वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 101–110

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 101–110

पृष्ठ 101

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 101 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्र: २६ ] वेदार्थपारिजातमाष्यसहिता ९ १ विलोकयेद्यजमान इति सूत्रार्थः । ' वर्चोदा इति यं वा कामं कामयते ' ( का ० श्री ० ३३८ १६ ) । स्वयम्भूरिति वर्चोदा इत्यस्य स्थाने यं कामं कामयेत तद्वाचि पदप्रयोगं कुर्यात् । यथा पुत्रदा असि पुत्रं मे देहीत्येवम् ' सूर्यस्येत्यावर्तते प्रदक्षिणम् ' ( का ० श्र ० ३ | ८ | १७ ) । सूर्यस्येति मन्त्रेण प्रदक्षिणमावर्तेत । तथा च मन्त्रार्थः-स्वयंभूरसि हे सूर्य त्वं स्वयम्भूरसि स्वयमेवान्यनिरपेक्षो भवसीति स्वयम्भूः स्वयंसिद्धोऽकृत कोऽसीत्यर्थः । श्रेष्ठोऽत्यन्त प्रशस्तः । रश्मिरसि दीप्तिरूपोऽसि । यद्वा श्रेष्ठो रश्मिः सूर्यमण्डलाभिमानी हिरण्यगर्भरूपः सप्तमः श्रेष्ठो रश्मिरसि । सूर्यस्य सप्तरश्मयः सन्ति चतुर्दिक्षु चत्वारो रश्मयः, एकोऽधस्तात्, एक उपरिष्टात्, सप्तमो मण्डलाभिमानी हिरण्यगर्भः, यत्परं भाः प्रजापतिर्वा स स्वर्गे वा लोक इति पूर्वमन्त्रव्याख्यानप्रसङ्गेनोद्धृत शतपथश्रुतेः । हे सूर्य त्वं वर्चोदा ब्रह्मवर्चसस्य स्वरसेनैव स्वभावेनैव दातासि अतो वर्चो ब्रह्मवर्चसं मे देहि । तेजोवाचिना वर्चः शब्देनापेक्षितः सर्वोऽपि काम उपलक्ष्यते । अतो हे सूर्यं त्वमपेक्षितफलप्रदोऽसि, अतो मेऽपेक्षितं प्रयच्छ, यं वा कामं कामयत इति कात्यायनसूत्र सूचनात् । सूर्यस्य पूर्वोक्तविशेषणविशिष्टस्य देवस्य आवृतमावर्तनमनु अहह्मावर्ते प्रादक्षिण्येनावर्तनं करोमि । ' अथ सूर्यमुदीक्षते । सैषा गतिरेषा प्रतिष्ठा तदेतां गतिमेतां प्रतिष्ठां गच्छति तस्मात्सूर्यमुदीक्षते ' इति श्रुतेः सूर्यः खलु यज्ञकर्तॄणां गतिर्गन्तव्यस्थानं प्रतिष्ठा च । तस्मादेतां गतिमेतां प्रतिष्ठां गच्छति याज्ञिकः, तस्मात् सूर्यमुदीक्षते । स उदीक्षते स्वयम्भूरसि श्रेष्ठो रश्मिरित्येष वै श्रेष्ठो रश्मिर्यत्सूर्यस्तस्मादाह-स्वयम्भूरसि श्रेष्ठो रश्मिरिति । ' वर्चोदा असि वर्चो मे देहीति त्वेवाहं ब्रवीमीति ह स्माह याज्ञवल्क्यस्तद्धयैव ब्राह्मणेनैष्टव्यं यद्ब्रह्मवर्चसी स्यादिति । अतो ह स्माौपोदिते य एष वाव मह्यं गा दास्यति गोदा गा ' मे देहीत्येवं यं कामं कामयते सोऽस्मै कामः समृद्ध्यते ' ( ० १ | ९ | ३ | १६ ) | ' अथावर्तते सूर्यस्यावृतमन्वावर्त इति तदेतां गतिमेतां प्रतिष्ठां गत्वैतस्यैवावर्तमन्वावर्तते ' ( श ० १ | ९ | ३ | १७ ) । एष वै श्रेष्ठो रश्मियंत् सूर्य इति तेजोघनः सूर्य एव श्रेष्ठो रश्मिरुच्यते । एष तेषामतिशयः वर्चोदा असि वर्षो मे देहीति त्वेवाहं ब्रवीमीति । याज्ञवल्क्य आह स्म - तद्धयेव ब्राह्मणेनैष्टव्यं यदहं ब्रह्मवर्चसी ब्राह्मण्ययुक्तः स्यामिति । उपेत्योदिता उपोदिता काचित् स्त्री तस्या अपत्यं पुमान् ओपोदितेयः । ' स्त्रीभ्यो ढक् ' ( पा ० सू ० ४।१।१२० ) एवमाह स्म । उत एष वाव सविता मह्यं गा दास्यति गोदा असि गा मे देहीत्येवं यं कामं कामयते सोऽस्मै कामः समृद्धयते । श्रुत्यनुरोधेनैव कात्यायनेनापि तथैव सूत्रितम् । अथावर्तते प्रदक्षिणमावर्तत एवं हि तस्य सूर्यस्यावृत्तिः । ' सूर्यस्येत्यावर्तते प्रदक्षिणमिति ' कात्यायनोऽपि । तस्मादेतां गतिमेतां प्रतिष्ठां गत्वैतस्यावर्तनमनु आवर्तते, तत्सायुज्यमुपागतो भवति ज्ञानसमुच्चितयज्ञानुष्ठायीत्यर्थः । तस्माद्यथोक्त एव वेदार्थः । भाष्यसार -- इस मन्त्र में सूर्य को स्वयम्भू, अर्थात् अन्यनिरपेक्ष यानी स्वयंसिद्ध अकृतक बताया गया है । वह सूर्य सबसे श्रेष्ठ, अत्यन्त प्रशस्त है । वह रश्मि है यानी दीप्तिरूप है । अथवा श्रेष्ठो रश्मि कह कर उसे सूर्य-मण्डलाभिमानी हिरण्यगर्भरूप सप्तम श्रेष्ठ रश्मि कहा गया है । सूर्य की सात रश्मियाँ होती हैं, चार दिशाओं में चार रश्मियों, एक अधस्तात् और एक उपरिष्टात्, सप्तम मण्डलाभिमानी हिरण्यगर्भ है । सूर्य को ब्रह्मवर्चस का प्रदाता कहा गया है । ब्रह्मवर्चस का प्रदान करना उसका स्वभाव है | अतः ब्रह्मवर्चस प्राप्ति की प्रार्थना उससे की गई है । यहाँ तेजोवाची वर्चस् शब्द ' अपेक्षित समस्त कामनाओं को उपलक्षित किया गया है । एवं च यह सूर्यदेवता अपेक्षित फल को देनेवाली है । सूर्य का दर्शन और परिक्रमा करनी चाहिये । यज्ञकर्ताओं का गन्तव्य स्थान सूर्य ही है । स्वामी दयानन्द ने दो प्रकार से व्याख्या की है, किन्तु वे दोनों ही व्याख्यायें शतपथ के विरुद्ध रहने से उपेक्षणीय हैं । अतः पूर्वोक्त सिद्धान्तानुसारी मन्त्रार्थं ही शतपथसम्मत है ।

पृष्ठ 102

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 102 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ २ शुक्लयजुर्वेदसंहिता [ अ ० २ एतेन हे जगदीश्वर! श्रेष्ठो ' रश्मिः स्वयम्भूरसि वर्चोदा असि वर्चो मे देहि । अहं सूर्यस्य तवावृतमाज्ञा-पालनमन्वावर्त इत्येकः, तथा यः श्रेष्ठो रश्मिः स्वयंभूः स्वयंप्रकाशोऽस्ति वर्चोदासि यो मे मह्यं वर्षो ददाति तस्यास्य सूर्यस्यावृतं शिल्पविद्यायै अन्वावर्ते ' ( पृ ० २०५ ) इत्थं दयानन्दोक्तं व्याख्यानद्वयमपि प्रत्याख्यातं वेदितव्यम्, शतपथश्रुतिविरुद्धत्वात् । तत्र स्पष्टं सूर्यमुदीक्षत इति सूर्यावलोकनेऽस्य मन्त्रस्य विनियोग उक्तः । नहि परमात्म-रूपस्य सूर्यस्योदीक्षणं विधातुं शक्यम्, कर्मप्रसङ्गे तदनुपपत्तेः । एष वै श्रेष्ठो रश्मिरित्येष इति प्रत्यक्षत्वं तस्योक्तम् । न च तत्परमेश्वरस्य सम्भवति, तस्य श्रवणमनननिदिध्यासनादिभिरुपलभ्यत्वात् । वर्च इत्यस्य याज्ञवल्क्यरीत्या ब्रह्मवर्चसीति व्याख्यानं श्रुत्यैव कृतम् । औपोदितेयरीत्या गौरेव वर्च इति कामितपदार्थ-मात्रस्योपलक्षणं वर्चः पदम् । तेन गोः प्रजा धनं विद्येत्यादिसर्वमपि कामितं ग्रहीतुं शक्यत इत्यादिकं ' यं वा कामं कामयते सोऽस्मै कामः समृध्यते ' इति श्रुत्यैव स्पष्टमुक्तम् । एवम् अथावर्तते इति श्रुत्यैव सूर्यस्यावृत-मन्वावर्त इति मन्त्रेण सूर्यप्रदक्षिणैव विहिता, नात्राज्ञापालनं प्रकृतं न वा तद्विहितम्, तदेतां गतिमेतां प्रतिष्ठां गत्वेति श्रुतिविरोधात् । तस्मात्सिद्धान्तानुसारी मन्त्रार्थ एव शतपथसम्मतः । अध्यात्मपक्षेऽपि हे सूर्यनारायण! त्वं स्वयम्भूरकृतकः परमेश्वर एवासि ' असावादित्यो ब्रह्मेति ' सूर्योपनिषद्वचनात् । छान्दोग्येऽपि चक्षुषि सूर्यमण्डले च हिरण्यश्मश्रुर्हिरण्यकेशः परमात्मैवोपास्यत्वेनोक्तः । पुराणे च - ' ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः | केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपु शङ्खचक्रः ॥ ' इति परमेश्वर एव ध्येयत्वेनोक्तः । ' अन्तस्तद्धर्मोपदेशात् ' ( ब्र ० सू ० १११।२० ) इति ब्रह्मसूत्रे बादरायणेनापि सूर्यमण्डले हिरण्यश्मश्रुत्वादिविशिष्टः परमेश्वर एवोपास्यत्वेन वर्णितः । वाल्मीकीये रामायणे परब्रह्मस्वरूप रामोऽपि स्वात्माभिन्नं ब्रह्मस्वरूपं भगवन्तमादित्यमगस्त्योपदिष्टरीत्या संस्तुत्य परमदुर्धर्ष रावणं जघान । ' एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपांपतिः ॥ ' इत्यादिभिः श्लोकैस्तत्र भगवत आदित्यस्य सार्वात्म्यमुक्तम् । अत एव नाचेतनः सूर्यः । तत एव सम्बोधनं स्तुतिस्ततोऽभीष्टमनोरथप्राप्तिरप्युपपद्यते, नाचेतनात् ' यं यं कामयते ' इत्यादिकमुपपद्यते । सूर्यरूपेणैव परमात्मन आबाल गोपाङ्गनं प्रसिद्धिरुदिता रुद्राध्याये - ' उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ' ( १६ । ७ ) इति । एनं परमेश्वरं शिवं सूर्य गोपा उदहार्यश्च दृष्टवन्तः । शतपथश्रुतिरीत्या एष हिरण्यगर्भः पुरुष एवास्य सूर्यस्य श्रेष्ठः सप्तमो रश्मिः | आदित्यमण्डलस्थः परमेश्वरः प्रायंते - वर्चोऽसि तेजसां निधानमसि, वर्चो ब्रह्मवर्चसं मे देहि येन ब्राह्मण्येन ब्रह्मात्मानमापरोक्ष्येण साक्षात्कृत्याहं ब्रह्मविद्वरिष्ठरूपो मुख्यो ब्राह्मणः स्याम् । अथवा सर्वकामितार्थरूपः सर्वात्मासि, अतो यं यं गाः प्रजा रत्नानि ब्रह्मविद्याः शमदमादींश्च कामये तं तं देहि । नहि सर्वप्रदस्य तव किचिदप्यदेयमस्ति । सूर्यस्यावृतमावर्तनमन्वावर्ते प्रादक्षिण्येन त्वदीयां गतिमहमन्वावर्ते । प्रदक्षिणावर्तनेनाहं त्वदानुकूल्यं व्यञ्जयामि तेन त्वदीयकायच्छायमिवात्मानं त्वदनुगामिनं करोमि । त्वदिच्छानुसारिणीमिच्छां त्वन्मनोऽनुसारि मनश्च कृत्वा सर्वथा तवानुवर्तनं करिष्यामीति ॥ २६ ॥

अध्यात्मपक्ष में -- सूर्यनारायण के रूप में वह परब्रह्म परमेश्वर ही है । इस बात को उपनिषद्, पुराण, ब्रह्मसूत्र आदि ने भी बताया है । सूर्यमण्डल में हिरण्यश्मश्रुत्वा दिविशिष्ट परमेश्वर ही उपास्य के रूप में बताया गया है । परब्रह्मस्वरूप रामचन्द्र ने भी अपने से अभिन्न ब्रह्मस्वरूप भगवान् आदित्य की स्तुत्यात्मक उपासना अगस्त्य मुनि के उपदेशानुसार करके ही परम दुर्धर्षं रावण का वध किया था, यह सब वाल्मीकीय रामायण में वर्णित है । अत एव ' सूर्य ' को अचेतन कहना बड़ी भूल है । सूर्य अचेतन नहीं है । इसीलिये भक्त अपने आराध्यदेव सूर्य आदि का दर्शन, प्रदक्षिणा करके उसके प्रति अपनी अनूकूलता को अभिव्यक्त करता है ॥ २६ ॥

पृष्ठ 103

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 103 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २७ ] वेदार्थपारिजातभाष्यसहिता ९ ३ अग्ने॑ गृ॒ह॒ते सु॒गृहप॒तिस्त्वया॑ग्ने॒ ऽहं गृ॒हप॑तिना भूयास सुगृहपतिस्त्वं मया॑ग्ने गृ॒हप॑तिना भूयाः । अस्थूरि णौ गार्हपत्यानि सन्तु श॒त ७ हिमाः सूर्यस्या॒वृतमन्वाव॑र्ते ॥ २७ ॥

' गार्हपत्यमुपतिष्ठतेऽग्ने गृहपत इति शत १७ हिमा इति ब्रूयाद्वा ' ( का ० श्री ० ३३८ | १ ९ ) । भूयासम् हे गार्हपत्याग्ने । तथा गृहपतेऽस्मदीयस्य गृहस्थ पालक! त्वया गृहपतिना त्वत्प्रसादेनाहं सुगृहपतिः शोभनो गृहपालको गृहपतिभ्यां त्वमपि गृहपतिना मया मदीयसेवया गृहपतिर्भूया गृहपालको भव । एवं सति नौ आवयोर्गार्हपत्यानि स्त्रीपुंसाभ्यां निष्पाद्यानि कर्माणि शतं हिमाः शतवर्षपर्यन्तम् अस्थूरि स्थूलत्वमनुष्ठानाभ्यासस्तद्रहितमस्थूरि --- ' शत १७ हिमा रलयोरभेदः सम्यगनुष्ठितानि भवन्तु । हिमशब्दो हेमन्तमृतुमाचष्टे । तथैव च तित्तिरिर्व्याचष्टे संवत्सरा लक्ष्यन्ते । यद्वा इत्याह शतं ता हेमन्तातिष्विवायेति वैतदाहेति ' । हिमशब्दसूचितैर्हेमन्तैस्तद्युक्ताः उभयतो बलीवर्दयुक्तं शकटमस्थूरीव । शकटयुगस्यान्यतरपार्श्वे बलीवर्दयुतं शकटं स्थूरीत्युच्यते । न स्थूरि अस्थूरि गार्हपत्यानि गृहपतिभ्यां लुप्तोपमं चैतत् । यथोभयतो बलीवर्दयुतं शकटं निरन्तरमव्यवहितं प्रचलति तथास्माकं सू ० ४ । ४ । ९ ० ) । सूर्यस्था-निष्पाद्यानि कर्माणि निरन्तरं मव्यवहितं प्रचलन्तु । ' गृहपतिना संयुक्ते व्य: ' ( मन्त्रेण पा ० यजमानः प्रदक्षिणमावर्तत वृतमन्वावर्ते ' सूर्यस्येत्यावर्तते प्रदक्षिणम् ' ( का ० श्री ० ३।८।२० ) । सूर्यस्येति इति सूत्रार्थ: । मन्त्रार्थस्तु पूर्ववदेव । अथ गार्हपत्य-कात्यायनसूत्राणि तदनुकूलानि भाष्याणि शतपथश्रुतिमूलकान्येवेति मन्तव्यम् प्रतिष्ठा । तद्गृहेष्वेवैतत् तथाहि - ' प्रतिष्ठायां मुपतिष्ठते । द्वयं तद्यस्माद् गार्हपत्यमुपतिष्ठते गृहा वै गार्हपत्यो गृहा वै ' ( श ० ११ ९ ।३।१८ ) । प्रतितिष्ठति यावद्वैवास्येह मानुषमायुस्तस्मा एवैतदुपतिष्ठते । तस्माद् गार्हपत्यमुपतिष्ठते स्वगृहे प्रतितिष्ठति, गार्हपत्योपस्थानस्य कारणद्वयम् एकं यस्माद् गृहा वै गार्हपत्यं गृहा वै प्रतिष्ठा गार्हपत्योपस्थानेन स्वगतिस्तुक्तैव । ‘ स द्वितीयं च यावद्वास्य मानुषमायुस्तस्मै तस्य निर्विघ्नप्राप्तये उपतिष्ठते । सूर्योपस्थानादिना णौ गार्हपत्यानि उपतिष्ठते अग्ने गृहपते मयाग्ने गृहपतिना भूया इति नात्र तिरोहितमिवास्त्यस्थूरि जीव्यासमित्येवैतदाह । सन्त्वित्यनार्तानि नौ गार्हपत्यानि सन्त्वित्येवैतदाह । शत हिमा इति शत ९ ब्रुवन्नाद्रियेत वर्षाणि ' ( श ० ११ ९ ।३।१ ९ ) । तदप्येतद् ब्रुवन्नाद्रियेतापि भूयासि शताद्वर्षेभ्यः पुरुषो जीवति तस्मादप्येतद् सन्त्वित्येवैतदाह पूर्वोक्तो भूया इत्यन्तं स्पष्टमेव । अस्थूरिणी गार्हपत्यानीति व्याचष्टे - अनार्तानि नो गार्हपत्यानि स्थूरि न स्थूरि अस्थूरि मन्त्रभागः । असहायगोवाह्यशकटः स्थूरः । तत्रासहायमात्रं लक्ष्यते । स्थूरोऽस्मिन्नस्तीति । तदेवाह - अनार्तानि नौ आवयोर्गार्ह-ससहायः अनेकबलीवर्दयुक्तः शकटः अस्थूरि तेन परिपूर्णता लक्ष्यते तुम भी मन्त्रार्थ हे गृहपालक अग्ने! तुम्हारे प्रसाद से मैं अच्छा गृहपालक बनूंगा । तथा से होते मेरी रहें सेवा । से जिस प्रकार गृह के पालक बनो । इस तरह से हम पति - पत्नी के कार्य सौ वर्षतक निरन्तर सावधानी होते रहें । सूर्य के समान मैं दोनों तरफ जुड़ी हुई बेलगाड़ी निरन्तर चलती है, उसी प्रकार हमारे कार्य प्रवृत्त इस मन्त्र से प्रदक्षिणा करता | ' अग्ने गृहपते ' इस मन्त्र से गार्हपत्य अग्नि का उपस्थान करे और ' सूर्यस्य ' प्रदक्षिणा करे ॥ २७ ॥

लुप्तोपमा का प्रयोग किया भाष्यसार - मन्त्र में हिम शब्द ' हेमन्त ऋतु ' को बता रहा है । ' अस्थूरि णी ' अस्थूरीव हैं । ऐसी दो बैलवाली गाड़ी है । जिस शकट के जुवे ( धुरी ) में दोनों तरफ बैल लगे होते हैं, उसे अस्थूरि कहते निरन्तर चलता रहे । जैसे बिना किसी व्यवधान के चलती है, वैसे ही हम पति - पत्नी के द्वारा निष्पाद्य कर्म

पृष्ठ 104

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 104 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ४ शुक्ल यजुर्वेदसंहिता [ अ २ पत्यानि । असहायकृतानि कर्माणि आर्तिपरिगृहीतत्वाद् आर्तान्युच्यन्ते । ससहायसाध्यानि पुनरनार्तानि साङ्गानि सुसम्पन्नानि भवन्ति । शतं हिमा इति ब्रुवन् शतं मे जीव्यासमिति नाद्रियेत यतो हि भूयांसि शताद्वर्षेभ्यो जीवति पुरुषः सहस्रायुः पुरुषाणामपि वेदपुराणादिषु वर्णनात् । अध्यात्मपक्षे तु हे अग्ने गृहपते! आहिताग्नीनामग्निरेव गृहपतिर्भवति सर्वेषु सुप्तेषु तस्यैव जागरुकत्वात्, ' अग्निर्जागार ' इत्यादि मन्त्रवर्णात् । अत एव कृतदारस्यैवाग्न्याधानेऽधिकारः ' जातपुत्रः कृष्णकेशोऽग्नीनादधीत ' इति श्रुतिः, दम्पत्योः सहाधिकारात् । नात्रापि जडोऽग्निः पूज्यते, किन्तु तदधिष्ठाता देवविशेषः, तदुपहितः परमात्मैव वाराध्यते । अतो हे अग्ने गृहपते! त्वयैव गृहपतिनाहं सुगृहपतिः शोभनो योग्यो धार्मिको भगवत्प्राप्तिसाधको गृहपति त्यासम् । भगवदाराधकस्य गृहं मे सुगृहं भवति, ' मन्निकेतं तु निर्गुणम् ' इति श्रीमद्भागवतवचनात् । हे अग्ने मया गृहपविना त्वमपि सुगृहपतिर्भूयाः । यथा योग्याभिः प्रजाभिरेव शोभनो राजा भवति, तथैव योग्यँरेवा-हिताग्निभिरग्निरपि सुगृहपतिर्भवति । हे अग्ने! यथा शरीरत्रयलक्षणपुरत्रयनिवासित्वाज्जीवः पूर्षु शयनात् पुरुष उच्यते, तथैवानन्तब्रह्माण्ड लक्षणगृहे व्यवहर्तृत्वात् परमात्मस्वरूपोऽग्निगृहपतिर्भवति । तदनुग्रहेणाहमपि सुगृहपतिर्भूयासं मोक्षप्रापकदेहगृहादिस्वामित्वेन सुगृहपतिर्भूयासम् मया च त्वं सुगृहपतिर्भुयाः । सर्वेश्वरोऽपि सर्वव्यापकोऽपि सर्वत्र स्थितोऽपि भगवानसन्निव भवति धर्मोपासनतत्त्वज्ञानविना, अतो मया धर्मादिमता त्वं सुगृहपतिर्भूयाः । त्वदनुग्रहेण नौ स्त्रीपुरुषयोर्गार्हपत्यानि अस्थूरीव शतं हिमाः सन्तु बहुकालपर्यन्तं त्वदाराधन-लक्षणं गार्हपत्यानि गेहदेहसम्बन्धीनि अनन्तानि निरन्तरमव्याहतानि प्रचलन्तु अहं च तवाराधकः स एव परमात्मस्वरूपोऽग्निः सूर्यरूपेणाप्याराधनीयः तस्य सूर्यस्यावृतं प्रादक्षिण्येनावर्तनमावर्ते तदवच्छिन्नस्य परमेश्वरस्यानुवर्तनं करोमीत्यर्थः । दयानन्दस्तु – ' हे गृह्पते जगदीश्वर! त्वं गृहपतिरसि । त्वया गृहपतिना सहाहं सुगृहपतिर्भूयासम् । मया गृहपतिनोपासितस्त्वं गृहपतिर्भूयाः । एवं नौ स्त्रीपुरुषयोर्गार्हपत्यान्यस्थूरि सन्त्वेवं वर्तमानोऽहं वर्तमाना च सूर्यस्यावृतं शतं हिमा अन्वावर्त इत्येक: । अयमग्निविद्यया संगृहीतः सुगृहपतिर्भवति । अहमन सुसाधितेन गृहपतिनाग्निना सुगृहपतिर्भूयासम् । मया गृहपतिना संयोजितोऽयमग्निः सुगृहपतिर्भवति । अनेनावयोः स्त्रीपुरुषयोर्गार्हपत्यान्यस्थूरि सन्तु । एवं प्रयत्नं कुर्वन् कुर्वती चाहं सूर्यस्यावृतं शतं हिमा अन्वावर्ते इति द्वितीयः ' ( पृ ० २०८ ) । तदेतद् व्याख्यानद्वयं शतपथश्रुतिकात्यायनादिसूत्रविरुद्धत्वादुपेक्ष्यम् । सर्वाधिपतेर्जगदीश्वरस्य गृहपतित्वं किंनिबन्धनमिति वक्तव्यमासीत् । अग्निविद्यया संगृहीतोऽप्यग्निः कथं गृहपतिः? सिद्धान्ते तु गार्हपत्योऽग्निरत्र सम्बोध्यः । तत्रैव गार्हपत्यानि क्रियन्ते । यदुक्तम् - तिष्ठन्ति यस्मिन्नालस्ये तत्स्थूरं तन्निन्दितं विद्यते यस्मिन् तत्स्थूरि न स्थूरि अस्थूरि यथा स्यात्तथा ' इति, तदपि न सङ्गतम् तिष्ठन्ति यस्मिन् सत्येऽनालस्ये तत्स्थूरमिति व्युत्पत्त्या त्वदुक्ताद्विपरीतार्थस्यापि सुवचत्वात् । शतपथे अध्यात्मपक्ष में - परमेश्वर की आराधना करने वाला कहता है कि परमात्मा ' अग्नि ' रूप है और वही सूर्यरूप भी है । आहिताग्नियों का अग्नि ही गृहपति होता है, क्योंकि सबके सो जाने पर वही जागता रहता है । अत एव कृतदारपरिग्रह वाले पुरुष का ही अग्न्याधान में अधिकार बताया गया है । यह पूजन जड अग्नि का नहीं किया जाता, अपितु तदधिष्ठात्री देवता का किया जाता है । अथवा तदुपहित परमात्मा की ही आराधना की जाती है । उसी परमात्मा की उपासना से मैं सुगृहपति, योग्य धार्मिक अर्थात् भगवत्प्राप्तिसाधक गृहपति बन पाऊँगा, क्योंकि ' मन्निकेतं तु निर्गुणम् ' मेरा घर तो निर्गुण ( गुणरहित ) है । अतः मैं उस परमेश्वर का अनुवर्तन करता हूँ ।

पृष्ठ 105

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 105 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २८ ] वेदार्थपारिजात भाष्यसहिता ९ ५ तु अनार्तानीत्येवास्थूरिपदार्थत्वेनोक्तम्, गार्हपत्यकर्मणां व्यङ्गत्वमपरिपूर्णत्वमेवार्तत्वम् । तच्चासहायनिर्वर्त्यत्व । यच्च--एव पर्यवस्यति । आलस्येन तु कर्मप्रवृत्तिरेव न भवति । तद्व्याख्यानं तु सिद्धान्तव्याख्याने व्यक्तमेव ' एवं वर्तमानो वर्तमाना चाहं सूर्यस्यावृतं शतं हिमा अन्वावर्ते ' इत्युक्तम्, तदप्ययुक्तम्, अस्थूरि नौ गार्हपत्यानि शतं हिमाः सन्त्वित्यन्वयेन शान्ताकाङ्क्षत्वेन शतं हिमा इत्यस्य अन्वावर्त इत्यनेनायोगात् श्रुत्या सूत्रेण च ' पृथग्वनियुक्तत्वात्, ' अथावर्तते सूर्यस्यावृतमन्वावर्त इति तदेतां गतिमेतां प्रतिष्ठां गत्वैतस्यावृतमन्वावर्तते मन्त्रस्य ( श ० ११ ९ ।३।२० ) ( सूर्यस्येत्यावर्तते प्रदक्षिणम् ' ( का ० श्री ० ३।८।२० ) इति श्रुतिसूत्राभ्यां पृथगेवास्य विनियोगात् शतं हिमा इत्यनेन तदसम्बन्धात् अथावर्तत इति श्रुतावथपदव्यवधानाच्च तदयुक्तम् ॥ २७ ॥

अग्ने ' व्रतपते व्र॒तम॑चारिषं॒ तद॑शक तन्मे॑ऽराध॒दम॒हं य एवास्मि सोऽस्मि ॥ २८ ॥

' व्रतं विसृजते येनोपेयात् ' ( का ० श्री ० ३१८२५ ) | यदि पूर्वमग्ने व्रतपते इति मन्त्रेण व्रतं गृहीतं तदा अग्ने व्रतपते व्रतमचारिषमिति मन्त्रेण व्रतं विसृजेत् । यदि पूर्वमिदमहमिति मन्त्रेण गृहीतं तदा इदानीमिदमहं स एवास्मि सोऽस्मीति मन्त्रेण विसृजेत् । व्रतपते व्रतस्य कर्मणः पालक हे अग्ने तत्कर्म ! व्रतमचारिषं अराधि कर्मानुष्ठितवानस्मि । तदशकं त्वदनुग्रहात् कर्म सम्पादयितुं समर्थोऽभवम् । त्वया च मदीयं साधितम् । इदमहमिति प्रारम्भसमये इदं व्रतमहं करिष्य इति सङ्कल्य यः स्थितोऽस्मि स एवाहमिदानीं इदं कर्म त्वत्प्रसादात् सङ्कल्पितकर्मसमाप्तिं कृत्वा स्थितोऽस्मि । यद्वा हे अग्ने त्वत्साक्षिकं व्रतं गृहीत्वा समाप्य य एव कर्मणः पुरा अहमस्मि मनुष्यः स एवास्मि । कर्मकाले तु मानुषभावादनृतादुद्गत्य सत्यं देवभावमुपगतोऽभवम् । तथैव शतपथश्रुतिः -- ' अथ व्रतं विसृजते । इदमहं य एवास्मि सोऽस्मीत्यमानुष इत्र वा एतद्भवति यद्व्रतमुपैति । नहि तदवकल्पते यद् ब्रूयादिदमह सत्यादनृतमुपैमीति तदु खलु पुनर्मानुषो भवति । तस्मादिदमहं य एवास्मि सोऽस्मीत्येवं व्रतं विसृजेत ' ( श ० ११ ९ | ३ | २३ ) | यद्व्रतं विसृजते तेन व्रतोऽमानुष इव देव इव भवति । यथा पूर्वं व्रतग्रहणे इदमहमनृतात् सत्यमुपैमीत्युक्तं समाप्ती इदमहं सत्यादनृतमुपैमीति यद् ब्रूयात्तन्नावकल्पते, यतो व्रतविसर्गानन्तरं मानुषो जायते । तस्मादिदमहमित्येतेन मन्त्रेण व्रतं विसृजेत् । दयानन्दस्तु -- ' हे अग्ने! मदर्थं यद् व्रतमराधि तदशकमचारिषं यन्मयाराधि तदेवाहं भुजे योऽहं यादृश-कर्मकार्यस्मि सोऽहं तादृशफलभोग्यस्मि भवामि ' ( पृ ० २१० ) इति तत्तु सर्वथा विशृङ्खलं श्रुतिसूत्रविरुद्धं च, स्वामी दयानन्द ने इस मन्त्र के दो अर्थ किये हैं, किन्तु दोनों ही शतपथ ofer अग्नि और गार्हपत्य अग्नि में बहुत बड़ा भेद है, दोनों एक नहीं हैं । समझ पाये । दयानन्दीय अर्थ में विपरीत अर्थ का भी बोध होता है । अतः चाहिये ॥ २७ ॥

और श्रौतसूत्र के विरुद्ध हैं । साधारण ' अस्थूरि ' शब्द का अर्थ भी ठीक नहीं शतपथोक्त अर्थ की ओर ध्यान देना मन्त्रार्थ - हे कपालक अग्ने! मैंने सत्य भाषण आदि का व्रत किया और वह तुम्हारी कृपा से ही सम्भव हो सका, तुम्हारे कारण ही मेरा व्रत पूर्ण हो पाया । हे अग्ने! उस व्रत को मैंने समाप्त किया । जैसा मैं पहिले मनुष्य था, वैसा अब भी हूँ । अभिप्राय यह है कि व्रत समाप्ति का श्रेय तुम्हें ही है, मुझे नहीं । ' व्रतं विसृजते येनोपेयात् ' इस सूत्र के अनुसार यजमान ने जिस मन्त्र से व्रतग्रहण किया हो, उसी मन्त्र से वह व्रतस्याग करे ॥ २८ ॥

पृष्ठ 106

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 106 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ६ शुक्लयजुर्वेदसंहिता [ अ ० २ स्वाभ्यूहितसत्य - न्याय - धर्मादि-भुजे तादृशफलभोग्यस्मीत्यस्य निर्मूलत्वात् । व्रतचरणव्रतविसर्गयोरनवधानं ॥ २८ ॥

ग्रहणप्रतिज्ञानकर्मानुसार फलभोगित्वाख्यानं च प्रमादविलसितमेव

अ॒ग्नये॑व्य॒वाह॑नाय॒ स्वाहा॑हा॒ सोमा॑य पित॒मते॒ स्वाहा॑ ।

अप॑ता॒ असु॑रा रक्षोऽसि वेद॒षद॑ः ॥ २ ९ ॥

श्रपयित्वाऽभिघार्योद्वास्य अग्नये इत्यारभ्य पिण्डपितृयज्ञिया मन्त्राः । प्रजापतेरार्षम् । ' सारतण्डुलमपूर्ण पितॄणामिति वाक्यात् सारशब्द मेक्षणेन जुहोत्यग्नय इति सोमायेति च ' ( का ० श्र ० ४ | १ | ६ ) चरुस्थाली | शृताशृतं पूर्णा यथा स्यात्तथा श्रपयित्वा ईषत्स्विन्नवाची । तण्डुलमीषत्स्विन्नं तथा शृतेन चरुणा इति सोमायेति च मन्त्राभ्यां आज्येनाभिघार्यं दक्षिण उद्वास्य उत्तरत आनीयाध्वर्युर्मेक्षणेन कृतापसव्योऽग्नय प्रधानधर्मकत्वावश्यंभावात् प्राचीनावीतिनैव आहुती जुहुयात् । होमस्यास्य देवत्वेऽपि पैतृककर्माङ्गत्वादङ्गस्य । होमः कार्यः । चरुमालोड्य येन काष्ठेन गृहीत्वा हूयते तद् मेक्षणम् तत् पितॄन्प्रति मन्त्रार्थस्तु --- कव्यवाहनाय कवीनां क्रान्तदशिनां पितॄणां सम्बन्धि हविः यस्य कव्यम् स कव्यवाहनः ॥ ' त्रयो वहृति प्रापयतीति कव्यवाहनोऽग्निः । यद्वा तत्कव्यं पितॄणां हविर्वोढुमधिकारो असुराणाम् ' ( तै ० सं ० २५८६ ) । तस्मै वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितॄणां सहरक्षा स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयत इति लिङ्गाद् अग्नये देवाय स्वाहा हविरिदं समर्पितमस्तु । वषट्कारेण ' ( का ० श्री ० ४। १ ७ ) । होमान्तरमध्वर्यु-दैवावेतौ मन्त्रो । ' प्रास्य तद्दक्षिणेनोल्लिखत्यपहृता इत्यपरेण वा स्पयेन दक्षिणाग्रां रेखां कुर्यात् । वेद्यां दक्षिणाग्नौ मेक्षणमपि प्रक्षिप्य दक्षिणाग्नेर्दक्षिणतः पश्चिमतो वा वारिताः । तथा रक्षांसि च अपहतानि । सीदन्तीति वेदिषदस्तथाविधा असुरा अपहता वेदेः सकाशादपनीय असुरा रक्षांसि च देवविरोधिजातिविशेषाः । ० २२४१२१ ९ ) । शतपथे च -- ' स जघनेन गार्हपत्यं प्राचीनावीती भूत्वा दक्षिणासीन आसीन एवं: गृह्णातीति प्राचीनावीती ' ( श भूत्वा पितृयज्ञार्थं गार्हपत्यस्य पश्चिमदेशे व्रीहिपूर्णस्य निर्याणार्थस्य शकटस्य दक्षिणत च कुर्यात् । ' त ७ श्रपयति तस्मिन्नधिश्रित हविर्गृहीयात् । चर्वर्थं गृहीतानां व्रीहीणामवहननं सकृत् फलीकरणं पितॄणां तस्मादधिश्रित आज्यं प्रत्यानयति ' आज्यं प्रत्यानयत्यग्नौ वै देवेभ्यो जुह्वत्युद्धरन्ति मनुष्येभ्योऽथैव तं चरुं दक्षिणाग्नो श्रपयेत् । उद्वासनात् प्रागेव ( श ० २४ २१० ) । सकृत्फलीकृततण्डुलान् स्थाल्यां प्रक्षिप्य तस्मिन् पक्वे सत्याज्यं प्रत्यानयति प्रक्षिपति । तस्मिंश्चरावभिघारणं विधत्ते - अधिश्रिते अग्नेरुपरि स्थापिते अतः उसकी आवृत्ति नहीं की जा रही है ।

भाष्यसार - माष्य का अभिप्राय ऊपर भावार्थ से स्पष्ट हो जाता है ।

ही है ॥ २८ ।

स्वामी दयानन्द ने जो अर्थ किया है, वह श्रुति - सूत्र के विरुद्ध होने से उपेक्षणीय । पितृयुक्त सोमसंज्ञक जो देव है, मन्त्रार्थ- - कव्य का धारण करनेवाला जो अग्नि है, उसे यह हविर्भाग , वे वेदी दिया से भ्रष्ट है हो गये हैं । भूतकालीन कर्म को उसे यह हविर्भाग दिया है । वेदी पर रहनेवाले जो राक्षस और असुर हैं हविद्रव्य ' कव्य ' कहलाता है । सम्पूर्ण चावलों को देखनेवाले जो पितृगण हैं, उन्हें ' कवि ' कहते हैं और उनको दिया हुआ वृक्ष से निर्मित में निकाल ले । तदनन्तर विकंकत अपूर्ण ( अर्ध ) परिपक्व करके, उस पर घृत डालकर, उन्हें स्थाली २२ ॥ मेक्षण से उन चावलों को ' अग्नि ' और ' सोम ' के लिये दो आहुतियाँ देवे ॥

पृष्ठ 107

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 107 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २ ९ ] वेदार्थपारिजातभाष्यसहिता तदुपपादयति- अग्नी वेति । देवार्थं यदाज्यं तद् अग्नौ जुह्वति यजमानाः । मनुष्येभ्यो यद् देयमाज्यं तत् तेषां पुरतो भोजनपात्रेषूद्धरन्ति उद्धृत्य पुरतः स्थापयन्ति । अथैव तद्वैलक्षण्येन पितॄणां त्वधिश्रितावस्थायामेव चरावाज्यमवनेयमिति । एवमेव पितृभ्य आज्यं देयम्, न त्वग्नो होमेन न वा पुरस्तादुद्धरणेन । एतावता मनुष्येभ्यो भिन्ना देवाः पितरश्चेति । श्रुतिसिद्धाः पितरश्च देवमनुष्येभ्यो भिन्ना एव । ' स उद्वास्याग्नौ द्वे आहुती जुहोति देवेभ्यः । देवान् वा एष उपावर्तते य आहिताग्निर्भवति । यो दर्शपूर्णमासाभ्यां य॒जते । अथैतत् पितृयज्ञेनाचारीत्तदु देवेभ्यो निह्नुते स देवः प्रसूतोऽथैतत् पितृभ्यो ननु ददाति पित्रर्थेन । तस्माद्वास्याग्नौ द्वे आहुती जुहोति ' ( श ० २२४२।११ ) । अथोद्वासनपूर्वकं चरोर्होमं विधत्ते -- य हविषा कथं देवेभ्यो होम इत्याशङ्क्य तदुपपादयति-- देवान् वा एष उपावर्तत इति । उपहृतो भवति आहिताग्निर्भवति यश्च दर्शपूर्णमासाभ्यां यजते । अतस्तेभ्यो हविरवश्यं देयम् । अथ तद्वैपरीत्येन एतत् एतर्हि दैविकं कर्म परित्यज्य पित्र्येण कर्मणा अचारीत् पित्र्यं कर्म कृतवानयं यजमानः । तथास्यान्यदीयकर्मानुष्ठानेन देवानां कोपः स्यात्, अतस्तन्निवृत्तये पित्र्ये विकर्मणि देवेभ्यो होमेन तदपराधं निलुते क्षमापयति प्रीणयति वा । एवं होमेन तोषितैर्देवैः प्रसूतोऽनुज्ञातः स यजमानः, अथैतत् पितृभ्यो हविर्दद्यात् तस्मादुद्वास्याग्नौ द्वे आहुती जुहुयात् । ` स वा अग्नये च सोमाय च जुहोति । स यदग्नये जुहोति सर्वत्र ह्येवाग्निरन्वाभक्ताऽथ यत्सोमाय जुहोति पितृदेवत्यो वा सोमस्तस्मादग्नये च सोमाय च जुहोति ' ( श ० २ | ४ | २ | १२ ) । स वा इति । इतरान् देवान् परित्यज्य अग्नेः सोमस्य च होमे कारणमाह - सर्वदेवेषु सर्वेषु कर्मसु अग्निरन्वाभक्तोऽनुप्रविष्टः । नह्यग्निमन्तरेण दैविकं पित्र्यं वा किचित् कर्म निष्पद्यते, अतोऽग्नेर्होमो युक्तः । सोमश्च पितृदेवत्यः, चन्द्रमा वो ज्योतिरिति प्रजापतिः पितॄणां ज्योतिष्ट्वेन चन्द्रमसं कल्पितवान् । अत एव धूमादिमागंण पितॄणां चन्द्रलोकप्राप्तिरुक्ता । ' चन्द्रमसमेव त सर्वे गच्छन्ति ' ( छा ० उ ० ५ १०१५ ) । अतः पित्र्ये कर्मणि सोमाय होमो युक्त एव । ' स जुहोति । अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेत्यग्नौ मेक्षणमभ्यादधाति । तत् स्विष्टकृद्भाजनमथ दक्षिणेऽन्वाहार्यं पचन सकृदुल्लिखति तद्वेदिभाजन १७ सकृदु ह्येव पराश्नः पितरस्तस्मात् सकृदुल्लिखति ' ( श ० २ | ४ | २ | १३ ) । उक्तदेवतयोर्होममन्त्रं विधत्ते श्रुतिः - ' अग्नये कव्यवाहनाय । कव्यं पित्र्यं हविः, तत् पितृन् वहति प्रापयतीति ' कव्यपुरीषपुरीष्येषु ' ( पा ० सू ० ३।२२६५ ) इति ल्युट् । कव्यवाहनाय । अग्नये स्वाहा हविरिदं दत्तमस्तु । पितृमते पितृयुक्ताय सोमाय स्वाहा सुहुतमस्तु । मेक्षणमग्नावभ्यादधाति तच्चास्य होमस्य स्विष्टकृत्स्थानीयम् । अथ दक्षिणेनेति पिण्डप्रदानाय स्थानविशेषं तत्संस्कारं च विधाय प्रशंसति – अन्वाहार्यपचनो दक्षिणाग्निः । दक्षिणाग्नेरदूरेण स्पयेन सकुदुल्लिखति । एकयत्नेन प्राचीं लेखां कुर्यात् तत उल्लिखितस्थलं वेदिभाजनं वेदिस्थानीयं तत्कार्यकरं यत एकवारमेव परानो गताः प्रेताः पितरोऽभवन् न तेषां पुनरावृत्तिरस्ति, अतस्तेषां सकृत्त्वमसाधारणो धर्मः । पितॄणां कालविशेषोऽपि सूचितः— ' सवा अपराह्णे ददाति । पूर्वा वै देवानां मध्यन्दिनो मनुष्याणामपराः पितॄणां तस्मादपरा ददाति ' भाष्यसार - ' अग्नये और सोमाय ' ये दो आहुतियाँ यद्यपि ' देव ' हैं, तथापि पैतृक कर्म का अंग होने से प्राचीनावीती ( अपसव्य ) करके ही होम करना चाहिये । चरु का आलोडन करके जिस काष्ठ से हवन किया जाता है, उसे ' मेक्षण ' कहते हैं । वषट्कार अथवा स्वाहाकार के द्वारा देवताओं को अन्न दिया जाता है । असुर और राक्षस ये देवविरोधी जातिविशेष हैं । १३

पृष्ठ 108

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 108 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ८ शुक्लयजुर्वेदसंहिता [ अ ० २ ( श ० २४ २८ ) । तस्माद्विद्वांसो मनुष्या एव देवाः, जीवन्तः पितृपितामहादय एव पितर इत्यर्धनास्तिकाना-मुक्तयोऽपास्ता वेदितव्याः । अथाध्यात्मम् -- अग्नये कव्यवाहनाय पितृहविः प्रापकत्वविशिष्टाय सोमाय साम्बशिवाय पितरः सन्त्यनुग्राह्या यस्य तस्मै स्वाहा हविर्दत्तमस्तु । अन्यत् पूर्ववदेव । दयानन्दस्तु - ' कुवन्ति शब्दयन्ति सर्वा विद्या ये ते कवयः क्रान्तदर्शनाः क्रान्तप्रज्ञाश्च । तेभ्यो हितानि कर्माणि कव्यानि तानि यो वहति प्रापयति तस्मै । सुष्ठु आह यस्यां सा वाक् । सुवन्त्यैश्वर्याणि प्राप्नुवन्ति यस्मिन् संसारे तस्मै । पितर ऋतवो नित्ययुक्ता विद्यन्ते यस्मिन् तस्मै । स्वाहां स्वं दधात्यनया सा स्वाहाक्रिया । अपहता अविद्वांसोऽसुराः । रक्षांसि परपीडकाः स्वार्थिनः । वेद्यां पृथिव्यां सीदन्तीति ते । ' यावती वेदिस्तावती पृथिवी ' ( ० १ २५७ ) इति ( पृ ० २११ - २१२ ) । तदेतत्सर्वथाऽविचारितरमणीयम् स जुहोतीत्यादिपूर्वोक्त-श्रुतिविरोधात् तत्र जुहोतीत्यनेनाग्नी होमोक्तेः । नहि कविहितकर्मकारिमनुष्यायाग्नी होमो युज्यते । एवं पितृमते सोमायापि होम उक्तः । ऋतुयुक्ताय संसारायापि होमस्य किं प्रयोजनम्? एवं वेदिषद इति विशेषणमेव व्यर्थं स्यात्, अदुष्टानामपि वेदिषत्त्वाविशेषात् । कथं चासुरादयोऽपहता भवेयुः? शब्दमात्रेणा पहननस्याशक्यत्वात् तन्मतं । किन, स अपराह्णे ददातीति श्रुतौ देवानां पितॄणां च मनुष्येभ्यः पृथगुल्लेखस्तेषां कालभेदोल्लेखश्च सर्वथापि खण्डयति । कव्यवाहनोऽत्राग्निरुक्तो न यः कोऽपि कविहितकर्मप्रापकः । अग्निस्तु सर्वहितकर्मप्रापको भवति, दहनपचनादिभिस्तस्य सर्वोपकारकत्वात् । तस्माद्यथा पङ्कजनिकर्तृत्वेऽपि न कुमुदादीनां पङ्कजपदवाच्यता, तथैव कव्यस्यानेकैः प्रकारैर्व्युत्पन्नत्वेऽपि पितृहविष्येव कव्यशब्दस्य प्रवृत्तिर्न देवविषि । अत एव तैत्तिरीयसंहितायां हव्यवाहनकव्यवाहनादयोऽग्निभेदा एवोक्ताः । यस्मै सोमायाहुतिः प्रदीयते स सोमो देवविशेष एव । एवमेवाङ्गति तत्त-सर्वान् पदार्थान् दग्ध्वा देशान्तरे प्रापयतीत्यग्निरित्यग्निशब्दार्थोऽपि चिन्त्यः तथात्वे देशान्तरप्राप्तीच्छ्या दभीष्टपदार्थानामग्नौ प्रक्षेपणीयत्वापत्तेः । अग्नी प्रक्षेपात् पदार्थन ( शस्तु प्रत्यक्षं दृश्यते । नहि प्रत्यक्षवादिभिश्चार्वाक-ज्ञादिकमनुष्ठीयते । प्रत्यक्षानुमानातिरिक्तशब्दप्रामाण्यवादिभिस्तु तत्तदाहुतिजन्यं रपूर्वापरपर्याय रदृष्टरेव तत्तदभीष्टसिद्धिरङ्गो क्रियते । वस्तुतस्तु सिद्धान्तानुसारिव्याख्यानं श्रुतिसूत्रप्रमाणितम्, दयानन्दीयं व्याख्यानं निष्प्रमाणमेव, स्वाभ्यहितानां तादृशामनेकेषामर्थानां सम्भवात् ॥ २ ९ ॥

ये रूपाणि प्रतिमुञ्चमा॑ना॒ असु॑रु॒राः सन्त॑ स्व॒धया॒ चरन्ति ।

परापुरा॑ नि॒पुरो ये भर॑न्त्य॒ग्निष्टाँल्लोकात् प्रण॑दात्य॒स्मात् ॥ ३० ॥

' उल्मुकं परस्तात् करोति ये रूपाणीति ' ( का ० श्र ० ४ । ११८ ) । अध्वर्यू रेखाया अग्रतः, अर्थाद् दक्षिणप्रदेशे दक्षिणाग्न्युल्मुकमादाय निदधाति । इयं त्रिष्टुप् कव्यवाहनाग्निदेवत्या । स्वधया पित्रयं दीयमानया स्वामी दयानन्द ने जो अर्थ किया है, वह अविचारित रमणीय ही है, क्योंकि श्रुतिविरोध होता है । सिद्धान्तानुसारिणी व्याख्या वही कहलाती है, जो श्रुति - सूत्र आदि के द्वारा प्रमाणित हो । दयानन्द स्वामी की व्याख्या तो उनकी कपोलकल्पित होने से अप्रामाणिक ही कही जायगी ॥ २ ९ ॥ N मन्त्रार्थ - पंतुक अन्न भक्षण करने के लिये अपने निजी स्वरूप को त्याग कर पितृरूप धारण करनेवाले जो असुर इस पितृयज्ञस्थान में संचरण करते हैं, तथा जो अपना राक्षसत्व छिपाने के लिये स्थूल सूक्ष्म शरीरों को धारण

पृष्ठ 109

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 109 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ३० ] वेदार्थपारिजातमाष्यसहिता ९९ स्वधया पैतृकान्नेन निमित्तेन पितॄणामन्नमस्माभिर्भक्षणीयमिति हेतोर्ये मायावशात् स्वीयरूपाणि प्रतिमुञ्चमानाः पितृसमानरूपाणि स्वीकुर्वन्तो येऽसुरा देवविरोधिनश्चरन्ति वर्तन्ते पितृयज्ञस्थाने प्रचरन्ति तथा येऽसुराः परापुरो निपुरश्च भरन्ति । पराक्रान्ताः पुरः परापुरः स्थूलदेहान्, निपुरो न्यग्भूता निकृष्टाः पुरः सूक्ष्मदेहान् धारयन्ति स्वमसुरत्वं छादयितुं ये स्थूलसूक्ष्मशरीराणि विभ्रति अग्निरुल्मुकरूपोऽस्माल्लोकात् पितृयज्ञस्थानात् तानसुरान् प्रणुदाति प्रेरयतु, प्रकर्षेणापसारयत्वित्यर्थः । अग्निष्टानित्यत्र ' युष्मत्तत्ततक्षुष्वन्तः पादम् ' ( पा ० सू ० ८ | ३ | १०३ ) इति मूर्धन्यादेशः । यद्वा परापुरो निपुरः पूरणपिण्डदानेन युक्ताः सन्तो भरन्ति हविहरन्ति । परा - नि - पूर्वात् पृणातेः सम्पदादिलक्षणे क्विपि बहुव्रीहिः । स च धातुरत्र पिण्डदाने वर्तते । ' तस्यां पिण्डान् निपृणीयात् पराचीनपाणिः ' ( आश्व ० श्री ० २२६ १५ ) | पुत्र पुरु त्रायते निपरणाद्वा, पुं नरकस्ततस्त्रायत इति वा ' ( नि ० २१३ ) | यद्वा पराः प्रभूताः पुरः शरीराणि येषां ते परापुरः, नि निकृष्टा अल्पाः पुरः शरीराणि येषां ते निपुरः, महाकाया अल्पकायाश्चेत्यर्थः । तथैव शतपथेऽपि -- ' अथ परस्तादुल्मुकं निदधाति । स यदनिधायोल्मुकमथैतत्पितृभ्यो दद्यादसुर. रक्षसानि हैषामेतद्विमनीरंस्तथो हैतत् पितॄणामसुररक्षसानि न विमथ्नते तस्मात्परस्मादुल्मुकं निदधाति ' ( श ० २ | ४ | २ | १४ ) । स्फ्येनोल्लिखित प्रदेशस्यान्ते अग्नेर्निधानं विधत्ते -अथ परस्तादिति । परस्तात् परस्मिन् विप्रकृष्टे पर्यन्ते देशे । विपक्षे बाधकोपन्यासादुल्मुकनिधानमुपपादयति - स यदिति । सुरविरोधीन्यसुर-राक्षसान्येषां पितॄणां स्वभूतमेतत्पिण्डरूपं हविर्विमथ्नीरन् अपहरेयुः । तथो ह तथोल्मुकनिधाने सति न विमथ्नन्ते नापहरन्ति । तस्मादुल्मुकं दधाति । स निदधाति? ये रूपाणि प्रणुदत्यस्मादित्यग्निर्हि रक्षसामपहन्ता तस्मादेवं निदधाति ' ( २।४।२।१५ ) । विहितमुल्मुकविधानमनूद्य मन्त्रं विधत्ते - ये रूपाणीति । अग्निहि रक्षसामपहन्ता । अध्यात्मपक्षे तु येऽसुराः सुरविरोधिनः सुष्ठु शोभनं ब्रह्म तत्र ये रमन्ते ते सुरा ब्रह्मविद्यानिष्ठास्त -द्विपरीता अनात्मनिष्ठा असुराः । अशोभने अनात्मनि असुषु प्राणेषु तदुपलक्षितेषु देहेन्द्रियप्राणमनोबुद्ध यहङ्कारेषु ये रमन्ते तादात्म्याभिमानवन्तस्ते असुराः । ते रूपाणि नानाविधान् वेषान् प्रतिमुञ्जमाना धारयमाणाश्चरन्ति ब्रह्मादिस्थावरान्तानि रूपाणि धारयन्तः संसारे स्वधया अन्नेन निमित्तेन भ्राम्यन्ति । ' असुर्या नाम ते लोका अन्धेन तमसा वृताः । तास्ते प्रेत्याभिगच्छन्ति ये के चात्मनो जनाः ॥ ' ( वा ० सं ० ४० ) इति मन्त्रवर्णात् । ते परापुरः प्रभूतकायाः, निपुरोऽपकृष्टकायाश्च सन्तो भरन्ति हरन्ति विविधान् न्यायान्यायोपार्जितान् भोगानिति शेषः । अग्निर्ज्ञानाग्निस्तान् तेषामासुरभावाननात्मज्ञान् अस्माल्लोकात् संसारात् प्रणुदति सर्वाणि कर्माणि शरीराणि च प्रविलाप्य ब्रह्मात्मभावे प्रतिष्ठापयति । अतस्तदर्थं सर्वैः प्रयत्नवद्भिर्भाव्यम् । दयानन्दस्तु– ' ये मनुष्या रूपाणि अन्तःस्थानि ज्ञानमध्ये यादृशानि ज्ञानानि सन्ति तानि प्रतिमुञ्चमाना आभिमुख्यं ये प्रतीतं मुञ्चन्ति तेऽसुरा धर्माच्छादकाः सन्तः स्वधया पृथिव्या सह ' स्वधा ' इति द्यावापृथिव्योर्नाम करते हैं, उन असुरों और राक्षसों को यह उल्मुकरूपी अग्नि इस पितृयज्ञस्थान से दूर कर दे । ' ये रूपाणि ' इस मन्त्र से रेखा के बाहर उल्मुक को रख दे ॥ ३० ॥

भाष्यसार - भाष्य को मन्त्रार्थ के द्वारा स्पष्ट कर दिया गया है, अतः पुनरावृत्ति की आवश्यकता नहीं है । अध्यात्मपक्ष में जो सुरविरोधी होते हैं, उन्हें असुर कहा जाता है । ब्रह्मचिन्तन में रहनेवालों को सुर कहते हैं । अर्थात् जो ब्रह्मविद्यानिष्ठ रहते हैं, उन्हें सुर कहते हैं और जो अनात्मनिष्ठ रहते हैं, वे असुर कहलाते हैं । अतः

पृष्ठ 110

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 110 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्लयजुर्वेदसंहिता [ अ ० २ निकृष्टस्वभावान् पठितम् । चरन्ति वर्तन्ते । परापुरः परागतानि स्वसुखार्थान्यधर्मकार्याणि निपुरन्ति ते निपुरो स्थानात्, अस्मद्दर्शनाद्वा पिपुरन्ति पूरयन्ति ते भरन्त्यन्यायेन परपदार्थान् धरन्ति, अग्निरीश्वरस्तान् दुष्टान् लोकात् । तत्र स्पष्टमुल्मुकनिधान-प्रणुदातिदूरीकरोति ' ( पृ ० २१३ ) इति, तदपि यत्किचित् शतपथश्रुतिविरुद्धत्वात् अग्निर्हि रक्षसामपहन्तेत्यप्युक्तम् । न चेश्वरस्य विधानमुक्तम्, तदभावेऽसुरराक्षसानि पितॄणां हविर्विमथ्नन्तीत्युक्तम् । हन्ता तदापि स स्वयमेव तेषां कर्मानुसारेणैव निधानं विधातुं शक्यम्, न वा स रक्षसामपहन्ता । यदि भवेदपि ज्ञानमध्ये ज्ञानानि सम्भवन्ति, ज्ञानस्य गुणत्वेन निग्राहकोऽनुग्राहकश्च । तदर्थं न स निधानविधानमपेक्षते । न च ' इत्यप्यसाम्प्रतम्, अन्वयानुपपत्तेः । हिन्द्यां ज्ञानानाश्रयत्वात् । ' तानि ज्ञानान्याभिमुख्यं ये प्रतीतं मुते त्यजन्ति विपरीतभावान् ये प्रकाशयन्ति तेऽसुरा इत्युक्तम् । तु स्वान्तःकरणे विचारितान् भावानन्येषां समक्षे प्रच्छाद्य? एवं स्वधया पृथिव्या चरन्त इत्यप्यनु-तद्यद्यपि नायुक्तम्, तथापि रूपशब्दोऽत्र विद्यते । तस्य कुतो स्वधया ज्ञानार्थता सह वर्तनमिति निरर्थकमेव वचनम् । एवं पपन्नम् । ये पृथिव्यामेव दुष्टस्वभावा मनुष्या वर्तन्ते तेषां, पराशब्दस्य तादृशार्थत्वे मानाभावात् ॥३० ॥

परागतानि स्वसुखार्थान्यधर्मकार्याणि पिपुरन्ति त इत्यप्यसाम्प्रतम्

अ पितरो मादयध्वं यथाभागमायु॑षायध्वम् ।

अर्मीमदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ॥ ३१ ॥

मन्त्रं संहितास्वरेण ' अत्र पितर इत्युक्त्वोदङ्ङास्त आ तमनात् ' ( का ० श्र ० ४ | १ | १३ ) | अध्वर्युरत्रेति । ' आवृत्यामीमदन्तेति पठित्वाऽप्रदक्षिणमावृत्योदङ्मुखो भूत्वा श्वासं निरुद्धय आ तमनाद् पिण्डाभिमुखो ग्लानिपर्यन्तमुपविशेत् भूत्वा संहितास्वरेणामीमदन्ते-जपति ' ( का ० श्र ० ४।१।१४ ) । ततोऽध्वर्युः प्रदक्षिणमावृत्य मोदध्वं प्रसन्ना भवत । ततो हविषि यथाभागं त्यावृत्त्या जपेत् । हे पितरः! यूयमत्रास्मिन् बर्हिषि मादयध्वं पिण्डानश्नीत । आङ्पूर्वाद् वृषशब्दात् स्वं स्वं भागमनतिक्रम्य आवृषायध्वम् । वृष इव यथेच्छं तृप्तिपर्यन्तमेतान् आवृषायिषतेति रूपम् । तदनन्तरं जपनीयमन्त्रः - + ' कर्तुः क्यङ् सलोपश्च ' ( पा ० सू ० ३ | १ | ११ ) इति क्यङि सलोपे हृष्टा यथाभागमावृषायिषत । स्वं अमीमदन्तेति । यान् पितॄन् प्रति मादयध्वमित्युक्तम्, ते पितरोऽमीमदन्त । अभुक्षतेत्यर्थः । भागमनतिक्रम्य वृषवद्यथेच्छं स्वीचक्रुः । आङ्पूर्वस्य वृषायतेरभ्यवहारोऽर्थः मध्यमिव मनुष्याणां मूलमिव ' अथ सकृदाच्छिन्नान्युपमूलं दिनानि भवन्ति । अग्रमिव ० वै २ । ४ । देवानां २ । १७ ) । तस्मिन्नुल्लिखिते स्थाने बर्हिः पितॄणां तस्मादुपमूलं दिनानि भवन्ति । सकृदाच्छिन्नानि भवन्ति ' ( श की प्राप्ति का प्रयत्न करते रहना चाहिये । वह मनुष्य को अपनी ज्ञानाग्नि के द्वारा आसुरभाव को दग्ध कर सुरभाव में सर्वदा ही प्रयत्नशील रहना चाहिये । ज्ञानाग्नि परमेश्वर के अनुग्रह से प्रज्वलित हो पाती है, अतः परमेश्वराराधन वह उपेक्षणीय ही है ॥ ३० ॥

स्वामी दयानन्द ने शतपथश्रुति के विरुद्ध व्याख्या की है । अतः अपने भाग का अतिक्रमण न करते मन्त्रार्थ - हे पितरों! तुम इस कुशापर सन्तुष्ट होकर बैठो । अपने तदनन्तर रुचिकर तृण को यथेच्छ भक्षण करता है, हुए अपने- अपने भाग को स्वीकार करो । जिस प्रकार एक पितरों बैल ने सन्तुष्ट होकर जैसे बेल तृणभक्षण करता है, उसी प्रकार तुम अपने भाग का यथेच्छ भक्षण करो । पूर्वोक्त भाग का यथेच्छ भक्षण किया । ' अत्र पितर: ' इस वैसे ही अपने भाग का अतिक्रमण न करते हुए अपने - अपने की ओर मुख करके बैठे और ' अमीमदन्त ' इस मन्त्र का मन्त्र से जब तक श्वास - निरोध करते बने, तब तक उत्तर जप करे ॥ ३१ ॥