वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 91–100
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 91–100
पृष्ठ 91
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २३ ] वेदार्थपारिजातभाष्यसहिता II स्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै॑ त्वा॒ विमु॑ञ्चति । पोषा॑य॒ रक्ष॑सां भा॒ग॒ोऽसि ॥ २३ ॥
अत्र श्रीदयानन्दः - ' को मनुष्यस्त्वा तं यज्ञं विमुञ्चति कोऽपि नेत्यर्थः । यश्च यज्ञं विमुञ्चति त्वा तं स यज्ञः परमेश्वरो विमुञ्चति । यज्ञकर्ता कस्मै प्रयोजनाय त्वा तं पदार्थ समूहमग्नौ विमुञ्चति? यतः सर्वसुख-प्राप्तिर्भवेत्तस्मै पोषाय त्वा तं विमुञ्चति, किन्तु यः पदार्थः सर्वोपकारे यज्ञे च न प्रयुज्यते स रक्षसां भागोऽसि भवति ' ( पृ ० १ ९ ८ ) इत्यादि, तदपि यत्किचित् प्रमाणशून्यत्वात् । व्याख्यानमिदं तदभिमतशतपथविरुद्धं च । तथाहि - ' अथ प्रणीता दक्षिणतः परीत्य निनयति । युङ्क्ते वा एतद्यज्ञं यदेनं तनुते स यन्न निनयेत् पङ हाविमुक्त एव यज्ञो यजमानं प्रक्षिणीयात्तथो ह यज्ञो यजमानं न प्रक्षिणाति तस्मात् प्रणीता दक्षिणतः परांत्य निनयति ' ( श ० ११ ९ / २ / ३२ ) | ( श ० १२२५/२/७ ) इत्यत्र प्रणीताप्रणयनं वक्ष्यति । अध्वर्युरुत्तर-पार्श्वद्दक्षिणपा ( आहवनीयं प्रदक्षिणतो ) गत्वा स्वदेशेऽवस्थिता एव प्रणीता निनयति । तत्रत्या आपो नीति | ' युक्त एव वा ' इत्यादिना तदर्थवादः । यन्निनयते एतत् प्रणीतानिनयनेन एनं यज्ञं तनुते यश नियते पराङ हाविमुक्तोऽनावृत्तो यज्ञो यजमानं प्रक्षिणीयाद् हिंस्यात् तथा नीयमानासु प्रणीतासु तु न प्रक्षिणात न हिनस्ति । स निनयति । कस्त्वा विमुति " पोषायेति । तत्पुष्टिमुत्तमां यजमानाय निराह स येनैव प्रणयति तेन निनयति येन ह्येव योज्यं युञ्जन्ति तेन विमुञ्चन्ति योक्त्रेण हि योग्यं युञ्जन्ति योक्त्रेण विमुञ्चन्त्यथ फलोकरणान् कपालेनाधोऽधः कृष्णाजिनमुपास्यति रक्षसां भागोऽसीति ' ( श ० १।९ ।२।३३ ) । प्राग्वहितं निनयनमनूद्य मन्त्रं विधत्ते - कस्त्वेति । तथैवाह कात्यायनः - वेद्यां प्रणीता निनयति परीत्य कस्त्वेति ' ( का ० श्र ० ३ | ८ | ६ ) | अध्वर्युर्वेदिमध्ये दक्षिणसंग्रहसमीपे प्रणीता आसाद्य स्वयमाहवनीयं प्रदक्षिणीकृत्य ब्रह्मयजमानयोरन्तराले उदङ्मुख उपविश्य कस्त्वेति मन्त्रेण प्रणीता अपो भूमौ निनयेत् । अत्र मन्त्रे निनयामी-त्यध्याहारः । पोषायेति मन्त्रभागं व्याचष्टे -- तत्पुष्टिमुत्तमां यजमानाय निराहेति । पुष्टेर्हेतुरापस्तासु निरस्यमानासु मा भूत् पुनरास:, तेन पुष्टि निराह - उत्तमामिति । कस्त्वा युनक्तीत्ययं प्रजापतिदेवत्येन मन्त्रेण यथापूर्वं यज्ञयोग उक्तः, तथैवात्रानेन मन्त्रेण यज्ञविमोक उक्तः । किमर्थोऽयं यज्ञविमोक इति चेत्तत्राह - पोषाय यजमानं पोषयितुम् । एतस्य विमोकस्याभावे यजमानोऽप्रतिष्ठितः स्यात् । तदुभयं तित्तिरिर्दर्शयति-- ' यो वै यज्ञं प्रयुज्य न विमुखत्य-प्रतिष्ठानो वै स भवति कस्त्वा युनक्ति स त्वा विमुञ्चतोत्याह - प्रजापतिर्वै कः प्रजापतिनैवैनं युनक्ति प्रजापतिना विमुञ्चति प्रतिष्ठित्य ' ( तै ० सं ० १२७१६ | १४ ) इति । फलीकरणानिति । फलीक्रियन्ते तण्डुला एभिरिति फलीकरणाः । अङ्गीभवन्ति तण्डुलनिष्पत्ती । अभूततद्भावे ' कृभ्वस्तियोगे सम्पद्यकर्तरि च्वि: ' ( पा ० सू ० ५ | ४ | ५० ) इति च्चि: । फलीकरणान् तण्डुलकणान् उपास्यति उत्क्षिपति उत्करे कपालेन मध्यमेन प्रथमं नातिक्रामेत्, अधोऽधः अधस्तान्नातिदूरे कृष्णाजिनं कृष्णाजिनस्याधस्तात् समीप इत्यर्थः । तदेवाह कात्यायनः -' पुरोडाशकपालेन कणानपास्यत्यधः कृष्णाजिन ७ रक्षसामिति ' ( का ० श्र ० ३ ८ ७ ) । तदर्थस्तु - फलीकरणानन्तरं मन्त्रार्थ हे प्रणीतापात्र! कौन तुमको छोड़ता है? वह प्रजापति परमेश्वर तुमको छोड़ता है । वह तुमको किस लिये छोड़ता है? वह अपने आत्मसन्तोष के लिये तुमको छोड़ता है । हे प्रणीतोदक! यजमान को पुत्र आदि हों, एतदर्थ मैं तुमको भूमि पर छोड़ रहा हूँ । हे कणसमूह! तू राक्षसों का भाग है । आहवनीय अग्नि की प्रदक्षिणा करके वेदी पर ' कस्त्वा ' मन्त्र से प्रणीतापात्र की स्थापना करे । ' रक्षसामू ' इस मन्त्र से पुरोडाशकपाल पर के मृत्कणों को भूमि पर गिरा देना चाहिये ॥ २३ ॥
११
पृष्ठ 92
पाठ पढ़ें पाठ छिपाएँ
II शुक्लयजुर्वेदसंहिता [ अ ० २ स्थापितान् कणान् प्रथमकपाले निधाय उत्करस्योपरि समीप एव कृष्णाजिनं सव्येन धारयन् कृष्णाजिनस्याधस्ताद् उत्करे कपालेनैव रक्षसामिति मन्त्रेण क्षिपेदिति । ' देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिर एतस्मिन् यज्ञे प्रजापती पितरि संवत्सरेऽस्माकमयं भविष्यत्यस्माकमयं भविष्यतीति ' ( श ० ११ ९ / २ / ३४ ) | स्पष्टार्था कण्डिका । ' ततो देवाः । सर्वं यज्ञ संवृज्याथ यत्पापिष्ठं यज्ञस्य भागधेयमासीत्तेनैनान्निरभजन्नस्ना पशोः फलीकरणैर्हविर्यज्ञात् सुनिता असन्नित्येष वै सुनिर्भक्तो यं भागिनं निर्भजन्त्यथ यमभागं निर्भजन्त्यैव स तावच्छत उत हि वशे लब्ध्वाह किं मा बभक्थेति स यमेवैभ्यो देवा भागमकल्पयंस्तमेवैभ्य एष एतद्भागं करोत्यथ यदधोऽधः कृष्णाजिनमुपास्यत्यनग्नावेवैभ्य एतदन्वे तमसि प्रवेशयति तथो एवासृक् पशो रक्षसां भागोऽसीत्यनग्नावन्धे तमसि प्रवेशयति । तस्मात् पशोस्तेदनीं न कुर्वन्ति रक्षसा ७ हि स भाग: ' ( श ० ११ ९ / २ / ३५ ) | एवं देवानामसुराणां च यज्ञनिमित्तप्रस्पर्धायां देवाः सर्व यज्ञं हविर्यज्ञाख्यं संवृज्य समाप्तिपूर्वं संहृत्य अथानन्तरं यज्ञस्य यज्ञसाधनस्य हविष यत्वापिष्ठ भागधेयमासीत् तेनैवासुरान् निरभजन् निर्भक्तवन्तः, बहिर्यज्ञात् कृतवन्तः । केन कस्मादित्याह अस्ना पशोः । असृक्शब्दस्य असन्नादेश: ( पा ० सू ० ६ १ ९ ६२ ) | अस्ना लोहितेन पशोर्निरभजन् । फलीकरणैस्तण्डुलकणैर्हविर्यज्ञान् निर्भजन्तोऽभूवन् । एष वै सुनिर्भक्तः यं भागिनं स्वल्पभागेनापि भक्तं निर्भजन्ति । यमभागं भागमदत्त्वा ये निर्भजन्ति स भागी प्रथमं शंसत एव उतापि अबलो हि बलवतां वशे भवति । कुतश्चित्कालपर्ययाल्लब्ध्वा आसाद्य बलं आह ब्रूते मनसि किं त्वं मामां भक्य किं मह्यं त्वया दत्तम् । यं भागं एभ्यो रक्षोभ्यो देवा अकल्पयन् कल्पितवन्तः, उपास्यति समीपे प्रक्षिपति | अग्निहने अन्धे तमसि प्रवेशयति तथा पशोः असृगपि । तस्मात् पशोस्तेदनीं न कुर्वन्ति यज्ञे पशोर्जीवतश्छेदनं न कुर्वन्ति तेन लोहितं रुधिरं सिद्धयति । छेदनमन्तरेव संज्ञपयन्ति । अनन्तरमेव वपोद्धरणादिकं क्रियते । तथा च कस्त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति इति मन्त्रस्य यथा व्याख्यानं तथैव प्रकृतमन्त्रस्यापि व्याख्यानं ज्ञातव्यम् । तत्राणां प्रणयनं कुर्वन्नध्वर्युर्यज्ञारम्भकर्मण्यात्मनः कर्तृत्वमपोद्यं प्रजापतेर्यज्ञकर्तृत्वं प्रश्नोत्तराभ्यां प्रतिपादितवान् । हे प्रणीतानामपां धारकपात्र! त्वां कः पुरुषो नियुनक्ति आहवनीयस्योत्तरभागे स्थापयतीति प्रश्नः । स इति तच्छ्ब्दः प्रसिद्धार्थवाचकः । सर्वत्र जगन्निर्वाहकः प्रसिद्ध एव परमेश्वरः । स परमेश्वर एव त्वां युनक्ति, तस्यैव सर्वप्रेरकत्वादित्युक्तम् । कस्मै प्रयोजनाय त्वा युनक्कांति पुनः प्रश्नः । तस्मै त्वा युनक्ति । तस्मै प्रजापतये तस्य परमेश्वरस्य प्रीत्यर्थं त्वा युनक्तीत्युत्तरम् । तथैवात्रापि यज्ञविमोकप्रसङ्गेऽपि हे प्रणीतापात्र हे यज्ञ इति वा कस्त्वा विमुञ्चतीति प्रश्नः । स परमेश्वरोऽन्तर्याम्येव त्वा विभुतीत्युत्तरम् । कस्मै त्वा विमुञ्चतीति प्रश्नः । तस्मै त्वा विमुञ्चति परमेश्वराय तत्प्रीत्यं त्वा विमुञ्चति । परमेश्वर एव यज्ञयोक्ता स एव विमोक्ता स एव यज्ञस्य सम्प्रदानभूतः । हे प्रणीतापात्रस्था आपः! तदुपलक्षितयश पोषाय यजमानस्य धनपुत्रादिभिः पुष्ट्यर्थं त्वां निनयामीति शेषः । यज्ञं प्रयुज्याविमो के यजमानस्याप्रतिष्ठापत्तविमोकः कार्यः । ‘ यो भाष्यसार - स्वामी दयानन्द ने इस मन्त्र की जो व्याख्या की है, वह भी प्रमाणशून्य होने से उपेक्षणीय ही है । उनकी व्याख्या शतपथब्राह्मण के विरुद्ध है । यद्यपि मन्त्राक्षरों से ही अर्थ स्पष्ट हो रहा है, तथापि शास्त्रप्रामाण्य में दृढ़ निष्ठा न होने से और नास्तिक्य के कारण देव और राक्षसों की योनिविशेषों का स्वीकार न कर पाने से बेद की व्याख्या करने में अपनी इच्छानुसार लेखनी का उपयोग किया है । वास्तविक मान्त्रार्थं ऊपर दे दिया गया है ।
पृष्ठ 93
पाठ पढ़ें पाठ छिपाएँ
• मन्त्रः २३-२४ ] वेदार्थपारिजातमाष्यसहिता ८३ वैज्ञं प्रयुज्यन विमुञ्चत्य प्रतिष्ठानो वै स भवति ' ( तै ० सं ० १७ ६ । १४ ) इति श्रुतेः । हे कणसमूह! त्वं रक्षसां भागोऽसि । तेषां नोचजातित्वाद् निकृष्टकणरूपो भागो युक्त एव । एवं शतपथश्रुत्या कात्यायनसूत्रेण च स्पष्टं विज्ञायते यत् फलीकरणानां पुरोडाशापेक्षित तण्डुलनिष्पत्तिशिष्टकणसमूहानामेवानेन मन्त्रांशेन रक्षसां भागकल्पनं भवति । अतिस्पष्टेऽप्यर्थे शास्त्रप्रामाण्यनिष्ठादार्थ्याभावान्नास्तिक्याच्च देवानां रक्षसां च योनिविशेषाणामनभ्युप-गमादयं वेदव्याख्यानेऽस्य कामचारो ज्ञातव्यः । अध्यात्मपक्षे -- ब्रह्मात्मसाक्षात्कारे कर्माधिकारः समाप्यते । नद्या अतितरणाय नौरिव पाशविककाम-कर्मज्ञानलक्षणस्य मृत्योरतितरणाय वैदिककामकर्मादिसमाश्रयणं भवति । नावा नद्यास्तरणानन्तरं नौकाया इव कर्मणोऽपि विमोक एव युक्तः । परमेश्वरानुग्रहात् कर्मणि प्रवृत्तिस्तदनुग्रहादेव च ब्रह्मात्मसाक्षात्कारपूर्विका कर्मनिवृत्तिश्च । तथा च हे साधक! कस्त्वा विमुञ्चतीति प्रश्ने स परमेश्वर एव विमुञ्चतीत्युत्तरम् । कस्मै त्वा विमुञ्चतीति प्रश्नान्तरम् । तस्मै ब्रह्मात्मसाक्षात्कारनिष्ठादाय त्वा विमुञ्चति, कर्मचापल्ये सति निष्ठादा-सम्भवात् । शतपथादिरीत्या व्याख्याने तु कर्मणां परमेश्वराराधनरूपत्वादाध्यात्मिकपक्षव्याख्यानोपपत्तिः । यद्यपि क्लिष्ट कल्पना कर्मकाण्ड पराणामपि मन्त्रब्राह्मणानां ब्रह्मपरत्वं योजयितुं शक्यम्, तथापि तदस्वाभाविकं निरर्थकं च, ब्रह्मपराणां मन्त्राणां ब्राह्मणानां च विद्यमानत्वेन तदनपेक्षणात् ॥ २३ ॥
संव॑र्चसा॒ पय॑सा॒ सन्त॒नूभि॒रग॑न्महि॒ मन॑सा॒ स शि॒वेन॑ ।
रायोऽनु॑माटु॑ त॒न्वो यद्विल॑िष्टम् ॥ २४ ॥
त्वष्टा॑ सु॒विद॑धातु॒ २ अत्र दयानन्दस्तु –‘मनुष्यैः सर्वकामप्रदस्येश्वरस्याज्ञापालन सम्यक्पुरुषार्थाभ्यां विद्याध्ययनं विज्ञानं शरीर-बलं मनः शुद्धिः कल्याणसिद्धि: सर्वोत्तम श्रीप्राप्तिश्च सदैव कार्या । तया सर्वे व्यवहाराः पदार्थाश्च नित्यं शुद्धा भावनीया: ' इत्याह तच्च श्रुतिबाह्यमेव । यत्तु ' वर्चन्ते दीप्यन्ते सर्वे पदार्था यस्मिन् वेदाध्ययने तेन, पयन्ते विजानन्ति सर्वान् पदार्थान् येन ज्ञानेन तेन ' ( पृ ० २०० ) इत्यादिकम् तत्तु निरर्थकपाण्डित्य प्रदर्शनमेव, विशब्द: ' ( पृ ० २०० ) इति, तदपि प्रसिद्धार्थत्यागे मानाभावात् । यत्तु - ' विलिष्टं परिपूर्णम्, अत्र विरुद्धार्थो तुच्छम्, परिपूर्णस्यानुमार्जनानपेक्षणात् । नह्यशुद्धौ सत्यां परिपूर्णता सम्भवति, श्रुतिविरोधाच्च । तथाहि शतपथश्रुती - ' यद्वै यज्ञस्य मिथ्या क्रियते व्यस्य तद् बृहन्ति ' ( श ० ११ ९ | ३ | ४ ) इत्युक्त्या यज्ञस्य मिथ्याकरणा-करणादिदोषनिराकरणाय यजमानाञ्जली पूर्णपात्रनिनयनं क्रियते, तत्रैवास्य विनियोगः । तेन विलिष्टस्य विशेषे-णाल्पीभावापन्नस्य यज्ञस्य व्यङ्गतापरिहारायानेन मन्त्रेण निनयनम् । एतदु चैवैतत् कर्मात्मन् कुरुते तस्मान्मुख-मुपस्पृशते ' ( श ० १।९ ।३।७ ) इति श्रुत्या च यजमानः पूर्णपात्रजलेन मुखप्रक्षालनाद् यज्ञमात्मनि करोति 1 । तेन यज्ञस्य व्यङ्गतया यज्ञस्यात्मनि सम्बन्धात् तत्रापि व्यङ्गताऽवश्यम्भाविनीति यज्ञस्याव्यङ्गतानेन सेत्स्यतीति । अध्यात्मपक्ष में जिस उपासक को भगवदनुग्रह से आत्मसाक्षात्कार हो जाता है, उसे पुनः कर्मकाण्ड तथा उसके विधिनिषेधों की अपेक्षा नहीं रहती, क्योंकि साध्य की प्राप्ति होने पर साधन की आवश्यकता नहीं रहती || २३ || मन्त्रार्थ -- हम ब्रह्मवर्चस तेज, क्षीरादि रस, अनुष्ठान के योग्य शरीर के अवयव और शान्त मन इन सबसे युक्त हुए हैं । उत्तम दान देनेवाला त्वष्टा मुझे सम्पत्ति दे और मेरे शरीर में जो म्यूनता हो, उसे दूर करके उसका पोषण करे । आहवनीय को प्रदक्षिणा करके पूर्णपात्र का ग्रहण करे और ' संवर्चसा ' मन्त्र से मुखमार्जन करे ॥ २४ ॥
पृष्ठ 94
पाठ पढ़ें पाठ छिपाएँ
८४ शुक्ल यजुर्वेद संहिता [ अ ० २ सिद्धान्ते तु -- त्वष्टृदेवत्या त्रिष्टुप् पूर्णपात्रनिनयने विनियुक्ता । ' पूर्णपात्रं निनयति परीत्य सन्ततं यजमानोऽञ्जलिना प्रतिगृह्णाति संवर्चसेति ' ( का ० श्री ० ३२८२८ ) अध्वर्युः पूर्णपात्रमादाय आहवनीयं प्रदक्षिणीकृत्य यजमानसमीपे उदङ्मुख उपविष्टो यजमानस्याञ्जलौ पूर्णपात्रस्थं जलमव्यवच्छिन्नं क्षिपेत् । यजमानस्तुदकं हस्ताभ्यां संवर्चसेति मन्त्रेण गृह्णीयात् । अञ्जलिप्रक्षेपश्च तथा कार्यो यथा यजमानस्य संवर्चसेति मन्त्रपाठान्ते भवेत्, ' आधारे धारायां चादिसंयोग: ' ( आप ० श्र ० २४ २ २ ) इति सूत्रात् । अत्र प्रग्रहणं प्रधानं निनयनं तदर्थम् । तेन प्रोषिते यजमाने यत्र यजमानस्तत्रैव पूर्णपात्रनिनयनं केनचित् करणीयम्, यजमानेनाञ्जलिना प्रतिग्रहश्च कार्यः । तथा च मन्त्रार्थः- वर्चसा ब्रह्मवर्चसेन वयं समगन्महि सङ्गता भवामः । पयसा क्षीरेण तदुपलक्षितसर्वविद्यारसेन वा समगन्महि । तनूभिर्यज्ञाद्यनुष्ठान भगवदुपासन - ब्रह्मात्मसाक्षात्कारक्षमैः शरीरावयवैर्भार्यापुत्रादिभिः समगन्महि । शिवेन कल्याणमयेन शान्तेन यज्ञादिश्रद्धायुक्तेन शिवसङ्कल्पेन मनसा मन्यन्ते ज्ञायन्ते सर्वे पदार्था येन तेनान्तःकरणेन समगन्महि । समुपसर्गयुक्तमगन्महीतिपदं प्रत्येकं सम्बद्धयते । यज्ञव्यग्रस्य पुरुषस्य सर्वमेतदपैतीवेत्यनेन मन्त्रेण तत्सर्वं ब्रह्मवर्चसादिकमाप्याययति पूर्णपात्रनिनयनजलमञ्जलिना गृहृन् यजमानः । किञ्च, सुदत्रः शोभनकल्याण-दानस्त्वष्टा देवः, तक्षति सर्वान् पदार्थान् छिनत्ति सूर्यं च तनूकरोतीति त्वष्टा देवविशेषः, तदुपलक्षितः परमेश्वरश्च रायो नानाविधानि धनानि विदधातु करोतु । तन्वो मम शरीरस्य यद् विलिष्टं ' लिश अल्पीभावे ' इत्यस्य निष्ठायां रूपम् । विशेषेण लिष्टं न्यूनतामापन्नमिति विलिष्टं विशेषेण न्यूनतां गतमङ्गजातम्, तदनुमा न्यूनत्वपरिहारेण पूर्णं कृत्वा शोधयतु । अयमेवार्थः शतपथे- ' पूर्णं निनयति । सर्वं वै पूर्ण १७ सर्वेणैवैनमेतच्छमयति सन्ततमव्यवच्छिन्नं निनयति सन्ततेनैवैनमेदव्यवच्छिन्नेन शमयति ' ( श ० ११ ९ | ३ | ३ ), ' स स्थिते यज्ञे दक्षिणतः परीत्य पूर्णपात्रं निनयति । तथा ह्युदग्भवति । तस्माद्दक्षिणतः परीत्य पूर्णपात्रं निनयति । देवलोके मेऽप्यसदिति वै यजते यो यजते सोऽस्यैष यज्ञो देवलोकमेवाभिप्रेति । तदनूची दक्षिणा यां ददाति सैति दक्षिणामन्वारभ्य यजमानः ' ( श ० १ २ ९ | ३ | १ ) | संस्थिते समाप्ते यज्ञे दक्षिणतः परीत्याध्वर्युः पूर्णपात्रगतं जलं यजमानाञ्जली निनयति नीचैः पातयति । परीत्ये-त्युक्त्या दक्षिणादागत्य निनयनायोदग्दिगागमनं भवति । हि यतः । तथाकृते उदग्भवति । पूर्णपात्रनिनयने देवलोके मेऽप्यदिति । देवलोकेऽयं यज्ञो मे ममोपकारको असत् भवतु । असदिति क्रियापदम् नासत्त्वबोधकम् । एवमथं यजमानो यजते । यो यजतेऽस्य यजमानस्य स एष यज्ञो देवलोकमेवाभिप्रति । आभिमुख्येन एति । मां संस्कृतवानसी, अतो मया प्रत्युपकरणीयमित्यभिप्रति वा । तदनूची दक्षिणायां ददाति यज्ञसमृद्धयथं यज्ञमनु-विलग्ना दक्षिणैतियां ददाति यजमानः, समृद्धयर्थस्य दक्षधातोर्दक्षिणाशब्दनिष्पत्तेः । यद्वा तस्मादन्वगचन-शीलामन्वाहार्य लक्षणां यां दक्षिणां ददाति सा देवलोकमेति । दक्षिणामन्वारभ्य यजमानो यज्ञं क्रोणातीति शेषः । दक्षिणा हि परिक्रयार्था भवति । तया ऋत्विनिष्पादितो यज्ञः परिक्रीयते । यथा - अन्यत्र परिक्रयसम्बद्धः परिक्रेता तथैवात्रापि । यद्वा यथा यज्ञो देवलोकमेति यज्ञमनु दक्षिणा देवलोकमेति, तथैव समृद्धिस्वरूपां दक्षिणा-मन्वारभ्य यजमानो देवलोकमेतीति । ' स एष देवयानो वा पितृयाणो वा पन्थाः । तदुभयतोऽग्निशिखे समोषन्त्यौ तिष्ठतः । प्रति तमोषतो यः प्रत्युष्योऽत्यु त सृजेते | योऽतिसृज्यः शान्तिरापस्तदेत मेवैतत् पन्थानः शमयति ' ( श ० १ ९ ३ २ ) । पूर्णपात्र-भाष्यसार - स्वामी दयानन्द ने मन्त्र की व्याख्या में कहा है कि ईश्वर की आज्ञा का पालन और सम्यक् पुरुषार्थं के द्वारा विद्याध्ययन, विज्ञान, शरीरबल, मनः शुद्धि कल्याणसिद्धि एवं सर्वोत्तम श्रीप्राप्ति मनुष्य को सदैव करनी चाहिये ।
पृष्ठ 95
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २४ ] वेदार्थपारिजातभाष्यसहिता ८५ निनयनस्य प्रयोजनमुच्यते - स एष देवयानः पन्था हिरण्यगर्भाद्युपासनासमुच्चितकर्मानुष्ठायिनो ब्रह्मलोक प्राप्ति-साधनभूतो मार्गो देवयानः । महाप्रलयकाले तु ब्रह्मणा सह मुक्तिर्भवति, ' ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे ' ( तै ० आ ० १०।१०।२२ ) इति श्रुतेः । आत्मयाजिनस्त्वेभिः कर्मभिरुपासनैश्चात्मानं संस्कुर्वन्ति परब्रह्मप्राप्तियोग्यब्राह्मीतनुनिर्माणाय, ' महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनु: ' ( म ० २।२८ ) इति मनुस्मरणात् । इह ब्रह्मसाक्षात्काराभावेऽपि तेषामपि देवयानमार्गे गतानां ब्रह्मलोकप्राप्तिरन्ते कैवल्यमुक्तिश्च, ' इमं मानवमावतं नावर्तन्ते ' ( छा ० ४।१५।६ ) इति श्रुतेः । अत्र श्रुती ' इमं पदं विद्यते । तत्सम्बन्धितयो -पासनासमुच्चितकर्मभिस्तु ब्रह्मलोकगतानामप्यावर्तान्तरे पुनरावृत्तिर्भवत्येव, ' आब्रह्मभुवनाल्लोकाः पुनरावर्ति-नोऽर्जुन ' ( भ ० गी ०८ / १६ ) इति भगवद्वचनाच्च । केवलकर्मिणां देवयाजिनां तु पितृयाणः पन्थाः । तदुभयत उभयोरपि मार्गयोः, अग्निशिखे अग्निज्वाले ओषन्त्यो भस्मसात्कुर्वन्त्यो सन्तिष्ठतः । तत्र यः प्रत्युष्यः प्रतिदनार्होऽकृतकृत्यः केवलमपि कर्म यो नानुष्ठितवान् तं प्रतिदहतः । योऽतिसृज्यो ज्ञान सहकृतकर्मानुष्ठायी यश्च केवलकर्मानुष्ठायी कृतनियतकर्मा यजमानः, तमतिसृजेते विसृजेते, न दहत इत्यर्थः । आपश्च शान्तिसाधनत्वात् शान्तिरूपा यतोऽतः, तदेतमेवैतत् पन्थानं पूर्णपात्रनिनयनेनापः शमयन्ति । ज्ञानिनः कर्मिणश्चोष्णं पन्थानं चोष्णशमनसमर्थाभिरद्भिरध्वर्युः शमयति । ज्ञानसमुच्चितकर्मफलं मलक्षालकं भवति । यस्तु केवलकर्मानुष्ठायी यजमानः स कर्मफलभोगाय पितृलोकं याति । सोऽपि देव एव, ' देवो भूत्वा देवानप्येति ' ( बृ ० उ ० ४।३।२ ) इति श्रुत्यन्तरात् । अन्ये तु देवैः प्रायणीयो देवयानः, पितृभिः प्रायणीयः पितृयाणः पन्थाः । प्रथमोऽग्निहोत्रिणामन्योऽ. न्येषाम् । अग्नेराहवनीयादेर्देवयानपितृयाणी शिखे ऊर्ध्वज्वाले ओषन्त्यो तिष्ठतः । अपां निनयनेन देवपथः शान्तो भवति । ' पूर्ण निनयति । सर्वं वै पूर्ण सर्वेणैवैनमेतच्छमयति सन्ततमव्यवच्छिन्नं निनयति सन्त तेनैवैन-मेतदव्यवच्छिन्नेन शमयति ' ( श ० १ २ ९ | ३ | ३ ) । पूर्ण सर्वं तत्रत्यं जलं निनयति । यतः सर्वं वै पूर्णम् । सर्वे-वैतच्छमयति । तच्च सन्ततं नैरन्तर्येणाव्यवच्छिन्नमनत्रखण्डितेन धारानिनयनेन शमयति । ' यद्वेव पूर्णपात्रं नियति । यद्वै यज्ञस्य मिथ्या क्रियते व्यस्य तद् बृहन्ति क्षण्वन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः सन्दधाति ' ( ० १ १ ९ | ३ | ४ ) | यद्वै यज्ञस्य मिथ्या क्रियते प्रमादादिनाऽन्यथा करणमकरणं च वद्विबृहन्ति विनाशयन्ति यज्ञिया आपः । अर्थाद्यज्ञस्य व्यङ्गतामपनीय यज्ञं पूर्ण कुर्वन्ति । क्षण्वन्ति मिथ्याकरणनिमित्तं दुःखं क्षण्वन्ति हिंसन्ति शान्त्या शान्तिसाधनभूताभिरद्भिस्तच्छमयति यज्ञं च सन्दधाति निनयनेनाध्वर्युः । ' पूर्ण नियति सन्दधाति ' ( श ० १२ ९ ३५ ) | शेषं तृतीयवत् । तेन यज्ञस्य प्रमादादिना अन्यथाकरणेनाकरणेन च व्यवच्छिन्नं यज्ञं पूर्ण निनयनेन सन्दधाति यज्ञस्य पुनरनुसन्धानं करोतीत्यर्थः । ' तदञ्जलिना प्रतिगृह्णाति । संवर्चसा पयसा सन्तनूभिरगन्महि मनसा स शिवेन त्वष्टा सुदत्रो विदधातु रायोऽनुमा तन्वो यद्विलिष्टमिति यद्विवृढं तत्सन्दधाति ' ( श ० १२ ९ ३ २ ६ ) | यद्यप्यत्र अनुमाणुं तन्वो यद्विलिष्टमिति लिङ्गादस्य मन्त्रस्य मुखोप-स्पर्शनाङ्गता भाति, तथापि तदञ्जलिना प्रतिगृह्णातीति श्रुत्या प्रतिग्रहणाङ्गता, ' श्रुतिलिङ्गवाक्य प्रकरणस्थान-समाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् ' ( मो ० सू ० ३।३।१४ ) इति जैमिनीयन्याये लिङ्गाच्छुतेः प्राबल्येन तया तद्बाधात् । यद्विवृढं वत्सन्दधातीति ग्रहार्थवाद एव परतो दृश्यते, अर्थवादान्तराभावात्, किन्तु यह कथन श्रुति और सूत्र के अनुसार नहीं है । कहीं - कहीं निरर्थक पाण्डित्य प्रदर्शन करके प्रसिद्ध अर्थं का त्याग भी किया है । कहीं - कहीं शब्दों के अर्थ विरुद्ध भी प्रदर्शित किये हैं, जो अनावश्यक हैं । यदि श्रौत -प्रक्रिया को समझकर अर्थं किया होता, तो ऐसी अनर्गलता न होती ।
पृष्ठ 96
पाठ पढ़ें पाठ छिपाएँ
८६ शुक्लयजुर्वेदसंहिता | अ ० ३ अथशब्देन मुखोपस्पर्शनस्य व्यवधानादर्थवादान्तरदर्शनाच्च । लिङ्गं चाविरुद्धमेव, मुखहस्तयोः शरीरैकदेशत्वात् । यजमानस्यैव यज्ञो वर्तते । तत्रैव स्थितस्य यद्विवृढं व्यङ्गतामुपगतं तत्सन्दधाति । कण्वशाखीयानां तदञ्जलिना प्रतिगृह्णाति तत्र जपति संवर्चसेति । गृहृतो यज्ञवीर्यंमंत्र च जप्यमानः प्रतिग्रहणाय स्पर्शनेऽपि प्रकाशयिष्यति । कः पुनर्गृति? यजमानः । अध्वर्योनिनयने व्यापृतत्वाद् आशीर्लिङ्गत्वान्मन्त्रस्य यजमान एव गृह्णाति । ' अथ मुखमुपस्पृशते । द्वयं तद् यस्मान्मुखमुपस्पृशतेऽमृतं वा आपोऽमृतेनैवैतत् सस्पृशते एतदु चैवैतत् कर्मात्मन् कुरुते । तस्मान्मुखमुपस्पृशते ' ( श ० ११ ९ / ३ / ७ ) ' मुखं विमृष्टे ' ( का ० श्री ० ३८ ९ ) इति सूत्रेण यजमानः पूर्णपात्रजलेन तूष्णीं मुखं प्रक्षालयेत् एतदु चैवैतत् कर्मात्मन् कुरुत इति शेषात् । यजमान आत्मीयमेव सुख-मद्भिरुपस्पृशते । यस्मात् कारणान्मुखमुपस्पृशते तद् द्वयं ते द्वे कारणे । तत्रैकममृतेनैवैतदात्मानं संस्पृशते । तदाह - अमृतं वा आपः । अमृतेनैवैतत् संस्पृशते । अपरमपि एतच्च कर्म आत्मनि कुरुते यजमानः । कथम्? यज्ञो वा आपः । आपश्च संश्लेषण हेतुरित्यभिप्रायः । सर्वथापि प्रकृतमन्त्रस्याञ्जलिना पूर्णपात्रजलप्रतिग्रहाङ्गतैव । अध्यात्मपक्षे तु पूर्णपात्रान्तर्यामी परमेश्वरः प्रार्थ्यते - हे भगवन्! वर्चसा ब्राह्मेण तेजसा त्वप्रसादाद् वयं समन्महि समवेता भवामः । ब्रह्मात्मसाक्षात्कारसमर्थैस्तनूभिः संस्कृतैः शरीरावयवैश्च युक्ता भवामः । शिवसङ्कल्पेन ब्रह्मात्मचिन्तनपरेणान्तःकरणेन च समगन्महि । त्वष्टा सर्वजगन्निर्माता सुदत्रः सुष्ठु शोभन-मभीष्टमात्मानं वा ददातीति सुदत्रः सर्वकल्याणप्रद आत्मप्रदश्च भवान् रामः शमदमादिषट्सम्पत्ती ब्रह्मात्मज्ञानश्रियं मोक्षलक्ष्मीं च विदधात् सम्पादयत्वित्यर्थः, त्वत्प्रसादादेव सर्वाभीष्टप्राप्तिसम्भवात् । हे परमेश्वर! तन्वो मदीयस्य स्वात्मरूपस्य चिदात्मशरीरस्य सूक्ष्मस्थूलशरीरस्य ब्रह्मात्मसाक्षात्कार साधनस्य यद्विलिष्टम् अविद्याद्यध्यारोपेण मानस कायिकापचारैश्च यन्न्यूनतापन्नमङ्गजातं तदनुमाटु कृपाकटाक्षेण तदपनीय परिपूर्णता मापादयतु, येन निर्विघ्नं ब्रह्मात्मज्ञानं तत्फलं ब्रह्मात्मनावस्थानं सम्पद्यतामिति ॥ २४ ॥
दि॒िवि विष्णुक्रस्त॒ जग॑तेन॒ छन्द॑सा॒ ततो॒ निर्भक्तो योऽस्मान् द्वेष्टि यं च॑ व॒यं द्वि॒ष्मोऽन्तरि॑क्षो॒ विष्णुर्व्यक्रस्त॒ त्रैष्टुभेन॒ छन्द॑सा॒ ततो॒ निर्भक्तो योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः पृ॑थि॒व्यां विष्णुव्यक्र ७ स्त गाय॒त्रेण॒ छन्द॑सा॒ ततो॒ निर्भ॑क्ति॒ योऽस्मान्द्वेष्टि॒ यं चं व॒यं द्वि॒ष्मोऽस्मादन्नस्य॑ प्र॑ति॒ष्ठाय॒ अग॑न्म॒ स्वः संज्योति॑षाऽभूम ॥ २५ ॥
अत्र श्रीदयानन्दः – ' अस्माभिर्जागतेन छन्दसानुष्ठितोऽयं विष्णुर्यंज्ञो दिवि व्यक्रंस्त । स पुनस्ततो निर्भक्तः सन् छन्दसा सर्वं जगत् प्रीणाति । योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निराकुर्मः । अस्माभिर्योऽयं विष्णुर्यज्ञ-अध्यात्मपक्ष में यह अर्थ होगा P - इस मन्त्र में परमेश्वर की प्रार्थना की गई है । हे भगवन्! हम लोग ब्राह्म तेज से तुम्हारे अनुग्रह के बल पर युक्त हैं । तुम्हारे प्रसाद से ही सर्वाभीष्ट की प्राप्ति का होना संभव है । हे भगवन्! ब्रह्मसाक्षात्कार का साधन जो मेरा सूक्ष्म स्थूल शरीर है, वह अविद्या के अध्यारोप से और मानसिक तथा शारीरिक अपराधों के कारण न्यूनता को प्राप्त हुआ है, उसे अपने कृपा कटाक्ष से दूर कर परिपूर्ण कर दें । जिससे निर्विघ्नतया ब्रह्मात्मज्ञान और उसका फल हमें प्राप्त हो ॥ २४ ॥
मन्त्रार्थ --- यज्ञपुरुष ने लोक पर जगती छन्द से, अन्तरिक्षलोक पर त्रिष्टुप् छन्द से और पृथिवीलोक पर गायत्री छन्द से आक्रमण किया । उन तीनों लोकों से जो शत्रु हमसे द्वेष करता है और हम जिससे द्वेष
पृष्ठ 97
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २५ ] वेदार्थपारिजातभाष्यसहिता ८७ स्त्रष्टुभेन छन्दसाग्नी प्रयोजितः सोऽन्तरिक्षे व्यक्रंस्त । स पुनस्ततः स्थानान्निर्भक्तः सन् वायुवृष्टिजलशुद्धिद्वारा सर्वं जगत् सुखयति योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निवारयामः । अस्माभिर्योऽयं यज्ञोऽनुष्ठितो गायत्रेण छन्दसा पृथिव्यामनुष्ठीयते स पृथिव्यां व्यक्रंस्त । स ततो निर्भक्तः सन् पृथिवीस्थान् पदार्थान् पोषयति योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निषिध्यामः । वयमस्मादन्नात् स्वरगन्म वयमनेन यज्ञेनास्यै प्रतिष्ठायै ज्योतिषा संयुक्ता भवेम ' ( पृ ० २०३ ) इत्यादि । तदेतत्सर्वं वेदार्थसम्प्रदायानभिज्ञानविजृम्भितम्, शतपथश्रुति-कात्यायनसूत्रविरुद्धं च । तत्र तेर्यजमानो विष्णुक्रमान् क्रमते । तत्र देवा वै स्वरगन्म देवानित्येवैतदाह - संज्योतिषा भूमेति सं देवरभूमेत्येवैतदाहेत्यादिभिः पदार्थाश्चानेके व्याख्याताः । तेनापि तदीयं व्याख्यानं विरुद्धं च अनुपपत्तेश्च । तथाहि - यो वेवेष्टि व्याप्नोत्यन्तरिक्षस्यवाय्वादिपदार्थान् स यज्ञ इति, तदपि न युक्तम्, सङ्कोचार्थे मानाभावात्, द्युलोके व्याप्यनापत्तेश्च । अविशेषेण सर्वेषु लोकेषु सर्वान् पदार्थान् वेवेष्टीति विष्णुपदव्युत्पत्ति कुतो न स्यात्? यदपि ' जागतं सर्वलोकसुखकारकं तेन छन्दसा आह्लादकारकेण ' ( पृ ० २०२ ) इति, तदप्यविचारित रमणीयम्, कोऽसौ पदार्थं इत्यनुक्तेः । न व गायत्री छन्द एव तदिति वाच्यम्, तस्य तथात्वे मानाभावात् । नहि व्युत्पत्तिरेव मानं भवति । व्याघ्र शब्दस्य विशेषेणासमन्ताज्जिघ्रतीति व्युत्पत्तावपि न तथार्थो भवति, प्रत्यक्षविरुद्धत्वात् । प्रकृते चानुपलम्भपराहता व्युत्पत्तिः । न च जगतीछन्दसा होमेन लोकसुखं लोकाह्लादो वा भवति । त्वयापि भूमिकायामभ्यासार्थंको मन्त्रोच्चारोऽभ्युपगतः । कथं चोच्चारणेन सुखं भवतीति ज्ञायते? न च प्रत्यक्षेण, अनुपलम्भात् । न चोच्चारणजन्येनादृष्टेन कालान्तरे सुखं भविष्यतीति वाच्यम् त्वया तदनभ्युपगमात् । अन्यथा यथाश्रुतार्थाभ्युपगमेऽदृष्टद्वारा पारलौकिकस्वर्ग पशुपुत्रादिफलमपि कथं नाभ्युपगम्येत? ' स पुनस्ततो निर्भक्तः सन् छन्दसा सर्व जगत् प्रीणाति ' ( पृ ० २०३ ) इत्यन्वये प्रोक्तम् । स च कस्य शब्दस्यार्थः? नहि कर्मक्रिययोरुभयोरप्यध्याहारो युक्तः । अन्यथा कश्चिद् दयानन्देति नामश्रवणेनैव स्वर्गं गतो नरकं वा गतः स्वर्गं निर्मितवान् स्वर्गं नाशितवान् वेति यथेष्टं कल्पयेत । योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निराकुर्म इत्यपि कुतो लब्धम्? नहि यथाश्रुतोपपत्तावध्याहारो युक्तः । सिद्धान्ते तु ततो द्युलोकान्निर्भक्तो भागरहितो निःसारितः कः? योऽस्मान् द्वेष्टि यं च वयं द्विष्म इति सरलः सुबोधश्च यथाश्रुतार्थः । ' अस्माभिर्योऽयं यज्ञस्त्रष्टुभेन छन्दसाग्नौ प्रयोजितः सोऽन्तरिक्षे व्यक्रंस्त । पुनस्ततः स्थानान्निर्भक्तः सन् वायुवृष्टिजलशुद्धिद्वारा सर्वं जगत् सुखयतीति कथमुपपद्यते? त्वद्रीत्या यज्ञस्त्वन्तरिक्षस्थलवाय्वादिपदार्थान् व्याप्नोति स कथमग्नो प्रयोक्तुं शक्यः? किञ्चान्यत्राग्नी घृतादिप्रक्षेपरूपो यज्ञ उक्तः, सोऽपि नाग्नो प्रयोक्तुं करते हैं, उस शत्रु को निकाल बाहर कर दिया । तबनन्तर भी शेष शत्रुओं का उसके आगे विद्यमान यजमान-भाग से और उसके सामने विद्यमान इस यज्ञभूमि से हमने निवारण किया । यज्ञानुष्ठान से हमने स्वर्गलोक प्राप्त कर लिया तथा आहवनीयरूपी तेज से हम युक्त हो गये । ' विवि विष्णुः ' इत्यादि प्रत्येक मन्त्र से विष्णुक्रमण करना चाहिये, अर्थात् हम अपने पैर जो भूमि पर रखते हैं, उन्हें विष्णु के पैर समझना चाहिये । ' अस्मादसात् ' इस मन्त्र से अपने अंश का अवलोकन करे और ' अस्यै ' इस मन्त्र से भूमि का अवलोकन करे । पूर्व दिशा में ' अगन्म ' इस मन्त्र से सूर्य का और ' संज्योतिषा ' मन्त्र से आहवनीय का अवलोकन करे ॥ २५ ॥
स्वामी दयानन्द ने इस मन्त्र का - हम लोगों ने जगती छन्द से जो यज्ञ किया है, वह निर्भक्त होकर छन्द के द्वारा सम्पूर्ण जगत् को प्रसन्न करता है, इत्यादि जो अर्थ किया है, वह सब वेदार्थसम्प्रदाय
पृष्ठ 98
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेदसंहिता [ अ ० २ शक्यते, अग्निप्रक्षेपात्मकस्य यज्ञस्याग्नी प्रक्षेपासम्भवात् । अग्नौ हुतं घृतादिकमन्तरिक्षे परमाणुरूपेण विभज्यत इति त्वदीयोऽभिप्रायो न वेदाक्षरार्थः । वायुवृष्टिजलशुद्धिद्वारा सर्वं जगत् सुखयतीत्यपि त्वत्कल्पना-मात्रम्, वेदाक्षरासम्बन्धात् । किञ्च यज्ञो दिवि व्यक्रंस्त इत्यस्य कोऽर्थः? यदि ततोऽपि तथैव परमाणुरूपेण निर्भक्तस्तदा तेनैव गतार्थता किमर्थं पुनरुक्तिः? किन यो निर्भक्तं सर्वं जगत् सुखयति कथं तेन त्वद्विरोधि -निराकरणं सम्भवति? तस्यापि सर्वजगदन्तःपातित्वात् । यदि वायुजलादिपदार्थास्तेन शोधितास्तदा कथं तैः सर्वस्मं जगते सुखं स्यात् त्वद्विरोधिनश्च निराकरणं स्यात्? नहि केनचित् सर्वव्यापिनि प्रकाशे जाते कस्यचिदप्रकाशो भवति । न च त्वयाऽदृष्टमभ्युपेयते । यो यज्ञः पृथिव्यां व्यक्रंस्त स कथं पृथिवीस्थान् पदार्थान् पोषयति? वायुजलादिशोधनद्वारैर्वा? अन्यथा वा? तथैव चेत् पूर्वेणैव गतार्थता । अन्यथा चेत् स प्रकारः प्रदर्शनीयः । एवमेव त्रैष्टुभं त्रिविधसुखहेतुछन्दसा स्वच्छन्दताप्रदेनेत्यपि निर्मूलम् पूर्ववदनुपलम्भपराहतत्वात् । गायत्रेण रक्षण साधनेन छन्दसा आनन्दप्रदेनेत्यपि निर्मूलम् समेषां तत्र प्रवृत्त्यापातात् । सिद्धान्ते तु तत्तच्छन्दो-विशिष्टानां विधिवदधीतानां यथावत्प्रयुक्तानां मन्त्राणामदृष्टोत्पादनद्वारा आनन्दप्रदत्वादिकं सम्भवत्यपि, नार्धनास्तिकानामदृष्टाद्यनभ्युपगन्तॄणाम् । सिद्धान्तीयं व्याख्यानं तु – ' विष्णुक्रमान् क्रमते दिवि विष्णुरिति प्रतिमन्त्रं पृथिव्यामितीत ऊर्ध्वो वा ' ( का ० श्र ० ३।८।१० ) | यजमान उत्थाय दक्षिणवेदिश्रोणेरारभ्य आहवनीयादर्वाक् प्राङ्मुखो दिवि विष्णुरिति त्रिभिर्मन्त्रैविष्णुसंज्ञकान् क्रमणान् कुर्यात् । अथवा पृथिव्यामिति प्रथमं क्रामेत्, अन्तरिक्ष इति द्वितीयम्, दिवि विष्णुरिति तृतीयमिति मन्त्रक्रमे विकल्पः । तथैव शातपथी श्रुतिः - ' अथ विष्णुक्रमान् क्रमते । देवान् वा एष प्रीणाति यो यजत एतेन यज्ञेनर्भिरिव त्वद्यजुर्भिरिव त्वदाहुतिभिरिव त्वत्स देवान् प्रीत्वा तेष्वपित्वो भवति तेष्व-पित्वी भूत्वा तानेवाभिप्रक्रामति ' ( २० १ १ ९ | ३ | ८ ) । यो यजते एष देवान् प्रीणाति । यज्ञेन ऋग्भिरिव यजुभिरिवा-हुतिभिरिव तेषु विष्णोर्यज्ञस्य प्रवेशमिव दत्त्वा देवान् प्रीणाति देवान् प्रीत्वा तेषु मध्ये अपित्वीभागीभूत्वा तानेवाभिक्रामात । विष्णोर्यज्ञस्य क्रमणं विष्णुक्रमः । तं विष्णुप्रवेशमेव कुरुते । देवान् वा इति देवानेतानेष यजमानः प्रीतान् करोति यो यजते हविर्यज्ञं तनुते । त्वच्छन्दः समुच्चये । ऋग्भिश्चेव यजुभिश्चेव आहुतिभिश्चेव देवान् प्रीत्वा तेषु मध्ये भागवान् भवति । ' यद्वेव विष्णुक्रमान् क्रमते । यज्ञो वै विष्णुः । स देवेभ्य इमां विक्रान्ति विचक्रमे येषामियं विक्रान्तिरिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेनैताम्वेवैष एतस्मै विष्णुयंज्ञो विक्रान्ति विक्रमते । तस्माद्विष्णु-क्रमान् क्रमते तद्वा इत एवं पराचीनं भूयिष्ठा इव क्रमन्ते ( श ० ११ ९ / ३ / ९ ) । यद्वेव विष्णुक्रमान् क्रमते यजमानशरोरस्थो यज्ञरूपी विष्णुरेव यजमानाथं विक्रमते । तद्वै तत्र स देवेभ्य इमां विक्रान्ति विचक्रमे, या एषा इयं विक्रान्तिः । इत एव लोकात् पराचीनमूर्ध्वमन्तरिक्षं दिवमित्येवं भूयिष्ठा इव बहुतमा इव क्रमन्ते । प्रथमेन दिवं पदेन इदं प्रत्यक्षं पुरार्वातलोकं पस्पार स्पृष्टवान् । स्पृ प्रीतिचलनयोः । द्वितीयेनान्तरिक्षम् उत्तमेन तृतीयेन । गायत्रेण पस्पार । एतामु एव एतस्मं विष्णुयंज्ञा विक्रान्ति विक्रमते । ' तदु तत्पृथिव्यां विष्णुव्यंक्रस्व सुकृतोऽथ छन्दसा ' ' । इत्येवमिमाल्लोकान् समारुह्यार्थषा गतिरेषा प्रतिष्ठा य एष तपति । तस्य ये रश्मयस्ते । पुरस्तात् यत्परं भाः प्रजापतिर्वा स स्वर्गो वा लोकस्तदेवमिमाँल्लोकान् समारुह्याथैषां गतिमेतां प्रतिष्ठां गच्छति तदु त्वेवार्वाङ् क्रमेत य इतोऽनुशासनं चिकीर्षेद् द्वयं तद्यस्मात् परस्तादर्वाङ् क्रमेत ' ( श ० ११ ९ | ३ | १० ) ॥ मन्त्र का यथाश्रुत अर्थ से उनके अपरिचय को ही अभिव्यक्त कर रहा है । यह श्रुति - सूत्र के विरुद्ध भी है ही करना चाहिये था ।
पृष्ठ 99
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २५ ] वेदार्थ पारिजात भाष्यसहिता ८ ९ तत्पृथिव्यां विष्णुर्व्यक्रन् विक्रान्तवान् । गायत्रेण छन्दसा ततः स्थानान्निर्भक्तो विजितो बहिष्कृतो योऽस्मान् द्वेष्टि यं च वयं द्विष्मः " । इत्येवमिमांल्लोकानित्युत्तरपक्षस्यार्थवादः । एषा गम्यत इति गतिः । एषा प्रतितिष्ठन्त्यस्यामिति प्रतिष्ठा । तस्यादित्यस्य ये रश्मयः कदम्बकेसरवदनन्तभेदास्ते सुकृतः सुकृतकर्मकारिणः पूर्वे तेजः शरीरा यजमानाः । अथ यत्परं भाः प्रकाशमात्र सूर्यरूपः स यज्ञरूपः प्रजापतिः स्वर्गे वा लोकः सोऽपि कर्मकर्तॄणां प्रजानां पतिः । तत्र ते गच्छन्ति । इमांल्लोकान् समारुह्य एतां गतिमेतां प्रतिष्ठां गच्छन्ति । पक्षान्तरोपन्यासः परस्तात्त्वेव अर्वाङ् क्रमते । य इत अस्मादेव लोकाद् अनुशासनम् अस्मिन्नेव लोके बहुकालं लोकभोगमाशास्ते, स तद्यस्मात् परस्तादर्वाङ् क्रमते तत्र द्वयं कारणम् -- ' अपसरणतो हवा अग्रे देवा जयन्तोऽजयन् । दिवमेवाग्रेऽथेदमन्तरिक्षमथेतोऽनपसरणात् सपत्नाननुदन्न तथो एवैष एतद-पसरणत एवाग्रेऽजयञ्जयति दिवमेवाग्रेऽथेदमन्तरिक्षमथेतोऽनपसरणात् सपत्नान्नुदत इयं वै पृथिवी प्रतिष्ठा तदस्यामेवैतत् प्रतिष्ठायां प्रतितिष्ठति ' ( श ० ११ ९ ।३।११ ) । तत्रैकं कारणम् --- अपसरणतोऽस्माल्लोकादपसृत्य ह वा अग्रे देवा जयन्तो दिवमग्रे अजयन् । ततोऽन्तरिक्षं पृथिवीम् । अथेतोऽनपसरणात् सपत्नान् नुदते । अर्थात् विष्णुक्रमेषु यत् पक्षद्वयं विद्यते तस्येदमेव मूलम् । यस्माद्देवा इतो लोकादपसृत्य अपसरणक्रमेणाग्रे दिवमजयन् ततोऽन्तरिक्षमिति हेतोरधुनापि तेनैवापसरणक्रमेण पूर्वं दिवि विष्णुक्रस्त जागतेन छन्दसेति मन्त्रेण । ततोऽन्तरिक्षे विष्णुरिति मन्त्रेण तवः पृथिव्यां विष्णुरिति मन्त्रेण विष्णुक्रमान् क्रमन्ते । अथेतोऽनपसरणात् सपत्नान्नुदते । अस्माल्लोकादनपसृत्य यः शत्रून् नुदते नोदितु-मिच्छति स पूर्व पृथिव्यां विष्णुरिति मन्त्रेण विष्णुक्रमं क्रमते ततोऽन्तरिक्षे विष्णुरिति, ततो दिवि विष्णुरिति क्रमते । तत्रोत्तरपक्षस्य प्रशंसार्थोऽर्थवादः । तत्रैकं कारणमिदं यदस्माल्लोकादनपसृत्य शत्रूणां नोदनं भवति । द्वितीयश्च फलोपभोगानन्तरं ततः प्रच्युतानामपीयं पृथिवी प्रतिष्ठा भवति । तत आगत्यास्यां प्रतिष्ठायां प्रतितिष्ठति । तस्मादुत्तरपक्षो ज्यायानित्यर्थः । ' दुद्दिवि विष्णुर्व्यस्त | जागतेन छन्दसा ' ' " । द्विष्मोऽस्मादन्नादस्य प्रतिष्ठाया इत्यस्या ही सर्वमन्नाद्यं प्रतिष्ठितं तस्मादाहास्मादन्नादस्यै प्रतिष्ठाया इति ' ( श ० ११ ९ | ३ | १२ ), ' अथ प्राङ् प्रेक्षते । प्राची हि देवानां दिक् तस्मात्प्राङ् प्रेक्षते ' ( ० १ १ ९ १ ३ | १३ ), ' स प्रेक्षते । अगन्म स्वरिति देवा वै स्वरगन्म देवानित्येवैतदाह संज्योतिषा भूमेति सं देवैरभूमेत्येवैतदाह ' ( श ० १ | ९ | ३ | १४ ) । इमानि श्रौतानि वचनान्येवाश्रित्य कात्यायनोऽप्यसूत्रयत् । तथा हि - ' अस्मादन्नादिति भागमवेक्षते ' ( का ० श्रौ ० ३।८।११ ) । अस्मादन्नादिति मन्त्रेण यजमानः स्वकीयं हविर्भागं पश्येत् ( इडाभक्षणे यजमानभागः स्पष्ट एव ) । ' अस्यै प्रतिष्ठाया इति भूमिम् ' ( का ० श्र ० ३८ १२ ) अनेन वेदिभूमि पश्यति यजमानः । अगन्म स्वरिति प्राङ ' ( का ० श्री ० ३।८।१३ ) । अगन्मेति मन्त्रेण प्राचीं दिशं पश्येद्यजमानः । ' संज्योतिषेत्याहवनीयम् ' ( का ० श्री ० ३।८।१४ ) । सञ्ज्योतिषेति मन्त्रेणाहवनीयं विलोकयेत् । मन्त्रार्था श्रुत्यैव स्पष्टीकृताः । तथा चायं मन्त्रार्थः – अत्र महीधरः - विष्णुपादबुद्धया स्वपादस्य भूमौ प्रक्षेपा विष्णुक्रमाः । विष्णुर्यज्ञपुरुषो जागतेन छन्दसा जगतीच्छन्दो रूपेण स्वकीयपादेन दिवि द्युलोके व्यक्रंस्त विशेषेण क्रमणं कृतवान् । तथा सति ततो द्युलोकान्निभं तो भागरहितं कृत्वा शत्रुनिःसारितो भवति । कोऽसौ शत्रुः श्रुति - सूत्र- याज्ञिकसम्प्रदाय शुद्ध अर्थ भाष्य में दिया है, जिसे मन्त्रार्थ से अंशतः अवगत किया जा सकता है । विस्तृत ज्ञान के लिये करपात्रभाष्य को ही देखना चाहिये । १२
पृष्ठ 100
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेदसंहिता [ अ ० २ योऽस्मान् यज्ञकर्तृन् द्वेष्टि यं च वयं द्विष्मः स द्विविधोऽपि शत्रुनिःसारितो भवति । एवं विष्णुस्त्रष्टुभेन छन्दसा त्रिष्टुप्छन्दोरूपेण पादेनान्तरिक्षे अन्तरिक्षलोकं व्यक्रंस्त क्रमणं कृतवान् । ततो निर्भक्तो भागरहितं कृत्वा शत्रुनिःसारितः । स शत्रुः योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । तथैव गायत्रेण छन्दसा तद्रूपेण पादेन पृथिव्यां क्रमणं कृतवान् । ततोऽपि निर्भक्तो निःसारितः स शत्रुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । अथ श्रुतिसूत्रानुसारेणास्मादन्नादिति मन्त्रेण यो यजमानस्य हविर्भागस्तमवेक्षते । अस्मात्पुरोवर्ति-नोऽन्नाद्यजमानसम्बन्धिनो हविर्भागान्निर्भक्त इत्यादिर्वाक्यशेषोऽनुवर्तते । अस्यै प्रतिष्ठाय इति भूमिमवेक्षते । अस्य पुरतो दृश्यमानायाः प्रतिष्ठाय प्रतिष्ठाहेतोर्यज्ञभूमेनिर्भक्तः शत्रुः । अगन्म ज्योतिरिति प्राचीमवेक्षते पूर्वस्यां दिश्यवस्थितः स्वर्गलोकः स्वरित्युच्यते । तं लोकं सूर्य वा अगन्म यज्ञानुष्ठानेन वयं प्राप्ताः । संज्योतिषे -त्याहवनीयं प्रेक्षते । ज्योतिषा आहवनीयरूपेण वयं समभूम एकीभावेन संगता अभूम 1 अध्यात्मपक्षेऽपि - विष्णुर्व्यापनशीलो यज्ञाधिष्ठाता यज्ञभोक्ताऽनन्तब्रह्माण्डाधिपतिः परमेश्वरो दिवि द्युलोके व्यस्त तत्र पादविक्षेपं कृतवान् । छन्दोमयः स भगवान् जगतीच्छन्दोरूपेण दिवि क्रान्ति कृतवान् । तद्विक्रान्त्या असुरसमूहो निर्भक्तो भागरहितो निःसारितः । कोऽयमसुरसमूह इत्यपेक्षायामाह योऽस्मान् देवान् तदनुयायिनश्च द्वेष्टि यं च वयं द्विष्मः । असुरसमूहो वैदिकान् यज्ञयागादिपरायणान् सनातनधर्मभक्ति-ज्ञाननिष्ठान् द्वेष्टि बाधितुमिच्छति । वयं देवा देवानुयायिनश्च यमसुरसमूहं द्विष्मः स्वधर्माद्यनुष्ठानाय तं बाधितु-मिच्छामः । यद्वा तस्यासुरत्वमेव बाधितुमिच्छामः स एव विष्णुस्त्रष्टुभेन छन्दसा त्रिष्टुप छन्दोमयेन पादेन अन्तरिक्षे व्यक्रंस्त । ततोऽपि निर्भक्तो निराकृतः सोऽसुरसमूहो योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । गायत्रेण छन्दसा पादेन विष्णुः पृथिव्यां व्यक्रंस्त ततोऽप्यसुरसमूहे निर्भक्तो निष्कासितो योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । त्रिष्वपि लोकेषु तेषामनेकविधत्वेन सम्भवत्येवाधिकारः, तत्र तत्र तत्कृतोपद्रवादिदर्शनात् । ' इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ' इति मन्त्रवर्णात् । पृथिवीलोकापेक्षयाऽन्तरिक्षलोको विस्तृतः, तदपेक्षयापि द्युलोकोऽधिक विस्तृतः । छन्दांस्यपि गायत्र्यादीन्युत्तरोत्तरं विस्तृताक्षराणि । तथाहि - चतुर्विंशत्यक्षरा गायत्री भवति, चतुश्चत्वारिशदक्षरा त्रिष्टुप् द्विपञ्चाशदक्षरा जगती भवतीति । अस्मादन्नादास्तिकानामन्नभागाद् भोग्यधन वैभवादिभागादसि निर्भक्त इत्यनुवर्तते । असुरसमूहो निर्भक्तो भागरहितो निष्कासितः । अस्यै प्रतिष्ठा पचम्यर्थे चतुर्थी । प्रतितिष्ठत्यस्यामिति प्रतिष्ठा यज्ञभूमिः । अस्या यज्ञभूमेरपि निर्भक्तः सोऽसुरसमूहः, योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । विष्णुक्रम प्रभावादेव निर्विघ्नं वयं स्वः स्वर्गं वैकुण्ठं वा अगन्म प्राप्नुमः । ज्योतिर्मयेन ब्रह्मज्योतिषा वयं समभूम सङ्गता अभूम ॥ २५ ॥
स्व॒य॒म्भूर॑सि॒ श्रेष्ठ र॒श्मिर्व॑च॒दा अ॑सि॒ वर्चो मे देहि । सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ॥ २६ ॥
' अथ सूर्यमुदीक्षते स उदीक्षते स्वयम्भूरसि.... ( श ० १ | ९ | ३ | १५-१६ ) । शतपथश्रुत्यनुसारेणैव कात्यायनः सूत्रितवान् -'स्वयम्भूरिति सूर्यम् ' ( का ० श्रौ ० ३।८।१५ ) । स्वयम्भूरिति मन्त्रेण सूर्य अध्यात्मपक्ष में भगवान् का अधिकार तीनों लोकों पर है । उन्होंने तीनों लोकों में अपना चरण - निक्षेप करके समस्त असुरों को वहां से भगा दिया है । विष्णुक्रम के प्रभाव से ही हम वैकुण्ठ को निर्विघ्नतया प्राप्त कर सकते हैं । उस ज्योतिर्मय ब्रह्म हम लोग संगत हों, यह प्रार्थना की गई है ॥ २५ ॥
मन्त्रार्थ - हे सूयं! तुम स्वयंसिद्ध प्रशस्त तथा रश्मि- मण्डल - शरीराभिमानी हिरण्यगर्भसंज्ञक हो, तुम तेजःप्रद हो, अतः मुझे ब्रह्मवर्चस् तेज दो । सूर्य के समान मैं प्रदक्षिणा करता हूँ । ' स्वयंभू ' इस मन्त्र से सूर्य का अवलोकन करे । तथा ' सूर्यस्य ' इस मन्त्र से प्रदक्षिणा करे ॥ २६ ॥