वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 11–20

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 11–20

पृष्ठ 11

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 11 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः ॐ कृष्णस्याखरे॒ष्ठोग्नये॑ त्वा॒ जुष्ट॒ प्रोक्ष॑सि॒ वेदि॑रसि ब॒र्हिषे॑ त्वा॒ जुष्टा॒ प्रोक्षोमि ब॒हिर॑सि स्रुग्भ्यस्त्वा॒ जुष्टि॒ प्रोक्षमि ॥ १ ॥

मन्त्रार्थ - हे इध्म! कठिन वृक्षपर निवास करनेवाले तुम कृष्णमृगरूपी यज्ञ के साधन हो । इसलिये अग्नि को प्रिय लगनेवाले तुम्हें जल से मैं सिश्चित कर रहा हूँ । हे वेदी! देवताओं ने तुम्हें असुरों से प्राप्त किया है । इसलिये कुश धारण करनेवाले को तुम्हारा उपयोग होता है । उस कारण जल से मैं तुम्हारा सिचन कर रहा हूँ । हे दभं! तुम बेदी का विस्तार करने में समर्थ हो, अतः त्रचाओं को प्रिय लगनेवाले तुमपर में सिञ्चन कर रहा हूँ ॥ १ ॥

' इध्मं प्रोक्षति विस्रस्य वेदि बहिः प्रतिगृह्य वेद्यां कृत्वा पुरस्ताद् ग्रन्थि कृष्णोऽसीति प्रतिमन्त्रम् ' ( का ० श्र ० २२७ १ ९ ) । अध्वर्युरिध्मं तत्रस्थमेव विस्रंस्य कृष्णोसीति मन्त्रेण प्रोक्षेत । वेदिरसीति वेदि प्रोक्षेत, अग्नीप्रापितं बर्हिस्तेनादाय वेद्यां पुरस्ताद् ग्रन्थि यथा स्यात्तथा उदगग्रमासाद्य बर्हिरसीति बहिः प्रोक्षेत । मन्त्रार्थस्तु - हे इध्म त्वं कृष्णोसि कृष्णमृगरूपो यज्ञोसि, यज्ञसाधनत्वादिध्मपूले यज्ञत्वोपचारः । यद्यपि वर्णवचनोऽपि कृष्णशब्दस्तथाप्यन्तोदात्तः स भवत्ययं त्वाद्युदात्त इति कृष्णमृगपर एवायम् । तत्रापि यज्ञरूप एव कृष्णमृगो ग्राह्यः, ' यज्ञो ह देवेभ्योऽपचक्राम । स कृष्णमृगो भूत्वा चचार ' ( श ० १ | १४ | १ ) इति श्रुतेः । यज्ञः कदाचिद्देवेभ्योऽपक्रान्तः कृष्णमृगो भूत्वा वने याज्ञेयतरुषु प्रविश्य कुत्रचित् कठिने वृक्षे तस्थौ । अतः कृष्णमृगरूपयज्ञोऽसि त्वमित्यर्थः । कीदृशः? आखरेष्ठः आसमन्तात् खरे कठिने वृक्षे तिष्ठतीति आखरेष्ठः । यद्वा आङध्यर्थकः । खं स्वर्गं राति ददातीति खर आहवनीयः । तदधि तदुपरि तिष्ठतीत्याखरेष्ठः 1 । अतोऽग्नये त्वां जुष्टमभिप्रेतमभिरुचितं शुद्धयर्थं जलेन प्रोक्षामि । वेदिं प्रोक्षति । हे वेदे त्वं वेदिरसि देवैरसुरेभ्यो लब्धत्वाद विद्यते लभ्यत इति वेदिः । ( विदुल लाभे ) बर्हिषे जुष्टां बर्हिषो धारणोपयोगितया जुष्टां प्रियां त्वां प्रोक्षामि । पृथिवीरूपाया वेदेः प्रजारूपस्य बहिषो धारयितृत्वं युज्यत एव । ' वद्यदेतेने मां सर्वमविन्दत तस्माद्वेदिर्नाम ' । बहिरसोति बहिषः प्रोक्षणम् । हे बहि = दर्भ त्वं बहिरसि वेदिबृंहणसमर्थमसि प्रभूतैर्दर्भेदेरुपबृंहणात्, अतः स्रुग्भ्यो जुष्टं स्रुचां धारकत्वात् प्रियं त्वां प्रोक्षामि । भाष्यसार - संहितागत मन्त्रों रहस्य प्रकाशक श्रीतसूत्रों में से कात्यायन श्रौतसूत्र के अनुसार अध्वर्यु नाम का ऋत्विक यज्ञिय भूमि पर रखे हुए ' इम ' को खोल कर ' कृष्णोऽसि ' इस मन्त्र से उन पर प्रोक्षण करता है । ' इभ्यते अग्निः अनेन ' इस निरुक्ति के अनुसार यज्ञिय अग्नि के उत्तेजक ईन्धन को ' इम ' कहते हैं । अग्नीध्र नामक ऋत्विक् के द्वारा अर्पित बहि को हाथ में लेकर बहि की ग्रन्थि को पूर्व की ओर करके और उनको उदगग्र रखकर क्रमशः तीन मन्त्रों से उनपर प्रोक्षण करे । हे इम! तुम ' कृष्णमृगरूप यज्ञ ' हो, तथा तुम कठिन वृक्ष में व्याप्त होकर रहते हो । अथवा स्वर्गप्रदायक आहवनीय खर में व्याप्त होकर रहते हो, इसलिये तुम ' आखरेष्ठ ' भी हो । यह यज्ञ किसी समय देवताओं से भागकर

पृष्ठ 12

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 12 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्लयजुर्वेदसंहिता [ अध्यायः २ दयानन्दस्तु --- " ईश्वरेणैतत्सर्वमाद्येऽध्याये विधायेदानीं प्राणिनां सुखार्थायोक्तकार्यस्य सिद्धि विशिष्टा विद्याः प्रकाश्यन्ते । तत्रादी वेद्यादिरचनमुपदिश्यते । अग्निना छिन्नो वायुना कर्षितो यज्ञः असि भवति । सर्वत्र व्यत्ययः । समन्तात् खनति यं तत्र तिष्ठतीति आखरेष्ठः । अग्नये हवनार्थाय त्वा तद्धविः जुष्टं प्रीत्या संशोधितं प्रोक्षामि शोधितेन घृतेनार्द्रीकरोमि । वेदिः विन्दति सुखान्यनया सा असि भवति । बर्हिषेऽन्तरिक्षगमनाय । बहिरन्तरिक्षनामसु पठितम् ( निघण्टु १1३ ) । त्वा तां वेदं जुष्टां प्रीत्या सम्पादितां प्रोक्षामि घृतादिना सिचामि । बहिः शुद्धमुदकं असि भवति । बहिरुदकम् ( निघ ० ११ १२ ) । सुग्भ्यः स्रावयन्ति गमयन्ति हविर्येभ्यस्तेभ्यस्त्वा तत् जुष्टं पुष्ट्यादिगुणयुक्तं प्रीतिकरं जलं पवनं वा प्रोक्षामि शोधयामि । यतोऽयं यज्ञ आखरेष्ठः कृष्णो भवति तस्मात् त्वा त्वामहमग्नये जुष्टं प्रोक्षामि । यत इयं वेदिरन्तरिक्षस्थासि भवति, तस्मादहं त्वा तामिमां बर्हिषे जुष्टां प्रोक्षामि । यत इदं बर्हिरुदकमन्तरिक्षस्थं सत् शुद्धकारि असि भवति, तस्मात् त्वा तच्छोधितं जुष्टं हविः स्रुग्भ्योऽहं प्रोक्षामि । भावार्थ: - ईश्वर उपदिशति सर्वैर्मनुष्यैर्वेदि रचयित्वा पात्रादिसामग्रीं गृहीत्वा सम्यक् शोधयित्वा तद्धविरग्नो हुत्वा कृतो यज्ञः शुद्धेन वृष्टिजलेन सर्वा ओषधीः पोषयति । तेन सर्वे प्राणिनः सुखयितव्याः " इति, तदपि विसङ्गतमेव, प्रकृतमन्त्रे वेदिनिर्माणविधानानुपलम्भात् । नहि वेदिनाम्नैव वेदिनिर्माणमुपदेष्टुं शक्यम्, व्यत्ययोऽपि यथा-श्रुतार्थानुपपत्तावेव सम्भवति । आसमन्तात् किं खन्यते? यद्यपि वेदिः खन्यते, तथापि सा व्याममात्री मध्यसंग्राह्या त्र्यङ्गुला ओषधिमूलान्ता वा खन्यते । किञ्च, नहि मूर्तो यज्ञः क्वचित् खाते विष्ठति । याज्ञिकानां व्यवहारे त्वाहवनीय गार्हपत्यान्वाहार्यं पचनादिषु खरशब्दः प्रसिद्धः, न च तत्र खननं भवति । यद्यग्नी होम एव यज्ञस्तदा तु स आहवनीयादावेव तिष्ठति न वेद्याम् । जुष्टं प्रीत्या सेवितमभिरुचितं वा भवति, न शोधनमपि तदर्थः । प्रोक्षामि घृतादिनार्द्रीकरोमीत्यपि चिन्त्यम् । वेदिशब्दोऽपि शतपथे विष्णोर्यस्य लाभाद्वेदिशब्दः प्रयुक्तः, न च वेदेः सुखलाभो दृश्यते । न च वेदिर्घृतादिभिः सिच्यते, तथा विध्यदर्शनात् । शतपथे तु - ' तद्यदेनेनेमाः सर्वाः समविन्दत तस्माद्वेदिर्नाम ' ( श ० १२२/५/७ ) इति श्रुती सर्वपृथिव्या लाभनिमित्तत्वाद् वेदिनिरुक्ता । ' यत्नेवात्र विष्णुमन्वविन्दंस्तस्माद्वे दिर्नामेति निरुक्तम् ' ( श ० ११२२५ | १० ) । पूर्वं कृत्स्नपृथिवीलाभ हेतुत्वेन नाम निरुक्तम्, अत्र तु यज्ञात्मकस्य विष्णोर्लाभाधिकरणतया वेदित्वमुक्तम् । एवं बर्हिषेऽन्तरिक्षगमनायेत्यप्यसङ्गतम्, अपनी रक्षा के हेतु कृष्णमृग का रूप धारण कर वन के यज्ञिय वृक्ष में प्रविष्ट होकर किसी कठिन वृक्ष में स्थित हो गया । इसी अभिप्राय से उसको ' कृष्ण ' और ' आखरेष्ठ ' कहा गया है । अतः अग्नि को प्रिय लगनेवाले तुम्हारो शुद्धि के लिये मैं तुम्हारा जल से प्रोक्षण करता हूँ । उसके पश्चात् ' वेदिरसि ' मन्त्र से वेदि का प्रोक्षण किया जाता है । ' विद्यते लभ्यते इति वेदिः ' यह ' वेदि ' शब्द की निरुक्ति है । हे वेदे! तुम ' वेदि ' हो । देवताओं ने तुमको असुरों से प्राप्त किया है । बह को धारण करने में तुम्हारा उपयोग होने से तुम प्रिय प्रतीत होती हो । इसलिये मैं तुम्हारा प्रोक्षण करता हूँ । तदनन्तर ' बहिरसि ' मन्त्र से ' बहि ' का प्रोक्षण किया जाता है । हे दर्भ! तुम ' बहि ' हो । तुम परिमाण में प्रभूत हो, अतः वेदि के बृंहण करने में समर्थ हो । तुम स्रुक्पात्रों को अपने पर धारण कर लेते हो, उस कारण स्रुक्रपात्रों के तुम प्रिय हो! मैं तुम्हारा भी प्रोक्षण करता हूँ । स्वामी दयानन्द ने उक्त मन्त्र की व्याख्या अपने मनमाने ढंग से की है, जो श्रौतसूत्र, शतपथ ब्राह्मण, तथा श्री यज्ञप्रक्रिया के विरुद्ध है । स्वामी दयानन्द इस मन्त्र की व्याख्या करते हुए कह रहे हैं कि " ईश्वर ने प्रथम अध्याय में जो कहा है, उसी का सबको अनायास ज्ञान कराने के लिये इस द्वितीय अध्याय में विशिष्ट विद्याओं को प्रकाशित किया जा रहा है । उनकी सहायता से सब प्राणियों को सुखी बनाना चाहिये । "

पृष्ठ 13

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 13 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १ ] वेदार्थपारिजातभाष्यसहिता ३ बहिःशब्दस्यान्तरिक्षवाचकत्वेन नान्तरिक्षगमनं तदर्थः । अत एव – इयं वेदिरन्तरिक्षस्थास्तीत्यप्यसङ्गतम्, भूमिष्ठायास्तदसम्भवात् । बर्हिष उदकवाचकत्वे तस्य अन्तरिक्षस्थत्वमिति नार्थः सम्भवति । हिन्दी-व्याख्यारीत्या - " यतोऽयं यज्ञो वेदिरचनया खाते स्थिरः कृष्णो भौतिकाग्निना छिन्नो वायुगुणेनाकृष्टो भवति, तो भौतिकाग्नी होमाय प्रीत्या शोधितं यज्ञं होमसामग्री प्रोक्षामि घृतादिभिः स्निग्धं करोमि । यतश्च वेदिरन्तरिक्षे स्थितास्ति, अतो बर्हिषे हुतपदार्थानामन्तरिक्षे प्रेषणाय जुष्टां प्रीत्या सम्पादितां वेदितां वेदि प्रोक्षामि घृतादिभिः सिचामि स्निग्धं करोमि । यतश्च बर्हिर्जलमन्तरिक्षस्थं पदार्थशोधकं भवति, अतः पदार्थानां शुद्धये पुष्ट्यादिगुणोत्पादकं तद्धविः स्रुग्भिरग्नौ प्रक्षेपाय प्रोक्षामि शोधयामि " इत्यादिकम्, तदपि सर्वथा निर्मूलमसङ्गतं निर्मूलमेव । विप्रतिषिद्धं च । यज्ञशब्दार्थो होमश्चेत्, यज्ञसामग्री कथं यज्ञपदार्थः स्यात् । वेदिरन्तरिक्षस्थेत्यपि घृतादिना वेदेः संसेकेन कथं हुतपदार्थानामन्तरिक्षे प्रेषणं भविष्यति? कश्चित्तु स्वपक्षीयामनुपपत्तिमसमाधायैव उव्वटादिपक्षीयं व्याख्यानं दूषयितुं धृष्टतां करोति ।, तथाहि - " यत्तूव्वटमहीधराभ्याम् अस्ति कृष्णशब्दो मृगवचन आद्युदात्तः, तदिहाद्युदात्तत्वात् कृष्णमृगो गृह्यते तदयुक्तम्; वेदेष्वन्तरेणापि मृगार्थग्रहणमाद्युदात्तत्वस्य दर्शनात् । तद्यथा - यमाय कृष्ण ( वा ० सं ० २४।३० ) इत्यत्र विशेषणत्वे वर्णवाचीति ताभ्यामेवोपर्युक्तमन्त्रभाष्ये व्याख्यातत्वात्, अतः परस्परविरुद्धत्वादुपेक्षणीयमेतत् ", इति हि तदीया पङ्क्तिः, तन्मन्दम्, भाष्यार्थानवबोधात् । तथा चान्तोदात्तः कृष्णशब्दः वर्णमात्रपर्यवसायी , किन्तु आद्युदात्तस्तु विशिष्ट पर्यवसायीति तदर्थत्वात् । ' यमाय कृष्णः ' इत्यत्रापि कृष्णो न वर्णमात्रपर्यवसायी कृष्णमेषपर एव । प्रकृते तु श्रुत्यनुसारेण कृष्णशब्दः कृष्णमृगपर इत्युक्तत्वात् । अत एव सायणाचार्योऽपि काण्वभाष्ये - अन्त्योदात्तः कृष्णशब्दो वर्णवाची, अत एव ' कृष्णं वासः ', ' कृष्णं रूपम् ' इत्यादी अन्तोदात्त आम्नात इति । यथा पूर्वत्र कृष्णशब्दः श्रुत्यनुसारेण कृष्णमृगपरस्तथैवोत्तरत्र कृष्णशब्दोऽपि पूर्वमन्त्राक्षरानुरोधेन कृष्णमेषपर इति न मनागपि विरोधावकाशः । ' कृष्णो मृगसंयोगे ' ( प्रा ० २।२५ ) इति प्रातिशाख्यानुरोधेन कृष्णशब्दस्य मृगपरत्व आयुदात्तत्वं विहितम् । " शतपथे तु - " प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षति कृष्णोऽस्याखरेष्ठोऽग्नये त्वा जुष्टं प्रोक्षामीति तन्मेध्यमेवैतदग्नये करोति " ( श ० १ | ३ | ३ | १ ), " अथ वेदि प्रोक्षति | वेदिरसि बहिषे करोति " ( श ० १।३।३।२ ) | अध्मादीनां प्रोक्षणं विधत्ते । अग्नौ हीध्म आधास्यते । अतोऽग्न्यर्थप्रोक्षणेनेध्मं मेध्यं कृतवान् भवतीत्यर्थः । किन्तु उनका किया अर्थं सर्वत्र विसंगत ही हो गया है । जो कार्य आहवनीय अग्नि में होता है, उसे वेदि में करना बता रहे हैं । जो प्रोक्षण जल से हुआ करता है, उसे वे घृत से करने के लिये बता रहे हैं । ' बहि ' शब्द का ' अन्तरिक्ष गमन ' अर्थ करते हैं, जो लोकविरुद्ध है । लोकव्यवहार में ' बहि ' शब्द का अर्थ ' दर्भ ' प्रसिद्ध है । ' वेदी ' को अन्तरिक्ष में स्थित बता रहे हैं । हिन्दी में जो अर्थं बताया है, वह भी सर्वथा निर्मूल, असंगत और विप्रतिषिद्ध है । ' यज्ञ ' शब्द का अर्थ ' होम ' कर रहे हैं, किन्तु ' यज्ञ ' और ' होम ' भिन्न - भिन्न पदार्थ हैं । स्वामी दयानन्द के किसी अनुयायी ने दयानन्द स्वामीकृत अर्थ में उपस्थित होनेवाली अनुपपत्तियों का समाधान किये बिना ही उब्वटादि आचार्यों की व्याख्या में दोष प्रदर्शन करने की धृष्टता भी की है । किन्तु उव्वट भाष्य को , शतपथ अर्थं न समझने के कारण ही वह ऐसी धृष्टता कर बैठा है । यदि सायणाचार्य के काण्वभाष्य प्रातिशाख्य के द्वारा ब्राह्मण का अनुशीलन कर लिया होता, तो ऐसी धृष्टता करने का दुःसाहस न हुआ होता । उक्त वैदिक ग्रन्थों जानने के दयानन्दीय अर्थ का समर्थन अंशतः भी उपलब्ध नहीं हो रहा है । अभी तक कही गई बातों को सविस्तर

पृष्ठ 14

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 14 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्लयजुर्वेदसंहिता [ अध्यायः २ af क्षति इति मन्त्रलिङ्गात् स्तरिष्यमाणबहिरर्थः वेदि शुद्धां करोमि, प्रोक्षणेन बर्हिस्तरणयोग्यतां. वेदेरापादयति । नह्यत्र दयानन्दीयार्थसमर्थनं मनागपि दृश्यते । " अथास्मै बहिः प्रयच्छति तत्पुरस्तात् पूर्वस्यां दिशि ग्रन्थि यथास्यात्तथा सादयति । तत् प्रोक्षति बहि-रसि स्रुग्भ्यस्त्वा जुष्टं प्रोक्षामीति तन्मेध्यमेवैतत् स्रुग्भ्यः करोति " ( श ० १ ३ ३ ३ ) | पुरस्तात्पूर्वभागे सन्नहन-रज्जोर्ग्रन्थिर्यदा भवति तथा सादयति । तत्प्रोक्षति बर्हिरसीति मन्त्रेण, सुग्भ्यस्त्वा जुष्टम् अभिरुचितं त्वा त्वां प्रोक्षामि । बर्हिष उपरि स्रुचामासाद्यमानत्वाद् एतन्मन्त्रकरणकेन प्रोक्षणेन बर्हिषस्तद्योग्यतां सम्पादयति । एतावता याज्ञिकप्रसिद्ध एवार्थोऽभिप्रेतः । श्रुतिसूत्रसम्मत एवार्थः सायणादिभिः प्रतिपाद्यते । ' यदिमां विन्दन्ति तद्वेद्यं वेदित्वम् ' ( तै ० ब्रा ० ) इति श्रुतेः तादृशीं त्वां बर्हिषे जुष्टां बर्हिर्धारणोपयोगित्वेन प्रियां प्रोक्षामि । बर्हिषः प्रजारूपत्वाद् वेदेश्च पृथिवीरूपत्वाद् बर्हिर्धारकत्वं युक्तम् । तदप्याह तित्तिरिः - ' प्रजा वै बहिः पृथिवी वेदिः; तेन प्रजामेवं पृथिव्यां प्रतिष्ठापयतीति ' । स्रुचां यजमानरूपत्वाद् यजमानस्य प्रजानां मध्येऽवस्थातुं युक्तत्वात् प्रजारूपे बर्हिषि यजमानस्यावस्थानं युक्तमेव । अध्यात्मपक्षेऽपि हे जीव! त्वं कृष्णोऽसि सदानन्दरूपोऽसि । ' कृषि वाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ ' आसमन्तात् खरे कठिने कूटवदभेद्येऽधिष्ठाने ब्रह्मणि तिष्ठतीत्याखरेष्ठोऽसि । अग्नये परमात्मने जुष्टमभिरुचितं त्वा त्वामहं प्रोक्षामि कर्मोपासनादिविधानेन शोधयामि । त्वं वेदिप्तिरसि । बर्हिषे परमाकाशरूपाय ब्रह्मणे तत्प्राप्तये त्वा प्रोक्षामि शोधयामि । बहिरसि चिदाकाशमिति । स्रावयन्ति नाना-विधानि सुखानीति स्रुचो देवास्तेभ्यो जुष्टं प्रियं त्वा प्रोक्षामि, ' देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ' ( भ ० गी ० ३।११ ) इति गीतावाक्यात् । ब्रह्मदृष्टया संस्कृत आत्मा क्रमेण धर्मब्रह्मप्राप्तियोग्य भवति ॥ १ ॥

इच्छुक वेदार्थ रसिक वेदभक्त लोग ऊपर दिये गये मूल करपात्र भाष्य को सावधानी से पढ़ेंगे, तो सभी शंकाओं का यथार्थ समाधान प्राप्त कर सकेंगे । अध्यात्मपक्ष में मन्त्र का अर्थ इस प्रकार होगा - हे जीव! तुम कृष्ण हो, सदानन्दस्वरूप हो । भूवाचक शब्द ' कृष ' है और सुखवाचक शब्द ' ण ' है, उन दोनों का जो ऐक्य है, वही ' परब्रह्म ' है, वही ' कृष्ण ' है । कूटवत् ree ऐसे अधिष्ठानभूत ब्रह्म में स्थित रहने के कारण तुम आखरेष्ठ हो । परमात्मा को प्रिय लगने वाले तुम्हारा हम शोधन, कर्मोपासना आदि के द्वारा करते हैं । तुम ज्ञप्तिरूप हो । परमाकाशरूप ब्रह्म की प्राप्ति के लिये मैं तुम्हारा शोधन करता हूँ । तुम चिदाकाशरूप हो । नानाविध सुखों को देने वाले देवताओं के तुम प्रिय हो, इसलिये मैं ' तुम्हारा प्रोक्षण करता हूँ । श्रीमद्भगवद्गीता ( ३ | ११ ) में भगवान् स्वयं अपने श्रीमुख से कह रहे हैं - " तुम लोग इस यज्ञ के द्वारा देवताओं की उन्नति करो और वे देवता लोग तुम लोगों की उन्नति करें । इस प्रकार आपस में कर्तव्य समझकर उन्नति करते हुए परम कल्याण को प्राप्त करोगे । " इस गीतावाक्य से स्पष्ट है कि ब्रह्मदृष्टि करने से संस्कृत हुआ जीवात्मा क्रमशः धर्म- ब्रह्म की प्राप्ति के योग्य होता है ॥ १ ॥

अवि॑त्य॒ व्य॒न्द॑नमा॑सि॒ विष्णः स्तुपोस्यूर्णस्रवसं त्वा स्तृणामि स्वास॒स्था॑ दे॒वेभ्यो॒ भुव॑पतये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ भू॒ताना॒म्पत॑ये॒ स्वाहा॑ ॥ २ ॥

मन्त्रार्थ - हे प्रोक्षणावशिष्ट जल! तुम पृथ्वी को आर्द्र कर देने वाले हो । हे कुशमुष्टिरूप प्रस्तर! तुम यज्ञ की शिखा के समान हो । हे वेदे! ऊर्णावत के समान मृदु और देवताओं को सुख से बैठने योग्य तुम बन सको, इसलिये

पृष्ठ 15

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 15 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २ ] वेदार्थ पारिजातमाष्यसहिता बाहर गिर जाता है, वह ( ये तीनों अग्नि के भाई, तुम पर मैं दर्भों को बिछा रहा हूँ । हविर्ग्रहण के समय हविद्रव्य का भाग, जो परिधि के अग्नि के जो तीन भाई भुवपति, भुवनपति और भूतानांपति हैं, उनके लिये सुहुत हो । परिषिरूप बन गये, उनपर गिरा हुआ हविर्भाग उन भाइयों को देना चाहिये, यह कथा वेद में है । ) ॥ २ ॥

' शेषं मूलेषूपसिञ्चन्त्यदित्यं व्युन्दनम् ' ( का ० श्र ० २७ ३० ) । अध्वर्युः प्रोक्षणीशेषं मूले निनयेत् । हे प्रोक्षणशेषोदक! त्वमदित्यं अदित्या भूमेः व्युन्दनमसि विशेषेण उन्दनं क्लेदनं व्युन्दनमसि । ' पवित्रे निधाय प्रणीतासु बर्हिविस्रंस्य पुरस्तात् प्रस्तरग्रहणं विष्णोरिति ' ( का ० श्री ० २७ २१ ) । अध्वर्युर्हस्तेन बर्हिर्विस्रंस्य बर्हिर्भागस्य पुरस्तात् कुशमुष्र्ग्रहणं कुर्यात् । हे प्रस्तर दर्भमुष्टिरूप! त्वं विष्णोर्यज्ञस्य स्तुपोऽसि ( ष्ट्र स्त्यं शब्दसंघातयोः ) धात्वोः औणादिके हुप्प्रत्यये तद्रूपनिष्पत्तिः । दर्भसङ्घातरूपत्वात् केशसङ्घातरूपा शिखेव भवसि । ' वेदिं स्तृणात्पूर्णम्रदसमिति ' ( का ० श्री ० २ | ७ | २२ ) । अध्वर्युः प्रस्तरं ब्रह्मणे समर्प्य बन्धनरज्जुं विस्रंस्य रज्जुत्वरूपं परित्याज्य दक्षिणस्यां वेदिश्रोणी उदगग्रं निधाय संनहनाच्छादनैस्तृणः संनहनं प्रच्छाद्य ऊर्णदसमिति मन्त्रावृत्त्या त्रिवृतं प्रागग्रं वेदिमाच्छादयेत् । हे वेदे! त्वां स्तृणामि बर्हिषाच्छादयामि । कीदृशीं त्वाम्? ऊर्णम्रदसम् ऊर्णमिव मृदुतराम् । अतिशयेन मृदुर्ग्रदीयसी ईयलोपश्छान्दसः । तथा च ऊर्णाभिर्मृद्वी कर्तुं स्तृणामि । यथा विशिष्ट-पुरुषाणामुपवेष्टुं कम्बलादिना भूमिराच्छाद्यते काठिन्याभावाय, तथा दर्भेराच्छादिता भूमिमृदुः स्यात् । पुनः कीदृशीम्? देवेभ्यः स्वासस्थां देवानामुपकाराय सुखेनासितुं स्थानभूतां सुखेन आसेन आसनेन स्थीयते यस्यां सा स्वासस्था, ताम् । सुष्ठु साधुमर्यादया यस्यामासीदन्ति देवास्तां त्वां देवेभ्योऽर्थाय स्तृणामि दर्भैराच्छादयामि । ' स्कन्नमभिमृशति भुवः पतये स्वाहेति ' ( का ० श्री ० २७२२ ) । भुवः पतये स्वाहा । अस्याग्नेर्ये भ्रातरः-पूर्वे त्रयो बभूवुः, ते वषट्कारभयाद् इमां पृथिवीं प्राविशन् । अयं चाग्निः प्रपलाम्याप्सु प्राविविक्षत प्रवेष्टुमैक्षत । स देवैरानीय स्वाधिकारे पुनः स्थाप्यमान एवमुवाच - यदेतद्भ्रातृभिर्मां परिधत्तेषाञ्च यज्ञभागः कल्प्यताम् । ततस्तेऽग्नेर्भ्रातरः परिधयो जाताः । तेषाञ्च स्कन्नं हविर्भागः कृतः । भुवः शब्देन मध्यमा व्याहृतिरुच्यते, भुवनशब्देन जगदुच्यते, भूतानामिति शब्देन भूतान्येवोच्यन्ते । तेषां येऽधिपतयस्तेभ्यः स्वाहेति सम्बन्धः । दयानन्दस्तु – “ यतोऽयं विष्णुर्यज्ञोऽदित्या व्युन्दनकारी भवति, तस्मात्तमहमनुतिष्ठामि । अस्य विष्णोर्यज्ञस्य स्तुपः प्रस्तर उलूखलाख्यः साधकोऽस्ति । तस्मात् त्वा तमहमूर्णम्रदसं स्तृणामि । वेदिर्देवेभ्यो हिता भवति । तस्मात् तामहं स्वासस्थां रचयामि । कस्मै प्रयोजनाय? यतोऽयं भुवः पतिः, भुवनपतिः, भूतानां पतिरीश्वरः प्रसन्नो भवति, भौतिको वा सुखसाधको भवति, तस्मै भुवपतये स्वाहा विधेया, भुवनपतये स्वाहा वाच्या, भूतानां पतये स्वाहा प्रयोज्या भवतीत्यस्मै प्रयोजनाय " इत्याह । तदपि तदीयकल्पनामात्रम् । यज्ञः कथं पृथिव्या व्युन्दनम् विविधानामोषधीनां क्लेदनं भवतीति न स्पष्टम् । यज्ञ एव उलूखलः, कथं यज्ञस्य स्तुपः शिखा । भा ० सा ० - कात्यायन श्रौतसूत्र के अनुसार प्रोक्षण करके बचे हुए जल को मूल पर डाल दे । हे प्रोक्षणशेषोदक! तुम अदिति यानी भूमि को आर्द्र बना देते हो, अर्थात् भूमि के सेवक हो, अत एव ' उदक ' कहलाते हो । तदनन्तर अध्वर्यु अपने हाथ से बहियों को खोल कर उनके अगले भाग से कुशमुष्टिरूप प्रस्तर का ग्रहण करे । अध्वर्युं कहता है कि हे प्रस्तर! तुम यज्ञरूपी विष्णु के स्तुप हो, अर्थात् दर्भ संघातरूप होने से केशसंघातरूप शिखा के समान हो । यह कहने के पश्चात् अध्वर्यु उस प्रस्तर को ब्रह्मा के हाथ में देकर बांधी हुई रज्जु को खोल कर वेदी के दक्षिण श्रोणि

पृष्ठ 16

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 16 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ शुक्लयजुर्वेदसंहिता [ अध्यायः २ न च ' यज्ञो वै विष्णुस्तस्येयमेव शिखा स्तुप: ' ( श ० १ | ३ | ३ | ५ ) इति श्रुतिरेव तत्र मानमिति वाच्यम्, तस्या अन्यार्थत्वात् । ' अथ विस्रंस्य ग्रन्थि पुरस्तात् प्रस्तरं गृह्णाति विष्णोः स्तुपोऽसीति । यज्ञो वै विष्णुस्तस्येयमेव शिखा स्तुप एतामेवास्मिन्नेतद्दधाति पुरस्ताद् गृह्णाति । अत्र उलूखलस्य प्रसङ्ग एव नास्ति । अत्र प्रस्तरग्रहणं विधत्तै- बर्हिः सन्नहन रज्जुग्रन्थि विमुच्य पुरस्तात् पूर्वदिनभागे करोति विष्णोः स्तुपोऽसीति मन्त्रेण प्रस्तरं गृह्णीयादिति विधानम् । मन्त्रार्थस्तु — हे प्रस्तर कुशमुष्टे! त्वं विष्णोर्यंज्ञस्य स्तुपोऽसि शिखाकेशसङ्घातरूपोऽसि । आहवनीयनिकटे तद्ग्रहणात् शिखामेव तस्मिन् स्थापितवान् भवतीत्यर्थः । पिण्डीभावेन बद्धो मानुषः स्तुपः केशसङ्घातः शिरतः पूर्वभागे भवति । अतो यज्ञस्यापि पूर्वभागे स्तुपधारणाय पुरस्ताद् ग्रहणं युज्यत इत्यर्थः । इति तत्रत्यं सायण-भाष्यम् । ऊर्णम्रदसमिति पदस्य पाषाणमय उलूखलोऽर्थं इत्यपि निर्मूलम् । न च ऊर्णा धान्याच्छादनानि तुषाणि दयति, येन तम् ऊर्णम्रदसं पाषाणमयमिति व्युत्पत्तिस्तत्र मूलमिति वाच्यम्, ऊर्णापदस्य धान्याच्छादक-तुषार्थकत्वे मानाभावात् । एवं तुषापनोदकं तं पाषाणमुलूखलं च स्तृणामि पदार्थैराच्छादयामीत्यप्युन्मत्तप्रलपितमेव, तादृग्विधानानुपलम्भात् । एवमेव वेदिविद्वद्भयो दिव्यसुखेभ्यो हिता भवति, तां स्वासस्थां हुतपदार्था यत्र स्थिरा भवेयुस्तथाभूतां तां करोमीत्यपि निरर्थकम् हुतानां पदार्थानामाहवनीयादिषु खरेष्ववस्थानं भवति, न वेद्यामिति याज्ञिकविधानाज्ञानात् । वेदिनिर्माणेन संस्तरपतिः लोकलोकान्तरपतिः सांसारिकपदार्थपतिः प्रसीदतीत्यपि निर्मूलम्, प्रमाणानुपलम्भात् । स्वाहाशब्दार्थविचारः - स्वाहा विधेया, स्वाहा वाच्या, स्वाहा प्रयोज्या इत्यपि निःसारम्, स्वाहाशब्दस्यार्थेक्यात् प्रयोगभेदासम्भवात् । यत्तु - " स्वाहाकृतयः स्वाहेत्येत सू आहेति वा स्वा वागत स्वं प्राहेति वा स्वातं हविर्जुहोतीति " ( नि ० ८ २० ) इति निरुक्तमुद्धृत्य तदर्थतया ' यत् शोभनं वचनं सत्यकथनं स्वपदार्थान् प्रति ममत्ववचः, मन्त्रोच्चारणे हवनं चेति स्वाहाशब्दार्था विज्ञेयाः ' इत्युक्तम्, तदप्यज्ञानविजृम्भितम्, ' स्वाहाकृतं हविरदन्तु देवाः ' ( ऋ ० सं ० १० | ११०1११ ) इति मन्त्रान्ते श्रवणात् । तस्मिन्नेवार्थे कथं स्वाहाशब्द -निरुक्तिरित्याह- - अथ स्वाहेति । कस्मात् तत्राह - सुष्ठु आह् इति वा यदेव सम्प्रदानदेवतायँ किञ्चिदाज्यस्य इत्यनेन मन्त्रेणाह तुभ्यमिदमिति तदेव सु आह शोभनमाह । अत्र सुः पूर्वपदम् आहेत्युत्तरपदम् । अथवा इदमन्यद् ब्राह्मणान्तर्गतं निर्वचनं स्वा वागाहेति । ' विज्ञायते हि तं स्वा वागवदज्जुहुधीति तत्स्वाहाकारस्य जन्म ' ( मैत्रा ० सं ० १।८।१ ) । अत्र स्वशब्दः पूर्वपदम् आहेत्युत्तरपदम् । अथवा स्वं प्राहेति को विशेषः पूर्वस्मादिति चेत्, पूर्वपदस्य कारकान्यत्वम्, स्वा वागाहेति कर्तरि स्वं प्राहेति कर्मणि प्रपूर्वकं चोत्तरपदं प्रकर्षद्योतनाय स्वाहुतं हविर्जुहोतीति तदेव सुष्ट्वापाद्य यथाभिधानमग्नौ जुहोति । अत एव नहि सत्यवचने शोभनवचने वेदपठने स्वस्वत्वग्रहणे वा स्वाहा-पर उसे उदगग्र रख कर सन्नहनाच्छादन रूप तृणों से सन्नहन को आच्छादित करके ' उर्ण प्रदसम् ' मन्त्र की तीन बार आवृत्ति करके उसे त्रिवृत् और प्रागग्र कर वेदि में बिछा दे । हे वेदे! मैं तुझ को बह से आच्छादित करता हूँ । जिससे तू ऊर्णावस्त्र की तरह मृदुतर हो और देवताओं के लिये ' स्वासस्था ' बन सको, यानी देवता तुझ पर सुख से बैठ सकें, ऐसी तुझे बना रहा हूँ । भुवपति आदि तीन भाई वषट्कार के भय से भूमि में प्रविष्ट हो गए । उससे दुःखी होकर अग्नि भी पलायन करके उदक जल ) में प्रविष्ट हो गया । पश्चात् देवगण, वहाँ से उसको लाकर अपने अधिकार में रखने लगे । तब वह अग्नि कहने लगा कि भुवपति आदि मेरे भाइयों ने मेरी रक्षा की है, इसलिये उनके भाग की भी कल्पना की जानी चाहिये । तव वे भाई अग्नि के परिधिरूप बन गये । उनके लिये स्कन्न ( गिरा हुआ ) हवि का भाग देने का निश्चय किया गया । ' भुवः ' शब्द से मध्यमा व्यावृत्ति, ' भुवन ' शब्द से जगत् और ' भूतानाम् ' शब्द से समस्त भूतप्राणिवगं बताया गया है । उनके जो अधिपति हैं, उनके लिये यह स्वाहा

पृष्ठ 17

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 17 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २ ] वेदार्थपारिजात भाष्यसहिता काराः शिष्टग्रन्थेषु प्रयुज्यमाना दृश्यन्ते । अधिकं तु भूमिकायामुक्तम् । भुवः पतये, भुवनपतये इत्यादी सम्प्रदाने चतुर्थीति देवतायै हविर्दान एव स्वाहाकारो युक्तः । शतपथे तु सनातनभाष्यानुसार्येव व्याख्यानम् । तथाहि - ' अथ विस्रंस्य ग्रन्थि पुरस्तात् प्रस्तरं गृह्णाति ' ( श ० १ | ३ | ३ | ५ ) । व्याख्यातप्रायमेतत् । ' अथ सन्नहनं वित्र ' सयति प्रक्लृप्तं हैवास्य स्त्री विजायत इति तस्मात् सन्नहनं विस्र सयति तद्दक्षिणायां श्रोणी निदधाति । नीविर्हेवास्यैषा दक्षिणत इव हीयं नीविस्तस्माद् दक्षिणायां श्रोणी निदधाति । तत्पुनरभिच्छादयति । अभिच्छन्नेव हीयं नीविस्तस्मात् पुनरभिच्छादयति । ' ( श ० १ । ३ । ३ । ६ ) इति । सन्नह्नरज्जोर्वित्र सनं विधाय प्रशंसति अथेति । सन्नहनस्य विस्त्रसने सत्यस्य यजमानस्य स्त्री प्रक्लृप्तं प्रकर्षेण क्लृप्तं दशमाससंपूर्णावयवमपत्यं विजायते प्रसूयते । इतिशब्दो हेतौ । यस्मादेवं तस्मात् सन्नहन रज्जोर्देश विशेषे स्थापनं विधत्ते दक्षिणायां श्रोणी निदधाति । नीविर्ह वै अस्य यजमानस्य एषा रज्जुनवी भवतीत्यर्थः । नीवीरूपत्वं दृष्टान्तेनोपपादयति - लोके वाससः परिधाने दक्षिणपार्श्वे एव हि नीविः परिकल्प्यते । तस्माद् दक्षिणश्रोणी सन्नहनरज्जुनिधानं नीविपरिकल्पनमेव । सन्नहनस्योपरि दर्भान्तरैश्छादनं विधत्ते । तदुपपादयति - अथ बहिः स्तृणाति । अयं ह वै स्तुपः प्रस्तरोऽथ यान्यवाचि लोमानि तान्येवास्य यदितरं बर्हिस्तान्येवास्मिन्नेतद्दधाति तस्माद् बहिः स्तृणाति । ( श ० १।३।३।७ ) बर्हिषः स्तरणं विधत्ते - अथेति । स्तृणाति वेदि छादयति तत्प्रशंसति - अयं हेति । अयं प्रस्तरः ऊर्ध्वबद्धकेशसंघातात्मकः स्तुपः । अथ यान्यवाञ्चि लोमानि श्मश्रुप्रभृतीनि यान्यवाङ्मुखानि लोमानि तान्येवास्मि -निदधाति । स्तीर्यमाणेन बर्हिषा अस्य यज्ञस्य तान्येव सम्पद्यन्त इत्यर्थः । तस्माद् बहिः स्तृणाति । प्रकारान्तरेणापि बर्हिस्तरणं समर्थयते । योषा वै वेदिः । तामेतद्देवाश्च पर्थ्यासते ये चेमे ब्राह्मणाः शुश्रुवांसोऽ-नूचानास्तेष्वेवैनामेतत्पर्यासीनेष्वनग्नां करोत्यनग्नताया एव तस्माद् बहिः स्तृणाति । ( श ० १ ३ | ३ | ८ ) हविर्ग्रहणायागत्य ये देवा वेदेः परित उपविशन्ति ये च शुश्रुवांसः प्रयोगाभिज्ञाना अनूचाना अनुष्ठातार ऋत्विजो ब्राह्मणास्तेषु पर्यासीनेषु स्त्रीरूपा इयं वेदिः स्वयमनावृता सती तेभ्यो लज्जावती भवति, अतस्तस्या बर्हिषाच्छादनमनग्नतायै सम्पद्यते । तस्माद् बर्हिस्तरणं कर्तव्यम् । यावती वा वेदिस्तावती पृथिव्योषधयो बर्हिस्तदस्यामेवैतत्पृथिव्यामोषधीर्दधाति । ता इमा अस्यां पृथिव्यामोषधयः प्रतिष्ठितास्तस्माद् बहिः स्तृणाति ॥ ' ( श ० १।३।३।९ ) । है | ' स्वाहा ' शब्द ' निपात ' है, देवताओं के प्रति ' दान ' वाचक है, क्योंकि श्रुति ने कहा है - ' स्वाहाकारं च वषट्कारं च देवा उपजीवन्ति ' । स्वाहाकार और वषट्कार के आश्रम से देवता रहते हैं । स्वामी दयानन्द ने इस मन्त्र की व्याख्या करते हुए जो कहा है, वह सब उनकी कल्पनामात्र है, उस कल्पना का कोई आधार नहीं है । यज्ञ को पृथिवी का व्युन्दन कहा है, किन्तु वह सम्भव नहीं है । विविध ओषधियों के क्लेदन की बात को स्पष्ट नहीं किया है । यज्ञ को जब उलूखल कह दिया तो वही उसकी शिखा कैसे होगी । किसी श्रुति को भी अपने समर्थन में नहीं पा सकते, क्योंकि जिस श्रुति को आप देंगे, उसमें उलूखल का प्रसंग ही नहीं है । उस श्रुति में तो प्रस्तरग्रहण का विधान किया है । अतः स्वामी दयानन्द की व्याख्या निराधार रहने से सर्वथा उपेक्षणीय है । इस सम्बन्ध में विस्तार से जानना हो तो ऊपर दिये गये करपात्रभाष्य का अध्ययन करना चाहिये । हिन्दी में तो बहुत ही संक्षेप में भाष्य का सारमात्र दे दिया गया है ।

पृष्ठ 18

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 18 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ शुक्लयजुर्वेदसंहिता [ अध्यायः २ प्रकारान्तरेण तत्प्रशंसति । वेदिरियं सम्पूर्ण पृथिवीरूपा बहींषि चौषधिरूपाणि बहिस्तरणं पृथिव्यामोष -धीनामेव प्रतिष्ठापनं मन्तव्यम् । तस्मात्तद्युक्तमेव । तद्वै बहुलं स्तृणीयादित्याहुः । यत्र वा अस्यै बहुलतमा ओषधयस्तदस्या उपजीवनीयतमं तस्माद् बहुलं स्तृणीयादिति तद्वै तदाहर्तर्येवाधि त्रिवृत् स्तृणाति त्रिवृद्धि यज्ञोऽथो अपि प्रबहं स्तृणीयात् स्तृणन्ति बहिरानुषगिति षिणाऽभ्यनुक्तमधरमूलं स्तृणात्यधरमूला इव हीमा अस्यां पृथिव्यामोषधयः प्रतिष्ठितास्तस्मादधरमूलं स्तृणाति । ( श ० १ | ३ | ३ | १० ) स्तरणस्य श्लक्ष्णतां विधत्ते - बहुलं निरन्तरं यथा भूमिर्नं दृश्येत तथा स्तृणीयादित्यभिज्ञा वार्त्तिकेन आहुः ॥ तथा वदतामभिप्रायमाह - - यत्र वा अस्य इति षष्ठ्यर्थे चतुर्थी ( पा ० सू ० २ | ३ | ६ ) इति स्थलीयेन भवति । अस्याः पृथिव्याः संबन्धिनि स्थाने ओषधीनां बाहुल्यं भवति । तदेव स्थानं सर्वैः प्राणिभिरतिशयेनोपजीव्यं यजमानस्य तस्मादुपजीवनीयत्वसिद्धये बहुलं स्तरणं कर्तव्यमित्यनेनाभिप्रायेण । भूमेरुपजीवनीयतमत्वेऽपि को लाभ इत्यपेक्षायामाह तद्वै तदाहर्तर्येव तस्य बहिषो य आहर्ता यजमानः, तस्मिन्नेव बहुलस्त रणकृतमुप-जीवनीयतमं भवति, अनुष्ठेय क्रियाफलस्य कर्तृगामित्वात् । ' शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् ' ( मी ० सू ० ३ | ७ | १८ ) । स्तरणस्य त्रिवृत्त्वं विधत्ते- तत्रैकं त्रिभिर्मुष्टिभिर्हस्त्रिधा यथा भवति तथा वेदि छादयेत् । सवनत्रयवत्त्वेन त्रिवृद्धि यज्ञः । मुष्टि वेदेः पूर्वभागे स्तोत्र्वा द्वितीयं तन्मध्यभागे पूर्वमुष्टिना सम्बद्धं स्तृणीयात् । ततस्तृतीयं मुष्टिमपि वेदेरपरार्धे द्वितीयमुष्टिना संबद्धं स्तृणीयात् । एवं स्तरणं प्रत्यपरिसमाप्तिरित्येकः पक्षः । पक्षान्तरमाह -अथो अपि प्रबर्हं प्रवृह्य प्रथममुष्टि वेद्यपरार्धे स्तीर्त्वा तस्याग्रमुद्यम्याधस्तात् तत्सम्बद्धद्वितीयं मुष्टिं स्तृणी-यात् । एवमेव तृतीयमपि । एवं मुष्टित्रयस्य परस्परसम्बन्धं ऋङ्मन्त्रोद्धरणेन द्रढयति - स्तृणन्तीति । अनुषक्तं परस्परसम्बद्धं बर्हिरध्वर्यवः स्तृणन्तीति ऋक्पादस्यार्थः । अतोऽस्मान्मन्त्रलिङ्गात् पूर्वमुष्टिं प्रवृह्य अधस्तात् तत्संसक्तमेवापरं मुष्टिं स्तृणाति । अस्मिन् पक्षे स्तरणस्य प्रागवता पक्षद्वयेऽपि । बहिर्मुलस्याधरत्वं विधाय प्रशंसति - ' सस्तृणातीति । ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थां देवेभ्य इति साध्वीं देवेभ्य इत्येवैतदाहोर्णप्रदसं त्वेति । स्वासस्थां देवेभ्य इति स्वासदां देवेभ्य इत्येवैतदाह । ' ( श ० १ | ३ | ३ | ११ ) । विहितं स्तरणमनुद्य मन्त्रं विधत्ते - सस्तृणातीति । ऊर्णम्रदसमिति मन्त्रगत पदद्वयस्य पर्यवसितमर्थमाह - साध्वीमिति । ऊर्णासूत्र-निर्मितकम्बलवद् मृदुभूतां त्वां हे वेदे स्तृणामीत्यस्य साध्वीं देवेभ्यः प्रीतिकरोमित्यर्थः सम्पद्यते । मन्त्रस्य द्वितीयभागमनूद्य व्याचष्टे - स्वासस्यामिति । सुखेनासितुमुपवेष्टुं योग्यां स्वासस्थाम् । एतस्यैवाभिप्रायः स्वासदां सुखेनासितुमुपवेशनं कर्तुं शक्या स्वासदा तामित्यर्थः । अत्र ऊर्णपदस्य धान्याच्छादनतुषार्थंकरणेनोलू-मन्त्र का अर्थ यह है - हे प्रस्तर! तुम यज्ञरूप विष्णु को शिखा ( स्तुप ) हो, क्योंकि यज्ञ के समीप ही पूर्व भाग में तुम्हारी स्थापना होने से तुम्हें शिखा के रूप में समझा जाता है । शिखा मी निकट और शिर के पूर्वभाग में रहती है । स्वामी दयानन्द ने ' ऊर्णप्रदसम् ' का अर्थ ' पाषाणमय उलूखल ' किया है, किन्तु वह निर्मूल है । आगे चलकर ' देवेभ्यः स्वासस्याम् ' का अर्थ भी याज्ञिक विधि परम्परा ( प्रक्रिया ) का ज्ञान न रहने से निरर्थक हो गया है । इसी तरह ' स्वाहा ' शब्द का अर्थ भी नहीं कर पा रहे हैं । स्वाहा शब्दों का यहाँ एक ही अर्थ होता, तो उनके भिन्न - भिन्न प्रयोग करने की आवश्यकता ही क्यों होती? निरुक्त का उद्धरण देकर जो जो अर्थ बताया है, उससे स्पष्ट होता है कि उन्हें निरुक्त का ज्ञान नहीं है । ' स्वाहाकृतमदन्तु देवा: ' ऋग्वेद की इस ऋचा को ओर मंत्रायणी श्रुति को देखने से ' स्वाहा ' शब्द का अर्थ स्पष्ट हो जाता है । इससे सम्बद्ध चर्चा सम्यक्तया विस्तार के साथ भूमिका

पृष्ठ 19

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 19 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २ ] वेदार्थपारिजातमाष्यसहिता खलार्थग्रहणम्, तस्य च यज्ञस्तुपत्वाङ्गीकरणं सर्वथा वैदिकसम्प्रदायानभिज्ञतामूलकमेव । शतपथदृष्ट्या मनुष्यातिरिक्ता जातिविशेषा देवा भवन्ति । तेषाञ्च यज्ञे समागमनं भवति । वेदिश्च योषारूपेति तस्या अनग्नताय बहिराच्छादनं युज्यते । प्रस्तरपदेन कुशमुष्टिरभिप्रेयते । तस्मिन ऊर्ध्वसम्बद्ध केशसङ्घातरूपत्वाद् यज्ञस्य स्तुपत्वारोपः । अथाग्नि कल्पयतीत्यग्नेः प्रबलीकरणविधानं क्लृप्तं हविर्दहनसमर्थं करोति । तच्चा-हवनीयस्यैवेति तत्र शिरस्त्वारोपः । यथा देहस्य पूर्वभागः शिरो भवति, तथैवाहवनीयोऽपि वेदेः पूर्वभागेऽवस्थानाद् यज्ञस्य शिरो भवति । अत आहवनीयाग्निप्रबलीकरणेन यज्ञस्य शिर एवं क्लृप्तं भवति । तदानीमेव अग्नेरत्यन्तसन्निकृष्टोपरिभागे प्रस्तरस्य धारणं विधत्ते -- उपर्युपरि प्रस्तरं धारयन्तं कल्पयति । यज्ञशिरस आह-वनीयस्योपरि प्रस्तरं धारयन् एतमेव केशसंघातरूपं स्तुपमेवैतस्मिन् प्रतिसन्दधातीति द्वादशकण्डिकाभिप्रायः । ' अथ परिधीन् परिदधाति ' इति परिधिविधानम् । परितो धोयन्त इति परिधयः । ' उपसर्गे घोः किः ' ( पा ० सू ० ३।३।९ २ ) कर्मणि प्रत्ययः । परिधिपरिधानोपपादनायेतिहासमाह - यत्रममग्नि पुरा देवा होत्राय होतृकर्मणे प्रावृणत प्रवृतवन्तः । तदानीमग्निरुक्तवान् खल्वमिदानीमुत्साहं करोमि यद् युष्माकं होता स्यां हव्यं च मिति । यतो हे देवा यूयं मदीयान् पूर्वपुरुषान् श्रीनग्नीन् प्रवृतवन्तः स्थ । ते च तत एव प्राधन्विषु प्रामृषन् । तच्च पूर्वमाम्नातम् – ' चतुर्धा विहितो ह वा अग्रेऽग्निरास ' ( श ० १ २ ३ | १ ) । तान् मदीयान् पूर्वजान् अवकल्पयत मूर्तिसामर्थ्ययुक्तान् कुरुत । अथ होता भवितुमुत्साहं करिष्ये । ते च देवास्तथेत्यङ्गीकृत्य एतान् समर्थान् मूर्तियुक्तान कुर्वन् ते चेमे परिधयो जाताः । आख्यायिका रूपोऽयमितिहासः सुखावबोधार्थः, न घटनामूलकः, मन्त्रब्राह्मणात्मकस्य वेदस्यानादित्वात् । एवमाख्यायिकया परिधीनामुत्पत्ति प्रतिपाद्य तैरग्नेः परिधानं कार्यमित्यपि प्रतिपादितम् । देवान् प्रत्यग्निरुवाच - प्रावृणक वषट्काराद्भीतं मां प्रकर्षेणावर्जयत रक्षत येन परिधानेन हे देवा वषट्कारात्मको वो मां यथा न हिंस्यात् तदेतन्मम परिधानं कुरुत । देवास्तथाङ्गीकृत्य परिधिभिः पर्यदधुः । अतो देवः परिधानकरणात् समग्नि वज्रालको वषट्कारो नाबाधिष्ट । अतः परिधिपरिधान-मग्नेः कवचबन्धनमेवेत्यवश्यं तत्कर्तव्यमिति भावार्थ: । ( श ० १।३।३।१४ ) ' ते उ हैत ऊचुः । इदमु चेदस्मान् यज्ञे युङ्क्थास्त्वेवास्माकमपि यज्ञे भाग इति ' ( श ० १ | ३ | ३ | १५ ) । तथेति देवा अब्रुवन् । यद् बहिष्परिधि स्कन्त्स्यति तद्युष्मासु हुतमथ यद्धि उपर्युपरि होष्यन्ति तद्वोऽभविष्यत्यथ यदग्नी होष्यन्ति तद्वो भविष्यतीति । स यदग्नौ जुह्वति तदेनानवति । अथ यदेनानुपर्युपरि जुह्वत्यथ यद् बहिष्परिधि स्कन्दति तदेतेषु हुतं तस्मादु ह नाग इव स्कन्नं स्यादिमां वैते पृथिवीं प्राविशन् । यद्वा इदं किञ्च स्कन्दत्यस्यामेव में की गई है । शतपथ ब्राह्मण में जैसी व्याख्या है, तदनुसार ही प्राचीन आचार्यों ने व्याख्या की है । एवं च शतपथ, काण्वभाष्य, पारस्करगृह्यसूत्र, कात्यायनश्रौतसूत्र, तैत्तिरीयब्राह्मण, छान्दोग्यब्राह्मण आदि प्रामाणिक प्राचीन ग्रन्थों के विरुद्ध व्याख्यान स्वामी दयानन्द ने किया है । अतः स्वामी दयानन्द का व्याख्यान उनका अपना कल्पना जाल रहने से निराधार ही है । तथा मुवपति भुवनपति, भूतानाम्पति-- इन मन्त्रगत शब्दों का मन - माना अब स्वामी दयानन्द ने किया है 1 । ये तीनों नाम जिनके हैं, उनके न बताकर और ही किसी के बता रहे हैं । माता - पिता ने ' दयानन्द ' नाम जिसका रखा है, उसका न बताकर, यदि ' दया का आनन्द है जिसमें, वह ' दयानन्द ' है ' कहा जाय, तो किसी भी व्यक्ति को ' दयानन्द ' शब्द से समझा जा सकेगा, तब स्वामी जी का बोध नहीं हो पायगा । अतः ' नाम ' शब्दों में मन - मानो व्युत्पत्ति नहीं की जाती । जिसका नाम है, उसी का बोधन उस नाम से किया जाता है । दयानन्द स्वामी के किसी अनुयायी ने ' परिधियों ' को ' इध्म ' के अवयव बताया है, जब कि ' परिधि ' को पलाशरूप ब्रह्म का विकार होना शतपथ ब्राह्मण बता रहा है । अतः शतपथ ब्राह्मण के विरुद्ध व्याख्यान २

पृष्ठ 20

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 20 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्लयजुर्वेद संहिता [ अध्यायः २ तत्सर्वं प्रतितिष्ठति । ' ( श ० १ ३ | ३ | १६ ) | अथ स्कन्नमभिमृशति - भुवपतये स्वाहा, भुवनपतये स्वाहा, भूतानां -पतये स्वाहेत्येतानि वै तेषामग्नीनां नामानि यद्भवपतिर्भुवनपतिर्भुतानांपतिस्तद्यथा वषट्कृतं हुतमेवमस्यै-तेष्वग्निषु भवति । ' ( श ० १२।३।३।१७ ) | प्रसङ्गाद् भुवः पतये इत्यादिमन्त्रः स्कन्नस्य हविषोऽभिमर्शनं विधित्सुः परिधिरूपेणावस्थितानां भुवपत्यादिसंज्ञकानां तेषामग्नीनां स्कन्नद्रव्यभाक्त्वमुच्यते - ते उ हेत्यादिना । त ऊचुः-अस्मांश्चेद्यज्ञे पुनः युङ्क्थाः, तर्ह्यस्माकमपि यज्ञे कश्चिद्भागोऽस्त्विति । ते देवास्तथेति प्रत्यशृण्वन् चैवमब्रुवन् परिधीनां बाह्यदेशे यद्धविः स्कन्त्स्यति तद्युष्मासु हुतमस्तु, युष्मद्भागो भवत्वित्यर्थः । अथ च युष्माकमुपर्युपरि यद्धविः होष्यन्ति तद्वो युष्मान् अविष्यति तृप्तान् करिष्यति । ' अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमेषु ' । यच्चाग्नी होष्यन्ति तदपि युष्माकं तृप्तिकरमस्त्विति । एवं देवैस्तेषामग्नीनां भागो दत्तः । यस्मादेवं तस्मादिदानी -मप्यग्नौ हवनादिकमेनांस्तर्पयति । यस्मादेवं परिधिरूपाग्नीनां स्कन्नं हविर्भागत्वेन परिकल्पितं तस्मात् स्कन्नं यद् आगः अपराधो न भवति । ते प्रगता अग्नय इमां भूमि प्रविष्टाः । यदाज्यादिकं किमपि हविः स्कन्दति तत्सर्वं पृथिव्यामेव प्रतितिष्ठति । एवं तेन स्कन्नेन तत्रत्याग्नीनां सम्बन्धात् तृप्तिर्भविष्यतीति न स्कन्नदोषः । एवं स्कन्नं हविः परिधिरूपेणावस्थितानां भूमौ प्रविष्टानामग्नीनां भाग इत्युपपाद्य तत्तदग्नीनां नामधेययुक्तैर्मन्त्र-स्तस्याभिमर्शनं विधत्ते - स स्कन्नमिति । तत्रैवं नामोद्देशेनाभिमर्शने कृते सति यथा वषट्कृतं वषट्कारेण प्रत्तं हविस्तस्य देवतायै हुतं भवति, एवमेवास्य यजमानस्य भुवपनादिनामकेषु परिधिरूपाग्निषु तत्स्कन्नं हविर्हुतं भवति । एतत्सर्वमविज्ञायैव भुवपतये इत्यादिभिर्भूपतिलोकलोकान्तरपतितत्रत्यभूतानां पतिभ्यः स्वाहा वाच्येत्याद्यर्थः कृतः । अत्र स्पष्टमेव तेषामग्नीनां नामानि यद्भवपतिर्भुवनपतिर्भूतानां पतिरित्यग्निनामान्येतानि । हि दयानन्दपदेन दयाया आनन्दो यत्र स दयानन्दो यः कश्चिदपि ग्रहीतुं शक्यते । तेषां परिधीनामिध्मावयवत्वं केचिन्मन्यन्ते तदपाकरोति । अग्निसमिन्धनाय हीध्मः क्रियते, अतस्तदवयवानां समिन्धनसामर्थ्यमेव न तु परिधानसामर्थ्यमिति तदनवक्लृप्तिरेव । ( श ० १ | ३ | ३ | १८ ) ' ते वै पालाशाः स्युः । ब्रह्म वै पलाशो ब्रह्माग्निरग्नयो हि तस्मात् पालाशाः स्युः ' ( श ० १ ३ | ३ | १ ९ ) । परिध्युपादान वृक्षानुत्तराननुकल्पतयोपादेयान् विधत्ते - पालाशा इति । ते खलु पलाशवृक्षजा भवेयुः | ' ब्रह्म वै पलाशः । ब्रह्मविषयस्य श्रवणात् पलाशवृक्षो ब्रह्मात्मकः । देवा वै ब्रह्मन्नवदन्त तत् पर्ण उपाशृणादिति ' ( तै ० ब्रा ० ३५।७।३ ) । अग्निवाय्वादित्यरूपेण हिरण्यगर्भस्य ब्रह्मण एवास्थानादग्निरपि ब्रह्मात्मकः । तादृगग्न्यात्म-कत्वं च परिधीनां प्रतिपादितमेव । अतोऽग्निरूपब्रह्मात्मकानां परिधीनां पलाशरूपब्रह्मविकारत्वं युक्तमित्यर्थः । ' यदि पलाशान्न विन्देत्, अथो अपि वैकङ्कताः स्युर्यदि वैकङ्कतान्न विन्देदथो अपि कामयाः स्युर्यदि कार्ष्ममयान्न विन्देदथो अपि वैल्वाः स्युरथो खादिरा अथो औदुम्बरा एते हि वृक्षा यज्ञियास्तस्मादेतेषां वृक्षाणां करना दयानन्दीय कल्पनाजाल होने से निराधार ही है । ' स्तुप ' शब्द में सायणाचार्य के द्वारा प्रदर्शित व्याकरण प्रक्रिया को तथा महीधराचार्य की उक्ति को दूषित बताने का जो दुःसाहस किया है, वह भी व्याकरण प्रक्रिया न जानने का ही परिणाम है । अतः सायण - महीधर आदि की उक्ति युक्तियुक्त ही है । अध्यात्मपक्ष में मन्त्र का अर्थ यह होगा - हे आत्मन्! तुम अखण्ड चिदानन्दरूप अदिति भगवती के चित्त को आर्द्र कर देने वाले हो । सर्वपालक विष्णु यज्ञ के शिखा ( स्तुप ) रूप हो । उसी के अंश रूप तुम हो, इसलिये ऊर्णा वस्त्र के समान कोमल भूमि बनाने के निमित्त सुखपूर्वक आसन पर बैठ सको, इस उद्देश्य से उस भूमि पर कुशाओं को बिछा रहा हूँ । जैसे प्रभु के बैठने के लिये बड़े कम्बल को तह करके पृथ्वी पर बिछाया जाता है, जिससे पृथिवी की कठोरता दूर होकर वह मृदु प्रतीत होती है, उसी तरह देवताओं के उपकारार्थं उनके सुखपूर्वक बैठने योग्य तुम्हें बना