वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 121–130
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 121–130
पृष्ठ 121
पाठ पढ़ें पाठ छिपाएँ
मंन्त्रः १ ] वेदार्थपारिजातभाष्यसहिता १११ सर्वत्र स्तुत्यर्थं केनचित् साम्येन स्वर्लोकादिषु गार्हपत्यादिदृष्टिरेव क्रियते । तत्क्रयस्य गार्हपत्य चयनादूर्ध्वं -माहवनीय चयनात् पूर्वमनुष्ठानात् । एतं सोमात्मकं वायु मिमी लोकावन्तरेण अनयोर्लोकयोर्मध्ये दधाति । ' अन्तरान्तरेण युक्ते ' ( पा ० सू ० २।३।४ ) इति द्वितीया । यस्मादेव वायुसंस्तुतः सोमो मध्ये क्रीयते, तस्मादेव दृश्यमानो वायुरिमौ लोकात्रन्तरेण पवते । एवमधिलोकं स्तुत्वा सोमक्रयस्याध्यात्ममपि स्तोतुमाह-- ' यद्वा देवचिते गार्हपत्ये अचित आहवनीयेऽथ राजानं क्रीणात्यात्मा वा अग्निः प्राणः सोमः । आत्मंस्तत्प्राणं मध्यतो दधाति । तस्मादयमात्मनः प्राणो मध्यतः ' ( श ० ७ | ३ | ११२ ) | आत्मा वा अग्निः गार्हपत्याहवनीयचित्यात्मकोऽग्निः, आत्मा विस्रस्तावयवस्य प्रजापतेः शरीरम् । तन्मध्यवर्ती प्राणवायुः सोमः । अतस्तस्य गार्हपत्याहवनीय चयनयोर्मध्ये क्रीयमाणत्वाद् आत्मनः आत्मनि शरीरे प्राणमेव मध्यतो दधाति । तस्मादेव कारणात् पञ्चवृत्यात्मकः प्राणः । अयं प्राणः सर्वप्राणिनामात्मनि शरीरे मध्यतो दृश्यते । एतदेव सायणाचार्यैः स्पष्टमुक्तं स्वभाष्ये । एतदेव च सम्भवति । ' एतमेके वदन्त्यग्निम् ' ( म ० १२ १२३ ) इति मनुरपि हिरण्यगर्भमग्निमेके वदन्तीत्याह । ततः पूर्वं षष्टकाण्डस्य प्रथमेऽध्याये सर्वावयवसम्पन्नस्यैकस्य विराडात्मकस्य पुरुषस्योद्भवमभिधाय तस्याग्निरूपत्वमुक्तम् ( श ० ६ | १ | १ | ११ ) | ' यदस्य सर्वस्याग्रमसृज्यत तस्मादग्निर्ह वै तमग्निरित्याचक्षते, ' प्रजापतिरेषोऽग्निः ' ( श ० ६ | ८ | १ | ४ ), ' स यः प्रजापतिर्व्यसंसत ' ( श ० ६ ११२१८ ), ' प्रजापतिरेव विस्रस्तो देवानब्रवीत् ' ( ० ६।१२।२१ ) इत्यादिभिः प्रजापतेरग्नित्वं विस्रस्तत्वं च तत्र तत्र श्रूयते । नहि शुद्धे निरवयवे ह्यात्मतत्त्वे प्राणस्य मध्य आधानं सम्भवति । नहीन्द्रियशक्तिभिरात्मन उद्बोधनं सम्भवति, तस्य बोधरूपत्वात् । यदपि ' पयः शीर्षस्वत्प्राणम् ' इति घृतपदेनेन्द्रियबोधने प्रमाणमुक्तम्, तदप्यविचारितरमणीयम्, अर्थान्तरत्वात् । तथाहि - ' अथैनामाच्छृणत्ति स्थेने न्वेवाथो कर्मणः प्रकृततायै यद्वेवाच्छृणत्ति शिर एतद्यज्ञस्य यदुखा प्राणः पयः शीर्षस्तत्प्राणं दधात्यथो योषा वा उखा योषायां तत्पयो दधाति तस्माद्योषायां पयः ' ( श ० ६ | ५ | ४ | १५ ) इति हि सम्पूर्णा कण्डिका । अत्रोखायां पयः सेचनं विधाय स्तौति – एनामुखामाच्छृत्ति आसिञ्चतीत्यर्थः । स्पष्टमन्यत् । प्रकारान्तरेण प्रशंसति - शिर एतद्यज्ञस्य यदुखा । प्राधान्यादुखायाः शिरस्त्व-व्यवहारः, पयसो बलकरत्वात् प्राणत्वव्यपदेशः । तस्मात् पयोयोज्यत्वमिदानीन्तनप्रसिद्धया समर्थयते— तत्प्राणं दधातीति । स्त्रीलिङ्गत्वादुखाया योषात्वम् । पयसो रेतोवर्धकत्वाद् रेतस्त्वम् । अत्रापि गौण्या वृत्त्या बलकरत्वात् पयसः प्राणत्वमुक्तम्, न घृतस्येन्द्रियत्वम् । ' सोम एवान्नमग्निरन्नादः ' इत्यादिश्रुतयो नैकार्थबोधिकाः । सङ्केतश्चाशुद्धः । अग्नीषोमात्मके जगति अग्निरन्नादः सोमोन्नमिति युक्तमेव । न चात्मनोऽग्नित्वमद्यापि सिद्धम् । मनसश्चन्द्रमसश्चाधिष्ठानाधिष्ठेयभावेनाभेदोपचारो नायुक्तः । मन इन्द्रियादि-वृत्तिस्रुग्भिः सर्व दृश्यं हविष्ट्वेन विभाव्य चिदग्निमण्डले प्रविलापनमेव होम इत्यध्यात्म र सिकैरभ्युपेयत एव, तथापि नोक्तवचनैस्तत्सिद्ध्यति । द्वारा ब्रह्माकारवृत्तिरूप सूर्यकान्त मणि में अभिव्यक्त होने वाले चित्सूर्यात्मक अग्नि में चारों ओर दृश्यमान सम्पूर्ण दृश्य को तत्तद्वृत्तिरूपी स्रुचाओं से होम कर दो, अर्थात् सबको उसी में विलीन करके ब्रह्मात्मरूप से स्थित रहो । स्वामी दयानन्द इस मन्त्र की व्याख्या में सभी को हवन करने की बात कह रहे हैं । किन्तु उनका यह व्याख्यान प्रमाणरहित है, क्योंकि आधानादि कर्मों में वरण किये हुए ऋत्विजों का ही अधिकार होता है | अतः ऋत्विजों को ही सम्बोधित करना उचित है । सर्वसाधारण विद्वानों को सम्बोधित करना
पृष्ठ 122
पाठ पढ़ें पाठ छिपाएँ
११२ शुक्लयजुर्वेदसंहिता [ अ ० ३ नह्यात्मयाजिभिर्मन्त्रब्राह्मणान्यन्यथा व्याख्यायन्ते । न वा तेषां कर्माणि देवयाजिनो विजातीयानि भवन्ति । मनुना तु ब्रह्मात्मदर्शी ह्येवात्मयाजीत्युच्यते - ' सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । सम्पश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ॥ ' ( म ० १२ ९ १ ) | बृहदारण्यके श्रीशङ्कराचार्याः - ' तद् द्विविधं ज्ञानपूर्वकं केवलं च । तत्र केवलं पितृलोकादिप्राप्तिफलम् ज्ञानपूर्वकं देवलोकादिब्रह्मलोकान्तप्राप्तिफलम् । तथा च शास्त्रम् - ' आत्मयाजी श्रेयान् देवयाजिनः ' इत्यादि । स्मृतिश्च - ' द्विविधं कर्म वैदिकम् ' इति । सर्वत्र परमात्म-भावनापुरःसरं नित्यं कर्मानुतिष्ठत् आत्मयाजीत्यानन्दगिरिः । कामनापुरःसरं देवान् यजमानो देवयाजी । तयोर्मध्ये कतरः श्रेयानिति विचारे सत्यात्मयाजी श्रेयानिति निर्णयः कृतः । अत्र वाचस्पति मिश्राः - तथा च श्रुतिः - सह वा आत्मयाजी यो वेद इदं मे अङ्गमेनेनाङ्ग सांस्क्रियते । इदं मेऽनेनाङ्गमुपधीयते । ' तत्र कल्पतरुकाराः - ' अनेन कर्मणा इदं ममाङ्गमन्तःकरणं संस्क्रियते पुण्येन चोपधीयते उपचीयते ' ( श ० ११ | २ | ६ | १३ ) इति यो विदित्वा चरति कर्म स आत्मशुद्धयर्थं यजन् आत्मयाजी । स च देवयाजिनः काम्यकर्मकर्तुः श्रेयानिति शतपथश्रुत्यर्थः । अनेन स्पष्टं व्यज्यते यन्मीमांसकादिसम्मतमेव कर्मात्मयाजिनोऽ-प्यनुतिष्ठन्ति, सुतरां तेषां वेदव्याख्यानमपि तादृशमेव भवति । नाध्यात्मं परमात्मयाजिनाम्ना कर्तुं शक्यमिति । नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः । विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यसिद्धि लभते रोचनार्था फलश्रुतिः ॥ ( भा ० पु ० १३ | ३ | ४५-४६ ) इति श्रीमद्भागवतपद्याभ्यामपि वेदोक्तकर्मबहिर्मुखस्याधोगतिः प्रतिपाद्यते । केवलस्य देवताज्ञानसमुच्चितस्य वानुष्ठायिनः पितृदेवादिलोकप्राप्तिः, निष्कामस्य वैदिककामकर्मज्ञानः स्वाभाविकपाशविककामकर्मज्ञानातिक्रमण-विविदिषाश्रवणमननादिक्रमेण ब्रह्मात्मसाक्षात्कार प्राप्तिश्चोक्ता । कर्माणि च श्रुतिसूत्रादिप्रोक्तान्येव तेषां व्याख्या च तदनुगुणैव । किञ्च ये मन्त्रा ब्राह्मणानि च यानि विनियोगादिवशादन्यपराणि न तैर्निर्गुणं निर्विशेषमद्वैतं ब्रह्म प्रतिपादयितुं शक्यते, द्वैतपर्यंवसायिप्रत्यक्षानुमानागर्मीविरोधात् 1 । न चाद्वैतबोधकवचनविरोधात् तेषामेव कथं न स्वार्थप्रच्युतिरिति वाच्यम्, तत्प्रधानान्यतत्प्रधानेभ्यो बलीयांसीति न्यायेन तत्पराणां वचनानामतत्पर-वचनापेक्षया प्राबल्येनान्यपराणामद्वैतबोधकवचनानां बाधोपपत्तेः । तत एवेशावास्योपनिषद्भाष्ये ईशावास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्ताः, तेषामकर्मशेषस्यात्मनो याथात्म्य प्रतिपादकत्वादित्यादिरीत्या तेषामकर्मशेषत्वं साधितम् । येषां मन्त्राणां श्रुतिलिङ्गवाक्य प्रकरणसमाख्याभिस्तदाश्रितैः सूत्रैश्चान्यपरत्वं सिद्धमेव, तेषामन्यपरत्वं निश्चप्रचम् । तदतिरिक्तरनन्यशेषैरेव मन्त्रब्राह्मणोपनिषद्वाक्यं स्वत्प्रधानः प्रत्यक्षादि -बाधेनाप्यद्वैतं बोध्यते । ' ईशावास्यमित्यादयो मन्त्राः कर्मसु विनियुक्ताः, मन्त्रत्वात् इषे त्वादिमन्त्रवत् ' इत्यनुमानं तु न समुन्मिषति, विनियोजकप्रमाणासत्त्वस्य तत्रोपाधित्वात् । अत एव - ' द्वे विद्ये वेदितव्ये परा चैवापरा च ' इत्युपक्रम्य ' ऋग्वेदो यजुर्वेदः सामवेदः ' इत्यादिभिः प्रायेण समस्तवैदिक वाङ्मयस्यापर-अनुचित है । व्याख्या करते समय कहीं नियम का उल्लंघन हुआ है, तो कहीं ' स्वर ' दूषित हो गया है, कहीं जो हव्य वस्तु नहीं हैं, उनको ' हव्य ' मान लिया है । कहीं ' घृत ' का अर्थ ' जल ' कर दिया है । अतः शतपथश्रुति, सूत्र, याज्ञिक पद्धति के विरुद्ध व्याख्या को उपेक्षणीय ही कहा जा सकता है ।
पृष्ठ 123
पाठ पढ़ें पाठ छिपाएँ
मंन्त्रः १ ] वेदार्थ पारिजात भाष्यसहिता ११३ विद्यात्वमुक्तम् | अनन्यशेषतत्प्रधानमन्त्रब्राह्मणोपनिषदां परविद्यात्वमुक्तम्- ' अथ परा यया तदक्षरमधिगम्यते यत्तदश्यम् ' ( मु ० उ ०१५ ) इत्यादिकमिति मुण्डके । ब्राह्मणैलिङ्गादिभिः सूत्रैश्च येषां मन्त्राणां यत्र विनियोगः, स एव तेषां मुख्योऽर्थः । अन्यस्तु तदविरुद्धो गौणार्थं एवेति मन्तव्यम् । ' सर्वे वेदा यत्पदमामनन्ति ' ( कठो ० २२६५ ), ' वेदश्च सर्वैरहमेव वेद्य: ' ( भ ० गी ० १५ १५ ) इत्यादिप्रमाणैः कर्मोपासनपराणामपि वेदानां ब्रह्मपर्यवसायित्वप्रतिपादनं तु ब्रह्मज्ञानौपयिकमलविक्षेपनिवर्तककर्मोपासनप्रतिपादकत्वेऽपि नासङ्गतम् | यद्वा यथा शय्यापादुकादिषु पादविन्यासेऽपि पृथिव्यामेव पादविन्यासस्तेषां तत्कार्यत्वात् तथैवेन्द्रादिदेवचरुपुरोडाशादिद्रव्यदेवता-प्रतिपादनमपि ब्रह्मप्रतिपादनमेव, तेषां ब्रह्मकार्यत्वेन तदनतिरिक्तत्वात् । यद्वा शब्दानां जाती शक्त्यङ्गीकारेण घटत्वादिजातीनां च सत्तालक्षणायां परजातावन्तर्भावेन परसत्तायाश्च ब्रह्मरूपत्वेन न केवलं वैदिकानामपि तु सर्वेषामेव शब्दानां ब्रह्मणि पर्यवसानं न विरुद्धम् । एवं सत्यपि न सर्वेषां शब्दानां पर्यायवाचकत्वम्, भिन्नप्रवृत्तिनिमित्तकत्वात् तथैव वैदिकशब्दानामपि न पर्यायवाचकत्वं भिन्नप्रवृत्तिनिमित्तकत्वादेव । यद्यपि वस्तुस्थिति तादृशी, तथापि मुख्यार्थाविरोधेन मन्त्राणामनेकार्थबोधकत्वमपि चत्वारि शृङ्गा इति मन्त्रस्येव नासङ्गतम् । दयानन्दोक्तार्थापेक्षया तु एतादृशा अप्यर्थाः प्रशस्ता एव । यदपि - कृष्णार्जुनसंवादात्मकोऽयं मन्त्रः । पार्थप्रोक्तवाक्यकलापव्यञ्जितशमदमादिसम्पत्त्या ब्रह्मविद्या-धिकारमर्जुनस्य निश्चित्य भगवान् दीक्षादानाय यथा छान्दोग्योपनिषदि सत्यभाषणादिना निश्चिताधिकारो हारिद्रुमत गौतमाचार्यः सत्यकामं जाबालं दीक्षाग्रहणाय समिधमानेतुमादिदेश -- ' तं होवाच नैतदब्राह्मणो विवक्तु-मर्हति समिधं सोम्याहर उप त्वानेष्ये न सत्यादगा: ' ( छा ० उ ० ४।४।५ ) इति, तथा आदिशति - समिधेति । समिधा समिदादिना । समिद्ग्रहणमुपहारोपलक्षणम् । अपि वा समिधायुक्तः समित्पाणिः समिदाद्युपहारयुक्तः सन् ' तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ' ( मु ० ३।२।१२ ) इति श्रुतेः । दुवस्यत परिचरत । गुरुं मां पूजयतेत्यर्थः । एतेन विधिवद्गुरूपसत्तिः सूचिता । तदनन्तरं श्रीकृष्णशिष्यतामुपगतोऽर्जुन आचष्टे – अतिथि निजपादपद्मातिथि त्वां प्रपन्नमिति यावत् । घृतेः तद्वत् स्निग्धैर्मधुरवचोभिर्बोधयत धर्मब्रह्मणो-स्तत्त्वमवगमयत । मदीयं कर्तव्यमुपदिशतेति निष्कर्ष: । अत एव ' शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ' ( भ ० गी ० २७ ) इति गीतोक्तं सङ्गच्छते । अथवा पूर्ववाक्य एव घृतैरिति सम्बध्यते । विनापि चकारं समुच्चयः । समिदादिना घृतपक्वमोदकादिभिश्चोपहारैर्मां प्रसादयतेति भावः । गीतासारं भगवानुपदिशति -अस्मिन् मयि हव्या हव्यानि दातव्यानि अर्पणीयानि सर्वाणि वस्तूनि आ सर्वतोभावेन जुहोतन दत्त अर्पयत । निष्कामकर्मयोगं सततमनुतिष्ठत । उक्तं हि गीतायाम् - ' यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ' ( भ ० गी ० ९ ।२७ ) । अत्र सर्वत्र बहुवचनमादरातिरेक सूचनाय । अथवा दुवस्यत दुवस्य बोधयत बोधय जुहोतन जुहुधि इति वचनव्यत्यासो बोध्यः ' इति । तदेतदपि अप्रकृतगौणार्थक्लिष्टकल्पनाबाहुल्याद्यथाश्रुतोपपत्ती अप्रामाणिकव्यत्यासादियुक्तत्वाद् नातीव मनोज्ञम् | कृष्णोऽर्जुनस्तत्संवादरूपा गोता च महाभारतादेरेव ज्ञातव्या भवन्ति । तदानुगुण्येन मन्त्राणां योजनं कुछ लोगों ने आत्मयाजी दृष्टि से इस मन्त्र की ब्रह्मोपदेशपरक व्याख्या की है । आत्माग्नि को प्रज्वलित करने की बात की है । किन्तु उद्धृत की हुई श्रुति में ' आत्म ' शब्द से ' शरीर ' का ग्रहण किया गया है । आत्मयाजी विद्वान् मन्त्र ब्राह्मणों की अन्यथा व्याख्या नहीं किया करते । तथापि इस व्याख्याकार की व्याख्या स्वामी दयानन्द की १५
पृष्ठ 124
पाठ पढ़ें पाठ छिपाएँ
११४ शुक्लयजुर्वेदसंहिता [ अ ० ३ मन्त्राणामुपबृंहणाय वा महाभारतादिनिर्माणमिति विचारणीयम् । तत्र नाद्यः पक्षः सम्भवति, अपौरुषेयवाक्यानां पौरुषेयानुसरणासम्भवात् । नान्त्यस्तथात्वे मन्त्रवैरूप्यानापत्तेः । तथाहि गीतादृष्ट्या तु नार्जुनस्य ब्रह्मविद्याधिकारः, ' कर्मण्येवाधिकारस्ते ' ( भ ० गी ० २।४७ ), ' कुरु कर्मैव तस्मात्त्वम् ' ( भ ० गी ० ४।१५ ), ' शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः ' ( भ ० गो ० ३३८ ) इत्यादिविरोधात् । न च ब्रह्मविदोऽपि कर्मण्येवाधिकार इति युक्तम्, ' नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ' ( भ ० गी ० ३।१८ ) इति विरोधात् । अत एवार्जुनं निमित्तीकृत्य भगवांस्तेभ्यस्तेभ्योऽधिकारिभ्यः कर्मयोगं ब्रह्मविद्यां चोपदिष्टवान् । न च गीतानुसारेण भगवतार्जुनाय काचिद्दीक्षा दत्ता । न वा दीक्षा अर्जुनः समिदुपलक्षितघृतपक्वमोदकाद्याहरणाय नियुक्तः । न वार्जुनेन तन्नियोगानुसारेण मोदकादिकमाहृतम् युद्धादिप्रकरणविरोधात् ॥ १ ॥
सुस॑मिद्धाय शोचिषे॑ घृ॒तं व्रं जु॑होतन । अ॒ग्नये॑ जा॒तवे॑दसे ॥ २ ॥
ऋत्विजः! सुसमिद्धाय साधुदीप्ताय, शोचिष्मते दीप्तिमते प्रज्वलिताय, जातवेदसे जातं वेत्ति वेदयते वेति जातवेदाः, तस्मै । जातो वेदः प्रज्ञानं वा यस्य तस्मै । जात आविर्भूतो वेदो यस्माद्वा तस्मै जातवेदसे । अग्नये घृतं तीव्रं स्वादुतमं समग्रं पटुतरं वा ग्रहणोद्वासनाधिश्रयणावेक्षणादिभिः संस्कारैः संस्कृतं जुहोतन अत्यर्थं जुहुत । अत्यर्थकं तनप्, कर्तनहन्तनयात नेत्यादी तथार्थत्वदर्शनात् ॥ २ ॥
तं त्वा॑ स॒मिद्भरङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हच्छोंचा यविष्ठध ॥ ३ ॥
हे अङ्गिरः! अङ्गिर्गतिरस्यास्तीत्यङ्गिराः । गत्यर्थादङ्गतेर्मत्वर्थीये रसिप्रत्यये रूपसिद्धिः । तत्तद्यागेषु गतिमन्नग्ने! ' अङ्गिरा उ अग्निः ' ( श ० १ | ४ | १ | २५ ) इति श्रुतेः । तं तथोक्तगुणं त्वां समिद्भिः पूर्वोक्तगुणाभि-व्याख्या से कुछ अच्छी कही जा सकती है । इस व्याख्याकार ने गीता का प्रसंग उद्धृत कर जो बताया है, वह गीतोक्त युद्धप्रकरण के विरुद्ध है ॥ १ ॥
मन्त्रार्थ - हे ऋत्विजों! तुम लोग अग्नि में सुसंस्कृत घृत का हवन करो । वह अग्नि अच्छी तरह प्रदीप्त हुआ है । एवं प्रकाशमान और समस्त ज्ञानों का उत्पादक है ॥ २ ॥
भाष्यसार --- इस मन्त्र से यह बताया गया है कि प्रदीप्त हुए जातवेदस ( अग्नि ) में ग्रहण, उद्वासन, अधिश्रवण, अवेक्षण आदि संस्कारों से संस्कृत हुए घृत का हवन करना चाहिये । करपात्रभाष्य में दुर्गाचार्य के अनुसार ' जातवेदस् ' पद की बहुविध व्युत्पत्ति के आधार पर अनेक अर्थ किये गये हैं । अध्यात्मपक्ष में कहा गया है कि वेदान्तवाक्यादि के श्रवण करने से स्वप्रकाश, ब्रह्मरूप, सर्वज्ञ अग्नि में अपने प्रेमरूपी घृत को अर्पित कर दो । उसी से संसारासक्ति की निवृत्ति हो सकती है । स्वामी दयानन्द ने जो व्याख्या की है, वह पदार्थस्वभाव के विरुद्ध है । किसी ने गमनशील अर्थ करने के लिये मत्वर्थीय इरस् प्रत्यय बताया है, किन्तु वह व्यर्थ ही है ॥ २ ॥
मन्त्रार्थ - प्रत्येक यज्ञ में गमन करने वाले और सर्वदा तरुण रहने वाले हे अग्ने! हम लोग तुम्हें समिधाओं से
और संस्कारयुक्त घृत से वृद्धिंगत करते हैं । अतः अत्यधिक प्रकाशित हो जा ॥ ३ ॥
पृष्ठ 125
पाठ पढ़ें पाठ छिपाएँ
मंन्त्रः ४ ] वेदार्थपारिजातभाष्यसहिता ११५ संस्कृतेनाज्येन च वर्धयामसि वर्धयामः । ' इदन्तो मसि ' ( पा ० सू ० ७ | १ | ४६ ) सिकार छान्दसः । हे यविष्ठ्य नित्यं नवनवायमान नित्यनूतन अग्ने! बृहत् महत् शोच दीप्यस्व । ' द्वयचोऽतस्तिङ: ' ( पा ० सू ० ६ | ३ | १३५ ) इति दीर्घे शोचेति रूपम् । यविष्ठघ अतिशयेन युवेति यविष्ठ्यः, तत्सम्बुद्धी हे यविष्ठ्य । युवनशब्दाद् इष्ठनि ' स्थूल - दूर- युत्र ० ' ( पा ० सू ० ६ | ४ | १५६ ) इत्यादिना टिलोपे गुणे च स्वार्थिकत द्धितका यविष्ठयेति रूपम् ॥ ३ ॥
उप॑ त्वाग्ने ह॒विष्म॑तीघृ॒ताची॑र्व॑न्तु॒ हर्यंत । जुषस्व॑ स॒मिध॒ मम॑ ॥ ४ ॥
' उप त्वेति जपतीति ' ( का ० श्री ० ४ | ८ | ६ ) हे अग्ने! हविष्मती: हविष्मत्यः हविर्युक्ताः घृताचीः घृताच्यः घृतपरिप्लुताः समिधः, त्वा त्वाम् उपयन्तु प्रत्युद्गच्छन्तु । हे हर्यंत प्रेप्सावन् ताः प्रत्यनुरागयुक्त! मदीयास्ताः समिधस्त्वं जुषस्वोपसेवस्वाङ्गीकुरु । ( नि ० २६/६० ) इति कान्तिकर्मसु हय्र्यंत इत्यस्य पठितत्वात्, कान्तेश्चेच्छार्थकत्वात्, अनुरागस्य चेच्छाविशेषत्वात्, रागातिशयस्य वस्तुनः समर्पणेनैव प्रसादातिशयसम्भवाच्च । भाष्यसार - ' अग्नि ' का नाम ' अङ्गिरस् ' है । ' अङ्गिरा उ अग्निः ' यह श्रुतिवचन है । समिधा और संस्कृत घृत से उस अग्नि को प्रदीप्त किया जाता है, तब वह वृद्धिगत होता है । उसका अत्यधिक प्रकाश होता है । स्वामी दयानन्द ने जो व्याख्या अपने भाष्य में की है, उसमें व्यत्यय आदि का अकारण आश्रय लिया है । शतपथ श्रुति के विरुद्ध होने से वह व्याख्या उपेक्षणीय है । अध्यात्मपक्ष में --- ब्रह्माकारवृत्ति की अभिव्यक्ति होने से वह अग्नि सम्पूर्ण प्रपञ्च का दाहक है । उस अग्नि को श्रवण - मनन - निदिध्यासन और घृत के समान सुगन्धवाले अनुराग से हम वृद्धिङ्गत कर रहे हैं, अर्थात् ' ब्रह्म ' नास्ति और न माति- इन आवरणद्वय का अपसारण करके प्रत्यक् चैतन्य से अभिन्न अनन्तानन्द ब्रह्मात्मभाव के प्रादुर्भाव से हम उसे वृद्धिङ्गत करते हैं । यद्यपि वह अवेद्य है, तथापि वह स्वप्रकाश रहने से निरतिशय प्रकाशरूप ही है | अतः श्रवणादि के द्वारा तत्तदुपाधिनिराकरणजनित अतिशयित प्रकाशवान् हो जाय ॥ ३ ॥
मन्त्रार्थ - हे अग्ने! हवि से युक्त और घृत से आर्द्र हुई समिधाएं तुम्हें प्राप्त हों । उन समिधाओं की इच्छा रखने वाला तू अपने समीप आनेवाली उन मेरी समिधाओं का सेवन कर । ' उप त्वा ' इस मन्त्र का जप करे || ४ || भाष्यसार -- अग्नि को समिधा और घृत की इच्छा रहती है । जिस वस्तु में रागातिशय हो, उस वस्तु की प्राप्ति हो जाने से अत्यधिक प्रसन्नता होना स्वाभाविक ही है । यही कारण है कि भक्त लोग भगवान् को निवेदन किये जाने वाले पदार्थों में भगवद्रागास्पदत्व की भावना करते हैं । अग्नि आदि के रूप में सर्वत्र वेद में और यज्ञ में परमेश्वर की ही अर्चना बताई गई है । अध्यात्मपक्ष में - हे हर्यंत! अर्थात् हे कान्तिसम्पन्न! स्वप्रकाश! अपने सगुण स्वरूप से कोटि सूर्य के समान कान्तिवाले! समस्त प्राणियों के परम प्रेमास्पद होने के कारण हे सर्व कमनीय! मेरे द्वारा की जाने वाली मधुमती स्तुतियों को प्रेमपूर्वक अंगीकार करो, अर्थात् मेरी स्निग्ध ज्ञानभक्तिरूप वृत्तियाँ तुम तक प्राप्त हों । तुम उन वृत्तियों के रस का आस्वादन करो!
पृष्ठ 126
पाठ पढ़ें पाठ छिपाएँ
११६ शुक्लयजुर्वेद संहिता [ अ ० ३ तत एव भक्तैर्निवेद्यमानेषु भगवद्रागास्पदत्वं भाव्यते । ' प्राज्यमाज्यमिदमुत्तमं मधु । मातरेतदमृतोपमं पयः सम्भ्रमेण परिपीयतां मुहुः ॥ ' इति श्रीशङ्कराचार्याः । अत्र देवताविशेष एवाग्निराहवनीयादिशरीरकः सम्बोध्यते, तस्य प्रेप्सावत्त्वादिसम्भवात् । तथा च परमेश्वर एवाग्न्यादिरूपेण सर्वत्र वेदेषु यज्ञेषु चेज्यते ॥ ४ ॥
भूर्भुवः स्वद्यरि॑िव भूस्ता पृ॑थि॒वीव॑ वरिम्णा । तस्यास्ते पृथिवि देवयजति पृष्ठेऽग्नि-नादनाद्यायाधे || ५ ॥ ' जाते जाते विद्यते इति वा, जातवित्तो वा जातधनो जातविद्यो वा, जातप्रज्ञानो यत्तज्जातः पशून् विन्दतेति जातवेदसो जातवेदस्त्वमिति ' ( नि ० ७ १ ९ ) । महाभाग्यात् कर्मपृथक्त्वादग्निरेव जातवेद उच्यते, यद्वा पृथगभिधानस्तुत्यन्तरसम्बन्धाद्देवतान्तरम् । जातवेदाः कस्मात्? स हि जातानि वेद । न तदस्ति जातमस्मि-ल्लोके यदसौ न वेद, सर्वज्ञ इत्यर्थः । जातानि वा एनं विदुः । धातोरभेदेऽपि कारकभेदाद् भेदः, सर्वप्रसिद्ध इत्यर्थः । जाते जाते विद्यते इति वा विदेः सत्तार्थकस्याधिकरणे कारके न तदस्ति जातं यत्रासो नास्ति, सर्व-जात व्यापक इत्यर्थः । जातवित्तो वा जातधनः । जातमस्य वित्तमिति जातवेदाः । जातविद्यो जातप्रज्ञानो वा । निसर्गत एवास्य जातं प्रज्ञानमित्यर्थः । अपि भवति जनेर्विदेश्चेति जातवेदा इति ब्राह्मणम् । यत्तज्जातः पशून-विन्दत अलभत तस्माज्जातवेदसो जातवेदस्त्वमिति विज्ञायते । यतश्चैतदेवं तस्मादद्यत्वेऽपि स्वाम्ययमस्माकमिति मन्यमानाः पशवः सर्वानृतून् प्रतिग्रीष्मे अग्निमभिसर्पन्तीति तत्रैव दुर्गाचार्यः । अध्यात्मपक्षे तु - श्रवणादिभिः सुसमिद्धाय ब्रह्मरूपायाग्नये शोचिषे स्वप्रकाशाय जातवेदसे वेदजनकाय सर्वज्ञाय ब्रह्माग्नये घृतं प्रेमाख्यं स्नेहं घृतगन्ध्यनुरागविशेषं वा तीव्रसंसाररागनिवर्तकत्वात् तीव्रं जुहोतन समर्पयत तत्प्रियत्वात्तस्य । ' अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ' ( भा ० पु ० ३।२५।३३ ) इति श्रीमद्भागवतवचनात् । यद्वा अव्यक्तस्य असमिद्धस्याग्नेः सुसमिद्धव्यक्ताग्नि. रूपेणेव अव्यक्तस्याप्रमेयस्य निर्गुणस्य ब्रह्मणः सुसमिद्धाय अमलात्मनां परमहंसानां महामुनीनां श्रीपरमहंसत्व-सम्पादनाय कोटिकोटिसूर्यचन्द्राग्निसमप्रभाय श्रीरामकृष्णादिरूपेणाभिव्यक्ताय साधुपरित्राणाय दुष्ट दर्पदलनाय धर्मसंस्थापनाय वा शोचिषे दीप्तिमते जातवेदसे सर्वज्ञाय सर्वविदे अग्नये पातकपातकिदैत्यदानवा दिदावदहनाय सूर्यस्यापि सूर्यायाग्नेरप्यग्नये भगवते हे आर्तजिज्ञास्वर्थार्थिज्ञानिभक्ता घृतं घृतगन्ध्यनुरागतीव्रमुत्कटं सर्वसंसाररागनिवर्तकत्वात् परमात्मवशीकारकत्वाच्च जुहोतन जुहुतेत्यर्थः । एवं श्रुतिसूत्राविरुद्धा ः सम्भवन्ति । दयानन्दस्तु – ' सुसमिद्धे सम्यगिद्धे दीप्ते । सप्तमीस्थाने चतुर्थी । शोचिषे दोषनिवारके घृतमाज्यादिकं तीव्रं सर्वदोषाणां निवारणे तीक्ष्णस्वभावं जुहोतन प्रक्षिपत । अग्नये रूपदाहप्रकाशच्छेदनादिगुणस्वभावे जातवेदसे स्वामी दयानन्द उक्त मन्त्र की व्याख्या करते हुए मनुष्यों को सम्बोधित करते हैं और उन्हें प्रतिदिन समिधाओं के संग्रहार्थ करते हैं । किन्तु मन्त्र में ' अग्नि ' को सम्बोधन किया गया है । ' जुषस्व ' के बजाय ' जुषते ' यह व्यत्यय किया है । अनेक जगह मुख्यार्थ को त्यागकर गौणार्थ की कल्पना की है, जो निर्मूल है । अत: दयानन्दीय अर्थ उपेक्षणीय है ॥ ३-४ ॥ मन्त्रार्थ: -- भूः भुवः स्वः - इन तीन व्याहृतियों का अर्थ ब्राह्मण, क्षत्रिय और वैश्य है अथवा आत्मा, प्रजा और पशु है । इन अर्थवाली व्याहृतियों से प्रार्थना करके अग्नि को स्थापना करे | अभिप्राय यह है कि ब्राह्मण,
पृष्ठ 127
पाठ पढ़ें पाठ छिपाएँ
मंत्र: ५ ] वेदार्थपारिजातमाष्यसहिता ११७ जाते जात उत्पन्न उत्पन्ने पदार्थे विद्यमानस्तस्मिन् ' ( पृ ० २२८ ) इत्याह तत्तु न युक्तम् सप्तम्यर्थस्वीकारस्य निष्कारणत्वात् । सम्प्रदान चतुर्थ्या सुसमिद्धत्वजातवेदत्वादिगुणविशिष्टाया देवताया विवक्षितत्वे तदुद्देश्येन घृतद्रव्यत्यागस्य बुबोधयिषितत्वात् । नात्र दोषाणां निवारणे तीक्ष्णस्वभावत्वबोधनाय तीव्रशब्दो युज्यते, दाहक स्वभावत्वेनैतदुपपत्तेः, किन्तु स्वादुतमत्व सुसंस्कृतत्वादिभिरेव तस्य तीक्ष्णत्वं ज्ञेयम् । किञ्च, निरुक्तरीत्या जातविद्यो जातप्रज्ञानो वा जातवेदा भवति । न च तादृशोऽग्निस्त्वयाभिप्रेयते, त्वद्रीत्या घृतादिप्रक्षेपाधिकरणस्याग्नेर्जडत्वात् । ' तं त्वा समिद्भिरङ्गिर इति समिद्धिर्ह्येतदङ्गिरस ऐन्धताङ्गिर इत्यङ्गिरा उ ह्यग्निर्घृतेन वर्धयामसीति तत्सामिधेनं पद ७ समेवैनं तेनेन्धे वीर्यमेवास्मिन् दधाति ( ० १ ४ १२५ ) । तृतीया सामिधेनीरूपेयमृक् । तामनूद्य व्याचष्टे श्रुतिः - समिद्भिर्ह्येत मग्निमङ्गिरसो महर्षय ऐन्धन्त समिद्धमकुर्वन् । तस्मादग्निरपि अङ्ग इति सम्बोद्धयते । तदेतन्नामाग्नेः प्रसिद्धमित्याह - ' अङ्गिरा उाग्निः इतरे येऽङ्गारा आसंस्तेऽ-ङ्गिरसोऽभवन् ' ( ऐ ० ब्रा ० ६ १५१८० ९ ) इति श्रुतेः । अङ्गिरसामङ्गारपरिणामरूपत्वादङ्गिरसशब्दाभिधेयता । अग्निरप्यङ्गाररूप इति युक्तं तस्याङ्गिरसत्वमित्यर्थः । घृतेन वर्धयामसि वर्धयामहि । वर्धयामसीति सामिधेनं पदं घृतेनैनं समिन्धे तेनास्मिन् सामिवेनपदे वीर्यमेव दधाति । ' बृहच्छोचा यविष्ठयेति । बृहदु ह्येष शोचति समिद्धो यविष्ठयेति । यविष्ठो ह्यग्निस्तस्मादाह यविष्ठयेति संषैतममेव लोकमभ्यनुक्तान्तरिक्षलोकमेव तस्मादाग्नेयो सत्यनिरुक्ता निरुक्तो ह्येष लोक एतमेतमवैतया लोकं जयति यस्यैवं विदुष एतामन्वाहुः ' ( श ० १ | ४ | १ | २६ ) | यविष्ठो युक्तमो नित्यं तरुणः, अजरामरत्वात् 1 । बृहदु ह्येष शोचति दीप्यते समिद्धः अस्या ऋचोऽनुवचनमन्तरिक्षलोकगमन हेतुत्वेन प्रशंसति | सामान्योक्तं विवृणोति 1 ऋचोऽन्तरिक्षलोकस्य च निरुक्तत्वेन साम्यमाह - तस्मादिति । दयानन्दस्तु - ' तं भौतिकमग्नि त्वा य इति व्यत्ययः । समिद्भिः काष्ठादिभिरङ्गति प्रापयति यः सोऽङ्गिरा: । ' अङ्गारेष्वङ्गिरा अङ्गारा अङ्कना अचना: ' ( नि ० ३ १७ ) । पूर्वोक्तेन घृतेन वर्धयामसि वर्धयामः । बृहत् महत् यथा स्यात्तथा शोच तिष्ठ । शोचति प्रकाशते व्यत्ययः । योऽतिशयेन युवा पदार्थानामभिश्रीकरणे बलवान् स यविष्ठः । यविष्ठ एव यविष्ठय: ' ( पृ ० २३० ) इत्याह तदपि यत्किञ्चित्, विप्रतिषिद्धत्वात् । यः काष्ठादिभिभौतिकमग्निमङ्गति प्रापयति सोऽङ्गिराः प्रसिद्धयति । पूर्वोक्तशतपथश्रुत्या ऋषिविशेषा अङ्गिरसोऽभवन् । तैः समिद्धत्वादग्निरपि तच्छब्दाभिधेयत्वेन प्रसिद्धः । ' अङ्गारा अङ्कना अना: ' इति निरुक्तेनापि न त्वदभीष्टसिद्धिः । प्रजापतिना किल शुक्रमात्मीयमादायाग्नी हुतम् । ततोऽचिषि ज्वालायां भृगुर्नाम महर्षिः सम्बभूव । व्यपगतेऽचिषि योऽङ्गारेषु सम्बभूव सोऽङ्गिरानामाऽभवत् । अङ्गारा अङ्कनाः । ते हि यत्र निधीयन्ते तदङ्कितं भवति, अञ्चनाः पूजावन्तश्च भवन्ति, अप्रधृष्यत्वात् I अध्यात्मपक्षे तु हे अग्ने ब्रह्माकारवृत्त्यभिव्यक्त्या सर्वप्रपञ्चदाहक! तं पूर्वोक्तं त्वा त्वां समिद्भिः श्रवण - मनन - निदिध्यासनैः " घृतेन घृतगन्ध्यनुरागंण च वर्धयामसि वर्धयामः । ब्रह्म नास्ति न भातीत्यावरण-द्वयापनोदनेन प्रत्यक् चैतन्याभिन्नानन्तानन्दब्रह्मात्मभावप्रादुर्भावनेन च वर्धयामः । हे यविष्ठ्य हे युवतम नित्यं नवनवायमान तथाविधब्रह्माग्ने! महत्प्रवृद्धं यथा स्यात् तथा शोच दीप्यस्व । यद्यप्यवेद्यत्वे सति साक्षाद-क्षत्रिय, वैश्य अथवा आत्मा, प्रजा और पशु- ये सब मेरे अधीन हों । देवताओं के यज्ञ के लिये साधनीभूत हे पृथ्वी! तुम्हारी पृष्ठ पर हुत अन्न का भक्षण करने वाले गार्हपत्यादि अग्नियों की मैं स्थापना करता हूँ । उस कारण मुझे भक्ष्य
पृष्ठ 128
पाठ पढ़ें पाठ छिपाएँ
११८ शुक्लयजुर्वेदसंहिता [ अ ०३ परोक्षत्वात् स्वप्रकाशत्वेन निरतिशयितप्रकाशरूप एवासि त्वम्, तथापि श्रवणादिभिस्तत्तदुपाधिनिराकरणजनिता-तिशयितप्रकाशवान् भव । यत्तु -- ' स्वपत्न्या कृतपरामर्शनेन सन्दीपनिना गुरुदक्षिणारूपेण मृतं स्वपुत्रमानेतुमादिष्टो वर्तते सपदि प्रत्यावर्तनीयः भगवान् कृष्णः । संयमनी पुरीमगच्छत् । कृताभ्यर्चनं यमं भगवानूचे - दण्डपाणे त्वन्नगरे गुरुपुत्रो अहमस्मि । शिरो निधाय भगवन्नि-तं गुरुदक्षिणात्मना गुरवे निवेद्य गुरोर्निदेशाद् यदुराजधानीं मधुपुरीं गन्तुमना मृतगुरुपुत्रस्य देशं गुरुपुत्रं यमः सहर्षं ददौ । भोगायतनं स्थूलं मनुष्यशरीरमन्तरा भूमिमागन्तुमक्षमाय तस्य सार्धं भूमिं गन्तु-जीवात्मनः स्थूलशरीरं मानवभोगोचितं प्रयच्छन् यमो ब्रूते - हे अङ्गिरः! गतिमन् त्वां इतो समिद्भिः मया प्राणः, ' प्राणा मुत्सुक हे मृतगुरुपुत्र जीवात्मन्! तं समुद्रे निमग्नं त्यक्तस्थूलशरीरं यमालयमागतं अन्तःकरणेन मनोबुद्धिलक्षणेन वै समिध: ' इति श्रुतेः । प्राणः कर्मेन्द्रियाणामुपलक्षकः । घृतेन प्रकाशेन तद्धर्मकेण तेनेति यावत्, ज्ञानेन्द्रियसहितेन सप्तदशतत्त्वात्मक लिङ्गशरीरेण लक्षणया तदधिष्ठानं यद् भोगाहं स्थूलं शरीरं ' । भोगाक्षमाय जीवाय भोगायतनस्थूलशरीर प्रदानमेवात्र वर्धयामसि वर्धयामः । ' धृ क्षरणदीप्त्योः दीप्यस्व, वर्धनम् । यविष्ठ्य युवतम अतितरुण गुरुतनय जीवात्मन्! बृहत् यथा स्यात्तथा शोचा अतिशयेन मत्सङ्कल्पनिर्मितनितान्त सुन्दराभिनवकलेवरलाभादिति भावः । शोकवचनोऽपि शुचिरत्र दीप्त्यर्थः एव, ' तथापि इति, अत्रेदं वक्तव्यम् – यद्यप्ययमर्थो दयानन्दीयव्याख्यानवदेव कल्पनाबहुलो गौणार्थी बलात्कृत बलात्कारेण योजयितुं शक्याः, परं भगवत्कथापर्यवसायित्वात् सोढव्य एव । ईदृशा एतद्विपरीताश्चानेकेऽर्था निष्प्रमाणा एव ते । किञ्च भगवता कृष्णेन तस्मै भोगायतनं शरीरं दत्तमिति न मानान्तरसिद्धम्, पुराणा- । दिष्वस्मरणात् । नाप्येतन्मन्त्रसिद्धम्, मन्त्रे तादृशपदाभावात् । अङ्गिरः पदस्याग्निरूपोऽर्थस्तु निर्मूल शतपथश्रुतिसिद्धः एव । ईदृशेन ' इतो मया सार्धं भूमिं गन्तुमुत्सुक हे मृतगुरुपुत्र जीवात्मन् ' इत्यङ्गिर- पदस्यार्थस्तु सर्वथा । समिद्भिः व्याख्यानस्वातन्त्र्येणैव धर्मकीर्तिः - ' अग्निहोत्रं जुहुयात् ' इत्यस्य श्वमांसं भक्षयेदित्यर्थं करोति प्राणः । अत्र समित्पदस्य प्राणो लाक्षणिकोऽर्थः । प्राणेन कर्मन्द्रियाणामुपलक्षणम्, घृतशब्देन मन्त्रे प्रकाशधर्मकमन्तः- किं बीजमिति करणम्, तेन च ज्ञानेन्द्रियसहितं लिङ्गशरीरं लक्षितम्, तेनापि स्थूलशरीरं बोध्यत कथं इत्यस्मिन्नर्थे सम्भवति? वक्तव्यम् । अशरीरस्य यविष्ठ्य अतितरुण गुरुतनय जीवात्मन्! इति सम्बोधनं ' स यद्वा इतश्चेतश्च सम्भरति तत्सम्भाराणां सम्भारत्वं यत्र यत्राग्ने न्यक्तं ततस्तः सम्भरति ' ( ० २ | १ | १ | १ ) | निवपनोल्लेख नाभ्युक्षणसंस्कृतेषु गार्हपत्याद्यायतनेषु उदकहिरण्योषाखुकरीषशर्करासम्भारा भ्रियन्ते । तदुक्तं कात्यायनेनापि - ' स्थान मुल्लिख्याभ्युक्ष्यान्वारब्धे हिरण्यं निधायाखूत्करान्निवपत्यन्तेषु शर्करा ' ( का ० श्री ० ४।२।१० ) । अग्नेः सम्बन्धि निलीनं तेजः, अध्वर्युरुदक हिरण्यादिद्रव्यजाता देकदेशमाहृत्य सम्भरति समूहीकरोति । ' अथोल्लिखति । तद्यदेवास्य पृथिव्या अभिष्ठितं वाभिष्ठतं वा तदेवास्य यत् एतदुद्धन्त्यथ अभिष्ठितं यज्ञियायामेव पृथिव्यामाधत्ते तस्मादुल्लिखति ' ( श ० २०११ २ ) । अस्याः पृथिव्याः सम्बन्धि अथाद्भिरभ्युक्षति ' उपर्यंवस्थानेन पादस्पर्शादिजनितं अभिष्ठ्यूतं निष्ठीवनादिजनितं तदेवास्या उल्लेख नेनोद्धन्ति । ' विधत्ते - अथाद्भिरिति । ' अथ हिरण्यं सम्भरति ' ( श ० २ | १ | १ | ३ ) इत्युल्लिखितानामायतनानामभ्युक्षणं ' ( श ० २ | १ | १ | ७ ), ' अथ ( श ० २ | १ | १ | ), ' अथोषान् सम्भरति ' ( श ० २ | १ | १ | ), ' अथाखुकरीषं सम्भरति प्रकार अनेक नक्षत्रों से और भोज्य अन्न प्राप्त होता रहे । तुम्हारी पीठ पर अग्नि की स्थापना करके द्युलोक जिस जैसे समस्त प्राणियों को विशिष्ट है, उसी प्रकार मैं अनेक पुत्र, पशु आदि से युक्त होऊँ । विस्तृत ५ ॥ होने से पृथ्वी आश्रय देती है, वैसे ही मैं सम्पूर्ण प्राणियों को आश्रय देने वाला बन पाऊँ ॥
पृष्ठ 129
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ५ ] वेदार्थपारिजातभाष्यसहिता ११ ९ शर्कराः सम्भरति ' ( श ० २ १ १ ८ ) । यशः पशु मिथुनेषु विकीर्णमाग्नेयं तेज उदकादिभिराहवनीयादी सम्रियते । अपां स्त्रीलिङ्गत्वादग्नेश्च पुल्लिङ्गत्वादुभयं मिलितमेकं मिथुनं भवति । तच्च पुत्रपौत्रादि-प्रजनन हेतुरित्येनमग्नि समर्धयति । अग्नेश्वाद्भिमिथुनीभावेन हिरण्यस्योत्पत्तिरुक्ता यस्मादग्निवीर्यं हिरण्यात्मना परिणतं तस्माद्धिरण्यमग्निसंकाशं भवति । यस्माच्चाप्सु निषिक्तं तस्माद्धिरण्यमप्सु विन्दन्ति । तस्मादेनेन दन्तान् न धावयेत् । अन्यदपि हीनं कर्म न कुर्यात् । ' अथ यशो देवरेतस ७ हि तद्यशसंवैन ९ समर्धयति ' ( ० १ | १ | १ | ५ ) | यस्माद्धिरण्यं देवरेतसं देवस्याग्नेर्वीयं तस्माद्यशोरूपम् । तस्माद्धिरण्यसम्भरणेन यशसैवैनमग्नि समृद्धं करोति । ऊषाणां पशुरूपत्वं तत्रैव षष्ठ्यां कण्डिकायामुक्तम् - पृथिव्यै द्युलोकेन पशवो दत्ताः । ऊषयुक्त-मूषरं स्थानं पशव्यं पशुभ्यो हितं भवति । पशवो हि तादृशं स्थानमासाद्य लिहन्ति । अतः पशुहितत्वात् पश्वात्मका एवैते ऊषा अत ऊषसम्भरणेन पशुभ्योऽन्निसम्भरणं भवति । आखुभिः खननेन बिलाद् बहिनीताः पांसवः करीषम् । तदेतत्प्रशंसति । यस्मादाखवः पृथिवीसंज्ञास्तस्मात् पृथिवीमध्येऽधः सञ्चरन्ति । पृथिव्या अन्तरधस्तात् समीपे चरन्ति । तत्रत्यरसास्वादनेन पीविष्ठा यत्र स्थाने गत्वा रसं विदुः, उपजीव्य बहिरुत्किरन्ति, तस्मादाखूत्करस्य पृथिवीरसत्वात् तेनैनमग्नि समर्धयति । मृन्मिश्रिताः सूक्ष्मपाषाणाः शर्कराः । तासां दाढर्घ-हेतुत्वेन ताभिरशिथिलायामग्नीन् आदधते । ' दारुभिर्ज्वलन्तमादधाति भूर्भुव इति संभारेषु ' ( का ० श्री ० ४।९ ।११ ), ' भूर्भुव: स्वरिति पूर्ववदिति च ' ( का ० श्री ० सू ० ४।९ ।१६ ) इति कात्यायनसूत्रानुसारेण आपो हिरण्यमूषाखूत्करशर्कराश्चेति पञ्चसम्भारान् सम्पाद्य स्पयेनोल्लिखितायां शुद्धायां भूमौ तान् संभारान् संस्थाप्य तेषु शुष्ककाष्ठैर्ज्वलन्तमग्नि भूर्भुव: स्वरिति महाव्याहृतीरुच्चारयन्नादध्यात् । इदमाहवनीयाधानम् । एवमष्टाक्षरत्वादग्नेर्गायत्रत्वमुक्तम् श्रुत्या गायत्री -सहितस्याग्नेः प्रजापतिमुखादुत्पन्नत्वात् । एतेष्वाधानमन्त्रेषु भूर्भुवः स्वरिति तिस्रो महाव्याहृतयः । पृथिव्यन्तरिक्ष-लोक ब्रह्मक्षत्र वर्णा अन्नप्रजापशवश्च तासामर्थाः । एतासामुच्चारणपूर्वकमेव प्रजापतिना लोकत्रयस्य सृष्टत्वादेत मग्नि स्थापयन् लोकत्रयं स्मरेत् । ब्रह्मक्षत्रविशः, अन्नप्रजापशवश्च सर्वे स्वात्मवशगा भूयासुरिति प्रार्थयमानोऽग्नीनादध्यादित्यर्थः । इध्मपूर्वाधं गृहीत्वा यजमानो जपति – ' इध्मपूर्वाधं गृहीत्वा द्यौरिव भूम्ने-त्याहेति ' ( का ० श्र ० ४ / ९ / १७ ) इति कात्यायनेन सूचितत्वात् । देवा इज्यन्ते यस्यां सा देवजयनी पृथिवी, तत्सम्बुद्धी हे देवयजनि! देवपूजनादिशुभकर्मणामाधारभूते धरित्रि! तस्या देवयजनयोग्यायास्तव पृष्ठे तवोपरि अन्नादमन्नस्य हुतस्य हविषोऽत्तारं भक्षयितारमरिन गार्हपत्यादिरूपमग्निमादधे स्थापयामि । किमर्थम् - अन्नाद्याय । अत्तुं योग्यमद्यम्, अन्नं च तदद्यं च अन्नाद्यम्, तस्मै अत्तुं योग्यस्यान्नस्य प्राप्त्यर्थम् आहिताग्न्यादित्वात् परनिपातः । यद्वा - अद्यं भक्षणम्, अन्नस्याद्यं भक्षणमन्नाद्यं तस्मै अन्नाद्याय अन्नभक्षणाय तस्याः पृथिव्याः पृष्ठे अग्निमाधायाहं यजमानः, द्यौरिव भूम्ना यथा द्यौर्नक्षत्रबहुत्वेन बह्वी तथा पुत्रपश्वादिभिर्बहु भूयासम् । बहोर्भावो भूमा तेन भूम्ना वरिम्णा पृथिवीव भूयासम् । उरोर्भावो वरिमा यथा पृथिवी उरुत्वेन विस्तीर्णत्वेन सर्वप्राणिना-माधारभूता, एवमहं महत्त्वेन सर्वप्राणिनामाश्रयभूतो भूयासम् । यद्वा अग्नेविशेषणत्वेन ना द्यौरिवेत्यादिकं व्याख्येयम् । कीदृशमग्निम्? भूम्ना द्यामिव वर्तमानम् । यथा द्यौर्नक्षत्रादिबहुत्वेन युक्ता तथाग्निरपि गार्हपत्या-हवनीयदक्षिणाग्निसभ्यावासथ्यादिबहुत्वेन ज्वालाबहुत्वेन वा युक्तः । वरिम्णा पृथिवीमिवस्थितम्, यथा पृथिवी अध्यात्मपक्ष में- इस मन्त्र में तीनों व्याहृतियों के द्वारा परमात्मा को ही बताया गया है । सभी भोग्य
पृष्ठ 130
पाठ पढ़ें पाठ छिपाएँ
१२० शुक्लयजुर्वेदसंहिता | अ ० ३ सर्व प्राण्याश्रयत्वेन श्रेष्ठत्वोपेता, तथा सर्वशोधकत्वरूपेण श्रेष्ठत्वेनोपेतोऽग्निः " अग्नेः पावकाभिधानत्वात् । मन्त्रान्तरे चाग्निः शुचिव्रतमित्याम्नातम् । उप वेति चतुर्थमन्त्रस्याध्यात्मपक्षीयोऽर्थः हे ब्रह्माग्ने! हविष्मती: हविष्मत्यः त्वदीयप्रीतिहेतुस्तुति-रूपहविर्युक्ताः, घृताचीः घृताच्यः त्वदीयस्नेहोत्पादिकाः समिधस्त्वत्स्वरूपद्योतिका गिरः, त्वां प्रत्युपगच्छन्तु अर्यंत हे कान्तिमन् स्वप्रकाश सगुणरूपेण कोटिसूर्यसमप्रभ सर्वप्राणिपरप्रेमास्पदत्वेन हे सर्वकमनीय! मे मदीया इमाः समिधः मधुमती स्तुतीः प्रीत्या सेवस्व अङ्गीकुरु । मदीयाः स्निग्धा ज्ञानभक्तिरूपा वृत्तयस्त्वामुपयन्तु । त्वं च तासां रसास्वादनं कुरु । अत्र दयानन्दस्तु -- - ' हे मनुष्याः! यो हर्यंत प्रापक: कमनीयोऽग्निर्मम समिधो जुषस्व जुषते सेवते यथा स्वा तमेताः समिध उपयन्तु प्राप्नुवन्तु । तथास्मिन् यूयं हविष्मतीर्वृताचीः समिधः प्रतिदिनं संचिनुत ' ( पृ ० २३२ ) इत्याह तदपि यत्किञ्चित्, ' अग्ने ' इति प्रत्यक्षसम्बोधनमपहाय हे मनुष्या इति सम्बोधनाङ्गीकारेण व्याख्याने सर्वथा स्वातन्त्र्यबोधनात् । जुषत इति व्यत्ययाश्रयणमपि निर्मूलमेव । तमेताः समिधो यन्तु तयास्मिन् यूयं हविष्मती घृताचीः प्रतिदिनं संचिनुतेति च निर्मूलमेव संचिनुतेति क्रियापदस्य मूलेऽभावात् । एतेन ' हे आत्माग्ने हविष्मतीः मनोवृत्तियुक्ताः घृताचीः घृताच्यो ज्ञानेन्द्रियसत्वयुक्ताः प्राणास्त्वामुपयन्तु प्रत्युपगच्छन्तु ' इत्ययमप्यर्थः स्वारस्यहीनो ज्ञातव्यः, स्वीकृतायामपि क्लिष्ट कल्पनायां वैरस्यात्, जीवात्मना -मविद्यादशायां कर्मवशात् प्राणादिसम्बन्धस्य स्वाभाविकत्वेनानभ्यर्थनीयत्वात् । ' हः चन्द्रः, तया योक्तृयोग्ययोरुप-योगेन तद् अमृतस्वरूपम् ' इत्यादिकं त्वशुद्धमेव भोक्तृभोग्ययोरग्नीषोमयोर्योगेन जन्यं तु नामृतं सम्भवति, आगमापायित्वात् । ' भगवता समानीतं प्रदीप्तकायं स्वचरणयोः प्रणिपातं कुर्वाणं दर्श दशं सञ्जातप्रसादः सन्दीपनिर्भगवन्त-माशास्ते हे अग्ने जगद्भक्षकस्य कृतान्तस्यापि विजेत:! अद्यावधि केनापि कश्चिद्यमालयान्न प्रत्यावर्तितः I । त्वं च स्वतेजसा तं पराजित्य ममात्मजं समानीतवानिति तवातितेजस्वित्वे को विप्रतिपद्येत ' इत्यादि वस्तुदृष्ट्या सत्यमपि नास्य मन्त्रस्य व्याख्यारूढं भवितुमर्हति अपदार्थत्वात् । हर्यंत उत्तरोत्तरां प्रगतिमासादन्नित्यपि न सम्भवति, भगवति तस्य निरतिशयैश्वर्यवत्त्वेनोत्तरोत्तर प्रगत्ययोगात् । ' हर्य गतिकान्त्योः ' इति धात्वर्था-सङ्गते । हविष्मती: हविष्मत्यः प्रशस्त हविर्दाना दिवैदिककृत्योपदेशयुक्ताः, दर्शपूर्णमासाग्निचयनादिकर्मप्रधाना विद्या न केवलं किन्तु घृताचीः घृताच्यः, घृतं प्रकाश आत्मदर्शनं तद " आत्मविद्या मम मदीयाः समिधः समीचीनाः त्वा त्वाम् उपयन्तु उपगच्छन्तु ' इत्यप्यविचारितरमणीयम्, आत्मदर्शनात्मविद्ययोर्भेदाभावेन स्वेनैव स्वात्मत्वायोगात्, समिध इत्यस्य नैरर्थक्याच्च । किञ्च दर्शपूर्णमासादिकप्रधाना विद्याः कथं हविष्मत्यः सम्भवन्ति? अन्यत्तु अल्पज्ञजनव्यामोहनाय वागाडम्बरमात्रम् । सर्वत्रैवेशेष्वर्थेषु मुख्यार्थत्यागगौणार्थकल्पनया वेदार्थविभ्रंश एव । भूर्भुव: स्वरिति ( ३३५ ) मन्त्रः | तत्राध्यात्मपक्षीयोऽर्थो यथा -- ' सर्वे वेदा यत्पदमामनन्ति ' इति रीत्या सर्वे वेदाः साक्षात् परम्परया च परमात्मपर्यवसायिनो भवन्तीति परमात्मैवात्र तिसृभिर्व्याहृतिभिर्बोध्यते । वस्तुओं को उस परमात्मा के लिये ही अर्पण करना है । इस प्रकार भक्ति का उद्रेक होने पर प्रेम स्पर्शवशात् परमात्मा भक्त के अधीन हो जाते हैं और भक्त स्वाधीन हो जाता है ।