वेदार्थ पारिजात - २ स्वामी करपात्री — पृष्ठ 1181–1190

वेदार्थ पारिजात - २ स्वामी करपात्री · पृष्ठ 1181–1190

पृष्ठ 1181

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1181 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः २०७९

नाकृत्वा प्राणिना हिंसा मासमुत्पद्यते क्वचित् ।

न च प्राणिवधः स्वर्ग्यस्तस्मान्मास विवर्जयेत् ॥

समुत्पत्तिञ्च मासस्य वधबन्धो च देहिनाम् ।

प्रसमीक्ष्य निवर्त्तेत सर्वमासस्य भक्षणात् ॥

वर्षे वर्षेऽश्वमेधेन यो यजेत शत समाः ।

मासानि च न खादेद्यस्तयोः पुण्यफल समम् ॥

निहन्ता क्रयविक्रयी । अनुमन्ता विशसिता खादकश्चेति घातका ॥ सस्कर्त्ता चोपहर्त्ता च फलमूलाशनैर्मेध्येर्मुन्यन्नाना च भोजनैः । यन्मासपरिवर्जनात् ॥ न तत्फलमवाप्नोति मा स भक्षयिताऽमुत्र यस्य मासमिहाद्म्यहम् । प्रवदन्ति मनीषिणःमनीषिणः ॥॥ ( मनु ० ४५-५५ ) एतन्मासस्य मासत्व

.....' गोधनो मासं यवान् पिबेत् ।

कृतवापो वसेद् गोष्ठे चर्मणा तेन सवृतः ॥

अक्षारलवण मितम् । चतुर्थकालमश्नीयात् मासौ नियतेन्द्रियः ॥ गोमूत्रेणाचरेत्स्नानं द्वौ पिबेत् । दिवानु गच्छेद् गास्तास्तु तिष्ठन्नुध्वं रजः वसेत् ॥ शुश्रूषित्वा नमस्कृत्य रात्री वीरासनं संव्रजेत् । ' तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वनु वीतमत्सरः ॥ आसीनासु तथासीनो नियतो सुचरितव्रतः । वृषभैकादशा गाश्च दद्यात् वेदविद्भ्यो निवेदयेत् ॥ ' मनु ० ११।१०८ - ११६ अविद्यमाने सर्वस्व इत्यादिना गवां बधे प्रायश्चित्तादिविधानात् सर्वथाऽपि गवां वधो निषिद्ध एव । रन्तिदेवादिकथासु मासभक्षणमविवक्षितं तर्हि कथं रन्तिदेवस्य महानसे गवा बन्धनादिकं स्मर्यंते, ननुयदि इति चेन्न, महाभारतकूटश्लोकाना कूटत्वेन सर्वज्ञानागोचरत्वात् । अष्टो श्लोकसहस्राणि अष्टौ श्लोकशतानि च । अहं वेद्मि शुको वेत्ति सञ्जयो वेत्ति वा न वा ॥ ( म ० भा० १ १ ४१ ) इति भारतोक्ते: । यदि कोई कहे कि रन्तिदेव की कथा में मास भक्षण यदि विवक्षित नही है, तो उसके महानस में गौएँ क्यों बन्धी रहती थी? किन्तु इस शका का समाधान सरल है कि महाभारत के कूटश्लोको का वास्तविक अर्थ, सर्वज्ञ ही समझ सकता है, अल्पज्ञ मानव | की बुद्धि के परे वे सब है । महाभारतकार व्यास स्वयं कह रहे हैं- " अष्टों श्लोकसहस्राणि अष्टी श्लोकशतानि च । अहं बेद्मि शुको वेत्ति सञ्जयों वेत्ति वा न वा ॥ "

पृष्ठ 1182

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1182 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः २०८० --- तद्यथा- 'गोकर्णा सुमुखीकृतेन इषुणा गोपुत्रसम्प्रेषिता सुव्यक्तगोऽसुप्रभम् ॥ गोशब्दात्मजभूषणं सुविहितं गोशब्दगोपूरि वे दृष्ट्वा गोगतकं जहार मुकुटं गोकर्णासनमर्दनश्च न ययौ अप्राप्य मृत्योर्वशम् । ' ( म ० भा० कर्णपर्व ९ ०।४२ ) अत्र पद्ये सप्तवारं गोशब्दः प्रयुक्तः परं तत्र न कोऽपि गोबोधकः । तथैव रन्तिदेवकथायामपि गोशब्दः कूट एव । क्वचित् स पशुसामान्यबोधकः क्वचिच्च गोदुग्धादिपरः । यदि रन्तिदेवोऽतिथीन् मास दद्यात्तदा यज्ञशिष्ट स्वयमपि ' || ( / ) खादेत् । परन्तु रैवते रन्तिदेवेन । एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् अनुशासनपर्व ११५ ७२-७७ इति स्पष्टं तस्यामासाशित्वं विज्ञायते । गृहानभ्यागतान् विप्रान् अतिथीन् परिवेषकाः । वरान्नममृतोपमम् ॥ (द्रो० प० ६७ २) पक्वापक्व दिवारात्र अत्रामृतोपमान्दवरान्नपरमान्नादिप्रदानमेव विज्ञायते । तस्मात्- ' राज्ञो महानसे पूर्व रन्तिदेवस्य वै द्विज । पशूनामन्वह सदा || द्वे सहस्रे तु बध्येते तदा । अहन्यहनि वध्येते द्वे सहस्रे गवा रन्तिदेवस्य नित्यशः ॥ ' ( वनपर्व २०८८९ ) स मांसं ददतो ह्यन्नं ' ' ( इत्यत्रापि गोपदेन पशव एव ग्राह्याः । आलभ्यन्त शतं गावः सहस्राणि च विंशतिः शान्तिपर्व २ ९ । १२४ अत्रापि पशुसामान्यमेव गोपदार्थः, अमरकोषे गोपदस्य पश्वर्थत्वावगमात् । ' उपस्थिताश्च पशवः स्वयं यं शंसितव्रतम् । ' ( ) बहवः स्वर्गमिच्छन्तो विधिवत्स्वर्गयाजिनम् ॥ द्रोणपर्व ६६।४ गोपदानां गोवृषाद्यर्थत्वेऽपि बद्धयेते इत्यस्य बन्धनार्थत्वेन वधार्थंकत्वाभावात् । बन्धनं च दुग्धदोहनार्थमेव, न वधार्थम् | हन्तेर्लिङि लुङि च वधादेशविधानात् । तस्माद् बन्ध बन्धने इत्यस्यैव बध्येते इति रूपम् । यदि रन्तिदेव अतिथियों को मास देता तो यज्ञशिष्ट मास को स्वयं भी खाता, परन्तु 'रैवते रन्तिदेवेन...........'एतैवान्यैश्र राजेन्द्र पशुमासं न भक्षितम् ( अनु ० प ० ११५ / ७२-७७ ) इससे उसका अमासाशित्व स्पष्ट हो रहा है । उसके महानस मे दुग्ध दोहन के लिये गौएँ बँधी रहती थीं, वध के लिये नही । लिड् और लुड् लकार में हन घातु को वधादेश का विधान होने से बन्ध बन्धने का 'बध्येते' रूप है । कूटपयों के अर्थ समझ में न आने के कारण आधुनिकों को उनमें गोमास भक्षण ही प्रतीत होता है ।

पृष्ठ 1183

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1183 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वार्थपारिजातः २०८१ आयुर्वेदग्रन्थेषु ' चूतफलेऽपक्वे केसरमासास्थिमज्जानो न पृथक् दृश्यन्ते । ' ( सुश्रुतशारीर ३ ) अत्र सारो मास-मष्टिरस्थि, अशान्तरं मज्जा उच्यते । 'समांसं मधुरं प्रोक्तम्' इत्यत्र मदनपालेन निघण्टौ बदरीफलस्य साराशो मासमुक्तम् । 'स्वादु शीत गुरु स्निग्धं मासं मारुतपित्तजित्' ( सुश्रुतसूत्र ४६। १२ ) अत्र मातुलुङ्गफलस्य सारो मासत्वेनोच्यते । 'भल्लात-कास्थ्यग्निसम त्वड्मांसं स्वादु शीतलम्' ( चरक सू० २७।१६५ ) अत्र भल्लातकस्य बीजमस्थित्वेन वल्कल त्वक्त्वेन सारं मासत्वेनोच्यते । ' खर्जूरमांसान्यथ नारिकेलम्' ( चरक चिकित्सा २०/२७ ) अत्र खर्जूरस्य भक्ष्यभागस्य मासत्वमुक्तम् 1। तथैव दुग्धसारभाग कूर्चादिक मांसपदवाच्यं भवति । गोशब्देन दुग्धमुच्यते इत्यपि पूर्वमुक्तमेव । 'आलभ्यन्त शत गावः सहस्राणि च विशतिः । ' इति विशतिलक्षगवा रन्धने भोक्तार. प्रतिपशु शतसख्याकाश्चेत् कथ्थ तेषामेकत्रावस्थान भोजनञ्च सम्भाव्येत, तावतीनां दुग्धकूर्चाद्यर्थं तु बन्धने न काचिदनुपपत्तिः । सहस्रशश्च सौवर्णान्वृषभान्गोशतानुगान् । अध्यर्धमासमददद् ब्राह्मणेभ्यो शत समाः ॥ (द्रोणपर्व ६७ १०-११ ) अत्र तु गवा वृषभाणाञ्च दानमेवोक्तम् । ' महोक्षञ्च महाजञ्च श्रोत्रियायोपकल्पयेत्' इति याज्ञवल्क्यवचने- नैकवाक्यता भवति । वध्येते इत्यस्य वधार्थत्वेऽपि वधोऽपि दण्डैस्ताडनमतिथीनां पार्श्वे नयनार्थमेव । ' अघासु हन्यन्ते गावः' इति मन्त्रव्याख्याने दण्डैस्ताडयन्ने प्रेरणार्थम्, इतिसायणोक्तेः । न हननं प्राणवियोगा-पादनम् | 'आलभ्यन्त शत गावः' ( म० भा० ) इत्यत्रापि स एवार्थः । पाकशालायां द्विसहस्रगवा वधी नोपपद्यते । पाकशालासु पाकस्यैवोपपन्नत्वात् । 'उपस्थिताश्च पशवः स्वयं यं शंसितव्रतम् । बहवः स्वर्गमिच्छन्तः विधिवत्स्वर्गयाजिनम् ॥ ' ( म ० भा० ) ' 'द्रो० प ० इत्यत्रापि स्वर्गप्राप्त्यर्थं दुग्धदानार्थमेव स्वयमेव पशव उपस्थिता भवन्ति स्म । ब्राह्मणेभ्यः शतं समाः ( म० भा० १०/६७| ११ ) प्रतिदिनं वनपर्वरीत्या द्विसहस्राणां द्रोणपर्व ६७| १६ रीत्या २१ सहस्राणा शान्ति २९।१२७ ?विशतिलक्षाणां गवां मारणं सहस्रशश्च गोशतानुगानां वृषभाणां दानं कथ वा सम्भाव्येत शतपथविरोधश्च उक्त एव । ( हन हिंसागत्योः ) - हनधातोश्च गमनमर्थः । निघण्टौ ( २।१४ ) गतिकर्मकेषु हन्तेः पाठाञ्च । वधकर्म केषु हते- रालभतेश्च पाठादर्शनाच्च न हन्तेरालभतेश्च प्रकृते वधार्थता । निघण्टुनिर्वचनं कुर्वता 'निगमा इमे भवन्ति' ( १ | १३ ) इति गम्धातोः प्रयोगः । 'आहननादेव स्युः' ( १1१ ) इह च गम् इति स्थाने हन्तेः प्रयोगः समानार्थंकतावशात् टीकाकारैः हन्तेः पठनार्थताऽङ्गीकृता । ' हन्तेः पठनार्थ वर्तमानस्यानेकार्थत्वाद्धातूनाम् । प्रसिद्धश्च पाठार्थं हन्तेः प्रयोगः । एवं हि वक्तारो भवन्ति ब्राह्मणे इदमाहृतम् सूत्रे इदमाहतमिति' दुर्गाचार्यः । तथा च गावः आलभ्यन्त इत्यत्र न गवां भारणमर्थः, किन्तु दानार्थं स्पर्श एवार्थ:, ( डुलभष प्राप्तौ ) इति स्मरणात् । यथा महाभारते उद्योगपर्वणि ' ऋषभ पृष्ट आलभ्य ब्राह्मणान् अभिवाद्य च । ' ( ८३| १० ) 'गामालभ्य विशुद्धयति' ( मनु ० ५१८७ ) अत्र स्पर्श एवार्थः । 'स्त्रीणां प्रेक्षणालम्भे' ( मनु ० २।१७९ ) अत्रापि स्पर्श एवार्थः । यजमानमालभते 'कोऽसि ’ ( वा० सं० २०१४ ) उव्वटमहीधरौ । 'का० श्रौ० सू० १ ९ | ४| १९' अत्र आलभनं स्पर्श एव | 'ब्रह्मणे ब्राह्मणमालभतें' ( तै० ) ' ( ) ब्रा ० ३।४।१-१९ अत्र सर्वत्रोत्सर्ग एव भवति न मारणम् । अथास्यै हृदयमालभते पारस्करगृह्यसूत्र ११८५ अथास्य किञ्च रन्तिदेव की कथा मे वधिको की संख्या नही बताई गई, किन्तु पाचकों की दो लाख संख्या बताई है । कूटपद्यो में चर्मण्वती नदी का वर्णन भी दिखाई देता है । वहाँ यह समझना चाहिये कि दुग्धसारनिर्मित रसमोदक पदार्थ भी गाविकार होने से गो शब्द से कहे जा सकते है । उनके ऊपरी भाग को चर्म शब्द से कहा जा सकता है । उनको हटाकर उन्हें ( भीतरी भाग को ) ब्राह्मण २६१

पृष्ठ 1184

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1184 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०८२ वेदार्थपारिजातः हृदयमालभते' ( पा ० गृ० २/२/१६ ) अत्र सर्वत्र स्पर्श एव । 'अक्षान् यद बनून् आलभे ' ( अथर्ववे० स० ७ ११४।७ ) अत्रापि अक्षाणा स्पर्श एव । कुमार जातं पुरा अन्येरालम्भात् सर्पिर्मधुनी हिरण्येन प्राशयेत्' ( आश्व ० गृ० सू० १।१५।१ ) एवं सनातन- धर्मालोके षष्ठे पुष्पे बहूनि प्रमाणान्युद्धतानि । तथा दानार्थं दुग्धदोहनार्थं स्पृश्यन्ते स्म गावः । ततः शत समाः, अपरिगणि- तानामतिथीनां भोजने दुग्धदधिघृतकूर्चादिप्राप्त्यर्थं गवां स्पर्श एव । अत एव -- तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः । सूपं भूयिष्ठमश्नीध्व नाद्य मासं यथा पुरा । (म ० भा० द्री० प ०६७।१८ ) यदि २१ लक्षपरिमिताना गवां प्रतिदिनं वधोऽभिप्रेतः स्यात्तदा मांसमद्य नास्ति सूपं भूयिष्ठमश्नीध्वमित्यस्य कथं संगतिः स्यात्, तस्मादत्रापि मांसमित्यस्य दुग्धसारकूर्चादिकमेव मन्तव्यम् । मासमस्त्येनेति व्युत्पत्त्या अर्शआद्यच् प्रत्यये मांसशब्दस्य मामलं दुग्धसारादिकमेवार्थ:, श्लोकस्य कूटरूपत्वाच्च । ' अर्हयेत् प्रथमं गवा ' ( मनु ० ३।३ ) इत्यनेन यथा स्नातकस्य गवा सत्कारो गोदुग्धादिनैव भवति, तथैव प्रकृते-ऽपि न चासा मासमश्नीयात्' ( अनु ० प० ७८ १७ ) इत्यत्र गोभक्षणं निषिद्धमेव । कूटपद्यानामर्थानभिज्ञानादेवाधुनिकानां तत्र गोमासभक्षणं प्रतोयते रन्तिदेवकथायाम् । किञ्च, रन्तिदेवकथायां वधिकाना संख्या नोक्ता, किन्तु पाचकाना द्विलक्षसंख्योक्ता । ( द्रोणपर्व ६७।२ ) कूट- पद्यत्वादेव तत्र चर्मण्वतीनदीवर्णनं दृश्यते । तत्रापि दुग्धसारनिर्मितरसमोदक ( रसगुल्ला ) ( गुलाबजामुन ) आदि-पदार्थान्तरमेव ॥ गोविकारत्वात् गोपदवाच्यता, गोभिः श्रीणीत मत्सरमितिवत् । तेषामुपरिभागाश्चर्माण्युच्यन्ते तान्यनपसार्य ब्राह्मणाः भक्षयन्ति स्म । तेषामपमारिताना चर्मणा येन चर्मण्वती नदी प्रवर्तिता । यथाऽद्यत्वेऽमुकदेशे घृतदुग्धनद्यः प्रवहन्ति । घृतकुल्यामधुकुल्यादिचर्चा वेदेऽपि दृश्यते । पाश्चात्येषु सुराकुल्याचर्चा भवति । अत एव-नदी महानसाद् यास्य प्रवृत्ता चर्मराशितः । तस्माच्चर्मण्वती पूर्वम् ॥ ( द्रो० ६७/५ ) अन्यथा चर्मणा प्रवृत्ता नदी अद्ययावत् प्रवहतोत्युक्तिः कथं संगच्छेत? गोमेधः ननु यद्यपि 'मा हिंस्यात् सर्वा भूतानि' इति श्रुत्यनुसारेण यज्ञादन्यत्र सर्वेषामपि प्राणिनामवध्यत्वमेवोक्तं तथापि यज्ञे विहितानां पशूनां वधो भवत्येव, तथैव गोमेधयज्ञे गवां वधोऽभ्युपगन्तव्य एवेति चेन्न, गवामध्न्यपदव्यपदेश्यताया वैशेष्यात् । न च सर्वेषां पशूनामन्यत्वव्यपदेशो दृश्यते वेदे, न चाश्वमेधसाहचर्यादश्वस्येव गवामपि गोमेधे वधोऽभ्युपगन्तव्य इति वाच्यम्, तथात्त्रे सर्वमेध इत्यत्र सर्वस्यैव वध्यत्वापत्तेः । गृहमेध इत्यत्रापि न गृहवधोऽथं स्यात् । खाते थे । उन अपसारित किये चर्मों के रस से चर्मण्वती नदी बहने लगो । जेस आज भी कहते हैं किसी जगह घी, दूध को नदियाँ वह रह रही है । घृतकुल्या, मधुकुल्या आदि की चर्चा वेद में भी दिखाई देती है । पाश्चात्य देशो में सुराकुल्या की चर्चा होती है । यही कल्पना उचित प्रतीत होती है, अन्यथा चर्म से प्रवृत्त हुई नदी का प्रवाहित रहना आज तक कैसे संगत हो सकता है? गोमेष कुछ लोग यह जिज्ञासा करते है कि यद्यपि 'मा हिस्यात् सर्वाभूतानि; इस श्रुति के अनुसार ( यज्ञ के अतिरिक्त ) सभी प्राणी अवश्य बताये गये हैं । तथापि यज्ञ में विहित पशुओं का तो वध किया ही जाता है । उसी तरह 'गोमेष यज्ञ' में 'गोवध' को भी 3

पृष्ठ 1185

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1185 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः २०८३ 'न हिस्यात्' इति वचनेन सर्वस्याहिस्यत्वोपपत्त्या पुनस्तत्र तत्र गवामघ्त्यत्वव्यपदेशाद् गवां यज्ञेऽयज्ञे सर्व-श्रवाध्यत्वं सिद्धयति । तस्मादन्यत्र न हिस्यादिति हिसानिषेधेऽपि ' अग्नीषोमीय पशुमालभेत' इति विशेषवचनाद् यागे विहित-पशूना वधो भवति तथैव गवामपि वध्यत्वप्राप्तो तन्निषेधार्थमेव पुनस्तेषामवध्यत्वबोधनाय अघ्न्यत्वोक्तिः । 'ब्राह्मणो न हन्तव्य' इतिवद्विशेषनिषेधात् । अत एव ' ब्रह्मणे ब्राह्मणमालभेत' इत्यादावुत्सर्ग एव । अतो महाभारतेऽपि- अघ्न्या इति गवा नाम के एता हन्तुमर्हति । ( ) महच्चकाराकुशल वृष गामालभेत्तु यः ॥ शान्तिपर्व २६३।४७ यज्ञपूर्त्यर्थं व्रीहिमयेन पशुना तत्पूत्तिः । तदपि महाभारते प्रोक्तम्- I श्रूयते हि पुराकाले नृणां व्रीहिमयः पशुः । येनायजन्त ( ) यज्वानः पुण्यलोकपरायणाः ॥ म० भा० अनुशासनपर्व ११५/५६ 'विधिदृष्टेन यज्ञेनयज्ञेन धर्मस्तेषुधर्मस्तेषु महान् भवेत् । सहस्राक्ष त्रिवर्षभरमोषितै ॥ यज बीजे 'पशवो वै धानाः' ( गो० ब्रा० २२४१६ ) इति गोपथोक्तः, ( ० १ २ ३ ७ ) इति शतपथोक्तेश्च । 'ब्रीहिधेनुरपि भवति' अनुशासन ७१ ४०, ७३। ३७ । तिलधेनुवर्णनञ्च दृश्यते । ७१ ३ ९, घृतधेनु ७१ ४१ जलधेनुस्तथैव यवधेनु मृत्तिकाधेनु. सुवर्णधेनु -प्रभृतीनां दानवर्णनं दृश्यते । शातातपस्मृतौ च ( २०४८ ) शर्कराधेनुघृतधेनु रत्नधेनु वर्णनं, दधिधेनु ४ ९, दुग्ध- धेनु: ४।८, मधुधेनुः ४ १०, गुडधेनुः ४ ११, रौप्यधेनु: ५।२७, पिष्टपश्वादिकमपि दृश्यते । गोयज्ञे गोधूमशब्दं मत्वा 'विनापि प्रत्ययं पूर्वोत्तरपदलोपः' इति वार्त्तिकेन धूमलोपं कृत्वा गाधूमपिष्ट-निर्मितपशुना कृतो यज्ञो गोयज्ञ उच्यते । तत्र व्रीह्यादिनिर्मितया गवा होमो भवति । यद्यपि तादृशेऽपि यज्ञे हिंसा भवति, तथापि यज्ञिया तादृशी हिंसा अहिंसैव भवति । अथर्ववेदस्य नवमसूक्के शतोदनाया गोर्याग उक्तः । तत्र शतसख्याकैस्ततोऽप्यधिकैर्वा ओदनेगनिमयते । शतशब्दोऽनेकार्थवाची । तस्याः शमनं ( मारण ) पाक: ( स्वर्गगमनम् ) अस्थिलोहितादिशब्दा उपचारेण वर्तन्ते । तद्यथा- मान लेना चाहिये । किन्तु उक्त जिज्ञासा का समाधान यह है— अन्य प्राणियो की अपेक्षया गो' ' की यह विशेषता है कि उसे ' अन्य ' शब्द से बताया गया है । अन्य पशुओ को 'अन्य' शब्द से नही कहा गया है । यदि यह कहा जाय कि अश्वमेघ के साहचर्य से अश्व के समान 'गो' का भो, गोमेव मे वध क्यों न हो? किन्तु ऐसा नही कह सकते । क्योकि वैसा कहने पर ' सर्वमेध' यज्ञ में सभी को वध्य समझना होगा । गृहमेध' यज्ञ का 'गृहवध' अर्थ किसी ने नही किया है । तथापि पुनः शंका हो सकती है कि 'न अयज्ञहिंस्यात्' वचन से यद्यपि सभी प्राणी अवध्य माने जाते हैं, तथापि 'गौ' की जहाँ जहाँ 'अध्यता' बताई गई है, उस कारण यज्ञ में में सर्वत्र ही 'गो' की अवध्यता तो स्पष्टतया सिद्ध हो जाती है । अन्य सभी प्राणियो की अवध्यता 'न हिस्यात्' इस वचन से जब कही गई है तब पुन: 'अन्य' कहने की आवश्यकता नही, तथापि जैसे 'अग्नीषोमीयं पशुमालभेत' इस विशेष वचन से यज्ञ मे विहित पशुओ का वध किया जाता है, वैसे ही 'गोमेघ ' यज्ञ में गौ के विहित होने से उसकी बध्यता भी प्राप्त हो सकती है, अत उसके निषेधार्थं ( निवारणार्थ ) हो पुनश्च उन ( गौओ ) के अवध्यत्व को बताने के लिये बार बार सर्वत्र ' अन्य' शब्द का प्रयोग किया गया है । 'ब्राह्मणो न हन्तव्यः' के समान विशेषरूप से यह निषेध किया गया है । अतएव 'ब्रह्मणे ब्राह्मणमालभेत' में व्राह्मण का उत्सर्ग ही किया जाता है । गोवध विना किये ही गोमेध यज्ञ की पूर्ति का विधान महाभारत, गोपथब्राह्मण, शतपथब्राह्मण आदि अनेक ग्रन्थो में बताया गया है । 'गोयज्ञ' में 'गोधूम' शब्द को मानकर 'विनापि प्रत्यय पूर्वोत्तरपदयोर्वा लोगे वाच्यः' ( पा० अ० ५1३ ) वार्तिक से ' घूम' पद का लोप कर गोधूमपिष्टनिर्मित पशु के कृत यज्ञ को 'गोयज्ञ' कहा गया है । उसमें वाहि आदि से निर्मित गो से होम किया जाता

पृष्ठ 1186

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1186 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०८४ वेदार्थपारिजातः 'ये त्वा देवि शयितारः पत्यारो ये च ते जनः । ' ( / / ) ते त्वा सर्वे गोप्स्यन्ति मा एभ्यो भैषीः शतोदने । अथर्ववे० सं ० १० ९ ७ तस्माद् गोमेधेन जोवितप्रत्यक्ष गोरूपयोगः । यत्र च हवनीयपश्वङ्गाना ऋत्विग्भ्यो विभाग उक्तस्तत्रापि व्रीहिनिर्मितपशोरेव विभागो विज्ञेयः । यथा 'ब्रह्मगे मनो दद्यात्, अध्वर्यवे प्राण होतृभ्यः श्रीतम् ।' ( आपस्तम्ब श्री० सू० १३/६/६ ) इति मनआदिदानं न हिंसापूर्वकम्, किन्तु भावमयमेव, तथैव गोयज्ञेऽपि वेदा गवामघ्न्यत्वं घोषयन्ति । 'अन्नं हि गौ:' (शत ० ४| ३| ४ | २५ ), ' आज्यं मेघ: गावस्तण्डुलाः ' ( अथर्ववे ० सं ० ११/२/५ ) तेन तण्डुलानां होमोऽपि गोमेधः संभवति । अश्वमेधयज्ञे यद्यप्यश्वस्य प्रत्यक्षस्य प्रयोगो भवति, तथापि विशिष्टेविधानेरोषधैश्च तस्य कायकल्पेन दिव्यत्व- मापद्यते । न च सर्वेऽश्वा अश्वमेधार्हा भवन्ति, किन्तु श्यामकर्णसज्ञ कोऽतिदुर्लभ एवाश्वस्तत्रोपयुज्यते । प्रजापत्यभेदबुद्धया तदुपासनमपि बृहदारण्यकादी विहितम् । 'उषा वा मेध्यस्य अश्वस्य शिर ' इत्यादिना कायाकल्पेन दिव्यभावापन्नस्य तस्य रक्तादयः सर्वेऽपि धातवः शुद्धयन्ति । तद्वपाया होमे वपाधूमगन्धः पापापहो भवति ।

'तं वपा धूपगन्धं तु धर्मराजः सहानुजेः ।

' उपाजिघ्रद् यथाशास्त्रं सर्वपापापहं तदा ॥

( महाभारत आश्वमेधिकपर्व ८९१४ ) साधारणाश्ववसामांसादीनामग्नी दुर्गन्धमसह्य भवति । परन्तु वैधानिकप्रक्रियया तस्य रक्तादेर्दिव्यत्वे सत्येव वपाहोमधूम आधेयः पापनाशकश्च भवति । 'ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिनिर्हरेति' ( ऋ० सं ० ११ १६२।१५ । ) अत्राग्निपक्वस्याश्वस्य शोभनगन्धत्वमुक्तम् । 'ततो धोम्यो हयस्याशु वामं कर्णं न्यपीडयत् । ततो दुग्धस्य धारा तु निर्गता जनमेजय ॥ ' ( जे ० अ० ६४।१ ९-२० ) एवमपि तस्यासाधारण्यं व्यज्यते । विशसनेन शिरः सूर्यं प्रविष्टं देहस्तु कर्पूरमयो जातः । 'ऊर्ध्वगतं तच्च शिरो न चाधः सूर्यं प्रविष्टं किल वह्निरूपम् । ' ( ६४।२२ ) । है । यद्यपि उस जैसे यज्ञ में भी व्रीहियों को हिंसा कही जा सकती है, तथापि यज्ञविहित होने से उसे हिमा गया है । गोमेघ में या गोयज्ञ मे प्रत्यक्ष गो का उपयोग नही होता है । जहाँ कही हवनीय पश्वंगों का ऋत्विजोन कहकर महिमा हो कहा , ' ', ', ' ( गया है वहीं ब्रोहिनिर्मित पशु का ही विभाग होता है । जैसे ब्रह्मणे मनो दद्य त् मध्वर्यवे प्राणं होतृभ्यः श्रोत्रम्के लिये विभाग कहा १३/६/६ ) इस वचन से मन आदि का दान, हिंसापूर्वक नही किया जाता, किन्तु केवल भावमय ही किया जाता है । आवेदों० श्र ० सू० के अन्य होने की घोषणा कर दी है । 'अन्नं हि गौ': ( श ० १० ४ | ३| ४| २५ ), 'गावस्तण्डुलाः' ( अथर्व स० ११।२१५ ने तो 'गौ' ' ' ) से तण्डुलो से होम करने पर भी गोमेध का अनुष्ठान हो सकता है । इन वचनो अश्वमेषयज्ञ मे यद्यपि अश्व का प्रत्यक्ष उपयोग किया जाता है, तथापि विशिष्ट विधानों से तथा औषधियो से उसका कायाकल्प किया जाता है, उस कारण दिव्यता प्राप्त होती है । सभी अश्व, मश्वमेघ के योग्य नहीं होते । केवल श्यामकर्ण अश्व, योग्य रहता है जो अत्यन्त दुर्लभ है । बृहदारण्यक में प्रजापति और अश्व दोनों में अभेद बुद्धि करके उसकी ही उस यज्ञ के, पर निकलनेवाला कायाकल्प होने से दिव्यभावापन्न हुए उस अश्व के रक्तादि सभी धातु शुद्ध हो जाते हैं । उसकी वपा का होम उपासनाकरने भो बताई है । वपाधूम गन्ध, पापनाशक माना गया है । साधारण अश्व की वसा, मांस आदि अग्नि में जलने पर अत्यन्त दुर्गन्ध फैलती है, किन्तु

पृष्ठ 1187

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1187 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजात २०८५ शुद्धं ज्ञात्वा हृषीकेशस्तुतीदैन र स्थले । पावनः ॥ वेल्वेन कण्टकेनापि भिन्नः कृष्णेन अत्र....मेध्यस्याश्वस्य शुद्धत्वं पावनत्वञ्चोक्तम् । , ततो दुग्धधाराप्रवाह देहस्य कर्पूरत्वापत्ति निर्गता दुग्धधारानु तुरगस्य कलेवरात् । एवविधो न कस्यापि शुद्धपूर्वस्तुरङ्गम ॥ ६४।२३–२५ तेषा संवदतामेव तुरङ्गमकलेवरात् । || निर्गतं सुमहत्तेजः प्रविष्ट केशवानने पश्चाच्छरीर भूत्वा कर्पूरमेव तत् । विभूतिरिव रुद्रस्य च्युता गात्रादशोभत ॥ २७-२८

विस्मिता मुनयस्ते तु कर्पूरं वीक्ष्य तेऽभवन् ।

कर्पूरं जुहुवुस्ते तु होमकुण्डे तु तत्क्षणात् ॥ ६४ ॥।

मोचिता पशवः सर्वे ये च यूपे नियोजिताः । ६४/५२ , यथाद्यत्वे वैद्य वृद्धस्यापि कायाकल्पेनकायाकल्पेन युवत्वमापादयन्तियुवत्वमापादयन्ति तद्वद् विशिष्टे विधानैर्भोजनै मंन्त्रेश्चाश्वस्य दिव्यत्वमापाद्यते स्म । कलियुगे तदसभवं दृष्ट्वाऽश्वमेधो निषिद्ध । यथा योगिनो विविधाभि. क्रियाभिः नेतिधौतीवस्त्रवस्ति-वज्रोत्यादिप्राणायामैर्देहशोधनं कुर्वन्ति । तेन शरीरं शुद्धं प्रतिश्यायादिरहितं भवति । अश्वमेधे राजमहिष्या सहवासे अश्लीलसम्बन्धिसमाधानं तु पूर्वमेवोक्तम् । वाल्मीकिरामायणेऽपि - पतत्रिणस्नस्य वपामुद्धत्य नियतेन्द्रियः । ऋत्विक्परमसम्पन्न श्रावयामास शास्त्रत ॥

धूमगन्धं वपयास्तु जिघ्रति स्म नराधिः ।

यथाकालं यथान्याय निर्णुदन् पापमात्मनः ॥

हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः । अग्नी प्रास्यन्ति विधिवत् समस्ताः षोडशत्विजः ॥ १।१४।३६-३८ राजमहिषी त परिचर्य्यं चक्रवतिपुत्रं जनयति । वाजीकरणवेशेष्यञ्च ततो लक्ष ते । कलियुगे तादृशसाधना-भावादेव अश्वालम्भं गवालम्भं संन्यासं पलपैतृकम् । देवराच्च सुतोत्पत्तिं कलौ पञ्च विवर्जयेत् ॥ इत्युक्तम् । वेदोक्त वैधानिक प्रक्रिया से उसके रक्तादि धातुओ में दिव्यता आने के कारण ही वपाहोम धूम, माधेय और पापनाशक हो जाता है । उसके शरीर से दूध की धार प्रवाहित होतो है, उसका शरीर कर्पूरमय हो जाता है, कर्पूर की सुगन्ध सर्वत्र महकने लगती है । उसके शरीर से निकला तेज भगवान् के मुख मे प्रविष्ट हो जाता है । जैसे धन्वन्तरी के समान महान् वास्तविक आयुर्वेदवेत्ता वैद्य लोग वृद्ध को भी कायाकल्प के द्वारा युवा बना देने की क्षमता रखते हैं, और वृद्ध को युवा बना देते है, उसी तरह वेद विहित विशिष्ट विधानो से भोजनो से, मन्त्रो के द्वारा ऋषिगण अश्व में दिव्यत्व प्राप्त करा देते थे, किन्तु माज कलियुग में यह सब यथाविधि " विधान का होना संभव न देखकर कलियुग में इस यज्ञ के अनुष्ठान का निषेध कर दिया गया है । जैसे योगी लोग नेति, धौती, वस्त्रवस्ति, वज्रोली, प्राणायाम आदि विविध यौगिक प्रक्रियाओ से अपने देह का शोधन कर अपने शरीर को शुद्ध प्रतिश्यायादिरहित करते हैं ।

पृष्ठ 1188

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1188 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः २०८६ गोमेधस्तु - गवामघ्न्यत्वाद् व्रीह्यादिमयेन गोदेहेनैव निर्वर्त्यते । कलियुगे तु व्रीह्यादिमयगोमेधोऽपि निषिद्धः । , नरमेधेऽपि नरो न हन्यते किन्तुत्सृज्यते शुनःशेपस्यान्ते मोक्षदर्शनात् । यदपि गृह्यसूत्रेषु शूलगवे उक्ष्णो वृषभस्य वाऽऽलम्भनं भवति, 'रुद्राय वलिः समप्र्प्यते' आश्वलायनगृह्यसूत्रे इति, तदपि तुच्छम् अघ्न्य पदप्रयोगविरोधात् । तत्र तदङ्गाना स्पर्शपूर्वक तदङ्गाना रुद्राय निर्मञ्छनमेव क्रियते । तस्याप्युत्सर्ग एवालम्भः । त्यागस्य मरणरूपत्वोक्तेः । तदङ्गानां स्पर्श एवात्राप्यालम्भनम् । 'पशुना रुद्र यजेत' इत्यस्य पशु रुद्राय ददातीत्येवार्थ. । ' यजेः कर्मणः करणसंज्ञा सम्प्रदानस्य च कर्मसंज्ञा' (वार्त्तिक १\ ४( ३२ ) यजतेश्च सगतिकरणमर्थं । तच्च देवस्य नाम्ना तद्दानमेव । यत्तु तदङ्गानामग्नय उपहारो दर्शितः, तत्रापि अग्निपदेन रुद्र एवेष्ट: । 'तस्मै रुद्राय नमो अस्तु अग्नये ' इति श्रुतेः । 'तस्मात्तस्यैतान्यङ्गानि रुद्राय' रुद्रनाम्ना दानमेव बलिः । रुद्रो वृषभध्वजः पशुपतिश्च । शूलगवे प्रयुक्तस्योक्ष्णोऽरण्ये उत्सर्गः । न ग्रामे तदानयनम् । अतः प्राचीनकालेऽपि गोमेधे न गवा हनन भवति स्म । किच 'मुग्धा देवा उत शुना अयजन्त उत गोभिरङ्गेः । पुरुषा अयजन्त ' ( अथर्व० वे० सं ० ७/५/५ ) अत्र गोभियं यजन्ति तेषां मूढत्वमुक्तम् । देवा इत्यनेन पिशाचरूपा एव देवा विवक्षिता. 'पिशाचो गुह्यकः सिद्धो भूतोऽमो देवयोनयः ।' ( अमरको० १ । १। ११ ) इत्यमरोक्तेः । वस्तुतस्त्वत्र पूवार्धर्चे कर्मयज्ञनिन्दा, उत्तरार्धर्चे च ज्ञानयज्ञप्रशसा । यत्रापि गोमेधो गोयागो वा दृश्यते तत्र सर्वत्र व्रीह्यादिनिर्मितेनैव गोपशुना यजनं मन्तव्यम् । 'अवध्याना परमावधि:' इति प्रकृतमन्त्रभाष्ये सायणोक्तः । उपवेदभूते चरके - आदिकाले खलु यज्ञेषु पशवः समालम्भनीयाः ( प्राप्तव्या ) बभूवुः । न आलम्भाय ( वधाय ) प्रक्रियन्ते स्म । ततो दक्षयज्ञे प्रत्यवरकाले मनोः पुत्राणा नाभागेक्ष्वाक्वादोना ऋतुषु पशूनामभ्यनुज्ञानात् पशवः प्रोक्षणमवापु । अत एव तत्प्रत्यवरकाले पृषध्रेण दीर्घसत्रेण यजमानेन पशूनामलाभात् गवामालंभः प्रवर्तितस्तेन ततः पूर्वं गवामालम्भो वर्जित एव । त दृष्ट्वा प्रव्यथिता भूतगणा उपाकृताना ( हताना ) गवां गौरवात् असात्म्यात् उपहताग्नीना उपहतमनसा अतीसारः पूर्वमुत्पन्नः पूषप्रयज्ञे ( चिकित्सास्थान १ ९ । ३ ) तेनास्य वैयक्तिकत्व क्वाचित्कत्वं रोगोत्पादकत्वं मनोघातकत्वमेव सिद्धयति । गोमेधादी तु व्रीह्यादिमयेनैव यजनं भवति स्म । कलियुगे सोऽपि निषिद्धः । अनुस्तरण्या अपि उत्सर्गों दानमेव वा भवति स्म । तद्यथा वोधायनीयपितृमेधसूत्रे उत्सृजेद् वा एना ब्राह्मणाय ४/२/४ ) अत्र गार्ग्यनारायणवृत्तिः-वा' दद्यात्, दत्ता त्वेव श्रेयसे भवति' ( १११०१२ ) | आश्वलायनगृह्यसूत्रे' अनुस्तरणीम्' ( अत्रापि एके ग्रहणं सम्बद्धयते । तेन अनुस्तरणी अनित्या । इति कात्यायनेनापि न वा अस्ति संदेहादिति तस्मान्न भवति । इत्युक्तम्, केषाञ्चिद्रीत्या अनुस्तरणी वर्करी । यत्तु

'गवां द्वादशलक्षाणां ददौ नित्यं मुदान्वितः ।

सुपक्वानि च मासानि ब्राह्मणेभ्यश्च पार्वति ॥

षट्कोटि ब्राह्मणानाञ्च भाजयामास नित्यशः । उसी तरह अश्वमेघीय बश्व का शरीर वेदविहित विविधविधियो से मलरहित शुद्ध किया जाता है । अश्वमेध के विषय में जो अन्यान्य आक्षेप किये गये है, उन सबका समाधान पहले ही किया जा चुका है । 'नरमेघ ' में भी ' नर' का वध नही किया जाता, किन्तु उसका ( मा) उत्सर्ग ( त्याग) किया जाता है । अश्वलायन गृह्यसूत्र का नाम लेकर जो कहा गया है कि ' शूलगव' मे उक्षा मा वृषभ का

पृष्ठ 1189

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1189 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातः २०८७ प्रकृतिखण्डे ५० | १३ | १४ ब्रह्मवैवर्त्ते- गोमेधं च चतुर्लक्षं विधिवन्महदद्भुतम् । ब्राह्मणानां त्रिकोटिञ्च भोजयामास नित्यशः ॥ पञ्चलक्ष गवा मासैः सुपक्वै घृतसंस्कृतेः । ( २२५४।४८-४९ ) इति स्वायम्भुवमनोरातिथ्य सत्कारः । तथैव - पञ्चकोटि गवा मास सपूपं सान्नमेव च । एतेषाञ्च नदीराशीत् भुञ्जते ब्राह्मणा मुने ॥ २६१।९९ । इति । चैत्रस्य राज्ञः कृत्यम् । 'यक्ष्ये त्वा गोसहस्रेण सुराघटशतेन च' । इति सीतारामायणे अयोध्या ५५।२० । रुक्मिणीविवाहे च-

गवां लक्षं छेदनञ्च हरिणानां द्विलक्षकम् ।

चतुर्लक्ष शशानाञ्च कूर्माणा च तथा कुरु ॥

इत्यादिभिश्च गोवधगोमांसभक्षणसमर्थनमपि यत्किञ्चित् वेदे गवा वधनिषेधानुरोधेन पूर्वोक्तवचनानामन्य- परत्वनिर्णयात् । पुराणानां वेदोपबृंहणात्मकानां वेदानुगुणमेव तद्व्याख्यानस्य युक्तत्वात् । यथा वेदानां क्वचिद्यौगिकार्थाश्रयणे समाधानं तथैव पुराणवचनानामपि समाधानं युक्तमेव । यास्करीत्या सर्वाणिआख्यातजानि नामानि । न चेदं यास्कायं मतं केवल वेदार्थं किन्तु सार्वत्रिक्रमेव । अत एवा- मरकोषसुधाटीकाकृता भानुजीदीक्षितेनापि शाकटायनादिरीत्या लोकेऽपि नाम्नामाख्यातजत्वं मत्वा तथैव व्याख्यातम् । यास्कोऽप्याख्यातानुरूपां व्युत्पत्तिमभ्युपगच्छन्नपि परिव्राजक तक्षन् भूमिज - अश्त्र -तृणादिपदानां योगरूढितामभ्युपगतवान् । 'पश्यामः समानकर्मणा नामधेयप्रतिलम्भमेकेषां 'नैकेषा' ( निरु० १११४ ) व्युत्पत्ती समानायामपि कश्चित्परिव्रजन्नपि न परिव्राजको भवति । तक्षन्नपि न सर्वः तक्षा भवति । अपरिव्रजन्नपि अतक्षन्नपि कश्चिदेव तक्षा भवति । यथा मांसभक्षणप्रपञ्च दृश्यते वेदेऽपि तथैव दृश्यते । 'एते वै प्रियाश्च अप्रियाश्च ऋत्विजः स्वर्गलोकं गमयन्ति' ( अथर्व वे ० सं० ९।६।२३ ) अत्रातिथीना स्वर्ग- दातृत्वमुक्तं ऋत्विकत्वश्च ब्राह्मणजातीयानामेव भवति नान्येषाम् । 'स्मृतेर्वा स्याद् ब्राह्मणानाम्' । जे० सू० १२| ४| ३८ ) । ' ' ( ) ब्राह्मणानां वा इतरयोरातिज्याभावात् जे ० सू ० ६ ६ १८ अत एव पाणिनिसूत्रमहाभाष्ये ऋत्विक्कर्म अर्हतीति आत्विजीनं ब्रह्मकुलम् ।। अत्र ब्राह्मणकुलस्य ऋत्विकत्वं स्पष्टमेवोक्तम् । आलंभन होता है । किन्तु यह कथन भी तुच्छ है । क्योकि 'अन्य' पद के प्रयोग से विरोध होगा । उसमें तो उसके अंगों का स्पर्श कर रुद्र के लिये उसके अंगों का निर्मञ्छन ( न्यौछावर ) ही किया जाता है । उसका उत्सर्ग ( विसर्जन ) करना ही आलभ है । क्योकि त्याग को मरण के समान ही माना गया है । उसके अंगो का स्पर्श ही यहां आलंभन माना गया है । अतः प्राचीन काल में भी गोमेघ मैं गौओ का हनन नही हुआ करता था । पुराणों का नाम लेकर मास भक्षण, गोवध आदि बताना अत्यन्त अनुचित है, क्योकि पुराणों को वेदोपबृंहक कहा गया है, अतः वेदो के अनुगुण ( अनुकूल ) ही उनकी व्याख्या करना समुचित होगा । यास्क ने व्याख्या करने की रीति जो बताई है, वह केवल वेद के लिये ही नही है, अपितु सर्वत्र उसका उपयोग किया जा सकता है । अतएव अमरकोष के सुघाटीकाकार भानुजीदीक्षित ने यास्क शाकटायनादि की रीति को अपनाकर व्याख्या की है । संज्ञाओं को आख्यातज मानते हुए भी अनेक संज्ञा विशेषो में योगरूढिता को भी आवश्यकता का ध्यान न रखकर बताया है । जैसे 'तक्षन्

पृष्ठ 1190

वेदार्थ पारिजात - २ स्वामी करपात्री, पृष्ठ 1190 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०८८ वेदार्थपारिजातः 'सम्प्राप्ताय त्वतिथये । प्रदद्यादासनोदके । अन्नञ्चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥ ' ( मनु ३ ९९ ) 'शिलानप्युञ्च्छतो नित्य पञ्चाग्नीनपि जुह्वतः । सर्वं सुकृतमादत्ते ब्राह्मणोऽतर्पितो वसन् ॥ ( म० १1००० ) इत्यतिथि- सत्कारस्तपस्विनामपि विहितः । तदकरणे सुकृतक्षयश्चोत्त: । 'इष्टं च वा एष पूर्तश्च गृहाणामश्नाति यः पूर्वोऽतिथे रश्नाति एष वा अतिथिर्यत् श्रोत्रियः तस्मात् पूर्वो नाश्नीयात्' ( अथवं ९ | ६| ३१ -९/ ६/ ६७ ) इति श्रोत्रियातिथे पूर्वभोजनं निषिद्धम् । श्रोत्रियलक्षणञ्च--po जन्मना ब्राह्मणो ज्ञेयः संस्काराद् द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्चते ॥ ( अत्रिस्मृति १३८ ) इति स्मृतावुक्तम् । ' अशितवति अतिथी अश्नीयात्' ( अथर्व वे ० सं० ९| ६| ३८ ) अतिथिभोजनानन्तरमेव भोक्तव्यम् । 'एतद् वा उ स्वादीयो यद् अधिगवं क्षीरं वा मासं वा तदेव अतिथेः पूर्वं नाश्नीयात्' ( अथवं वे ० सं० ९| ६| ३९ ) अत्रातिये. पूर्वं दुग्धं मासं वा न भक्षणीयमित्युक्तम् । अत्र च मासमपि अतिथिभोजनानन्तरं न निषिद्धं यथा दुग्ध घृतं मधु उदकमतिथये दानत्वे- नोक्त तथैव 'एवं विद्वान् ( तिथये ) मासमुपसिच्य उपहरति' ( अथर्व वे ० सं ० ९ ६ ४३ ) अत्रातिथये मांसोपहारः स्पष्ट मेवोक्त: । ' अपूपवान् मासवान् चरुरेह सीदतु' ( अ० वे ० सं ० १८ । ४ । २० ) । ‘ यं ते मन्थमयोदनं यन्मांसं यच्च लोहितम् । आमिक्षां दुहुता दात्रे सीरं सर्पिरथो मधु ॥ ' ( अ ० वे ० स० १०।९।१८) ' मांसमेक: पिशति सूत्रपा' ( ऋ० सं० १ / १६१।१० ) 'ये चार्वतो मांसभिक्षामुपासते ' ( ऋ ० सं ० २।१६२। १२ ) यन्नीक्षण :' ( ), मांस्पचन्या उखाया ऋ० सं० १।१६२११३ इत्यादिमांसप्रतिपादकवैदिकवचनानां यादृशोऽर्थो भवति तादृश एव वेदानुसारिपुराणानामप्यर्थो भवति । 'अतिथिग्वा' ( अथर्ववे ० सं ० २०/२११८ ) इत्यत्र अतिथिग्वशब्दोऽपि वेदे समायाति । तत्र यथार्थस्तथैव पुराणेऽपि । ' यक्ष्ये त्वा गोसहस्रेण' इति सीतावचनस्यापि वेदानुसार्येवार्थ: -' इमं मे गङ्गे यमुने' (ऋ० स० १०/७५/५) इति वेदसिद्धगङ्गादेवतायाः स्तवनं यजनमुक्तम् । 'देवांश्च याभिर्यजते ' ( ऋ ० सं ० ८| २८| ३ ) अत्र यथा गोभिर्देवानां यजनमुक्तं तथैव रामायणेऽपि गोसहस्रेण गङ्गायजनमुपपद्यत एव । सीतावचनन्तु पूर्वोक्तवैदिकवचनस्य व्याख्यानमेव । सुराघटसहस्रेण इत्यत्रापि सुरापदेन सोमो विवक्षितो न मद्यम् । ' सोमो भूत्वा द्विजातीन् या ( सुरा ) भुङ्क्ते श्रेयोभिरुत्तमैः । ' ( चरके चिकित्सास्थाने २४/५ ) ' सुरया सोम:' ( वा० सं ० १९/ ५ ) तादृशसोमात्मक सुराघटसहस्रेण गङ्गायजनमपि नानुपपन्नम् । ,, - 'तृण परिव्राजक पङ्कजादि शब्दो को योगरूढ कहा जाता है । पश्यामः समानकर्मणा नामधेयप्रतिलम्भमेकेषा नैकेषाम् । ( निरु० १।१४| ३ ) जैसे तक्षणकर्म सभी के करने पर भी सभी को तक्षा नही कहा जाता, 'तृण्यते भक्ष्यत इति तृणम्' सभी भक्ष्यपदार्थो का भक्षण होने पर भी सभी भक्ष्य पदार्थ को तृण नहीं कहा जाता, परिव्रजन कर्म सभी के करने पर भी सभी को परिव्राजक नही कहा जाता । पङ्क में कितने ही पदार्थों के पैदा होने पर भी सभी को पंकज नही कहा जाता । प्रत्युत परिव्रजन, तक्षण, आदि कर्म न करने पर भी किसी व्यक्ति विशेष को ही परिव्राजक, तक्षा आदि कहा जाता है । अथर्ववेद में अतिथियों का स्वर्गदातृत्व और ऋत्विक्त्व, ब्राह्मण जाति का ही होता है, बताया है । अतएव महाभाष्य में ' ऋत्विक् कर्म अर्हतीति आत्विजीनं ब्रह्मकुलम्' ब्राह्मणकुल का ऋत्विक्त्व स्पष्ट रूप से कहा है । मनु ने अतिथिसत्कार करना तपस्वियो के लिये भी बताया है, उसके न करने पर सुकृत का क्षय बताया है । श्रोत्रिय अतिथि के पूर्व भोजन करने का निषेध किया है । अत्रि-स्मृति में श्रोत्रिय का लक्षण बताया गया है । मासप्रतिपादक वैदिक वचनो का जैसा अर्थ है, ठीक वैसा ही वेदानुसारी पुराणो का भी अर्थ होता है । 'अतिथिग्व' शब्द भी वेद में आया है, वहीं जो अर्थ है, बही पुराण में भी है । 'यक्ष्ये त्वां गोसहस्रेण' इस सीताबचन का भी वेदानुसारी ही अर्थ है । ' इमं मे गङ्गे यमुने' इससे वेद सिद्ध -गङ्गा देवता का स्तवन, यजन बताया गया हूँ 'देवाश्च याभिर्यजते' इस वचन में जैसे गौओ के द्वारा देवों का यजन बताया है, वैसे ही रामायण में भी गोसहस्र के द्वारा गङ्गा का यजन भी उपपन्न हो जाता है । सीतावचन तो पूर्वोक्त वैदिकवचन का व्याख्यान ही है ।