वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 111–120
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 111–120
पृष्ठ 111
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ३१ ] वेदार्थ पारिजातमाष्यसहिता १०१ स्तरितुं तत्सम्पादनं विधत्ते -- सकृदाच्छिन्नानीति, एकयत्नेन छिन्नानीत्यर्थः । उपमूलं मूलसमीपे दिनानि खण्डितानि बर्हीषि पितृकर्मार्थानि भवन्ति । मूलसमीपे छेदनमुपपादयति- अग्रमिव देवानामिति । तदेतत् स्पष्टार्थम् ' ' यत्परुषि दिनं तद्देवानां यदन्तरा तन्मनुष्याणां यत्समूलं तत्पितॄणाम् ' इति तैत्तिरीयश्रुतेः । दिनं ' दोऽवखण्डने मनुष्ये-इत्यस्य रूपम् । ' तानि दक्षिणो स्तृणाति । तत्र ददाति वा इति । ददातीतीव वै स देवेभ्यो जुह्वत्युद्धरन्ति । भ्योऽथैवं पितॄणां तस्मादिति ददाति ' ( श ० २ | ४ | २ | १८ ) । बर्हिषः स्तरणं विधत्ते - तानि दक्षिणोपस्तृणातीति तस्मिन् बर्हिषा-दक्षिणत उल्लिखित प्रदेशे तानि बहषि उपस्तृणाति । तत्र ददातीति पिण्डदानं विधत्ते । तत्र स्तीर्णे प्रदेशे पिण्डान् दद्यादित्यर्थः । तत्र प्रकारविशेषमभिनयेन विधत्ते - स वा इतीति । अनेन प्रकारेण अङ्गुष्ठतर्जन्योर्मध्येन पित्र्येण तीर्थेन पिण्डान् दद्यादित्यर्थः । देवमनुष्यसम्प्रदानके दाने तद्वैपरीत्यकथनेनोपपादयति- । देवेभ्यो हवींषि जुह्वतीति । मनुष्येभ्यो यथायोगं भोक्तव्यमन्नमुद्धरन्ति । उद्धृत्य पात्रान्तरे परिवेषयन्तीति न तु तत्र देवपित्रादितीर्थं विशेषोऽपेक्षितः । अथैवं पितॄणामथोक्तदेवमनुष्यवैलक्षण्येनोक्तेन पित्र्येण तीर्थेन पितॄणां सम्बन्धे हविर्देयमित्यर्थः । ' उपमूलं सकृदाच्छिन्नानि लेखायां कृत्वा यथावनिक्तं पिण्डान् ददात्यसावेतत्त इति ' ( का लेखाया- ० श्री ० ४।१।११ ) । ततोऽध्वर्युर्मूलसमीपे सकृदेकशस्त्रेणैकप्रयत्नेन समूलानि दर्भतृणानि स्फ्येनोल्लिखितायां मास्फार्यावने जनक्रमेण यजमान पितृपितामहप्रपितामहेभ्यः पिण्डान् दद्यात् । ' अमुकगोत्र अमुकशर्मन् यजमानस्य पितः! एतत्ते पिण्डान्नं स्वधा ' इति प्रयोगेण कुशोत्पाटनसमय एव मूलस्याधस्तादेकेनैव शस्त्रप्रहारयत्नेन ! अतोऽमूलं यदुत्पाटितं बर्हिस्तत्सकृदाच्छिन्नमित्युच्यते । छेदनसमये मूलस्याधोभाग एवं लवितव्या नोर्ध्वभागे बहिराहरति ' बहिः सकृदाच्छिन्नमिति केषाञ्चनोक्तिरयुक्तव, ' अपां मेध्यं यज्ञियमिति समूलं सकृदाच्छिन्नं ( आप ० श्र ० ११६ । ३ ) इति वचनात् । तदेवाह शातपथी श्रुतिः -- ' स ददाति । असावेतत्त इत्येव यजमानस्य पित्रे ये च त्वामन्वित्यु हैक आस्तदु इति तथा न ब्रूयात् स्वयं वा तेषा सह येषा सह तस्मादु ब्रूयादसावेतत्त इत्येव यजमानस्य पित्रेऽसावेतत्त ९ ) । पितामहायासावेतत्त इति प्रपितामहाय तद्यदितः पराग्ददाति सकृदु ह्येव पराञ्चः पितरः ' पित्रादीनां ( श ० २।४।२।१ गोत्रसहितं पितृपितामहप्रपितामहानां विहिते पिण्डदाने मन्त्रानाह - असाविति । ' असो ' इति स्थाने दीयत इति सम्बुद्धयन्तं नाम निर्देष्टव्यम् । हे अमुकगोत्र अमुकशर्मन्! एतत् पिण्डरूपं हविस्ते तुभ्यं मया हे पितः! मन्त्रार्थः । ये च त्वामिति शाखान्तराभिहितमन्त्रशेषनिरासार्थमाह । तस्य मन्त्रशेषस्यायमर्थः त्वामनुसृत्य ये वर्तन्ते तेभ्यश्चायं पिण्डस्तृप्तिकरोऽस्त्विति । स्वयं वा तेषामिति तन्निराकरणम् । पित्रनन्तर- पिण्डदाने भाविनां यच्छन्दनिर्दिष्टानां तेषां पिण्डदाता सहभावी वा भवति । तथा य एवैषां सहभावी तेभ्यः । स्वात्मने पिण्डं दत्तवान् भवति । अतस्तत्प्रतिपादको ये च त्वामन्विति मन्त्रभागो न वक्तव्य इति तदभिप्रायः प्रथमपक्षं निगमयति - असावेतत्त इत्येव यजमानस्य पित्रेऽसावेतत्त इत्यादिभिः । तत्र प्रथमं प्रपितामहः पितृत्वं प्राप्तः पश्चात्पितामहस्ततः पितेति । इमं क्रमं परित्यज्य इतः पितृत आरभ्य प्रपितामहपर्यन्तं पराक् सकृत्वपराक्त्व- पराचीनं पिण्डान् दद्यात् । आवृषायध्वम् अश्नीतेति । इत्याह- तद्यदितः पराग् ददाति । यतस्ते पितरः धर्मयुक्ताः सकृदु ह्येव पराञ्चः पितर इति । अप्रदक्षिण भाष्यसार --- - अध्वर्युं नाम का ऋत्विक ' अत्र पितर: ' इस मन्त्र को संहितास्वर से पढ़कर और रहे । तदनन्तर अध्वर्युं प्रदक्षिण घूमकर तथा उदङ्मुख होकर श्वास निरोधकर जब तक ग्लानि न हो, तब तक बैठा
पृष्ठ 112
पाठ पढ़ें पाठ छिपाएँ
१०२ शुक्लयजुर्वेद संहिता [ अ ० २ ' तज्जपति । अत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति यथाभागः श्नीतेत्येवैतदाह ' । पिण्डदानानन्तरं मन्त्रजपं विधत्ते । मन्त्रगतं किञ्चिद् व्याचष्टे - अत्रास्मिन् देशे हे पितरः! मादयध्वं तृप्ता भवत । तदर्थं यथाभागं स्वं स्वं भागमनतिक्रम्य मया दत्तान् पिण्डान् आवृषायध्वम् । आवृषायिषध्वमित्यस्य अश्नीतेत्यर्थपरतां श्रुतिः स्वयं व्याचष्टे -- यथाभागमरनीतेत्येवैतदाहेति । ' अथ पराङ् पर्यावर्तते । निर इव वै मनुष्येभ्यस्तिर इवैतद्भवति । सवा आतमितोरासीतेत्याहुरेतावान् ह्यसुरिति स वै मुहूर्तमेवासित्वा ' ( श ० २०४/२/२१ ) । ' अथोपपल्यप्य पति - अमीमदन्त पितरो यथाभागमावृषायिषतेति । यथाभागमाशिषुरित्येवैतदाह ' ( श ० २२४।२।२२ ) । जपानन्तरं परागावर्तनं विधत्ते - पराङ पर्यावर्तत इति । पराङ्मुखः सन् पिण्डाभिमुख्यं विहाय पर्यावर्तते । किमर्थमेतदित्याह - तिर इवेति । तिरोभूताः पितरो मनुष्येभ्यः, अन्तर्धानशक्तियोगात् । एतहि पिण्डदातरि पिण्डाभिमुख्यं विहाय पर्यावर्तमाने सति तेषां तिर इव तिरोधानमिव भवति । पर्यावर्तन कालस्य परिमाणं विधत्ते स वा आतमितोरासीतेति । स खलु पर्यावर्तमान आतमितोर्निरुद्धश्वासगतेरात्मनो यावत् तमनं ग्लानिर्भवति तावदासीतेति केचिदाहुः । ' तमु ग्लानी ' दिवादि: । ' भावलक्षणे स्थेणकृञ्वदिचरिहुतभिजनिभ्यस्तोसुन् ' ( पा ० सू ० ३ | ४ | १६ ) इति तो सुन्प्रत्यये तमितोरितिरूपम् । तत्रोपपत्तिमाह - एतावान् ह्यसुरिति । तस्मादेतावन्तं कालमासीतेति । पक्षान्तरमाह-- मुहूर्तमेवासित्वेति । द्वादशक्षणात्मको यो मुहूर्त कालस्तावत्पर्यन्तमासीतेत्यर्थः विधत्ते । -' आतमनात् ' इति सूत्रांशेन तदेतत्सर्वं कात्यायनेनोक्तम् । उक्तकालानन्तरं पर्यावर्तमानस्य मन्त्रजपं अथोपपल्यप्य जपतीति । उपपल्यभ्य पिण्डसमीपं परिप्राप्य । उपपरिपूर्वस्यायतेर्त्यपि ' उपसर्गस्यायतो ' ( पा ० सू ० ८ | २ | १ ९ ) इति लत्वे रूपम् | अमीमदन्तेति मन्त्र जपति । मन्त्रार्थस्तूक्त एव । तत्र आवृषापितेति पदस्य विवक्षितमर्थमाह श्रुतिः -- यथाभागमाशिषुरित्येवैतदाह मन्त्रः । लुङि बहुवचनान्तम् | आशिषुः ' अश भोजने ' क्रादिः } स्वं भागं जक्षुरित्यर्थः । अध्यात्मपक्षेऽपि - पिण्डपितृयज्ञस्थापि ब्रह्मात्मसाक्षात्कार उपयोगः । ' अश्ववत्तु सर्वोपेक्षा यज्ञादिश्रुतेः ' ( ब्र ० सू ० ३४।२५ ) । हे पितरः! ब्रह्मज्ञानेन संसारसागरतारका अत्र मादयध्वं प्रसन्ना भवत यथाभागमावृषायध्वं यथाभागमावृषायिषतेति । दयानन्दस्तु पूर्वोक्तशतपथश्रुतिविरुद्धमेवार्थमाह । तथाहि - ' मनुष्यर्धार्मिका ज्ञानिनो विद्वांसः सत्कर्तव्या इत्युपदिश्यते । हे पितरो यूयमत्र यथाभागमावृषायध्वं मादयध्वमस्मान् पितरो यथाभागमावृषायिषतामीमदन्ता-स्मान् हर्षयत । आवृषायिषत विद्याधर्माशिक्षया हर्षकारका भवत ' ( पृ ० २१५ ) इति । एतच्च श्रुतिविरुद्धमेव पित्र्येण, श्रुत्या आशिषुरित्यर्थ करणात् । नहि जीवत्पितॄणां सम्बन्ध्ययं पिण्डपितृयज्ञः " शतपथे देवमनुष्य विलक्षणेन तीर्थेन तेषां हविर्दानं विहितम् । जीवन्तः पितरस्तु मनुष्या एवेति तेभ्यः पात्रेषु परिवेषणलक्षण उद्धार एव स्यात्, कालोऽपि तेषां मध्याह्नः स्यादत्र त्वपरातुः समय उक्तः । मनुष्यकार्ये बर्हिषो मध्यमेवोक्तम्, पितॄणां तूपमूलम् । नहि मनुष्याणां जीवतां पितॄणां गार्हपत्यस्य दक्षिणस्यां दिशि स्पयेनोल्लिखितायां लेखायामुन्मूला- न वा लौकिकाः च्छिन्नानि बर्हीष्यास्तीर्य तेषु पिण्डा दीयन्ते, न च लौकिकपितॄणां भोजने मन्त्रजपो विधीयते । घूमकर पिण्डाभिमुख होकर संहिता स्वर से ' अमीमदन्त ' मन्त्र का जप करता रहे । इस मन्त्र की तथा अपने भाग के भक्षण करने की प्रार्थना की गई है । अध्यात्मपक्ष में - पिण्डपितृयज्ञ का भी ब्रह्मात्मसाक्षात्कार में उपयोग होता है । पितरों से बहि पर बैठने
पृष्ठ 113
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ३२ ] वेदार्थ पारिजातभाष्यसहिता १०३ पितरो मनुष्येभ्यस्ति रोहिता भवन्ति । न वा तेषां भोजने आ तमतोरासीतेति पराङ्गपर्यावर्तनं सप्रयोजनं भवति । नवोपपयप्य जपविधानमपेक्ष्यते ॥ ३१ ॥
नमो वः पितरो रसा॑य॒ नमो॑ वः पितरः शोषा॑य॒ नमो वः पितरो जीवाय नमो वः पितरः स्व॒धाये॒ नमो वः पितरो घोराय॒ नमो॑ वः पितरो म॒न्यवो॒ नमो॑ वः पितर॒ पत॑रो॒ नमो॑ । वो गृ॒हान्न॑ः पितरो दत्त स॒तो वः॑ पि॒तरो॒ द्वेष्मै॒तवः॑ पितरो वास ॥ ३२ ॥
' अवनेज्य पूर्वदनीवि विस्रस्य नमो व इत्यञ्जलिं करोति ' ( का ० श्र ० ४। १ । १५ ) | पूर्ववत् पिण्डोपरि प्रत्यवनेजनं कृत्वा नीवि विस्रंस्य नमो व इत्यादिषड्भिर्मन्त्रैर्नमस्कारार्थं षड्वारमञ्जलीन् कुर्यादध्वर्युः । ‘ षड्वा नमस्कारान् ' ( का ० श्री ० ५ ९ | १ ९ ), ' अत्र गृहान्न इति जपति ' ( का ० श्र ० ५।९ ।२० ) इति पितृयज्ञो गृहान्न इत्यस्य जपश्च कार्य, समानश्रवणात् ' षड्वा ऋतवः ' इति श्रुतेः । रसादिशब्देन वसन्तादिका ऋतव उच्यन्ते । ते च पितॄणां स्वरूपभूताः । यतो मध्वादयो रसा वृक्षेषु जायन्तेऽतो रसशब्देन वसन्तो गृह्यते । हे पितरः! युष्माकं सम्बन्धिने रसाय रसभूताय वसन्ताय नमः । भवत्प्रसादलब्धाय पयोघृतादिरूपाय वो नमः । शोषाय शुष्यन्त्योषधयो यत्रेति शोषो ग्रीष्मस्तस्मै नमः | वो युष्माकं सम्बन्धिने जीवाय जीवनहेतुभूताय वर्षर्तवे नमः । वः स्वधायै भवदीयान्नाय शरदे नमः । ' स्वधा वै शरत् ', ' स्वधा वै पितॄणामन्नम् ' इति श्रुतेः । शरदि हि प्रायशोऽन्नानि भवन्ति । घोराय विषमाय हेमन्ताय नमः । शीतप्रचुरत्वेन दुःखदत्वाद् घोरो हेमन्तः । मन्यवे तीव्राय क्रोधाय तद्रूपाय शिशिराय । शिशिरः सर्वोषध देहति । हे पितरः! एवंविवेभ्य ऋतुरूपेभ्या वो युष्मभ्यं नमस्कारोऽस्तु | अभ्यास आदरातिशयार्थः । हे पितरः! नोऽस्मभ्यं गृहान् भार्यापुत्रादियुक्तान् दत्त । हे पितरः! वो युष्मभ्यं सतो विद्यमानान् धनरत्नादिपदार्थान् दद्म इति शेषः । युष्मत्प्रसादादस्माकं तथाविधधनधान्य-रत्नादिपुत्रभार्यादियुक्ता गृहा भवन्तु, यथा नो गृहे सतो विद्यमानान् धनरत्नादिपदार्थान् वो युष्मभ्यं द्वेष्म दद्मः । ददतां चास्माकं कदाचिदपि द्रव्यादिक्षयो मास्त्वित्यर्थः । एतद्व इत्युपास्यति सूत्राणि प्रतिपिण्डमूर्गादशा वा वयस्युत्तरे यजमानलोमानि वेति ' ( का ० श्री ० ४।१।१६ - १८ ) । एतद्व इति मन्त्रेण सूत्राणीति बहुवचनो-पदेशात् प्रतिपिण्डं त्रीणि त्रीणि सूत्राणि निदध्यात् । अथवा प्रतिपिण्डमूर्णा निदध्यात् । अथवा वाससो दशां छित्वा निदध्यात् । अथवा यदि पञ्चाशत्तमवर्षादूर्ध्ववयस्को यजमानः स्यात्तदा तस्य हृदयस्थानि लोमानि छित्त्वा सूत्रस्थाने निदध्यात् । मन्त्रार्थस्तु हे पितरः! वा युष्मभ्यं वासः सूत्रमेव परिधानमस्तु । स्वामी दयानन्द ने शतपथश्रुति के विरुद्ध ही अपना अर्थ किया है । यह समझने की बात है कि जीवित पितरों के लिये पिण्डपितृयज्ञ नहीं किया जाता ॥ ३१ ॥
मन्त्रार्थ - हे पितरों! रसरूपी वसन्त, शुष्कतारूपी ग्रीष्म, जीवन हेतुभृत जलरूपी वर्षा, पित्रन्न स्वधारूपी प्राणियों को घोर प्रतीत होनेवाला हेमन्त और क्रोधरूपी शिशिर ये शरद्, तुम्हारे स्वरूप हैं । ऐसे ऋतुस्वरूपी तुमको हमारा प्रणाम रहे । हे पितरों! तुम हमें भार्या पुत्रादि से सम्पन्न कर दो और हम अपने पास स्थित ब्रम्य आदि को तुम्हें देंगे । हे पितरों! यह वस्त्रसूत्र तुम्हारा परिधान हो । ' नमो वः ' इस मन्त्र से उत्तान अंजलिरूप
पृष्ठ 114
पाठ पढ़ें पाठ छिपाएँ
१०४ शुक्लयजुर्वेदसंहिता [ अ ० २ पितरमसा-तदेतत्सर्वं शतपथे स्पष्टम् । ' अथोदपात्रमादायावनेजयति । असाववनेनिक्ष्वेत्येव इति यजमानस्य । पिण्डदानात्प्रागि-ववनेनित्रेति पितामहमसाव वने निक्ष्वेति प्रपितामहम् । तद्यथा जक्षुषेऽभिषिञ्चेदेवं तन्मन्त्रः तत् ' । तत्र त्रिष्वपि मन्त्रेषु वेदानीमपि पित्रादीनामुदकावनेजनं विधत्ते - अथोदपात्रमिति । असाववनेनिक्ष्वेति - तद्यथेति । असावित्यस्य स्थाने पित्रादीनां नामानि क्रमेण निर्दिशेत् । एतदवनेजनं लोकव्यवहारेणोपपादयति उदकमभिषिञ्चेत्, एवमेव तत् तत्र विषये निदर्शनमभिधीयते यथा जक्षुषे भुक्तवते पुरुषाय मुखप्रक्षालनार्थं हस्ते ' ( पा ० सू ० २ | ४ | ४० ) तत् पिण्डदानानन्तरभाविजलावसेचनमित्यर्थः । अदेलिटः क्वसौ ' लिटयन्यतरस्याम् नमस्करोति । पितृदेवत्या इति घसादेशे पुनश्चतुर्थ्येकवचने सम्प्रसारणे च ' जक्षुषे ' इति रूपम् । ' अथ नीविमुह्य षट्कृत्वो नमस्करोति षड्वा वं नीविस्तस्मान्नोविमुवृह्य नमस्करोति । यज्ञो वै नमो यज्ञियानेवनानेतत्करोति । गृहाणाह पितर ईशते एषो ऋतवः पितरस्तस्मात् षट्कृत्वो नमस्करोति गृहान्नः पितरो दत्तेति सकृदाच्छिन्नान्यभ्यादधाति पुनरुल्मुक-एतस्याशीः कर्मणोऽथावजिघ्रति प्रत्यवप्राय पिण्डान्त्स यजमानभागोग्नौ । नीविः परिधानीयस्य वाससो दशा मपि सृजति ' ( ० २४ २२४ ) | नमस्कारं विधत्ते - अथ नीविभिति कारणमाह पितृदेवत्येति । अग्ग्रभागः । तामुद्गृह्य विस्त्रस्य पितॄन् नमस्करोति । कुतो नीविविलसनमित्याशङ्क्य विस्रंस्य प्रदर्श्य ते नमस्कर्तव्याः । नीवेः यतो नीविः पितृदेवत्या पितृदेवतार्था पितॄणां तृप्तिकरी तस्मात्तां नीवि नीवि: ' ( तै ० सं ० ६ | १ | १।३ ) । पितृदेवत्यत्वं तैत्तिरीयकेऽप्याम्नातम् – ' अग्नेस्तुषाधानं वायोर्वातपानं पितॄणां । यज्ञश्च पूजात्मकः, ' यज देव-नमस्कारस्य प्रयोजनमाह यज्ञो वै नम इति । नमस्कारेण हि पूजा गम्यते करोति । स च पूजासङ्गतिकरणदानेषु इति धातोर्निष्पन्नत्वात् । तेन नमस्कारेणैतान् यज्ञियान् यागाहनिव । वत्संख्यामनूद्य विहितो नमस्कारो नमो व इत्यादिमन्त्रः कर्तव्यः । तस्मिन् मन्त्रे षड्भ्यो नम इति प्रयुज्यते नमस्कुर्यात् । स्तौति - षट्कृत्वो नमस्करोतीति । नमो वः पितरो रसाय नमो वः पितरः शोषाय इत्येवं षड्वारं श्रूयते - ' यस्मिन्नृती ऋतवः पितरः । वसन्तादिष्वृतुषु मृतस्य तत्तदनुरूपत्वप्राप्तेस्तादात्म्यव्यपदेशः । तथा इत्यादि च । तस्मात्तेषामृतूनां पुरुषः प्रमीयते सोऽस्यामुष्मिल्लोके भवति । यदि वसन्ते प्रमीयते वसन्तो भवति । नमस्कारमन्त्रस्य ' स्पष्टार्थत्वात्त-षट्संख्यात्वयोगात् त॒त्तादात्म्यापन्नानां पितॄणां नमस्कारोऽपि षड्वारो युक्तः तेषां विशेषतो गृहाणां च्छेषमुपादाय व्याचष्टे – गृहान्नः पितरो दत्तैति । ' गृहाणां पितर ईशते ' अस्माद्वचनादेव परत्वं विज्ञायते । एतस्य भार्यापुत्रपौत्रादिरूपाणां दानेऽधिकारः । तत्प्रसादात्तत्प्राप्तिर्भवति मन्त्रशेषस्य चाशीः पिण्डशेषस्यावघ्राणं विधत्ते । पिण्डपितृयज्ञस्य कर्मण एषा आशोः फलप्रार्थना उ एवेत्यर्थः । अथावजिघ्रतीति । तच्चावघ्राणं यजमान-पिण्डान् पिण्डपात्रे प्रत्याधायावघ्राणं कर्तव्यम् । ' घ्रा गन्धोपादाने ' इत्यस्य जिघ्रादेशः पिण्डान् स्थापयित्वा भागः । ' अवघ्रायावजिघ्रति यजमानः ' ( का ० श्र ० ४।१।२० ) । अध्वय स्थाल्यां बर्हीषि अग्नौ स्थिते सति यजमानः पिण्डान् जिघेत् । स्तोर्णस्य बर्हिषः प्रतिपत्ति विधत्ते - सकृदाच्छिन्नानि अभ्यादधातीति प्रक्षिपतीत्यर्थः । उल्मुकस्य संसर्जनं विधत्ते - पुनरुल्मुकं विसृजतीति । ये रूपाणांति मन्त्रेण यदुल्मुकं नमस्कार करे । ' एतद्व: ' इस मन्त्र से प्रत्येक पिण्ड को तीन सूत्र अथवा ऊर्णा, अथवा दशा समर्पण करे और यजमान का वय पचास से ऊपर हो तो अपने वक्षःस्थल के रोम पिण्डों पर अर्पित करे ॥ ३२ ॥
भाष्यसार - ऊपर दिया हुआ मन्त्रार्थ शतपथ में स्पष्ट है । मन्त्रशेष आशीर्वादपरक है । यहाँ पिण्डशेष के अवधाण का विधान किया गया है । बिछाये हुए बहियों के प्रतिपत्तिसंस्कार को बताया गया है । जिस उल्मुक को पहिले पृथक् किया था, उसी को अब पुनः अग्नि में डाल देना चाहिये ।
पृष्ठ 115
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ३२ ] वेदार्थपारिजात भाष्यसहिता १०५ पुरस्तात् पृथक्कृतं तदिदानीं पुनः संसृजेत पुनरग्नो निक्षिपेदित्यर्थः । ' उल्मुकसकृदाच्छिन्नान्यग्नो ' ( का ० श्रो ० ४ | ११२१ ) | अध्वर्युः सकृदाच्छिन्नानि बहषि अग्नौ प्रक्षिप्य उल्मुकं च तत्रैव क्षिपेत् । अध्यात्मपक्षे - हे पितर इति जगत्कारणस्य परमेश्वरस्यादरार्थं बहुवचनान्तत्वेन सम्बोधनम् | सार्वात्म्य-बोधनाय तेषां रसादिरूपत्वोक्तिः । रसाय वसन्तर्तुरूपाय पयोदधिघृतरूपाय नवरसरूपाय निर्विशेषब्रह्मरसात्मकाय च नमः प्रह्वीभावोऽस्तु । तत्तत्प्रपञ्चोत्पादकत्वेन पृथक् सम्बोधनपदानि । भूतपञ्चकोत्पादकाः सप्तप्रकृत्युत्पादका ज्ञानेन्द्रियपञ्चकोत्पादकाः कर्मेन्द्रियपञ्चकोत्पादकाः । शोषाय सर्वसंहारकाय विश्वप्रपञ्चल्याधिष्ठानाय नमः । जीवाय प्रपञ्चस्थितिहेतवे ' येन जातानि जीवन्ति ' ( तै ० उ ० ३ १ ) इति श्रुतेः । नमो वः स्वधायै पितृतृप्तिहेतु-स्वधात्मककव्यान्नरूपाय स्वधाशब्दरूपाय वा नमः । घोराय असुरप्रेतरक्षोगणादिरूपाय मन्यवे तीव्रक्रोधरूपाय, ' नमस्ते रुद्रमन्यवे ' ( वा ० सं ० १६ | १ ) इति मन्त्रवर्णात् । व्यतिहारनिर्देशः समादरातिशयद्योतनाय । पितरः! सर्वकारणभूता भगवन्तः, नोऽस्मभ्यं गृहान् शरणानि दत्त । ' शरणं गृहरक्षित्रो: ' ( अ ० को ० ३ | ३ | ५३ ) इति कोषात् । भगवच्छरणागतेरेव सर्वकल्याणहेतुत्वात् । सतो विद्यमानान् सर्वानपि देहाद्यात्मान्तान् पदार्थान् वो युष्मभ्यं देष्मः दद्मः । हे पितरः! वासः मायामयं वासः, आधत्त आसमन्ताद् धारयन्ति तेनैवावृतत्वाद् सर्वे पश्यन्ति युष्मान्, ' नाहं प्रकाशः सर्वस्य योगमायासमावृत: ' ( भ ० गी ० ७ २५ ) इति गीतावचनात् । दयानन्दस्तु — ' अत्रानेके नमः शब्दा अनेकशुभगुणसत्कारद्योतनार्थाः । यथा वसन्तग्रीष्मवर्षाशरद्धेमन्त-शिशिराः षडृतवो रसशोषजीवान्नघनत्वमन्यूत्पादका भवन्ति तथैव पितरोऽनेक विद्योपदेशैर्मनुष्यान् सततं प्रीणयन्ति । तानुत्तमैः पदार्थैः सत्कृत्य तेभ्यः सततं विद्योपदेशा ग्राह्याः ' ( पृ ० २१८ ) इत्याह तच्छतपथा दिविरुद्धं प्रकरणविरुद्धं च मृतपित्रादीनामेव पिण्डपितृयज्ञेऽग्नौ पितृहविर्लक्षणस्य कव्यस्य सकृदाच्छिन्नैः समूलैर्बर्हिभि-रास्तृतायां भूमौ पित्र्येण तीर्थेन निर्वापनिर्णयात् । किञ्चात्र पितॄणामृतुरूपत्वमुक्तम्, तच्च तेषु तेष्वृतुषु मृतानां ततादाम्यापन्नानामेव सम्भवति, न जीवतां पितॄणाम् । नहि नीविविस्रंसनं जीवयः पितृभ्य उपयुज्यते । न च सूत्राणामूर्णानां यजमानलोम्नां वा जीवतां पितॄणां कृते उपयोगः सम्भवति । यत्तु - नमो नम्रीभावे इत्यत्र यज्ञो नमः, यज्ञियानेवैतत्करोतीति प्रमाणमुक्तम्, तत्तु तद्विरुद्धमेव तत्र नमस्कारस्य पूजात्मकयज्ञरूपत्वोक्त्या पितॄणां यागार्हत्वोक्तेः । पितरो विद्यानन्ददायका इत्यपि निर्मूलम् रसाय विद्यानन्दप्रापणायेत्यपि न युक्तम्, तत्र रसपदस्याशक्तत्वात् । ' रसो वै सः ' ( तै ० उ ० २७ ) इति श्रुत्या तु रसरूपः परमात्मैवोक्तः । न तदुपदेशको रसपदवाच्यो भवितुमर्हति, लक्षणायां बीजाभावात् । पितरो धर्मजीविकाज्ञापका इत्याद्यर्थोऽपि काल्पनिक एव, पितृपदस्य तत्राशक्तेः । नम इत्यस्य शीलधारणार्थे ज्ञानग्रहणार्थे इत्यादिकमपि गौणार्थमेव । मन्यन्ते अभिमानं कुर्वन्ति यस्मिन् स मन्युः, दुष्टेषु तद्भावनायेत्यपि यत्किञ्चित्, अविवेकेऽपि मन्युपदप्रयोगापत्तेः, क्रोधस्याभिमानाविनाभावित्वायोगात् । यत्तु गृहानागत्य शिक्षा विद्या दत्तेति, तदयुक्तम्, तादृशाध्याहारस्या-अध्यात्मपक्ष में हे पितरों! जगत्कारणभूत परमेश्वर के आदर प्रदर्शनार्थं बहुवचन का प्रयोग किया है । सार्वात्म्य बोधन कराने के हेतु उनको रसादिरूपा बताया गया है । इसी प्रकार उनकी सर्वरूपता बताकर उनसे अपनी रक्षा की प्रार्थना की है । स्वामी दयानन्द का कहना है कि इस मन्त्र में जो अनेक ' नमः ' शब्दों का प्रयोग किया गया है, वह अनेक शुभ गुणसत्कार के द्योतनार्थ हैं, एवं च पितर अनेक विद्याओं के उपदेशों से मनुष्यों को सतत प्रसन्न करते रहते हैं, अतः तुम भी उनको उत्तम पदार्थों से सत्कृत करके उनसे सतत विद्योपदेशों का ग्रहण करते रहो । १४
पृष्ठ 116
पाठ पढ़ें पाठ छिपाएँ
१०६ शुक्लयजुर्वेदसंहिता [ अ ० २ प्रामाणिकत्वात् । वयं युष्मभ्यं सतः पदार्थान् नित्यं देष्मेति चायुक्तमेव, सत्यपदस्य विद्यमानार्थकत्वेन पदार्थवाचकत्वे मानाभावात् । अस्माभिर्दत्तं वासो वस्त्रादिकं स्वीकुरुतेत्यपि यत्किञ्चित् जीवतां पित्रादीनां गृहपतित्वेन तेभ्यो वासोदानाद्यनुपपत्तेः । गृहानागत्योपदेशदानादिकमपि न सङ्गतम्, जिज्ञासूनामेव गुरुकुलादी महर्षीणामाश्रमादौ गमनश्रवणात् । तस्मात्सिद्धान्तपक्षीयमेव व्याख्यानं युक्तम् ॥ ३२ ॥
आध॑त्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरु॒षोऽस॑त् ॥ ३३ ॥
' आधत्तेति मध्यमपिण्डं पत्नी प्राश्नाति पुत्रकामा ' ( का ० श्र ० ४।१।२२ ) । पुत्रकामा यजमानपत्नी मध्यमं पितामहपिण्डं भुञ्जीत । इयं पितृदेवत्या गायत्री ऋक् । हे पितरः! पुष्करस्रजमश्विभ्यां देवाभ्यां भिषजो सदृशं पुष्कराणां पद्मानां स्रुग् माला यस्य तम् अश्विनौ देवी पुष्करस्रजी पद्ममालिनौ देवानां तत्साम्यकथनेन रोगादिरहितं सुन्दरं धनधान्यादियुतमित्युक्तं भवति । तथाविधं कुमारं पुरुषरूपं गर्भं स्वसङ्कल्पबलेन सम्पादयत । इहास्मिन्नेव ऋतौ । पुरुषो देवपितृमनुष्याणामपेक्षितार्थस्य पूरयिता यथा असत् भवेत् तथा गर्भमाधत्त । अध्यात्मपक्षे - हे पितृतुल्या गुरवः! पुष्करस्रजं कुमारमिव ब्रह्मविचाररूपं गर्भमाधत्त येनेह पुरुषः असद् भवेत् सद्विशिष्टः स्यादिति । तथा च श्रुतिः - ' असन्नेव स भवति असद् ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः ॥ ' ( तै ० उ ० २ २६ ९ ) । अत्र ' विदु: ' इति श्रुत्या ब्रह्मविचारजनितब्रह्मसत्त्व-निश्चयेनैव सत्त्वोपपत्तिरुच्यते । दयानन्दस्तु - ' हे पितरः! यूयं यथायं ब्रह्मचारीह शरीरात्मबलं प्राप्य पुरुषो असत् भवेत् तथैव गर्भमिव पुष्करस्रजं कुमारं विद्यार्थिनमाधत्त धारयत ' इति, तदसङ्गतमेव, गर्भमिवेत्यत्र इवपदाध्याहारे मानाभावात् । यदुक्तं ' विद्याग्रहणार्था स्रग्धार्यते ' इति, तदपि न सङ्गतम्, ब्रह्मचारिणः स्रगादिधारणनिषेधात् ॥ । ' तथा च मनुः – ' वर्जयेन्मधुमांसं च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम्! ( २।१७७ ) इति । जीवतां पितॄणां पिण्डपितृयज्ञपक्षे नायं मन्त्रः कथमपि सङ्गच्छते । तथात्वे हे पितरः किन्तु यह दयानन्दीय व्याख्यान शतपथश्रुति के विरुद्ध है तथा प्रकरणविरुद्ध भी है, क्योंकि मृत पितरों को ही पिण्डपितृयज्ञ के समय अग्नि में पितृहविलक्षण कव्य का सकृत् आच्छिन्न समूल बह से आस्तृत की गई भूमि पर पित्र्य तीर्थ से निर्वाप करने का निर्णय किया गया है । किञ्च, यहाँ पर पितरों को ऋतुरूप बताया गया है । वह ऋतु-रूपता मृत पितरों में ही संभव हो सकती है, जीवित पितरों में नहीं । ऐसी अनेक विसंगतियां दिखाई देती हैं, अतः दयानन्द व्याख्या को उपेक्षणीय ही समझना उचित है ॥ ३२ ॥
मन्त्रार्थ -- हे पितरों! तुम इन्हीं ऋतुओं में देव, पितृ और मनुष्यों की इच्छाओं को पूर्ण करने वाले, कमलपुष्पों की माला को धारण करनेवाले अश्विनीकुमार के तुल्य पुत्र को गर्भ में हो । यजमान की पत्नी को यदि पुत्र प्राप्ति की कामना हो तो वह ' आधत्त ' इस मन्त्र से ' मध्यम ' पिण्ड का भक्षण करे ॥ ३३ ॥
भाष्यसार - यह पितृदेवताक गायत्री ऋक् है । अश्विनीकुमार युगलदेवता हैं और देवताओं के वैद्य हैं । इनकी उपमा देकर यह सूचित किया गया है कि यहाँ रोगरहित, सुन्दर, धन धान्य से समृद्ध ऐसे पुत्र की कामना की गई है । इसी ऋतु में संकल्प बल पर अभीप्सित पुत्रगर्भ निष्पाद की क्षमता है ।
पृष्ठ 117
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ३४ ] वेदार्थपारिजात भाष्यसहिता १०७ यूयं गर्भम् आसमन्ताद् धत्त धारयत । ये पान्ति विद्यादिदानेन तेऽपि गर्भाधाने नियुक्ता भविष्यन्ति । एकादश पुरुषाणां गर्भाधानाय नियोगो यस्य मते तस्येवकाराध्याहारोऽनुपपन्न एव सनातनिपक्षे तु मृतानां प्रत्यक्ष-गर्भाधानासम्भवादेव स्वसङ्कल्पप्रभावेन गर्भमाधत्तेति सूपपद्यते ॥ ३३ ॥
ऊशं॒ वह॑न्तीर॒मृतं घृ॒तं पर्यः कोला पितन् ॥ ३४ ॥
६ परि॒स्रुत॑म् । स्व॒धाय॑ त॒र्पय॑त मे ' ऊर्जमित्यपो निषिञ्चतीति ' ( का ० श्र ० ४। १ । १ ९ ) । ऊर्जमिति मन्त्रेणाध्वर्युः पिण्डमूले पिण्डसमीपे भूमावपो निषिञ्चेत्, तर्पयत मे पितॄनिति लिङ्गात् । पितॄणामधिष्ठानं पिण्डास्तेन पिण्डानामुपरि निषिञ्चेदिति देवयाज्ञिकः । इयमब्देवत्या विराट् । हे आप! यूयं स्वधा पितृहविःस्वरूपा भवथ । स्वमात्मीयं पितॄणां धानं पोषणं स्वधा । अतो मे पितृस्तर्पयत । कथम्भूतास्ताः? परिस्रुतं फलपुष्पादिभ्यो निःसृतं सारं वहन्त्यः । प्रथमान्तत्वेन विपरिणामः । तच्च सारं त्रिविधम् - ऊर्जशब्देन धनशब्देन पयः शब्देन चोच्यते । तत्रोजशब्दो बलकरान्नगतं स्वादुत्वं बोधयति । घृतपयसी प्रसिद्धे । घृतं तच्चामृतं मधुरं सर्वरोगनिवारकं मृत्युनाशकम्, नास्ति मृतं यस्मात्तत् । पुनः कथंभूतं कोलालं कीलो बन्ध, ' कील बन्धने ' धातुः । तमलति वारयतीति कीलालम्, ' अलं वारणपर्याप्त्ययोः ' । सर्वबन्धनिवर्तकं तादृशस्य त्रिविधस्य सारस्य वहनादपां पितृतर्पकत्वं युक्तमेव । अध्यात्मपक्षे तु हे आपः! आप्नुवन्तीत्यापः परमात्मस्वरूपा आपः मे मम सम्बन्धिनः पितॄन् देवांश्च तर्पयत, सर्वतृप्तिहेतुरसरूपत्वात् । हे आपः! यूयं स्वधास्थ पित्रन्नरूपा भवत । कथंभूता यूयं परिस्रुतं वहन्तीः । अत्र द्वितीया वहन्त्य इति प्रथमान्तत्वेन परिणमनीया । अन्यत् पूर्ववत् । तादृश्य आपोऽपि परमात्म-रूपत्वात् तर्पयित्र्यः । तत्रैव तर्पकत्वमपि पर्यवस्यति । दयानन्दस्तु - ' हे पुत्रादयः! यूयं मे मम पितॄन् ऊजं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं दत्त्वा तर्पयतैव । तत्सेवनेन विद्याः प्राप्य स्वधास्थ परस्वत्यागेन स्वसेविनो भवत ' ( पृ ० २२१ ) इत्याह, तदेतत् प्रमाणशून्यम्, वैयर्थ्यादिदोषगणसम्पृक्तत्वात् । तथाहि - हे पुत्रादयः! यूयं मे पितॄन् तर्पयतेत्युक्तिरपार्थैव, स्वेनैव स्वपितॄणां तर्पणीयत्वात् । दत्त्वेति पदाध्याहाररूपं गौरवमपि । तत्सेवनेन सर्वा विद्याः प्राप्येत्यंशोऽपि वेदबाह्य एव, मन्त्रे तादृशार्थबोधकपदाभावात् । स्वमेव दधते स्वधा इत्यप्यसाम्प्रतम्, ' स्वधा: ' इति विसर्गान्त-पाठाभावात्, ' स्वधा वै पितॄणामन्नम् ' इति श्रुतिविरोधाच्च । तस्मान्मृतप्रेत तर्पणार्या आप एवात्र सम्बोध्यन्ते, स्वधास्थेत्यनुरोधात् । वहन्तारित्यस्य ऊर्जं वहन्त्यो हे आपः! यूयं स्वधा पितृहविः स्वरूपाः स्थ भवथ इति स्वामी दयानन्द ने श्रुति- सूत्र - परम्परा के विरुद्ध ही व्याख्यान किया है, जो सर्वत्र असंगत हो गया है । ' गर्भमिव ' यहाँ पर ' इव ' पद के अध्याहार में कोई प्रमाण नहीं है । यह जो लिखा है कि ' विद्यार्थी ब्रह्मचारी विद्याग्रहणार्थ मालाधारण करते हैं, वह मी ठीक नहीं है, क्योंकि ब्रह्मचारी को तो गन्धमाल्य, मधु - मांस आदि का निषेध किया गया है । पिण्डपितृयज्ञ के पक्ष में जीवित पितरों के निमित्त यह मन्त्र किसी तरह भी संगत नहीं हो सकता । अतः श्रुति - सूत्र और श्रीत याज्ञिक परम्परानुमोदित सिद्धान्त पक्ष का व्याख्यान ही उचित समझना चाहिये ॥ ३३ ॥
मन्त्रार्थ - हे उनकों! तुम अन्न, घुत और पय इन तीन शब्दों के द्वारा कहे जाने योग्य पुष्पगत सारभाग को धारण करने वाले हो । ऊर्ज, घृत और पय ये मृत्युनाशक तथा बन्धनिवारक हैं । तुम पितृव्यस्वरूपी हो, अतः मेरे पितरों को सन्तुष्ट करो । ' ऊर्जम् ' इस मन्त्र से पिण्ड के मूल प्रदेश में जल से सिञ्चन करे ॥ ३४ ॥
पृष्ठ 118
पाठ पढ़ें पाठ छिपाएँ
१०८ शुक्लयजुर्वेद संहिता | अ ० २ पूर्वोक्त एवार्थः । किञ्च, मन्त्रस्तु बलात्कारेणापि यथाकथञ्चिद् व्याख्यातुं शक्यते । तत्र सिद्धान्तपक्षीयं व्याख्यानं श्रुतिसूत्रसम्मतम्, अन्यत्तु स्वाभ्युहितमात्रम् । मृतपितृणामेव पिण्डपितृयज्ञादिकं न जीवतामिति स्पष्टं सूत्रकारः कात्यायन आह - ' प्रेतेभ्यो ददाति जीवत्पितृकोऽपि जीवान्तहितेऽपि ' ( का ० श्री ० ४। १ । २३ ) । यत्पितृभ्यो दानमुक्तं तन्मृतेभ्यः पितृभ्यो तं जीवन्तं दद्यात्, जीवत्पितृकोऽपि पिण्डपितृयज्ञमनुतिष्ठेदित्यर्थः । अनुतिष्ठश्च पितृपितामहप्रपितामहेषु यः कश्चिज्जीवति परित्यज्य मृतेभ्यः पिण्डान् दद्यादिति पूर्वपक्ष: । ' जीवत्पितृकस्येति होमान्तम् ' ( का ० श्री ० ४।१।२४ ) । जीवत्पितृकस्य यजमानस्य होमान्तमेव पिण्डपितृयज्ञकर्म स्यान्न तत ऊध्वं पिण्डदानादि । एवं पक्षद्वयमुपन्यस्य सिद्धान्तमाह - ' अनारम्भो वा ' ( का ० श्र ० ४। १ । २२ ) । वाशब्दः पूर्वपक्षनिरासार्थः । पिण्डदानस्य प्रधानत्वात् व्यवेते तदभावे होमस्य तदङ्गभूतस्याननुष्ठानमेव युक्तम् । अतो जीवत्पितृकेण पिण्डपितृयज्ञो नानुष्ठेयः । ' न जातूकर्ण्यः ' ( का ० श्री ० ४।१।२६ ) । जीवेन पित्रादिना व्यवहिते पितामहादौ पिण्डदानं न भवतीति जातूकर्ण्य ) । अतो आह । जातूकर्ण्यग्रहणं प्रत्ययदार्यार्थम्, ' न जीवन्तमतीत्य तद् ददातीति श्रुतेः ' ( का ० श्र ० ४।१।२७ जीवत्पितृस्य प्रधाने पिण्डदाने निषिद्धेऽनारम्भपक्ष एव श्रेयान् । ' पूर्वेद्युः पितृभ्यो निष्क्रीय प्रातर्यंज्ञं तनुते ' ( तै ० ब्रा ० १ ३ १० ) इति श्रुत्या पिण्डपितृयज्ञो दर्शात् पूर्वमनुष्ठीयते ॥ ३४ ॥
॥ इति द्वितीयोऽध्यायः ॥ भाष्यसार -- सूत्रकार के अनुसार पिण्ड के समीप भूमि पर जल सिवन करने के लिये कहा गया है । किन्तु देवाज्ञिक का कहना है कि पितरों का अधिष्ठान पिण्ड हैं, अतः पिण्ड के ऊपर सिंचन करना चाहिये । हे जलों! तुम स्वधारूप यानी पितृहविःस्वरूप हो जाओ । पितरों के अन्न को ' स्वधा ' कहते हैं । जल को पितरों का तर्पक कहा गया है । जल पुष्पों से निर्गत हुए सार को वहन करता है । वह सार तीन प्रकार का होता है, जो ऊर्जशब्द से, घृतशब्द से, पयः शब्द से कहा जाता है । ' ऊर्ज ' शब्द अन्नगत स्वादुत्व को बताता है । घृत और पयस् तो सर्वत्र प्रसिद्ध ही हैं । वह त्रिविध सार पुनः कैसा है? वह अमृतरूप है, अर्थात् सर्वरोगविनाशक और मृत्युनाशक है । वह कीलाल है, यानी सर्वबन्धनिवर्तक है । ' कील बन्धने ' । कीलनं कील:, तम् अलति वारयतीति कीलालम् । वारण और पर्याप्त अर्थ में ' अलम् ' धातु है । इस प्रकार के त्रिविध सार के वहन करने से जल को जो पितृतर्पक कहा गया है, वह उचित ही है । अध्यात्मपक्ष में जल को क्योंकि समस्त तृप्ति के हेतुभूत रस परमात्मा का स्वरूप कहा गया है । अतः मेरे पितरों तथा देवों को तृप्त कर दो, आपका ही स्वरूप बताते हैं । हे परमात्मन् जल! तुम मेरे पितरों के लिये अन्न ( स्वधा ) रूप बन जाओ । इस प्रकार से परमात्मा की प्रार्थना की गई है । स्वामी दयानन्द ने जो व्याख्या की है, वह प्रमाणरहित होने से त्याज्य है, क्योंकि वैयर्थ्यादि दोषों से वह युक्त है । ' स्वधा: ' ऐसा विसर्गान्त पाठ भी मन्त्र में नहीं है । श्रुतिविरोध भी है । अत: सिद्धान्तपक्ष की व्याख्या ही श्रुति-सूत्रसम्मत है । जीवत्पितृक को पिण्डपितृयज्ञ का अनुष्ठान विहित नहीं है ॥ ३४ ॥
॥ इति द्वितीयोऽध्यायः ॥
पृष्ठ 119
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः
ॐ स॒मिधा॒ग्नि दे॒वस्यत घृतैर्बोधय॒ताति॑थम् । आस्मिन् ह॒व्या जु॑होतन ॥ १ ॥
समिधाग्निमिति । इतः पूर्वमध्यायद्वयेन दर्शपौर्णमासेष्टिसम्बन्धिनो मन्त्रा उक्ताः । इदानीमाधान मन्त्रा उच्यन्ते । प्रागग्निर्ज्योतिरित्यन्तानां मन्त्राणां प्रजापतिरग्निर्गन्धर्वा देवा ऋषय आग्नेय्यश्चतस्रो गायत्र्यः । ' आश्वत्थोस्तिस्रो घृताक्ताः समिध आदधाति अमावस्यायामग्न्याधेयम् ' ( का ० श्री ० ४।७।१ ) इति कालविशेषादीनि ब्रह्मोदन पाकपर्यंन्तानि कार्याणि निरूप्य ' तं चातुष्प्राश्यं पचत्युद्वास्यासेचनं मध्ये कृत्वा सर्पिषासिच्याश्वत्थोस्तिस्रः समिधो घृताक्ता आदधातीति समिधाग्निमिति प्रत्यचम् ' ( का ० श्री ० ४।८।२ - ३ ) इति कात्यायनः । अर्थात् कृत्वा चतुभिर्ऋत्विग्भिः प्राशितुं योग्यमोदनं पक्त्वा बहिरुद्वास्य तस्योदनस्य मध्ये घृतसेचनाय निम्नं स्थानं यूयं तत्सर्पिषापूर्य तिस्रः समिधस्तस्मिन् सर्पिष्यभ्यज्य तिसृभिर्ऋग्भिरग्नावादधाति । मन्त्रार्थस्तु - हे ऋत्विजो समिधा सम्यगिध्यते दीप्यतेऽग्निर्यया सा समित् तया आश्वत्थ्या अग्निसमिन्धन हेतुभूतया अग्नि देवं दुवस्यत परिचरत, दुवस्यतेः परिचरणार्थत्वात् । घृताक्ताभिः समिद्भिर्जातं सन्तमग्नि पूर्णाहुतिसम्बन्धिभिर्दोष्यमाणं-रतिथिधर्माणमातिथ्य कर्मणाराधनीयं वा बोधयत प्रबुद्धं कुरुत । प्रज्वालयतेत्यर्थः । अस्मिन् प्रज्वलितेऽग्नौ हव्या नानाविधानि हवींषि आ जुहोतन सर्वतो जुहुत । ' तप्तनप्तनयनाश्च ' ( पा ० सू ० ७ १/४५ ) इति तनबादेशेन जुहोतनेति रूपम् । अध्यात्मपक्षे - हे साधका यूयं समिधा ब्रह्मविद्यया ब्रह्मस्वरूपदीपिकया ब्रह्मरूपमग्नि दुवस्यत परिचरत । ' ब्रह्माग्नौ ब्रह्मणा हुतम् ' ( भ ० गी ० ४।२४ ) इति गीतास्मृतेः । घृतस्तद्विषयकैर्भक्तिपुरस्कृतः प्रज्वलिते श्रवणमननादिभि- स्नेहमयः श्रवण-मनन - निदिध्यासनैरतिथिरिव महतादरेण पूजनीयं बोधयत प्रदीपयत । अस्मिन् जुहोतन सर्वं ब्रह्माकारवृत्तिरूपया सूर्यकान्तयाऽभिव्यक्ते चित्सूर्याग्नौ आ समन्तात् सर्वं दृश्यं तत्तद्वृत्तिस्रुग्भिः, प्रविलाप्य ब्रह्मात्मनाऽवतिष्ठत । दयानन्दस्तु - ' हे विद्वांसो यूयं समिधा घृतैरग्नि बोधयत । तमतिथिवत् दुवस्यत । अस्मिन् हव्या होतव्यानि द्रव्याण्याजुहोतंन प्रक्षिपत ' ( पृ ० २२७ ) इत्याह तदतिमन्दम्, आधानादिषु कर्मसु वृतानामृत्विजा- क्रमेण दुवस्यत मेवाधिकाराद् ऋत्विजामेव सम्बोधनं युक्तम्, न विद्वत्सामान्यानाम्, समिधा घृतैरिति कारणद्वयस्य मन्त्रार्थ - हे ऋत्विजों! तुम लोग काष्ठरूप अग्नि को पूर्णाहुति से सम्बन्धित घृत से प्रज्वलित करो । चारों ओर से ( सर्वतः ) हवन करो । प्रथम और गया । उसके अनन्तर इस तृतीय अध्याय के आठ पर्याप्त चावल पकाकर भात बनावे, उस भात को में ले और पूर्व के तीन बनाकर उसमें यथेष्ट घृत डाले । उस घृत में तीन समिधाओं को भिगोकर उनको हाथ ऋत्विज उन समिधाओं का हवन करें ॥ १ ॥
समिधा से अग्नि की सेवा करो और आतिथ्य कर्म से पूज्य तदनन्तर प्रज्वलित हुए अग्नि में नाना प्रकार के हविर्द्रव्यों से द्वितीय अध्याय में दर्शपौर्णमास इष्टि के मन्त्रों को बताया मन्त्र ' आधान ' से सम्बन्धित हैं । चार ऋत्विजों के लिये पृथक् पात्र में निकाल कर उस भात में घृत के लिये गतं
पृष्ठ 120
पाठ पढ़ें पाठ छिपाएँ
११० शुक्लयजुर्वेद संहिता [ अ ० ३ बोधयतेति क्रियाद्वयेनान्वयसम्भवे एकेन करणेन शान्ताकाङ्क्षायां बोधयतिक्रियायाः करणान्तरेण सम्बन्धायोगात्, दुवस्यतेत्यस्य निष्करणत्वापत्तेश्च । यत्तु – ' अविद्यमाना तिथिर्यस्य तम् ' ( पृ ० २२५ - २२६ ) इति, तत्तूपेक्ष्यमेव, ‘ नञ्सुभ्याम् ’ ( पा ० सू ० ६।२।१७२ ) इति नियमेनाद्युदात्तस्वरानुपपत्तेः, अन्तोदात्तत्वापत्तेश्च । यत्तु - ' नैकः पन्थाः शक्य आस्थातुम् ' ( पा ० सू ० ६ | ३ | १४ ) इति स्थलीय महाभाष्ये शास्त्रवचनप्रामाण्यात् सर्वमिष्टं संगृहीतं भवति । यथोपदिष्टानां व्याकरणेन साधुत्वमात्रमन्वाख्यायते ' ( पृ ० २२५ टि ० ) इति, ' अर्थनित्यः परीक्षेत न संस्कारमाद्रियेत ' ( नि ० २1१ ) इति च ( पृ ० २२५ टि ० ), तथा ' पाणिनिनापि ' इन्द्र लिङ्गमिन्द्रदृष्टम् ' ( पा ० सू ० ५।२।१३ ) इति बहुधेन्द्रियशब्दो व्युत्पादित: ' ( पृ ० २२५ - २२६ टि ० ) इति, तत्तु निर्लज्जतापूर्णं धाष्टर्यमेव, सायणोव्वटमहीधरादिभाष्येषु दयानन्देनैव स्वरादिदोषोद्भावनात् । अत एव बहुव्रीहिपक्षे ' नञ्सुभ्यां ' ( पा ० सू ० ६।२११७२ ) इत्येष इष्टानुरोधान्न प्रवर्तत इत्यपास्तम् । यत्तु बहुव्रीहिपक्षे मन्वादिभाष्यप्रमाणोद्धरणं ( पृ ० २२६ टि ० ), तत्तु कर्णस्पर्शे कटिचालनम् बहुव्रीहिपक्षस्यान्यत्र सम्भवेऽपि प्रकृतमते स्वरदोषास्पदत्वेन त्याज्यत्वोक्ते । यदपि ' हव्यादातुमादातुमर्हाणि वस्तूनि ' ( पृ ० २२६ ) इति, तदपि तुच्छम् जलवस्त्रमणिरत्ना-दीनां दातुमादातुमर्हत्वेऽपि हव्यत्वाभावात् । तस्माद्विहितानि हवींष्येव हव्यानीति मन्तव्यम् । यत्तु - ' सुगन्ध्यादि-युक्तघृतादिभिर्यानेषु जलबाष्पादिभिर्बोधयत ' इति, ' घृतमित्युदकनामसु पठितम् ' ( पृ ० २२५ ) इत्यादि च, तदपि बालभाषितम्, श्रुतिसूत्रविरोधात् । त्वद्रीत्या भौतिकस्य जडस्य परिचरणाभ्युपगमे तवापसिद्धान्तात्, ( ६८११६ ) इतिस्थलीय शतपथवचनाच्च त्वत्पक्षस्यात्यन्तमसङ्गत्वात् । तथाहि - ' समिधाग्नि दुवस्यतेति । समिधाग्नि नमस्यतेत्येतत् घृतैर्बोधय तातिथिमस्मिन् हव्या जुहोतनेति घृतैरिह बोधयतातिथिम् ' ( श ० ६ | ८ | १ | ६ ) | दुवस्यतेत्येतद् व्याचष्टे - समिधाग्निमिति । नमस्यतेत्येतदिति । अत्र श्रुत्या समिधा दुवस्यतेत्येतयोः सम्बन्धोऽभिहितः । तथैव घृतैर्बोधयतातिथिमित्यनया घृतैरतिथि बोधयतेति सम्बन्ध बोधितः । बोधयतेत्यस्य तात्पर्यमाह - बुद्धवत्यग्नी इत्यायै ह्येनमेतद् बोधयति । इत्याय गमनाय देवेभ्यो हविः प्रापयितुं गमनाय बोधयतेत्यर्थः । -केचित्तु आत्मयाजिदृष्ट्या ब्रह्मोपदेशपरत्वेन मन्त्रमिमं व्याचक्षते । तथाहि – समिधा प्राणेन ' प्राणा वै समिध: ' ( ऐ ० ब्रा ० २।४ ) । अग्निम् आत्माग्निम् ' आत्मा वा अग्निः ' ( श ० ७ | ३ | १२ ) दुवस्यत घृतैः इन्द्रियशक्तिभिः । यथा श्रुतिः - पयः शीर्षस्तत् प्राणम् ' ( श ० ६ | ५ | ४ | १५ ) | अतिथिमातिथ्यकर्मणा पूजनीय मात्माग्नि बोधयत प्रज्वालयत । आत्माग्नौ हव्या मनोवृत्तीः, यथा श्रुतिः - ' सोम एवान्नमग्निरन्नादः ' ( श ० १४/४ | २ | १३ ), ' यत्तन्मन एव स चन्द्रमा: ' ( श ० १ | ३ | ३ | ७ ), ' चन्द्रमा वै सोमो देवानामन्नम् ' इति, तदप्यविचारितरमणीयम्, समुद्धृतश्रुती आत्मशब्देन शरीरग्रहणात् । ततः पूर्वं चितो गार्हपत्यो भवति । अचित आहवनीयोऽथ राजानं क्रोणात्ययं वै लोको गार्हपत्यो द्यौराहवनीयोऽथ योऽयं वायुः पवते । एष सोम एतं तदिमी लोकावन्तरेण दधाति तस्मादेष इमो लोकावन्तरेण पचते ' ( श ० ७ | ३ | १ | १ ) इति साग्निचित्ये क्रतौ सोमक्रयणस्य कालं विधाय स्तौति – चितो गार्हपत्य इति गार्हपत्याहवनीययोर्मध्यकाले चोदकप्राप्तः सोमक्रयः कर्तव्यः । सोमस्य गार्हपत्याहवनीययोर्मध्येऽवस्थानं लोकत्रयरूपेणोपपाद्यते - अयं वै लोको गाईंपत्य इत्यादि । भूर्लोकस्वर्लोकात्मको गार्हपत्याहवनीयो । योऽयं वायुः पवते एष एव क्रीयमाणः सोमः । अत्र भाष्यसार - भाष्यार्थं का स्पष्टीकरण उपर्युक्त मन्त्रार्थं से हो जाता है । अत: पुनरावृत्ति नहीं कर रहे है । अध्यात्मपक्ष में- हे साधकों! तुम लोग ब्रह्मस्वरूपदीपिका ( ब्रह्मविद्या ) से ब्रह्मरूप अग्नि की परिचर्या करो | गीता में कहा है-- ' ब्रह्माग्नौ ब्रह्मणा हुतम् ' । तद्विषयक भक्तिपुरस्कृत स्नेहमय श्रवण, मनन, निदिध्यासन के