ण्यात् पि सशोणितम् ॥ २० ॥
मतिं च मोहयेत् तैक्ष्ण्यान्मर्मबन्धान् छिनत्ति च ।
शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च ॥ २१ ॥
आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत् ।
क्षपयेच्च " विकाशित्वाद्दोषान्धातून्मलानपि ॥ २२ ॥
वैशद्यादतिरिच्येत " दुश्चिकित्स्यञ्च लाघवात् ।
दुर्हरञ्चाविपाकित्वात् तस्मात् क्लेशयते चिरम् ॥ २३ ॥
बरोधः । १ प्रसेकः = लालास्रावः । २ श्रङ्गसादः = श्रङ्गग्लानिः । ३ श्यावः = कपिशः। ४ उग्रवीर्याणि = तीव्रप्रभावाणि । ५ विषाणां दश गुणान् दर्शयति-रूक्षमिति । ६ व्यवायित्वं पानीयपतिततैलवत सर्वतः प्रसरणशीलत्वम् । ७ विका • सित्वं हिंसनशीलखम् । विपूर्वश्च हि कसतिहिंसार्थः । विशदं पिच्छाभागरहितम् । चरकेऽपि — “ लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मं च । उष्णमनिर्दे · श्यरसं दशगुणमुक्तं विषं तज्ज्ञैः ॥ ” इति । दश गुणानां प्रत्येकं कार्य निर्दि-शति - तदिति । ९ राजिकामरिचादिवत् तीक्ष्णत्वादित्यर्थः । १० क्षपयेत् = वि ॰ नाशयेत् । ११ अतिरिच्येत = सक्तं न भवेत् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 989
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ] Digitized by Arya Shah Chennai and eGangotri स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् । ८३१ सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम् ॥। २४ ॥
यत् स्थावरं जङ्गमकृत्रिमं वा देहादशेषं यदनिर्गतं तत् ।
जीर्णं २ विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा ॥ २५ ॥
स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति ।
वीर्यात्पभावान्न निपातयेत्तत् कफावृतं वर्षगणानुबन्धि ॥ २६ ॥
तेनादितो भिन्नपुरीपवर्णो विगन्धवैरस्यमुखः पिपासी ।
मूर्च्छन् वमन् गद्गदवाग्विषण्णो भवेच्च दूष्योदरलिङ्गजुष्टः ॥ २७ ॥
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी ।
भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः ॥ २८ ॥
स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान् । १ दशगुणयुक्तविषस्य सद्योव्यापादकत्वमुपदिशति – स्थावरमिति । यत् स्थावरं जङ्गमं कृत्रिमं वेति त्रिविधं यच्च देहादशेषमनिर्हृतं सद्यो व्यापादयेद् मार • येत्, तद् दशगुणान्वितं ज्ञेयमित्यर्थः । “ स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम् । कृत्रिमं गरसन्ज्ञं तु क्रियते विविधौषधः ॥ " इत्यष्टाङ्गहृदयम् । कृत्रिमं विषं द्विविधम्-एकं सविषं दूषीविषसब्क्षम्, अपरमविषं गरसन्ज्ञम् । तथा च काश्यपः – “ संयोग-जञ्च द्विविधं द्वितीयं विषमुच्यते । दूषीविषं तु सविषमविषं गर उच्यते ॥ ” इति । संयोगजं कृत्रिमं विषम्, द्वितीयं स्वाभाविकमिति तदर्थः । २ स्थावरं जङ्गमं च विषमेव जीर्यत्वादिभिः कारयेद् षीविषसन्ज्ञां लभते, तदाह-जीर्णमिति । जीर्णम् = अतिपुराणम्, विषघ्नौषधिभिर्हतं = विषघ्नीभिरौषधीभिवर्य-दानिकृतम्, दावाग्निः = वनोद्भवोऽग्निः । ३ स्वभावतो वा गुणविप्रहीनं स्वभा · वादेव दशानां गुणानां मध्ये एकद्वित्र्यादिगुणहीनमित्यर्थः । ४ कालान्तरप्रकोपि विषं दूषीविषं, तस्य भावस्तत्ता तां दूषीविषताम् । “ दूषीविषं तु शोणितदुष्टयारुः किटिमकोठलिङ्गं च । विषमेकैकं दोषं सन्दूष्य इरत्यस्नेवम् ॥ ” इति दृढबलः । ५ न निपातयेत् = सद्यश्विरेण वा न मारयेदित्यर्थः । कफावृतं = कफेन मन्दीकृतौष्ण्यादिगु • णम्, वर्षगणानुबन्धि = कफेनाग्नेर्मान्द्यादित्वादपाकाच्चिरस्थायि । ६ भिन्नपुरीष उद्गतमलः, भिन्नवर्णोविवर्णं इत्यर्थः । ७ शरीरावयवविशेषगतदूषीविषलक्षणानि निर्दिशथि – आमेति । ८ ध्वस्ता व्यस्ताः शिरोरुहाः केशाः अङ्गं च यस्य स ध्वस्तशिरोरुहाङ्गः । ९ यथोक्तान् = व्याधि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 990
पाठ पढ़ें पाठ छिपाएँ
ized by Arya Samaj Foundabonara Gangotri सुश्रुतसंहिताय angotri [ अ ० २ कोपञ्च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तत्र रूपम् ॥ २ ९ ॥
निद्रा गुरुत्वञ्च विजृम्भणञ्च विश्लेषहर्षावथवाऽङ्गमंर्दः ।
ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान् ॥ ३० ॥
धातुक्षयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम् ।
वैवर्ण्यविषमज्वरान् वा कुर्य्यात् प्रवृद्धां प्रबलां तृषां वा ॥ ३१ ॥
उन्मादमन्यैज्जनयेत् तथाऽन्यदानाहमन्यत् क्षपयेच्च शुक्रम् ।
गाद्गद्यैमन्यज्जनयेच्च कुष्टं तांस्तान् विकारांश्च बहुप्रकारान् ॥ ३२ ॥
। दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः ।
यस्माद् दूषयते धातून् तस्माद् दूषीविषं स्मृतम् ॥ ३३ ॥
स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम् ।
श्यार्वा जिह्वा भवेत् स्तब्धा मूर्च्छा श्वासश्च जायते ॥ ३४ ॥
द्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा ।
विषमामाशयप्राप्तं कुरुते हृदि वेदनाम् ॥ ३५ ॥
तालुशोषं तृतीये तु शूलं चामाशये भृशम् । समुद्देशीयोक्तान् । १ विश्लेषो गात्रशैथिल्यं, दर्षो रोमाञ्चः । २ प्रकुपित दूषी. विषस्य कार्याण्याद्द — तत इति । ततः = पूर्वरूपानन्तरम्, अन्नमदो भोजनानन्तरं पूगफलेनेव मदः, श्रविपाको भुक्तान्नस्य पाकाभावः । ३ अन्यत् = दूषीविषम् । ४ गाद्गद्यम् = अव्यक्तास्फुटवाक्यत्वम् । ५ विसर्पविस्फोटादीन् विकारानित्यर्थः । ६ दूषीविषशब्दत्य निरुक्ति वक्ति - दूषितमिति । देश आनूपादिः, कालो दुर्दिनादिः, अन्नं कुलत्थ तिलमसूरादि । ७ स्थावर विषस्य सप्तवेगानां लक्षणानि निर्दिशति — स्थावरस्येति । चरकेऽष्टविषवेगा उक्ताः, तल्लक्षणानि च-- " तृण्मोह-दन्तहर्षप्रसेकवमथुक्लमा भवन्त्याद्ये । वेगे रसप्रदोषादसृकप्रदोषाद् द्वितीये तु । वैव-र्ण्यभ्रमवेपथुमूर्च्छाजृम्भाङ्गचिमिचिमात मकाः । दुष्टपिशितात्तृतीये मण्डलकण्डूश्वयथु. कोठाः ॥ वातादिजाश्चतुर्थे दाहच्छङ्गशूलमूर्च्छायाः । नोलादीनां तमसश्च दर्शनं पचमे वैगे ॥ षष्ठे हिक्का, भङ्गः स्कन्धस्य तु सप्तमेऽष्टमे मरणम् । नृणाम् – " इत्यु-क्तानि । श्रत्र चक्रपाणिना चरकसुश्रुतविरोधपरिहारः कृतः – ' सुश्रुते एकैककलाऽति • क्रमेण सप्तवेगा उदीरिताः । इइ कलालङ्घनेनैव सप्तवेगा ), अष्टमे तु सप्तकलालङ्घ-नोत्तरकालं मारको वेगो दष्टस्य दंशदेशगमनाय पीतविषस्य हृदयगमनाय भवतीति सुश्रुतेन सममविरोधः । ' इति । ८ श्यावा = • कपिशवर्णा । ९ चकाराज्जिह्वाश्या • CC - 0. Gurukul Kangri Collection, Haridwar