वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 131–140

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 131–140

पृष्ठ 131

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 131 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ५ ] वेदार्थपारिजात माष्यसहिता १२१ भवति सर्वं जगदस्मादिति भूः जगदुत्पादकः । भूत्वा वसति सर्वं जगत् यस्मिन् स भुवः सर्वस्थितिहेतुः । स्वरति लयं गच्छति यस्मिन् स स्वः । जगदुत्पत्तिस्थितिलयकारणभूत हे परमात्मन्! त्वं भूम्ना नक्षत्रादि-बाहुल्येन द्यौरिव वा भूम्ना अचिन्त्यानन्तकल्याणगुणबाहुल्येन युक्तोऽसि । पृथिवीव वरिम्णा महत्त्वेन सर्वप्राणिनामाश्रयभूतोऽसि । देवा इन्द्रादयः, देवो विष्णुश्चेज्यन्ते यस्यां सा देवयजनी तत्सम्बुद्धौ हे देवयजनि पृथिवि हे धरित्रि! तस्या विष्णुपादभूतायाः, ' पद्भ्यां भूमिः ' इति मन्त्रवर्णात् । ' पादौ महीयं स्वकृतव यस्य चतुर्विधो यत्र हि भूतसर्गः ' इति श्रीमद्भागवतवचनाच्च । तव पृष्ठे अन्नादम् अन्नं भोग्यं सर्वरसरूपत्वाद ब्रह्म तदत्ति भुङ्क्ते इत्यन्नादो ब्रह्मविद्वरिष्ठस्तमग्नि ब्रह्मज्ञानेन सर्वकर्मतत्फलादिप्रपञ्चदाहकम्, अन्नाद्याय अन्येषामपि ब्रह्मसुखसम्भोगाय आदधे जगति तत्परम्परां स्थापयामीत्यर्थः । सर्वेश्वरो भगवानेव परमः स्वतन्त्रः, जीवास्तु तदधीनाः । एवं भगवतः स्वातन्त्र्यं पुंस्त्वम्, पारतन्त्र्यमेव जीवानां स्त्रीत्वम् । प्रथमं साधकाः सर्वभोक्तारं सर्वाधिष्ठानरूपं सर्वशेषिणं भगवन्तं प्रति स्वं भोग्यत्वेनान्नरूपेणोपस्थाप्य समर्पयन्ति । तदीयकायच्छायत्वेन तदधीनस्थितिगतिप्रवृत्तित्वेन तच्छेषत्वेन तदधीनतां स्वस्य भावयन्ति । निष्ठापरिपाके सति सर्वगुणालया भवन्ति, ' यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वेगुणस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुणाः ( भा ० पु ० ५।१८।१२ ) इत्युक्तेः । ततो भक्त्युके सति प्रेमस्पर्शवशाद् भगवान् भक्तपराधीन भवति, भक्तश्च स्वाधीनो भवति । ' साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् । मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि ॥ ' ( भा ० पु ० ९ ४ ६८ ), ' वशे कुर्वन्ति मां नित्यं सत्स्त्रियः सत्पतिं यथा ' ( भा ० पु ० ९ | ४ | ६६ ) | शृङ्गारे वैपरीत्यमिव भगवान् भोग्यो भवति । भक्तश्च भोक्ता भवति । अत एव जीवः पूर्वं भोग्यत्वेनान्नं भवति, पश्चादन्नादो भवति । परमरसमयस्य भगवद्रूपस्यान्नस्य भोक्तृत्वाद् ब्रह्मविद्वरिष्ठोऽन्नादो भवति, ' आत्मरतिः, आत्मक्रीडः, आत्ममिथुनः ' इत्यादिश्रुतिभ्यः । अत्र दयानन्दः - ' अहमन्नाद्याय भूम्ना विभुना द्यौरिव वरिम्णा श्रेष्ठगुणसमूहेन पृथिवीव तेऽस्याः प्रत्यक्षायास्तस्या अप्रत्यक्षाया अन्तरिक्षलोकस्थाया देवयजनि देवयजन्याः पृथिवि पृथिव्याः पृष्ठे पृष्ठोपरि भूर्भुवःस्वर्लोकान्तर्गतमन्नादमग्निमादधे स्थापयामि ' ( पृ ० २३४ ) इति, तदपि यत्किञ्चित् निराधारत्वात् । यतो भूम्ना विभुना इति व्याख्यानं प्रमाणसापेक्षम्, तथैते इत्यस्य अस्याः प्रत्यक्षायास्तस्या अप्रत्यक्षाया इत्यर्थोऽपि निर्मूलः । तादृशव्यत्यासाङ्गीकारे नास्तिकवादस्यापि मन्त्राक्षरैः साधयितुं शक्यत्वात् । सम्बोधनरूपस्य देवयजनिशब्दस्य षष्ठ्यन्तेन विपरिणामोऽपि निर्मूल एव । हिन्दीव्याख्याने तु - ' अहं भक्षणयोग्याय अन्नाय ऐश्वर्येण आकाशे सूर्यमिव उत्तमगुणैविस्तृतभूमितुल्यं ते अस्याः प्रत्यक्षायाः ते तस्या आकाशयुक्तलोकस्थाया अप्रत्यक्षाया वा देवयजन्या भूमेः पृष्ठोपरि भूम्यन्तरिक्षसूर्यलोकेषु अन्नादं यवान्नादिभक्षकमग्नि स्थापयामि ' इति, तत्रेदं पृष्टो व्याचष्टाम् - भूर्भुवःस्वरिति पदैस्तत्रत्योऽग्निः कथं बोध्यते? अन्तरिक्षलोकस्था पृथिवी भवति, तत्र चाग्निस्थापनं कथं केन क्रियते? यदि भूरादिष्वग्नेः स्थापनमिष्टं तदा प्रत्यक्षाया अप्रत्यक्षायाश्च भूमेः पृष्ठ इत्याद्युक्तिर्व्यर्थेव स्यात् । किव को वाऽनेनार्थः सिद्ध्यति? कश्चाभिप्रायः? इति तु सामाजिका एवं जानन्तु । एवं व्यत्ययबाहुल्याङ्गीकारेऽपि न किचित् सिद्धयति । हे मनुष्याः! यूयमीश्वरेण रचित-त्रैलोक्योपकारकं स्वव्याप्त्या सूर्यप्रकाशसदृशं श्रेष्ठैर्गुणैः पृथिवीसमानं स्वस्वलोके सन्निहितमिममग्नि कार्यंसिद्धघथं प्रयत्नेनोपयोजयतेति भावार्थोऽपि तथाविध एव । स्वामी दयानन्द ने निराधार ही व्याख्या की है । व्यत्यास का आश्रय कर नास्तिकवाद को भी सूचित किया १६

पृष्ठ 132

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 132 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२२ शुक्लयजुर्वेदसंहिता [ अ ० ३ शतपथे तु ' भूरिति वै प्रजापतिरिमामजनयत, भुव इत्यन्तरिक्षम्, स्वरिति दिवमेतावद्वा इद १७ सर्वं यावदिमे लोकाः सर्वेणैवाधीयते ' ( श ० २ | १ | ४ | ११ ) । अत्र व्याहृतीनां सत्यरूपत्वोपपत्तिपूर्वकं प्रशंसनम् । सृष्टिसमये प्रजापतिरिति व्याहृत्य इमां भूमिमजनयत् । भुव इत्यनयाऽन्तरिक्षम् । स्वरिति दिवम् । ' भूरिति ब्रह्म । भुव इति क्षत्रम् | स्वरिति विशम् ' ( श ० २ | १ | ४ | १२ ), ' भूरित्यात्मानम् । भुव इति प्रजाः । स्वरिति पशून् ' ( श ० २ | १ | ४ | १३ ) | एवं साधारण्येन व्याहृतीनामाधान साधनत्वमुक्त्वा गार्हपत्याधाने – ' सवै भूर्भुव इत्येतावतैव गार्हपत्यमादधाति ' इत्युक्त्वा तिसृभिर्व्याहृतिभिर्गार्हपत्याधाने आहवनीयाधानस्य मन्त्रो । तैः न स्यादत: सुवरिति द्वे अक्षरे परिशेषयेत् । तेन परिशिष्टाक्षरद्वयसहितानि भूरादीन्ययातयामानि भवन्ति । पञ्चभिराहवनीयमादधाति । ' भूर्भुवः स्वरिति तान्यष्टाक्षराणि सम्पद्यन्ते । अष्टाक्षरा वै गायत्री | गायत्रमग्नेश्छन्दः स्वेनैवैनमेतच्छन्दसाधत्ते ' ( श ० २ | १ | ४ | १४ ) । भूर्भुव इति त्र्यक्षरंगर्हिपत्यस्य भूर्भुवः सुवरिति पञ्चाक्षरं -राहवनीयस्याधानादग्नेरष्टाक्षरत्वं सम्पद्यत इत्यर्थः । ' त्रिभिरक्षरै गर्हपत्यमादधाति पञ्चभिराहवनीयम् । अष्ट सम्पद्यन्ते ' इति तित्तिरिश्रुतेः । तत्राग्निमन्यनसमये पूर्ववाट: प्रथमवयस्कस्याश्वस्य पुरस्ताद्धारणं तदभावेऽनडुहो धारणमुक्तं ( १६ - १७ ) कण्डिकयोः । आहवनीयदेशं प्रत्यग्नेर्हरणसमयेऽश्वस्यापि पुरस्तान्निधानं विहितम् । ' तं यत्र प्राश्च हरन्ति तत्पुरस्तादश्वं नयन्ति ' ( श ० २ | १ | ४ | १८ ) । ततोऽग्नेर्यज्ञरूपत्वेन प्रत्यगावर्तनं प्रतिपाद्य प्राणात्मकत्वेन दक्षिण-प्रत्यङ्ङाभिमुख्येनोपवर्तनमुक्तम् । वाय्वात्मकमग्नि प्राणरूपतया स्तुत्वा आहवनीयायतने सम्भारान्निधाय पूर्वपादेनाश्वं प्राञ्चं नोत्वा तं पुनरावर्तयति आवृत्य स्थापयति, अनन्तरं तमश्वम् उदञ्चम् उदङ्मुखं प्रमुञ्चति । तदुक्तं कात्यायनेन -- ' सम्भारानधिष्ठाय दक्षिणपूर्वपादेन प्राञ्चं नीत्वाऽऽवर्त्य स्थापयति ' ( का ० श्र ० ४ ९ | १० ) । पुनरावर्तनस्य प्रयोजनमाह - नेदस्मादिदं पराग्वीर्यमसदिति तस्मात् पुनरावर्तयति ' ( श ० २ | १ | ४ | २३ ) । अश्वलक्षणं यद्वीर्यं नेत् नैव अस्मात्तराग्भूतं भवेदित्यभिप्रायेण तस्याश्वस्य पुनरावर्तनं कार्यम् । ' तमश्वस्य पद आधत्ते । वीर्यं वा अश्वो वीर्यं एवैनमेतदाधत्ते । तस्मादश्वस्य पद आधत्ते ' ( श ० २ | १ | ४ | २४ ) । तत्र प्रथममश्वस्य पदमग्निना तूष्णीमुपस्पृशति । तमग्निमुद्यम्य पुनरप्युपस्पृशति । एवं द्विरुपस्पृश्य तृतीयेनोपस्पर्शनेन । कात्यायनेनापि व्याहृतिभि स्तमग्नि तस्मिन् पदे स्थापयति । तत्र पक्षान्तरमपि ( २६-२७ ) कण्डिकयोरुपन्यस्तम् ) । ' अग्निना पदं द्विरुपस्पृश्य तृतीयेनादधाति द्वितीयेन प्रथमेन वा भूर्भुवः स्वरिति ' ( का ० श्री ० ४।९ ।११ ' अथ पुरस्तात् परोत्य पूर्वार्धमुल्मुकानामभिपद्य जपति द्यौरिव भूम्ना पृथिवीव वरिम्ह्णेति यथासौ द्यौर्बह्वी नक्षत्रैरेवं बहुर्भूयासमित्येवैतदाह । यदाह द्यौरिव भूम्ना पृथिवीव वरिम्णेति । यथेयं पृथिव्युर्येवमुरुर्भूयास- इत्यन्नादोऽग्नि-मित्येवैतदाह तस्यास्ते पृथिवी देवयजन पृष्ठ इत्यस्यै ह्येनं पृष्ठ आधत्तेऽग्निमन्नादमन्नाद्यायादध २ | १ | ४ | २८ ) । रन्नादो भूयासमित्येवैतदाह संषाशीरेव स यदि कामयेत जपेदेतद्य उ कामयेतापि नाद्रियेत ' ( श । ० मन्त्रतात्पर्यमाह-आहितस्याग्नेः पूर्वभागस्थमुल्मुकमन्वारभ्य द्यौरिवेति मन्त्रस्य जपं विधत्ते - अथ पुरस्तादिति नेत बहुभिर्नक्षत्रेर्यथासौ द्यौर्बह्वो बहुत्वोपेता, एवमहमपि पुत्रपौत्रादिबहुत्वेन बहुर्भुयासमिति वरिम्णा द्यौरिव उरुत्वेन भागस्यार्थः । पृथिवीत्यादिकमनूद्य तात्पर्यमाह - यथेति । यथेयमुर्वी विस्तीर्णा एवमहमपि तत्र सुविस्तीर्णो भूयासमिति । भागान्तरमनूद्य व्याचष्टे तस्थास्त इति । उरुत्वं प्रत्युपमानभूतायास्तस्यास्ते आहवनीयादि-पृष्ठे उपरिभागे अग्निमादधे इति सम्बन्धः । अन्तिमं भागमनूद्य व्याचष्टे --- अग्निमन्नादमिति । के विरुद्ध होने है । ' देवयजनि ' इस सम्बोधन का षष्ठी विभक्ति में विपरिणाम कर दिया है, जो निर्मूल है । शतपथ से दयानन्दीय व्याख्यान उचित नहीं है ।

पृष्ठ 133

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 133 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्र: ५ ] वेदार्थपारिजातभाष्य सहिता १२३ रूपेण जाठररूपेण च हविर्लक्षणं तद्विलक्षणं च सर्वमन्नमत्तीत्यन्नादोऽग्निः । एवमन्तादशब्देनाग्नेविशेषणादह-मप्यन्नादो भूयासमिति तात्पर्यम् । एषा मन्त्रात्मिका आशीः फलप्रार्थनमेव, अतः सत्यां कामनायां मन्त्रजपः । कामनाभावे तु नाद्रियेत जपमपि । इति शतपथीयं व्याख्यानं न मनागपि स्पृशति दयानन्दीयं व्याख्यानम् । --यत्तु - ' या त्वं भूम्ना ज्योतिर्बाहुल्येन द्यौरिव स्वर्गतुल्या वरिम्णा उरुत्वेन पृथिवीव तथा भूर्भुवःस्वरिति त्रैलोक्यरूपासि । हे देवयजनि! देवो विष्णुरिज्यते यस्यां सा देवयजनी तत्सम्बुद्धी । पृथिवि हार्दभूमे! तस्यास्ते पृष्ठे उपरि अन्नादं हुतस्यात्तारमात्माग्निमन्नाद्याय प्राणेन्द्रियरूपस्यान्नस्याद्याय भक्षणाय प्रत्याहारद्वारा त्वयि योजनाय वशीकरणाय वा आदधें ध्यानेन स्थापयामि ' इति, तदप्यविचारितरमणीयम्, हार्दभूमेस्तथात्वे मानाभावात् । पुण्डरीकाकारस्य मांसपिण्डस्य तत्स्थाया बुद्धेर्वा बुद्धयभिव्यक्तस्य ब्रह्मणो वा हार्दभूमिपदेन ग्रहणं कर्तुं शक्यम् । तत्र नान्त्यः पक्षः संभवति, तस्य तत्रोपास्यत्वेन वर्ण्यमानत्वात् । नाद्यौ तयोः परिच्छिन्नत्वेन त्रैलोक्यरूपत्वासम्भवात् । तत्र बुद्धौ नान्नादो ध्येयस्तस्य भोक्तुर्जीवत्वेन ध्यातृत्वात् । ध्येयस्तु परमात्मा यो ' अनश्नन्नन्योऽभिचाकशीति ' इति प्रतिपाद्यः । एवं ' स्वसुते नरकासुरे निहते स्वपौत्रस्य भगदत्तस्यानिष्टमाशङ्कमाना त्रस्तहृदया पृथिवी भगवन्तं कृष्णं स्तौति भूरिति ', अत्रार्थे मूलं चिन्त्यम् । 'ः स न सत्यः । भुवः भाते वसि पृषोदरादित्वात् साधुः । स्वप्रकाश-चिदात्मन् सुष्ठु शोभन कर्मानुष्ठानेनार्यते गम्यत इति स्वः सुखमानन्दः । मिरतिशयानन्दात्मन् ' इति तु न विरुद्धम्, व्याहृतीनां भगवति पर्यवसानस्याविरुद्धत्वात् । ' वसुधेव वरिम्णा महत्त्वेन युक्तोऽसि । सहिष्णुः बहुपरिवारो विशालहृदयश्च त्वमस्माकमपराधं क्षन्तुमर्हसि ' इति कृष्णस्य संबोध्यत्वे न विरुद्धमेतत्, तथापि तच्चिन्त्यमेव, मूलानुद्धरणात् । ' पृथिवि देवयजनि ' इति सम्बन्धनं यद्यपि निर्विवादम्, तथापि सम्बोधयिता विप्रतिपन्न एव । तेन मातुरनुहर्त्रा भाव्यम्, तावदास्तां देवानुग्रहः । अयं तु विश्ववन्द्याया देवराजमातुः कुण्डले, अपि च भूयसां भूभुजां कुमारिका अपजहारेत्यादिकम्, तथा तत्सुतेनेत्यादिकमपि वेदाक्षरबाह्यमेव । ' एष भगदत्तस्तव पौत्रस्तवानुरोधादुन्नते राजसिंहासनेऽग्नि तद्वत्तेजस्विनम्, अन्नादम् अन्नं पृथिवी तस्य भोक्तारं भूभुजं राजानम्, अन्नाद्याय चिरं विविधराज्यवैभवोपभोगाय आदधे यथाविधि राज्याभिषेकेणास्य जनपदस्य स्वामिनं शासकं करोमि ' इत्ययमर्थो यद्यपि दयानन्दीयव्याख्यानात् साधुतरस्तथापि तद्वदेव वेदाक्षराद् दूरमेव । ते पृष्ठे इत्यनयोः पदयोर्यथाश्रुतं सम्बन्धमपहाय तवानुरोधात् पृष्ठे पृष्ठवदुन्नते राज्यसिंहासन इत्यर्थकल्पनं श्रद्धातिरेकमूलकमेव । सिद्धान्तपक्षे तु श्रुतिसूत्रादिभिः संबोध्यसम्बोधयितृभेदो ज्ञायते । तदनुसारेणार्थभेदोऽपि युक्त एव । प्रकृते तु काल्पनिकमेव सर्वम् ॥ ५ ॥

आयं गौः पृश्निरक्रम॒दस॑दन्मा॒तरो॑ पु॒रः । पि॒तरो॑ च प्र॒यन्स्व॑ः ॥ ६ ॥

सार्पराज्ञ्या आर्षम् । गायत्र्यस्तृच आहवनीयाग्न्युपस्थाने विनियुक्ताः । ' आयं गौरिति चोपतिष्ठते सर्पराज्ञी भिर्दक्षिणाग्निमादधाति ' ( का ० श्र ० ४ ९ | १३ - १४ ) | आयं गौरित्यादीनां तिसृणामृचां सर्पराज्ञ्या किसी ने और भी व्याख्या की, किन्तु वह भी काल्पनिक होने से सिद्धान्त में ग्रहण करने योग्य नहीं है ॥ ३-५ ॥ मन्त्रार्थ - यज्ञसिद्धि के लिये भिन्न - भिन्न यजमानों के घर जाने वाले और लोहित, शुक्ल प्रभृति वर्णों की ज्वालाओं से युक्त अग्नि ने आहवनीय, गार्हपत्य और दक्षिणाग्नि के स्थानों पर आरोहण किया । पूर्व दिशा में आहवनीय-

पृष्ठ 134

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 134 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२४ शुक्लयजुर्वेद संहिता [ अ ०५ कद्र्वा दृष्टत्वात् सार्पराज्ञीति नामधेयम् । पृथिव्यभिमानिनी वा कद्रः सर्पराज्ञी, ताभिर्दक्षिणाग्निमादधातीति सूत्रार्थः । परापररूपेणाग्निरत्र स्तूयते । अयं दृश्यमानोऽग्निः, गौः गच्छतीति गोः । यज्ञनिष्पत्तये तत्तद्यजमान-गृहेषु गन्ता । पृश्निश्चित्रवर्णः । लोहित शुक्लकृष्णा दिबहुविधज्वालत्वात् स तथाविधोऽग्निः आसमन्ताद् आहवनीय-गार्हपत्य - दक्षिणाग्निस्थानेषु । अक्रमीत् पादविक्षेपं कृतवान् तदेव स्पष्टयति पुरः प्राच्यां सञ्चरन् दिशि मातरं पितरं पृथिवीम्, आसदद् आसीदत् प्राच्यामाहवनीयरूपेण प्राप्तः । तथा स्वः प्रयन् आदित्यरूपेण स्वर्गे द्यावापृथिव्योः द्युलोकमसदत् प्राप्तवान् । ‘ स्वः सूर्यः ' ( निघ ० १ | ४ | १ ) द्यौः पिता पृथिवी माता इत्यत्रापि मातापितृत्वोक्तिः । दयानन्दस्त्वनेन मन्त्रेण पृथिव्या भ्रमणं साधयति । तथा च तदक्षराणि - ' मनुष्यैर्यस्मात् जलाग्निनिमित्तो-प्रतिक्षणं भ्रमति, तस्मादहोरात्र शुक्ल-त्पन्नोऽयं भूगोलोऽन्तरिक्षे स्वकक्ष्यायामाकर्षणेन रक्षकस्य सूर्यस्याभितः कृष्णपक्षर्त्वयनादयः कालविभागाः क्रमशः सम्भवन्तीति वेद्यम् ' ( पृ ० २३७ - २३ ९ ) इति, तच्चासङ्गतमेव, मन्त्रस्यास्याहवनीयाग्न्युपस्थाने विनियुक्तत्वेन तद्विरोधात् । सूर्यसिद्धान्तादिरीत्या पृथिवी तु स्थिरैव । ' मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्ति ब्रह्मणो धारणात्मिकाम् ॥ ' ( सू ० सि ० १२1३२ ) अत्र भूमेः स्थितिरेवोक्ता न तु गतिः । यत्तु केनचित् ' भ्राम्यन्नवस्थितो भुगोल: ' इत्युक्तम्, तत्तु स्वकपोलकल्पितमेव तिष्ठतेर्गतिनिवृत्त्यर्थत्वात् । यत्तु -' सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम् । उपरिष्टाद् भगोलोऽयं ' ( सू ० सि ० १२ / ५५ ) इति पद्येन भूगोलस्य ) भ्रमणसाधनप्रयत्नस्तत्तुच्छम् भगोलशब्दस्य भूगोलार्थकत्वे मानाभावात् भगोलशब्देन ( नक्षत्रगोलस्य खगोलस्यैव विवक्षितत्वात् । भास्कराचार्योऽपि भुवनकोश निरूपणे - ' मरुच्चलो रचला स्वभावतः ' इत्याह । : " नान्याधारः " स्वशक्त्यैव वियति नियतं तिष्ठति । ' अचला ' ' स्थिरा ' इत्यमरकोषेऽपि भूमेः पिण्ड निर्वचनं ( २ १ १ ) | निघण्टुग्रन्थे पृथिव्या गौरिति नाम पठितम् । तथापि तत्र यास्केन न गच्छतीति कृतम्, किन्तु दूरं गता इत्यर्थः कृतः । गच्छतीति व्युत्पत्त्या गौरिति सूर्य इत्युक्तम् ( नि ० २।१४ ) । पृथिव्यर्थ के गोशब्दे गम्यतेऽथवा गम्यतेऽनयेति व्युत्पत्तिरुक्ता । वेदेऽपि - - ' अस्थात् पृथिवी ' ( अथर्ववेदसंहिता ६ | ४४ | १० ), ' ध्रुवा पृथिवी ' ( अ ० वे ० ६ ९९ | १ ), ' तस्थतु: ' ( द्यावापृथिव्यौ ), ( ऋ ० सं ० ४ | ५६ २ ), ' द्योश्च भूमिश्च तिष्ठतः ' ( ऋ ० सं ० २०१८/२ ) इत्यादिमन्त्रेषु पृथिव्याः स्थिरतैवोक्ता । यच्च ऋग्वेदभाष्यभूमिकायां व्याख्या कृता सा त्वशुद्धेव । यतो हि -आयं गौः पृश्निरक्रमीदिति मन्त्रस्य न पृथिवीदेवतेति कुत. पृथिवीपरत्वमस्य मन्त्रस्य? अजमेरीयतद्यन्त्रालयमुद्रितायां यजुः संहितायामग्निर्देवतोक्ता । तदीयायामृग्वेद-संहितायां सूर्यदेवतोक्ता । ' यस्य मन्त्रस्य या देवता तेन सैव स्तूयते ' ( नि ० ७ १ ) इति नैरुक्तप्रक्रियया नास्मिन् मन्त्रे पृथिवीवर्णनं सङ्गच्छते । किञ्च पृथिवीवाचको गोशब्दः स्त्रीलिङ्गः । तेनात्र ' अयं गौः ’ इति पुल्लिङ्गनिर्देशो न सम्भवति । भूगोलपरत्वेऽपि गोशब्दः पृथिवीवाचकः स्त्रीलिङ्ग एव भवति । प्रकृतमन्त्रे गोशब्दस्य विशेषणं पृश्निशब्दस्तस्मात् सूर्य एवार्थः । निरुक्ताच्च गोशब्दस्य सूर्य एवार्थः । तथाहि-' गौरादित्यो भवति, गच्छत्यन्तरिक्षे ' ( नि ० २।१४ ) । एवमेव पृश्निशब्दोऽपि सूर्यपर एव न पृथिव्यर्थकः, ' पृश्निरादित्यो भवति, प्राश्नुवते एनं वर्णा: ' ( नि ० २।४ ) इति निरुक्तात् । रूप से पृथिवी पर बैठा, तथंच आदित्य रूप से स्वर्ग में संचार करने वाला यह पितृभूत द्युलोक के प्रति भी प्राप्त हुआ । ' आयं गौः ' इत्यादि तीन मन्त्रों से आहवनीय का उपस्थान करे, तदन्तर दक्षिणाग्नि का आधान करे ॥ ६ ॥

पृष्ठ 135

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 135 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ६ ] वेदार्थपारिजातमाष्यसहिता १२५ यत्तु दयानन्देन ऋग्वेदादिभाष्यभूमिकायां गौरितिशब्दस्य विशेषणभूतमपि पृश्निशब्द प्रथमान्तं सन्तमपि द्वितीयान्तत्वेन विपरिणमय्य पृश्निमन्तरिक्षमाक्रमणं कुर्वन्नित्युक्तम्, तत्तु तस्य स्वाच्छन्द्यमेव, प्रमाणशून्यत्वात् । पुनश्च स्व: सूर्य पितरं पुरः पूर्वं सूर्यस्य परितो यातीति तेनैव प्रक्षिप्तमित्युक्तम् । तत्र पूर्वमित्यस्य परितः कथमर्थः? तेन तदीयो वेदार्थः श्रुतिबलात्कार एवेति मन्तव्यम् । वस्तुतस्तु पाश्चात्त्यमतमेव तेन वेदार्थत्वेन प्रख्यापितमिति वैदिकम्मन्याः सामाजिका विचारयन्तु । मन्त्रेऽस्मिन् गौरितिपदस्य पृथिव्यर्थकत्वे मातरं पितरं स्वरिति त्रीण्यपि पदान्यसम्बद्धानि स्युः । तस्मान्मातरं पृथिवीं पितरं ० वे ० १ | २८ | ४ ), ' भूमिर्माता " द्यौर्न लोकमित्यर्थ एव सङ्गतः, ' द्यौष्ट्वा पिता पृथिवी माता ' ( अ पिता ' ( अ ० वे ० ६।१२०१२ ), ' द्योष्पितः पृथिवि मात: ' ( अ ० वे ० ६।५११५ ), ' द्यौर्नः पिता माता पृथिवी ' ( अ ० दे ० ९ | १५ | १२ ) इत्यादिमन्त्रेभ्यः । तथा च गौर्गमनशीलः पृश्निः प्राष्टवर्णो व्याप्ततेजा अयं सूर्यः, अक्रमीत् आक्रान्तवान् । आक्रम्य पुरः पुरस्तात् पूर्वस्यां दिशि परिदृश्यमानः, मातरं सर्वभूतजनयित्रीम्, असदद् व्याप्नोत् । ततः पितरं वृष्टिलक्षणस्य रेतसो निषेकेण सर्वस्य प्रपञ्चस्य जनकं स्वः स्वर्गलोकं चकारादन्तरिक्षं च प्रयन् गच्छन् स ( सूर्यः ) एव वृष्टयुदकलक्षणस्यामृतस्य दोहनाद् गौः ( अथर्ववेदसंहिता ६।३१।१, ऋ ० सं ० १० १८ ९ | १ ) इति सायणसम्मत एवार्थो युक्तः । एतेन सूर्यस्य भ्रमणं सिद्धयति न पृथिव्याः । अन्यार्थकत्वे क्लिष्टकल्पना श्रुतिबलात्कार एव । यत्तु जिज्ञासुना ब्रह्मदत्तेन दयानन्दभाष्यविवरणे उक्तम्- ' आयं गौरित्यत्र गौरित्यस्य दयानन्दीयभाष्ये गौरिति पृथिवीनामसु पठितम्, गौरिति पृथिव्या नामधेयम्, यद्दूरं गता भवति यच्चास्यां भूतानि गच्छन्ति ' ( नि ० २१५ ) इत्यादिरीत्या पृथिव्या भ्रमणं प्रतिपादितम् । तत्र मया प्रबल: पूर्वपक्ष उत्थापितः । ' आदित्योऽपि गौरुच्यते ' ( नि ० २।१४ ), अतः सूर्यः कथं न गौः? सायणाचार्यैरपि गौरित्यस्य सूर्यं एवार्थः कृतः । एवं पूर्वं पूर्वपक्षमुत्थापने व्याकुलता वृद्धिंगता | अन्ते ' वर्षेण भूमिः पृथिवी वृतावृता ' ( अथर्ववेदसंहिता १२।१।५२ ) इत्यथर्ववेदमन्त्रेण समाधानं जातम् । तदर्थस्तु ' वर्षेण कालेन भूमिः स्वभूमिचक्रं पूरयति ' इति, तदपि श्रद्धा जाड्य विजृम्भितमेव, दयानन्दीयार्थपोषणाव श्रुतिविरुद्धार्थस्य तेनाङ्गीकृतत्वात् । स्थैयं च पृथिवीवाचकस्य गोशब्दस्य गत्यर्थता यास्केन क्वापि नोक्ता । वैदिकैरेव वचनैः सूर्यस्य गतिः पृथिव्या उक्तमेव । उद्धृतस्य वर्षेण भूमिरित्यथर्वमन्त्रस्यापि न तदभिमतोऽर्थः तत्र वर्षशब्दस्य वृष्टिबोधकत्वात् । पृथिवी वर्षेण वृष्ट्यावृता युक्ता भूमिः आवृना आच्छन्ना च भवति । वर्षाशब्दः स्त्रीलिङ्गः । बहुवचने वर्षाशब्द ऋतुवाचको भवति । वषं वर्षणमत्रास्तीति अर्शआद्यचि टापि वर्षाशब्दो निष्पद्यते । नपुंसकलिङ्गो वर्षशब्दो वृष्टिवाचको भवति, ' वृष्टिर्वर्षम् ' ( २२ ) इत्यमरकोषात्, ' वर्षेण प्रच्छाद्य पृथिवीम् ' ( नि ० २१५ ) इति निरुक्तवचनाच्च, ' मयादीनामुपसंख्यानं नपुंसके क्तादिनिवृत्त्यर्थम् ( पा ० सू ० ३ | ३ | ५६ ) इति वार्त्तिकात् । मन्त्रस्य पूर्वार्धे यस्यां भूम्यामहोरात्रे संहिते क्रमश आगच्छतः तस्माद् वर्षपदस्य संवत्सरः काल इत्यर्थस्तु सर्वथा भ्रान्तिमूलक एव । निरुक्तादिषु नायमर्थः कृतः । ' गता ' ' आवृता ' इत्यनयोर्गच्छति प्रत्यागच्छति चेत्यर्थो निराधार एव ग्रहनक्षत्रादयः स्वगत्या पश्चिमायाः पूर्वस्यां दिशि यान्ति, तथापि प्रवह परिवहवायुप्रवाहात् पूर्वस्या दिशः प्रतीच्यां यान्तीव प्रतीयन्ते । योगभाष्ये ३।२६, सूर्यसिद्धान्ते १२।७३ भाष्यसार - ' आयं गौः ' इत्यादि तीन ऋचाओं को संज्ञा ' सार्पराज्ञी ' है, क्योंकि सर्पराज्ञी कद्रू के द्वारा वे दृष्ट् हैं । शेष अर्थ भावार्थ से कृतार्थ है ।

पृष्ठ 136

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 136 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२६ शुक्लयजुर्वेद संहिता [ अ ० ३ न मन्यत यश्चैव महत्याः पृथिव्या आकाशे ' उत्पतनमङ्गीकरोति स पुराणोक्तं पर्वतोत्पतनं कथं इत्यपि वक्तव्यम्? यत्तूक्तम् -'सूर्योऽयं पृथिव्यास्त्रयोदशलक्षगुणादप्यधिको वर्तते, स कथं पृथिवीभ्रमणं कर्तुं पारयेत्? न । चातिबृहतः कस्यचित्पदार्थस्यातिलघोः परिक्रमणं युक्तम् ' ( पृ ० २३७ टि ० ) इति, - तत्तु ' प्रजा मूढजनजल्पितम् ह तिस्रोऽन्याय-दृश्यते हि हत्यारोहो हस्तिना लघुभूतस्य तुलसीवृक्षस्य परिक्रमणं कुर्वन् । यदुक्तम् ( ऋ ० सं ० ८ १०१।१४ ) मर्नान्यार्थमभितो विविथे । बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आविवेश ॥ ' ) इति, तत्तुच्छम्, इति भुवनेष्वन्तः सूर्यस्य स्थितिः पृथिव्यादीनां परितो भ्रमणं च सिद्धयति ' ( पृ ० २३८ टि ०, अन्यास्ता मन्त्रार्थानवत्रोधात् । अस्य मन्त्रस्य सायणसम्मतोऽर्थो यथा- यास्तिस्रः प्रजाः अत्यायमीयुः अत्यायमायन् बृहत् इमाः प्रजा अर्कम् अर्चनीयमग्निम् अभितो विवि अभितो निविष्टास्ततो न पराबभूवुः । भुवनेष्वन्तः आविवेश मध्ये आविष्टः । महानसावादित्यः प्रजापतिरित्येके । तस्थौ प्रकाशयन्न तिष्ठत् । हरितो दिशः पवमानो वायुः अत्यायायं-ऐतरेय ब्राह्मणे व्याख्यातोऽयं मन्त्रः -- प्रजा ह तिस्रोऽत्यायमीयुरिति या वैता इमाः प्रजा प्रजास्तिस्रो अर्कमभितो निविष्टा स्तानीमानि वयांसि वङ्गा वगधाश्चेरपरदाः न्यन्या अर्कमभितो विविधे इति ता इमाः हरित आविवेशेति इममेवाग्निम् । बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एव बृहद्भुवनेष्वन्तरसावादित्यः पवमानो - स तपोऽतप्यत ' वायुरेव पवमानो दिशो हरित आविष्ट: ' ( ऐ ० आ ० २1१ ) | वाजसनेयिनोऽप्यामनन्ति न्यन्या अर्कमभितो विविश्र इत्यग्निर्वा इत्युपक्रम्य ' प्रजाह तिस्रोऽत्यायमीयुरिति या अमूः प्रजा अत्यायन् भुवनेष्वन्तरिति प्रजापति -अर्कः । तमिमाः प्रजा अभितो निविष्टास्ता इमाः पराभूताः । बृहद्ध तस्थौ ० २१५।१।१–५ ) । मेवैतदभ्यनूक्तम् । पवमानो हरित आविवेशेति दिशो वै द्रितस्तद्यदयं पवमान आविष्ट: ' ( श भुवनेष्वेवावस्थानं तथा चानेन मन्त्रेण पृथिव्यादीनां गतिः सिद्धयतीत्य शुद्धमेव । सूर्यस्य, तद्वत् तु गतिमतोऽपि । सूर्यभ्रमणवादिभिरप्युपेयत एव । यथा गच्छन्त्यपि पिपीलिका चक्रेऽवतिष्ठते यदपि - ' या गोर्वर्तन पर्येति निष्कृतं पयो दुहाना व्रतनीरवारतः । सा प्रब्रुवाणा वरुणाय भ्रमन्ती दाशुषे देवेभ्यो दाशद्धविषा विवस्वते || ' ( ऋ ० सं ० १०/६५ | ६ ) इत्यनेन मन्त्रेण पृथिवी स्वकीयमार्गे या इयं सूर्यस्य परितो गच्छति ' ( पृ ० २३८ टि ० ) इति, तदपि तुच्छम्, मन्त्रार्थानवबोधात् गौः निष्कृतं । मन्त्रार्थस्तु संस्कृतं वर्तनिम् मदीया पयः क्षीरादिकं दुहाना व्रतनीः आश्रयणपयः प्रदानेन कर्मणो नेत्री प्रब्रुवाणा मया आवासस्थानं यज्ञम् अवारतः अवरणेनैव अप्रार्थनेनैव पर्येति परिगच्छति स्वयमेवागच्छति हविषान्नेन विवस्वते देवान् प्रस्तूयमाना सा गौः दाशुषे हविर्दत्तवते वरुणाय देवेभ्योऽन्येभ्य इन्द्रादिभ्यश्च परिचरते मह्यं मां परीक्षितुं दाशत् पयः प्रयच्छतु । यद्वा गौरिति माध्यमिका वाक् 1 ॥ ' यत्तु - ' अहस्ता यदपदी वर्धतक्षाः शचीभिर्वेद्यानां शुष्णं परि प्रदक्षिणित् । विश्वायवे शुष्णं सामर्थ्य निशिश्नथा शोषयितारं ( ऋ ० सं ० १०।२२।४ ) । अहं सूर्यतः अहस्ता हस्तरहिता अपदी पादरहिता, मन्त्रस्यान्यार्थत्वात् । आदित्यं परि सर्वतः प्रदक्षिणित् प्रदक्षिणां करोति ' ( पृ ० २३८ टि ० ) इति, तदपि निःसारम् अवतीर्ण हुए और सूर्य के अध्यात्मपक्ष में वह परब्रह्मरूप भगवान् श्रीकृष्ण, राम आदि के रूप में पृथ्वी वाले विष्णु पर अथवा कृष्ण ही हैं । रूप में द्युलोक को भी प्राप्त हुए । कृष्ण पीत रक्त त्रिविध रूपों को धारण करने ' सर्वत्र संचरण करते हैं । १. अत्र भूमिकोक्को भूभ्रमणशास्त्रार्थो द्रष्टव्यः

पृष्ठ 137

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 137 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मंत्र: ६ ] वेदार्थपारिजातमाष्यसहिता १२७ ऐन्द्रसूक्तत्वादिन्द्र एवात्र सम्बोध्यः । हे इन्द्र यत् यदा सा भूमिः अहस्ता पाणिरहिता अपदी चरणवर्जिता अमनुष्य कर्मकेत्यर्थः, वेद्यानां स्तोत्रयोग्यानां त्वत्प्रभृतीनां देवानां सम्बन्धिभिः शचीभिः कर्मभिः वर्धत अवर्धत धनधान्यादिभिः समृद्धेत्यर्थः, तदा त्वं परि प्रदक्षिणित् एवंभूतां पृथिवीं परिवेष्ट्य प्रदक्षिणं यथा भवति तथा स्थितं शुष्णम् असुरं विश्वायवे तादर्थ्ये चतुर्थी सर्वत्राप्रतिहतगामिन एतदाख्यस्य औवंशेयराज्ञोऽर्थाय निशिश्नथः नितरां ताडितवानसि । यद्वा यदा शुष्णस्याच्छादनार्थं हस्तपादरहिता काचित् पृथिवी वेदितव्या-नामसुराणां मायारूपैः कर्मभिः शुष्णमसुरं परिवेष्टय प्रदक्षिणं यथा भवति तथावस्थिताऽवर्धत तदानीं तां मायोत्पादितां विश्वायवे सर्वव्यापकस्य मरुद्गणस्य प्रवेशनार्थं निशिश्नथ इति । तस्मादनेन मन्त्रेण पृथिव्या भ्रमणसाधनं भ्रान्तिमूलकमेव । यदपि च-- ' अहं पुरस्तादहमवस्ताद् यदन्तरिक्षं तदुमे पिताभूत् । अह सूर्यमुभयतो ददर्शाहं देवानां परमं गुहा यत् ॥ ' ( वा ० सं ० ८1 ९ ) । अहं सूर्यमुभयतः पश्यामि पूर्वं पश्चिमं वा ममवैतददर्शनम्, न तु सूर्यः पूर्वं वा पश्चाद्वा गच्छतीति भावः ' ( पृ ० २३८ टि ० ) इति, तदपि निःसारम्, मन्त्रार्थानवबोधात् । अत्र मन्त्रद्रष्टा स्वस्य सर्वगतपरमात्मरूपत्वमभिप्रेत्य वदति - अहं परमात्मरूपः स नः परस्तात् उपरि लोकादी तथाहमवस्तात् अधस्तात् तिष्ठामीति शेषः । यदन्तरिक्षं मध्यवतिलोकरूपमस्ति, तदु तदेव मे मम देहधारिणः पिता पितृवत् परिपालक भवति । अहं परमात्मरूपः सन्नुभयत उपरिष्टादधस्ताच्च स्थित्वा सूर्यं ददर्श पश्यामि । देवानामिन्द्रादीनां यत्परमं गुहा अत्यन्तं गोप्ये हृदयेऽस्ति, तदेवाहमस्मि । ' अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् । सकद्रीची कंस्विदर्थं परागात् क्वस्वित्सूते नहि यूथे अन्तः ॥ ' ( ऋ ० सं ० १/६४ | १७ ) । इयं पृथिवी सूर्यादध ऊध्वं दक्षिणमुत्तरतश्च गच्छति । अस्याः परेऽधे सदान्धकारः पूर्वेऽर्धे प्रकाशश्च वर्तते । मध्ये सर्व पदार्था वर्तन्ते । सेयं पृथिवो जननीव सर्वान् पाति ' ( पृ ० २३८ टि ० ) इति, तदपि कल्पनामात्रम्, मन्त्राक्षराननुगमात् । वस्तुतस्त्वत्राग्नी हूयमानाहुतिर्गारूपेण स्तूयते । गीः गोरूपा गमनशीला एषा आहुतिसंघन पोष्यं वत्सं वत्सस्थानीयमग्निम् अवः अधस्तात् अधोदेशे परेण पदा पदद्वयेन स्वावयवेनाकृष्य बिभ्रती धारयन्ती । तथा परः परस्तात् उपरिदेशे एना अनेन अवरेण च पदा पादद्वयेन आकृष्य तमेव वत्सं बिभ्रतो उदस्थात् सूर्यं प्रति तिष्ठति । तथा परः परस्तात् उपरिप्रदेशे एन एन ' अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ' ( म ० ३ | ७६ ), अर्थवं कृतवती सा आहुतिः कद्रीची क्व गतेत्यनिश्चितगमना आदित्यं प्राप्तवतीत्यर्थः । कंस्वित् कं फलभाजं पुरुषं प्रति अर्धम् अर्धभागमागत्य यद्वा अर्धमृद्धं परागात् परागागच्छति, आगत्य च क्वस्वित् सूते कुत्र प्रदेशे फलमुत्पादयति? नहांतरगोवदियं यूथे अन्तः सजातीयगोमध्ये सूते साधारण्येन यत्र क्वचिन्न सूते, अपि तु कस्मिंश्चिदनुष्ठातरि । अतः स महान् को नु खत्विति । यद्वा आदित्य रश्मिसमूह एव गोरूपेण स्तूयते । गौरुक्तलक्षणा गोः, वत्सं वत्सवद्रक्षणीयं यजमानम्, उक्तक्रमेण बिभ्रतो उदस्थात् । अथ तथा कृत्वा कद्रीची अदृश्यगमना सती कंस्वित् अर्ध समृद्धमर्धस्थानभाजं वा कंस्वित्पुरुषम् आदित्य पुरुषम् आदित्यं परागात् । अप्रतिनिवृत्ता गता तं नयन्त्येताः सूर्यरश्मयो यत्र देवानां पतिरेकोऽधिवासः ' ( मु ० उ ० १ २१५ ) । तथा कृत्वा क्वचित्सूते कस्मिन्निन्द्रादिलो के जनयति न सर्वत्र । शिष्टं समानम् । स्वामी दयानन्द ने इस मन्त्र की व्याख्या में पृथिवी का भ्रमण सिद्ध किया है । किन्तु यह प्रकरण विरुद्ध है, क्योंकि इस मन्त्र का विनियोग आहवनीयाग्नि के उपस्थान में किया गया है । सूर्यसिद्धान्त की रीति से पृथिवी को

पृष्ठ 138

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 138 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२८ शुक्लयजुर्वेदसंहिता [ अ ० ३ पृथिव्या यत्तु -- ' अवर्तयत् सूर्यो न चक्रम् ' ( ऋ ० सं ० २।११।२० ) यथा सूर्यश्चक्रं वर्तयति सामर्थ्यात्, न चक्रं करोति, अपि तु भूचक्रं निर्वर्तयतीति स्पष्टम् ' ( पृ ० २३८ टि ० ) इति, तदपि कुशकाशावलम्बनम् वावृधानो अस्तः । प्रकरणविरुद्धत्वात् । तथाहि समस्तमन्त्र: - ' अस्य सुवानस्य मन्दिनस्त्रितस्य ) । न्यर्बुदं मन्दिनः अस्य मदकरमिमं अवर्तयत् सूर्यो न चक्रं भिनद् बलमिन्द्रो अङ्गिरस्वान् ॥ ' ( ऋ ० सं ० २।११।२० इन्द्रः अर्बुदं अम्बूनि ददातीत्यर्बुदो सुवानस्य सुतवतः त्रितस्य तीर्णतमस्कस्य महर्षेरर्थं वावृधानः सोमेन वर्धमान । स्तु हिंसायाम् । मेघः । अनुस्वारस्य रेफश्छान्दसः । यद्वा नामैतत् अर्बुदाख्यमसुरं नि अस्तः नितरामवधीत् चिदर्बुदं निक्रमीः पदा ' लिङि तिपि बहुलं छन्दसि विकरणस्य लुक् । गुणे कृते हलुङयादिना तिलोपः, ' महान्तं सहित इन्द्रः अवर्तयत् ( ऋ ० सं ० ११५१/६ ) इत्यादिष्वर्बुदवधश्रवणात् । अङ्गिरस्वान् अङ्गिरोभिः सूर्यकर्तृकं पृथिवीभ्रामणमुक्तम् । असुरननार्थं वज्रमभ्रामयत् । सूर्यो न यथा सूर्यः चक्रं भ्रामयति तद्वत् । नात्र । वर्तयितुं नाशकत् तं बलं. यद्वा यस्मादसुराद्भिया सूर्यः स्वकीयं चक्रं नावर्तयद् इति निषेधार्थको नकारः पणीनां प्रभुमसुरं भिनद् वज्ञेण अभिनत् । यदपि च- ' स वा एष न कदाचनास्तमेति नोदेति तं यदस्तमेतीति मन्यन्ते अह रात्रेरवतन्तभित्वाथात्मानं एव तदन्तमित्वाऽथात्मान विपर्यस्यते! रात्रीवावस्तात् कुरुतेऽहः परस्तात् । अथ यदेनं प्रातरुदेतीति मन्यन्ते ' ( ऐ ० ब्रा ० अध्याय १४, विपर्यस्यते अहरेवावस्तात् कुरुते रात्रिं परस्तात् । स वा एष न कदाचिन्निम्लोचति न च कदाचिदस्तं याति खण्ड ६ ) इति ब्राह्मणेन यत्सूर्यो गच्छन्निव प्रतिभाति, वस्तुतस्तु न सूर्य उदेति, ' स भ्रमवशादेव जनाः सूर्यो गच्छतीति मन्यन्ते ' ( पृ ० २३८ - २३ ९ टि ० ) इति, तदत्यज्ञानविजृम्भितम् छा ० उ ० ३ ६ ४ ) इति, यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेवाधिपत्य स्वाराज्यं पर्येता ' ( रुद्राणां छान्दोग्योपनिषद, ' स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत् तावदाधिपत्य ७ स्वाराज्यं पर्येता ' ( छा ० उ ० ३ | ७ | ४ ), ' यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता ३ ८ | ४ ), ' स यावदादित्यः ' पश्चादुदेता पुरस्तादस्तमेतादित्यानां तावदाधिपत्य स्वाराज्यं पर्येता ' ( छा ० मरुतामेव उ ० तावदाधिपत्यं करोति पश्चादुदेता पुरस्वादस्तमेता द्विस्तावदुत्तरतः उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्व उदेता अवाङ् अस्तमता ( छा ० उ ० ३।९ १४ ), ' स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता भ्रान्तिमूलकस्योदयादेर्वर्णनं साध्यानामेव तावदाधिपत्यं करोति ' ( छा ० ३ १०१४ ) इत्यादिविरोधात् । नहि सम्भवति, अपौरुषेयश्रुतौ त्वत्कल्पनायोगात् त्वद्रीत्याप्यार्षत्वाभ्युपगमाच्च । ' तदेष श्लोको ' अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेता एकल एव मध्ये स्थाता ' ( छा ० ३।११।१ ) (, छा ० ३।११।२ ), भवति- -न वै तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाहं सत्येन मा ब्रह्मोपनिषदं विराधिषि वेद ब्रह्मणा ' ( ' छा ० ३।११।३ ) । ' न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं । तदत्ययश्चास्त-अत्र शङ्करभगवत्पादाः - ' उदयश्च नाम सवितुस्तन्निवासिनां प्राणिनां चक्षुर्गोचरतापत्तिः गमनम् । न परमार्थे उदयास्तमये स्तः ' । महीधर उव्वट - सायणादि भाष्यकारों ' स्थिर ' ही माना गया है । अत एव उसको ' अचला ' नाम दिया गया है । अतः स्पष्ट घोषणा कर रहे का अर्थ ही उचित है । एवं च ' सूर्य ' का ही भ्रमण सिद्ध होता है, पृथिवी का नहीं । बेद भगवान् हैं - हिरण्मयेन सबिता रथेना देवो याति भुवनानि पश्यन् ' इति ॥ ६ ॥

पृष्ठ 139

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 139 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ६ ] वेदार्थपारिजातमाष्यसहिता १२ ९ तन्निवासिनां च प्राणिनामभावे तान् प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेता चक्षुर्गोचरतापत्तेस्तदत्ययस्य चाभावात् । तथा चामरावत्याः सकाशाद् द्विगुणं कालं संयमिनीं पुरीं वसत्यतस्तन्निवासिनां प्राणिनां दक्षिण इवोदेतोत्तरतोऽस्तमेतेत्युच्यतेऽस्मद्धिमपेक्ष्य । तथोत्तरास्वपि पुरीषु योजना । सर्वेषां मेरुरुत्तरतो भवति । यदाऽमरावत्यां मध्याह्वगतः सविता तदा संयमिन्यामुद्यन् दृश्यते तथोत्तरस्यां प्रदक्षिणावृत्तेस्तुल्यत्वात् । तत्रैवानन्दगिरिः -- ' यंत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः । तिरोभावं च यत्रति तदेवास्तमनं रवेः ॥ तैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमने नाम दर्शनादर्शने रवेः ॥ ' अमरावत्यादिपुरीषु पूर्वपूर्वापेक्षयोत्तरोत्तरत्रोद्वासकालद्वैगुण्यमस्तु स्तां च दर्शनादर्शने सवितुरुदयास्तमयो । ' स वा एष न कदाचनास्तमेति नोदेति ' इति श्रुतेर्वस्तुतो नोदयास्तमयो स्तः । तथा च पुरीषु तुल्यत्वेन गच्छतः सवितुरुदयास्त-कालवैषम्यमप्युक्तमित्याशङ्कयाह -- तन्निवासिनामिति । भोगकालद्वैगुण्यं न सवितृगते राधिक्यापेक्षया श्रुत्योच्यते, येन पुराणविरोधः स्यात् किन्त्वमरावत्यादीनां पुरीणां दैत्योपहतानां पूर्वपूर्वापेक्षयोत्तरोत्तरपुरीणां द्विगुणेन कालेनोद्व सात्तदपेक्षयोत्तरोत्तरस्थानेषु भोगकाले द्वैगुण्यं श्रुत्योक्तम् । न चैतावता सूर्यस्योदयास्तमननिषेधेन तद्गमनागमननिषेधो भवति । ब्रह्मलोके तु भ्रमणेऽपि सदैव स्थित्या सदैवोदय एवेत्यादिकं तत्रैव कणेहत्यालोचनीयम् । गोपथब्राह्मणादीनामपि तदेव समाधानम् । आर्यसिद्धान्तपक्षीयखण्डनं तु पूर्वमेव कृतम् । कस्योपस्थानमिति प्रश्ने प्रकरणादग्निरेव ज्ञायते, अग्न्याधानस्यैव प्रकृतत्वात् । ' आयं गौः पृश्निरक्रमीदसद-न्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥ अन्तश्चरति रोचनास्य प्राणादपानती । व्यख्यन् महिषो दिवन् || त्रिशद्धाम विराजति वाक्पतङ्गाय धीयते । प्रतिवस्तो रह द्युभिरिति तद्यदेवास्यात्र सम्भारैर्वा नक्षत्रैर्वतुभिर्वाधानेन वानाप्तं भवति तदेवास्यैतेन सर्वमाप्तं भवति तस्मात्सर्पराज्ञ्या ऋग्भिरुपतिष्ठते ' ( श ० २ | १ | ४ | २ ९ ) । सर्पगशीलानां प्राणिनां राज्ञी तत्सम्बन्धिनीभिर्ऋग्भिरग्निमुपतिष्ठत इति हरिस्वामी | अस्मिन्नाधाने सम्भारादिभिर्विकल्प-निमित्ते यदनाप्तम्, एतेनोपस्थानेन तत्सर्वमाप्यते, सर्पराज्ञ्याः सर्वाधिष्ठानभूतत्वात् ' इयं वै सर्पराज्ञी । देवा वै सर्पास्तेषामियं राज्ञी ' ( ऐ ० ब्रा ० ५/४१४ ) इति श्रुतेः । एतेनासामृचां पृथिव्यधिष्ठात्री देवता, द्रष्ट्रो देवता त्वग्निरेव । नहि पृथिव्या उपस्थानम्, तस्या अप्रकृतत्वात् । न च पृथिव्या उपस्थानेऽग्न्याधानसम्भारादिविकल्पेनानाप्तं वस्तु प्राप्तुं शक्यते । तस्माद् दयानन्दरीत्यापि तत्पक्षः खण्डितो भवति । तत्रैव - ' तदाहुः । न सर्पराज्ञ्या ऋग्भिरुपतिष्ठेतेतीयं वै सर्पराज्ञी स यदेवास्यामाधत्ते तत्सर्वान् कामानाप्नोति । तस्मान्न सर्पराज्ञ्या ऋग्भिरुपतिष्ठेतेति ' ( श ० २ | १ | ४ | ३० )! तेषां पृथिव्यामाधानादेव सम्भारादीनां सर्वेषामवाप्तत्वात् तदवाप्तये सर्पराज्ञीभिरुपस्थानं न कार्यमिति । एतेनाप्यग्नीनामेवोपस्थानं विहितं पूर्वोक्तया कण्डिकया, उत्तरया तु पृथिव्यामेवाग्नीनामाधानात् सर्वप्राप्त्या तदनपेक्षोक्ता । यत्तु - ' अयं पुरस्ताद्वर्तमानो गोर्वृषभः कपटबलीवर्दो वृषभासुरः पृश्निविचित्रवर्णो नीलवृषः, अक्रमीत् कृष्णमाक्रान्तवान् पुरः पूत्रं मातरं कृष्णजन्मभूमि व्रजमसदत्, आ इत्यनुषङ्गः । किं कुर्वन् निशितशृङ्गी भीषणाकृति-व्रजवासिजनानात्रासयन् खुरैर्भुवमानन खुरशृङ्गोत्खातरजःपुञ्ज प्रक्षेपेण स्वः पितरं स्वर्गलोकं प्रयन् व्याप्नुवन् भगवता असो दुर्वृत्तः शृङ्गं गृहीत्वा भुवि पातितो गतासुर्बभूव ' इति, तद्भगवत्कथास्मारकत्वात् प्रशस्तं व्याख्यानम्, परं मन्त्राक्षरैर्खेतत्सङ्गतम् क्रमणाक्रमणयोर्भेदात् । मातरं कृष्णजन्मभूमिं व्रजमिति न मनोरम्, यतो हि मातृभूमिस्तु मथुराभूमिः । ततस्तु स आगत आसीत् । यदि कुतश्चिदन्यत आगतः स्यात् तदा तु मथुरामण्ड-लान्तर्गतत्वाद् व्रजभूमिरपि मातृभूमिः स्यात् । पांसुप्रक्षेपेण न तस्य द्युलोकगमनं सिद्धयति । तद्वधस्तु सर्वथा मन्त्राक्षराद् बहिर्भूत एव । मन्त्रेण वृषभासुरस्वरूप महत्त्ववर्णनं तद्वधस्यावर्णनं न्यूनतैव स्यात् । १७

पृष्ठ 140

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 140 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३० शुक्लयजुर्वेद संहिता [ अ ० ३ अथाध्यात्मिकोऽर्थः - अयं गौरग्न्यवच्छिन्नचेतनोपलक्षितः सर्वगतो वा पृश्निः शुक्लश्यामलोहितः शिव-विष्णुब्रह्मरूपधारकः, विष्णुरेव वा कृष्ण - रक्त - पीतत्रिविधरूपधारकः, ' शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ' ( भा ० पु ० १०।८।१३ ) इति श्रीमद्भागवतोक्तः । अक्रमीत् सर्वत्राक्रमणं कृतवान् । पुरः प्राच्यां मातरं पृथिवीमसदद् रामकृष्णादिरूपेण असीदत् । स्वः सूर्यं च हिरण्यश्मश्रुत्वादिविशिष्टरूपेण पितरं द्युलोकं प्रयन् सञ्चरन् प्राप्तवान् ॥ ६ ॥

अ॒न्तश्च॑रति रोच॒नास्य प्राणाद॑पा॒न॒तो । व्य॑ख्यन् महिषो दिव॑म् ॥ ७ ॥

पूर्वमन्त्रेणाग्निमादित्यरूपेण स्तुत्वाऽनेन मन्त्रेण वायुरूपेण स्तोति यजमानः । अस्य प्रकृतस्याग्ने रोचना दीप्तिः, ' रुच दीप्तौ ' काचिच्छक्तिर्वायुरूपा अन्तर्द्यावापृथिव्योर्मध्ये शरीरमध्ये च चरति, ' अन्तरिक्षेऽयं तिर्यग्वायुः पवते ' इति श्रुतेः । किं कुर्वती, प्राणादपानती सर्वशरीरेषु प्राणव्यापारादनन्तरमपानव्यापारं कुर्वती, अर्थादपाना-दनन्तरं प्राणितीत्यर्थोऽपि लभ्येत । महिषो दिवं व्यख्यत् । द्युलोकं भोगस्थानमनुष्ठातृभ्यो विशेषेण प्रकाशितवत् प्रकाशयति च । महि माहात्म्यं यागकर्तृत्वस्वरूपं सनोति ददातीति महिषः, ' अग्निर्वै महिषः, स इदं जातो महान् ' इति श्रुतेः । विपूर्वस्य ' ख्या प्रकथने ' इत्यस्य रूपं व्यख्यदिति । अस्मात् ' छन्दसि लुललिट: ' ( पा ० सू ० ३।४।६ ) इति सर्वकालेषु लुङि ' अस्यतिवक्तिख्यातिभ्योऽङ् ' ( पा ० सू ० ३।११५२ ) इति च्लेरङि आलोपेऽडागमे णि च व्यख्यदिति । अपान इवाचरतीत्यपानती क्विवन्तान्ङीपि अपानतीति । यद्वा प्राणादपानती प्राणव्यापारा-दूर्ध्वमपानव्यापारं कुर्वती, प्राणापानयोर्वायुविशेषयोः प्रेरिकेत्यर्थः । सति हि जाठराग्नो जीवनहेतोरौष्ण्यस्य शरीरे सद्भावात् प्राणापानौ प्रवर्तते । शरीरौष्ण्यस्य पुरुषजीवनत्वमन्यत्र श्रुतम् - ' उष्ण एव जीत्रिष्यन् शान्तो मरिष्यन् ' इति । एवं प्राणिमात्रं जीवयन्नयमग्निः स्वोपासकस्य महदुपकरोति । महिषः महि महत्त्वोपेतं कर्मफलं सनोति ददातीति महिषो दिवं द्युलोकं पुण्यफलभोगार्थं व्यख्यत् । अथाध्यात्मकोऽर्थः: - अस्य प्रत्यगभिन्नत्वेन प्रत्यक्षस्य त्वंपदार्थाभिन्नस्य तत्पदार्थस्य अन्तः शरीरस्य ब्रह्माण्डानां वा मध्ये बहिश्चरन्ती, रोचना रोचन्ते दीप्यन्ते सर्वे पदार्थाः सर्वाणि बाह्यान्यादित्यादीनि ज्योतींष्यान्तराणि जीवाहङ्कारादीनि च ज्योतींषि यया सा चिदानन्दरूपा, ' न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ' इति श्रुतेः । प्राणापानयोर्व्यापारयित्री, ' न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेता उपाश्रितौ ॥ ' इति श्रुतेः । यद्वा प्राणिनां कर्मानुसारेण प्राणनानन्तरमपाननमपाननानन्तरं प्राणनं जनयन्ती । उपलक्षणमेतत् । धर्माधर्मादिषु प्रवर्तयित्री तदनुसारेण चोच्चावचानि फलानि प्रापयित्री । स महिषी यागादिफलदाता परमेश्वरः, संराधितः सन्निति शेषः दिवं द्युलोकं स्वर्गादिकं द्योतनात्मकं मोदमयं मोक्षं च व्यख्यत् प्रदर्शयति अनुभाव-यति । अन्तर्भावित णिजर्थस्य रूपम् । यद्वा अस्य परमात्मनः शक्ती रोचना शरीरदीप्तिहेतुः प्राणशक्तिः, तस्यां सत्यामेव देहे मुखादौ दीप्तिदर्शनात्, अन्तः शरीरे चरति । सा च प्राणात् प्राणनाद् अपानती अपानव्यापारेण मन्त्रार्थ -- सम्पूर्ण शरीर में प्राण व अपान वायुओं को प्रेरणा देनेवाली इस अग्नि की ' वायु ' संज्ञक एक अनिर्वचनीय शक्ति द्युलोक और पृथिवी लोक में शरीर के भीतर संचार कर रही है । यजमानों को यागकर्तृत्व का स्वरूप प्रदान करनेवाले अग्नि ने उनको द्युलोकरूप उपभोगस्थान प्रकाशित कर दिया, अर्थात् प्रदर्शित कर दिया ॥ ७ ॥