वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 141–150

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 141–150

पृष्ठ 141

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 141 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ७ ] वेदार्थपारिजातमाष्यसहिता १३१ वायुमन्तरा कर्षन्ती दिवं द्योतनात्मकं परमात्मानं व्यख्यद् विशेषेण प्रकाशितवती । महिषः महि महत्त्वोपेतं फलं वा सनोति ददातीति महिषः परमात्मा, ' सुपां सुलुक् ' इति षष्ठ्याः सुः, महिषस्य दिवं द्योतनात्मकं मोदकं स्वप्रकाशमपरोक्षं प्रत्यक् चैतन्याभिन्नस्वरूपं व्यख्यत् प्रकाशितवती । दयानन्दस्तु — ' अस्याग्नेः प्राणादपानती सती रोचना दीप्तिविद्युत् शरीरब्रह्माण्डयोरन्तर्मध्ये चरति । स महिषोऽग्निदिवं व्यख्यत् विख्यापयति ' ( पृ ० २४४ ) इति, तदपि न सङ्गच्छते, तद्रीत्या पूर्वमन्त्रेऽग्नेरनुक्तत्वात् । शतपथे तु तिसृभिरप्यग्भिरग्निरेवोपस्थातव्यत्वेनोक्तः । रोचनापदेन विद्युतो ग्रहणे प्रमाणानुपलब्धेः, तस्याश्च प्राणापानव्यापारहेतुत्वासम्प्रतिपत्तेश्च वायुरेव सा शक्तिरिति मन्तव्यम् । कश्चित्तु - ' चक्षिङ् व्यक्तायां वाचि ', अयं दर्शनेऽपि । विपूर्वकश्वष्टिः प्रकाशनार्थः । लोडर्थे ' इति लुङि, प्रथमपुरुषैकवचने ' चक्षिङः ख्याञ् ' ( पा ० सू ० २ | ४ | ५४ ) इति ख्यात्रादेशे रूपम् । महीधरस्त्वप्रसन्नतर्कः । विपूर्वस्य तत्तु दयानन्दानुकरणमात्रम्, प्रथमाध्याये अभिविख्येषमिति व्याख्यानप्रसङ्गे तेनैव तथोक्तत्वात् । चक्षिोऽपि ख्याञादेश सापेक्षस्यैव तादृशरूपसिद्धिः । तदपेक्षया लाघवाद् विपूर्वस्य ख्यातेरेव रूपसिद्धिर्युक्ता यत्तु - ' अदादिकस्य तस्य धातोः सार्वधातुकमात्रविषयत्वाद् आर्धधातुके तदप्रयोगात् ' इति, तदपि तुच्छम् । --यदपि च --- ' वृन्दावनतो रथेन रामकृष्णौ मधुपुरीं नयन् अक्रूरो रथे उपवेश्य तौ तयोर्निर्देशाद् यमुनायां स्नातुं जगाम । तत्र बलराम सहित कृष्णस्य दिव्यं विग्रहमपश्यत्, विस्मयं च लेभे । मध्येजलं भगवतो दुर्निरीक्ष्या च दृष्टा -भूतपूर्वा युगपदुत्थित सूर्यसहस्रभासोपमिता कान्तिः पार्थेनानुभूता विजृम्भमाणस्य भगवतो मुखे यशोदया रोचना दीप्तिरस्य भगवतो अन्तः कालिन्दीवारिमध्ये चरति प्रसरति । तां विशिनष्टि - प्राणादपानती । उपलक्षणमेतत्, अपानात् प्राणती । प्राणः प्रकृष्टजीवनः समुन्नमनमूर्ध्वगतिः, अपानोऽपकृष्टजीवनोऽधोगतिः । तथा च समुन्नतेरनन्तरमवनमयन्ती उत्कृष्टान् राज्ञः क्षणादिव निकृष्टान् भिक्षुकान् विदधाना क्षणमात्रेणावनते-रनन्तरं समुन्नमनमयन्ती भिक्षुकान् लोकोत्तरवैभवसम्पन्नान् कुर्वाणा अन्तर्ब्रह्माण्डमध्ये वर्तते सा रोचना । लोकानामुत्कर्षापकर्षो यदधीनौ सा भगवद्दीप्तिरक्रूरेण दृष्टेति भावः । कदा? यदा महिषः ( निघण्टु ३ | ३ | ८ ) श्रीकृष्णः ' मह पूजायाम् ' इत्यस्मात् ' अविमह्योष्टिषच् ' इत्योणादिकः टिषच प्रत्ययः । महते: क्विपि सप्तम्येकवचने महीत्युपपदे सदेः अन्येष्वपि दृश्यते ' ( पा ० सू ० ३।२।१०१ ) ' तत्पुरुषे कृति ' ( पा ० सू ० ६।३।१४ ) इति सप्तम्या अलुकि महति स्थाने सीदतीति महिष इति देवराजः । व्यख्यद् अन्तर्भावितण्यर्थस्य चक्षेर्लुङि रूपम्, दर्शयामास । दिवं दिव्यमद्भुतं स्वकोयं विश्वरूपम् । अपि वा भगवत्पितृव्यो महिषो महान् अक्रूरो दिव्यं भगवतो रूपं व्यख्यद् विस्पष्टं दृष्टवान् । यद्यपि शतपथश्रुति सूत्रसम्मतत्वात् प्रकृतत्वाच्चाग्निरेवात्र सर्वनाम्ना परामृश्यते, तदीया च वायुरूपैव रोचनाशक्तिः, अक्रूरकथायाः कृष्णस्य चाप्रकृतत्वात् तत्परामर्शो दुर्लभः, अक्रूरेण दृष्टेत्यध्याहारश्च प्रमाणसापेक्षः, महिषपदस्याक्रूरोऽर्थो न महत्त्वाभिप्रायेण तत्र वर्तते, तादृशानामन्येषामप्यर्थानां सम्भवेन विनिगमनाविरहात्, तथापि मुख्यार्थाविरुद्धत्वात् तत्परत्वेन योजनं नासङ्गतम् । सर्वनाम्नां प्रसिद्धपरामशित्वात् कृष्णस्य लोके वेदे च प्रसिद्धत्वाद् अस्येति पदेन तत्परामर्शोऽपि युक्त एव । भाष्यसार - पूर्व मन्त्र में अग्नि की आदित्य के रूप में स्तुति की थी, अब इस मन्त्र के द्वारा उसकी वायु के रूप स्तुति की जा रही है ।

पृष्ठ 142

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 142 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३२ शुक्लयजुर्वेदसंहिता [ अ ० ३ कश्चित्तु - ' उद्दीपनसाधने: काष्ठैर्यथाग्निस्तप्यते, तथैव सम्यक् तेजस्वित्वापादकः साधनैः परमेश्वरोपासना कार्या । यथा घृतादिपदार्थैरग्निः प्रबोध्यते, तथैवोद्दोपकैः साधनैरनुष्ठानैश्चातिथिवत्पूज्यः परमेशः प्रबोधनीयः । अग्नौ हविरिव परमेश्वरे कर्मफलान्याहुतिरूपेण समर्प्यन्ताम् ' इत्याह, स्पष्टमत्र कल्पनाबहुलोऽर्थो मूलाक्षरस्पर्श-शून्य एव, अभिधया लक्षणया वा तादृशार्थासम्भवात् । मन्त्रस्य स्पष्टोऽयमेवार्थ: -समिधाग्नि दुवस्यत पर्यंत घृतैस्तं बोधयत अस्मिन्नासमन्तात् हव्या हवींषि जुहुत । वैदिकपारम्पर्येण ब्राह्मणसूत्रादिभिश्च विनियोगानुसारेणा-धानमन्त्रा इमे । अतोऽग्निरेवात्र समिद्वतीभिर्धृतवतीभिर्ऋग्भिरर्चनीयः । अग्नेरर्चनेनाग्न्यवच्छिन्न चैतन्यरूपः परमात्मैव पूज्यते, स्वातन्त्र्येणाग्निपूजनानुसारेण परमात्मपूजनस्यानिर्देशात् । कश्चिदाह — ' सम्यक्प्रदीप्ताग्निवत् प्रतिवस्तु व्यापिने परमेश्वरायांतितीव्रमाज्यं जलमुपायनानि च सम्यक् प्रदेयानि ' इति, अत्रापि न दृष्टान्तरूपेणाग्निवर्णनम्, दाष्टन्तिकस्यानिर्देशात् । किञ्च घृतं तीव्रं कथं भवतीति तु नोक्तम् । सिद्धान्ते तु ग्रहणोद्वासनाधिश्रयणावेक्षणादिभिः संस्कारैरेव तत्रातिशयः सम्भवति । तं त्वा समिद्भिरङ्गिर इति तृतीयं मन्त्रं कश्चिदेवं विवृणोति - हे अङ्गेषु रसवद्व्यापक अग्ने! परमेश्वरमुत्तमप्रकाशसाधनैः समिद्भिर्योगः घृतादितेजोभिः तपसा च वर्धयामः । हे पदार्थानां संयोगवियोगयोरनुपमशक्तिमन्! त्वं महान् भूत्वा प्रकाशवान् भव ' इति, अयमर्थोऽप्यक्षराननुगत एव । यविष्ठयशब्दस्य पदार्थानां संयोगवियोगयोरनुपमशक्तिमत्वमर्थः कया रीत्या गृद्यत इति तु नोक्तम् । मिश्रणा-मिश्रणार्थस्य यतेर्निष्पन्नत्वेऽप्यतिशयेन मिश्रण मिश्रणकर्तृत्वशक्तिमानेवार्थ:, तेन कश्चिदन्योऽपि ग्रहीतुं शक्यते । परमेश्वरस्याग्नेश्च सृष्टिकर्तृत्वेन सृष्टिनिर्माणकौशलम् । चतुर्थकण्डिका विवरणम् -- हे कान्तिमयाग्ने हे परमेश्वर! त्वत्सविधे घृतयुताः समिध उपतिष्ठन्ताम् । त्वं ता मदीयाः समिधो जुषस्व सेवस्व ' इति । यदि मन्त्रस्यास्य यागे विनियोगो नाभिप्रेयते, तदा तादृशी प्रार्थनाप्यपार्थैव । अग्नेः समिद्धोक्तृत्वस्य सम्भवेऽपि परमेश्वरस्य कथं तदित्यपि चिन्त्यम् । पञ्चमकण्डिकाविवरणम् -- ' भूर्भुवः स्वरादिलोकानां हितायाहं तथैवाधिक प्रजाधनैर्युक्तः स्यां यथा नक्षत्रैर्युक्ता द्यौर्विशालत्वात् पृथिवी सर्वस्याश्रयभूता तथैवाहं सर्वस्याश्रयभूतः स्याम् । विदुषां यज्ञाश्रयभूते हे पृथिवि! तस्यास्तव पृष्ठेनोपभोक्ताग्निरिव प्रजापती राजा स्थाप्यतेऽस्माभिः । ' को वा राजा कथं च तत्स्थापनं केन क्रियते, कश्च तत्सम्बन्ध इति विभावनीयम् । षष्ठकण्डिका विवरणम् -- गमनशीलो रसान् ज्योतींषि च स्वस्मिन् धारयन्नादित्यो मातुः पृथिव्या उपरिष्टात् प्राच्यां दिशि विराजते । चतुर्दिक्षु व्यापकः सन् सर्वपालकमाकाशमपि स्ववेगेन गच्छन् व्याप्नोति । सप्तम कण्डिकाविवरणम् - अस्य महतोऽग्नेरेव वायुरपि दीप्तिः । अन्तः यश्च शरीरस्य ब्रह्माण्डस्य चाभ्यन्तरे प्राणादनन्तरं प्राणरूपो भूत्वाऽपानस्वरूपं धारयति । अयमेवानन्तमहिम्ना युक्तो द्युलोकं विशेषेण प्रतिपादयति ' इति, तत्तु महीधराद्युक्तस्यैवार्थस्य किञ्चिद् व्यत्यासेनेहोपन्यासः । अध्यात्म पक्ष में-- अन्तर्बाह्य समस्त पदार्थ चिदानन्दरूप ही हैं । दयानन्दीय व्याख्या और उसकी सारहीनता को ऊपर दिये गये भाष्य से ही अवगत कर लेना चाहिये ॥ ७ ॥

पृष्ठ 143

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 143 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ ] वेदार्थ पारिजात भाष्य सहिता

त्रिशद्वाम विरोजति वाक् प॑त॒ङ्काय॑ धीयते । प्रति॒पस्तोरह हुभिः ॥ ८ ॥

१३३ अष्टमकण्डिकाविवरणम् – त्रिंशद्धाम त्रिशत्सु धामसु । त्रिंशच्छब्दाद्धामशब्दाच्च ' सुपां सुलुक् ' ( पा ० सू ० ७ १ । ३ ९ ) इति सप्तम्या लुक् । धामशब्देनात्र स्थानं गृह्यते, ' धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानि च ' ( नि ० ९ ।२८ २ ९ ) इति वचनात् । अहोरात्रस्य त्रिंशन्मुहूर्ता धामशब्देनाभिप्रेयन्ते । त्रिंशन्मुहूर्तरूपेषु स्थानेषु या वाग् विराजति विशेषेण स्तुतिभिर्यज्ञे स्तूयमाना शोभते सा वाक् पतङ्गाय अग्नये धीयते उच्चार्यते । तादर्थ्ये चतुर्थी । पतन् गच्छतीति पतङ्गोऽग्निः । स ह्यरण्याः पतन् गार्हपत्यभावं गच्छति, गार्हपत्याच्चाहवनीयताम् । तेन सर्वदेवस्तुतिभिरग्निरेव स्तूयते, तस्यैव सर्वदेवमयत्वात् सर्वात्मत्वात् । न केवलं त्रिंशत्सु मुहूर्तेषु विराजमाना वागेवाग्नये धीयते किन्तु प्रतिवस्तोः प्रतिदिनं या स्तुतिरूपा या च द्युभिः यागपारायणाद्युत्सवभूतैरहोभिः स्तुतिलक्षणा वाक् सापि पतङ्गायाग्नय एव धीयते नान्यदेवताभ्यः । वस्तोरित्यस्य दिनमर्थः, ' वस्तोः । द्युः । भानु: ' ( निघ ० ११ ९ | १ ) इत्यहर्नामसु पठित्वात् । अह इति निपातस्य विनिग्रहो नियमनमर्थः, सर्वकालं सर्वा स्तुतिरूपा वागग्न्यर्थेवेति यावत् । यद्वा विराजतीत्यस्य क्रियापदस्य कर्तृरूपं त्रिशद्धामेति प्रथमान्तमेव, न सप्तम्यन्तम् । मासे त्रिंशद्दिनानि भवन्ति । तेन मासगतदिनभेदेन त्रिशत्संख्याकं धाम स्थानं विराजति विशेषेण राजते शोभते । प्रमादालस्यादिरहितानां यजमानानामनुष्ठानेनाहवनीयाद्यग्नीनां स्थानं मासगतेषु त्रिशत्संख्याकेषु दिनेषु विशेषेण शोभत इत्यर्थः । पतङ्गः पक्षी यथैकस्मात् स्थानात् स्थानान्तरं गच्छति, तद्वदग्निरप्यरण्या गार्हपत्यस्थानं तत आहवनीयस्थानं गच्छतीति सोऽपि पतङ्गसदृशत्वात् पतङ्ग इत्याख्यायते । तथाविधस्याग्नेः प्रीत्यर्थं धीयते स्तुतिरूपा वागुच्चार्यते । पुराणेष्वग्नेविविधानि धामानि नामानि चोक्तानि । यथोक्तं विधानपारिजाते-' लौकिके पावको ह्यग्निः प्रथमः परिकीर्तितः । अग्निस्तु मारुतो नाम गर्भाधाने प्रकीर्तितः ॥ पुंसवे चमसो नाम शोभनः शुभकर्मसु । अत्र शुङ्गकर्मणीति रघुनन्दनः । तच्च सीमन्तान्तर्गतकर्मभेदः । सीमन्ते ह्यनली नाम प्रगल्भो जातकर्मणि । पार्थिवो नामकरणे प्राशनेऽन्नस्य वै शुचिः ॥ सभ्यतामा तु चूडायां व्रतादेशे समुद्भवः । गोदाने सूर्यनामा स्यात् केशान्ते याजकः स्मृतः ॥ वैश्वानरो विसर्गे स्याद् विवाहे बलदः स्मृतः । चतुर्थीकर्मणि शिखी धृतिरग्निस्तथापरे ॥ आवसथ्यस्तथाधाने वैश्वदेवे तु पावकः । ब्रह्माग्निगर्हिपत्ये स्याद् दक्षिणाग्निरथेश्वरः ॥ विष्णुराहवनीये स्याद अग्निहोत्रे त्रयो मताः । लक्षहोमेऽभीष्टदः स्यात् कोटिहोमे महाशनः ॥ एके घृताचिषं प्राहुरग्निध्यानपरायणाः । रुद्रादौ तु मृडो नाम शान्तिके शुभकृत्तथा ॥ आदिशब्दाल्लघुरुद्रशतरुद्रातिरुद्रा लक्ष्यन्ते । पूर्णाहुत्यां मृडो नामेति रघुनन्दनः । मन्त्रार्थ - आलसरहित यजमानों के अनुष्ठान करने से आहवनीय आदि अग्नियों के स्थान ( शालागृह ) महीने के तीसों दिन विशेषतया शोभित रहते हैं । जिस प्रकार कोई पक्षी एक स्थान से दूसरे स्थान की ओर जाता है, उसी प्रकार अग्नि भी गार्हपत्य से आहवनीय में जाता है । इस रीति से पक्षी के रूप में अग्नि को स्तुति की जाती है और प्रतिदिन प्रकाशित होने से भी उसकी स्तुति की जाती है ॥ ८ ॥

पृष्ठ 144

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 144 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३४ शुक्लयजुर्वेदसंहिता [ अ ० ३ पौष्टिके वरदश्चैव क्रोधाग्निश्चाभिचारके । वश्यार्थे वशकृत् प्रोक्तो वनदाहे तु पोषकः ॥

उदरे जठरो नाम क्रव्यादः शवभक्षणे । समुद्रे वाडवो ह्यग्निर्लये संवर्तकस्तथा ॥

सप्तविंशति संख्याता अग्नयः कर्मसु स्मृताः । तं तमाहूय होतव्यं यो यत्र विहितोऽनलः ॥ अन्यथा विफलं कर्म सर्वं तद्राक्षसं भवेत् । आदित्यादिग्रहाणां च साम्प्रतं ह्यग्निरुच्यते || आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते । धूमकेतुस्तथा भौमे जठरोऽग्निर्बुधे स्मृतः ॥ बृहस्पतौ शिखी नाम शुक्रे भवति हाटकः । शनैश्चरे महातेजा राहौ केतौ हुताशनः ॥ इति । अहेति निपातः पूर्वोक्तनिषेधार्थकः । अर्थादस्या ऋचः पूर्वार्धेऽग्निमाहात्म्यख्यापनाय तद्वाक्यद्वयेनार्थ-द्वयमुक्तम् । तावदेव न भवति किन्त्वन्यदपि माहात्म्यमुच्यते - प्रतिवस्तोः प्रतिदिनं द्युभिः क्रीडाविशेषद्यतने-वयमग्निः स्तूयत इत्यध्याहारः, दीव्यतेर्धातोर्द्युतिक्रीडाद्यर्थकत्वात् । अन्यस्तु -- ' यः प्रकाशक ईश्वररूपोऽग्निस्त्रिशत्संख्याकान् पदार्थान् व्याप्य प्रकाशयति, तस्यैव परमेश्वरस्य ज्ञानार्थं देववाणी पठ्यते प्रतिदिनं तत्प्रकाशकैर्वाक्यनिश्चयेन तन्मननं कर्तव्यम् ' इति, किन्तु नैतद्युक्तम्, यतो हि धामपदेन स्थानानि नामानि जन्मानीति ( नि ० ९ १२८ - २ ९ ) रीत्या धारकाः पदार्था न ग्रहीतुं शक्यन्ते, तद्वचनविरोधात् । कथञ्चित्तेषामपि स्थानरूपत्वापादनेन तत्सम्भवेऽपि तानभिव्याप्य यः प्रकाशयति परमात्मरूपोऽग्निरित्यस्य गमकः कश्चन शब्दस्तत्र नास्ति । विराजतिक्रियाया: कर्तृत्वेन त्रिशद्धाम वाग्वा सम्बन्धमर्हति नाश्रुतोऽग्निरीश्वरो वा 1 उपस्थितं परित्यज्यानुपस्थितकल्पने मानाभावात् । विराजतिश्चाकर्मको धातुः । तेन तत्क्रियायाः कर्ता स्वयं विशेषेण राजते दीप्यत इत्येवार्थ:, न प्रकाशयतीति । मूले वाक् पतङ्गायाग्नये धीयते इत्यत्र पतङ्गादेनाग्नेरीश्वरस्य वा ग्रहणेऽपि तज्ज्ञानं कस्य शब्दस्यार्थ इत्यपि न व्यक्तम् । एवमेव छुभिरिति पदेन कथञ्चित् प्रकाशकवाक्यानां ग्रहणसम्भवेऽपि तैर्मननं कर्तव्यमिति कुतो लब्धम्? -दयानन्दोऽत्रैवमाह – ' योऽग्निः प्रतिदिनं त्रिशत्संख्याकानां धर्माणां धारकान् पदार्थान् प्रकाशयति, तस्य पतनपातनादिगुणैः प्रकाशितस्य स्वयं गतिशीलस्यान्येषां प्रेरकस्याग्नेः प्रतिदिनं विद्वद्भिर्वाग्वेिदोऽध्येतत्र्यः । सा वाक् शरीरस्थेत वैद्युतेनाग्निना प्रकाश्यते तदीयगुणप्रकाशनायास्या वाघो वेदलक्षणायाः श्रवणमुपदेशश्च कर्तव्यम् । अष्टौ वसवः एकादश रुद्राः, द्वादशादित्याः इन्द्रः प्रजापतिः । एतेषु आदित्यमग्नि च परित्यज्य त्रिंशत्संख्याका अवशिष्यन्ते । एते धर्माणां धारकाः पदार्थाः । पतङ्गः परमेश्वरः, अथवा ' प्राणो वै पतङ्गः ' ( कौ ० ८४ ), ' पतन्निव हि अङ्गेषु ' ( जै ० ३ | ३ | ३५ ) इति । अयमप्यर्थो मन्त्राक्षराणि न स्पृशति । त्रिशत्संख्याकाः पदार्थाः के इत्यपेक्षायां बृहदारण्यकोपनिषत्स्थास्त्रयस्त्रिशत्संख्याका देवा उक्ताः । ‘ अग्निः पृथिवी वाय्वन्तरिक्षादित्या द्यौश्चन्द्रमाश्चेति अष्टौ वसवः सर्वमेषु वसतीति वसवः । पुरुषे दशेन्द्रियरूपाः प्राणा एकादश आत्मा इत्येकादश रुद्राः । एते यदा शरीरादुत्क्रामन्ति तदा रोदयन्ति तस्माद्रुद्रा उच्यन्ते । संवत्सरस्य द्वादश मासा द्वादशादित्याः, ते हि सर्वमाददाना यान्ति तस्मादादित्या उच्यन्ते । अशनिरूपः स्तनयित्नुरिन्द्रः पशुसाधनको यज्ञ एव प्रजापतिः ' इति, तदपि न मनोज्ञम्, अस्पष्टार्थत्वात् । तथाहि - त्रिंशत्संख्याका धर्माः के? येषां धारणेनैते धामपदव्यपदेश्या भवन्तीति तु नोक्तम् । किञ्चात्र त्रयस्त्रिंशत्संख्याका देवा उक्ताः । यदि मन्त्रेऽस्मिन् विवक्षिता भवेयुस्तदा त्रिशद्धामेति स्यात् । कुतश्चादित्यमग्नि च परित्यज्य ततस्त्रिंशत्-भाष्यसार - यहां पर ' धाम ' शब्द से ' अहोरात्र ' के ' तीस मुहूर्त ' अभिप्रेत हैं । अहोरात्र व्यवहृत होने वाली वाणी से अग्नि की स्तुति की गई है ।

पृष्ठ 145

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 145 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ८ ] वेदार्थपारिजातभाष्यसहिता १३५ संख्याकानामेव ग्रहणम्? कि परमेश्वरस्तौ न व्याप्नोति न वा प्रकाशयति? एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिरिति न्यायविरोधात् । तस्मात् पूर्वोक्तव्याख्यानुसारेण दिनव्यापिनस्त्रिशन्मुहूर्ता मासव्यापिन-स्तावन्तो दिवसा एव वा त्रिशद्धामपदव्यपदेश्याः, उव्वटसायणादिभिस्तथैव व्याख्यातत्वात् । पतङ्गेति व्याख्याघटकाः पतनपातनादयः के गुणाः? किं प्रमाणकास्ते दोषा वा गुणा वा? प्रकाशकत्वगतिशीलत्वमन्य-प्रेरकत्वमिति पतङ्गशब्दात् कथमायातीत्यपि प्रमाणसापेक्षमेव । पतङ्गशब्दः परमेशपरश्चेत्, तदा स एव चतुर्थ्यन्तपदार्थो न तज्ज्ञानमिति तज्ज्ञानाय वेदा अध्येतव्या इत्यपि नार्थः सम्भवति । तस्मादुब्वटसायण-महीधरादिसम्मत एव वेदार्थो ग्राह्यः । किञ्च पतङ्गशब्देन सूर्यः कुतो न गृह्यते, तस्मिन् पतङ्गशब्दप्रसिद्धेः । न चाग्नेः प्रक्रान्तत्वात् तथार्थग्रहणम् त्वद्रीत्याग्निशब्दस्यापि परमात्मपरत्वेन तदसिद्धेः । सिद्धान्ते तु अग्न्याधान मन्त्रा एत इति शतपथश्रुत्या कात्यायनादिसूत्रज्ञयते । यथा चैतत् तथा सूचितमेव व्याख्याने । अध्यात्मपक्षे तु - या वागू अनादिनिधना ब्रह्मरूपा बाक्, ' अनादिनिधनं ब्रह्म शब्दरूपं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ ' ( वा ० प ० १ १ ), ' न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ' ( बा ० १० ११ १२३ ) इत्याप्तवचनेभ्यः । त्रिंशद्धाम त्रिशत्संख्याकेषु धामसु स्थानेषु विराजते । प्रकृतिस्त्रयो गुणा महान् राजसतामसवैकारिका अहङ्कारा दशेन्द्रियाणि पञ्चतन्मात्राः पञ्चप्राणाः जीवात्मेश्वरी - इति प्रकृत्यादिरूपेण विवर्तते । सैव वाग् मन्त्रब्राह्मणरूपा पतङ्गाय पक्षिसदृशाय जीवाय जीवहिताय कर्मोपासनाज्ञान-प्रतिपादकत्वेन धीयते । यद्वा पतङ्गाय परमेश्वररूपपक्षिणे धीयते तात्पर्यावसायितया धार्यते । अहेत निपातः पूर्वोक्तनिषेधार्थः पूर्ववदेव । नैतावदेव किन्तु प्रतिवस्तोः प्रत्यहं कर्मठे रुपासकैश्च द्युभिः कर्मोपासनव्यवहारैर्द्योतनैर्निदिध्यासनादिरूपैर्ज्ञानेश्च मन्त्रब्राह्मणमहावात्पर्यविषयत्वेन लक्ष्यार्थभूता संव बागू धीयते प्राप्यते । यत्तु --- ' वेदलक्षणा वाक् ब्रह्मणे पतङ्गाय सूर्याय चोपदिष्टा ब्रह्मादित्यभेदेन वैदिकसम्प्रदायद्वैविध्यात् ' इति, तन्न, ब्रह्मण इति पदाभावेन न्यूनत्वापत्तेः । अथवा भगवन्तं प्रत्याह साधकः - हे अह परमात्मन्! ' अह व्याप्ती ' इति निष्पत्तेः । वाग्रूपो भवान् त्रिशद्धाम विराजति । प्रतिवस्तोः प्रत्यहं द्युभिः स्नेहमयैर्ज्ञानैरहं त्वामाश्रये । यत्तु - ' आयं गौरित्यस्य अयं पुरो दृश्यमानः पृश्नि: चित्रवर्णः सप्तरश्मिमयत्वात् । गोर्गमनशीलः सूर्यः पुरः प्राच्यां दिशि प्रातरित्यर्थः । मातरं पृथिवीं पृथिव्या अङ्के इत्यर्थः । असदत् असीदत् सीदतीत्यर्थः । छान्दसो लकारव्प्रत्ययः । ततश्च पितरं द्युलोकं प्रयन् गच्छन् स्वः स्वर्गमक्रमीत् क्रमते, पृथिवीतो द्युलोकपर्यन्तं च जगद् व्याप्नोतीत्यर्थः ' इति विज्ञानपक्षे मन्त्रयोजनम्, तच्च पूर्वोक्तशतपथश्रुतिविरुद्धमेव तत्राग्न्याधान-प्रसङ्गेऽग्न्युपस्थाने तिसृणामासामृचां विनियोगात् । किश्च द्यावापृथिव्योरन्तराले सूर्यस्य विद्यमानत्वेऽपि न पृथिव्या अङ्के तत्सत्त्वं सम्भवति, तथात्वप्रतीतेभ्रंमत्वात् । न च लोकसिद्धं प्रतिपादनं वेदे सम्भवति, प्रत्यक्षानुमानाभ्यामज्ञातज्ञापकत्वेनैव तत्प्रामाण्यात् । स्वामी दयानन्द कहते हैं कि जो अग्नि प्रतिदिन तीस धर्मों को धारण करनेवाले पदार्थों को प्रकाशित करता है, उस अग्नि के द्वारा प्रकाशित वागुरूपी वेद का अध्ययन करना चाहिये । किन्तु यह अर्थ मन्त्राक्षरों से नहीं निकल पा रहा है, अत: उव्वट, महीधर, सायणादिसम्मत अर्थ को ही स्वीकार करना उचित है । वैदिक सिद्धान्त के अनुसार ये मन्त्र अग्न्याधान के हैं ।

पृष्ठ 146

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 146 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३६ शुक्लयजुर्वेद संहिता [ अ ० ३ यदपि -- ' अन्तश्चरति अस्य सूर्यस्य रोचना रश्मिमयी दीप्तिः प्राणादपानती प्राणनापाननादिव्यापारं कुर्वती । अग्रे गमनं प्राणनं पश्चाद्गमनमपाननम् । सूर्यस्य रश्मयो हि प्राणनापानने गमनागमने कुर्वन्तः प्रयान्ति । छायायामिदं प्रत्यक्षमनुभूयते । छाया हि पूर्वं पुरः प्रयाति ततः स्वल्पं पश्चात् प्रसरति, ततश्च पुनरग्रे प्रयाति । छायायां यत्प्राणनमपाननं च दृश्यते, तत्सूर्यरश्मीनां प्राणनापाननव्यापारेणैव वर्तते, छायायां स्वतो गत्यभावात् । यथा बहिर्लोके सूर्यरश्मयः प्राणनापाननव्यापारं कुर्वन्त एव प्रयान्ति तथा प्राणिनां प्राणाः प्राणनापाननव्यापारं श्वासोच्छ्वासरूपं कुर्वन्त एवं यान्ति । प्राणिनां हृदये यः श्वासोच्छ्वासरूपो व्यापार: प्राणिहृदये प्रविष्टः स सूर्यरश्मिकृत एव । यतो हि सूर्यः सर्वप्राणिहृदयं प्रविश्यात्मरूपेण विराजति ' इति, तदपि यत्किचित् पूर्वमन्त्रे सूर्यस्याप्रकृतत्वादस्येति पदेन तद्ग्रहणासंगतेः । रश्मिमयी दीप्तिश्च गमनागमने कुर्वन्ती यातीत्यप्यसिद्धमेव । न च छायाया गमनागमनाभ्यां तत्सिद्धयतीति वाच्यम्, वैद्युताग्नेयचान्द्रमस दीप्तिष्वतिव्याप्तेः । यत्तु तेषामपि सौरानतिरिक्तत्वमेवेति तन्न, तथात्वे शतपथश्रुत्यनुसारेणाग्न्युपस्थानमेव । किन, मन्यताम्, कुतः सूर्यपरत्वयोजनाग्रहः च गमनागमनाभ्यां छायाया अपि न प्रतिक्षणं गमनागमने अनुभूयेते, आलोकस्यापवरकस्य गमनकाले गमनमेवानुभूयते । न च तयोर्गमनागमने प्रतिक्षणमनुभूयेते । छायागमनागमनानुभवात् नागमनम्, तथैवागमनकाले तदेवानुभूयते न गमनम् । श्रुतिस्मृत्यादिभिः प्रत्यक्षैश्च प्रागव्यापारौ श्वासोच्छ्वासौ सिद्धौ । प्राणश्च वायुविशेष इति ब्रह्मसूत्रे तद्भाष्ये च विचारितम् । तयोः सूर्यरश्मिमूलकत्वकल्पनं न युक्तम् । सूर्यो यद्यपि मण्डलान्तर्गतो हिरण्यश्मश्रुत्वादिविशिष्टः परमात्मैव यद्यपि च व्याहृत्यवयवात्मा हिरण्यगर्भः समष्टिप्राणबुद्धयुपाधिः प्राणादिसर्वव्यापाराणामीष्टे, तथापि तेजोमयो रश्मिसमूहस्त्वग्निमय एव । वायोरग्निरिति रोत्या तस्य वायोरुत्पत्तिर्भवति । एवं कारणहिरण्यगर्भान्वालोचनया, प्राणमूलकत्वमेव श्वासोच्छ्वासयोः सिद्ध्यति । तद्दृष्टयैव च सूर्यस्य सर्वात्मत्वं सम्भवति न सूर्यरश्मिमात्रदृष्ट्या रात्री तदभावेऽपि प्राणनादिकर्मदर्शनात् । हिरण्यगर्भरूपेणैवादित्यो जगतस्तस्थुषश्चात्मा भवति । अन्तर्यामिरूपेण शुद्धात्मा भवति, हिरण्यगर्भरूपेण सोपाधिक आत्मा भवति । यदपि --- ' रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् ' इति विलिख्य ( बृ ० आ ० ७।५।२ ) इति सङ्केतो दत्तः, स तु सङ्केतोऽशुद्ध एव ( बृ ० आ ० ५५ २ ) इति सङ्केतस्योचितत्वात् । अपरं च नानया श्रुत्या रश्मोनां श्वासोच्छ्वासनिर्वर्तीयतृत्वमुक्तम्, किन्तु ' तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योन्यस्मिन् प्रतिष्ठितौ । रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् ' ( बृ ० उ ० ५।५।२ ) । य एतस्मिन्नादित्यमण्डले पुरुषोऽभिमानी सोऽसौ सत्यं ब्रह्म । यश्चायं दक्षिणेऽक्षिणि पुरुषस्तावेतावादित्याक्षिस्थौ पुरुषौ एकस्य सत्यस्य ब्रह्मणः संस्थानविशेषौ यस्मात्तस्मादन्योन्यस्मिन् प्रतिष्ठितौ । आदित्यश्चाक्षुषे चाक्षुषश्चादित्य प्रतिष्ठितः । तदेवोच्यते - रश्मिभिः प्रकाशेनानुग्रहं कुर्वन्नेष आदित्योऽस्मिंश्चा-क्षुषेऽध्यात्मे प्रतिष्ठितः । अयं च चाक्षुषः प्राणैरादित्यमनुगृह्णन् आदित्येऽधिदेवे प्रतिष्ठितः ' इति शङ्करभाष्यम् । तत्रैवा-नन्दगिरिः - प्राणश्चक्षुरादिभिरिन्द्रियैरिति यावत् । अनुगृन्नादित्यमण्डलमात्मानं प्रकाशयन्नित्यर्थः । तथा च नेदमुप-निषद्वाक्यं सूर्य रश्मोनां प्राणापाननिर्वर्तयितृत्वं साधयति । एवमेव - ' तद्यथा महापथ आतत उभी ग्रामौ गच्छतीमं चामुं च चामुष्मादादित्यात् प्रतायन्ते । ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये ' ' ' ' ' अध्यात्मपक्ष में --- जो ' वाक् ' अनादिनिधना ब्रह्मरूपा है, वह तीस स्थानों में मन्त्र - ब्राह्मण रूपा वाक् को जीव के लिये, जो पक्षी के समान है, उसके कल्याणार्थ, विराज रही है । उसी को, अर्थात् कर्म - उपासना - ज्ञान का बोध कराने

पृष्ठ 147

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 147 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ८ - ९ ] वेदार्थपारिजातमाष्यसहिता १३७ ( छा ० उ ० ७/६२ ) इति । अत्रापि सङ्केतोऽशुद्धः । ( ८/६/२ ) इति भाव्यम् । भाष्यकाररीत्या यथा लोके महान् विस्तीर्णः पन्था महापथ आततो व्याप्त उभी ग्रामी गच्छति इमं सन्निहितममुं विप्रकृष्टस्थम्, यथा महापथ उभौ ग्राम प्रविष्टः, एवमेवैता आदित्यस्य रश्मय उभौ लोकौ अमुं चादित्यमण्डलमिमं च पुरुषं गच्छन्ति उभयत्र प्रविष्टाः । अमुष्मादादित्यमण्डलात्प्रतायन्ते सन्तता भवन्ति ता अध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासु नाडीषु सृप्ता गताः प्रविष्टा इत्यर्थः । आभ्यो नाडीभ्य प्रतायन्ते प्रवृत्ताः सन्तानभूताः सत्यस्तेऽमुष्मिन् मण्डले गछन्ति । रश्मिशब्दस्योभयलिङ्गत्वात्ता इत्युच्यते । वस्तुतस्त्वत्रापि न रश्मीनां श्वासोच्छ्वासहेतुत्व-मुक्तम्! ' अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ' ( छा ० उ ० ८ | ६ | १ ) | अथ या एता वक्ष्यमाणा हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य सम्बन्धिन्यो नाड्यो हृदयमांसपिण्डात् सर्वतो विनिःसृता आदित्यमण्डलादिव रश्मयस्ताश्चैताः पिङ्गलस्य वर्णविशेषस्याणिम्नः सूक्ष्मरसस्य पूर्णा अन्नरसेन पूर्णास्तदाकारा एव तिष्ठन्ति । तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य रसस्य पूर्णा इति सर्वत्राध्याहार्यम् । कथमन्नरसस्य पिङ्गलादिविचित्र वर्णविशेषः सिद्ध्यतीत्याशङ्क्योक्तं शङ्कराचार्येण सोरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेनाल्पेन सम्पर्कात् पिङ्गलं भवति । सौरं तेजः पित्ताख्यं तदेव च वातभूयस्त्वान्नीलं भवति । तदेव च कफभूयस्त्वात् शुक्लं कफेन समतायां पीतं शोणितबाहुल्येन लोहितम् ' इति । ' वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः । श्रुतिस्त्वादित्यसम्बन्धादेव तत्तेजसो नाडीष्वनुगतस्यैते वर्णविशेषाः ' इति । ' कथमसावादित्यः पिङ्गलो वर्णाद् एष आदित्यः शुक्लोऽप्येष नील एष पीत एष लोहित आदित्य एव । आदित्यस्य पैङ्गल्यादयो वर्णविशेषाः शास्त्राप्रामाण्यादेव प्रत्येतव्या ' इत्यानन्दगिरिः ॥ ८ ॥

अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा सूर्यो॒ ज्योति॒ज्र्ज्योतः सूर्यः स्वाहा॑ । अ॒ग्निर्वच॒ ज्योति॒र्व॑र्च॒ ः स्वाहा सूर्यो वर्चो ज्योतिर्वच्: स्वाहा॑ । ज्योतः सूर्य: सूर्यो॒ ज्योति॒ स्वाहा॑ ॥ ९ ॥

अत्र सायणः काण्वसंहिताभाष्ये - ' प्रथमेऽनुवाकेऽग्न्याधान मन्त्रा उक्ताः, द्वितीये त्वग्निहोत्रमन्त्राः | प्रागुपप्रयन्त इत्येतस्मात्तन्मन्त्राणां सामान्यतः प्रजापतिऋषिः, लिङ्गोक्ताः सप्त देवताः, आद्याः पञ्चैकपदाः, ' अग्निर्ज्योति: सूर्यो ज्योतिः एते द्वे एकपदे विशेषतो गायत्र्यो तक्षा मुनिरपश्यत् परां ज्योतिर्ज्योति रितीमां चेलकस्य पुत्रो जीवल ऋषिरपश्यत् यथाऽग्निर्वर्चो द्वे तक्षापश्यत् परां जीवलश्चलकिरित्यनुक्रमणी ( १।११ ) -वचनात् ' । ' अथ प्रदीप्ताम्रभिजुहोत्यग्निज्र्ज्योतिरिति ' ( का ० श्र ० ४ | १४ | १४ ) इति । या समित्प्रदीप्ता तामभिलक्ष्य जुहुयात् । अग्निज्योतिषमिति काण्त्रशाखोक्तमन्त्रेण ( ३।२।१ ) समित्प्रक्षेपः । काण्वमन्त्रपाठस्तु ' अग्निज्योतिषं त्वा वायुमती प्राणवती स्वर्ग्या स्वर्गायोपदधामि भास्वतीम् ' इति, तदर्थश्चेत्थम् - हे समित्! स्वर्गाय स्वर्गप्राप्तये विविधविशेषणां त्वामुपदधामि अग्नौ प्रक्षिपामि । कीदृशीं त्वाम्? अग्निज्योतिषम् अग्नि-हेतु दी गई है । अतः हे भगवन्! आप वाग्रूप हैं, आप सर्वत्र विराज रहे हैं । मैं प्रतिदिन इस स्नेहमय ज्ञान से तुम्हारे ही शरण हूँ ॥ ८ ॥

मन्त्रार्थ - यह जो अग्निदेव है, वही दृश्यमान ज्वाला का स्वरूप है और जो दिखाई देनेवाला ज्वाला का स्वरूप है, वही अग्नि है । अग्नि और ज्वाला इन दोनों का किसी भी समय वियोग न रहने से उन दोनों की एकता बताई गई है । ज्योतिःस्वरूप अग्नि को दिया हुआ हवि ' सुहुत ' हो । ( ' सूर्यो ज्योतिः ' यह मन्त्र, प्रातःकालीन होम का १८

पृष्ठ 148

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 148 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३८ शुक्लयजुर्वेदसंहिता [ अ ० ३ सम्बन्धिज्योतिर्यस्यां समिध्यभिव्यज्यते तादृशीम्, शुष्कसमिधामग्निज्वाला हेतुत्वप्रसिद्धेः । पुनः कीदृशीम्? वायुमती वायुसहायोपेतां वायुसाहाय्येनैव समित्सु ज्वलाप्राबल्यदर्शनात् प्राणवती बलवती शुष्कतृणपर्णादिष्विवाग्निज्वाला समिध्यपि सहसा न शाम्यति । स्वर्ग्यामनुष्ठातृणां स्वर्गहेतुत्वात् । भास्वतीमग्नेः समिन्धनेन सूर्यवत्प्रकाशोपेताम् । एवं काण्वोक्तमन्त्रेण समिदाधानं कृत्वा अग्निर्ज्योतिरिति मन्त्रेण प्रतिजुहुयात् । मन्त्रार्थस्तु - योऽयमग्निर्देवः स एव ज्योतिर्दृश्यमानज्योतिः स्वरूपम् । यच्चेदं ज्योतिर्दृश्यते तदेवाग्निर्देवः । अग्नेर्ज्योतिषश्च कदाचिदपि वियोगाभावात् तयोरैक्यमिहोच्यते । स्वाहा ज्योतीरूपायाग्निदेवाय हविः प्रदत्तमस्तु । स्वाहाशब्दस्य देवतामुद्दिश्य विहितद्रव्यत्यागोऽर्थः । अत्र ' नमः स्वस्तिस्वाहास्वधा ' ( पा ० सू ० २।३।१६ ) इत्यादिसूत्रानुसारं प्रथमा चतुर्थ्यन्तत्वेन विपरिणमय्य व्याख्येया । अग्निर्ज्योतिर्ज्योतिरित्यभ्यासोऽनुपचरि-तैक्यरूपभूयस्त्वार्थबोधनाय ज्ञेयः । अग्निमुद्दिश्य ज्योतिष्ट्वविधानाय प्रथमः, ज्योतिरुद्दिश्याग्नित्वविधानाय द्वितीय इति त्वं वै भगवो देवते अहमस्मि, अहं वै भगवो देवते त्वमसीतिवद् । अत्यन्ताभेदबोधनाय व्यतिहार निर्देशो वा । हानं हा न हा अहा, स्वस्य अहा अपरित्यागः स्वाहा | स्वस्य आत्मन आत्मीयस्य वा अहानं रक्षणं भवति देवतोद्देश्येन विहितद्रव्यत्यागात् । यथा क्षेत्रेष्वेकैकव्रीहियवगोधूमादिनिक्षेपो न स्वार्थत्यागः, एकैकस्य बीजस्य फलरूपेण शताधिकसंख्पानां तेषां लाभदर्शनात् । देवतोद्देश्येनाग्निमुखे तत्त्यागे त्वनन्त-सुखादिलाभश्रवणात्सुष्ठु आसमन्ताद् हानं देवतायै विहितद्रव्यस्य दानं वा स्वाहापदस्यार्थः विहितद्रव्ये स्वस्वत्वनिवृत्तिपूर्वक देवतास्वत्वोपपादनस्यैव स्वाहापदार्थत्वात् । अयं सायंकालिकाग्निहोत्रहोममन्त्रः । सूर्यो ज्योतिज्र्ज्योतिः सूर्य इति प्रातरग्निहोत्रमन्त्रः । पूर्वमन्त्रवदेवा-स्यापि मन्त्रस्यार्थः । सूर्यज्योतिरग्नौ सायं प्रविशति । तत एव दिनापेक्षयाऽग्नेर्ज्योतिराधिक्यं भवति । उदय-कालेऽग्निज्योतिः सूर्यं प्रविशति । तस्मादेव प्रातः सूर्यो ज्योतिर्ज्योतिरिति मन्त्रेण होम: । अत एव - स जुहोत्यग्नि-ज्र्ज्योतिर्ज्योतिरग्निः स्वाहेति सायम्, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ' इति कण्वो व्यवस्थामुक्तवान् । ' अग्निमादित्यः सायं प्रविशति । तस्मादग्निर्दूरान्नक्तं ददृशे । उभे हि तेजसी सम्पद्येते । उद्यन्तं वादित्यमग्निरनु-समारोहति । तस्माद्भूम एवाग्नेदिवा ददृशे ' इति तैत्तिरीयश्रुतेः । ' अग्निर्वर्च इति ब्रह्मवर्चसकामस्य ' ( का ० श्रौ ० ४।१४।१५ ) ब्रह्मवर्चसकामस्त्वग्निर्वर्चः सूर्यो वर्च इति सायं प्रातश्च जुहुयात् । ' योऽग्निर्वर्चोऽनन्यो यस्य च ज्योतिर्वर्चसानन्यद्भुतम्, तस्मै सुहुतमस्तु । यज्ज्योतिः सूर्य एव यः सूर्यः स ज्योतिरेव तस्मै स्वाहा ' अन्यस्तु - ' भौतिकोऽग्निः परमात्मज्योतिः प्रतिनिधिभूतः परमज्योतिभौतिकर्माग्नि प्रकटयति, इदं सत्यं वचः । भौतिकः सूर्यः परमात्मज्योतिषः प्रतिनिधिः परमात्मज्योतिरेव भौतिकसूर्यं प्रकटयति, इदमपि सत्यं वचनम्, अग्निपरमात्मनोरुभयोरपि दीप्तिमत्त्वात् ईदृशीं वाचमवितथामवेहि । भौतिकः सूर्यो दीप्तिमान् तथैव परमात्मज्योतिरपि दीप्तिमद् इदं सत्यं ज्ञानम्, सूर्यो ज्योतीरूपम्, ज्योतिश्च सूर्यरूपमिदमपि सत्यम् ' इति, तदपि है ) ज्योति और सूर्य दोनों एक ही हैं, अतः ज्योतीरूपी सूर्य को दिया हुआ हवि ' सुहुत ' हो । उसी तरह वर्चस् ( तेज ) और अग्नि तथा वर्चस् और सूर्य दोनों एक ही हैं । ज्योति और वर्चस् ये भी दोनों एक ही हैं । इसलिये उस अग्नि और सूर्य को दिया हुआ हवि ' सुहुत ' हो । ज्योति और सूर्य एकरूप होने से उनको दिया हुआ हवि सुहुत हो । यह नवाँ और दसवाँ मन्त्र ' अग्निहोत्र ' होम के हैं । ब्रह्मवर्चस की इच्छा रखनेवाला अग्निहोत्री ' अग्निर्वर्चः ' मन्त्र से सायंकाल और ' सूर्यो वर्चः ' मन्त्र से प्रात काल होम करे, अथवा ' ज्योतिः सूर्यः यह भी प्रातःकाल का मन्त्र है ॥ ९ ॥

पृष्ठ 149

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 149 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ९ ] वेदार्थपारिजातमाष्यसहिता १३ ९ किञ्चित्, मन्त्रे तादृशार्थबोध जनकपदाभावात् मन्त्राक्षरैस्तथार्थासिद्धेः । प्रसिद्धयनुसारेण शब्दानां तेषु तेष्वर्थेषु शक्तिग्रहो भवति । एवं रीत्या ज्योतिःशब्दस्य अग्नि - सूर्य - परमात्मसाधारणज्योतिषां बोधकत्वेन परमात्मपरत्वे मानाभावात् । लक्षणादिभिस्तु समेषां शब्दानां तत्तज्जातिवाचकत्वेन जातीनां च परसत्तारूपायां जातौ पर्यवसानात् परसत्तायाश्च परमात्मरूपत्वेन पारम्पर्येण समेषां शब्दानां परमात्मपर्यवसायित्वं सम्भवत्येव, ' सर्व खल्विदं ब्रह्म ' इत्यादिश्रुतिभ्यः । स्वाहाशब्दस्य देवहविर्दाने प्रसिद्धत्वात् सत्यवचनार्थकत्वं गौणवृत्त्याश्रयणेनैव, तत्तु नैव शोभनं प्रमाणहीनमिति नैकधा कथितम् । दयानन्दस्तु – ' अग्निर्जगदीश्वरः स्वाहाज्योतिः सर्वस्मै ददाति । एवं भौतिकोऽग्निः सर्वप्रकाशकैज्र्ज्योति-ददाति । सूर्यश्चराचरात्मा स्वाहाज्योतिः सर्वात्मज्ञानं ददाति । एवमयं सूर्यः सूर्यलोको ज्योतिर्दानं मूर्तद्रव्य-प्रकाशनं च करोति । सर्वविद्याप्रकाशकोऽग्निर्जगदीश्वरः मनुष्यार्थं सर्वविद्याधिकरणं स्वाहा वेदचतुष्टयं प्रादुर्भा वयति । एवं ज्योतिर्विद्युदाख्योऽयमग्निः शरीरब्रह्माण्डस्थो वर्चो विद्यावृष्टिहेतुर्भवति । सूर्यः सकलविद्या प्रकाशको जगदीश्वरः सर्वमनुष्यार्थं स्वाहा वर्चः प्रकाशकं विद्युत्सूर्य प्रसिद्धाग्न्याख्यं तेजः करोति । एवं ज्योतिः सूर्यलोकोऽपि वर्चः शरीरात्मबलं प्रकाशयति । सूर्यः प्राणो ज्योतिः सकलविद्याप्रकाशकं ज्ञानं कारयति तथाऽयं ज्योति -ज्र्ज्योतिर्मयः सूर्यो जगदीश्वरः स्वाहा स्वाहुतं हविः स्वसृष्टपदार्थेषु स्वशक्त्या सर्वत्र प्रसारयति ' ( पृ. २४८ ) पूर्वमेव निरस्ताः, निरुक्तवचना-इति, तदपि न सङ्गतम्, श्रुतिसूत्रादिविरुद्धत्वात् । स्वाहापदार्थास्तदुक्तास्तु नामन्यार्थत्वोक्तेः । ' ज्योतिः सर्वव्यवहारप्रकाशकम्, वर्चः चक्रवर्त्यादिराज्यदीपकम् ' इत्यादिकं तु निर्मूलमेव । प्रत्यक्षविरुद्धं चैतत् । नहि परमेश्वरः सर्वस्मै सत्यवाणीयुक्त विज्ञान प्रकाशयुक्ता विद्या ददाति तथात्वे मिथ्याऽविद्यायुक्तमनुष्यानुपलम्भापत्तेः । हिन्द्यामेव – ' एवमग्निः शिल्पविद्यासाधनप्रकाशं ददाति इत्यपि रिक्तं वचः, त्वद्रीत्या जडस्याग्नेविद्यासाधनप्रकाशदातृत्वानुपपत्तेः । एवं वेदानां विद्याधिकरणत्वमपि चिन्त्यम्, चेतनात्मनामेव विद्याधिकरणत्वात् । अत्र विषये शतपथे ( २ | ३ | १ | १ - ३३ ) स्थले विस्तरेण विचारो दृश्यते । ' सूर्यो ह वा अग्निहोत्रं तद्यदेतस्था अग्र आहुतेरुत्तस्मात् सूर्योऽग्निहोत्रम् ' । सायं प्रातर्होमयोः कालविशेषविधित्सया अग्निहोत्रं सूर्यात्मना प्रशंसति-एतस्य सृष्ट्यादौ प्रजापतिना प्रथमं हुताया आहुतेः सूर्य उदैत् तस्मात् सूर्योऽग्निहोत्रम्, य इह अग्नौ तस्मिन् सूर्य सति इदं हविर्जुवानीति मन्यते स सायमग्निहोत्रमस्तमिते कुर्यात् प्रातर्होमं चानुदिते कुर्यात् । अनुदितो हि सूर्योऽग्निकीभूतो वर्तते । अग्नि वादित्यः सायं प्रविशति ' ( तै ० ब्रा ० २ १ ३ ९ ) इति श्रुतेः । अतोऽपि सूर्यं सम्बद्धमग्निहोत्रम् | अथ यदस्तमेतीति तदग्नावेव योनी गर्भो भूत्वा प्रविशतीति सूर्यस्य गर्भभावमनु रात्रौ सर्वाः प्रजाः गर्भा एव भवन्ति । रात्रौ सर्वाः प्रजा एकविधं ज्ञानं प्राप्ताः शेरते । अग्नौ गर्भरूपेण प्रविशन्तमभि होमं कुर्वन् परस्मिन् दिवसे पुनर्जनयितुं वर्धयति । सायंहोमस्य गर्भवृद्धिहेतुतामभिधाय प्रातर्होमस्य तज्जननहेतुत्व-मुक्तम् । ' अथ यत्प्रातरनुदिते जुहोति प्रजनयत्येवैनमेतत्सोऽयं तेजो भूत्वा विभ्राजमान उदेति । यदस्मिन्नाहुति न जुहुयात् तदा शश्वद्ध नोदियात् । यथाहिस्त्वचो निर्मुच्येत एवं सूर्यो रात्रेः पाप्मनो निर्मुच्यते सर्वस्मात्पाप्मनो निर्मुच्यते य एवं विद्वान् अग्निहोत्रं जुहोति । अनुदितहोमान्ते सूर्यस्योदये सति यथाप्रयोजनं सर्वाः प्रजा विसृज्यन्ते ' । सायमग्निहोत्रस्याहवनीयस्य विहरणमस्तमयात् प्रागेव कर्तव्यमित्याहवनीयमुद्धरति । गार्हपत्यादाह-भाष्यसार - काण्वसंहिता भाष्य के प्रथम अनुवाक में अग्न्याधान के मन्त्र और द्वितीय अनुवाक में अग्निहोत्र के मन्त्र बताये गये हैं । काण्वोक्त मन्त्र से समिदाधान करके ' अग्निर्ज्योतिः ' मन्त्र से पुनः हवन करे । यहाँ मन्त्र में

पृष्ठ 150

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 150 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

III शुक्लयजुर्वेद संहिता [ अ ० ६ वनीयं प्रणयेत् । कुत एतदिति तत्रोक्तम् - एते खलु सूर्यस्य रश्मयो विश्वेदेवा यत्परं भा रश्मीना मुपर्यवस्थितं सूर्याख्यं ज्योतिः स प्रजापतिर्वा इन्द्रो वा तद् ज्योतिः । तदु ह वै विश्वेदेवाः । तेऽस्तमयात् प्रागवस्थिता विश्वेदेवा अग्निहोत्रं जुह्वतो गृहान्तर्गच्छन्ति । स यस्यानुद्धृतमागच्छन्ति तस्माद्देवा अपप्रयन्ति, आहवनीयानुद्धरणे सत्याश्रयाभावाद् निवर्तन्ते । आगतानां देवानां यदपागमनं तद् यजमानस्याग्निहोत्रव्यृद्धिरेव । तस्याग्निहोत्रस्य व्यृद्धिमनुलक्ष्य यश्च वेद यश्च न वेद ते सर्वेऽनुद्धृत माहवनीयमभिलक्ष्य सूर्योऽस्तमगादिति निन्दन्ति । अथ यः पुरादित्यस्यास्तमयाद् आहवनीयमुद्धरति यथा आसनेनोपक्लृप्तेनायास्यन्तं श्रेयांसं यथोपासीत तथास्तमयात् प्राग् आहवनीयोद्धरणम् । तेन यस्योद्धृतमागच्छन्ति तस्याहवनीयं प्रविशन्ति । विज्ञानभाष्याभिमानिनस्तु आहवनीयकुण्डाद् भस्मोद्धरणमेवाहवनीयोद्धरणं मन्यन्ते । तच्च हरिस्वा-म्यादिभाष्यविरुद्धम्, मूलशतपथविरुद्धं च । यदि सूर्यास्तमयात्पूर्वं भस्मोद्धरणं क्रियेत तदा भस्मोद्धरणेन सार्धं तत्रत्या विश्वेदेवा उद्धृता भवेयुस्तस्मात्प्राणानामुद्धरणात् तदग्निहोत्रमेव ऋद्धिशून्यं भवेदिति तन्मतम् । मूले तु यस्यानुद्धृतमागच्छन्ति तस्मादपप्रयन्ति । यस्यास्तमयात्प्राग् आहवनीयस्योद्धरणं गार्हपत्यादाहव-नीयेऽग्निप्रणयनं न कृतं भवेत् तस्य गृहे देवा आयान्ति, परमाहवनीयाग्निरूपाश्रयस्याभावाद् अपप्रयन्ति । तस्मादशुद्धमेव तद्व्याख्यानम् । कात्यायनोऽपि गार्हपत्यादाहवनीयस्योद्धरणमनस्तमितानुदितयो: ' ( का ० श्र ० ४ | १३ | २ ) । अनस्तमितानुदितयोर्गार्हपत्यादग्नेः प्रणयनम् । आहवनीयखरे पञ्चभूसंस्कारान् कृत्वा तत उद्धरणं कृत्वा प्राञ्चं नीत्वा स्थापयेत् । ' स यत्सायमस्तमिते जुहोति अग्नावेवैभ्य एतत्प्रविष्टेभ्यो जुहोति । अथ यत्प्रातरनुदिते जुहोति, अप्रेतेभ्य एवैतज्जुहोति । तस्मादुदित होमिनां विच्छिन्नमग्निहोत्रं मन्यामह इति ह स्माहासुरिः ' ( श ० २ | ३ | ११ ९ ) । यथा आगतेऽतिथी गृहादपगते सति शून्यं तदावासस्थानं प्रतिपन्नमिति तर्पणीयान्नादिकमाहरेत्, एवमाह वनीयाश्मिरूपेषु देवेष्वपयातेषु तेषूदितं सूर्यं प्रति गतेषु तदुद्देश्येनाहवनीयहोमशून्ये गृह आहार्याहरणमिव व्यर्थमेव स्यात्तद्धवनम् । देवशून्ये गृहेऽग्निहरणमिति तु निरर्थकमेव । प्रकारान्तरेणाप्यस्तमितानुदित होमो प्रशंसति द्वयं वेति । द्वयं वा इदं जीवनं मूलि चैवामूलं च । तदुभयं देवाना सन्मनुष्या उपजीवन्ति । पशवो मूला ओषधयो मूलिन्यः । ते पशवो मूला ओषधीर्मूलिनीर्जग्ध्वाऽपः पीत्वा तत एष रसः सम्भवति ' ( श ० २ | ३ | १ | १० ) । मूलयुक्ता ओषधयो मूलिन्यस्तद्रहिताः पशवोऽमूलाः । अत एव पशवो मूला इत्यस्य अमूला इत्यर्थः कार्यः । मूले मूलाभावान्मूलस्याप्यमूलत्वसाम्यान्मूला: पशवोऽमूलिनीरोषधीर्जग्ध्वाऽपः पीत्वा दुग्धं प्रयच्छन्ति । तस्मात् क्षीरादिरसो मूल्यमूलोभय निष्पन्नो भवति । स यत्सायमस्तमिते जुहोति । अस्य रसस्य जीवनस्य देवेभ्यो जुहवानि यदेषामिद सदुपजीवाम इति स यत्ततो रात्र्याश्नाति हुतोच्छिष्टमेव तन्निरवत्तवल्यश्नाति हुतोच्छिष्टस्य ह्येवाग्निहोत्रं जुह्वदशिता ' ( श ० २ | ३ | १ | ११ ) । अर्थान्मूल्य मूलोभय निष्पन्नसर्वप्राणिजीवनहेतोः क्षीरात्मकस्य रसस्य भागं प्रथमं देवेभ्यस्तत्स्वामिभ्यो जुहवानि पश्चात्तदुपभुक्तशेषः सर्वे वयमुपजीवाम इत्यनेनाभिप्रायेण पयसाऽग्निहोत्रं जुहुयात् । अतो होमानन्तरं रात्र्या कालेन यद् अशितं भवति तत् हुतोच्छिष्टमेव भुक्तं भवति । निष्कृष्यावत्तो वलिर्देवभागो यस्मात्तन्निरवत्तवलिः । एवमग्निहोत्रं कुर्वन् पुरुषो हुतोच्छिष्टस्यैव रात्रौ अशिता भवति । अग्नि और ज्योति की एकता बताई गई है । प्रातः अग्निज्योति सूर्य में प्रविष्ट हो जाती है और सायं सूर्यज्योति afe में प्रविष्ट हुआ करती है ।