वेदार्थ पारिजात - २ स्वामी करपात्री — पृष्ठ 1141–1150

वेदार्थ पारिजात - २ स्वामी करपात्री · पृष्ठ 1141–1150

पृष्ठ 1141

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1141 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः २०३९ सम्बोधनम् अश्वानुकूलम् । शफारच अश्वस्यैव भवन्ति न सूर्यस्य । 'आत्मानं ते मनसारादजानामको दिवा ( / ), पतयन्त पतङ्ग शिरोऽपश्यम् । पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्त्रि २ ऋ० स० १।१६३ ६ हे अश्व ते तव आत्मान शरीरं मनसा नस्मदीयेन प्रकृष्टगमनवता चैतमा आरात् अतिदूरे स्थितं अजानाम् जानामि अतिव्याप्तं भावयामीत्यर्थः। कथम् अद अवस्तात् सामर्थ्यात् भूमेः भूमिभारस्य दिवा अन्तरिक्षेण मार्गेण पतङ्गमादित्य पतयन्तं गच्छन्त व्याप्नुवन्तम् । यद्वा यतो दिवा अन्तरिक्षण मार्गेण दिवि च पतयन्तं गच्छन्तं पतङ्गमादित्यं अव:व्याप्नोषि अतो व्याप्त जानामि । किञ्च तव शिर. सुगेभि शोभनगमनमा ने. अरेणुभिः अपापैः पथिभिर्मार्ग आदित्यमण्डलादपि उपरिभूतैः सत्यलोकमार्ग. तत्र प्रतिबन्धकाभावात् तथाविधैस्ते जेहमानम् उपरि व्याप्नु- वत् पतत्रिपतनवत् पश्यामि । एवं लोकत्रयव्याप्तं शिरो भावयामि । यद्वा ते आत्मानम् एवं भावयामि मनसा दिवा द्योत- नात्मकेन अन्तरिक्षमार्गेण दिवः सकाशात् वा अवः अवस्तात् अवाङ्मुखं पतयन्तं यागदेशं प्रतिव्याप्नुवत् अत एव पत पतनशीलं अध: पतदादित्यसदृशं वा एव ते तव शिरो भावयामि । उक्तरूपैर्देवयजनमार्गे जेह्यानं यजप्रदेशं व्याप्नुवत् पतत्रि शीघ्रगामि शिरः पश्यामि । यद्यपि आत्मशब्देन सशिरस्कं शरीरयुक्तं तथापि देहात्पूर्वं शिरसो दृश्यमानत्वात् शिर देहात् { पृथगभिधीयते । अश्वमेधीयाश्व संवत्सरप्रजापतिरूपत्वेनोपास्यते । अत एव आदित्यादप्युपरिष्टात् सुगेभिः पथिभिर्जेह- मानस्य तस्य ध्यानं क्रियते । अत एव न द्युलोकगमनश्रवणमात्रेण तस्यादित्यत्वमध्यवसेयम् । सप्तमेऽपि मन्त्रे तस्य उत्तमं रूपं ध्येयत्वेनोक्तम् । गो: भूमेः पदे देवयजनप्रदेशे आजिधावनप्रदेशे वा जिगीषमाणस्य प्रशस्तिरुक्ता । ओषधीः अजीगः ओषधीः गिरसि भक्षयसीत्याद्युक्तम् । अष्टमेऽपि मन्त्रे अर्वन्निति सम्बोधनमुक्तम् । नवमे मन्त्रे य इन्द्रः यवन्तं त्वां प्रथमः सन्नद्धतिष्ठत् इत्यश्वस्यैव लिङ्ग स्पष्टं प्रतीयते । यदुक्तं 'शृङ्गोन भवत्यश्व, अत्र तु हिरण्यशृङ्गत्वमुक्तम्' इति, तदपि तुच्छम् अयमश्वः हितरमणीयशृङ्गो वा उन्नतशिरस्क हृदयरमणशृङ्गस्थानीयः शिरोरुहो वा यस्य स इति सायणेन व्याख्यातत्वात् । यदुक्तम् 'ईर्मान्तासः' इति निरुक्तकारण सूर्यरश्मिपरत्वेन 'व्याख्यातम्' इति, तदपि ॥ यत्किञ्चित्, निरुक- कारेणापि आदित्यात्मना अश्वस्यैव स्तुत्यत्वाङ्गीकारात् । 'ईर्मान्तास: सिलिकमध्यमासः संशूरणासो अत्याः हंसा इव श्रेणिशो यतन्ते यदा क्षिप्रदिव्यमज्ममश्वाः ( ॠ सं ० १/१६३ | १० ) अत्र दुर्गाचार्य: - दीर्घतमस आर्षम्' अश्वस्तोमीयत्वात् ते चाश्वाः स्तूयंतेऽश्वमेधे । आदित्यस्य रथे येऽश्वायुक्तास्त उच्यन्ते । तेषा सप्तानां मध्ये येऽश्वाश्चत्वारः ते इर्मान्तासः समीरितमारुताः विक्षिप्तान्ताः प्रसृतान्ताः प्रविरला इत्यर्थः । पृथ्वन्ता वा तेषामश्वानां पृथवोऽन्ताः पृथूरस्का पृथुजघना वा । सिलिकमध्यमाः मंसृतमध्यमाः संश्लिष्टमध्यमाः । तेषां सप्तानां ये मध्यमास्त्रयस्ते परस्परमुत्पत्यादय सश्लेषेणावस्थिताः । अथवा पृथुजघनोरस्कानां सतां मध्यमाः शरीरप्रदेशाः सप्तानामपि संश्लिष्टा। | संलग्नास्तनवो निरुदराः । योहि तेषां मध्यमः स शिरोभूत प्रधानइत्यर्थः । अपिवा एवमन्यथास्यात् शिर आदित्यः यदनुशेते सर्वाणि भूतानि मध्ये चैषां तिष्ठन्ति' उद्गमस्थान है । वे ये महिमासंज्ञक ग्रह हो अश्व के आगे पीछे प्रकट हुए हैं । इस प्रकार यह अश्व महत्त्वयुक्त हैं, यह पुनरुक्ति अश्य की स्तुति के लिये है । तथा ' हयो भूत्वा ' इत्यादि वाक्य भी अश्व की स्तुति के हो लिये है । यहाँ यह शका हो सकती हैं कि बाहन होना तो निन्दा हो है, तब स्तुति के लिये उसे कैम बताया? यह कोई दाष नही है, अश्व का बहन होना तो स्वाभाविक ही है । स्वाभाविक हान के कारण देव आदि से सम्बन्ध होना ता उच्च पद की प्राप्ति हो है, अतः यह उसकी स्तुति हो है । इसी प्रकार बाजी बादि भ जातिविशेष हैं । अतः इसका सम्बन्ध इस प्रकार है - बाजी हाकर उसन गन्धवी का बहन किया तथा अर्वा होकर असुरों का और अश्व होकर मनुष्यों का वहन किया । समुद्र अर्थात् परमात्मा ही इसका बन्धु ( बन्धन ) हैं, क्योंकि इसी में यह बाधा जाता है,

पृष्ठ 1142

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1142 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०४० वेदार्थपारिजातः ' ' ( ) मूर्धा राजेतिवा अहमेतमुपासे इति हविर्ज्ञायते बृह० उ० २१ २ यस्माच्चासी अनुप्रविश्य प्राणभावेन सर्वभूतानि शेते आस्ते सर्वभूताश्रयणात् शिर आदित्यः । स च एतेषामश्वाना मध्ये तिष्ठति । शीर्षमध्यमाः इत्युक्ताः सन्तः सिलिक- मध्यमा उच्यन्ते । इदमपीतरच्छिर. एतस्मादेव इति प्रासङ्गिकम् । समाश्रितानि हि एतदुत्तमाङ्गं इन्द्रियाणि चक्षुरादीनि इति शिरः शब्दोपपत्तिः । संशूरणास संगताः शूरणादित्येन भगवता संशूरणासः । ते अत्याः अतनाः मुहूत्तंमपि नावतिष्ठन्ति । ते हसा इव श्रेणिशो यतन्ते गच्छन्ति कदा यदा यस्मिन् काले अक्षिषु मयन् आप्नुवन्ति किं दिव्यमज्मम् अजनिम् अज्यते गम्यतेऽस्यामिति अज्मं स्वर्गपथः एवमेतानि ईर्मान्तास इत्यादीनि अश्वविशेषणानि । 'आत्मैवेषा रथो भवत्यात्माश्वा' । इत्येव प्रक्रमेण ' सूर्यदैवत' एषमन्त्रः स पुनरयमश्वस्तुतो विनियुक्तस्तमसमञ्जस इति मन्यमानो भाष्यकारः प्रतिसमाधित्सुराह- अस्त्यादित्यस्तुतिरश्वस्य स्यादश्वोनिरतष्ट इति । 'सूरादश्वबसवो मिरतष्टेत्यपि निगमोभवति' ( नि० ४।१३ ) अत्राश्व आदित्या आदित्यात्मना स्तूयते कया उपपत्त्या उच्यते आदित्यादश्वो निरतष्ट इति अनया उपपत्या सूर्यात्मनाऽश्वः स्तूयते तत्रैव निगमं प्रमाणयति सूरादश्ववसवो निरतष्टेति । सूक्तस्यास्य द्वितीयस्यामृचि आदित्यादश्वो निरतष्ट इत्युच्यते यमेन एनमस्माकं दत्तं अश्वं त्रितः त्रिस्थानो वायुः युनक्ति यत्रायं योक्तव्यः । वायुना युक्तमेनं इन्द्रः प्रथमः सर्वदेवाना मुख्यः अध्यतिष्ठत् । कोन्यएवमास्थातुं शक्नुयात् । वायुना युक्तस्येन्द्रेणाधिष्ठितस्यास्य गन्धर्वराजः रशनामगृह्वात् । कुतः पुनरय- मश्व उच्यते सूरात्सूर्यादेतमेवं लक्षणमश्वं वसवो निरतष्ट निःकृष्टवन्तः एवमेतस्मिन् मन्त्रे सूर्यप्रभवोऽश्वः स्तुयते । कारणाञ्च कार्यमनन्यत् इत्युपपद्यते सौर्येणमन्त्रेणाश्वस्य स्तुतिरिति । तथाच निरुक्तदृष्ट्यापि मन्त्रस्याश्वस्तुतिपरत्वमेव । यदुक्तम् ' १६४ तमसूक्तस्य प्रथममन्त्रे अस्यवायस्येतिमन्त्रेऽपि अस्येति सर्वनाम्ना पूर्वोक्तस्य सूर्यस्यैवाभिधान' ( पृ० १५२ ) इति, तदपि तुच्छम्, १६३ सूक्तस्याश्वस्तुतिपरत्वेन तददोषात् । १६४ तमसूक्तेतु प्रायः संशयोत्थापनादयो बहवोऽर्थाः प्रतिपादिताः । तथाच अस्यवामस्येत्यस्य भवतु सूर्योऽर्थः । न तेन सिद्धान्तहानिः । 'मानोमित्र' इति द्वाविंशत्युचस्य देर्घतमसस्य सूर्यस्य भवत्यश्वोदेवता तेनाश्वस्य स्तूयमानत्वात् । 'मानोद्वयधिक विशत्यश्वस्तुतितृतीयषष्ठयोजगत्यो, इत्यनुक्रमणिकावचनात् । तद्यथा ' मानोमित्रोवरुणो अर्यमायुरिन्द्रऋभुक्षाः परिणयन् । यद्वाजिनोदेवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि (ऋ० सं० १।१६२।१ ) नोऽस्माकमश्वं स्तोतु प्रवृत्तानां मित्रादयो देवा मा परिख्यानं कुर्वन्तु । महानुभावं देवजातं अश्व तुच्छानराः स्तुवन्तीति मा निन्दन्त्वित्यर्थः । अहरभिमानी देवो मित्रः, रात्र्यभिमानी वरुणः, तयोरन्तरालाभिमानी अर्थमा, आयु: सततगन्तावायुः वकारलोपो वा, इन्द्रः प्रसिद्धः, ऋभुक्षाः { देवाना निवासभूतः प्रजापतिः, यत् यस्मात् वाजिनो वेगवतो बनवतो देवजातस्य बहुदेवतास्वरूपेणोत्पन्नस्य देवेभ्योजातस्य गन्धकुले उत्पन्नत्वात् सप्तेः सर्पणशीलस्य अश्वस्य महानुभावस्य वीर्याणि वीरकर्माणि सामर्थ्यानि विदथे यज्ञे प्रवक्ष्यामः मतो मा परिख्यन् प्रत्युत अनुगृह्णन्त्वित्यर्थः । 'यद्वाजिनो दामसन्दानमवतोनाशीर्षण्या रशना रज्जुरस्य 1। यद्वाधास्यप्रभृतमास्ये तृणं सर्वा ता ते अपि देवेष्वस्ति ॥ ' ( ऋ ० सं ० १।१६२८ ) इत्यत्र वाजिनः गमनवतोऽश्वस्य यत् दाम ग्रीवाबद्धा रज्जुः यच्चसन्दानं सम्यगवच्छेदकं पादबन्धनम् द्यावा अस्य शीर्षण्या शिरसि बद्धा खलीनरज्जुरस्ति अस्य मश्वस्य आस्ये मुखे प्रभृततृणमस्ति सर्वा सर्वाणि तानि ते तव देवेष्वस्तु देवेषु मध्ये सन्तु देवत्वं प्राप्नुवन्तु । ' यदस्य क्रविषो मक्षिका यद्वा स्वरो स्वधितो रिप्तमस्ति । यद्वस्तयोः शमितुं यन्नखेषु सर्वाता अपि समुद्र ही इसकी योनि ( उत्पत्ति में कारण ) है । इस प्रकार यह शुद्ध योनि धौर शुद्ध स्थिति वाला है । ऐसा कहकर इसकी स्तुति की जाती है । अथवा 'अप्सु योनियों अश्व' इस श्रुति के अनुसार प्रसिद्ध समुद्र ही इसकी योनि है । एतावता यह स्पष्ट है कि अश्यमेव के अश्व का ही कालादिदृष्टि से संस्कार कर 1 उसमें प्रजापतित्व बुद्धि करना यज्ञ में वीर्यवत्तरता की सिद्धिकी सम्पत्ति के निमित्त किया जाता है । उक्त मन्त्रो से अश्वमेषयज्ञ का अपलाप करना शक्य नही है । संवत्सरादि के यज्ञत्व प्रतिपादन में उन मन्त्रो का तात्पर्य नहीं

पृष्ठ 1143

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1143 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजात २०४१ देवेष्वस्तु ॥ ' (ऋ ० सं० १।१६८२ ९ ) अस्य अश्वस्य अर्थात्तदवयवभूतस्य क्रविष उत्तममांसस्य यत् अङ्ग मक्षिका आश अभक्षयत् । यद्वा कर्मणि षष्ठ्यो । अश्वस्य यन्मास मक्षिका भक्षयति । वा अथवा स्वरो पश्वञ्जनकाले यत् रिप्तं लिप्तमस्ति । 'स्वरुणा पशुमनक्ति' इति श्रुते । स्वधिती छेदनकाले वा यत् रिप्तमस्ति शमिन हस्तयोलिप्तमस्ति, विशसनकाले यन्नखेषु लिप्तं तत्सर्वं ताः सर्वा तानि सर्वाणि, हे अश्व ते तव सम्बन्धीनि देवेषु अस्तु ' यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । सकृता तच्छमितारः कृण्वन्तु मेधे शृतपाकं पचन्तु ' (ऋ० सं० १।१६२।१० ) उदरस्य सम्बन्धि यत् ऊबध्य ईषज्जीणं तृणं पुरीष्यम् अपवाति अपगच्छति यश्च आसस्य अपकृष्य ऋविषो मासस्य गन्धो लेशोऽस्ति पाकस्य समये यत्किञ्चित् ऊबन्ध्यं अपक्वस्य च गन्धो लेशोऽस्ति तत्सर्वं शमितारः विशसनकर्तारः सुकृता कृण्वन्तु सुकृतमुक्तदोषरहित कुर्वन्तु । उतापि मेधं मेध्यं यज्ञार्ह पश्ववयव शृतपाकं देवयोग्यपाकोपेत यथा भवति तथा पचन्तु, पितृमनुष्यादियोग्यं अतिपक्व ईषत्पक्वच माकुर्वन्त्वित्यर्थः । एवमेव एकादशे मन्त्रे यत्ते गात्रादग्निना पच्यमानात् यत् ऊष्मरूप रसोवा यत् किञ्चित् अवधावति तथा निहतस्य निःशेषेण हतस्य तव यदङ्ग रसरूप शूलमभिलक्ष्य अवधावति तत् भूभ्यां मा आश्रिषत् आश्लिष्टं माभूत् । तथा या तृणेषु विशसनसमये दमेषु मा अपगच्छतु, किन्तु तत् उशद्द्भ्यः कामयमानेभ्यः देवेभ्यः रातं दत्तमस्तु । द्वादशे च मन्त्रे ये च वाजिनं पक्वमश्वावयवं परिपश्यन्ति पावन वुद्धया ईक्षन्ते य ई येचैनं सुरभिः शोभनगन्धः किञ्चित् अस्मभ्य देहीत्याहु:, यतः सुरभि: देवयोग्योऽयमिति ये चार्वतो मांसमिक्षामुपासते तेषामुक्तविधाना अभिगूर्तिः अभितः उद्यमनं नोऽस्मान् इन्वतु व्याप्नोतु । ये देवा वाजिन पक्व परिपश्यन्ति । त्रयोदशे च मन्त्रे मास्पचन्याउखायाः स्थाल्या नीक्षण पाकपरीक्षासाधनं काष्ठं तथा यानि पात्राणि या यानि यूष्णोरसस्य क्वथितस्य आसेचनानि तथा ऊष्मण्या ऊष्मनिवारणार्हाणि पात्राणि चरूणां मांसपूर्णानाम् अपिधाना अपिधानसाधनानि, तथा अड्डा हृदयाद्यवदानसाधना वेतसशाखाः सूना अवदानसाधनाः स्वधित्यादयः एत मखं मूषन्ति स्वस्वव्यापारेण साधयन्ति । यन्निष्क्रमणं यन्निषदन, विवर्तनं लुण्ठनं यच्चावंतं पड्वोशं पादबन्धनम् सर्वत्रैतेषु मन्त्रेषु देवार्थस्य अश्वस्य रोमादीनामपि निरर्थकत्वाभावाय तत्स्थानमिति स्वीक्रियते । यच्च ययौ यच्च धावसि तृणादिकं जघास, हे अश्व, ते तव ताः सर्वास्तानि सर्वाणि निष्क्रमणादीनि देवेष्वस्तु तान्यपि निरर्थकानि माभूवन् । षोडशे मन्त्रे यदश्वाय संज्ञप्यमानाथ वास उपस्तृणन्ति यानि हिरण्यानि कल्पयन्ति अर्वतोऽश्वस्य सन्दान शिरोबन्धनं पड्वीशं पादेषु प्रविष्टं बन्धनं एतानि देवाना प्रियतराणि चात्वाले बद्ध्वा स्थापितानि देवेषु, आयामयन्ति प्रापयन्ति । सप्तदशे मन्त्रे-यत्ते महसा बलेन शूकृतस्य शूत्कारं कुर्वन्तं त्वा सादे सदने अगमने पाय वा कशया तुतोद 1 ते तव तानि सर्वाणि ब्रह्मणा मन्त्रेण सूदयामि आहुतित्वेन कल्पयामि । अष्टादशे मन्त्रे - अश्वस्य देवबन्धोः चतुस्त्रिंशत् वङ्कीः एतत्सख्यानि उभयपार्श्वोस्थीनि स्वधिति समेति, इतरेषामजादीनां षडविंशतिरेव । हे विशसनकर्तारः अस्याश्वस्य गात्राणि अछिद्राणि यथाभवन्ति तथा वयुनानि कृणोत कृणुत, हृदयजिह्वा वक्षःप्रभृतानि प्रज्ञाय मध्ये छिन्नानि मा कुरुत । तदर्थं परुः परुः प्रतिपर्व प्रत्यवयवं अनुघुष्य शस्तविशसनं कुरुत । एकोनविंशे मन्त्रे - एकस्त्वष्टुरश्वस्य एक एव ऋतुः कालः विशस्ता तथा द्वो है और न ही आदित्य को ही यहा अश्व या अश्वमेघ कहा है । तै० सं ० ३।३।७ में सोम के अंगरूप में आश्रावय आदि मन्त्रो को बताया गया है, यहाँ अर्थवाद समझना मूल है । आश्रावय इत्यादि पाँच मन्त्र, उसका वीर्य है । इन मन्त्रो के अर्थो को तै० सं ० १।६।११ के अनुवाक में प्रपंचित किया गया है । वहाँ इष्टि के अंगरूप में विधि है, किन्तु यहां सोम के अंगरूप में विधि है । सायणाचार्य के कि अर्थ २५६ 1

पृष्ठ 1144

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1144 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

घेदार्थपारिबास २०४२ अहोरात्रे नियन्तारी हे अश्व ते तव गात्राणा मध्ये यानि हृदयाद्यवदानानि ऋतुथाकाले कृणोमि छिनद्मि सम्पादयामि अग्नी प्रजुहोमि । विंशे च मन्त्रे -हे अश्व त्वामपि यन्त देवान् प्रतिगच्छन्त प्रियः आत्मा भोगायतनत्वात् मा तपत तप्तं माकार्षीत्, तद्वियोगजनिता व्यथा माभूत् । स्वधिति शखं ते तव तन्व. अङ्गानि मा अतिष्ठिपत चिरमास्थितानि माकार्षीत् ते तव गात्राणि गृष्नु विशसनेऽकुशल: असिना अतिहाय न्यूनातिरेकभावेन तत्तदङ्गमतिक्रम्य मध्ये मिथु मिथ्या व्यर्थं तिपर्व छिद्राणि माक. कार्षीत् । एकविंशेच-तवा उ एतन्त्रियसे न रिष्यसि देवॉ इदेषि पथिभिः सुगेभि. । ' ननु प्रत्यक्षतां मृतिरवय- वनाशश्च दृश्यते कथमेवमुच्यते इति तत्रोच्यते सुगेभिः देवान् इदेषि 1। ते त्वा वोढु हरी इन्द्रस्याश्वो ते तव रथे युञ्जायुक्तो अभूताम् भविष्यत । देवत्वं गच्छतस्तव गमनाय इन्द्रादयः स्वस्ववाहनानि प्रषयिष्यन्ति । द्वाविंशे मन्त्रे -वाजी अश्व आलभ्यमानोऽस्माक सुगव्य शोभनेन गोसमूहेन युक्तम् विश्वायुष राय विश्वस्य पोपक धन करोतु । पुस. पुत्रान् बन्ध्वादीन् स्त्र्यपत्यादीन् करोतु | अदिति अदीन: अश्वः अनागस्त्वं सर्वतो निष्पापत्व करोतु । हविष्मान् हविर्भूतावयवोपेत अश्वः नोऽस्माकं क्षात्र तेजः कुरुताम् । एवमेतेन दैर्घतमसेन सूक्तेन न त्वदभिलषित सिद्धयति । बृहदारण्यकवचनमपि नत्वत्पक्षसाधकम् । तथाहि 'उषाबा अश्वस्य मेध्यस्य शिर सूर्यंश्चक्षुर्वात प्राणो व्यात्त- मग्निर्थैश्वानरः संवत्सर आत्मा अश्वस्य मेध्वस्य द्योः पृष्ठभूतमन्तरिक्षमुदरं पृथिवीपाजस्यं दिश पार्श्वे अवान्तरदिशः पशंव. ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नमोमांसानि ऊवध्यं सिकता. सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमानि उद्यन् पूर्वार्धः निम्लोचद् जघनार्थो यद्विजृम्भते तद्विद्योतते यद्विधुनुते ततस्तनयति यन्महति तद्वर्षति वागेवास्य वाक्अहर्वा अश्व पुरस्तान्सहिमान्वजायत तस्य पूर्वे समुद्रे योनी रात्रिरेनम् पश्चान्महिमान्वजायत तस्यापरे समुद्रे योनिरेती वा महिमानावभितः सम्बभूवतुः । हयो भूत्वा देवानवहद्वाजी गन्धर्वान् अर्वाऽसुरान् अश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रा यानि? (बृ० उ० १।१।१-२ ) अत्र अश्वमेधोपासनमुच्यते । अत्र भाष्यकारः - ' तत्र अश्वविषयमेव दर्शनमुच्यते प्राधान्यादश्वस्य प्राधान्याच्च तन्नामाङ्कितत्वात् क्रतोः प्राजा- पत्यत्वाच्च । उषा ब्राह्मो मुहूर्तः वे प्रसिद्धिः 1। मेध्यस्य मेधाहस्य यज्ञियस्याश्वस्य शिरः दिनावयवेषु उषःकालस्य प्राधान्यम्, अश्वावयवेषु च शिरसः प्राधान्यम्, तेनाश्वमेधिकाश्वशिरसि उषसो दृष्टिः कर्त्तव्या । ननु कालादिदृष्टिरश्वाङ्गषु किमितिकत्तंव्य- तिचेत्तत्राच्यत, कर्माङ्गस्य पशो: सस्कत्र्तव्यत्वात् कालादिदृष्टयः शिरादिषु कर्त्तव्याः । प्रजापत्यध्यारोपणात् प्राजापत्यत्व तत्र सम्पद्यत । काललाकदेवतात्वाध्यारोपणाच्च प्रजापतित्वकरणं पशाः, यथा प्रतिमाया विष्णुबुद्धिस्तथैवात्र प्रजापतित्वबुद्धिः। अश्वमेधाधिकारी सत्याश्वे कर्मणा वार्यवत्तरार्थं कालादिदृष्टाः मश्वावयवेषु कराति । तदनधिकारो ब्राह्मणादिस्तु अश्वाभावे ' को मूल संस्कृत में बताया गया है । मासुर पक्ष के उत्कर्ष का वर्णन करते हुए युधिष्ठिर ने सायणाचार्य पर इतिहास की अनभिज्ञता का मारी कर उनके किये हुए अर्थ को अशुद्ध बताया है । सायण के द्वारा प्रतिपादित अर्थ सरल, प्राञ्जल और स्पष्ट है, उसमें क्या और किस प्रकार अशुद्धि है, यह नहीं बता पा रहे हैं । दयानन्द भी उसी तरह कुछ कहकर सायण की निन्दा करते हैं । उसके अन्य अनुयायी

पृष्ठ 1145

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1145 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपरत २०४३ स्वात्मानमेवाश्वं कल्पयित्वा स्वशिरप्रभृतिषु कालादिदृष्टिकरणेन प्रजापतित्व सम्पाद्य प्रजापतिरस्मीति भावनया तद्भावं प्रतिपद्यते ।' इति । स्पष्टार्थं भाष्यम् । सूर्यश्चक्षु शिरसोऽनन्तरत्वात् सूर्याधिदेवतत्वान्चक्षुषो सूर्यदृष्टि कर्त्तव्या । वातो वायु.। प्राण, तदीये व्यात्ते मुखे वैश्वानराग्निवृद्धि · कर्तव्या मुखाग्निदेवतत्वात्। सवत्स द्वादशमासस्त्रयोदशमासो वा आत्मा | ', ' 'शरीरम् आत्मापदेनाश्र मध्यदेह उक्त मध्यो ह्येषामङ्गानामात्मा इति शङ्करभप्पो श्रुतेः । अश्वस्य मेध्यस्य पुनवंचन सर्वत्रनुषङ्गार्थम्, द्यौः पृष्ठम् ऊर्ध्वत्वसामान्यात् । अन्तरिक्षमुदग्म् सुपिरत्वात् । पृथिवी अस्य पाजस्यम्, वर्णव्यत्ययेन पादासनस्थानम् दिशश्चतस्रोऽस्य पार्श्वे पावन दिशा सम्बन्धात् । ननु दिशा संख्यावैषम्यादयुक्तमिदमिति चैन्न, अश्वस्य सर्वमुखत्वेन तदुपपत्ते । अवान्तरदिशः पशवः पाश्र्वास्योनि ऋतवोऽङ्गानि सवत्मरावयवत्वात् मासाश्चार्धमासाश्च पर्वाणि सन्धय सन्धिसामान्यात् । अहोरात्राणि प्रतिष्ठाः बहुवचनात् प्राजापत्यदेवपित्र्यमानुषागि अहोरात्राणि प्रतिष्ठा पादाः । प्रतितिष्ठत्येतैरिति । अहोरात्रः संवत्सरात्मा प्रतितिष्ठति पादेश्चाश्व प्रतितिष्ठति । नक्षत्राणि अस्थीनि शुक्लत्वमास्यात् नभ नभःस्था मेघा मासानि , अन्तरिक्षस्योदरत्वेनोक्ते । उदकं रुधिर सेचनसामान्यात् । ऊवध्यमुदरस्थमर्धजीर्णमशनं सिकताः विश्लिष्टावयव-;!त्वसाम्यात् । सिन्धव स्यन्दनसामान्यान्नद्यो गुदा नाड्य बहुवचनाद्य यकृच्चक्लोमानश्च हृदयस्याधस्तात् दक्षिणोत्तरी मांसखण्डो क्लोमान इति नित्यबहुवचनमेकस्मिन्नेव । पर्वताः काठिन्यादुच्छ्रिनत्वाच्च ओषधपश्च क्षुद्रा: स्थावरा-वनस्पतयो महान्तो लोमानि केशाश्च यथायोग्यम् । उद्यन्तुद्गच्छन् सविता आमध्याह्नात् अश्वस्य पूर्वार्धः । नाभेरूर्ध्वमित्यर्थः । निम्लोचन्नस्त यन्नामध्याह्नाज्जघनार्थोऽपराधः, पूर्वापरत्वमाधर्म्यात् । यद्विजृम्भते गात्र विनामयति विक्षिपति तद्विद्योतते विद्योतनम् मुखघनविदारणसाम्यात् । यद्विधू नुते गात्राणि कम्पयति तत्स्ननयति गर्जनशब्दसाम्यात् । यन्मेहनि मूत्रकरोत्यश्व-स्तद्वर्षति वर्षण तत् सेचनसाम्यात् ॥ व.गेव शब्दएवास्यवाक् नात्रकल्पनेत्यर्थः । 'अहर्वा ' सौवर्णराजतौ महिमाख्यौ ग्रहो अश्वस्य अग्रतः पृष्ठतरच स्थाप्येते तद्विषयमेतद्दर्शनम् । अहः ,,सौवर्णो ग्रह दीप्तिसामान्या अश्वस्य पुरस्तान् महिमान्वजायत अश्वस्य प्रजापतित्वात् प्रजापतिर्द्धादित्यलक्षणोऽह्ना .लक्ष्यते । तस्य ग्रहस्य पूर्वे पूर्वः समुद्र योनिः । विभक्तिव्यत्यय । योनिरित्यासादनस्थानम् । रात्रीराजतोग्रहो । वर्णसामान्यात् जघन्यसामान्याद्वा । एन मख पश्चात्पृष्ठतो महिमान्वजायत । तस्य अपरः समुद्रो योनिः स्थानम् ॥ तावेतौ महिमानो ग्रहौ अभितः सम्बभूवतुः । इत्थमसावश्वो महत्वयुक्त इतिपुनर्वचनं स्तुत्यर्थम् । तथाच । हयोभूत्वेत्यादिकं स्तुत्यर्थम् । वाहनत्वमस्य स्वाभाविकम् । देवादिसम्बन्धोऽश्वस्य स्तुति । वाज्यादयो जातिविशेषाः समुद्रः परमात्मा एवास्य बन्धु । बध्यते अस्मिन्निति बन्धु । योनिः कारणमुत्पत्ति प्रति । एवममौ शुद्धयोनिः शुद्धस्थिति- ' ' समुद्राऽस्ययोतिः । स्पष्टमन्त्राश्वमेवीयाश्व एव रितिस्तूयते अप्सुयानिर्वा भवः इतिश्रुतेः । प्रसिद्ध एव कालादिदृष्ट्या संस्कृत्य तत्र प्रजापतित्वसम्पादनम् यज्ञस्य वीर्यवत्तरत्वसिद्ध्यर्थं क्रियते । नैभिर्मन्त्ररश्वमेधयज्ञस्यापलापः कर्तुं पार्थते 1। संवत्सरादेर्वा यज्ञत्वप्रतिपादने नैषा तात्पर्यम् । न वात्रादित्यस्यैव अश्वत्वम् अश्वमधत्वंवा निरूप्यते । प्रजापतिर्देवासुरानसृजत । तदनुयज्ञोऽसृज्यत । यज्ञं छन्दांसि । ते विष्वञ्चोव्यक्रामन् । सोऽसुरा ननु यज्ञोऽपक्रामद्यज्ञ छन्दासि । ते देवा अमन्यत । इदमभूवन् यद्वयस्म । ते प्रजापतिमुपाधावन् । सोऽब्रवीत् प्रजापतिः छन्दसा है इस नियम का भी ' अशक्तास्तत्पदं गन्तु ततो निन्दा प्रकुर्वते - उन्नत पद को पन में असमर्थ होन पर वे लोग निन्दा करने लगते देवों के पास यज्ञ आये' अनुसरण कर उट टांग प्रलाप करने लगते है । अत: 'देवों के पास यज्ञ नही थे, किन्तु असुरो के पास से' हीयह सब छन्दों के वीर्य की ' इस प्रलाप का खण्डन हो ही चुका । यहाँ स्पष्ट है कि ते दवा विष्वञ्चो व्यक्रामन् कृतार्थताधिगता के प्रशंसा के लिये अर्थवाद है । तात्पर्य यह है कि सायणाचार्य को प्राचीन इतिहास का सम्यक् ज्ञान था । अतः सायणाचार्य पर युधिष्ठिर

पृष्ठ 1146

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1146 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः २०४४ वीर्यमादाय तद्वः प्रदास्यामीति । स छन्दसा ( वीर्य )मादाय तदेभ्यः प्रायच्छत् । तदनु छन्दास्यपाक्रामन् । छन्दासियज्ञ- स्ततांदेवा अभवन् परासुरा" य एव छन्दसां वीर्यं वेदाश्रावयास्तुश्रोषट् यज ये यजामहे वषट्कारोभवत्यात्मना परास्य भ्रातृव्यो ( | | | ) भवति तै स० ३ ३ ७ अत्र सोमाङ्गत्वेनाश्रावयेत्यादयो मन्त्रा विधीयन्ते तत्रार्थवादः । कदाचित् प्रजापति- देवानसुराश्च पुरा असृजत सृष्टवान् । ताननु यज्ञोऽसृज्यत । यज्ञमनु छन्दासि च ससर्ज । तदानी ते देवाः परस्परमेक- मत्याभावात् विष्वञ्चो नानागतयो भूत्वा व्यक्रामन् विविध देशगता । अथ स यज्ञोऽसुराननुसृत्य देवेभ्योऽपाक्रामत ॥। तञ्च यज्ञमनुसृत्य छन्दास्यपि देवेभ्योऽपाक्रामन् । तदानी ते देवाः परस्परमैकमत्य प्राप्यैव विचारितवन्तः -यदेश्वयं प्राप्य स्थिता-एम, तदिसर्व प्राप्यासुरा एवेदानीमवस्थिता इति विचार्य च ते देवाः तथाविधपराभवमसहमानाः प्रजापतिमुपाधावन् । अथदेवैरुपासितः प्रजापतिस्तानब्रवीत् । छन्दसा वैदिकमन्त्राणा मध्ये वीर्यसारमादाय युष्मभ्य तत्प्रदास्यामीत्युक्त्वा तथैव- कृतवान् । अथ तद्वीर्यमनु सर्वाणि छन्दास्यसुरेभ्योऽपक्रम्य देवान् प्राप्नुवन् । तानि छन्दास्यनुसृत्य यज्ञोऽप्यसुरेभ्योऽपक्रम्य देवान् प्राप्नोत् । ततो देवा विजयिनोऽभवन्, असुरास्तु पराभूताः । योवीर्यं वेद स स्वयमेव विजयी भवति । तस्य भ्रातृव्य. पराभवति । तस्माद् वीर्यं विदित्वा प्रयुञ्जीत । आश्रावयेत्यादिमन्त्रपञ्चक तद्वीर्यम् । एतेषा मन्त्राणां अर्था:-यो वे सप्तदश- मित्यस्मिन्ननुवाके । ( तै ० सं ० १६। ११ ) प्रपञ्चिताः । इष्ट्यङ्गत्वेन तत्र विधिः, अत्र तु सोमाङ्गत्वेन । इत्ययं श्रीसायणा- चार्योक्तोऽर्थः उक्तप्रघट्टकस्य । आसुरपक्षस्योत्कर्षं वर्णयन् युधिष्ठिरस्तु सायणाचार्ये इतिहासानभिज्ञत्वमारोपयन् तत्कृतमर्थमशुद्ध वदति । सरलः प्राञ्जलः स्पष्टः सायणोक्तोऽर्थस्तत्रकथमशुद्धिरिति नोक्तवान् । दयानन्दोऽपि तथैव किञ्चि- दुक्त्वा सायणं निन्दति । तदीया अन्येऽपि ' अशक्तास्तत्पदं गन्तुं ततो निन्दा प्रकुर्वते ' इति न्यायमनुसरन्तः यत्किञ्चित्प्रलपन्ति । 'एतेन देवाना सविध एव यज्ञा नासन् किन्तु असुराणां सकाशादेव यज्ञः देवानागतः' इति सर्वं प्रलपनमपास्तमेव । अत्र स्पष्टं ' ते देवाविष्वञ्चो व्यक्रामन् । ततः साऽसुराननु यज्ञोऽपाक्रामत्, यज्ञापक्रमणात् देवैरैश्वर्यहीनत्वादैकमत्यं प्राप्य प्रजापति- मुपस्तुत्य तद् द्वारा छन्दसां वीर्यं प्राप्य पुनश्छन्दासि यज्ञश्च प्राप्य कृतार्थताधिगते'ति छन्दसा वीर्यस्य प्रशंसाऽर्थोऽयमर्थवाद । तस्मात् सायणाचार्येण प्राचीनेतिहासस्य सम्यगज्ञानात् ( तै ० सहिताया ३| ३| ७ ) स्थले भाष्ये अशुद्ध व्याख्यातमिति , युधिष्ठिरोक्तिरपास्ता युधिष्ठिरस्यैवेतिहासानभिज्ञत्वात् । एवमेव तत्रतत्रवचनाभासानुपन्यस्यानर्गल प्रलपति । एवमेव - 'प्राह्ल दिवे कपिलो नामासुर आस । स एतान् भेदान् चकार देवैः सह स्पर्धमानः ' (बौधायनधर्मसूत्र २।१२।३० ) इति वचनमुपन्यस्यता युधिष्ठिरेण अशुद्धोऽभिप्रायः प्रदर्शितः, स्थलसङ्केतोऽपि अशुद्धोदत्ताः । बोधायनधर्मसूत्रे ( २।११।२८ ) इति स्थलसङ्केतेन भाव्यम् । न तत्र सूत्रे वर्णाश्रमभेदवर्णन केवलमाश्रमभेदस्यैव तत्र विवक्षितत्वात् । तथाहि एतस्मात् पूर्वस्मिन् ' ऐकाश्रम्यं त्वाचार्या अप्रजनत्वादितरेषाम्' ( बौधायनधर्मसूत्र २।११।२७ ) इति सिद्धान्तपक्षमुक्त्वा कपिला- सुरमतेन तद्भेदं प्रति गद्य तत्रैव ' तान्मनोषोनाद्रियेत' ( बौधायनधर्मसूत्र २।११।२८ ) इति तन्मत खण्डनमेव दृश्यते । तथैव 'देवाः पराजिग्यमाना असुराणा वेशत्वमुपायत्' ( मैत्रायणोसंहिता २।३।७ ) इति स्थाने ' वैश्य' मितिमिथ्यापाठं परिकल्प्यायमनर्गलं स्वार्थ साधयितुं प्रवृत्तः । दिशोवायूरविश्चन्द्र पृथ्व्यग्नी विष्णुरेव च । इन्द्रः प्रजापतिमित्रमग्नयो दश भामिनि । दशेन्द्रियाणि होतृणि हवोषि दशभामिनी । विषयानामसमिधो दृश्यन्ते ( हूयन्ते ) तु दशाग्निषु ॥ चित्त स्रुवश्च वित्त च पवित्रं ज्ञानमुत्तमम् । सुविभक्तमिदं सर्वं जगदासीदिविश्रुतम् ॥ ' 'शरोरभृद्गार्हपत्यस्तस्मादन्य प्रणीयते । मनश्चाहवनीयस्तु तस्मिन् प्रक्षिप्यते द्वारा किये आक्षेप का ख बन हो जाता है । वस्नतः युधिष्ठिर हो इतिहास से अनभिज्ञ हैं । जहाँ तहाँ प्रमाणाभासो का उन्न्यास कर as or art ' ' -( ) करता है । उसो प्रकार प्राल दिर्वे कपिलो स्पर्धमानः बीघा घ ० सू० २२१२२३० इस वचन को कर षिष्ठिर ने उसका अभिप्राय अशुद्ध प्रदर्शित किया है, और स्थलसंकेत भी अशुद्ध किया है । स्थलसंकेत $ २।१२।३०

पृष्ठ 1147

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1147 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थणारजातः २०४५ हविः ॥ ततो वाचपति यज्ञे त मनः पर्यवेक्षते ' ( म०भा ० आश्वमेधिकपर्व २१।३८ ) तथैव पञ्चाग्निविद्याया 'अयं वाद लोको गोतमाग्निस्तस्यादित्य एव समित् रश्मयो धूमरचन्द्रमा बङ्गाराः नक्षत्राणि विस्फुल्लिङ्गा तस्मिन्नग्नो देवाः श्रद्धा जुह्वति तस्या आहुतेः सोमो राजा भवति' (छा० उ० ५।४।१ - २ ) ' पर्जन्यो वाव गौतमाग्निः वायुरेव समित् अभ्रं धूमो विद्युदग्नि- रशनिरङ्गारा ह्रादनयो विस्फुलिङ्गाः, तस्मिन्नग्नी देवा सोम राजानं जुह्वति तस्या बहुते वर्षं भवति' (छा०५१५ ) पृथिवी वाव गौतमाग्नि, तस्या सवत्सर एव समिदाकाशो धूमो रात्रिरचिरवान्तरदिशो स्फुलिङ्गाः तस्मिनग्नी देवावर्ष जुह्वति तस्या अन्नं भवति । ' ' पुरुषो वाव गौतमाग्निः तस्य वागेव समित् प्राणो घूमः जिह्वाचिः श्रोत्र विस्फुल्लिङ्गाः तस्मिन्नौदेवा अन्नं जुह्वति तस्या अङ्गात् रेतः सम्भवति ॥ ' योषावावगौतमाग्निः तस्या उपस्थ एव समित् यदुपमन्त्रयते स धूमो योनिरचिर्यदन्तः करोति तेऽङ्गाराः अभिनन्दाः विस्फुलिङ्गाः तस्मिन्नग्नो देवा रेतो जुह्वति तस्या बहुतगर्भः सम्भवति' ( छा० उ० ५/ ८/ १-२ ) इत्यादिषु गौण-मेवाग्नित्वादिकमारोप्यत उपासनार्थम् । तथैव प्राणाग्निहोत्रे तस्य वा एतस्यात्मा वैश्वानरस्य मूर्धेव सुतेजाश्चक्षुविरूपः प्राणः पृथग्वत्र्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येवपादा वुरएव वेदिः लोमानि बहिः हृदयं गार्हपत्यो मनोऽन्वाहार्य- ' ( ) -पचनः आस्यमाहवनीयः छा० उ० ५/१८ इत्यादिषु वेदिबहगार्हपत्यान्वाहार्यपच नाहवनीयादिकं काल्पनिक - • 1मेवारोप्यते । तथैव युद्धेऽपि यज्ञकल्पनं दृश्यते । यथा धार्तराष्ट्रस्य शस्त्रयज्ञो भविष्यति । आध्वर्यव च ते कृष्ण क्रतावस्मिन् भविष्यति । होता चैवात्र बीभत्सुः सन्नद्धः सकपिध्वजः । गाण्डीव स्रुक् तथा चाज्यं वीर्यं पुसा भविष्यति ॥ ऐन्द्रं पाशुपत ब्राह्मं स्थूणा कर्णं च माधव । मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना । गीतं स्तोत्रं स सौभद्रः सम्यक् तत्र भविष्यति । उद्गाता च पुनर्भीमः प्रस्तोता सुमहाबलः ॥ विनदन् स नरव्याघ्रो नागानीकान्तकृद्रणे । स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः । जपैर्होमैश्च सयुक्तो ब्रह्मत्व कारयिष्यति । शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन ॥ उत्कृष्टसिंह-नादश्व सुब्रह्मण्यो भविष्यति । नकुलः सहदेवश्च माद्रीपुत्रो यशस्विनी ॥ शामित्र तो महावीर्यौ सम्यक् तत्र भविष्यतः । कल्माषदण्डा गोविन्द विमला रथपतयः ॥ यूपाः समुपकल्पन्तामस्मिन् यज्ञे जनार्दन । कर्णिनालोकनाराचा वत्सदन्तो-पबर्हणाः ॥ तोमराः सोमकलशाः पवित्राणि धनूंषि च । असयोऽत्र कपालानि पुरोडाशाः शिरासि च ॥ हविस्तु रुधिरं कृष्ण तस्मिन् यज्ञे भविष्यति । इध्माः परिधयश्चैव शक्तयो विमला गदाः । सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥ इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना । प्रति प्रास्थानिक कर्म सात्यकिश्च करिष्यति । दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः । घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः । अतिरात्रे महाबाहो वितते यज्ञकर्मणि ॥ दक्षिणात्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् । वैतानिके कर्ममुखे जातो यत्कृष्णपावकात् । यदा द्रक्ष्यसि मां कृष्ण निहतं सव्य-साचिना । पुनश्चितिस्तदाचास्य यज्ञस्थाथ भविष्यात । दुःशासनस्य रुधिरं यदा पश्यति पाण्डवः । आनदं नर्दतस्तस्य सदा सूय भविष्यति । यदा द्रोण च भीष्मच पावाल्यो पातयिष्यतः ॥ तदा यज्ञावसानं तद्भविष्यति जनार्दन । दुर्योधनं यदा हन्ता भीमसेनो महाबलः ॥ तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव । स्नुषाश्च प्रस्तुषाश्चैव धृतराष्ट्रस्य सङ्गताः ॥ तदैव मैत्रायणो {,,नही है बल्कि २१४१२८ है । उस सूत्र मे वर्णाश्रम के भेद का वर्णन नही है केवल आश्रमभेद हो वहाँ विवक्षित हैदिखाई। दे रही है । संहिता २।३।७ में वेशत्व ' की जगह ' वैश्यम्' इस मिथ्यापाठ की कल्पना कर अनर्गल स्वार्थसाधन में इसकी प्रवृत्त का० उपनिषद् आदि में उपासनार्थ गोण अग्नित्व आदि का आरोप किया गया है । उसी तरह वेदि बहि गार्हपत्य- अन्वाहार्यपचन-आह-वनाय आदि सब काल्पनिक ही आरोपित किये गये है । युद्ध में भी यज्ञ की कल्पना की हुई महाभारत में दिखाई पड़ती है । तै ० ब्र • मे यून के अन्तराला मे ग्ख हुए जो बारण्य पशु हैं, उन पशुओं के समाप्तिपर्यन्त प्रयोग का निन्दामुखेन निषेध किया गया है । रोहितादि

पृष्ठ 1148

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1148 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजात. २०४६ हतेश्वरा हतपुत्रा हतनाथाश्च केशव । रुदन्त्यः सह गान्धार्या श्वगृध्रकुरराकुले ॥ स यज्ञेऽस्मिन्नवभृथः भविष्यति जनार्दन || ' ( म० भा ० ) सर्वत्रात्र प्रसिद्धयज्ञगता एव भावा युद्धे परिकल्प्यन्ते । यूपान्तरालेषु धारिता आरण्या ये पशद. तेण पशूना सन प्तिपर्यन्त प्रयोग निन्दामुखेन निषेधति--' यदारण्यैः सस्थापर्यंत व्यवस्येता पितापुत्रो व्यध्वान. क्रामेयु विदूर ग्रामयो- मान्ती स्याताम् । ऋक्षीका पुरुषव्याघ्राः परिमोषिणः आव्याधिनीस्तस्करा अरण्येष्वाजायेरन् ' (तै० ब्रा० ३१ ९| १ इति । ' इन्द्राय राज्ञे सूकर.' इत्याद्यनुवाकेषूक्ता आरण्यः पशवो यूपान्तरालेषु धारवित्वोपाकृताः । तै. पशुभिर्यद्यन्यपशुवत् पाशुक- प्रयोगं समापयेत् तदानीमेते दोषा. प्रसज्येरन् तदेवोदाहि ते - पितापुत्रो परस्परं व्यवस्येयाताम् विरुद्धाध्यवसायौ कलह- कारिणी भवेताम् अध्वानश्च विक्रामेयुः । अध्वशब्देन मार्गे गच्छन्तो जना उपलक्ष्यन्ते । ते च परस्पर विरुद्ध क्रामेयु । परस्परं बाधकाः स्युः । आरण्यपशूना तथाविधत्वात् । कि ग्रामान्ती ग्रामसीमानौ तयोग्रामयोविदूर यथा भवति तथा स्याताम् । ग्रामसीम्नोरत्यन्तदूरत्वे मध्येमार्ग भयकारण महारण्यमुत्पद्यते इत्यभिप्रायः, तथा सति आरण्यकेषु ऋक्षीकादय सर्वत उत्प- द्येरन् । ऋक्षीका. भल्लूकप्रभृतयो हिसका मृगाः, व्याघ्रा इवातिक्रूराः पुरुषव्याघ्राः, परिमोषिणः मार्गचौरा बौरप्रभूणां सेना आव्याधिन्यः तस्करा मायावित्वेनापहर्तार । तत्र पूर्वपक्षे तदाहुः अपशवो वा एते यदारण्याः यदारण्यैः संस्थापयेत् । क्षिप्र यजमानमरण्य मृतं हरेयुः अरण्याय नाह्यारण्याः पशव इति मत्पशूनालभेत अनवरुद्धा मस्य पशवः स्यः । यत्पर्य-ग्निकृतानुत्सृजेत यज्ञवेशस कुर्यात् ' ( तै ० ब्रा० ३१ ९/ ३ ) आक्षेपनादिन एवमाहुः, यत एते आरण्यास्ते कर्मयोग्याः पशवो न भवन्ति पशुकार्याभावात् । तथाहि किमेते पशवः समाप्तिपर्यन्तमनुष्ठेयाः किं तेषामालम्भ एवमाभूत्, अथवा प्रारब्धानां तेषा पर्यग्निकरणादूर्ध्वमुत्सगं इति विचारणीयम् । तत्र समाप्तिपर्यन्तं प्रयोगे क्षिप्रं स्वल्प एवकाले मृतं यजमान दाहार्थमरण्ये पुत्रादयां हरेयुः, आरण्यपशुवधस्याल्पायुष्ट्वहतुत्वात् । यस्मादारण्याना पशूनामरण्य मेवायतनम् अतो यजमानस्यापि तत्रैवा-यतनम् | नापि द्वितीय: पक्षो युक्त: -आरण्यानामालम्भाभावे यजमानेन पशवो न प्राप्येरन् । पर्यग्निकरणादूर्ध्वमुत्सर्गे तु पशु- प्रयोगसमाप्त्यभावात् यज्ञविधानं कुर्यात् । अथसमाधानपक्षः --' यत्पशूनालभते तेनैव पशूनवरुन्धे यत्पर्यग्निकृतानुत्सृजत्ययज्ञ-वैशसाय अवरुद्धा अस्य पशवो भवन्ति न यज्ञवैशस भवति न यजमानमरण्यं मृतं हरन्ति' (तै ० ब्रा० ३१९| १ | इनि । आरण्यान् पशूनुपालब्धुमुपाकरणं करोति । तेनालम्भदोषाभवात् पशुप्राप्तिर्भवति । उपाकृतेषु पर्यग्निकरण गनुष्ठितत्वान् न यज्ञ-वैशस भवति तदेतद्दोषद्वय राहित्यमुपसंहर्तुमवरुद्धा अस्य पशवो भवन्तीत्यादिकयुक्तम् । आरण्यपशूनां वघाभावात् यजमानस्य शोधमरणादिकं न भविष्यति । अग्निष्ठयूपव्यतिरिक्तेषु यूपेषु नियुक्ता रोहितधूम्ररोहित इत्यनुवाकोक्तानामष्टादशिनां ग्राम्य-पशूना समाप्तिपर्यन्त प्रयोग विधत्ते -ग्राम्यैरिति । ग्रामैः सस्थापयति एते वै पशवः क्षेमानाम स पितापुत्राववस्यत समध्वानं क्रामन्ति समन्तिक ग्रामयोर्ग्रामान्तौ भवतः नक्षकाः पुरुषव्याघ्राः परिमोषिणः माव्याधिनीस्तस्करा अरण्येष्वेव जायन्ते । ( तै ० ब्रा० ३।९।१ (४ ) रोहितादिभिः पशुभिः प्रयोग समापयेत् । नषा पाशुक तत्तदङ्गावदानपूर्वकं देवयजन कुर्यात् । पशुओ से प्रयोग की समाप्ति करनी चाहिये । गवालम्भ और अविमेघ के सम्बन्ध में पहले बहुत बता चुके है । चातुर्मास्य के वरुण प्रवासपर्व में ब्राह्मण तथा श्रौतसूत्र ने पिष्टमय मेष-भेष्यादि के प्रयोग का विधान किया है । जो अज शब्द का लक्ष्य कर 'अजति सातत्येन गच्छति इति अज, न जायत इत्यज:' इन दो व्युत्पत्तियों से दो अर्थ सभव होते हैं-- एक सतत गतिशील पदार्थ, और दूसरा व्युत्पत्ति से जो उत्पन्न नही होता, नित्य वर्तमान है जैस - आत्मा, परमात्मा और प्रकृति | सूर्यमण्डल के चारो ओर भ्रमणशील पृथिवो हो 'अज' शब्द से कही गई है । दृढतारहित भूमि, अवि के समान कोमल होने से उसे 'अवि' कहा गया है । Tags वैसे ही अग्नीषामीय बज भी अग्नोषामगुणवाली प्रारंभिक अकृष्टपच्या पृथिवी का वाचक है । गोमय यदि प्रधान द्रव्यों के यांग से ऊसर भूमि को मग्नषोमाय धर्मवाला कृषियोग्य बनाना अग्नीषोमाय पशु का बलभन है । किन्तु

पृष्ठ 1149

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1149 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजात २०४७ , ':एते ग्राम्याः पशव क्षेम इत्येतन्नामार्हन्ति तै प्रजे पकारदर्शनात् । तस्मादारण्यपशुस्थापने पितापुत्रविरोधादयो 'ये दोषाः पूर्वमुपन्यस्तास्तेऽत्र न भवन्ति ॥ सस्थापन बधः । सम्पूर्वकस्य तिष्ठतेर्वधार्थत्वात् । अथ पत्नान्यः पत्नीयूपमुच्छ्रयन्ति सर्वत्वाय वेपत्नी यूप उच्छ्रीयते तत्वाष्ट्रपशुमालभते त्वष्टावैसिक्त रेतोविकरोति तदेषएवैतत्सिक्त रेतो विकरोति मुष्करो भवत्येषवे प्रजनयिताय मुष्करस्तस्मान्मुष्करो भवति तन्न सस्थापयेत् पर्यग्निकृत-मेवोत्सृजेत् सयत्सस्थापयेत् प्रजावेहान्तमियात्तत्प्रजामुत्सृजति तन्न सस्थापयेत् पर्यग्निकृतमेवोत्सृजेत्' । श० ३ ७।३।२ ) अत्रापि वषो निषिद्धः । पर्यग्निकृतस्य उत्सर्ग एव विहित । यथा तैत्तिरीये अश्वमेघप्रसङ्गे ग्राम्यपशूना संस्थापन-मारण्यानान्तत्सर्ग उक्त · तथैव शतपथेऽपि । ' स यद्ग्राम्यैः सस्थापयेत् समध्वानः क्रामेयु समन्तिक ग्रामयोर्ग्रामान्तौ स्याताम् नक्षकाः पुरुषव्य घ्राः परिपोषिणः आव्याधिन्यस्तकरा अरण्येष्वाजायेरन् पदारण्येर्व्यध्वान. क्रामेयुर्विदूर ग्रामयोर्ग्रामान्तौ स्याताम्' ( ०१३ | २| ४२) 'तदाहुः अपशुर्वा एष यदारण्योनैतस्य होतव्यं यज्जुहुयात् क्षित्र यजमानमरण्य मृतं हरेयुररण्यभागाारण्या. पशवो यन्नजुहु - I याद्यज्ञवेशसं स्यादिति पर्यग्निकृतानेवोत्सृजन्ति तव हुतन्नहुन्न यजमानमरण्य हन्ति न यज्ञवेशसं भवति' ( श० १३.२/ ४ ३ ) 'ग्राम्यैः सस्थापयति विपितापुत्राववस्यत समध्वानः क्रामन्ति समन्तिकं ग्रामयोग्रमान्तो भवतो नर्क्षीकाः पुरुषव्याघ्राः ' ( ). -परिमोषिण आव्याधिन्यस्तस्करा बरण्येष्वाजाय श ० १३.२१४४ तत्र हरिस्वामिन आरण्यान् पशून् पर्यग्निकृतानेवोत्सृजन्ति, ग्राम्यैःग्राम्येः सस्यापयतीत्येतावदत्रसस्थापयतीत्येतावदत्र विधीयते अभिप्रायस्तु पूर्ववदेव । किंच स्पष्टमेव . '' शतपथे अश्वादिसज्ञपनीयपशूना शासे भेदउक्त । हिरण्मयोऽश्वस्यहिरण्मयोऽश्वस्य शासोभवतिशासोभवति लोहमयाः पर्यड्यानामायसा ' ( ) इतरेषाञ्ज्योतिर्वैहिरण्यं राष्ट्रमश्वमेधः ज्योतिरेव तद्राष्ट्रे दधाति श० १३२/२०१६ हिरण्यपरिष्कृत विशसन-साधनं विहितमश्वस्य । अन्येषा पशूनान्तु ताम्रपरिष्कृता. शासा विहिताः । 'स्वयवाजिस्तन्व कल्पयस्वेति स्वयं रूप कुरुष्व यादृशमिच्छसोत्येवेनम्' ( श० १३ २७| ११ ) । 'न वा उ एतन्ाियसे नरिष्यसीति प्रश्वासयत्येवेन तद्देवां इदोष पथिभिः सुगेभिरिति देवयानमेव पथो दर्शयति' ( श० १३/२/७/१२ } इत्येवमादिभिरश्व महिम्ना समर्धयति प्रश्वासयति देवयानमागं च दर्शयति । 'अग्निः पशुरासीत् तेनायजन्त स एतं लोकमनयत् । यस्मिन्नग्निः स ते लोको भविष्यति तं जेष्यसि । वायुः ' '...पशुरासीत् तेनायजन्त स एत लोकमजयत यस्मिन् वायुः स ते लोकः सूर्यः पशुरासीत् तेनायजन्त यस्मिन् सूर्यः सते लोको भविष्यति तं जेष्यसि ( श० १३/ २/ ७/ १३-१४-१५ ) अग्निवायुसूर्यास्त पूर्वं पशव आसन् । एभिर्यंजन जातम् । तेनैव .ते अग्नि वायु- सूर्यपदानि प्राप्य महर्धयः सञ्जाताः । हे अश्व तवापि यज्ञ उपयुक्तत्वेन तद्वदेव तेषा लोकान् त्वमपि प्राप्स्यसि एवमाश्वास्य प्रोक्षणादिभिः सस्कृत्य देवा वा उदच स्वर्ग लोकन्न प्राजानस्तमश्वः प्राजानात् यदश्वेनोवो यन्ति स्वर्गस्य यह सब कुशकाशावलम्बन मात्र हो है । क्योकि अन शब्द छाग मे रूढ़ है । योग से रूढि बलवान् होती है । मुख्यार्थ के संभव रहते गोगार्थ का स्वीकार करना उचित नही रहता । पू० १५६ पर ऐतरेय ब्राह्मण के वचनो को देकर जो यह बताने का प्रयत्न किया है कि ' समस्त पशु अयज्ञीय हैं, केवल पुरोडाश ही यज्ञाय है । ' किन्तु वह प्रयत्न भी विफल है । क्योकि पशुपुरोडाश की प्रशंसा में तात्पर्य रहने स स्वार्थ में तात्पर्य नही है । अन्यथा तुम्हारे मत में भी उससे पूर्व तत्तत्पशुओ का बालभन सिद्ध रहने से पृथिव्यादि प्राकृत पशुओ के आलंभन से 'अधिदेव मुख्य यज्ञ होता है' इत्यादि कथन निराधार हा होगा । किञ्च तत्तत् आलम्भनों के विधान, स्वार्थ पर्यवसायी रहने से उनमे बालभन की ही प्रधा- नता है | और अर्थवाद तो स्तुत्यर्थ रहने से उसका स्वार्थ में पर्यवसान नही है, अत उसमें स्वार्थ की प्रधानता नहीं है । एवं च 'मवत्प्रानो की अपेक्षा तत्प्रधानों की प्रबलता हुआ करती है, इस नियम के अनुसार तस्प्रधानविधि के विरुद्ध होने से अर्थवाद की

पृष्ठ 1150

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1150 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०४८ वेदार्थपारिजात. लोकस्य प्रज्ञात्यै वासोऽधिवासंहिरण्यमित्यश्वायोपस्तृणन्ति यथा नान्यस्मै पशवे तस्मिन्नेनमधिसंज्ञपयन्त्यरेवेनन्तत्पशु- भिर्व्याकुर्वन्ति । 'घ्नन्ति वा एतत्पशु यदेनं संज्ञपयन्ति प्राणायस्वाहा व्यानायस्वाहेति संज्ञप्यमाने आहुतीजुहोति प्राणानेवास्मि- नेतद्दधाति तथाहास्येतेनजीवनैव पशुनेष्ट भवति' ( श० १३ | २| ८| १-२ ) इति श्रुतो स्पष्टमश्वस्य सज्ञपनमुक्तम् । गवालम्भसम्बन्धेतु पूर्वं बहुप्रपचितम् | अविमेधसम्बन्धेऽपि पूर्वमेव बहूक्तम् । चातुर्मासस्य वरुणप्रधासपर्वणि ( श० ५।५।२।१५ - १६ तथा कात्यायनश्रौतसूत्र ५।३।७ ) इत्यादिषु तथाविधानादेव पिष्टमयमेयभेष्यादिप्रयोगः । यत्तु बजशब्द प्रकृत्य - अजतिसातत्येन गच्छतीत्यजः, न जायत इत्यजः, इति व्युत्पत्तिद्वये गतिमत्पदार्था आत्म- परमात्मप्रकृतयो गृह्यन्ते । सूर्यमण्डलस्य चतुर्दिक्षुभ्रमणशीलायाः पृथिव्या एवाजशब्दवाच्यता । अदृढाया भमेरवेरिव कोमलत्वा- दवित्वम् । अकृष्टपच्याभूमिरजा । तथा च सोमप्रधानैर्गोमयादिभिः ऊषरभूमेः कृषियोग्यतासम्पत्तिरेव अग्नीषोमीयपश्वा- ( ),, लम्भन पृ ० १५५ मिति तदेतत्सर्वं कुशकाशावलम्बनम् अजपदस्य छागेरूढत्वात् । रूढयाच योगापहारात् । नहि सम्भवति मुख्यार्थत्वे गौणार्थाभ्युपगमो युक्तः । यत्तु - पुरुषं हवे देवाःपशुमालभन्त । तस्मादालब्धान्मेध उदक्रामत् । सोऽश्व प्राविशत् । तस्मादश्वो मेध्यो- ऽभवत् । अथैनमुत्क्रान्तमेघमत्यार्जत सकिंपुरुषोऽभवत् । तेऽश्वमालभन्त । सोऽश्वादालब्धादुदक्रामत् । स गां प्राविशत् । तस्माद् गौर्मेध्योऽभवत् । अथैनमुत्क्रान्तमेधमत्यार्जव सगौरमृगोऽभवत् । ते गामालभन्त स गोरालब्धादुदक्रामत् । सोऽवि- प्राविशत् । तेनाविर्मेध्योऽभवत् । अथैनमुत्क्रान्तमेघमत्यार्जत सगवयोऽभवत् । तेऽविमालभन्त । सोऽवेरालब्धादुदक्रामत् । सोऽजप्राविशत् । तस्मादजोमेष्योऽभवत् । अथैनमुत्क्रान्तमेघ मत्यार्जत सउष्ट्रोऽभवत् । सोऽनेज्योकूतभामिवारमत । तस्मादेष एतेषा पशूनां प्रयुक्ततमोयदजः । तेऽजमालभन्त । सोऽजादालब्धादुदक्रामत् स इमां प्राविशत् । तस्मादियं मेध्याऽभवत् । अथैनमुत्क्रान्तमेधमत्याजंत स शरभोऽभवत् । ते उत्क्रान्तमेधा अमेध्याः पशवः । तस्मादेतेषां( नाश्नीयात् ।) तमस्यान्वगच्छन्त' । सोऽनुगतोब्रीहिरभवत् । तद्यत्पशी पुरोडाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत् १ ऐ० ब्रा० २२८ सवा एष पशुरेवा- लभ्यते यत्पुरोडाश:' ( ऐ० ब्रा० २२ ९ ) अत्र ' आलब्धादित्यस्य आलब्धुमुद्युक्तादित्यर्थः । ' अत्यार्जत' इत्यस्य अतिशयेन वर्जितवन्त इत्यर्थः । इतिब्राह्मण मुद्धृत्योक्तम् ' याज्ञिकानां मतेन यशुयागात् पश्चात् क्रियमाणस्य पशुपुरोडाशस्य प्रशंसानेन क्रियते । किन्तु तावतापि स्पष्टमेतद्विज्ञायते यत् पुरुषः, अश्व:, गौः, अविः, अजः इतिसर्वेऽप्ययज्ञीया । केवलं पुरोडाश एव यज्ञीय इति' ( पृ ० १५६ ) तदपि यत्किश्चित् । पशुपुरोडाशस्य प्रशंसायां तात्पर्येण स्वार्थे तात्पर्याभावात् । अन्यथा त्वन्मतेऽपि ततःप्राक् तत्तत् पशूनामालम्भनसिद्ध्या पृथिव्यादिप्राकृतपश्वालम्भनेनाधिदेवी मुख्यो यज्ञोभवतीत्याद्युक्तिर्निरालम्बनैव स्यात् । किञ्च तत्तदालम्भनविधानानि स्वार्थपर्यवसायित्वेन तत्प्रधानानि । अर्थवादस्तु स्तुत्यर्थेन स्वार्था पर्यवसा यित्वादतत्प्रधानः । 'तत्प्रधानान्यतत्प्रषानेभ्यो बलीयासीतिन्यायेन तत्प्रधानविधिविरुद्धत्वादर्थंवा दस्य दुर्बलत्वेन बाघ एव दुर्बलता सिद्ध हो जाती है, इसलिये उसका बाधित होना उचित ही है । किंष - अर्थवाद को देखकर जबतक पश्वालंभन निषेध की कल्पना करेंगे उसके पूर्व ही प्रत्यक्ष जो बालभन विधि है, उससे उसका विधान हो जायगा । एवं च शीघ्र उपस्थित होने वाले विधानो से विलम्बोपस्थितिक निषेधो का बाघ हो सिद्ध होता है । इससे अजादि पशु भो में जो तुम्हारी अमेध्यत्वोक्ति है, उसका खण्डन हो जाता है । क्योंकि निन्दावाक्य को प्रवृत्ति निन्द्य को निन्दा के लिये नहीं हुआ करती, अपितु विधेय की स्तुति के लिये हुआ करती है । यह जो कहा है कि 'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाश:' नियम से पशु देवता के लिये ही पुरोडाश का विधान भी किया