वेदार्थ पारिजात - २ स्वामी करपात्री — पृष्ठ 1091–1100

वेदार्थ पारिजात - २ स्वामी करपात्री · पृष्ठ 1091–1100

पृष्ठ 1091

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1091 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः १९८९ मुक्त: । ' इन्द्रस्तु यो नृवत्' ( अथर्व० २०।११।५ ), 'साधर्म्यमुपमा भेदे ' ( का० प्र० ) इति काव्यप्रकाशरीत्या भेद एवोपमानं भवति । तस्मादिन्द्रादयो देवा मनुष्यभिन्ना एव । दयानन्दोऽपि नामकरणसंस्कारे तिथिनक्षत्रदेवताना नामभिर्हवनं विहितवान् । कि विद्वांसो मनुष्या एव देवा:? 'ननु विद्वांसो हि देवा ' इति शतपथवचनेन विद्वास एव देवा भवन्ति । 'देवा एतज्ज्ञातुमर्हन्ति' ( २|४ | ६२ ) ' दिव्यदृशो देवा इति' ( महाभाष्य ) अत्र 'पण्डिता इत्यर्थ:' इति कैयटवचनेनापि विदुषा पर्यायवचनो देवशब्दः ' ( ), सत्यसहिता देवा अनृतं मनुष्या ऐ० ब्रा० इति सत्यवक्ता एव देवो भवतीति चेन्न पूर्ववचनैर्देवानां (( ) मनुष्यभिन्नत्वावगमात् । अत एवानिच्छतापि दयानन्देन तदभ्युपगमः कृतः । तथाहि सत्यार्थप्रकाशे प्रश्न स्वर्ग नरक है अथवा नही? ( उत्तर ) सब कुछ है, क्योकि परमेश्वर से रचे असंख्यात लोक हैं । उनमे से जिन लोकों मे सुख अधिक है और दुःख थोड़ा है, उनको स्वर्ग कहते है । जिन लोकों मे दुःख अधिक है, ,, सुख थोड़ा है उनको नरक कहते है । जिनमे सुख और दुःख तुल्य है उनको मर्त्यलोक कहते हैं । फिर परमेश्वर के -... `?" ( ), राज्य मे स्वर्ग नरक की व्यवस्था कैसे न होगी पृ० २२६४ और जब पुण्य अधिक करता है पाप थोड़ा तब देवलोक और देवादि का शरीर उस जीव को मिलता है, ( नवम समुल्लास २८४ पृ० ), 'जो साक्षी सत्य , बोलता है, वह जन्मान्तर मे उत्तम जन्म और उत्तम लोकान्तर मे जन्म को प्राप्त होता है ।' ( सत्यार्थ प्रकाश, ६ समुल्लास, १०३५ ) इति । 'प्रजापति वे भूतान्युपासीदन् प्रजा वै भूतानि विनो धेहि यथा जीवाम इति' ततो देवा यज्ञोपवीतिनो भूत्वा दक्षिणं जान्वाच्य उपासीदन् । तानब्रवीत् । 'यशो वो अन्नस् अमृतत्व वः ऊर्गवः सूर्यो वो ज्योतिरिति । ( श० २४ २१ ), ' अथैनं पितरः ' ' '' ' ' तानब्रवीत् --मासि मासि वो अशनम् स्वधा वः मनो जवो वः' ( श० २४ २२ ), ' अथैन मनुष्या तानब्रवीत् सायं प्रातर्वोऽशनम्, प्रजा वः मृत्युर्व:' ( श ० २४ २३ ) अत्र मनुष्याणां प्रतिदिनं द्विर्भोजनं पितॄणां मासि मासि भोजनं देवानाममृतत्वं चोक्तम् । 'अथैनं पशवः अथैनं शश्वदपि असुराः नैव देवा अतिक्रामन्ति न पितरो न पशवो मनुष्या एके अतिक्रामन्ति' ( श० २२४ २२६ ) एतेन देवमनुष्यादीनां स्पष्टं भेदो विज्ञायते । यदि मनुष्यभेदा एव देवास्तदा मनुष्यभेदा एव पशवोऽपि मन्तव्याः । 'विद्वांसो हि देवा:' इति शतपथवचनेन मनुष्याणा देवत्वसाधनं भ्रान्तिमूलकमेव, छद्म वा? ' उशिजो वह्नितमानिति विद्वांसो हि देवा एतस्मादाह उशिजो वह्नितमानिति । ( श० ३| ७| ३ | १० ) हि शब्दोऽत्र हेत्वर्थंक: । नामकरण संस्कार मे दयानन्द ने भी तिथि नक्षत्र आदि की देवताओं के नामों से हवन करना बताया है । क्या इससे विद्वान् मनुष्य और देवता एक ही प्रतीत हो रहे है? जिस शतपथ के वचन और महाभाष्य तथा कैयट के वचनों को न समझपाने से भ्रमवशात् मनुष्य और देवताओं को एक समझ रहे हो, वह उचित नहीं है । क्योकि उन वचनों से भी मनुष्यों से देवता, भिन्न ही सिद्ध हो रहे है । अत एव इच्छा न रखते हुए भी दयानन्द को मनुष्य और देवों में भेद मानना पडा । सत्यार्थ प्रकाश मे वे लिख रहे हैं- '(प्रश्न ) स्वर्ग-नरक है अथवा नही? ( उत्तर ) सब कुछ है, क्योंकि परमेश्वर से रचे असंख्यात लोक है । जिन लोकों में सुख अधिक है और दुःख थोड़ा है, उनको स्वर्ग कहते है । जिन लोको में दुःख अधिक है, सुख थोडा है, उनको नरक कहते है । जिनमे ,..... - सुख और दुःख तुल्य है उनको मर्त्यलोक कहते है । फिर परमेश्वर के राज्य में स्वर्ग नरक की व्यवस्था कैसे न होगी? -१० २२६४| और जब पुण्य अधिक करता है, पाप थोडा तब देवलोक और देवादि का शरीर उस जीव को मिलता है, नवम समुल्लास २८४१० । 'जो साक्षी सत्य बोलता है, वह जन्मान्तर में उत्तम जन्म और उत्तम लोकान्तर मे जन्म को प्राप्त होता है, इति । ( सत्यार्थ प्रकाश ६ समुल्लास १०३५ ) दयानन्द की इस उक्ति के विरुद्ध मनुष्य और देवों को एक समझकर बयानन्द के प्रति ये समाजी अपने विश्वास को प्रकट कर रहे हैं । शतपथ के कितने ही वचनों से मनुष्य और देवों में भेद का ज्ञान स्पष्ट हो जाता है शत- पथ वचन का तात्पर्य यह हैं कि देवता जन्म से ही विद्वान् होते है, वे अविद्वान् नहीं होते । मनुष्यों में तो अविद्वान् भी होते हैं । अतः I

पृष्ठ 1092

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1092 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः १९९० वस्तुतस्तु 'देवान् देवीविंशः प्रागुरुशिजो वह्नितमान् ।' ( वा० सं ० ६।७ ) इति मन्त्रविवरणरूपमुक्तशतपथवाक्यम् । उशिजो मेधाविनो देवाः, कुत इत्यपेक्षायामाह -' विद्वांसो हि देवाः, तस्मादाह उशिजो वह्नितमान्' ( श० ३| ७| ३| १० ) । हि यतो देवा विद्वांसो विज्ञातारो भवन्ति, तस्मात् ऋषिमंन्त्रो देवानुशिजो मेधाविन आह । अत एव वयुनानि विद्वान् इत्यत्र विद्वानित्यस्य प्रजानन्नित्यर्थ उक्तः । 'यन्मनुष्याणां परोक्षं तद्देवाना प्रत्यक्षम्' ( ताण्डघमहाब्राह्मणम् २२/१०/३ ) इति श्रुते: । 'मनो देवा मनुष्यस्य आजानन्ति' ( श ० ३।४।२१६ ), 'न तिष्ठन्ति न निमिषन्ति एते देवाना स्पश इह ये चरन्ति' ( ऋ ० सं० १०।१०।८ ) एवं देवाः परोक्षा मनुष्यस्य मन आजानन्ति तस्मात्ते, उशिज उच्यन्ते । हि यतो यत्र क्वापि मनुष्यास्तेभ्यो हविः समर्पयन्तो ध्यायन्ति तत्सर्वं दूरत एव ते जानन्ति, हविग्रहणे आगच्छन्ति च । ततो विद्वद्भ्यो मनुष्येभ्यो भिन्ना एव देवाः । विद्वासो न केवल मनुष्याः, किन्तु पशवोऽपि विद्वासो ज्ञातारो भवन्ति । त्वद्रीत्या तेऽपि देवा भवेयुः । पूर्वोक्तार्थानभ्युपगमे देवशब्दस्य देवयोनिपरत्वार्थानभ्युपगमे उशिज इति निरर्थकं स्यात् । किञ्च, 'देवा ', ' उशिज' इति द्वयोरपि शब्दयोर्विशेषणत्वे विशेष्याभावापत्तिश्च । विदुषो मनुष्यान् देवीविशः प्रागु ' इति तदर्थोऽपि न सङ्गच्छते । ' दैवीश्च विशो मानुषीश्च' ( वा ० सं ० १७१८६ ), 'मानुषीणां विशां देवीनामुत' ( अथर्व० २०११ २ ) । मानुषीणा प्रजानां तदनुगत्व- सम्भवेऽपि तद्भिन्नाना देवीना विशा तदनुगमनासम्भवात् । तथा च शतपथरीत्या देवा जन्मनैव विद्वासो भवन्ति । न तेऽविद्वासो भवन्ति । मनुष्येष्वविद्वासोऽपि भवन्ति । अतः 'विद्वांसो हि देवा, इत्यत्र देवा इति विशेष्यपदम्, ' विद्वांस' इति तेषा विशेषणम् । ' उशिज' इति मेधाविनामसु ( २४ नामनिघण्टौ १३| १५ ) । नहि मनुष्या विद्वांसो युगपत् समाह्वातॄणां मनोज्ञात्वा गन्तुं प्रभवन्ति, अल्पज्ञानशक्तित्वात् । एक इन्द्रोऽनेकस्मिन् क्रतुशत आहूतो युगपत् सर्वत्र गतो भवति' ( महा- भाष्ये ११२ ६४ ) । किञ्च, यदि विद्वासो हि देवा, इति शतपथवाक्ये विदुषां मनुष्याणां देवत्वमभीष्टं स्यात्, देवशब्दस्य विद्वत्पर्यायवाचकत्वं वा स्यात् तदा ' विद्वांसो ये शतक्रतुदेवाः सत्रमतन्वत' ( ० ११/५/५/१२ ) अत्र विद्वांसो देवा इति पुनरुक्तिरेव स्यात् । 'यो देवस्य प्रियो विद्वान्' ( बोधायनीय गृ० सू० १२२। १५ ) अत्र विदुषा मनुष्याणां देवत्वाद् भेद एव विभक्तिभेदः सिद्धयति । ' देवद्विजगुरुप्राज्ञपूजनम्' ( भ० गी० १७ १४ ) इत्यत्र तथा सत्येव पुनरुक्त्यभावः । किञ्च, महाभारते -' विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि । ( म ० भा० आ ० प ० ११३४ ) अत्र पूर्वं देवानामुत्पत्ति बोधयित्वा पुनरादित्यवस्वादीनामुत्पत्तय उक्ताः । ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः' ( म० मा० प ० ११३५ ) । किच, देव- विदुषोः पर्यायवाचकत्वे निघण्टवादिषु विद्वत्पर्यायवाचकेषु शब्देषु देवशब्दोऽप्यागच्छेत् । परं न च तत्रास्ति देवशब्दः । यास्केनापि क्वचिद् देवशब्दस्य विद्वानर्थ, इति नोक्तम् । तथैव विद्वानित्यस्य पर्यायरूपतया कविर्मनीषी विपश्चिदादिशब्दा आगताः परं देवशब्दश्च नागतः । देवशब्दस्य पर्यायरूपतया विद्वदादिशब्दा नागताः । कथं तहि- 'पुरुषाः प्रतिपद्यन्ते ' देवत्वं यदनुग्रहात् । सरस्वती च तां नत्वा वागधिष्ठातृदेवताम् ॥ इति महाभाष्यव्याख्याप्रारम्भे कैयटीयश्लोके देवत्वं 'विद्वासो हि देवाः, इस वाक्य में ' देवाः' यह विशेष्य पद है और 'विद्वासः ' यह पद देवो का विशेषण है । किञ्च महाभारत मे पहले देवो की उत्पत्ति बताकर पुन आदित्य, वसु आदि की उत्पत्ति को बताया है, तदनन्तर विद्वान् शिष्ट, ब्रह्मर्षिसत्तमों की उत्पत्ति को बताया है । किञ्च देव और विद्वान् मनुष्य दोनो परस्पर पर्यायवाचक रहते तो निघण्टु में विद्वत्पर्यायवाचक शब्दों में 'देव' शब्द को भी दिया होता, किन्तु नही दिया । यास्क ने भी कही देव शब्द का अर्थ विद्वान नही बताया । तथैव ' विद्वान्' शब्द के पर्यायवाचक शब्दों में कविः, मनीषी, विपश्चित् आदि शब्दों का तो उल्लेख आया है, किन्तु 'देव' शब्द का नहीं । 'देव' शब्द के पर्यायों में भी 'विद्वत् आदि शब्द नही आते । इसपर यदि कहें कि महाभाष्य की व्याख्या के आरंभ में कैयट के श्लोक में 'देवत्वं पाण्डित्यम्' ऐसी व्याख्या नामेश ने क्यों की? इस - प्रश्न का तो उत्तर यह है कि 'विद्वांसो वै देवा:' इस श्रुति के अनुसार यह समझना चाहिये कि देवगण स्वभाव से ही पण्डित होते हैं, देवताओं का तो धर्म ही पाण्डित्य है, उस देव- धर्म की मनुष्य ( पुरुष ) प्राप्त करते हैं, वे स्वयं देवता नहीं हैं । किंच समाजी लोग 'विद्वान्'

पृष्ठ 1093

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1093 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः १ ९९ १ पाण्डित्यमिति नागेशव्याख्यानम्? इति" चेत् उच्यते -' विद्वासो वे देवा:' इति श्रुतेः स्वभावत एव देवाः पण्डिता भवन्ति । पाण्डित्यं च देवधर्मः । तं देवधर्मं पुरुषा प्राप्नुवन्ति, न तु स्वयं देवा भवन्तीति । किञ्च, समाजिनः ' विद्वान्, देवता, ब्राह्मण- इत्यादिशब्दानामपि पर्यायत्वमिच्छन्ति, तदप्यसङ्गतम्, तथात्वे ' सम्पूजयेद् देवान् ब्राह्मणांश्च' ( म० ७/२०१ ), ' देवांश्च ब्राह्मणांश्च ( श० ३।३।४।२० ), 'गां ब्राह्मणांश्च सम्पूज्य देवतामश्विनौ' ( चरके कल्पस्थाने १ | १२ ) इत्यादिषु पुनरुक्ति- दुर्निर्वारा । यदि विद्वच्छब्देन विद्वान् मनुष्यो गृह्येत तदा ब्राह्मणा अविद्वांसो भवेयुः । अन्यथा विद्वानित्यस्य द्वयो पर्याय- वाचकयोरुल्लेखो व्यर्थं एव स्यात् । अविदुषामपि ब्राह्मणत्वे गुणकर्मणा वर्णव्यवस्था बाध्येत । ब्राह्मणशब्दस्य विद्वत्पर्यायत्वे देवशब्दस्य विद्वत्पर्यायत्वं न स्यात् । सेयमुभयतः पाशारज्जु' । 'देवताना गुरो राज्ञः स्नातकाचार्ययोस्तथा । नाक्रामेत्काम- ( | ) तश्छायां बभ्रुणो दीक्षितस्य च ॥ म० ४ १३० अत्राचार्यादिपदैविद्वासो विवक्ष्यन्ते । यदि देवता अपि विद्वास एव उच्यन्ते, तदा कथं न पुनरुक्तिः स्यात्? तस्मान्न देवशब्दो विद्वद्बोधकः । न मे विदुः सुरगणाः प्रभवं न महर्षयः । ' ( भ० गो० १० २ ) इत्यत्र देवपर्याय: सुरशब्दो दृश्यते । तस्यापि विद्वदर्थकत्वे महर्षिशब्दस्य मूर्खार्थकत्वमेव स्यात् । यदि देव- विद्वच्छब्दयोः पर्यायवाचकत्वमेव स्यात्तदा कथम् अमरकोषे स्वर्गवर्गे वर्णितेषु देवपर्यायेषु विद्वच्छन्दो मनुष्यवर्गस्य अवान्तरवर्गे ब्रह्मवर्गे वर्णितेषु विद्वत्पययेिषु च देवशब्दो न निर्दिष्ट । कामं देववाचकेषु शब्देषु विबुधादिविद्वद्बोधकशब्दा आयान्ति । एतेन देवयोनयो विद्वांसा भवन्तीत्येवायाति । परन्तु विद्वास एव देवा न भवन्ति, उभयोः पर्यायवाचकत्वे एकत्रैव पाठस्य युक्तत्वात् ॥ न चैकत्र देवविच्छब्दयोः पाठः कोषेषु दृश्यते ॥ तस्मान्न तयोर्वाचकत्वम् । यदि विद्वास एव देवा भवेयुस्तदा यास्कपाणिनिपतञ्जलिप्रभृतयो देवा उच्येरन् । किन्तु ते मनुष्या एवोच्यन्ते । किञ्च, 'मनुष्यदेवाः’ ( ० ४| ३ | ४ ४ ) इति वचनस्य को वार्थः? कि मूर्खविद्वानित्यर्थः स्यात्? यदि देवशब्दस्य विद्वांसो मनुष्या इत्येवार्थ- तहि किं महादेव इत्यस्यापि विद्वान् मनुष्य एवार्थः? 'दिव्यदृशो देवा:' इत्यत्रापि देवा दिव्यदृष्टयो भवन्तीत्येवार्थः, विशेषणविशेष्ययोः पर्यायवाचकत्वाभावात् । पण्डितशब्दस्यापि सदसद्विवेचनी बुद्धिः पण्डा, तद्वान् इत्यर्थः । ' देवा एतज्ज्ञातु- मर्हन्ति' इति मूलवाक्यसिद्धयर्थं "दिव्यदृश ' इति दिव्यगर्भितविशेषणम् । अतः 'दिव्यदृश ' इत्यस्यैव व्याख्या कैयटेन पण्डिता इत्यर्थं इत्युक्त्वा कृता । ' सत्यसंहिता देवा अनृतसहिता मनुष्याः' (ऐ० ब्रा० १ ( ६ ) इत्येतरेयब्राह्मणेनापि देवाः सत्यवादिनो भवन्तीत्येवार्थः सिद्धयति । मनुष्याश्च अनृतसंहिता भवन्ति, नात्र देवा इत्यस्य पर्यायवाची सत्यसंहिताशब्द' । वैशब्द- प्रयोगेणापि पर्यायवाचकता बाध्यते । 'आयुर्वे घृतम्' (तै ० सं ० २३ २ २) इति यजुर्वेदवाक्यवत् । नात्र आयुर्धृतयोः पर्याय- बोधकत्वम् । नह्यायुर्वृद्धया घृतं वर्धते । देवशब्दो विशेष्यम्, सत्यसंहिता इति विशेषणम् । अत एव सत्यवादी हरिश्चन्द्रो न देवतोच्यते । मनुष्यदेवशब्दो ब्राह्मणे प्रयुज्यते । कि तस्य सत्यासत्यवक्ता अर्थ: स्यात्? तत्र मनुष्येषु देवा इव इत्येवार्थः । अतो मनुष्ययोनेभिन्नैव देवयोनिर्भवति । दिवि भवत्वात्ते दिव्या अपि । परमेश्वरस्याङ्गभूता देवा उपास्या भवन्ति । माता- देवता, ब्राह्मण आदि शब्दों को भी पर्याय कहते है, किन्तु वह संगत नही हो सकता, क्योंकि उन्हें पर्याय मानने पर 'सम्पूजयेद् देवान् ' ), ' ' ( ), ' ' ( | ) ब्राह्मणाश्च म ० ७।२०१ देवांश्व ब्राह्मणाश्च २०१० ३।३।४।२० मा ब्राह्मणाश्च सम्पूज्य देवतामश्विनौ चरक कल्पस्थान १ १२ इत्यादि वचनों में पुनरुक्तिदोष मानना पड़ेगा । यदि 'विद्वत्' शब्द से विद्वान् मनुष्य का ग्रहण किया जाय तो ' ब्राह्मण' को अविद्वान् कहना होगा | अन्यथा 'विद्वान' शब्द के पर्यायवाचक दो शब्दो का उल्लेख करना व्यर्थ ही होगा । अविद्वान् को भी ब्राह्मण मानने पर 'गुण-कर्मणा से वर्णव्यवस्थावाला आपका सिद्धान्त ही नष्ट हो जायेगा । ब्राह्मण शब्द को यदि विद्वत् शब्द का पर्याय कहेंगे तो देवशब्द को विद्वत् शब्द का पर्याय नहीं कह सकेगें, इस प्रकार उभयतः पाशारज्जु से आप बँध जायेंगे अतः देवशब्द विद्वान् का बोधक नही है । 'न में विदु. सुरगणाः प्रभवं न महर्षयः (श्री० भ० गी० १०१२) यहाँ पर देव का पर्याय 'सुर' शब्द दिया गया है, उसे भी यदि विद्वद-र्थक मानोगे तो महर्षि शब्द को मूर्खार्थक ही कहना पड़ेगा | तात्पर्य यह है कि मनुष्य और देवता भिन्न-भिन्न ही हैं । 1 }

पृष्ठ 1094

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1094 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः १ ९९ २ पितरौ गुरवश्च पूज्यन्ते । तथैव देवा अपि पूज्यन्ते । न च पुराणेष्वेव तेषां पूज्यता, किन्तु वेदेष्वपि तेषां पूज्यतोता । 'न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधिकामा अयसन' ( ऋ ० सं ० १०६४/२ ) अत्र देवानां सुखकारित्वमुक्तम् । यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड' ( अथर्व० ११।२।८८ ) इति देवसत्त्वश्रद्धावतां चतुष्पदे द्विपदे देवा दयावन्तो भवन्ति । ' सर्वान् स देवान् तपसा पिपर्ति' अथर्व० ११ | १५ | २) अत्र तपसा देवानां तर्पणमुक्तम् । 'यजाम देवान् यदि शक्नवाय' ( ऋ ० सं ० १ २७ । १३ ) अत्र सति सामर्थ्य देवाना पूजनमुक्तम् । एष ह वा अनद्धा पुरुषो यो न देवा न वति ( अर्चति ) न पितॄन्' ( श ० ६| ३ | १ | २४ ), ( ऐ० ब्रा० टा २८ ) अत्र देवाना पितॄणा चापूजने निन्दोक्ता । ' यज्ञयज्ञे स मर्त्यो देवान् सपर्यति' ( ऋ ० सं ० १०| ९ ३। २ ) अत्र यज्ञे देवपूजेवोक्ता । ' देवान् वसिष्ठो अमृतान् ववन्दे ' ( ऋ० स० १०६५।१५ ) अत्र देवपूजने वशिष्ठस्येतिहास उक्तः । आनन्दमात्राभेदेनापि देवमनुष्याणां भेद उक्तः । ' अथ ये शतं मनुष्याणामानन्दाः स एकः पितॄणां जितलोका- नामानन्दः' ( श० १४| ७ | १ | ३२ ) अत्र मानुषानन्दाच्छतगुणित आनन्दः पितॄणामृक्त: । 'अथ ये शतं पितॄणामानन्दाः स एक: कर्मदेवानामानन्दः । ये स्वर्गे कर्मणा देवत्वमुपगतास्तेषामानन्द पित्रानन्दाच्छतगुणः । ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः । अत्र कर्मदेवानन्दापेक्षया आजानदेवानां शतगुणित आनन्द उक्तः । 'ये शतमाजानदेवानामानन्दाः स एको देवलोक आनन्दः । अथ ये शत देवलोक आनन्दाः स एको गन्धर्वलोक आनन्दः । 'ये शतं गन्धर्वलोक आनन्दाः स एकः प्रजापतिलोक आनन्दः । अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दः । एष ब्रह्मलोकः सम्राट्' ( श० १४१७ ११३९ ) इति स्पष्टमेव मनुष्यापेक्षया देवयोनयो भिन्ना मन्तव्याः । यच्च याज्ञिकप्रक्रियायां परिवर्तनम्, नवनवानां यज्ञानां परिकल्पना, यज्ञानां रोचकत्वातिशयार्थं बाह्याडम्बर-वृद्धि:, तत एव नव्यानां यज्ञाना होमानां च सृष्टयः' इत्यादिकम्, तदेतत्सत्रं नास्तिक्यमूलकमेव, वेदार्थानभिज्ञतया वेदार्था-न्यथाकरणेन वा । तथाहि -श्रौतस्मार्तभेदेन यज्ञानां द्वैविध्यं शास्त्रसम्मतम् । तत्र मन्त्रब्राह्मणश्रौतसूत्राश्रिता यज्ञा एकविधाः, गृह्यसूत्र- तन्त्रपुराणादिमूलका यज्ञा अपरविधाः । ग्रन्थाश्च ते निश्चप्रचाः । मन्त्रब्राह्मणसूत्रमूलका यज्ञास्तद्विपरीता न भवन्त्येव 1। तथैव स्मार्ता अपि नियता एव । तत्र सर्वथा शास्त्रपरतन्त्रा आस्तिका न मनागपि कल्पना प्रवणा भवन्ति । न केनचिदपि स्वतन्त्रा नवीना यज्ञाः क्वचिदपि दर्शयितुं शक्यन्ते । समाजिनस्तु स्वतन्त्राः शास्त्रानपेक्षाः सर्वं कर्तुं प्रभवन्ति । अर्धनास्तिकाः समाजिनोऽपौरुषेयानपि ग्रन्थान् पौरुषेयान् वदन्ति । तत उच्छृङ्खलताये मन्त्रान् ब्राह्मणानि तन्मूलकान् यह जो कहा गया है कि याज्ञिक प्रक्रिया में बहुत परिवर्तन हो गया है । नवीन-नवीन यज्ञों की कल्पना की गई है, यज्ञो की रोचकता बढ़ाने के लिये बाह्य आडम्बर की वृद्धि की गई है । उसी से नवीन नवीन यज्ञ और होमों (हवनो को सृष्टियां हुई है किन्तु यह सब कथन नास्तिक्य बुद्धि के कारण ही है । या तो वेद के अर्थ को न जानने से या वेदार्थ को अन्यथा करने से ये नास्तिकता से भरे विचार उमड़ पड़े हैं । तथाहि श्रौतस्मार्त भेद से यज्ञो की द्विविधता शास्त्रसम्मत है । उनमे से एक प्रकार तो यह कि मन्त्र ब्राह्मण और श्रौतसूत्र के आश्रय से जो यज्ञानुष्ठान किया जाता है । और दूसरा प्रकार वह है कि गृह्यसूत्र तन्त्र - पुराणादि के आश्रय से जो यज्ञा- नुष्ठान किया जाता है । वे ग्रन्थ भी निश्चित है । मन्त्र-ब्राह्मण सूत्रमूलक यज्ञ कभी भी उन ग्रन्थों के विपरीत नही हुआ करते । उसी तरह स्मार्त यज्ञ भी निश्चित ही है । इन यज्ञो के अनुष्ठान में आस्तिक लोग सर्वदा और सर्वथा शास्त्र -परतन्त्र ही रहा करते हैं । कभी भी वे अपनी ओर से यत्किंचित् भी कल्पना नही किया करते । कोई भी ऐसा आस्तिक न कभी हुआ और न है और न होगा, जिसने स्वतन्त्र नवीन यज्ञों को कभी बताया हो । समाजी तो स्वतन्त्र है, उन्हें न शास्त्र की जरूरत है और न वेद की । वे वेद-शास्त्र के अधीन अपने को नही समझते । ये अर्धनास्तिक समाजी अपौरुषेयं प्रभ्थों को पौरुषेय बताते हैं । वे अपनी उच्छृंखलता की सिद्धि के लिये ( अपनी मनमानी करने के लिये ) मन्त्र ब्राह्मण और तन्मूलक यज्ञों को नवीन कह देते हैं, इन्हें तो पाश्चात्यों का शिष्य कहना हिये | क्योंकि इस प्रकार बेसिर-पैर के आरोप करने की पद्धति, पाश्चात्यों की ही है । उन्हीं का यह आरोप है, यह कोई नवीन

पृष्ठ 1095

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1095 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

ET वेदार्थपारिजातः यज्ञांश्च नवीनान् वदन्ति ते पाश्चात्त्यानां शिष्या एव । पाश्चात्त्यानामेवैषाऽऽरोपणपद्धतिः । तेषामेवायमारोपो न नवीनः । ते ऋग्वेदसहितायामप्यनेकमण्डलानामर्वाचीनत्व वदन्ति । शुक्लयजुर्वेदसहितास्वप्यनेकानध्यायान् प्रक्षिप्तान् मन्यन्ते । यदपि ' याज्ञिकप्रक्रिया और वेदार्थ' इति शीर्षकेणोक्तम्-' भारतीयेतिहास रीत्या सृष्ट्यादौ कृतयुगे वेदानां प्रादुर्भावो जातः, द्रव्यमययज्ञानामुदयः कृतत्रेतयोः सन्धिकाले जातः । अनेनैतिहासिक तथ्येनेदमपि स्पष्ट भवति यद्वेदमन्त्रेषु द्रव्ययज्ञाना साक्षाद्विधान नास्ति, न वा तत्र यज्ञप्रक्रियाया. साक्षान्निर्देशो विद्यते । यद्यपि वेदेषु केषाञ्चिद् द्रव्यमययज्ञानां कतिचिन्नामानि तत्साधनाना केषाञ्चिद्यज्ञपात्राणामपि नामान्युपलभ्यन्ते, न तावता वेदेषु तादृशयज्ञानां प्रक्रियाणां पात्राणा वा निर्देश इति भ्रमितव्यम् । वेदमन्त्रस्थयज्ञाना पात्राणा क्रियाणा च तेषा सृष्टियज्ञानां पात्राणा कर्मणाञ्च बोधकत्वात्' इति । तदपि न क्षोदक्षमम्, तथात्वे ब्राह्मणानां श्रौतसूत्राणाञ्चाप्रामाण्यापत्ते • । यद्याध्यात्मिकाधिदैविकयज्ञबोधन एव वेदाना तात्पर्यं स्यात्तदा तद्बोधकैरपि ब्राह्मणैः सूत्रेश्च भवितव्यमेव । यथा द्रव्यमययज्ञाना बोधकानि मन्त्रब्राह्मणसूत्राण्युपलभ्यन्ते, तथैवा- ध्यात्मिकाधिदैविकयज्ञयोविधायकानि मन्त्रब्राह्मणसूत्राण्यप्युपलभ्येरन् । यथा द्रव्यमयस्य यज्ञस्य निरूपणं साङ्गोपाङ्गं ब्राह्मणेषु सूत्रेषु चोपलभ्यते, न तथा सृष्ट्यादियज्ञस्य किञ्चित्फलमुद्दिश्य विधानमुपलभ्यते । तयोर्यंज्ञयोः का देवता, कानि विधानानि, कानि द्रव्याणि, के च तत्र मन्त्राः क्व निक्षेपः, कानि च फलानि? , ' ' ( ) किञ्च वेदाना यज्ञ एव पर्यवसानं प्रमाणसिद्धम् आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् जे ० सू० इत्यत्र मीमांसायां विचारितं चैतत् । तस्य भ्रान्तिमूलिकोक्तिरेव भ्रान्तिमूलिका । नाट्यं च विनोदाय क्रियते । न च तेन स्वर्गब्रह्मलोकादिप्राप्तिर्भवति । इह तु फलान्यपि श्रूयन्ते । तस्मान्नाट्येन यथा सीतारामादिवृत्तान्तादिक विज्ञायते, तथैव द्रव्यमयेन यज्ञेन सृष्ट्यादियज्ञो ज्ञायते ' इत्यपि निर्मूलम्, आरोप नही है । पाश्चात्यलोग ऋग्वेदसंहिता में भी अनेक मण्डलो को अर्वाचीन बताते है । शुक्लयजुर्वेद संहिताओ में भी अनेक अध्यायों को प्रक्षिप्त मानते है । 'याज्ञिक प्रक्रिया और वेदार्थ ' इस शीर्षक में जो लिखा है कि 'भारतीय इतिहास के अनुसार सृष्टिप्रारंभ के समय कृतयुग मे वेदों का प्रादुर्भाव हुआ, और द्रव्यमय यज्ञो का उदय, कृत-त्रेता के सन्धिकाल मे हुआ । इस ऐतिहासिकतथ्य से यह भी स्पष्ट होता है कि वेद-मन्त्रों में द्रव्य-यज्ञो का साक्षात् विधान नही है, और न ही वहीं यज्ञप्रक्रिया का साक्षात् निर्देश है । यद्यपि वेदो मे कतिपय द्रव्यमय-यज्ञो के कुछ नाम तथा उनके साघनभूत कतिपय यज्ञपात्रो के नाम भी उपलब्ध होते हैं, किन्तु इतनी उपलब्धिमात्र से तादृश यज्ञों की प्रक्रिया अथवा पात्रों का निर्देश वेद में होते का भ्रम नहीं करना चाहिये । वेदमन्त्रस्थ यज्ञ, पात्र, और क्रियाओ का उल्लेख तो सृष्टियज्ञ, उनके पात्र और कर्मों के बोधक हैं ।" किन्तु यह कथन भी विचार की कसौटी पर नही ठहर पा रहा है । उक्त कथन के अनुसार तो ब्राह्मण और श्रौतसूत्र तो अप्रमाण सिद्ध होंगे । यदि आध्यात्मिक, आधिदैविक यज्ञो के बोघन करने मे ही वेदो का तात्पर्य होता तो तद्बोधक ब्राह्मण, सूत्रों को भी होना चाहिये था । जैसे द्रव्यमय यज्ञों के बोधक- मन्त्र- ब्राह्मण-सूत्र उपलब्ध होते हैं, वैसे ही आध्यात्मिक, आधिदैविक यज्ञों के विधायक मन्त्र ब्राह्मण -सूत्र भी उपलब्ध रहते । जैसे द्रव्यमय यज्ञ का सागोपाग निरूपण ब्राह्मण और सूत्रो में उपलब्ध होता है, वैसे किसी फल को उद्देश्यकर सृष्ट्यादि यज्ञ के विधान की उपलब्धि नही हो रही है । उन दो यज्ञों की कौन देवता है, क्या विधान है, क्या द्रव्य है, उनमें कौन से मन्त्र हैं, कहाँ निक्षेप है, क्या फल है? मीमासाशास्त्र 'आम्नायस्य क्रियार्थत्वात्' के अनुसार वेदों का पर्यवसान यज्ञ मे ही माना गया है । जो प्रमाण सिद्ध है, उसे भ्रान्तिमूलक उक्ति कहना ही भ्रान्तिमूलक है । नाट्य, विनोद के लिये किया जाता है । उससे स्वर्ग या ब्रह्मलोक आदि की प्राप्ति नही होती । यहाँ तो फल भी सुनाई पडते हैं । 'तस्मान्नाट्येन यथा सीतारामादिवृत्तान्तादिकं विज्ञायते, तथैव द्रव्यमयेन यज्ञेन सृष्ट्यादियज्ञो ज्ञायते ' यह कथन भी निर्मूल है क्योंकि सुष्ट्यादि यज्ञ के ज्ञान का कोई फल नहीं बताया गया है, न बताने के कारण वे निरर्थक हैं । सिद्धान्त में तो 'फलवत्सन्निषी अफल २५०

पृष्ठ 1096

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1096 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजात: १ ९९४ सृष्ट्यादियज्ञज्ञानफलानुक्त्या निरर्थकत्वात् । सिद्धान्ते तु ' फलवत्सन्निधावफलं तदङ्गम्' इति न्यायेन तस्य ब्रह्मविद्याङ्गता- ऽभिप्रेता | 'तस्माद्यज्ञानुसारेण कृतोऽर्थो न मुख्यो वेदार्थ इत्येतदसङ्गतमेव । प्रकरणानुरोधेन प्रकृतिप्रत्ययाद्यनुरोधेन ज्ञात- स्यार्थस्यामुख्यार्थत्वायोगात् । आध्यात्मिकाधिदैविकादितत्त्वज्ञानार्थानां मन्त्राणा त्वष्यात्मादिपरत्वं स्पष्टमेव । अतो निरुक्त- कारादिभिराध्यात्मिक्य ऋचोऽपि दर्शिता एव । सिद्धान्तेऽपि बुद्धयादिशुद्धिक्रमेण यज्ञानां तथा यज्ञपराणा मन्त्राणामपि ब्रह्मणि पर्यवसानमित्यन्यदेतत् । वस्तुतो वेदा अपि नित्या इति न तेषां कृतादिः कालः । तथैव तदथंभूता यज्ञा अपि नित्या एव, शब्दार्थतत्सम्बन्धानामोत्पत्तिकत्वात् । यदुक्तम्- 'यज्ञानामारम्भकाले पूर्वोक्तनाट्यरीत्याध्यात्मिकार्थबोधनार्थमेव यज्ञेषु मन्त्राणां विनियोगो भवति स्म । उत्तरकाले यथा यथा यज्ञाना प्रधानता जाता, तथा तथा आधिदैविकाध्यात्मिकप्रक्रियाऽनुगुणो मुख्योऽर्थो गुणता- मुपगतः । याज्ञिकप्रक्रियानुसार्येवार्थो मुख्यतामुपगतः । यज्ञवादस्यान्त्या परिणतिः मन्त्रानर्थक्यवाद: ' इति, तदपि सर्व निष्प्रमाणम् । त्वदभिमतोऽर्थो दयानन्दीयभाष्ये व्यक्तः । तस्य कीदृशं महत्त्वमिति विदुषा न तिरोहितम् । यदपि - 'याज्ञिकमहत्त्ववृद्धयनन्तरं यदा विविधक्रियानुरूपा मन्त्रा नोपलब्धास्तदामन्त्रार्थापेक्षया विनियोगाः प्रवृत्ताः । ब्राह्मणेषु सूत्रग्रन्थेषु तादृशा मन्त्रार्थाननुसारिणो विनियोगा दृश्यन्ते' इति । तदुदाहरणञ्च तत्रैव टिप्पण्याम्- ' ऐन्द्रया गार्हपत्यमुपतिष्ठते ' इत्युद्घृतम् । तदेतत्सर्वं नास्तिक्यमूलकमेव । वैदिकास्तु मन्त्रब्राह्मणयोर्वेदत्वमभ्युपगच्छन्ति । तत्रापि ब्राह्मणस्य विनियोजकत्वं मन्त्रस्य विनियोज्यत्वम् । लिङ्गबलात्तु मन्त्रार्थानुसारिणी श्रुतिः कल्पयितुं शक्यते । सा च प्रत्यक्षश्रुत्या बाध्यते । तत्र ब्राह्मणभागस्य वेदत्वानभ्युपगममूलकमेवैतत् चोद्यम् । तत एव मीमासासूत्रभाष्यादिकृतामपि समाधानं न रोचते । तदनुसारेणैव 'कदाचन स्तरीरसि' इत्येन्द्रया ऋचो गार्हपत्योपस्थाने विनियोगः । तत्र श्रुतेः प्राबल्यादेव तदङ्गम्' इस नियम के अनुसार उनमे ब्रह्मविद्यागना अभिप्रेत है । 'तस्माद्यज्ञानुसारेण कृतोऽर्थो न मुख्यो वेदार्थ:' -यज्ञ के अनुसार किया हुआ अर्थ, मुख्य वेदार्थ नहीं है- यह कथन तो असंगत हो है । प्रकरण के अनुरोध से अथवा प्रकृति-प्रत्ययादि के अनुरोध से ज्ञात हुए अर्थ को मुख्यार्थं नही कहा जाता | आध्यात्मिक-आधिदैविकादितत्त्वज्ञानार्थक मन्त्रो को अध्यात्मादिपरता स्पष्ट हो है । अतः निरुक्तकारादिकों ने आध्यात्मिक ऋचाओं को भी दिखाया ही है । यह बात पृथक है कि सिद्धान्त में भी क्रमश बुद्धयादि की शुद्धि के द्वारा यज्ञों का तथा यज्ञपर मन्त्रों का भी ब्रह्म में पर्यवसान माना जाता है । वस्तुतः वेद नित्य है, उनका कृतादिकाल मानना उचित नही है । उसी तरह तदर्थभूत यज्ञ भी नित्य ही है, क्योकि शब्द, अर्थ और उनका सम्बन्ध, तीनों को नित्य कहा गया है । यहजो कहा है कि 'यज्ञों के आरंभकाल में पूर्वोक नाट्यरीति के अनुसार आध्यात्मिक अर्थ के बोघनार्थ हो यज्ञों में मन्त्रो का विनियोगहुआ करता था । आगे चलकर जैसे-जैसे यज्ञो की प्रधानता होती गई वैसे - वैसे आधिदैविक-आध्यात्मिक प्रक्रिया के अनुगुण मुख्यार्थ गौण होता गया । याज्ञिक प्रक्रिया का अनुसरण करने वाले अर्थ को ही मुख्यार्थ माना जाने लगा । 'यज्ञवाद की अन्तिम परिणति ही मन्त्रानर्थक्यवाद हैं, किन्तु यह सब कथन, प्रमाणशून्य है । तुम्हारा अभिमत अर्थ, दयानन्दीय भाष्य में व्यक्त है । उसका कैसा महत्त्व है, वह विद्वानों से छिपा नही है । यह जो कहा है कि ' याज्ञिक महत्त्व की वृद्धि होने के पश्चात् जब विविध क्रियाओ के अनुरूप मन्त्रो की उपलब्धि का होना असंभव होने लगा, तब मन्त्रार्थ की अपेक्षा विनियोग होने लगे । ब्राह्मणो में और सूत्रग्रन्थों में मन्त्रार्थ का अनुसरण न करनेवाले कितने ही मंन्त्र दिखलाई पड़ते है ।' उसके उदाहरणरूप में बही पर टिप्पणी में 'ऐन्द्रया गार्हपत्यमुपतिष्ठते' वाक्य दिखाया है । किन्तु यह सब नास्तिक्यमूलक ही है । वैदिकविद्वान् तो मन्त्र-वाह्मण दोनो को वेद मानते हैं । उसमें भी ब्राह्मण को विनियोजक और मन्त्र को विनि- योग्य कहते हैं । लिङ्गप्रमाण के बल पर मन्त्रार्थ का अनुसरण करने वाली श्रुति की कल्पना की जा सकती है । किन्तु उसका प्रत्यक्ष- Σ श्रुति के द्वारा बाघ हो जाता है । ब्राह्मणभाग को वेद न मानने के कारण उक्त कुशंका की गई है, और उसी कारण मीमांसासूत्रकार, कार आदि के द्वारा किया गया समाधान इन्हें अच्छा नहीं लग रहा है । सूत्र भाष्यकार के अनुसार तो श्रुति की प्रबलता के कारण

पृष्ठ 1097

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1097 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पदार्थपारिजात १ ९९५ विनियोगानुकूल्याय गुणसंयोगाद्गोणमभिधानमङ्गीकृतम् । सिहो देवदत्त, अग्निर्माणवक इतिवत् । अनिन्द्रेऽपि गार्हपत्ये इन्द्रशब्दः प्रयुक्तः । बलीयस्या श्रुत्या लिङ्गं बाधित्वा गुण कल्पनयापि विनियोग सम्भवति । तत्र हि ऐन्द्रमन्त्रे इन्द्रशब्दस्य गोणी वृत्तिमाश्रित्य गार्हपत्योपस्थाने विनियोगः कृत. ' इति । 'दधिक्राव्णो अकारिषम् इति वा सबुभूषन् दधिभक्षम्' ( साङ्ख्यायन श्री० सू० ४ १३/२ ), ' दधिक्राव्णो अकारिषम्' इत्याग्नीध्रीये दधिद्रप्सान् प्राश्य' ( आश्वलायन श्रौ० सू० ६।१३ ) इत्याद्यपि यत्किञ्चित्, नास्तिक्यमूलकत्वात् । पूर्वमनेन पण्डिताना ' सन्तः परीक्ष्यान्यतरद् भजन्ते मूढ परप्रत्ययनेयबुद्धि ' इति वचनेन ऋषीणामवमानमुक्तम् । स्वयं त्वयं सांख्यायनाश्वलायनसदृशानामृषीणा विनियोगवचनानि स्वपाण्डित्येन दूषयति । मन्त्रस्यास्य प्रजापतिदेवताकत्वेन प्रजापतेश्च सर्वात्मत्वादृषिभिर्दधिक्राव्ण इत्यस्य दधिभक्षणेऽपि विनियोगः कृतः । विनियोगबलाच्च दधिशब्दस्य यौगिकमर्थ- मश्वं परित्यज्य रूढमथं गृहीत्वापि विनियोगो युक्त एव । न केवलं कात्यायनाश्वलायनसांख्यायनादिविनियोगमय दूषयति, किन्तु यं यास्कं पदे पदेऽवलम्बते तमपि स्वाभिमतविरोधे दूषयति । तदेतदेकमेव जातवेदसगायत्र तृच दशतयीषु विद्यते । यत्तु किञ्चिदाग्नेयं तज्जातवेदसानां स्थाने युज्यते । स न मन्येतायमेवाग्निरप्येते उत्तरे ज्योतिषी उच्येते' ( नि० ७/२० ) इति युक्तियुक्तं यास्कवचनमपि स्वमतविरुद्ध- त्वादयं दूषयति । दयानन्दस्तु स्वभाष्ये सर्वत्र गौणाद् गौणतरमेवाथं वक्ति । तत्र निरुक्त पद्धतिमेव समाजिनः प्रमाणयन्ति । यदि तेषा यास्केऽपि वेदज्ञत्वबुद्धिर्नास्ति, तेषां तत्र तत्र यास्कवचनोत्थापनमपि वञ्चनमेव । तथैव -- ' तदेतदेकमेव वैश्वदेवगायत्र तृचं दाशतयीषु विद्यते यत्तु किञ्चिद्वहुदेवतं तद्वैश्वदेवानां स्थाने युज्यते 'तदेवविश्वलिङ्गमिति शाकपूणिः' ( नि० १२।४० ) इत्यपि यास्कवचनं स दूषयत्येव । वस्तुतस्तु सर्व एव ऋषयो मन्त्रब्राह्मणयोर्वेदत्वं मत्वा आम्नायस्य क्रियार्थत्वं च मत्वा ब्राह्मणविहितयागानु- { गुण्याय मन्त्राणां गौणमप्यथं स्वीकृत्य कथञ्चिदपि यज्ञानुगुणं विनियोग कुर्वन्ति । सर्वथार्थाननुगुण्येऽपि द्रव्यविधयापि मन्त्रान् विनियुञ्जते । विनियोग की ओर ध्यान देकर गौण अभिधान ही स्वीकार किया है । जैसे 'सिहो देवदत्तः' अथवा ' अग्निर्माणवक:' में गुणसंयोगात् गौणार्थ को माना जाता है । उसी तरह अनिन्द्र गार्हपत्य के लिये भी इन्द्र शब्द का प्रयोग किया गया है । प्रबल श्रुति के द्वारा लिङ्गप्रमाण का बाघकर गुणकल्पना से भी विनियोग किया जा सकता है । नास्तिक्य से बुद्धि दूषित होने के कारण इन्हे मन्त्राथ से अननुसृत विनियोगो में शंका हो रही है । ऋषियों का विद्वान् पण्डितों का अपमान करने में भी इन्हें संकोच नही होता । दिव्यदृष्टि ऋषियो के द्वारा बताये गये विनियोग के बल पर दधि शब्द के अश्वरूप यौगिक अर्थ का परित्याग कर रूढार्थ का स्वीकार करके भी विनियोग समुचित ही है । कात्यायन आश्वलायन-सांख्यायनादि ऋषियों के द्वारा निर्दिष्ट विनियोगों को ही इसने अपने बुद्धिदोष से दूषित नहीं किया, बल्कि जिसके अवलम्ब की जरूरत इन्हें प्रतिपद आवश्यक रहती है, उस यास्क महर्षि पर भी, अपना अभिमत जब सिद्ध नही होता दीखता तब अपने बुद्धिदोषों को आरोपित ये कर देते हैं । जैसे निरु० ७।२० में यास्क वचन के युक्तियुक्त रहने पर भी अपने मत के विरुद्ध होने से उसे दूषित बताया है । दयानन्दकह ने तो अपने भाष्य में सर्वत्र गौण से भी गौणतर अर्थ को बताया है । ऐसे अवसर पर ये समाजो लोग निरुक्त पद्धति को प्रामाणिक देते हैं | अपने मत के विरुद्ध यास्क वचन जब दिखाई पडता है तब उसे प्रामाणिक नही मानते । यदि यास्क मे भी तुम्हारी वेदज्ञत्व बुद्धि नही है, तो जहाँ वहाँ उनके वचनो को प्रमाण रूप में उद्धृत कर जनता को वञ्चना, प्रतारणा क्यों किया करते हो । वस्तुतस्तु सभी ऋषियो ने मंत्रों के गौण अर्थ का भी स्वीकार कर यज्ञ के अनुगुण विनियोग को बताया है । सर्वथा अर्थ का आनुगुण्य के न होनेपर भी द्रव्यविषया मत्रों का विनियोग बताया है ।

पृष्ठ 1098

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1098 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः १९९ ६ यदपि -'उत्तरोत्तरं काल्पनिकविनियोगानामाधिक्यात् प्रभावितेन कौत्सेन महायाज्ञिकेन स्पष्टं घोषित मन्त्रा अनर्थका:' इति, तदपि तुच्छम् ब्राह्मणानां वेदत्वानङ्गीकारमलकत्वात् । सिद्धान्ते तु मन्त्रा ब्राह्मणानि च वेदाः । तेषामनादित्वसाम्येन तादृशविनियोगानामनादित्वेन तत्र कालभेदकल्पनाया निर्मूलत्वात् । कौत्सादयो मन्त्रानर्थक्यवादिनोऽपि मन्त्रोच्चारणेनादृष्टं तु मन्यन्ते । समाजिनश्च सहस्राधिकशाखात्मकवेदानप्यवेदान् मन्यन्ते । न केवलं मन्त्रोच्चारणात्, किन्तु यज्ञादप्यदृष्टोत्पत्तिमपलपन्तश्चार्वाकानप्यतिक्रामन्ति । समाजिनामुच्छ्रङ्खलस्य मतस्य पोषणं क्वापि मन्त्रेषु ब्राह्मणेषु सूत्रेषु च नोपलभ्यते, प्रत्युत विविधशाखात्मकेषु तेषु विरोध एव दृश्यते । विपरीतबुद्धित्वादेव युधिष्ठिर -तैत्तिरीयादि-, शाखात्मकेषु वेदेषु तद्विपरीतवचनानि याज्ञिकानां मन्त्रानर्थक्यवादप्रभावमूलकानि मन्यते । तच्च सर्वथाऽसङ्गतमेव शाकलीको थुम्यादिशाखानामिव तैत्तिरीयादिशाखानामप्यनादित्वाविशेषात् । युधिष्ठिरोपन्यासेनैव तन्मतस्य वेदविरुद्ध- त्वावगमात् । यदपि — याज्ञिकोद्भावितमन्त्रानर्थक्यवादप्रभावो वेदानां तात्कालिकीषु शाखासु ब्राह्मणग्रन्थेषु च स्पष्ट परिलक्ष्यते । तत एव शतपथमपहायान्यशाखासु ब्राह्मणग्रन्थेषु च विनियोगा एव प्राधान्येनोल्लिख्यन्ते ' ( पृ० ११८ ) इति, तदपि सर्वथा- प्यशुद्धमेव, तैत्तिरीयादिशाखाना शाकल्यादिशाखानामिवानादित्वा वैश्रेष्यात् । वेदमन्त्रैरेव वेदानां यज्ञपरत्वसाधनेन यज्ञ- याज्ञिकादोनां वैदिकपार्थक्यासिद्धेः । यदपि ' ब्रह्मणां मन्त्राणां व्याख्यानं ब्राह्मणम्' इति मूलार्थं तिरोधाय ' कर्मचोदका ब्राह्मणानि, विनियोजकं ब्राह्मणम्' इत्यङ्गीकृतम्, शतपथव्यतिरिक्तेषूपलब्धब्राह्मणग्रन्थेषु यत्र तत्र मन्त्रार्था उपलभ्यन्ते, ते चानुषङ्गिकाः । न मन्त्रार्थपरिज्ञा-नाथं ब्राह्मणग्रन्था रचिताः ॥ अत एतेषु शतपथमपहाय वैदिकयाज्ञिकार्थानामपि बोधो न भवति । केवलं ब्राह्मणप्रदर्शितं ' ( ),,विनियोगमाधृत्य याज्ञिकप्रक्रियानुसारिवेदार्थकल्पनैव क्रियते पृष्ठ ११ ९ इति तदपि तदुक्त्यैव खण्डयते यतो हि यह जो कहा है कि ' उत्तरोत्तर काल्पनिक विनियोग की अधिकता से प्रभावित हुए महायाज्ञिक कौत्स ने मंत्रो को अनर्थक बताया है' वह कथन भी नि.सार है, क्योंकि वह कथन, ब्राह्मणो को वेद न मानने के कारण है । सिद्धान्त में तो मन्त्र-ब्राह्मण दोनों ही वेद है ॥ दोनों की अनादिता समान है, तत्कृत विनियोग भी अनादि है, अतः उनके कालभेद की कल्पना करना निर्मूल है । मंत्रानर्थक्य-वादी कौत्सादिकों ने भी मन्त्रोच्चारण का प्रयोजन अदुष्ट माना है । समाजी लोग तो सहस्राधिकशाखात्मक वेदों को भी अवेद कहते है । केवल मन्त्रोच्चारण से नही अपि तु यज्ञ से भी अदृष्टोत्पत्ति का अपलाप कर चार्वाको से भी एक पद आगे बढते है । समाजियों के उच्छृङ्खल मत का पोषण, मन्त्र ब्राह्मण या सूत्र ने कही पर भी नही किया है, प्रत्युतविविधशाखात्मक उन ग्रन्थों में विरोध ही दिखाई देता | युधिष्ठिर मीमासक अपनी विपरीत बुद्धि के कारण ही तैत्तिरीयादिशाखात्मक वेदों में तद्विपरीतवचनो को याज्ञिकों के मन्त्रानर्थक्य-वाद के प्रभाव से प्रभावित मानते है । किन्तु वैसा मानना सर्वथा असंगत ही है । क्योंकि शाकली, कौथुमी, आदि शाखाओ की तरह तैत्तिरीयादि शाखायें भी अनादिकालीन हैं । युधिष्ठिर के उपन्यास करने से भी उस मत की वेदविरुद्धता का ज्ञान हो जाता है । यह जो कहा है कि 'याज्ञिको द्वारा उद्भावित मन्त्रानर्थक्यवाद का प्रभाव वेदों की तात्कालिक शाखाओ तथा ब्राह्मणग्रंथों मे स्पष्ट लक्षित होता है । यही कारण है कि इन शाखाओं तथा ब्राह्मणग्रन्थों में शतपथ को छोड़कर विनियोग का ही उल्लेख प्रधानता से मिलता है' ( पृ० ११८ ) किन्तु यह कथन भी सर्वथा अशुद्ध ही है, क्योकि शाकल्यादि शाखाओ की तरह तैत्तिरीयादि शाखाओं की अनादिता समान है । वेदमन्त्रों से ही वेदो की यज्ञपरता का साधन किये जाने के कारण यज्ञ याज्ञिक आदि का बेदो से पार्थक्य नहीं कहा जा सकता । यह जोकहा है कि ब्राह्मण शब्द का 'ब्रह्मणां मन्त्राणां व्याख्यानं ब्राह्मणम्' इस मूल अर्थ को तिरोहित करके ब्राह्मण का लक्षण 'कर्मचोदका ब्राह्मणानि, विनियोजकं ब्राह्मणम्' मात्र याज्ञिकों ने स्वीकार कर लिया । शतपथ के अतिरिक्त अन्य उपलब्ध ब्राह्मणग्रन्थों में जहाँ कही मन्त्रों के अर्थ उपलब्ध होते है, वे प्रायः आनुषङ्गिक हैं । अर्थात् मन्त्रार्थ के परिज्ञान के लिये ब्राह्मणग्रन्थों की रचना नहीं हुई है । अतः इन ब्राह्मणग्रन्थों ( शतपथ को छोड़कर ) से वेद के याज्ञिक अर्थ का भी बोध नहीं होता । केवल ब्राह्मण

पृष्ठ 1099

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1099 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः १९९७ तद्रीत्या तदुक्तब्राह्मणलक्षणस्य शतपथातिरिक्तब्राह्मणेष्वसत्त्वात् । स्वयमेवायं स्वीकरोति यत् तत्र मन्त्रार्थं आनुषङ्गिक एव । तथा च व्याख्यानाभावात् तदुक्त ब्राह्मणलक्षणमव्याप्तम्, विनियोगानां च तत्र प्राधान्यात् 'कर्मचोदका ब्राह्मणानि, विनियोजकं ब्राह्मणम् ' इत्येव ब्राह्मणलक्षणं युक्तम्, तदुक्तलक्षणस्य शतपथेऽतिव्याप्तेः । शतपथेऽपि चोदनानामेव प्राधान्यम् । , अर्थवादा मन्त्रव्याख्यानानि तु तदङ्गत्वेनैवोक्तानि ॥ अन्तिमेष्वनेककाण्डेषु मन्त्रव्याख्यानादर्शनात् आद्येष्वपि मन्त्र- व्याख्यानापेक्षया विध्यर्थवादानामेव बाहुल्येन मन्त्रव्याख्यानस्याप्राधान्याविशेषात् । एतेन शाकल्या दिपुस्तकचतुष्टयातिरिक्त- सहस्राधिकसंख्यानां मन्त्रसंहितानां ब्राह्मणग्रन्थानां चावेदत्वाप्रमाणत्वाभ्यां विना युधिष्ठिरस्यान्येषां च समाजिनां दया- नन्दस्य च मतं न सिद्ध्यति । यदपि च- 'याज्ञिकप्रक्रियासूत्तरोत्तरपरिवर्तनपरिवर्धनाभ्यां वेदार्थोपरि गम्भीर प्रभावः प्रतिफलितः' ( पृ० ), 1 ११ ९ इति तदपि मोहविजृम्भितम् त्वदभिमतस्य वेदार्थस्य वेदार्थाभासत्वात् । सर्वशाखात्मकमन्त्रब्राह्मणस्वरूपवेद- कल्पसूत्र- जैमिनि- शबर-कुमारिलादिसम्मतस्यैवार्थस्य वेदार्थत्वात् । याज्ञिकप्रक्रियासु परिवर्तनपरिवर्धनकल्पनापि निर्मूलैव, यज्ञप्रक्रियाया अनादिमन्त्रब्राह्मणमूलकत्वेन याज्ञिकैस्तत्र परिवर्तनपरिवर्धनयोः प्रत्यवायजनकत्वाभ्युपगमात् । समाजिभिरेव पुण्याद्यदृष्टानभ्युपगमात् । तेषा स्वाभ्यूहितवेदार्थकल्पनया वेदव्यापादकत्वदर्शनाच्च । यदपि — 'या याज्ञिकप्रक्रिया प्रारम्भे वेदस्याधिदैविकस्याध्यात्मिकस्य वा मुख्यार्थस्य ज्ञापनार्थं कल्पितासीत्, तयैवान्ते वेदानां नैरर्थक्यमापादितम् । यास्क-जैमिनि-याज्ञवल्क्यप्रभावेण मन्त्रानर्थक्यवादस्य कथञ्चित् प्रतिवादे जातेऽपि ततः प्राचीनेषु तत्समकालिकेषु च ग्रन्थेषु ये मन्त्रार्थासम्बद्धा याज्ञिका मन्त्रविनियोगाः प्रवृत्तास्तेषां परिमार्जनं न जातम् । तेन प्रदर्शित विनियोग के आधार पर याज्ञिक प्रक्रियानुसारी वेदार्थ की कल्पना की जाती है ।" ( पृ० ११ ९ ) । किन्तु यह कथन भी तुम्हारी उक्ति से ही खण्डित हो जाता है, क्योकि उक्त ब्राह्मणलक्षण शतपथातिरिक्त ब्राह्मणो मे घटित नही हो पाता । इसने स्वयं स्वीकार किया है कि मन्त्रार्थ तो आनुषङ्गिक ही है । तथा च व्याख्यानरूप न होने से तदुक्त ब्राह्मणलक्षण अव्यास होता है । वहीं विनियोग की प्रधानता होने से 'कर्मचोदकानि ब्राह्मणानि, विनियोजकं ब्राह्मणम्' ऐसा ही लक्षण करना उचित है । क्योकि तदुक्त लक्षण की शतपथ में अतिव्याप्ति होती है । शतपथ मे भी चोदनाओ की ही प्रधानता है । मन्त्रव्याख्यानरूप अर्थवादरूप तदङ्गरूप मे कहे गये है । अन्तिम के अनेक काण्डों में 1 मन्त्रों का व्याख्यान नही दिखाई देता, प्रारंभिक काण्डो मे भी मन्त्रव्याख्यानापेक्षया विध्यर्थवादो की ही बहुलता दृष्टि-गोचर होती है, मन्त्रव्याख्यान की अप्रधानता तो समान ही है । इससे यह प्रतीत होता है कि शाकल्यादि- पुस्तकचतुष्टय के अतिरिक्त सहस्राधिकसंख्या कमन्त्रसंहिताओ को तथा ब्राह्मणग्रन्थों को अवेद और अप्रमाण माने बिना युधिष्ठिर, अन्य समाजी तथा दयानन्द का अभिमत सिद्ध नही हो पाता । यह जो कहा है कि 'याज्ञिक प्रक्रियाओ में हुए उत्तरोत्तर परिवर्तन और परिवर्धन का वेदार्थपर भी गहरा प्रभाव पड़ा ।' ( पृ० ११ ९ ), वह भी मोहविजृम्भित ही है । तुम्हारा अभिमत जो वेदार्थ है वह वेदार्थाभास ही है । सर्वशाखात्मक मन्त्र ब्राह्मणस्वरूप वेद, कल्पसूत्र, जैमिनि, शबर, कुमारिल, आदि के द्वारा सम्मत अर्थ ही वास्तविक वेदार्थ है । याज्ञिक प्रक्रियाओं में परिवर्तन -परिवर्धन की कल्पना भी निर्मूल ही है । यज्ञ प्रक्रिया तो अनादि मन्त्र ब्राह्मणमूलक होनेसे उसमें परिवर्तन -परिवर्धन को तो याज्ञिको ने प्रत्यवायजनक माना है । पुण्यादि अदृष्ट का अनभ्युपगमतो समाजियो ने ही किया है । स्वकपोलकल्पित वेदार्थ की कल्पना करने के कारण by इन समाजियों को वेदव्यापादक ही समझना चाहिये । यह जो कहा है कि 'जो याज्ञिक प्रक्रिया प्रारम्भ में वेद के आधिदैविक वा आध्यात्मिक मुख्यार्थ का ज्ञान कराने के लिये कल्पित की गई थी, उसने अन्त में वेदो को भी अर्थरहित ( निरर्थक ) बना दिया । यास्क, जैमिनि, और याज्ञवल्क्य के प्रभाव से मन्त्रानर्थक्यवाद का यद्यपि कुछ प्रतिवाद हुआ, तथापि उससे प्राचीन या तत्समकालीन ग्रन्थों में मन्त्रार्थ से असम्बद्ध जो याज्ञिक मन्त्रविनियोग हो चुका था, उसका परिमार्जन न हुआ, अर्थात् उसका खण्डन नहीं किया गया । अतः याज्ञिक लोग उसी प्रकार

पृष्ठ 1100

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1100 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजात: १ ९९ ८ याज्ञिकास्तद्वदेव मन्त्रार्थासम्बद्धान् नवनवान् विनियोगान् उत्तरकालेऽपि कुर्वन्ति स्म' ( पृ० ११ ९ ) इति, तदति तुच्छम्, त्वद्वचनेनैवास्यार्थस्य खण्डितत्वात् । सर्वस्यैव त्वदुक्तस्य निर्मूलत्वात् । यज्ञप्रक्रियाया नित्यवेदमूलकत्वेन तत्कल्पनाकाला- सम्प्रतिपत्तेः । सर्वस्यापि त्वदुक्तस्य प्रलपितत्वाविशेषात् । यदि याज्ञिकप्रक्रियया वेदस्य नैरर्थक्यमापद्येत, तदा वेदनैरर्थक्य- परिहाराय यास्कजैमिन्यादिभिर्याज्ञिकप्रक्रियैव खण्डनीया स्यात् । पर यास्कादिकर्तृकयाज्ञिकप्रक्रियाखण्डन त्वयापि नाङ्गी- क्रियते, प्रत्यक्षविरोधभयात् । यास्कजैमिन्यादिभिस्तत्प्रक्रियाया आवृतत्वात् ॥ तैश्च मन्त्रब्राह्मणात्मकसर्वशाखात्मकस्य वेदस्य वेदत्वाङ्गीकारात् । तेनैव यज्ञप्रक्रिया मन्त्रानर्थक्यवादहेतुरिति त्वन्मत सर्वथाप्यशुद्धमेव । त्वत्पूर्वोद्धरणरीत्या यास्क-जैमिनिभ्यामपि मन्त्रब्राह्मणात्मकवेदपद्धत्येव यज्ञानुगुण्येन मन्त्रविनियोगस्याङ्गीकृतत्वात् । यच्च यच्च यास्कादिभिर्मन्त्रानर्थक्यवादस्य प्रवलखण्डनेन याज्ञिकप्रक्रियानुसारी विशृङ्खलितो यथाकथञ्चित् वेदार्थ उपलभ्यते । अन्यथा मन्त्राः सर्वथा तान्त्रिकमन्त्रवद् अनर्थका एव मताः स्युः' इति, तदपि दौर्जन्यमूलकमेव, यास्क- जैमिन्याद्यनुसारेणैव याज्ञिकानां यज्ञेषु प्रवृत्तेः । द्रव्यदेवतास्मरणाय मन्त्राणामुपयोगो याज्ञिकैरभ्युपेयत एव । कचित्तु विनि-योगानुसारं गौणोऽप्यर्थो जैमिन्यादिरीत्यैवाङ्गी क्रियते । 'आम्नायस्य क्रियार्थत्वं जैमिनिनैवोक्तम् ।' अर्थवादाना मन्त्राणां च क्रियानुगुण्येनैव सुतरां प्रामाण्यं सर्वैरभ्युपेयते । दयानन्दस्तु विध्यनुरोधमन्तराऽपि सर्वत्रैव वेदाना गौणार्थकतयैव व्याख्यान करोति । यज्ञानुसारिवेदार्थव्याख्यानं तु मन्त्रब्राह्मणकल्पमीमांसासम्मतम् । दयानन्दीयव्याख्यान तु सर्वंविरुद्धम्, अतस्तदेव विशृङ्खलितम् । यदपि १२० पृष्ठे ' पुरुषाश्वगवाजादयः पशवो द्रव्ययज्ञे प्रोक्ताः । ते न लौकिकाः पशवः, किन्तु केषाञ्चिदन्यपशूना प्रतीकभूताः । द्रव्यमया यज्ञा आधिदैविकसृष्टियज्ञस्य प्रतीकात्मका नाटकरूपा व्याख्यानरूपा वा । द्रव्ययज्ञे प्रयुक्तानि सर्वाणि मन्त्रार्थ से असम्बद्ध नये- नये विनियोग उत्तरकाल में भी करते रहे ( पृ० ११ ९ ) किन्तु यह कथन अत्यन्त निःसार है, क्योकि इसका खण्डन तो उसी के कथन से हो जाता है । तुमने जो कुछ भी कहा, वह सभी निर्मूल है । यज्ञ प्रक्रिया तो नित्य वेदमूलक है, अत. उसकी कल्पना का काल निर्धारण किया ही नही जा सकता । इस कारण तुम ने जो कुछ कहा है, वह सब प्रलाप ही है । सोचने की बात है कि यदि याज्ञिक प्रक्रिया के कारण वेद का नैरर्थक्य प्राप्त होता तो उसकी निरर्थकता का परिहार करने के लिये यास्क, जैमिनि आदि के द्वारा यज्ञप्रक्रिया का ही खण्डन कर दिया गया होता, और प्रत्यक्ष विरोध के भय से यास्कादिकर्तक याज्ञिकप्रकिया का खण्डन तुमने भी नही माना है । यास्क, जैमिनि आदिको ने तो उस प्रक्रिया का आदर किया है, और उन्होने मन्त्र ब्राह्मणात्मक सर्वशाखात्मक वेद का वेदत्व स्वीकार किया है । इसी से यह स्पष्ट है 'यज्ञप्रक्रिया, मन्त्रानर्थक्यवाद का हेतु है' यह तुम्हारा मत सर्वथा अशुद्ध है । तुम्हारे द्वारा पूर्व दिये गये उद्धरण के अनुसार भी यह सिद्ध हो जाता है कि यास्क, और जैमिनि ने भी मन्त्र ब्राह्मणात्मक वेद की पद्धति से ही यज्ञानुगुण मन्त्रविनियोग का स्वीकार किया है । पु० ११ ९ पर युधिष्टिर ने जो अपना विचार लिखा है कि ' यदि यास्क, जैमिनि और याज्ञवल्क्य आदि मन्त्रानर्थक्यवाद का प्रबल खण्डन न करते, तो जो कुछ याज्ञिकप्रक्रियानुसारी टूटा-फूटा वेदार्थ उपलब्ध होता है, वह भी न मिलता, और वेदमन्त्र सर्वथा तान्त्रिक मन्त्रों के समान निरर्थक समझे जाते ।" यह विचार भी दौर्जन्यमूलक ही है । यास्क, जैमिनि आदि के अनुसार ही याज्ञिकों की यज्ञो में प्रवृत्ति होती है । द्रव्य-देवता के स्मरणार्थ मन्त्रो का उपयोग याज्ञिक लोगो ने माना ही है । कही कही विनियोग के अनुसार गौण अर्थ को भी जैमिनि आदि के द्वारा प्रदर्शित रीति से स्वीकार किया ही जाता है । 'आम्नायस्य क्रियार्थत्वम् ' जैमिनि ने ही कहा है | अर्थवाद और मन्त्रो का प्रामाण्य क्रिया के आनुगुण्य से ही सबलोग मानते है । दयानन्द तो विधि के अनुरोध के बिना भी सभी जगह गौण अर्थपरक ही वेदों का व्याख्यान करते हैं । किन्तु मन्त्र ब्राह्मणकल्प मोमासा को तो यज्ञानुसारी वेदार्थ-व्याख्यान ही सम्मत है । दयानन्दीय व्याख्यान तो सर्वविरुद्ध है, अतः उसे ही विश्वङ्खल समझना चाहिये । ' पृष्ट १२० पर जो लिखा है कि 'द्रव्य यज्ञ में जो पुरुष, अश्व, गो, अव और अज आदि पशु बताये गये हैं, वे लौकिक पशु नहीं है, किन्तु किन्ही अन्य पशुओं के प्रतीकभूत हैं । द्रव्यमय यज्ञ, आधिदैविकसृष्टियज्ञ के प्रतीकात्मक नाटकरूप अथवा व्यास्थान-