वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 151–160

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 151–160

पृष्ठ 151

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 151 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ९ ] वेदार्थ पारिजात भाष्यसहिता १४१ ' अथ यत्प्रातरनुदिते जुहोति - अस्य रसस्य जीवनस्य देवेभ्यो जुहवानि ' ( श ० २ | ३ | १ | १२ ), प्रातर्होमेऽपि तथैव । अन्ये ज्योतिष्टोमादयो यज्ञाः सन्तिष्ठन्ते समाप्यन्त एव । द्वादशसंवत्सर साध्यमपि सत्रमन्तवदेव भवति । अग्निहोत्रं त्वनन्तत्वादसंस्थितमेव भवति । ' सायं हृत्वा वेद प्रातर्होष्यामीति, प्रातर्हृत्वा वेद पुनः साय होष्यामीति । तत् तस्मादेतदग्निहोत्रम् अनुपस्थितमपरिसमाप्तं भवति तस्यानुपस्थितिमपरिसमाप्तिमनु इमाः प्रजा अनुपस्थिता अपरिसमाप्ताः प्रजायन्ते । अनुपस्थितः अपरिसमाप्तः सदा तद्युक्तः श्रिया प्रजया प्रजायते य एवमेतदनुपस्थितमग्निहोत्रं वेद ' ( श ० २ । ३ । १।१३ ) । ' तद्दुग्ध्वाधिश्रयति ' इति चतुर्दशकण्डिकासारः - इति पयसो होमसाधनत्वं विधाय दोहानन्तर-मग्नावधिश्रयणम् । यस्मिन् काले तत्पय उदन्तं पाकवशादुद्गतान्तं बुद्बुदवद् भवति, तस्मिन् काले तच्छ्रुतं भवति । तदवस्थापन्नेन पयसा जुहुयादित्येकेषां मतं निरस्य पक्षान्तरमाह-- रेतः संस्तुतं ह्येतत्पयः, तच्चोपदग्धम् अजानि अप्रजननशीलं प्रजोत्पादकं न भवति । कथं तर्हि होतव्यमित्याह -- ' अधिश्रित्यैव जुहुयात् " ( श ० २०३।१।१५ ) । न तु पाकेनोदन्तं करोति । ' यन्नु एतदग्नेरेतस्तस्या ९ १ रेतः प्रासिञ्चत् तत्पयोऽभवत् ' ( श ० २।२।४।१५ ) । तथा चाग्निरेतस्त्वादेव पयः शृतमेव सर्वदा । अतश्चाधिश्रयणमात्रादेव तच्छ्रुतं भवतीति तदवस्थे-नैवजुहुयात् । ' तदवज्योतयति ' ( श ० २ | ३ | १ | १६ ) । ज्वालायुक्तेन दर्भाग्रेण अवाङ्मुखं पयः प्रकाशति पश्यति । अथापः प्रत्यानयति तत्र पयसि जलं निक्षिपति । तेन तप्तस्य पयसः शान्तिर्भवति रसस्य पूर्तिश्च भवति । जलवृष्टयैवौषधयो जायन्ते । ता जग्ध्वाऽपः पीत्वा तत एव रसो भवति । अतो रसपरिपूर्णतायं पयसि उदकस्तोकबिन्दुनिक्षेप्यः । यज्ञादन्यत्रापि शान्त्यं रसस्य परिपूर्णतायै उदकस्तोकमाश्च्योत वै ब्रूयात्- ' तृणेनाव-ज्योत्या सिच्यापः पुनरवज्योत्य निधाय त्रिरद्वासयत्युदक ' ( का ० श्र ० ४ | १४ | ५ ) | अधिश्रितं पयो दर्भतृणज्योतिषावज्योत्य स्रुवेण पयसि अप आसिच्य पुनरवज्योत्य निधाय मुक्त्वा त्रिरुदीच्यां दिश्युद्वासयेत । अवज्योतनस्य ( प्रकाशनस्य ) शृताश्वताज्ञानरूपदृष्टार्थत्वात् तदधिश्रयणाभावे तण्डुलदध्यादावभावः । अवसेकोऽपि दृष्टार्थं एव, उदकस्य क्षयो यथा न स्यात् स पयसः पुनरवज्योतनस्याप्युदकक्षय वित्त्यर्थत्वान्न तण्डुलादा-ववसेकादिकम् | ' चतुर: स्रुवानुन्नयति ' ( का ० श्री ० ४। १४ । १० ) । ' अथ चतुरुन्नयति ' ( श ० २। ३ । १।१७ ) । चतुर्भ्यः स्तनेभ्यो दुग्धत्वाच्चतुर्धा विहितं हीदं पयश्चतुरः स्रुवानुन्नयति । वैकङ्कत्यां स्रुचि निःक्षिपति । समिद्धेऽग्नौ होमार्थमुन्नीतपयस्कायां वैकङ्कत्यां सुचि एकां समिधमुपरि निधाय गार्हपत्यदेशादाहवनीयं प्रति गच्छेत् । गत्वा च तस्मिन्नाहवनीयापरभागे होमद्रव्यमनुपसाद्य अभिघार्य हस्ते धृत्वैव गार्हपत्यदेशादाहवनीयं प्रतिसृत्यैव पूर्वामाहुति जुहुयात् । ' उपरि समिधं धारयन् वाक्षमध्यधि गार्हपत्यादाहवनीय १७ हरति मुखमात्रे धारयन् ' ( का. श्री. ४।१४।१२ ) । चतुर्गृहीतपयस उपरि पलाशादिवृक्षीयां समिधमङ्गुल्यन्तरितां धारयन् अध्यधि गार्हपत्यस्योपरि समीप एव स्रुचं धारयित्वा मुखमात्रै स्रुचं धारयन् आहवनीयं प्रति होमार्थं नयेत् । ' मध्ये निगृह्योद्गृह्योपविश्य समिधमादधात्य-ग्निज्योतिषं त्वा वायुमतीं प्राणवती स्वर्ग्या स्वर्गायोपदधामि भास्वतीमिति ' ( का ० श्र ० ४ १४ १३ ) । किसी ने कहा है कि यह भौतिक अग्नि ही परमात्मज्योति की प्रतिनिधिभूत है, दोनों ही दीप्तिमान् हैं । किन्तु उक्तार्थं का प्रतिपादक वैसा शब्द मन्त्र में उपलब्ध न उचित नहीं है । शब्दों का शक्तिग्रह प्रसिद्धि के अनुसार तत्तद् अर्थों में हुआ करता है, लेकर अर्थ करना शोभा नहीं देता और प्रमाणहीन भी है । क्योंकि अग्नि और परमात्मा होने से वैसा अर्थ करना अतः गौण वृत्ति का आश्रय

पृष्ठ 152

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 152 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४२ शुक्लयजुर्वेदसंहिता [ २०३ गार्हपत्याहवनीययोरन्तराले मुखमात्र धृतां स्रुचं नाभिप्रदेशं यावन्नीचगृहीत्वा पुनर्मुखमात्रे एव गृहीत्वा आहवनीयं सकाशात् प्राप्योपविश्य स्रुचं वामहस्ते कृत्वा दक्षिणेन समिधमादध्यादग्निज्योतिषमिति मन्त्रेण आज्य स्थाल्याः पुनश्चतु-चतुरः स्रुवान् स्रुचि उन्नयेत्, चतुगृहीतस्याहुतिद्वयार्थत्वात् । पूर्वाहृत्यनन्तरं द्रव्यनाशादी उत्तराहुत्यर्थं ' इति यदुपसादनं गृहीतं ग्राह्यम् । भक्षार्थस्य नाशादौ भक्षणस्य लोप एव न तदर्थं पुनर्ग्रहणम् । ' होष्यन्नुपसादयति पात्रमप्राप्य तैत्तिरीयके समाम्नातं तदनूद्य तस्यायुक्तत्वं दृष्टान्तेनोपपादयति- भोक्तुमुपविष्टस्य पुरः स्थितं मध्यमार्गेऽशनं दित्सितान्नादिकं निदध्यात् एवं तत उपसादनम् । अथ यदनुपसाद्य यथा यस्मा जुहुयादिति अशनमाहरेत्तस्मा- विधत्ते । आहृत्यैवोपनिदध्यादेवं तत् । प्रथमामाहुति हुत्वा उपसादनपुरःसरमेव द्वितीयामाहुति द्वे आहुती मनोवाग्रूपे । एवमनुपसादनोपसारनलक्षणधर्मभेदादेते आहुती नानावीर्ये एवं करोति अपि । किञ्चेमे अनुपसादनोपसादनत्वेन विलक्षणे तस्माद्यथा मनश्च वाक् च समानमेव समाने एव तद्वदाहुतित्वेन समाने भवतः । इति सप्तदशकण्डिकाभिप्रायः । प्राश्नाति होमोपमार्जनप्राशनोन्नयनानां संख्यामनूद्य प्रशंसति -- स वै द्विरग्नौ जुहोति । उपमार्जनप्राशनयोविहितयोः द्विरुपमाष्ट द्विः चतुरुन्नयति तद्दशाक्षरा वै विराड् विराड् वै यज्ञस्तद्विराज मेवैतद् यज्ञं सम्पादयति - स यदग्नो जुहोति तद्देवेषु स्तोतुमयोग्यत्वात् तयोरपि विधिरनुमेयः । होमोपमार्जनप्राशनानामुपयोगमाह सन्तः सर्वदा विद्यन्ते ) । प्रथमोपमार्जनेन जुहोति । तस्माद्देवाः सन्ति । ( अग्नौ प्रक्षिप्तेनाग्निहोत्रह विषोपहितावयवाः स यद्धृत्वा प्राश्नाति तन्मनुष्येषु चौषधीनां तृप्तिः, द्वितीयेन पितॄणाम् । तस्मात्पितरश्चौषधयश्च । विशकण्डिकासारः सर्वदा विद्यन्ते ॥ जुहोति । तस्मान्मनुष्याः सन्ति, सर्वदा विद्यन्त इत्यर्थः ) इत्यादिना । अग्निहोत्र होमे याज्ञवल्क्याभिमतपाकयज्ञियत्वमुच्यते- ' तदुहोवाच याज्ञवल्क्यः ' ( श ० भवति २ | ३ | १ । | २१ यदन्यस्मिन् यज्ञे दर्शपूर्णमासादिवदग्निहोत्रहोमो न केवलं यज्ञः, किन्तु पाकयज्ञ इवाग्निहोत्रहोमो तदस्य पाकयज्ञस्येवेति । तदस्य तत् स्रुच्यवद्यति सर्वं तदग्नौ जुहोत्यथैतदग्नी हुत्वोत्सृप्याचामति निर्लेढि बहिर्निर्गम्य आचमनलेहनादिकः पशव्यं रूपम् । पशव्यो हि पाकयज्ञः । अग्नौ हुत्वा किञ्चिदवशेषमुत्सृप्य भवति । ' सैषैकाहुतिरेवाग्रे पाकयज्ञधर्मोऽस्मिन् विद्यते तत् पाकयज्ञियमस्य पशव्यं पशुभ्यो हितं पशुप्राप्तिसाधनं द्वितीयाहुतियते ' यामेवामूं प्रजापतिरजुहोदय यदेत एतत् पश्चेवाप्रियन्ताग्निर्योऽयं पवते सूर्यस्तस्मादेषा संषैका अग्निहोत्रस्य पूर्वाहुतिः । ( श ० २ | ३ | ११२२ ) | याममूं विप्रकृष्टामाहुति प्रजापतिः सृष्टिकाले प्रथममजुहोत् या पूर्वाहुतिः अनन्तरं च यदेते अग्निवायुसूर्याः पश्चादिव अवस्थिता अतस्तदनुप्रीतये द्वितीयाहुतिः सा । सा । दुरिष्टिकृद्दोष-साग्निहोत्रस्य देवता प्रधानदेवताप्रीतिकरी तस्मात्तस्यै जुहोत्यथ योत्तरा स्विष्टकृद्भाजनमेव जुहोत्येषा मार्जनपूर्वकस्विष्टकृत्वसम्पादनाय यो होमो भवति स स्विकृद्धोमः । तत्स्थानीयात्तस्मादुत्तरार्धे आहुती भूतं हिदि । स्विष्टकृतस्तन्मिथुनायैव द्वितीयाहुति र्हयते । द्वन्द्वं हि मिथुनं प्रजननम् । तद् द्वयमेवैते चाशा चाद्य च श्वश्च तद् द्वयमेवानु उत्सृप्य निर्लेढ्या-चैव भविष्यं च, जातं च जनिष्यमाणं चागतं पात्रान्तरे हस्ते वा चम्योत्सिञ्चति देवान् जिन्व पितॄन जिन्व तृतीयामुदुक्षति सप्त ऋषीन् जिन्वेति ततः स्रुचं । स्रुक्स्थं जलेन हृतशेषं पूरयित्वा देवान् जिन्वेति कृत्वा तद् द्रव्यमाचम्य भक्षयित्वा तत्पात्रं वा जिह्वया सकृदास्वादयति । उच्छालयति, पुनस्तृतीयवारं मन्त्रेण देवत्वादुत्तरतो जलमुच्छालयति, पुनर्जलेनापूर्य पितन् जिन्वेति दक्षिणत उसी प्रकार उसी प्रकार स्वामी दयानन्द ने भी कहा है कि जगदीश्वर अग्नि स्वाहाज्योति सबको देता है, भौतिक अग्नि सब को ज्योति देता है । सूर्यलोक ज्योतिर्दान और मूर्त द्रव्य का प्रकाशन करता है । सर्वविद्याप्रकाशक

पृष्ठ 153

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 153 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मंत्र: ९ ] वेदार्थपारिजात भाष्य सहिता १४३ जलमापूर्य तज्जलमै शान्यामुच्छालयेत् । चतुर्थी वर्चस्थाने त्रिर्निषिञ्चत्यग्नय पृथिवीक्षिते स्वाहा । प्राक्संस्थं नीचैः क्षिपति । भूतम् अतीतकालावच्छिन्नं भविष्यद् आगामिकालावच्छिन्नम् । एवं बहुविधं तद्द्वयमेवानु तद्भागरूपे यथाक्रममेते आहुती भवतः । तयोराहुत्योः समन्त्रका मन्त्रकत्वे विधास्यन् भूतभविष्यदादिद्वन्द्वस्यात्मप्रजा-रूपत्वमद्धानद्धारूपत्वं च दर्शयति-- ' आत्मैव भूतम् अद्धा हि तद् यद् तम् अद्धो तद्यदात्मा प्रजैव भविष्यदनद्धो तद् यत्प्रजाः ' ( श ० २।३।१।२५ ) | ' आत्मैव जातम् अद्धा हि तद्यज्जातम् अद्धो तद्यदात्मा प्रजैव जनिष्यमाण-मनद्धा हि तद् यज्जनिष्यमाणमनद्धो तद्यत् प्रजाः ' ( श ० २।३।१।२६ ) । ' आत्मैवागतं प्रजैवाशा ' ( श ० २।३।१।२७ ) । ' आत्मवाद्य प्रजैव श्व: ' ( श ० २ | ३ | १ | २८ ) । सा या पूर्वाहुतिः सात्मानमभि हूयते तां मन्त्रेण जुहोत्यद्धा हि तद्यन्मन्त्रः ( एतेन यज्ञेषु मन्त्रोच्चारणमभ्यासार्थमेवेति सामाजिकानां मतमपास्तम् ) । अद्ध तद्यदात्माऽथ योत्तरा सा प्रजामभि हूयते । तां तूष्णीं जुहोत्यनद्धा हि तद्यत्तूष्णीमनद्धो तद्यत्प्रजा ' ( श ० २।३।१।२५ ) । उत्तराहुति: भविष्यज्जनिष्यमाणानागताद्यात्मकप्रजास्थानीया चानद्धारूपा । अमन्त्र-कत्वमपि तथेति तूष्णीमेव सा होतव्या । पूर्वा त्वात्मादिस्थानीया s तो समन्त्रका सा होतव्या कालद्वयेऽपि । पूर्वस्या आहुतेः क्रमेण मन्त्रं दर्शयति - स जुहोतीति । अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेत्यथ प्रातः, सूर्यो ज्योति -ज्योतिः सूर्यः स्वाहेति तत्सत्येनैव हूयते । यदा ह्येव सूर्योऽस्तमेत्यथाग्निर्ज्योतिः । यदा सूर्य उदेत्यथ सूर्यो ज्योतिर्यद्वै सत्येन हूयते वद्देवान् गच्छति ' ( श ० २ | ३ | १ | ३० ) । मन्त्रयोः सत्यरूपत्वमुपपादयितुमर्थतस्त-द्भावमाह - यदा हीति । अस्तंगतः सूर्योऽग्निमेवानुप्रविशति रात्रावग्निर्ज्योतीरूपो भवति । पुनरुद्यन्तं सूर्यमग्निः प्रविशतीत्यहनि सूर्यो ज्योतीरूपो भवति । अतश्च कालद्वयेऽग्निज्र्ज्योति, सूर्यो ज्योतिरित्येतन्मन्त्रवाक्यद्वयं समवेतार्थत्वात् सत्यम्! ' तदु हैतदेवारुणये ब्रह्मवर्चसकामाय तक्षानूवाचाग्निर्वर्चो ज्योतिर्वर्चः सूर्यो वर्चो ज्योतिर्वचं इति ब्रह्मवर्चसी हैव भवति य एवं विद्वानग्निहोत्रं जुहोति ' ( श ० २ | ३ | १ | ३१ ) । तक्षाख्य ऋषिर्ब्रह्मवर्चस-कामायारुणये अग्निर्वर्चो ज्योतिर्वर्च इति मन्त्रद्वयेन होममुपदिदेश । ब्रह्मवर्चसकामस्य मन्त्रविशेषौ दर्शयति— ' अग्निर्वर्च इति ब्रह्मवर्चसकामस्य ' ( का ० श्री ० ४। १४ १५ ) । ' तदस्त्येव प्रजननस्येव रूपम् | अग्निर्ज्योति-ज्योतिरग्निः स्वाहेति । तदुभयतो ज्योती रेतोदेवतया परिगृह्णात्युभयतः परिगृहीतं वै रेतः प्रजायते तदुभयत एतत्परिगृह्य प्रजनयति ' ( श ० २ | ३ | १ | ३२ ) । तस्मिन् होममन्त्रे प्रजननस्य रूपमिव रूपं दृश्यते ज्योतिः -शब्दाभिधेयं मध्येऽवस्थितं रेत उभयतो देवतावाचिपदाभ्यां परिगृह्णाति उभयतः परिगृहीतत्वं रेतसः प्रजननरूपं मन्त्रयोः प्रजननरूपसद्भावात् । ताभ्यां होमे प्रजासम्पत्तिर्भवति । ' तदु होवाच जीवलश्चलकिः । गर्भमेवारुणिः करोति न प्रजनयतीति स एतेनैव सायं जुहुयात् ' ( श ० २ | ३ | १ | ३४ ) | एलकस्य पुत्र ऐलकिः, जीवलनामा महर्षिरुवाच । अनुक्रमण्यां तु चैलकिर्जीवल ऋषिः । आरुणिः गर्भमेव करोति न प्रजनयतीति । कालद्वयेऽपि ज्योतिः शब्दस्य देवतावाचिपदगृहीतत्वाद् रेतः परिगृहीतमन्तरवस्थितं गर्भावस्थमेव भवति । न प्रजारूपेणोत्पद्यते, उभयतो देवताप्रतिरुद्धत्वाद् इत्युक्तदोषस्य परिहारमाह - स एतेनैव सायं जुहुयात् तेन गर्भो धृतो भवति । प्रात काले तु सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति मन्त्रेण होमे सति रेतोरूपस्य ज्योतिः -जगदीश्वर अग्नि मनुष्य के लिये चारों वेदों को प्रकट कर देता है । इसी प्रकार अपनी कल्पना से प्रसूत बहुत सा अर्थ किया है, किन्तु वह भी श्रुति, सूत्र आदि के विरुद्ध होने से संग्रह के योग्य नहीं है ।

पृष्ठ 154

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 154 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

II शुक्लयजुर्वेदसंहिता [ अ ० ३ सूर्यो ज्योतिः स्वाहेति तद्बहिर्धा शब्दस्य बहिर्धाकरणाद् अन्तर्गतो गर्भो बहिः प्रजायते । ' अथ भवति प्रातः । तदेनमेतत् ज्योतिः सूर्यः प्रजनयति ' ( श ० २/३ | १ | ३५ ) ज्योती तो देवतया करोति । बहिर्धा वै रेतः प्रजातं सूर्ये प्रातरग्निमिति । तद्वै तदुदितहोमिनामेव । स्पष्टार्थं ब्राह्मणम् । ‘ तदाहुः । अग्नावेवैतत् साय ७ सूयं जुहोति ज्योतिर्नास्य सा परिचक्षेयमेव परिचता यत्तस्यै यदा ह्येव सूर्योऽस्तमेत्यथाग्निज्र्ज्योतिर्यदा सूर्यं उदेत्यथ सूर्यो स्वाहेति तत्र नाग्नये स्वाहेत्यथ प्रातः सूर्यो नाद्वा देवतायै यते । याग्निहोत्रस्य देवताऽग्निर्ज्योतिर्ज्योतिरग्निः । ३६ ) । ज्योतिर्ज्योतिः सूर्यः स्वाहेति तत्र न सूर्याय स्वाहेति ' ( श ० २ । ३ । १ वदन्त्यग्नि मनुमन्ये अध्यात्मपक्षे तु अग्निरग्रणीत्वादिविशिष्टो देवो हिरण्यगर्भः सर्वजीवसमष्टिः ज्योतिर्ब्रह्मरूप , ' एतमेके एव तत्त्वमस्यादिश्रुतेः । प्रजापतिम् ' ( म ० १२ १२३ ) इति मनुस्मृतेः । स ज्योतिर्ज्योतिषामपि, ' अहं वै भगवो देवते त्वमसि त्वं वै ज्योतिर्ब्रह्म चाग्निः समष्टिजीवरूपः । व्यतिहार निर्देशोऽत्यन्ताभेदसिद्ध्यर्थः ब्रह्मणे स्वाहा । चतुर्थ्यर्थे प्रथमा । सर्वमिदं भगवो देवते अहमस्मि ' इति श्रुतेः । तस्मै प्रत्यक् चैतन्याभिन्नाय । एवं सूर्यो व्याहृत्यवयवो हिरण्यगर्भो दृश्यं हुतमस्तु, अधिष्ठानसत्तातिरिक्तायाः कल्पितसत्ताया अनङ्गीकारात् सूर्याय सूर्याभिन्नाय ज्योतिर्ब्रह्मणे स्वाहा । ज्योतिर्ब्रह्मस्वरूपः । ज्योतिश्च सूर्यः । तस्मै ज्योतिःस्वरूपाभिन्नाय सूर्यो वर्चः, तस्मै वर्चोऽभिन्नाय सूर्याय अग्निर्वर्चः ब्राह्मं तेजो ज्योतिश्चन्द्रादिश्च वर्चस्तस्मै स्वाहा । एवं ज्योतिषि सूर्यादी सर्वमिदं हुतमस्तु । यथा मधुब्राह्मणे पृथिव्यामप्सु सूर्याभिन्नाय वर्चसे ब्रह्मणे स्वाहा सर्वात्मत्वबोधनाय तथैवाग्नेः सूर्यस्य च स्थितस्य तस्य तस्यामृतमयस्यात्मनो ब्रह्मणाऽभेद विद्युच्चन्द्रादिज्योतिषो उक्तः वर्चः स्वरूपेण ब्रह्मणाऽभेदप्रदर्शनं ब्रह्मज्योतिषाऽभेदप्रदर्शनम् । अग्नेः सूर्यस्य अन्यस्य च सर्वकारणब्रह्मरूपत्वं चोक्तम् । सर्वात्मत्वप्रदर्शनायैव । सूर्योपनिषदादो सूर्यस्य ब्रह्मविष्णुरुद्रेन्द्ररूपत्वं शब्दः सूर्यवचनः । अग्नियतिरिति मन्त्रेण जुहृद् अग्नावेव सन्तं सूर्यं ज्योतिः जुहोति शब्दोऽग्निवचनः । तथा च ज्योतिः । अतो यथापठिताभ्यामेव प्रातःकाले सूर्ये सन्नमग्नि जुहोति । अतः सूर्यो ज्योतिरिति । मन्त्राभ्यां होम उदित होमिनामेव सम्भवति नानुदित होमिनाम् सवि॒त्रा स॒ज॒दे॑वेन॑ सवि॒त्रा स॒जू राज्येन्द्र॑वत्था । जुषा॒णो अ॒ग्निर्व॑त॒ स्वाहा॑ स॒जूदेंवेन॑

स॒जूरु॒षसेन्द्र॑वत्या । जुव॒णः सूर्यो वेतु स्वाहा ॥ १० ॥

ज्योतिरिति मन्त्राभ्यां सजू-' सजूरिति वा ' ( का. श्री. ४ । १४ । १४ ) । पूर्वोक्ताभ्यामग्निर्ज्योतिः परमेश्वरेण सूर्यो सह सजूः । सह जुषत इति रित्यादिमन्त्रद्वयं विकल्पितमिति सूत्राभिप्रायः । देवेन सवित्रा प्रेरकेण सज्जुः । परमेश्वरेण सह समानप्रीतिः ' जुषी कर्तरि क्विपि सः । यद्वा जोषणं जूः, समाना जूः प्रीतिर्यस्यासौ उस चैतन्याऽभिन्न ब्रह्म के लिये स्वाहा । अध्यात्मपक्ष में यह अग्नि सर्वजीव समष्टि हिरण्यगर्भ ही है । सत्ता के अतिरिक्त कल्पित सत्ता को नहीं चतुर्थी के अर्थ में प्रथमा है । यह सम्पूर्ण दृश्य हुत रहे । अधिष्ठान

माना जाता ॥। ९ ॥

पर समान प्रीति रखनेवाला मन्त्रार्थ - प्रेरणा देनेवाले सवितृ देवता पर और इन्द्र के सहित रात्रि देवता अग्नि को में आकर आहुति का भक्षण करे । अग्नि हम पर वैसी ही प्रीति करे और हमारे द्वारा अनुष्ठीयमान और कर्म उत्तराधं सूर्य का मन्त्र है, उसे प्रातः कहे ) | दिया हुआ यह द्रव्य सुहुत हो । ( इस मन्त्र को रात्रि में कहे

पृष्ठ 155

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 155 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

वेदार्थपारिजातभाष्यसहिता मंत्र: १० ] विकल्प है ॥ १० ॥

१ ९ १४५ दसवें मन्त्र का नवें और प्रीतिसेवनयोः ' । इन्द्रेण परमैश्वर्यवता देवेनोपेतया रात्र्या रात्रिदेवतया रात्रिसूक्तोक्तया सजुः समानप्रीति-रस्मासु जुषाणः प्रीतियुक्तः, हविर्वा जुषाणः सेवमान आहुतिमास्वादयन्नग्निर्वेतु हूयमानं हविर्भक्षयतु | ‘ वी प्रजननकान्त्यसनस्वादनेषु ' । तस्मै स्वाहा हूयमानं हविरपितमस्त्विति सायंकालिकहोममन्त्रार्थः । इन्द्रवत्या देवेन सवित्रा सजूः उषसा सजूः जुषाणः सूर्यो वेतु हूयमानामाहुतिमास्वादयत्विति प्रातः कालिकहोममन्त्रार्थः । अस्तसमये सूर्योऽग्नि प्रविशतीत्युक्तत्वात् सूर्याग्न्योः सहावस्थानात् समानप्रीतिः । ' अग्निरान्नक्तं ददृशे ' इति रात्रेरग्नेश्च समानप्रीतिर्ज्ञायते । अपर आह --- ' अयं भौतिकोऽग्निः सर्वप्रकाशकस्य सर्वोत्पादकस्य परमेश्वरस्य बलेन सेवनयोग्यः ।, तथैव तथा परमेश्वरीयशक्तिरूपाया रात्र्या बलेन सेवितुं योग्यः सोऽग्निः सर्वं सेवमानः स्वमहिम्ना सर्वत्र व्याप्नोति सर्वप्रकाशकस्य परमेश्वरस्य बलेन सूर्यः सेवनयोग्यः सर्वं सेवमानः स्वीयया महाशक्त्या सर्वत्र व्याप्नोति ' इति । अत्र मन्त्रस्य कोऽभिप्रायः? पूर्वैर्मन्त्रः सार्धमस्य मन्त्रस्य कीदृशी सङ्गतिः? अस्य रात्र्या? उषसश्च इत्यादि -विशेषण भूत इन्द्रः कः? कश्च तस्य ताभ्यां सम्बन्धः? सजूरित्यस्य सेवनयोग्य इति कथमर्थः सर्वमप्याकाङ्क्षितमस्पष्टमेव । किञ्च वेस्विति विध्यर्थो लोट् लकारः । न च व्यापकस्य व्याप्तिविधातुं प्रेरयितुं च वा शक्या । सिद्धान्ते त्वस्याग्निहोत्रमन्त्रत्वाद् अनेनाग्नये हविर्दानम् | अग्निश्च ऐश्वर्यवान् देवः ॥ इन्द्रश्च स स्वप्रकाशस्य सर्वप्रेरकस्य परमेश्वरस्य प्रीतिपात्रं तत्प्रीतिमांश्च । तयोः परस्परं समाना प्रीतिः परमैश्वर्यवान् परमेश्वरः । तद्वती रात्रिः साधिष्ठाना प्रकृतिर्देवता । तयेन्द्रवत्या रात्र्या च सोऽग्निः प्रीतिमान् तत्प्रीतिपात्रं च । देवराजो वा इन्द्रो रात्रिस्तत्पूज्या सर्व प्रपञ्चस्वामिनी महाशक्तिः । स्वापोन्मुखायास्तस्या रात्रि पदव्यपदेश्यता प्रबोधोन्मुखाया उषसपदव्यपदेश्यता च । तदंशभूता देवराजशक्तिर्वा रात्रिः । इन्द्रस्या-ग्नेश्च समानप्रीतिमत्त्वं वेदेषु पुराणेषु च बहुधा वर्णितम् । एवंविशिष्टगुणोऽग्निरस्मासु प्रीतिमान् । भूत्वा सूर्यो -अस्मद्दत्तामाहुति वेतु प्राप्नोतु आस्वादयतु भक्षयतु वा । एवमेव सूर्यसम्बन्धिमन्त्रार्थोऽपि ज्ञातव्यः । ऽप्यंश्वर्यवान् दिव्यो देवः । तन्मण्डले हिरण्यश्मश्रुहिरण्यकेशी हिरण्यवर्णः परमात्मदेवस्तेन जुषमाण आस्ते इन्द्रवत्योषसा पारमेश्वर्या शक्त्या च सूर्यस्यानुग्राह्यानुग्राहकभावसम्बन्धोऽस्ति । इन्द्रवत्या उषसः प्रीतिपात्रं तत्प्रीतिमांश्च सूर्योऽस्मासु प्रीतिमानस्मदाहुतिं प्राप्नोतु आस्वादयतु भक्षयतु वा । आदित्यहृदयादी सूर्यस्यैव विष्णुरुद्रेन्द्ररूपत्वमप्युक्तम् । तेन तेषां समानप्रीतिमत्त्वं युज्यते । एकं सद्विप्रा बहुधा वदन्ति ' इति मन्त्रेऽप्यग्नि-मित्रेन्द्रादीनामभेद उक्तः । कथमिति चेदुच्यते --- सूर्येऽस्तंगतेऽग्निर्ज्योतिः प्रकाशमानो भवति । उदिते त्वाग्न्येयतेजःसंक्रमात् गर्भमेव करोति सूर्यश्च न प्रकाशवान् भवति । तस्माद् अग्निर्ज्योतिः सूर्यो ज्योतिरिति मन्त्रनिष्पन्नाग्निहोत्रहोमे - - इयमेव प्रजनयतीति पूर्वोक्तदोषो नास्त्येव । तह्युदितपक्ष एवाश्रयणीय इत्याशङ्कय तत्र हूयते दोषान्तरमाह किन्त्वग्निर्ज्योति-परिचक्षेति । यद् यस्माद् अग्नये स्वाहा सूर्याय स्वाहा इति तस्यै देवतायं प्रत्यक्षं न निन्देत्यर्थः । ज्योतिरग्निरिति प्रथमान्तत्वेन सम्प्रदानविभक्तेरभावाद् देवतात्वस्य परोक्षमेवास्य पक्षस्य हम पर प्रेरणा देनेवाले सविता परमेश्वर पर और इन्द्र से युक्त उषा देवता पर समान रूप से प्रीति करनेवाला सूर्य वैसी ही प्रीति करे और हमारे द्वारा अनुष्ठित होनेवाले कर्म में आकर होम आहुति करने का में भक्षण करे । सूर्य को बिया हुआ यह द्रव्य सुहुत हो । अथवा ' सजू: ' मन्त्र से होम करे, अर्थात्

पृष्ठ 156

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 156 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

II शुक्लयजुर्वेद संहिता [ अ ० ३ अनिन्द्यं पक्षान्तरमाह – ' अनेनैव जुहुयात् सजूर्देवेन सवित्रेति । तत्सवितृमत्प्रसवाय सजू रात्र्येन्द्रवत्येति तद्राच्या मिथुनं करोति सेन्द्रं करोति । इन्द्रो हि यज्ञस्य देवता जुषाणोऽग्निर्वेतु स्वाहेति तदग्नये प्रत्यक्षं जुहोति ' ( श ० २।३।१।३७ ) । तदेव कात्यायनेनोक्तम् -- प्रदीप्तामभिजुहोत्यग्निज्र्ज्योतिरिति सजूरिति वा ' ( का ० श्र ० ४ | १४ | १४ ) । प्रक्षिप्तां समिधं प्रदीप्तामभिलक्ष्य तदुपरि मध्येऽल्पद्रव्येण प्रथमाहुति जुहुयात् । अनेन मन्त्रेण होमे ' जुषाणोऽग्निर्वेतु ' इत्युक्त्या यजमानोऽग्नये प्रत्यक्षं जुहोति । सवितृमत्प्रसवाय सजुरुषसेन्द्रवत्येत्यह्नेति 1 । अह्ना वोषसा वा मिथुनं करोति सेन्द्रं करोतीन्द्रो हि यज्ञस्य देवता जुषाणः सेवमानोऽग्निः, वेतु कामयतामिति प्रतिपादनात् । अग्नेर्होमः प्रत्यक्ष इति प्रागुक्तपक्षाद्वैलक्षण्यम् । तत्र सवित्रे -त्युक्या प्रजननप्रेरणा भवति, तस्यैव प्रेरकत्वात् । सजू रात्र्येन्द्रवत्येति कथनेन मिथुनसम्पत्तिद्वारा प्रजनन सम्पत्ति-रुपपद्यते । ‘ अथ प्रातः सजूर्देवेन सवित्रेति सवितृमत्प्रसवाय सजूरुषसेन्द्रवत्येति वा तदह्नां वोषसां वा मिथुनं करोति सेन्द्रं करोतीन्द्रो हि यज्ञस्य देवता जुषाणः सूर्यो वेतु स्वाहेति तत्सूर्याय प्रत्यक्षं जुहोति । तस्मादेवमेव जुहुयात् ' ( श ० २ । ३ । ११३८ ) । उक्तव्याख्यावदेव व्याख्येयम् । ' ते होचुः को न इद होष्यतीति ब्राह्मण एवेति ब्राह्मणेदं नो जुहुधीति किं मे ततो भविष्यतीत्यग्नि-होत्रोच्छिष्टमेवेति स यत्स्रुचि परिशिनष्टि तदग्निहोत्रोच्छिष्टमथ यत्स्थाल्यां यथा परीणहो निर्वपेदेवं तत्तस्मात्तद्य एवं कश्चन पिबेत्तद्वै नाब्राह्मणः पिबेदग्नी ह्यधिश्रयन्ति तस्मान्नाब्राह्मणः पिबेत् ' ( श ० २ | ३ | १ | ३ ९ ) हुत शिष्टस्थालीमध्यस्थपयसो ब्राह्मणानां पानं विधित्सुस्ततोऽन्य एव ब्राह्मणोऽग्निहोत्रस्याध्वर्युरिति प्रतिपादयति - ते होचुरिति । ते होचुः - नोऽस्माकमभावे को हीदं होष्यति । तत्रोत्तरं ब्राह्मण एव यजमानाभावे यति । अत एव हे ब्राह्मण इदं जुहुधि । ब्राह्मणः पृच्छति किं मे ततो भविष्यति? तत्रोत्तरम् -अग्निहोत्रोच्छिष्टलाभो भविष्यति । अग्निहोत्रसाधनभूतायां स्रुचि यद् हुतशिष्टं तस्यैव द्विः प्राश्नानीति प्राशनं विहितम् । यत्तु स्थाल्यामवशिष्यते तद् नाग्निहोत्रोच्छिष्टम् । तत्र दृष्टान्तः - यथा परीणहः परितो नद्धं परिश्रितं धान्यपूर्णं शकटोपरि स्थापितं यथा तस्माद् हविषो निर्वापयितुं तद्गतं धान्यं न शिष्यते, किन्तु पुनरपि यागान्तरयोग्यमेव, एवं तत्स्थाल्यां पय इत्यर्थः । तथा चाध्वर्योरेव तत्पानमिति नियमाभावाद् यः कोऽपि ब्राह्मणस्तत्पिबेत् । दयानन्दस्तु – ' अयमग्निर्देवेन सवित्रा जगदीश्वरेणोत्पादितया सृष्ट्या सजूः सह जुषाण इन्द्रवत्या रात्र्या सह सजूः स्वाहा जुषाणः सन् वेतु पदार्थान् व्याप्नोति । एवं सूर्यो देवेन सवित्रा सकलजगदुत्पादकेन धारितया सृष्ट्या सह जुषाण इन्द्रवत्योषसा सह स्वाहा जुषाणः सन् हुतं द्रव्यं वेतु व्याप्नोति ' इति, तत्तु यत्किञ्चित्, सवित्रेतिपदेन तदुत्पादितायाः सृष्टेर्ग्रहणे मानाभावात् । एवं ' विद्युत् समूहवत्या रात्र्या सह जुषतेऽग्निर्व्याप्नोति ' इति कोऽस्याभिप्रायः? रात्राविव दिनेऽपि विद्युत्समूहस्य विद्यमानत्वात् तत्राप्यग्नि-र्याप्नोत्येव । उत्तरत्र तु इन्द्रवत्या सूर्यप्रकाशसहितयोषसा जुषाणः सेवमानः सूर्यो व्याप्नोतीति तादृश एव । भावार्थे तु -- ' ईश्वरेण निर्मितोऽग्निस्वत्सत्तत्या स्वरूपं धारयन् रात्रिस्थान व्यवहारान् प्रकाशयति । भाष्यसार - सूर्य देवता सबके सेवन करने योग्य हैं, वह अपनी महाशक्ति से सर्वत्र व्याप्त हैं, ऐसा अर्थ किसी ने किया है । परन्तु मन्त्र का अभिप्राय क्या है? पूर्व मन्त्र से प्रस्तुत मन्त्र की संगति क्या है? इत्यादि अनेक प्रश्नों को मन्त्रार्थं करने के पूर्व समझ लेना चाहिये था । मन्त्र में तो अग्नि, मित्र, इन्द्र आदि देवताओं का अभेद बताया गया है ।

पृष्ठ 157

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 157 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १० ] वेदार्थपारिजात भाष्यसहिता १४७ एवं सूर्य उषःकालमेत्य सर्वाणि मूर्तद्रव्याणि प्रकाशयितुं शक्नोतीति परमेश्वरो मनुष्येभ्य उपदिशति ' इति परमेतत्तु प्रसिद्धमेवेति कृतमीश्वरोपदेशेन । त्वद्रीत्या अग्नेर्जडस्य कथमिन्द्रवत्या रात्र्या जुषमाणत्वं कथं वा तथाविधस्य सूर्यस्योषसा जुषमाणत्वम् । शतपथविरोधस्तु स्पष्ट एव । यत्तु — ' समाना प्रीतिर्यस्यासो सजूरिति बहुव्रीहो पूर्वपदप्रकृतिस्वरप्राप्तेः सर्वमयुक्तम् । तत्पक्षे कथं कृत्स्वरेणेगेष्टस्वरसिद्धि: ' इति, तदपि तुच्छम्, ' व्यत्ययो बहुलम् ' इति सूत्रेण तत्समाधानात् त्वयापि तत्र तत्र तथैवाभ्युपगमात् । अध्यात्मपक्षे तु - देवेन द्योतनात्मकेन सवित्रा सर्वजगदुत्पादकेन परमात्मना सह जुषत इति सजूः समानप्रीतिरग्निरग्रणीर्यजमानः ' यजमानोऽग्निः ' ( श ० ६ | ५ | ४ | ४ ) इति जीवात्मा तद्विषयकप्रीतिमान् तत्प्रीतिपात्रं च ' द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ' इति श्रुतेः । इन्द्रवत्या इन्द्रसंयुक्तया इन्द्रः परमात्मा अधिष्ठानभूतोऽस्या अस्तीति इन्द्रवती तथा इन्द्रवत्या साधिष्ठानया रात्र्या भगवत्या सजूः समानप्रीतिः तत्प्रीतिमान् तत्प्रीतिपात्रं च जुषाणो नानाविधान् भोगान् सेवमानस्तथाविधोऽग्निर्वे सवं त्यक्त्वा ब्रह्मात्मकं सुखं वेतु कामयताम् । तस्मै स्वाहा इदं ब्रह्मात्मकं हविरर्पितमस्तु । तथैव सवित्रा देवेन सजुः समानप्रीतिः इन्द्रवत्योषसा इन्द्रः परमात्मा तद्वत्योषसा रात्र्यंशभूतया प्रबोधोन्मुखया सजूः समानप्रीतिः सूर्यः क्षेत्र प्रकाशकः क्षेत्री जुषाणः संसारं सेवमानस्ततो विरज्य प्रत्यक् चैतन्याभिन्नं परमात्मानमेव वेतु कामयताम् । तस्मै परमात्माभिन्नाय क्षेत्रिणे स्वाहा सर्वमिदं स्वाहा । तस्मिन्नेव साक्षात्कारेण प्रविलापितमस्तु । स संसारः, ज् जयः, ऊ: रतिः, संसारजये रतः सवित्रा नारायणेन जुषाणः प्रीतियुक्तो नारायणार्पणं कर्म कुर्वाणः, अथवा संसारजये रत इन्द्रदेवतावत्या रात्र्या पितृयाणाधिष्ठात्र्या देवतया जुषाणः प्रीतियुक्तः, अग्निर्यजमानः, ' यजमानोऽग्निः ' ( श ० ६ | ५ | ४ | ४ ) स्वाहा ब्रह्मार्पणकर्मणा सकामकर्मणा वा वेतु वं विष्णुं वसतिं स्वगं वा एतु प्राप्नोतु । सजू: देवेन सवित्रा कैवल्यमोक्षाधिष्ठातृदेवतया प्रीतियुक्तः सूर्यो ब्रह्म प्राप्तो योगी स्वाहा महावाक्योपदेशेन वेतु ब्रह्म प्राप्नोतु ' इत्यादिव्याख्यानं तु विलष्टकल्पनाबहुलं निर्मूलं च, स्वाहापदस्य निष्कामकर्माद्यर्थत्वे मानाभावात् । तथा स्वाहापदस्य महावाक्योपदेशरूपोऽर्थोऽपि चिन्त्य एव । श्रुतिसूत्रादिविरोधस्त्वस्मिन्नर्थे स्फुट एव । एवम् -- ' विविधं नवनीतादिभोगजातं कृष्णाय भगवते निवेदयन् भक्तः प्रार्थयते सवित्रा देवेन भास्करेण सज्जुः प्रीतिमान् यजुर्वेदमुखेन भगवता तस्मै कर्मयोगस्योपदिष्टत्वे स्वशिष्यत्वात् तत्रानुरागो युक्तः । स्वप्रियाया: कालिन्द्याः पितृत्वेन श्वसुरत्वादपि तत्रानुरागो युक्तः । इन्द्रवत्या इन्द्रो योगेश्वरः कृष्णो विद्य यस्यां रासक्रीडारजन्यां सा इन्द्रवती शारदी राका । तया रात्र्या प्रीतिमान् अग्निः स्वोपासकानां पापराशिदग्धा परमात्मा श्रीकृष्णोऽस्माभिरपि जुषाणः अस्मास्वपि प्रीतो देतु अस्मदर्पितं विविधभोजनवस्तुजातं भक्षयतु | इन्द्रः स्वभर्ताऽनिरुद्धः, तद्वती उषा वरुणपुत्री श्रीकृष्णस्य पीत्रवधूस्तया सजूः स्नेहातिरेकवान् वात्सल्यादिति भावः । सूर्यः अविद्यातमोनिरासकः श्रीकृष्णो वेतु ' इति व्याख्यानं दयानन्दीयव्याख्नापेक्षयाऽतीव सुन्दरम्, परं सिद्धान्तदृष्ट्या तु गौणार्थमेव ॥ १० ॥

स्वामी दयानन्द कहते हैं कि ईश्वर के द्वारा निर्मित अग्नि रात्रि के व्यवहारों को प्रकाशित करता है । उसी प्रकार सूर्य भी उषाकाल में समस्त मृतं द्रव्यों को प्रकाशित करता है । यह उपदेश परमेश्वर मनुष्यों को देता है और भी अन्यान्य बातें इसी प्रकार उन्होंने लिखी हैं, जो श्रौतसूत्र, शतपथ, पूर्वाचार्यों के तथा व्याकरण की दृष्टि से भी विरुद्ध हैं । अध्यात्मपक्ष में भगवान् श्रीकृष्ण हमारे द्वारा समर्पित वस्तुओं को स्वीकार करें । हम पर वे सवंदा प्रसन्न रहें ॥ १० ॥

पृष्ठ 158

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 158 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४८ शुक्ल यजुर्वेद संहिता [ अ ० ३

उप प्रयन्तो अध्व॒रं मन्त्रं वोचेमाग्नये । आरे अस्मे च॑ शृण्व॒ते ॥ ११ ॥

' सायमाहुत्या हुतायां यजमानोऽग्नी उपतिष्ठते वात्सप्रेण । न वा । तिस्रस्त्रिरूपप्रयन्तोऽस्य प्रत्नां परिते चित्रावसविति चेति ' ( का ० ४।१२।१ - ३ ) । सायं हि देवा उपतिष्ठन्त इति वचनाद् वात्सप्रमिति चोपस्थानक्रिया नाम यद्यपि हुतायामित्युक्तम्, तथापि समिदाधानमन्त्रक्रमानन्तर्यात् तदनन्तर-मेवोपस्थानं कर्तव्यम् । हुतशब्दो हुवप्रायविषयः । आहवनीयगार्हपत्यावग्नी उप प्रयन्तोऽध्वरमित्यारभ्य सुपोषः पोषैरित्यन्तं बृहदुपस्थानं देवदृष्टम् । तत्राद्ये द्वे आग्नेय्य गायत्र्यौ क्रमेण गोतमविरूपाभ्यामपि दृष्टे । तत्रादावाहवनीयोपस्थान मन्त्राः -- वयं यज्ञानुष्ठातारः उपप्रयन्त उपगच्छन्तः, अग्ययेऽग्न्यर्थमग्निप्रीत्यर्थम्, मन्त्रं मननेन त्राणकरमार्षमपौरुषेय शब्दसमूहं वोचेम उच्याम अब्रूयाम । कीदृशायाग्नये आरे दूरे अस्मे अस्माकं शृण्वते दूरेऽपि स्थिताय समीप इवास्माकं मन्त्रवाक्यं श्रोतुमुद्युक्ताय श्रवणाभिमुखाय वोचेमेति वचधातो-राशीर्लिङि रूपम् । यद्वा आरे दूरे अस्मै अस्माकं समीपे च स्थिताय । अपरस्तु– ' यज्ञमागच्छन्तः परमेश्वरस्योपासनायें मन्त्रानुच्चारयामः । सोऽस्माकं दूरे समीपे सर्वत्र शृणोति ' इति । स्पष्टमत्रार्थो मन्त्राक्षराणि न स्पृशति । उपप्रयन्त इति प्रथमाबहुवचनमुपस्थानकर्तुर्बोधकम्, परमत्र अध्वरमुपगच्छतः परमेश्वरस्येत्यर्थो विभक्तिविपरीतः । ' अग्नये ' इत्यस्यापि शब्दस्य विभक्ति-विपरीतोऽर्थः । ' शृण्वते ' इत्येतस्यापि विपरीतोऽर्थः । सिद्धान्ते तु वयं यजमाना अध्वरं यज्ञमुपप्रयन्तः, अग्नये -ग्निप्रीतये मन्त्रसमूहं वोचेम उच्चारयामः । कीदृशायाग्नये? आरे दूरे स्थितायापि, अस्मै अस्माकं समीपेऽपि स्थिताय शृण्वते मन्त्रं श्रोतुमभिमुखाय । अत्राग्निर्देवता । अग्निहोत्रे यदुद्देश्येनाहुतिर्दीयते तत्प्रीतये मन्त्रोच्चारण-मुपासनमेव, सर्वात्मन ईश्वरस्यैवाग्न्यादिरूपेणाप्यवस्थानान् । ' यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ' ( भ ० गी ० ९ ।२७ ) इति श्रीमद्भगवद्गीतारीत्याग्निहोत्रादीनि सर्वाण्यपि कर्माणि तदर्पणानि क्रियन्ते । सूत्रार्थस्तु -- अग्नी आवहनीयगार्हपत्यौ वात्सप्रसंज्ञकेनोपस्थानेन वक्ष्यमाणेन ' उपप्रयन्त ' ( वा ० सं ० ३।११ ) इत्यारभ्य परि ते ' ( वा ० सं ० ३।३६ ) इत्यन्तेनानुवाकेन तिष्ठन्नुपतिष्ठेत । इदमेवोपस्थानं बृहदुपस्थानमुच्यते । तिस्र ऋचः, चित्रावसो इति यजुश्च यथास्थानस्थित एव त्रिर्जपेत् । नामग्रहणादेव त्रित्वसिद्धेस्तिस्र इति ग्रहणं स्वस्थानस्थितानामेव मन्त्राणां त्रिर्जपप्राप्त्यर्थम् । -दयानन्दस्तु – ' उपप्रयन्त उत्कृष्टं निष्पादयन्तो जानन्तः, अध्वरं क्रियामययज्ञं मन्त्रं वेद वेदस्थं विज्ञानहेतुं वोचेम उच्याम । अग्नये विज्ञानस्वरूपायान्तर्यामिणे जगदीश्वराय आरे दूरे, अस्मे अस्माकं शृण्वते यो यथार्थतया शृणोति तस्मै, अध्वरमुपप्रयन्तो वयम् अस्मे अस्माकं दूरे चकारात् समीपे शृण्वतेऽग्नये जगदीश्वराय मन्त्रं वोचेमोच्याम ' इति, तच्च न सङ्गतम्, उपपूर्वस्येण्धातोरुत्कृष्टनिष्पत्त्यर्थत्वे मानाभावात् । शतपथे सूत्रे चाग्नेरुपस्थाने मन्त्रोऽयं प्रयुक्तः । तथाहि - ' प्रजापतिर्वा एष भूत्वा यावत ईष्टे यावदेनमनु तस्य रेतः सिञ्चति । यदग्निहोत्रं जुहोतीदमेवैतत् सर्वमुपतिष्ठमानोऽनुविकरोती सर्वमनुप्रजनयति ' ( श ० २/३ | ४१८ ) । यस्मात् कारणादग्न्युपस्थानमवश्यं कर्तव्यं तदुच्यते - प्रजापतिर्वेति । अग्निहोत्रहोमो हि रेतः सेकस्थानीयगर्भाशये मन्त्रार्थ- - यज्ञ में उपस्थित होनेवाले हम लोग दूर से तथा समीप से श्रवण करनेवाले अग्नि को उद्देश्य करके मन्त्र कहते हैं । सायंकाल की आहुति का होम करने के पश्चात् इस मन्त्र से लेकर संतीस संख्या तक के मन्त्रों से आहवनीय और गार्हपत्य अग्नियों का उपस्थान करना चाहिये ॥ ११ ॥

पृष्ठ 159

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 159 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मंत्र: ११ ] वेदार्थ पारिजातमाष्यसहिता १४ ९ निषिक्तस्य रेतसो हस्तपादादिमत्त्वेन यद्विशिष्टरूपकरणं तदग्न्युपस्थानसाध्यम् । अतोऽग्निमुपतिष्ठमानो यजमानः सर्वमिदं निषिक्तं विशिष्टरूपं कुर्वन् अनुप्रजनयति अनुक्रमेणोत्पादयति । तस्मादवश्यमग्न्युपस्थानं कर्तव्यम् । ' स वा उपवत्या प्रतिपद्यते । इयं वा उप द्वयेनेयमुप यद्धीदं किञ्च जायतेऽस्यां तदुपजायते । अथ यन्मृच्छ- ' त्यस्यामेव तदुपोप्यते तदा रात्र्या भूयो भूय एवाक्षय्यं भवति । तदक्षय्येणैवैतद् प्रशंसति भूम्ना - स प्रतिपद्यते वेति । ( श ० २।३।४।९ ) । तत्रोपस्थानाङ्गभूतायाः प्रथमाया ऋचो लिङ्गविशेषमुपन्यस्य इयं भूमिरेव सः । द्वयेन उपवत्या उपशब्दयुक्तया ऋचा प्रतिपद्यते उपतिष्ठते इयं वा उपयोऽयमुपेत्युपसर्गः तत्सर्वमस्या-द्विप्रकारेण इयं भूमिर् उपशब्दवाच्या । तदेव प्रकारद्वयं दर्शयति – यद्धीदमिति । यत्किञ्च जायमानेन जायमानं लीयमानेन मुपजायते यन्मृच्छति नितरामाति प्राप्नोति तदप्यस्यामेव उपोप्यते निलीयते । अतो एव अहोरात्राभ्यामक्षय्यं चेयं भूमिरुपगम्यत इत्युपशब्दवाच्या सा । यत्रेदं जायमानं लीयमानं यत् तद्भूय उपस्थानं प्रारभ्यते । भवति । तत्सम्बद्धोपशब्दयुक्तया ऋचा प्रतिपद्यमानः क्षयरहितेन भूम्ना प्रतिपद्यते वै यज्ञः ॥ उपप्रयन्तो यज्ञमित्ये-कश्चित्तूत्पत्तिप्रलयाभावेनाहोरात्रं मन्यते । ' स आह । उपप्रयन्तोऽध्वरमित्यध्वरो वैतदाह । मन्त्रं वोचेमाग्नय इति मन्त्रमु ह्यस्मा एतद्वक्ष्यन् भवत्यारे अस्मे च शृण्वत इति । यद्यप्यस्मदारकादस्यथ न एतच्छृण्वेवैवमेवैतन्मन्यस्वेत्येवैतदाह ' ( श ० २३ | ४ | १० ) । क्रमेणोपस्थान मन्त्रान् विधित्सुरुपवतीमृचं इति व्याचष्टे विधाय -प्रशंसति - यद्यप्यस्मदा रकादसीति । स्पष्टार्थमेतत् । आरे अस्मे चेत्यस्मच्छन्दात् पञ्चम्यर्थे शे आदेश अस्मदीयवाक्यं अस्मदारकादिति । हे अग्ने! त्वं दिव्यदेवरूपत्वाद्यद्यप्यस्मत्त आरकाद् दूरे असि, तथापि शृण्वते अग्निशब्दस्ये-श्रोतुमुयुक्ताय । अनेन शतपथीयव्याख्यानेन दिव्यत्वाल्लौकिकपुरुषेभ्यो दूरत्वमेवाग्नेरुक्तम् । श्वरार्थत्वे तु दूरे स्थितिर्न सम्भवत्येव तस्य व्यापकत्वेन सर्वगतत्वात् । दूरे स्थितस्यापि । देवस्याग्नेस्तु एतेन आरे महाभाग्यादैश्वर्यवशाद् दूरादपि श्रवणं सम्भवति । शैत्रयेण समीपमागत्यापि श्रवणं सम्भवति समीपे ‘ आराद् दूरसमीपयोः ' इत्यमरात् ' इत्यपि न युक्तम्, शतपथश्रुतिविरोधात् । अध्यात्मपक्षे तु — अध्वरं हिंसारहितं वैदिकमार्गप्रदातारं वा यज्ञं सर्वप्राणिपरप्रेमास्पदं व्यापनशीलं विष्णुम् उपप्रयन्त उपतिष्ठमाना मन्त्रं मननात् त्राणकरं तदीयं मन्त्रमष्टाक्षरं द्वादशाक्षरं वा तदवबोधकं वेदवेदान्तवाक्य- वोचेम समूहं वा, अग्नये सर्वपातकपुञ्जदाहकाय ब्रह्माकारवृत्तावभिव्यक्त्या स्वातिरिक्तसर्वप्रपञ्चदाहकाय विष्णवे स्तुति-उच्चारयामः । कीदृशाय? अस्मे अस्माकम् आरे दूरे स्थितायापि चकारोऽप्यर्थकः शृण्वते आकर्णयते स्तोमं श्रोतुं समुद्यताय वैकुण्ठवासिरूपदृष्ट्या व्यापकस्यापि दूरस्थायित्वसम्भवात् । यद्वा आरे स्थितानां वैकुण्ठपतिरूपेण प्राणिनां चात् समीपे च प्रत्यगात्मरूपेण स्थित्वा भक्ताह्वानं शृण्वते आकर्णयते । भगवान् क्वचिदपि ही भाष्यसार - यज्ञ के समय उच्चारण किये जानेवाले मन्त्रों को सुनने के लिये अग्नि के रूप में जाते परमेश्वर हैं । यह सम्मुख रहता है । श्रीमद्भगवद्गीता के अनुसार अग्निहोत्रादि सभी कर्म उसीको अर्पित किये मन्त्रोच्चारण उस परमेश्वर की उपासना हो है । , स्वामी दयानन्द ने इस मन्त्र का अर्थ करते हुए ' उप ' पूर्वक ' इण् ' धातु का ' उत्कृष्ट निष्पत्ति ' अर्थं किया वह अर्थ है किन्तु वैसा अर्थ करने में कोई प्रमाण नहीं है । निष्कर्ष यही है कि शतपथ, श्रौतसूत्रादि के विरुद्ध होने से उपेक्षणीय है । अध्यात्मपक्ष में वैदिक यज्ञमागं के प्रदर्शक भगवान् ही हैं । उनकी कृपा से ही ब्रह्माकार वृत्ति अभिव्यक्त हो पाती है । हमारे द्वारा उच्चारित अष्टाक्षर अथवा द्वादशाक्षरादि मन्त्रों को वे सुनते रहते हैं ।

पृष्ठ 160

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 160 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५० शुक्लयजुर्वेद संहिता [ अ ० ३ प्रार्थनाः शृणोति । यत्तु - ' यज्ञकरणार्थं कृष्णेन सह मन्त्रणाय धर्मराजो व्याहरत्युपप्रयन्त इति । अध्वरो हिंसारहितो यज्ञस्तमुपप्रयन्तः, अर्थादग्निष्टोमादियज्ञेऽग्नीषोमीयाः पशवो हिंसनीया इत्येकदेशिमतं निरस्तम् । तमध्वरम् उपप्रयन्तो मनसिकृतानुष्ठाननिश्चयाः, अग्नये नीतिविदग्रेसराय श्रीकृष्णाय वोचेम । कीदृशाय आरे दूरे समीपे च, अस्मे अस्माकं प्रार्थनां शृण्वते आकर्णयते ' इति, तदपि यत्किञ्चित् श्रुतिसूत्रादिविरोधात् । यज्ञिया हिंसा त्वहिंसैव, ' तस्माद् यज्ञे वधोऽवधः ' ( म ० स्मृ ० ) इति मनुस्मरणात्, ' अग्नीषोमीयं पशुमालभेत ', ' अशुद्धमिति चेन्न शब्दात् ' ( ब्र ० सू ० ३।१।२५ ) इत्यादिश्रुतिसूत्रादीनां विद्यमानत्वात् ॥ ११ ॥

अ॒ग्निमू॒र्धा दि॒वः क॒कुत्पति॑ः पृथि॒व्या अ॒यम् । अ॒पात॑ सि जिन्वति ॥ १२ ॥

अयं दृश्यमानोऽग्निः, दिवो द्युलोकस्य मूर्धा शिरः, अङ्गेषु मूर्धेव देवेषु प्रधानत्वात् । यथा वा मूर्धा देहस्योपरि भवति, तथाग्निरप्यहनि स्वतेजसादित्ये प्रविष्टत्वाद् आदित्यरूपेण द्युलोकस्योपरि वर्तते । सर्वोपरि वर्तमानत्वादेवायमग्निः ककुदित्युच्यते, गवां गलपृष्ठोन्नतावयवः ककुत्, तद्वदादित्यरूपेण सर्वोपरि विराजमानत्वात् ककुत्सदृश इत्यर्थः । यद्वा ' ककुदमिति महन्नाम ' ( निघ ० ३ | ३ | १ ९ ) । पृषोदरादित्वात् ककुद् महानात्मा हिरण्यगर्भरूपेण जगत्कारणत्वात्, ' एतमेके वदन्त्यग्नि मनुमन्ये प्रजापतिम् ' ( म ० १२ १२३ ) इति मनुवचनात् । अयमेव पृथिव्याः पतिः पालकः, दाहपाकप्रकाशादिभिः पृथ्वीलोकस्योपकारकत्वात् । तादृशादित्यरूपोऽग्निः, अपां द्युलोकाद् वृष्टिरूपेण पतन्तीनां रेतांसि साराणि व्रीहियवादिरूपेण परिणतानि जिन्वति प्रीणयति वर्धयति । यद्वा अपां रेतांसि कारणानि पुष्णाति व्रीहियवाद्याहुतिपरिणामेन वृष्टिं जनयति, ' ते वा एते आहुती उत्क्रामतः ’ इत्यारभ्य ' यतस्ततः पुत्रो जायते स लोक: ' इति श्रुतेः । अपरस्तु -‘सर्वस्वामी परमेश्वरः सर्वोपरि विराजते । स हि लोकादाकाशादादित्याच्च महान् सोऽपामु-त्पादक सामर्थ्यानि पोषयति ' इति । अस्मिन् व्याख्याने पतिः पृथिव्या इत्यंशो न व्याख्यातः । रेतः पदं स्वसामर्थ्य परमित्यत्र मूलं चिन्त्यम् । सूत्रेण चाग्न्युपस्थाने विनियुक्तस्य मन्त्रस्याग्निस्तुतावेव तात्पर्यम्, परमात्मपरत्वेन तद्विरोधः स्फुट एव । किसी ने ' अग्नीषोमीय पश्वालम्भन ' को जो ' हिंसा ' शब्द से कहा है, वह उचित नहीं है, क्योंकि भगवान् ने ' यज्ञिय हिंसा ' को ' अहिंसा ' शब्द से कहा है । अतः वेदमन्त्र की व्याख्या वही यथार्थं कही जाती है, जो शतपथादि ब्राह्मण, श्रौतसूत्र और याज्ञिक परम्परा के विरुद्ध नहीं होती ॥। ११ ॥ मन्त्रार्थ -- द्युलोक का मस्तकरूप तथा वृषभ के ककु के समान आदित्य के रूप में सबके ऊपर रहनेवाला जल के और सम्पूर्ण जगत् का कारण तथा पृथिवी का पालन करनेवाला यह अग्नि वृष्टि के रूप में बरसनेवाले परिणामस्वरूप व्रीहियवरूप धान्य का संवर्धन करता है ॥ १२ ॥

भाष्यसार - ऊपर दिये गये भावार्थ में भाष्य का सार गतार्थ है, अतः पृथक् से उसका नहीं दे रहे हैं । किसी ने अग्नि की स्तुति में इसका तात्पर्य न बताकर कुछ पृथक् अर्थ ही बताया है, कल्पित पृथक् अर्थ करने में विरोध स्पष्ट प्रतीत हो जाता है । किन्तु वैसा मन: -