वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 21–30

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 21–30

पृष्ठ 21

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 21 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २ ] वेदार्थपारिजातमाष्यसहिता ११ भवन्ति ' ( श ० १।३।३।२० ) । स्पष्टमेवातो न व्याख्यायते । ' ते वा आर्द्राः स्युः । एतद्धयेषां जीवनमेतेन सतेजस एतेन वीर्यंवन्तस्तस्मादार्द्राः स्युः । ' ( श ० १ | ३ | ४ | १ ) इति परिधीना मार्द्रताविधानं प्रशंसनं च । आर्द्रत्वं खलु जीवतां जीवनलिङ्गम् । स्थावरजङ्गमादिशरीरे यत्र खल्वार्द्रत्वं भवति, ते सतेजसोऽवयवकान्तिलक्षणेन तेजसा युक्ता भवन्ति वीर्यवन्तश्च भवन्ति । अतः सतेजस्त्वादिसिद्धये ते परिधय आर्द्राः कार्याः । आर्द्रस्य सजीवत्वं शुष्कस्य निर्जीवत्वं छन्दोग़ैराम्नायते - ' अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याद् जीवनं स्रवेत्...... यदेकां शाखां जीवो जहात्यथ सा शुष्यति ' ( छा ० वा ० ८।११।१ - ३ ) | काण्वोऽपि स्कन्नमभिमृशति भुवपतये स्वाहेति... " भुवपत्याद्यास्त्रयोऽग्नेर्भ्रातरः । स्वाहाशब्दो देवान् प्रति दानवाची निपातितः । अत एत्र बृहदारण्यके श्रूयते -देवा उपजीवन्ति स्वाहाकारं वषट्कारं चेति । एतेऽग्निभ्रातरो देवेभ्यो हव्यं वहन्तो यदा मृतास्तदानीमग्निः स्कन्नं हविर्भ्रातृभ्यो भवत्विति वरं वृतवान् । अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् देवेभ्यो हव्यं वहन्तः प्रमीयन्तेत्यारभ्यान्ते स्पष्टमुवाच सोऽब्रवीद्वरं वृणै यदेवागृहीतं स्याद्भुतस्य बहिः परिधिः स्कन्देत्तन्मे भ्रातॄणां भागधेयमसदिति । तस्माद्यदगृहीतं स्यात् यद्धुतस्य बहिः परिधिः स्कन्दति, तेषां तद्भागधेयं तानेव तेन प्रीणातीति । तस्माद्दयानन्दीयकल्पनाजालं निराधारमेव । स्तुप इति । ' स्त्यः सम्प्रसारणमुश्च ' ( उ ० ३।२५ ) इत्यनेन स्त्यंधातोः सम्प्रसारणमिकारस्थान ऊश्चकारात् पश्चप्रत्ययः निश्च नित्वादाद्युदात्तः । यत्तु ' निदित्यनुवृत्तेराद्युदात्तत्वम् ' इति सायणोक्ति दूषयतोक्तम्— ' निग्रहणं कुतोऽनुवर्तत इति न ज्ञायते पूर्वं निग्रह्णस्याभावात् ' इति, तदज्ञानविजृम्भितम्, ' स्त्यः सम्प्रसारणमूश्च ' ( उ ० ३।२५ ), ' सशुभ्यां निच्च ' ( उ ० ३।३६ ) ( उणादिप्रक्रियासर्वस्वे ) इत्यनु-वृत्तिशब्दस्यानुकर्षार्थत्वात् । तथा च सायणोक्तिर्निदित्यनुकर्षादाद्युदात्तत्वमित्यर्थका । वस्तुतस्तु ‘ उणादयो बहुलन् ' ( पा ० सू ० ३।३।१ ) इत्यनेनैव सर्वकार्यसिद्धेरुणादिप्रक्रियाया अव्यवस्थैवाङ्गीकार्या । अत एव ' ट्यं स्त्यं शब्दसङ्घातयोः, औणादिको हुप्प्रत्ययः ' इति महोधरोक्तिरपि समीचीनैव । यत्तु — -- यलोपाभावाद्रूपासिद्धिः, प्रत्ययस्वरेणाद्युदात्तत्वापत्तिश्च प्रकृते चान्तोदात्त एवास्ति ' इति, तदप्यज्ञानविजृम्भितम्, बाहुलकत्वेनोभयसिद्धौ बाधाभावात् । एतेन काण्वसंहिताभाष्यकारसायणोक्तिरपि समाहितैव । अध्यात्मपक्षेऽपि - हे आत्मन् त्वमदित्यै अखण्डचिदानन्दस्वरूपाया भगवत्याश्चित्तस्य व्युन्दनमसि क्लेदनं यथा स्यात्तथा भवसि । विष्णोर्यज्ञस्य सर्वपालकस्य स्तुपोऽसि शिखारूपोऽसि, तदंशत्वात् । ऊर्णम्रदसं ऊर्णावन्मृट्ठीं भूमिं त्वां स्वासदां स्तृणामि । यथा प्रभोरुपवेष्टुं कम्बलं बहुभक्तियुक्तत्वेन सङ्कोच्य भूमावास्तृणन्ति, सा च भूमिः काठिन्यं परित्यज्य मृदुर्भवति, तथा देवेभ्यः स्वासस्थां देवानामुपकारार्थं सुखेनासितुं स्थानभूतां त्वां करोमि । यथा शेषो विष्णोः शेषः सन् तत्सेवार्थं स्वात्मानं तदुपकरणभूतशय्यारूपेणोपकल्पयति, तथैव साधको भगवन्तं प्रति स्वमपि स्वासस्थामूर्णम्रदसं करोति तादृशी भावना च वेदपुरुषेण साध्यते । अतः स एवाह-- ऊर्णनदसं त्वां स्तृणामीति । भक्ताश्च तथैव स्वां भावनां व्यञ्जयन्ति । तथा चोक्तम्— रहा हूँ । जैसे शेषराज भगवान् विष्णु का अंग बनकर उनकी सेवा करने के लिये अपने आपको उनके उपकरण रूप शय्या के स्थान में कल्पित करता है, उसी तरह साधक व्यक्ति भगवान् के प्रति अपने भी सुख से बैठने योग्य ऊर्णावस्त्र समान कोमल बना देता है, यह भावना वेदपुरुष के द्वारा प्रकट की गई है । अत एव वह वेद ही ' ऊर्णम्रदसं स्वां स्तृणामि ' कह रहा है । उसी तरह भक्तजन भी अपनी भावना को व्यक्त करते हैं । एक पथ के द्वारा भक्त ने अपनी भावना को इस प्रकार प्रकट किया है-

पृष्ठ 22

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 22 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२ शुक्लयजुर्वेदसंहिता [ अध्यायः २ पञ्चत्वं तनुरेतु भूतनिवहाः स्वांशं विशन्तु स्फुटम् धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् । ॥ तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गणव्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः उपासकश्च स्वात्मानं सोपकरणं परमात्मने समर्पयति भुवपतये विरारूपायाहं स्वीयं पार्थिवदेहादिकं भूतानां समर्पयामि । भुवनपतये सर्वलोकाधिपतये हिरण्यगर्भाय भगवते सूक्ष्मदेहं मनोबुद्धयादिकं समर्पयामि २ । ॥ प्राणिनां पतये शुद्धपरमेश्वराय शुद्धमात्मानं समर्पयामि । स्वाहाशब्दो देवान् प्रति दानवाचीत्युक्तमेव ॥ ' ग॒न्ध॒र्व॑स्त्वा॑ वि॒श्वाव॑सुः परि॑दधातु विश्व॒स्यारि॑िष्ट्यै॒ यज॑मानस्य पर॒धिर॑स्य॒ग्निरि॒ङ ईडितः । इन्द्र॑स्य बाहुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट्ये यज॑मानस्य परिधिर॑स्य॒ग्निरि॒ङ ईंडितः । मि॒त्रावरुणौ स्वोत्तर॒तः परिधत्तां ध्रुवेण॒ धर्म॑णा॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य पर॒धिर॑स्य॒ग्निर॒ड ईडितः ॥ ३ ॥

' परिधीन् परिदधाति मध्यमदक्षिणोत्तरान् गन्धर्व इति प्रतिमन्त्रम् ' ( का ० श्री ० २२८ | १ ) । गन्धर्व इति मन्त्रत्रयेण आर्द्राने वृक्षोद्भवान् बाहुप्रमाणान् पलाशविकङ्कतकार्ष्मरीविल्ववृक्षीयान् पूर्वपूर्वालाभे उत्तरोत्तरान् मध्यमे दक्षिणे उत्तरे च त्रीन् परिधीन् परिदध्यादध्वर्युः । हे परिधे! विश्वावसुर्गन्धर्वः, पञ्चत्वं तनुरेतु भूतनिवहाः स्वांशं विशन्तु स्फुटम् धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् । तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गणव्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः ॥ भुवपति उपासक अपने को उपकरण के सहित परमात्मा के चरणारविन्द पर अर्पण कर देता है । विराट् रूप लिये अपने पार्थिव देह आदि को समर्पित कर देता है । सर्व लोकाधिपति भुवनपति हिरण्यगर्भ भगवान् के लिये मन, बुद्धि आदि सूक्ष्म देह को अर्पण कर देता है । ' भूतानांपतये ' अर्थात् सम्पूर्ण प्राणिमात्र दिये के पति जाने वाले शुद्ध परमेश्वर के प्रति अपनी आत्मा को ही अर्पित कर देता है । ' स्वाहा ' शब्द देवताओं के प्रति ' दान ' का वाचक है ॥ २ ॥

मन्त्रार्थ - हे परिधे! विश्वावसु नाम का गन्धर्व आहवनीय अग्नि के पश्चात् चारों ओर तेरी स्थापना करे,, जिससे जगत् को हिंसा नहीं हो सकेगी । तू यजमान का परिधि है और तू आहवनीय का भुबपति नाम का भाई है इस कारण होता आदि ऋत्विजों ने तेरी स्तुति की है । हे दक्षिणपरिधे! तू इन्द्र का दक्षिण हस्त है । तू यजमान का परिधि है और आहवनीय का तू भुवनपति नाम का है । विश्व को अहिंसा के निमित्त वह इन्द्र दक्षिण की ओर और आदित्य ) स्थिर धारणा के द्वारा विश्व की अहिंसा के स्तुति का परिधि है । तू आहवनीय का भूतानांपति नाम का तीसरा भाई है । होता आदि ऋत्विजों ॥ ३ ने ॥ तुम्हारी की है । ' गन्धर्वस्वा ' आदि प्रत्येक मन्त्र से ' मध्यम: ' दक्षिण और उत्तर की ओर परिधियों को रखे दूसरा भाई है । होता आदि ऋत्विजों ने तेरी स्तुति की तेरी स्थापना करे । हे उत्तरपरिघे! मित्रावरुण ( वायु हेतु उत्तर दिशा में तुम्हारी स्थापना करे । तू यजमान एक ही भाष्यसार -- कात्यायन श्रौतसूत्र के अनुसार ' गन्धर्व: ' इस मन्त्र से अध्वर्यु यज्ञिय वृक्षों से सुलभ होने वाली । इन तीन वृक्ष की ओर आर्द्र, बाहु प्रमाण के बराबरी की परिधियों को मध्यम, दक्षिण और उत्तर में स्थापित करे

पृष्ठ 23

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 23 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ३ ] वेदार्थ पारिजात भाष्यसहिता १३ विश्वस्मिन् सर्वस्मिन् प्रदेशे वसतीति विश्वावसुः । द्युलोकस्थं सोमं रक्षितुं तत्पार्श्वे अरिष्टयेऽनपघाताय सर्वत्र गन्धर्वोऽसदिति । श्रुतिकथा | त्वां परिदधातु आहवनीयस्य पश्चात् सर्वतः स्थापयतु । किमर्थम्? विश्वस्य | ( रुष रिष हिंसायाम् ) रिष्टिहिंसा, न रिष्टिररिष्टिः । यद्वा आहवनीयस्थानरूपस्य विश्वस्य हिंसापरिहाराय परिध्यभावेऽसुराः प्रविश्य हिंसन्ति । न केवलमाहवनीयस्य किन्तु त्वं यजमानस्यापि परिधिरसि यजमानमपि रक्षितुं पश्चिमदिशि स्थापितोऽसि । किञ्च, अग्निरसि आहवनीयस्य प्रथमो भ्राता भुवपति-नामाग्निस्त्वमसि इडे स्तोत्राय यद्वा ईड्यते स्तूयते इतीड़ प्रथमान्त एव स्तुतियोग्यस्त्वमित्यर्थः । अत एव ईडितः होत्रादिभिः स्तुतः । दक्षिणं परिधिं दधाति । इन्द्रस्य बाहुरसि हे द्वितीयपरिधे त्वमिन्द्रस्य दक्षिणो । अत्राग्निशब्देन भुवनपतिनामा व्याख्यातमन्यत् । बाहरसि । रक्षणसमर्थत्वात् तत्रेन्द्रबाहुत्वोपचारः ध्रुवेण द्वितीयो भ्रातोक्तः । तृतीयमुत्तरं परिधिं परिदधाति -हे तृतीयपरिघे! मित्रावरुणी वाय्वादित्यो स्थिरेण धर्मणा धारणेनोत्तरस्यां दिशि त्वां परिधत्तां परितः स्थापयताम् । अत्राग्निभूतानां पतिस्तृतीयो भ्राता । अन्यत् पूर्ववत् । अत्र स्वामिदयानन्दः -- ' यो गां पृथिवीं वाणीं वा धरति धारयति वा स गन्धर्वः विश्वस्य सूर्यलोकः सर्वस्य , त्वा तं विश्वावसुं विश्वं वासयति यः स परि सर्वतोभावे दधातु दधाति लड लोट् । वस्तूनि जगतोऽरिष्टये दुःखनिवारणेन सुखाय यजमानस्य यज्ञानुष्ठातुः परिधिः परितः सर्वतः ह्रस्वादेशः सर्वाणि । ईडितः धीयन्ते येन सः असि भवति, पुरुषव्यत्ययः । अग्निः इडः स्तोतुमर्हः, वर्णव्यत्ययेन प्रापकः । दक्षघातोर्गत्यर्थत्वादत्र स्तुतः । इन्द्रस्य सूर्यस्य बाहुः बलं बलकारी असि अस्ति । दक्षिणो वृष्टेः चिकीर्षोः परिधिः प्राप्त्यर्थो गृह्यते । विश्वस्य प्राणिसमूहस्य अरिष्टयै सुखाय यजमानस्य शिल्पविद्यां ईडित अध्येपितः, विद्यापरिधानम् असि भवति । अग्निः विद्युत् इड: दाहप्रकाशादिगुणाधिक्येन स्तोतुमर्हः, उत्तरकाले मित्रावरुणी विश्वस्य प्राणापानी ' प्राणो वै मित्रोऽपानो वरुणः ( श ० ८ | २ | ४ | ६ ) । त्वा तम् उतरत सुखहेतवे परिधत्तां सर्वतो धारयतो वा । ध्रुवेण निश्चलेन धर्मणा स्वाभाविकधारणशक्त्या । अग्निः विश्वस्य प्रत्यक्षो अरिष्ट्ये भौतिकः, इडो यजमानस्य सर्वमित्रस्य परिधिः सर्वशिल्पविद्यावधिः, असि भवति विश्वावसुः परिधि -विद्याप्राप्तये स्तोतुमर्ह ईडितो विद्यामीप्सुभिः सम्यगध्येषितः । विद्वद्भिर्योऽयं तस्मात् गन्धर्वो त्वा विद्या सिद्धयर्थं रिडोऽग्निरीडितोऽस्ति, स विश्वस्य यजमानस्य चारिष्ट्यै यज्ञं परिदधाति ।, स सम्यक्-मनुष्यो यथावत्परिदधातु । विदुषां यो वायुरिन्द्रस्य बाहुर्दक्षिणः परिधिरिड गमनागमनशीलो ईडितोऽस्याग्निश्चास्ति मित्रावरुणी प्राणापानौ प्रयोजितो यजमानस्य विश्वस्य चारिष्ट्यै भवति । यो ब्रह्माण्डस्थो । यो विद्वद्भिरिः स्तस्तौ ध्रुवेण धर्मणोत्तरतो विश्वस्य यजमानस्यारिष्ट्ये त्वा तं यज्ञं परिधत्तां सर्वतो धारयतः से विश्व की रक्षा होती है । परिधियों के नाम क्रमशः ' भुवः पति ', ' भुवनपति ' और ' भूतानांपति ' हैं । इनकी स्थापना करने ही है । उनकी स्वामी दयानन्द ने इस मन्त्र की जो व्याख्या और मन्त्र का भावार्थं दिया है, वह सब निःसार पढ़ लें । वह व्याख्या व्याख्या और भावार्थ ऊपर भाष्य में दिया गया है । उसे पाठकगण ऊपर के मूल भाष्य में नहीं है । ' गन्धर्व, लोकसिद्ध अर्थ की ही अनुवादक होने से अनधिगत अर्थ की ज्ञापक नहीं है, अतः उसे प्रामाण्य वैद्युत अग्नि को यदि जड़ विश्वावसु, परिधि ' शब्दों के प्रसिद्ध अर्थ का त्याग किया है, किन्तु वह भी निर्मुल है । सूर्य जाना भी निर्मूल है । मान रहे हो, तो उनकी स्तुति क्यों कर रहे हो? जहाँ - तहाँ पुरुष व्यत्यय आदि का स्वीकार किया ही बता दिया है और मजे उक्त मन्त्र की व्याख्या में आपने ' वायु ' को इन्द्र का दक्षिणबाहु बिना किसी प्रमाण के जा रही है । यह की बात तो यह है कि मूल में कहीं भी ' वायु ' शब्द का प्रयोग न होने पर भी उसकी व्याख्या की

पृष्ठ 24

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 24 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ४ ] वेदार्थपारिजात भाष्यसहिता १५ त्वा मित्रावरुणी नामको देवी ध्रुवेण स्थिरेण धर्मणा धारणेन पोषणेन वा उत्तरत उत्तरस्यां दिशि परिधत्तां परितः स्थापयताम् । विश्वस्येत्यादि पूर्ववद्व्याख्येयम् । अत्राग्निशब्देन भूतानांपतिनामकस्तृतीयो भ्राता विवक्षितः । अध्यात्मपक्षे हे परमेश्वर! विश्वावसुगन्धर्वस्त्वा विश्वस्यारिष्टयै परिदधातु । यजमानस्य परमेश्वरा-धनलक्षणे यज्ञे प्रवर्तनस्य परिधिरसि यजमानं रक्षितुं स्थापितोऽसि । त्वमेवाग्निः, इडः स्तुत्यः, ईडितोऽसि । त्वमिन्द्रस्य दक्षिणो बाहुरसि उपेन्द्ररूपत्वात् । मित्रावरुणी देवौ त्वा उत्तरतः परिधत्तां ध्रुवेण स्थिरेण धर्मणा धारणेन पोषणेन वा स्थापयताम् । सर्वात्मत्वाच्च शतपथाद्युक्तभुवपत्यादिपरिध्यग्न्यादिरूपेणापि परमेश्वर एव स्तूयते ॥ ३ ॥

वीतिहोत्रं त्वा कवे द्यु॒मन्त॒ समि॑धीमहि ।

अग्ने॑ ब॒हन्त॑मध्व॒रे ॥ ४ ॥

' प्रथमं परिधिं समिधोपस्पृश्य वीतिहोत्रमित्यादधाति ' ( श ० ११२२८२ ) | अग्निकल्पनार्थं गृहीतया समिधा परिधिमुपस्पृश्य उत्थाय तां समिधमाहवनीये प्रक्षिपेदध्वर्युः । इयमग्निदेवत्या गायत्री छन्दस्का ऋ । हे कवे सन्निकृष्टविप्रकृष्टातीतानागतवर्तमान सर्वज्ञानवत् क्रान्तदर्शिन् अग्ने! अध्वरे निमित्ते त्वां वयं समिधीमहि इध्मकाष्ठेन दीपयामः । कीदृशम्? वोतिहोत्रं विशिष्टा इतिः गतिः वीतिः पुत्रपौत्रपशुधनादिसमृद्धिः, तस्यै वीतये तादृक् समृद्ध होत्रं होमो यस्य तं वीतिहोत्रम्, यत्र होमे कृते पुत्रादिसर्वाभीष्टसमृद्धिर्भवति, तादृशं त्वां दीपयामः । यद्वा वी गतिप्रजननकान्त्य सनस्वादनेषु । वीतिरभिलाषो होत्रे होतृकर्मणि यस्य तम् । तत एवा-ग्निर्देव होतेति श्रुतिस्मृतिषु प्रसिद्धिः । पुनः कीदृशम्? द्युमन्तं द्योः कान्तिरस्यास्तीति द्युमान् तं द्युमन्तं स्वतो द्योतमानं स्वप्रकाशं बृहन्तं महान्तं त्वां समिधीमहि । अत्र दयानन्दः - ' वीतयो विज्ञापिता होत्राख्या यज्ञा येनेश्वेरेण यद्वा वीतयः प्राप्तिहेतवो होत्राख्या यज्ञक्रिया भवन्ति यस्मात् तं परमेश्वरं भौतिकं वा । ' वी गतिव्याप्तिप्रजननकान्त्य सनस्वादनेषु ' इत्यस्य रूपम् । त्वा त्वां तं वा पक्षे व्यत्ययः कवे सर्वज्ञक्रान्तप्रज्ञ कवि क्रान्तदर्शनं भौतिकं वा द्युमन्तं द्यौर्बहुप्रकाशो यस्मिस्तम्, के लिये तुम्हारी स्थापना की गई है । तुम ही स्तुति करने योग्य ' अग्नि ' स्वरूप हो, इसीलिये तुम्हारी स्तुति की जा रही है । तुम उपेन्द्र हो, अतः इन्द्र के दक्षिण बाहुरूप हो । मित्रावरुण नामक दोनों देवता, उत्तरदिशा में तुम्हारी स्थापना स्थिरतापूर्वक धारण - पोषण करते हुए करें । वह परमेश्वर सर्वात्मरूप होने से शतपय आदि प्रामाणिक वचनों से बताये गये भुवप्रति आदि परिधि, अग्नि आदि के रूप में परमेश्वर की ही स्तुति की जा रही है ॥ ३ ॥

मन्त्रार्थ - हे त्रिकालदर्शिन् अग्ने! समृद्धि के हेतु जिसका हवन किया जाता है, उस प्रकाशक महान् अग्नि को हम इन इमकाष्ठों से प्रकाशित करते हैं । प्रथम परिधि को समिधु से स्पर्श करके ' वीतिहोत्रम् ' मन्त्र से आहवनीय में इष्मकाष्ठ का स्थापन करे ॥ ४ ॥

भाष्यसार - शतपथ ब्राह्मण के अनुसार अग्नि की कल्पना करने के लिये गृहीत की हुई समिधा से परिधि का स्पर्श करके तदनन्तर खड़े होकर अध्वर्यु उस समिधा को आहवनीय में डाल दे । इस ऋक् की देवता ' अग्नि ' है और ' गायत्री ' छन्द है । हे कवे! तुम सन्निकृष्ट तथा विप्रकृष्ट, अतीत, अनागत और वर्तमान कालिक सर्वज्ञानवान् हो, इसीलिये तुम्हें क्रान्तदर्शी कहते हैं | अतः हे अग्ने! अध्वर ( यज्ञ ) के निमित्त हम तुमको इमकाष्ठ से सन्दीप्त करते हैं । तुम वीतिहोत्र

पृष्ठ 25

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 25 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६ शुक्ल यजुर्वेद संहिता [ अध्यायः २ इधीमहि प्रकाशयेमहि । अग्ने ज्ञानस्वरूपपरमेश्वरप्राप्तिहेतुं भौतिकं वा बृहन्तं सर्वेभ्यो महान्तं सुखवर्षकमीश्वरं बृहत कार्याणां साधकं भौतिकं वा अध्वरे मित्रभावेऽहिंसनीये यज्ञे वा हे कवे अग्ने जगदीश्वर! वयमध्वरे बृहन्तं द्युमन्तं वीतिहोत्रं त्वां समिधीमहि इत्येकः, वयमध्वरे वीतिहोत्रं द्युमन्तं बृहन्तं कवे कवित्वां तमग्न भौतिकं तमभिधीमहि इति द्वितीयः । भावार्थस्तु - यावन्ति क्रियासाधनानि क्रियया साध्यानि च वस्तूनि सन्ति तानि सर्वाणीश्वरेणैव रचयित्वा प्रियन्ते । मनुष्यस्तेषां सकाशाद् गुणज्ञानक्रियाभ्यो बहव उपकाराः संग्राह्याः ’ इत्याह । तदपि तुच्छम्, सम्भवतीष्वपि परमेश्वरपरत्वव्याख्यानेऽग्निपरत्वव्याख्याने च तादृशीषु व्युत्पत्तिषु शतपथानुसारिव्याख्याविरुद्धत्वात् । अध्वरपदस्य प्रसिद्धयज्ञार्थं तावाधोऽपि दूषणमेव । शतपथे तु - ' अथ समिध-मभ्यादधाति । स मध्यममेवाग्नेः परिधिमुपस्पृशति । तेनैतानग्रे समिन्धेऽथाग्नावभ्यादधाति तेनो अग्नि प्रत्यक्षं समिन्धे. ( ० १ ३ | ४ | ५ ) । पूर्वाधारसमिधोऽभ्याधानं विधत्ते - अथ समिधमिति । वायव्यां दिशमारभ्याग्नेय-दिग्भागपर्यन्तमविच्छिन्नधारया होम: पूर्वाधारः, स च यत्र समाप्यते तत्रैकां समिधमादध्यादित्यर्थः । तत्र धर्मविशेषमाह - - स मध्यममेवेति । अग्रेऽभ्याधानात् पूर्वं मध्यमं परिधिं तया समिधा संस्पृशेदित्यर्थः । तस्य प्रयोजनमाह - तेनैतानिति । तेनोपस्पर्शनेन परिधिरूपानेतानग्नीन् प्रथमं समिन्धे प्रज्वालयति । अथानन्तरमग्ना-वभ्याधानेन तेनाहवनीयरूपेण प्रत्यक्षमग्नि समिन्धे । ' सोऽभ्यादधाति वीतिहोत्रं त्वा कवे द्युमन्तं समिधो । छन्दांसि महि | अग्ने बृहन्तमध्वरे ' इत्येतया गायत्र्या गायत्रीमेवैतत्समिन्धे । सा गायत्री समिद्धान्यानि छन्दांसि समिन्धे समिद्धानि देवेभ्यो यज्ञं वहन्ति ' ( श ० १२३२४ ६ ) । विहितमभ्याधान मनूद्य मन्त्रं विधत्ते - - स इति सन्दीपयति । अस्या- । भ्याधानसाधनमन्त्रस्य गायत्री छन्दस्कत्वात् छन्दसां मध्ये गायत्र्याख्यमपि छन्दः प्रथमं समिन्धे समिद्धा च सा गायत्री उष्णिगादीन्यन्यानि चतुरुत्तराणि छन्दांसि सन्दीपयति, समिद्धायाश्चतुर्विंशत्यक्षराया गायत्र्यास्तत्र सर्वत्रानुगमात् । गायत्र्या समिद्धानि तानि छन्दांसि देवेभ्यो यज्ञं वहन्ति प्रापयन्ति । ब्राह्मणानुसारेणैव सायणव्याख्यानम् - हे अग्ने! त्वामध्वरे यागे निमित्तभूते सति समिधीमहि । अनेनाघारसमिध ऊर्ध्वस्थापनेन सम्यग्दीपयामि । कथंभूतं त्वां वीतिहोत्रम् इष गतावित्यस्माद्धातोः । ईतिर्गतिः, विविधा ईतिर्व्याप्तिः समृद्धिः । वीतये होत्रं होमो यस्याग्नेस्तं वीतिहोम् । तथैवाह तित्तिरि: - वीतिहोत्रं त्वा अग्निमेव होत्रेण समर्धयतीति । द्युमन्तं स्वत एव द्योतनोपेतं बृहन्तं बृहद्यागवर्तित्वेनेति । अध्यात्मपक्षे तु — हे कवे क्रान्तदशन् परमसर्वज्ञ परमेश्वर! वीतिहोत्रं त्वां वीतयेऽभीष्टसिद्धये होत्रं सर्वस्वसमर्पणं यस्मै तं सर्वस्वार्पणेन समर्हणीयं त्वां द्युमन्तं प्रकाशान्तरानपेक्षतया स्वप्रकाशम् । हे अग्ने सर्वकर्म-हो । समृद्धि के लिये जो होम करता है, उसे वीतिहोत्र कहते हैं । अर्थात् जहाँ होम करने पर समृद्धि की प्राप्ति होती है, अथवा होतृकर्म में जिसका अभिलाष रहता है उसे बीतिहोत्र कहते हैं । तुम कान्तिसम्पन्न हो, अर्थात् स्व - प्रकाश हो और महानू हो, इसलिये तुमको हम प्रदीप्त कर रहे हैं । स्वामी दयानन्द ने जो व्याख्या और भावार्थ किया है, वह अपनी कल्पित व्युत्पत्ति के द्वारा किया है, जिसे भाष्य में देखा जा सकता है । किन्तु वह सब शतपथानुसारी व्याख्यान के विरुद्ध रहने से उपेक्षणीय है । अध्यात्मपक्ष में अर्थ होगा कि हे क्रान्तिदर्शिन् कवे! परमसर्वज्ञ परमेश्वर! अभीष्ट सिद्धि के लिये सर्वस्व समर्पण करने के कारण पूजनीय बने हुए तथा प्रकाशान्तर की अपेक्षा न रखने वाले, स्वप्रकाश रहनेवाले तुमको हे अग्ने.

पृष्ठ 26

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 26 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६ शुक्लयजुर्वेदसंहिता [ अध्यायः २ महि प्रकाशयेमहि । अग्ने ज्ञानस्वरूपपरमेश्वरप्राप्तिहेतुं भौतिकं वा बृहन्तं सर्वेभ्यो महान्तं सुखवर्षकमीश्वरं बृहतां कार्याणां साधकं भौतिकं वा अध्वरे मित्रभावेऽहिंसनीये यज्ञे वा हे कवे अग्ने जगदीश्वर! वयमध्वरे बृहन्तं द्युमन्तं वीतिहोत्रं त्वां समिधीमहि इत्येकः, वयमध्वरे वीतिहोत्रं द्युमन्तं बृहन्तं कवे कविं त्वां तमग्न भौतिकं तमभिधीमहि इति द्वितीयः । भावार्थस्तु - यावन्ति क्रियासाधनानि क्रियया साध्यानि च वस्तूनि सन्ति तानि सर्वाणीश्वरेणैव रचयित्वा प्रियन्ते । मनुष्यस्तेषां सकाशाद् गुणज्ञानक्रियाभ्यो बहव उपकाराः संग्राह्याः ' इत्याह । तदपि तुच्छम्, सम्भवतीष्वपि परमेश्वरपरत्वव्याख्यानेऽग्निपरत्वव्याख्याने च तादृशीषु व्युत्पत्तिषु शतपथानुसारिव्याख्याविरुद्धत्वात् । अध्वरपदस्य प्रसिद्धयज्ञार्थं ताबाधोऽपि दूषणमेव । शतपथे तु - ' अथ समिध-मभ्यादधाति । स मध्यममेवाग्नेः परिधिमुपस्पृशति । तेनैतानग्रे समिन्धेऽथाग्नावभ्यादधाति तेनो अग्नि प्रत्यक्षं समिन्धे ' ( श ० १ ३ ४ ५ ) | पूर्वाधारसमिधोऽभ्याधानं विधत्ते - -- अथ समिधमिति । वायव्यां दिशमारभ्याग्नेय-दिग्भाग पर्यन्तमविच्छिन्नधारया होमः पूर्वाधारः, स च यत्र समाप्यते तत्रैकां समिधमादध्यादित्यर्थः । तत्र धर्मविशेषमाह - स मध्यममेवेति । अग्रेऽभ्याधानात् पूर्वं मध्यमं परिधि तया समिधा संस्पृशेदित्यर्थः । तस्य प्रयोजनमाह तेनैतानिति । तेनोपस्पर्शनेन परिधिरूपानेतानग्नीन् प्रथमं समिन्धे प्रज्वालयति । अथानन्तरमग्ना -वभ्याधानेन तेनाहवनीयरूपेण प्रत्यक्षमग्नि समिन्धे । ' सोऽभ्यादधाति वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि । अग्ने बृहन्तमध्वरे ' इत्येतया गायत्र्या गायत्रीमेवैतत्समिन्धे । सा गायत्री समिद्धान्यानि छन्दांसि समिन्धे । छन्दांसि समिद्धानि देवेभ्यो यज्ञं वहन्ति ) ' ( श ० १ | ३ | ४ | ६ ) । विहितमभ्याधान मनुद्य मन्त्रं विधत्ते - स इति सन्दीपयति । अस्या- । भ्याधानसाधनमन्त्रस्य गायत्री छन्दस्कत्वात् छन्दसां मध्ये गायत्र्याख्यमपि छन्दः प्रथमं समिन्धे समिद्धा च सा गायत्री उष्णिगादीन्यन्यानि चतुरुत्तराणि छन्दांसि सन्दीपयति, समिद्धायाश्चतुर्विंशत्यक्षराया गायत्र्यास्तत्र सर्वत्रानुगमात् । गायत्र्या समिद्धानि तानि छन्दांसि देवेभ्यो यज्ञं वहन्ति प्रापयन्ति । ब्राह्मणानुसारेणैव सायणव्याख्यानम् - हे अग्ने! त्वामध्वरे यागे निमित्तभूते सति समिधीमहि । अनेनाघारसमिध ऊर्ध्वस्थापनेन सम्यग्दीपयामि । कथंभूतं त्वां वीतिहोत्रम् इष गतावित्यस्माद्धातोः । ईतिर्गतिः, विविधा ईतिर्व्याप्तिः समृद्धिः । वीतये होत्रं होमो यस्याग्नेस्तं वीतिहोम् । तथैवाह तित्तिरि: - वीतिहोत्रं त्वा ".. अग्निमेव होत्रेण समर्धयतीति । द्युमन्तं स्वत एव द्योतनोपेतं बृहन्तं बृहद्यागवर्तित्वेनेति । अध्यात्मपक्षे तु हे कवे क्रान्तदर्शिन् परमसर्वज्ञ परमेश्वर! वीतिहोत्रं त्वां वीतयेऽभीष्टसिद्धये होत्रं सर्वस्वसमर्पणं यस्मै तं सर्वस्वार्पणेन समर्हणीयं त्वां द्युमन्तं प्रकाशान्तरानपेक्षतया स्वप्रकाशम् । हे अग्ने सर्वकर्म-हो । समृद्धि के लिये जो होम करता है, उसे वीतिहोत्र कहते हैं । अर्थात् जहाँ होम करने पर समृद्धि को प्राप्ति होती है, अथवा होतृकर्म में जिसका अभिलाष रहता है उसे बीतिहोत्र कहते हैं । तुम कान्तिसम्पन्न हो, अर्थात् स्व- प्रकाश हो और महान हो, इसलिये तुमको हम प्रदीप्त कर रहे हैं । स्वामी दयानन्द ने जो व्याख्या और भावार्थ किया है, वह अपनी कल्पित व्युत्पत्ति के द्वारा किया है, जिसे माध्य में देखा जा सकता है । किन्तु वह सब शतपथानुसारी व्याख्यान के विरुद्ध रहने से उपेक्षणीय है । अध्यात्मपक्ष में अर्थ होगा कि हे क्रान्तिदर्शिन् कवे! परमसर्वज्ञ परमेश्वर! अभीष्ट सिद्धि के लिये सर्वस्व समर्पण करने के कारण पूजनीय बने हुए तथा प्रकाशान्तर की अपेक्षा न रखने वाले, स्वप्रकाश रहनेवाले तुमको हे अग्ने.

पृष्ठ 27

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 27 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ४-५ ] वेदार्थपारिजातमाष्यसहिता १७ दाहक! सूर्यकान्तमण्यभिव्यक्तसूर्याग्निवद् महावाक्यजन्यब्रह्माकारवृत्त्यभिव्यक्तब्रह्माग्ने! अध्वरे उपासनालक्षणे यज्ञे बृहन्तं निरतिशयबृहद्रूपं परमात्मानं समिधीमहि प्रकाशयामः स्वात्मस्वरूपेण साक्षात्कुर्मः ॥ ४ ॥

स॒मिद॑सि॒ सूर्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्य॑श्चिद॒भिश॑स्त्यै स॒वि॒तुर्बाहू स्थ॒ ऊर्णेदसं त्वा स्तॄणामि स्वास॒स्य॑ दे॒वेभ्य॒ आ त्वा॒ वस॑वो रु॒द्रा आ॑दि॒त्याः स॑दन्तु ॥ ५ ॥

' अनुपस्पृश्य द्वितीयां समिदसीति ' ( का ० श्री ० २।८।३ ) द्वितीयां समिधमादाय अनुपस्पृश्याहवनीये प्रक्षिपत्यध्वर्युः । हे इम काष्ठ! त्वं समिदसि अग्नेः समिन्धनं दीपनमसि । ' सूर्यस्त्वेति जपत्याहवनीयमीक्षमाणः ' ( का ० श्री ० २२८ ४ ) । सूर्यस्त्वेति मन्त्रस्याहवनीयपरत्वाद् आहवनीयं विलोकयन्नमुं मन्त्रं संहितास्वरेण पठेदध्वर्युः । हे आहवनीय! सूर्यः पुरस्तात् पूर्वस्यां दिशि कस्याश्चिदभिशस्त्यं सर्वस्या अभिशस्ते हिंसायाः सकाशात् त्वां पातु रक्षतु । यः कश्चिदभिशस्तिरभिशापस्तस्मात् पातु । पञ्चम्यर्थे चतुर्थी । यद्वा या काचिदभिस्तिहिंसा तां परिहरतु । इतरदिकत्रये परिधित्रयं रक्षकम् । पूर्वस्यां तदभावात् सूर्यो रक्षकः, ' गुप्त्यं वा अभितः परिधयो भवन्ति । अथैतत् सूर्यमेव पुरस्ताद् गोप्तारं करोति । ' ( श ० १ | ३ | ४ | ८ ) इति श्रुतेः । ' आवृत्य वेदिं बर्हिषस्तृणे तिरश्च्यो निदधाति सवितुरिति ' ( का ० श्र ० २२८५ ) | अध्वर्युर्वेदि सर्वकर्मदाहक सूर्यकान्तमणि से अभिव्यक्त हुए सूर्याग्नि के समान महावाक्यजन्य ब्रह्माकारवृत्ति से अभिव्यक्त होनेवाले ब्रह्मज्ञानरूप अध्वर में, अर्थात् उपासनालक्षण यज्ञ में निरतिशय बृहद् रूपवाले परमात्मा को हम प्रकाशित करते हैं, अर्थात् अपने आत्मस्वरूप के रूप में ही उसका साक्षात्कार करते हैं ॥। ४ ॥ मन्त्रार्थ - हे इमकाष्ठ! तुम अग्नि के उद्दीपक भी प्रकार के पाप से तुम्हारी रक्षा करे । हे दो तृणों! और देवता के लिये सुखकर ' प्रस्तर ' रूप आसन के तुम दोनों सूर्य के दो हाथों के तुल्य हो । सवनत्रय के प्रसारित करें । हो । हे आहवनीय अग्ने! यह सूर्य पूर्व दिशा में किसी तुम सविता के दो हाथ हो । ऊर्णावस्त्र के समान कोमल आधारहेतु हम तुम्हें रख रहे हैं । प्रस्तर के धारण करने से देवता वसु, रुद्र और आदित्य, ये तीनों तुमको सर्वतः ' समिदसि ' मन्त्र से ' परिधि ' को बिना स्पर्श किये हो द्वितीय काष्ठ को अग्नि में स्थापित करे । आहवनीय की ओर देखकर ' सूर्यस्य ' मन्त्र का जप करे । प्रस्तर के स्थापनार्थ ' दो तृणों ' को ' सवितुः ' मन्त्र से तिर्यक् रखे । स्थापित किये हुए उन दो तृणों पर ' ऊर्णादसम् ' मन्त्र से ' प्रस्तर ' को स्थापित करे, अर्थात् फैलावे । ' आ त्वा ' मन्त्र से ' प्रस्तर ' पर दोनों हाथों को टेके ॥ ५ ॥

भाष्यसार - कात्यायन श्रौतसूत्र के अनुसार अध्वर्यु द्वितीय समिधा को आहवनीय में डाल दे । आहवनीयपरक ' सूर्यस्त्वा ' मन्त्र को संहितास्वर से पढ़े । सूर्य पूर्व दिशा में सभी प्रकार की हिंसाओं से आहवनीय की रक्षा करे । अन्य तीन दिशाओं में तीन परिधियाँ तुम्हारी रक्षक हों । पूर्वं दिशा में तीन परिधियों के न रहने से उस दिशा में ' सूर्य ' रक्षक होता है । जिन तिर्यक् रखे हुए दो तृणों पर ' प्रस्तर ' का स्थापन किया है, उस प्रस्तर के आलम्बनार्थं आधारभूत रहने से उन दो तृणों को सूर्य के दो बाहुओं के तुल्य कहा गया है । बसु, रुद्र और आदित्य ये तीनों प्रातःसवन, माध्यन्दिन सवन और तृतीय सवन के अभिमानी देवता हैं । ३

पृष्ठ 28

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 28 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८ शुक्लयजुर्वेदसंहिता [ अध्यायः २ प्रत्यागत्य स्तृतस्य बर्हिष उपरि उदगग्रे द्वे तृणे निदध्यात् । हे तृणे! युवामुभे सवितुर्देवस्य बाहू स्थः प्रस्तरधारणे सूर्यस्य बाहू इव भवथः । ' तयोः प्रस्तरं स्तृणात्पूर्णम्र दसमिति ' ( का ० श्री ० २८ | १० ) । तयोर्विधृत्योरुपरि प्रागग्रं प्रस्तरं स्थापयेत । ऊर्णमिव मृदुतरं देवेभ्यो देवानां स्वासस्थं सुखेनासने स्थीयते यत्र तादृशं त्वां स्तृणामि । ' अभिनिदधात्या त्वा वसवः ' ( का ० श्र ० २।८।११ ) | अध्वर्युर्हस्तद्वयेन प्रस्तरं पीडयेत् । वसवो रुद्रा आदित्याः सवनत्रयाभिमानिनो देवास्त्वा त्वाम् आसदन्तु आसादयन्तु सर्वतः प्रसारयन्तु । अत्र स्वामी दयानन्दः– ' समित् सम्यगिध्यतेऽनयानेन वा सा समित्, अग्निप्रदीपकं काष्ठादिकं वसन्त ऋतुर्वा असि अस्ति । अत्र व्यत्ययः । सूर्यः सुवत्यैश्वर्यहेतुर्भवति सोऽयं सूर्यलोकः, त्वा तं पुरस्तात् पातु रक्षतु । कस्याः कस्यै सर्वस्यै ' चतुर्थ्यर्थे बहुलं छन्दसि ' ( पा ० सू ० २।३।६२ ) इति चतुर्थ्यर्थे षष्ठी । अभिशस्त्य आभिमुख्याय स्तुतये ( शंसु स्तुती ) सवितुः सूर्यलोकस्य बाहू बलवीर्याख्यौ स्थः स्तः । व्यत्ययः । ऊर्णम्रदसं ऊर्णानि सुखाच्छादनानि ह्रदयति येन तं यज्ञं त्वा तं स्तृणामि सामग्र्याच्छादयामि | स्वासस्थं शोभने आसे उपवेशने तिष्ठतीति तं देवेभ्यो दिव्यगुणेभ्यो आसमन्तात् क्रियायोगे त्वा तं वसवोऽग्न्यादयोऽष्टौ रुद्राः प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनञ्जयाख्या दश प्राणा एकादशो जीवश्चेति एकादशरुद्राः । आदित्याः द्वादशमासाः । ' कतमे वसवः? अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि च ते वसवः । एतेषु हीदं सर्वं वसु हितमेते हीदं सर्वं वासयते....... ( श ० १४ / ६ / ९ ४ - ६ ) । सदन्तु अवस्थापयन्ति । ' षद्लु ' इत्यस्य स्थाने ' बहुलं छन्दसि ' ( पा ० सू ० ११४५ ९ ) वा छन्दसि सर्वे विधयो भवन्तीति सीदादेशाभावो लडर्थे लोट् च । अन्वयः - चिद् यथा कश्चिन्मर्त्यः सुखार्थं क्रियासिद्धानि द्रव्याणि रक्षित्वाऽऽनन्दयते तथैवं योऽयं यज्ञः समिदसि भवति त्वा तं सूर्यः कस्या अभिशस्त्यं पुरस्तात् पातु पाति । यो सवितुर्बाहू स्तः, यो ह याभ्यां नित्यं विस्तार्यते त्वा तम् ऊर्णम्रदसं स्वासस्थं यज्ञं वसवो रुद्राः सदन्त्ववस्थापयन्तु प्रापयन्ति । तं यज्ञमहमपि सुखाय देवेभ्य आस्तृणामि । भावार्थस्तु – ईश्वरः सर्वेभ्य इदमुपदिशति यन्मनुष्य सुरुद्रादित्याख्येभ्यो यद्यदुपकर्तुं शक्यम्, तत्तत्सर्वस्याभिरक्षणाय नित्यमनुष्ठेयम् । योऽग्नौ द्रव्याणां प्रक्षेपः क्रियते स सूयं वायुं वा प्राप्नोति । तावेव तत्पृथग्भूतं द्रव्यं रक्षित्वा पुनः पृथिवीं प्रति विमुञ्चतः । येन पृथिव्या दिव्या ओषध्यादयः पदार्था जायन्ते । येन च प्राणिनां सुखं भवति । तस्मादेतत् सदैवानुष्ठेयम् ' इति । तदेतत् सर्वं पिष्टपेषणमप्रामाणिकं व्यत्ययाश्रितं च । चिदित्यस्य निरुक्त ( १।४ ) रीत्योपमार्थत्वे सम्भवत्यपि नहि तदुबलाद् यथा कश्चिन्मर्त्यः सुखार्थक्रियासिद्धानि द्रव्याणि रक्षित्वा आनन्दयते इत्यर्थो निःसरति, तथैव समित्पदस्य काष्ठार्थत्वेऽपि नहि सवं काष्ठं तदर्थः, किन्त्वश्वत्थादिपरिगणित वृक्षसम्बद्ध-काष्ठविशेष एव । वसन्तस्तु कथं समिदिति नोक्तम् । यज्ञः समिदिति सामानाधिकरण्यं कथम्? उक्त मन्त्र की व्याख्या स्वामी दयानन्द ने जो की है, वह सब पिष्टपेषण के ही समान है, अप्रामाणिक और व्यत्यय बहुल है । ' चित् ' को उपमार्थक मानकर जिस अर्थ का उद्भावन किया है, वह अर्थ नहीं निकल पाया है । तथा ' समित् ' शब्द का अर्थ, काष्ठ करने पर भी उसका अर्थ साधारण काष्ठ नहीं हो सकता, अपितु अश्वत्थादि परिगणित वृक्षसम्बन्धित ' काष्ठविशेष ' ही करना चाहिये । ' वसन्त ' को जो ' समित् ' आपने कहा है, उसमें कोई प्रमाण आपने नहीं दिया है । यज्ञ और समित् का सामानाधिकरण्य कैसे संभव हो सकता है, क्योंकि दोनों एकार्थक नहीं हैं, अपितु भिन्नार्थक हैं । इत्यादि बहुत सी बातें स्व - मनःकल्पित ही कही हैं । उसी तरह हिन्दी अर्थ में भी निरर्थक बातें

पृष्ठ 29

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 29 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्र: ५ ] वेदार्थपारिजातमाष्यसहिता १ ९ तयोभिन्नार्थबोधकत्वात् । सूर्यश्च समिधं काष्ठं यज्ञं वा रक्षति कथम्? कस्या इत्यस्य सर्वस्या इति कथमर्थः? तद्रक्षणेन च कथं सर्वस्याभिशास्तिः? हिन्दीभाषायां सूर्यः सर्वपदार्थानां रक्षयिता । तं पुरस्तादेव रक्षति । सूर्यलोकस्य किं बलं किं वा वीर्यम्? बलं वीर्यं च जडे निरर्थकम् प्रयोगासम्भवात्, प्रयोगस्य चेतनधर्मत्वात् । सूर्यलोकस्य बलवीर्याभ्यां कथं यज्ञस्य विस्तार इत्यप्यस्पष्टमेव । पूर्व चोर्णाशब्देन धान्याच्छादनानि तुषाण्युक्तानि इदानीं सुखाच्छादनानीति तदर्थः कथम्? कथं च यज्ञः सुखाच्छादक विघ्नान्नाशयति? जलवायुशुद्धिमन्तरा तत्कार्यस्य त्वयानभ्युपगमात् । अन्तरिक्षलक्षणे शोभन आसने यज्ञः कथं तिष्ठति? यज्ञस्तु हवनरूपः, स तु पृथिव्यामेव तिष्ठति । अन्तरिक्षे तु हुतद्रव्यांशा एव त्वयाभ्युपगम्यन्ते । नहि त एव यज्ञपदव्यपदेश्या:? सुखविघ्नाच्छादकस्यान्तरिक्षमयस्वासनस्थस्य यज्ञस्य सामग्र्याच्छादनं कथं सम्भवति? नहि यज्ञकर्तृ सामाजिक प्रक्षिप्तसामग्रीभिरन्तरिक्षस्थो यज्ञ आच्छाद्यते? तं च यज्ञं वसुरुद्रादित्यादयः कथं प्राप्नुवन्ति? तस्य चेहैव परिसमाप्तत्वात् । दिव्यगुणप्राप्तये तस्य यज्ञस्यानुष्ठानं कर्तव्यमथवा निष्पन्नस्य यज्ञस्य सामग्रीभिराच्छादनं युक्तम्? वस्तुतस्त्विदं सर्वमव्यापारेषु व्यापारमात्रम् । शतपथविरुद्धं चेदं सर्वम् । तथाहि - ' अथ यां द्वितीयां समिधमादधाति वसन्तमेव तया समिन्धे । स वसन्तः समिद्धोऽन्यानृतून् समिन्धे । ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्च पचन्ति । सोऽभ्यादधाति समिदसीति । समिद्धि वसन्त: । ' ( श ० १ । ३ । ४ । ७ ) । अथोत्तराधारसमिधोऽभ्याधानं विधत्ते- - अथ यामिति । द्वितीयाघारो हि नैर्ऋतदिशमारभ्येशानीं दिशं प्रत्यनवच्छिन्नधारया होमः । स यत्र परिसमाप्यते तत्रैकां समिधमादध्यात् । पूर्वाधारसमिदपेक्षया द्वितीयामिति व्यपदेशः । तया च समिधा वसन्त ऋतुः सन्दीप्यते । अत्र स्पष्टं समिद्ववसन्तयोर्भेद उक्तः । तया समिधा वसन्तः समिध्यते । वसन्तेनेतरा ऋतवः समिध्यन्ते । ऋतवश्च समिद्धाः प्रजाः प्रजनयन्ति ओषधीश्च पचन्ति । समिसीति मन्त्रेण द्वितीयामादधाति । वसन्ते चेतरर्तुसमिन्धनादेव समित्प्रयोगः । समिद्धि वसन्त इति समिधो यजतीति तद्विधानात् । ' अथाभ्याधाय जपति सूर्यस्त्वा पुरस्तात् पातु कस्याश्चिदभिशस्तया इति । गुप्त्यं वा अभितः परिधयो भवन्त्यथैतत् सूर्यमेव पुरस्ताद् गोप्तारं करोति । नेत्पुरस्तान्नाष्ट्रा रक्षांस्यभ्य-रानिति । सूर्यो हि नाष्ट्राणां रक्षसामपहन्ता । ' ( श ० १ | ३ | ४ | ८ ) | एवमाधारसमिदभ्याधानानन्तरं मन्त्रविशेषस्य जपं विधत्ते । मन्त्रस्य प्रयोजनमाह - राक्षसा दिसञ्चरण-निरसनगोपनम् । गुप्त्यर्थं हि परिधिविधानम् । पूर्वस्यां दिशि परिधिर्नास्ति । तथा चैतत् । एतेन सूर्यस्त्वा इति मन्त्रोच्चारणेन तमुद्यन्तं सूर्यंमेव यज्ञस्य रक्षितारं करोति । अन्यत् स्पष्टमेव । तैत्तिरीयकेऽपि -' परिधीन् परिदधाति । रक्षसामपहत्यै । संस्पर्शयति रक्षसामनन्ववचाराय! पुरस्तात् परिदधात्यादित्यो ह्येवोद्यत् पुरस्ताद्रक्षांस्य पहन्ति ' ( तै ० ब्रा ० ३२३ | ७ | ८ ) । ' परिधय इमे अभितो गुप्तये परिहिता भवन्ति सूर्यमेवास्यैतत् पुरस्तात् पुरोगां करोतीति ' काण्वश्रुतेः । कही गई हैं । कहीं पर ' ऊर्णा ' शब्द का अर्थ ' तुष ' बताया है तो दूसरी जगह ' सुखाच्छादन ' बता दिया है । अन्यान्य कितनी ही बातें असम्बद्धार्थक बताकर अव्यापारेषु व्यापारमात्र का प्रदर्शन किया है । जो शतपथ के विरुद्ध है | अध्यात्मपक्ष में उक्त मन्त्र का अर्थ इस प्रकार होगा - हे जीवात्मन्! तुम देह, इन्द्रिय आदि सबके अवभासक हो । सूर्यस्त्वा पुरस्तात् पातु ' स्वरति लयं गच्छति यस्मिन् स सूर्य: - इस निरुक्त वाक्य से ' सूर्य ' का अर्थ ' परमेश्वर ' है । वह परमेश्वर स्वसत्तास्फूर्ति प्रदान के द्वारा तुम्हारी रक्षा करे । अथवा जीवादि देहान्त तक प्रकाशशक्ति प्रदान के

पृष्ठ 30

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 30 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२० शुक्लयजुर्वेदसंहिता [ अध्यायः २ ' अथ यामेवामूं तृतीयां समिधमादधाति । अनुयाजेषु ब्राह्मणमेव तया समिन्धे । स ब्राह्मणः समिद्धो देवेभ्यो यज्ञं वहति ' । अनुयाजकालेऽभ्याधानायैका समिदवशेषयितव्येत्यभिप्रेत्य तस्याः समिधोऽभिधास्य-मानमभ्याधानमनूद्य प्रसङ्गात्तस्य प्रयोजनमाह - अमूमिति । विप्रकृष्टेऽनुयाजप्राक्काले तृतीयां समिधमभ्यादधाति । तया ' एषा तेऽग्ने समित् ' ( वा ० सं ० २।१४ ) इत्यादिना मन्त्रेण यजमानगामिनो वर्धनाप्यायनादिलक्षणस्य प्रतिपादनात् तेनाभ्याहितया समिधा यजमानरूपं ब्राह्मणमेव समिन्धे सन्दीपयति । ब्राह्मणः समिद्धो देवेभ्यो यज्ञं वहति । ' अथ स्वोर्णां वेदिमुपावर्तते । स द्वे तृणे आदाय तिरची निदधाति । सवितुर्बाहू स्थ इत्ययं वैस्तुपः प्रस्तरोऽयास्यैते ध्रुवावेव तिरश्ची निदधाति तस्मादिमे तिरश्च्यो ध्रुवी क्षत्रं वै प्रस्तरो विश इतरं बहिः क्षेत्रस्य चैव विशश्च विधृत्यं तस्मात्तिरश्चो निदधाति तस्माद्वेव विधृती नाम ' ( ० १ ३ | ४ | १० ) | एवमाहवनीये कर्तव्याः परिधिपरिधानानपो विहिताः । अथ वेद्यां हविरासादनार्थं प्रस्तरस्तरणं विधित्सुस्तदर्थं विधृत्योः सादनं विधत्ते । बर्हिषा स्तीर्णां वेदिमुपलक्ष्याहवनीयसमीपादुपावर्तेत । उपावृत्य च बर्हिषः सकाशाद् द्वे तृणे आदाय बर्हिष उपरि तिरश्ची तिर्यगये निदधाति सवितुरिति मन्त्रेण । तन्निधानं प्रशंसति - अयं प्रस्तरो यज्ञस्य स्तुपः शिखारूपः केशसङ्घातः । बर्हिषि श्मश्रुप्रभृतीनि लोमानि तथा च बर्हिषि प्रस्तर बर्हिषोर्मध्ये तिर्यनिहिते एते तृणे ध्रुवावेव श्रूस्थानीये । लोकप्रसिद्धयै तद् दृढयति - तस्मादिति । यस्मादेवं यज्ञे यज्ञकेशश्मश्रुरूपेण संस्तुतयोः प्रस्तर बर्हिषोर्मध्ये संस्थिते तृणे तिर्यनिधीयेते, तस्मात् कारणात् पुरुषस्य भ्रुवौ तिरश्च्यौ दृश्येते इत्यर्थः । तिर्यनिधानस्य प्रयोजनमाह - क्षत्रं वेति । क्षत्रियवैश्यजातिस्थानीये प्रस्तर बर्हिषी, अतस्तयोर्विविधं धारणाय तत्तिर्यक्तृणनिधानं सम्पद्यते । इतरथा हि प्रस्तर बर्हिषोः साङ्कर्य्यात् क्षत्रियवैश्ययोरपि साङ्कयं स्यात् । यस्मादेवमेते तृणे तिर्यङ् निहिते विधारणप्रयोजने तस्मादनयोर्विधृती इति नाम सम्पद्यते । ' तत्प्रस्तरं स्तृणाति । ऊर्णदसं त्वा स्तृणामि स्वास स्थं देवेभ्य इति साधु देवेभ्य इत्येवैतदाह । यदाहोर्णग्रदसं त्वेति स्वास्थं देवेभ्य इति स्वासदं देवेभ्य इत्येवैतदाह । ' ( श ० १ | ३ | ४ | ११ ) । प्रस्तरस्य समन्त्रकं स्तरणं विधत्ते । मन्त्रस्तु व्याख्यातप्रायः । प्रस्तरणमन्त्रस्तु बर्हिषः स्तरणवदेव व्याख्येयः । तत्र स्तीर्यमाणाया वेदेरभिधेयत्वात् साध्वी देवेभ्य इति स्त्रीलिङ्गतया व्याख्यातः । अत्र प्रस्तर एवाभिधेय इति साधुं देवेभ्य इति पुल्लिङ्गतया व्याख्यायते । तथैव मन्त्रो व्याख्यात एव । ' तमभिनिदधाति । आ त्वा वसवो रुद्रा आदित्याः सदन्त्वित्येते वै त्रयो देवा यद्वसवो रुद्रा आदित्या एते त्वा सीदन्त्वित्येवैतदाहाभिनिहित एव सव्येन पाणिना भवति । ' ( श ० १ | ३ | ४ | १२ ) । स्तीर्णस्य स्पर्शनं विधत्ते - आ खेति मन्त्रेण प्रस्तरस्योपरि हस्तं निदध्यादि-त्यर्थः । जुह्वादीनामासनपर्यन्तं प्रस्तरस्यान्वारम्भं विधत्ते - सव्यहस्तेन प्रस्तरोऽभिनिहितः संस्पृष्ट एव भवेत् । अनन्तर ही जीव आदि पदार्थ भासमान होते हैं । अविद्यमान द्वारा तुम्हारा पालन करे । स्वप्रकाश ब्रह्मात्ममान के दोषों के आरोपों से वह परमेश्वर तुम्हारो रक्षा करे किया जाता है, किन्तु ब्रह्मात्मसाक्षात्कार से उन सब अग्नि, इन्द्र आदि देवताओं के लिये तथा देवाधिदेव परमेश्वर के बैठने योग्य तुम्हें बना रहा हूँ । जो देवताओं के प्रति अपनी परिणत करके उनकी आराधना करता है, वही व्यक्ति उन सर्वात्मभाव से अर्चना करने में समर्थ हो पाता है । किञ्च । जीवात्मा में अविद्यमान कर्तृत्व, भोक्तृत्व आदि का आरोप का निरास हो जाता है । हे जीवात्मन्! लिये ऊर्णासन के तुल्य कोमल - सुन्दर आसन के समान आत्मा को उनके शय्या आदि उपकरणों के रूप में देवताओं के अनुग्रह से देवाधिदेव परमेश्वर की भी वे वसु, रुद्र, आदित्यादि देवता भृत्यरूप से और