वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 161–170

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 161–170

पृष्ठ 161

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 161 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १२ ] वेदार्थपारिजातभाष्यसहिता १५१ दयानन्दस्तु – ' अग्निरीश्वरो भौतिको वा मूर्धा सर्वोपरि विराजमानो दिवः सूर्यादेर्जगतः ककुद् महान् पृथिव्यादेः पतिः । अयमपां प्राणानां जलानां रेतांसि जिन्वति रचयितुं जानाति प्रापयति वा । ' जिन्वतीति गतिकर्मसु पठितम् ' ( निघण्टु २।१४ ) | यः प्रकाशवत् सूर्यादिकमप्रकाशवत् पृथिव्यादिकं रचयित्वा प्राणेषु बलं दधाति योऽयं पृथिव्यादिजगतः पालन हेतुर्भूत्वा विद्युज्जाठरादिरूपः प्राणानां जलानां वीर्याणि जनयतिः स एव सुखसाधको भवति ' इति, तत्तु यत्किश्चित् निर्मूलाध्याहार बहुलव्याख्यानश्वात् । शतपथे तु ' अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपासि रेता ७ सि जिन्वतीत्यन्वेव धावति । तद्यथा याचन् कल्याणं वदेदामुष्यायणो वै त्वमस्यलं वै त्वमेतस्मा असीत्येवमेषा ' ( श ० २ | ३ | ४ | ११ ) इति सिद्धवदनूद्य तात्पर्यमाह - अन्वेव धावतीति । अनुसृत्य प्रशंसति यथा याचक इति । याचको यथा याचन् कल्याणं वदेद् आमुष्यायण अमुकस्य विशिष्टस्य वंशज! त्वमेतस्मं याच्यमानवस्तुदानाय त्वमलं समर्थस्तथैवानयाग्निः प्रार्थ्यते । पृथिव्याः पतिर्दिवः ककुत् समर्थोऽसि त्वमस्मान् स्वर्गं प्रापयितुमित्यग्निदेवताविशेषोपस्थानपरोऽयं मन्त्र इति स्पष्टं प्रतीयते । अध्यात्मपक्षे तु – अग्निः परमेश्वरः, दिवो द्युतेः प्रकाशस्य मूर्धा मूर्धेव मूर्धा, सर्वनैरपेक्ष्येण प्रकाशमानत्वात् सूर्यादयः प्रकाशाः स्वसजातीय प्रकाशनैरपेक्ष्येऽपि चक्षुर्मन आदिप्रकाशसापेक्षा एव । ज्योतिषामपि ज्योतिः-स्वरूपः परमेश्वरस्तु सजातीयविजातीय सर्वविध प्रकाशान्त र नैरपेक्ष्येण भासमानस्तेषां मूर्धेव भवति । पृथिव्याः पृथिव्युपलक्षितस्य सर्वस्यैव जगतः सत्तास्फूर्तिप्रदानेनायमेव पालकः पतिः । स एव च अपां दुग्धदध्याज्य-सोमादिलक्षणजलबहुलानामप्समवेतानां कर्मणां रेतांसि तत्परिणामभूतानि शरीराणि फलानि च विि प्रीणयति पोषयति ' जिवि प्राणने ' । यत्तु - ' युधिष्ठिरः सख्युः कृष्णस्य सामर्थ्यं वर्णयति - अयमग्निनिगिरतो बकासुरस्य तालुमूलदाहकः, दिवः स्वर्गस्य ब्रह्मेन्द्रादेः ककुद् ककुदः अभिभविता महान् कृष्णेन निर्जितत्वात् । ' ककि सहने ' । ' ककेरुहः ' इति उह प्रत्ययः । मूर्धा साम्प्रतं राजन्यवर्गस्य मूर्धा पराक्रमेण श्रेष्ठत्वात् । पृथिव्याः सत्राजित्सुतायाः सत्यभामायाः पतिः । एतेन कलङ्कमार्जनप्रसङ्गे बलभृतांवरो लङ्कासंग्रामेऽप्यमृतो जाम्बवान् ऋक्षराजोऽपि पराजित इति सर्वातिशायी पराक्रमोऽस्येति ध्वन्यते । अयमपां रेतांसि साराणि जलाध्यक्ष वरुणं जिन्वति प्रीणयति । स्वपित्रानयनप्रसङ्गेन तत्र गत्वा स्वदर्शनेन ( बहुवचनमादरार्थम् ) ' इति, तत्तु भगवत्स्मारकत्वात् सिद्धान्ताविरुद्धत्वाच्च क्लिष्टकल्पना बहुलमप्यादरणीयमेव । पृथिव्याः सत्यभामाया इत्यर्थे तु बीजं चिन्त्यम् ॥ १२ ॥

स्वामी दयानन्द ने बताया है कि पृथिव्यादि जगत् का पालन हेतु बनकर विद्युत् जाठरादिरूप होकर प्राण - जल के वीर्य को उत्पन्न करता है, वही सुखसाधक होता है | किन्तु यह व्याख्या निर्मूल और अध्याहारबहुल है । शतपथ के विरुद्ध होने से यह मन - मानी व्याख्या उचित प्रतीत नहीं हो रही है । अध्यात्मपक्ष में सम्पूर्ण जगत् को सत्ता - स्फूर्ति प्रदान करने के कारण परमेश्वर ही सम्पूर्ण जगत् का पालक है । किसी ने कृष्ण के सामर्थ्य का वर्णन इसमें बताया है । इस अर्थ में क्लिष्ट कल्पना के रहने पर भी उसे उपेक्षणीय नहीं कहा जा सकता । तथापि ' पृथिवी ' का अर्थ ' सत्यभामा ' जो किया है, उसका हेतु चिन्तनीय है ॥ १२ ॥

पृष्ठ 162

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 162 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५२ शुक्लयजुर्वेदसंहिता [ अ ० ३

उभा वोमिन्द्रानो आ हुवद्वया॑ उ॒भा राध॑सः स॒ह मा॑द॒यद्धये ।

उ॒भा दा॒तारा॑वि॒षा र॑य॒णाम॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ १३ ॥

४ । अग्निपदेन इन्द्राग्नी त्रिष्टुप् । इन्द्रशब्देनात्र सूर्यो गृह्यते । एष वा इन्द्रो य एष श तपति ० २ | ३ | ४ | १२ ) इति चाहवनीयाग्निः । स यदस्तमेति तदाहवनीयं प्रविशति तदुभावेवैतत्सह सन्ता उपतिष्ठते ' ( सातये दानाय श्रुतेः । युवामुभी इषामन्नानां रयीणां धनानां दातारी । अत उभौ वां युवां वाजस्यान्नस्य ' ( पा ० सू ० वे आह्वयामि । उभशब्दस्य विभक्तेराकारः ' षणु दाने ' इति धातो: ' ऊतियुतिसातिहेति कीर्तयश्च ० सू ० १ ३।३४ ) ३।९।९ ७ ) इति निपातनात् सातिः । ' ह्वेम् आह्वाने ' इति धातोः शपिं ' बहुलं छन्दसि ' ( पा इति सम्प्रसारणे उवङ ' हुवे ' इति रूपम् । अस्य तात्पर्यं कण्वो दर्शयति - उभी मे दातारौ सन्तौ दत्तमित्येवैतदाहेति सायणः । अपरस्तु राजपरत्वेनैतं । मन्त्रं व्याख्याति । हे ऐश्वर्यवद् राजन्, हे शत्रुसन्तापक सेनापते, उभौ युवामैश्वर्येणानन्दलाभार्थमाह्वयामि ' इति, अत्र व्याख्यातुः उभौ युवामन्नानामैश्वर्यस्य च दातारी उत्तमान्नोपलब्धये भोगाय चाहमाह्वयामि भोगस्य प्राप्तय स्वाच्छन्द्यमेव । अग्न्युपस्थान मन्त्राणां राज - सेनापतिपरत्वयोजने, वाजस्यैकपदस्याप्यन्नस्य धनैश्वर्यलाभः सेत्स्यति? इत्यर्थ करणमपि निरङ्कुशमेव । कश्चायं राजसेनापत्योराह्वाता? किं तदाह्वानेनैव वेदे तदुल्लेख:? किमीश्वरवाणीरूपे किमुत्कोचदानेन भोजनदानेन वा ततो बहुलिप्सुरेवमाह्वयति, कुतश्च । अग्निशब्देन च वेदे एतादृगेवोपदेशः? यद्वा इन्द्रशब्देनात्र यज्ञसाधकत्वरूपैश्वर्यवशादाहवनीयोऽग्निरुक्तः युवामुभौ आहुवध्यै गार्हपत्योऽग्निरुक्तः, अग्रे नयतीति यास्कोक्तः, तस्यैव प्रथममाधीयमानत्वात् । हे इन्द्राग्नी । राधसो वां हविस्वरूपाद्धनात् आह्वातुमिच्छामि । ह्वयतेस्तुमर्थे ' तुमर्थे सेसेन ' ( पा ० सू ० ३ | ४ ९ ) इति कध्ये प्रत्ययः हर्षयितुमिच्छामीति ( राध्नोति हिनस्ति दारिद्र्यमिति देवयज्वा ) सह मादयध्यै युगपदेककर्मणि युवां मादयितुं शेषः । ' मदो हर्षे, मदी तृप्तो ' इति वा धातोविजन्तात् तुमर्थे शध्यैप्रत्ययः । यत्तु आङ्पूर्वकाद् ह्वयतेः ध्यैप्रत्ययेन आहुवध्यै इत्यस्य साधुत्वमुक्तम्, तदसङ्गतम्, ' तुमर्थे कध्ये सेसेन नुशध्यं ' इति -सूत्रे ध्यंप्रत्ययस्यानिर्देशात् । सम्पूर्णसूत्रस्वरूपं तु– ' तुमर्थे सेसेनसेऽसे नुक्सेक सेनध्यै कध्यप्रत्ययेन अध्यैन् कध्ये व्याचक्षाणो शध्यन्तवैतवेङ्तवेनः ' ( पा ० सू ० ३।४ / ९ ) इति । उव्वटस्तु उत्तमपुरुषस्यैकवचनस्थाने । विमृश्य इत्युक्तिरेव विमृश्या, तत्पक्षे इच्छामीत्यध्याहारमन्तरैव व्यत्ययेन आह्वयामीत्यर्थापनस्य वैशिष्ट्यात् दयानन्दस्तु-- ' इन्द्राग्नी इन्द्रो वायुः, विद्युदादिरग्निश्च । येऽग्निवायुगुणानविदित्वैतो सम्प्रयुज्य कार्याणि साधयन्ति, ते सर्वाणि धनानि प्राप्य मोदन्ते नेतरे ' इति, तदपि मन्दम्, मुख्यार्थत्यागस्य गौणार्थाश्रयणस्या-मन्त्रार्थ - हे इन्द्राग्नी देवताओं! मैं तुमको बुलाने की इच्छा करता हूँ और इस कर्म में तुम हविर्भाग को ग्रहण करके सन्तुष्ट हो जाओ, यह इच्छा करता हूँ । तुम धन देनेवाले हो, अतः धन देने के लिए मैं तुम्हें बुला रहा हूँ ॥ १३ ॥

भाष्यसार - ' इन्द्र ' शब्द से यहाँ ' सूर्य ' का ग्रहण कहा है । किसी ने इस मन्त्र की व्याख्या राजपरक की है, अर्थानुकूल व्याख्या को ही सिद्धान्त समझना उचित है । किया गया है । उपर्युक्त भावार्थ के किन्तु वह स्वच्छन्दता से भरी हुई है अनुकूल ही सायण ने । उब्वट - महीधरोक्त

पृष्ठ 163

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 163 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १३-१४ ] वेदार्थपारिजातमाष्यसहिता १५३ युक्तत्वात् । नहि त्वद्रीत्या जडयोरग्निवाय्वोरिषां रयीणां च दातृत्वं सम्भवति न तयोराह्वानं न वा मादनं सम्भवति । शतपथे तु – ' अथेन्द्राग्नी । उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । उभा दाताराविषा रीणामुभा वाजस्य सातये हुवे वामित्येष वा इन्द्रो य एष तपति स यदस्तमेति तदाहवनीयं प्रविशति तदुभावेवैतत्सह सन्ता उपतिष्ठते । उभौ मे सह सन्तो दत्तामिति तस्मादन्द्राग्नी ' ( श ० २ | ३ | ४ | १२ ) । अस्यामृचि इन्द्रशब्देन य एष तपति स सूर्य उच्यते । स यदस्तमेति तदाहवनीयं प्रविशति । तदुभावेव सह सन्तौ उपतिष्ठते । किमर्थम्? सह सन्तौ दत्तं मह्यमभीष्टमित्यर्थः । अध्यात्मपक्षे तु -- उभा उभौ इन्द्राग्नी, इन्द्रः परमैश्वर्यवान् रामः, अग्निश्च लक्ष्मणः, दनुजवनकृशानु-त्वात् । तौ रामलक्ष्मणौ कृष्णबलदेवी वा वां युवाम् आहुवध्यै आह्वातुमिच्छामि । उभौ सहैव राधसः, राध्नुवन्ति साधयन्ति पुरुषार्थाननेन धर्मानुष्ठानेनोपासनेनाराधनेन वेति राधस्तस्माद् राधसः प्रेमधनान् प्रेममयादाराधनाद्वा मादयध्यै युवां हर्षयितुमिच्छामि उभाविषामिष्यमाणानां पदार्थानां रयीणां तत्साधनभूतानां धनानां च दातारी वाजस्य परमपुरुषार्थंभूतस्य प्रेमलक्षणस्यान्नस्य सातये दानाय वां युवां हुवे आह्वयामि । ' वज गती ' वज्यतेऽभि-गम्यते सर्वैरिति वाजः । ' हुवे ' इत्यत्र छान्दसत्वात् सम्प्रसारणम् । कश्चित्तु — इन्द्रोऽर्जुनः, अग्निर्देत्यदानवदहनः कृष्णस्तौ कलिन्दनन्दिनी प्रार्थयते - उभी युवामहमा ह्वातु-मिच्छामि । राधस आराधनात् यथाविधिसत्कारादिसेवनात् सह युगपद् हर्षयितुमिच्छामि । युवामिषामभिल-पितानां विष्णुपाणिग्रहणतत्पादपद्मसेवादिधनानां दातारौ एकः साक्षादपरः प्रेरकत्वादिति । उभौ युवां वाजस्य विविधरुचिरभोजनस्य सातये दानाय ॥ १३ ॥

अ॒यं ते योनि॑र्ऋत्वियो यतो जातो अरो॑चथाः ।

तं जानन्न॑ग्न आरो॒हाथ नो वर्धया रयिम् ॥ १४ ॥

तिस्र आग्नेय्योऽनुष्टुब्जगतीगायत्र्यः । तत्र प्रथमा देवश्रवोदेववातदृष्टा । पूर्वमन्त्रेऽग्निपदेन गार्हपत्यग्रहणेऽपि न तथात्र ग्रहणम्, यागे आहवनीयस्यैव प्राधान्यात्, मन्त्रार्थानुगमाच्च । हे अग्ने आहवनीय! ते तवायं गार्हपत्यो योनिर् उत्पत्तिस्थानम् । कीदृश:? ऋत्वियः । उत्पत्तियोग्यः काल ऋतुरुच्यते । ऋतुः प्राप्तोऽस्येति ऋत्वियः । सायंप्रातरादौ तत्रोत्पादकत्वेन तथाविधकालोपेतः । ऋतुशब्दात्प्राप्तोऽस्येत्यर्थे ' छन्दसि घस् ' ( पा ० सू ० ५ | १ | १०६ ) इति घसि ऋत्वियरूपनिष्पत्तिः । सायंप्रातःकाल उत्पादनयोग्यो योनिः यतो स्वामी दयानन्द ने मुख्यार्थ को त्यागकर गौण अर्थ का जो आश्रय किया है, वह भी अनुचित है । क्योंकि वह शतपथ, श्रौतसूत्र, याज्ञिक परम्परा तथा व्याकरण के विरुद्ध है ॥ १३ ॥

मन्त्रार्थ - हे आहवनीय अग्ने! सायं और प्रातः उत्पन्न होने योग्य जो ' गार्हपत्य ' अग्नि है, वह तुम्हारा उत्पत्तिस्थान है । तुम गार्हपत्य से उत्पन्न होकर कर्मकाल में प्रकट हुए हो, इसलिये हे अग्ने! तुम गार्हपत्य को अपना उत्पत्तिस्थान समझकर कर्म के समाप्त होने पर उसमें प्रवेश करो । तदनम्सर यागानुष्ठानार्थं हमारे द्रव्य का संवर्धन करो ॥ १४ ॥

२०

पृष्ठ 164

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 164 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५४ शुक्लयजुर्वेदसंहिता [ अ ० ३ यस्माद् ऋतुकालोपेताद् गार्हपत्याद् जात उत्पन्न उद्धृतस्त्वमरोचथाः कर्मकाले दीप्तिमानभूः । तं गार्हपत्यं स्वजनकं जानन् हे अग्ने, आरोह कर्मान्ते तत्रैव प्रविश पुनरुद्धरणाय । अथानन्तरं नः अस्माकं रयिं वर्धय पुनर्यागाय स्फीतं धनं कुरु । तथैव पुष्टं वै रयिर्यदस्माकं पुष्टं तन्नो भूय एव कुरु तन्नो वर्धयेत्येवैतदाह ( श ० २ | ३ | ४ | १३ ) । आधुनिकस्तु - ' हे राजाग्ने! तव तन्मूलमाश्रयस्थानम् ऋतुषु राजकर्तृषु सदस्येष्वाश्रितम्, यतः सामर्थ्यातो भूत्वा त्वं प्रकाशवान् भवसि । तन्मूलकारणं सम्यग् जानन् त्वमुच्च सिंहासनारूढो भव । अस्माकमैश्वर्यं वर्धय । पूर्वमन्त्रेऽग्निपदेन सेनापतिगृहीतः इह तु राजाग्निसम्बोधनं किमाधृत्य धृतमिति तु नोक्तम् । मन्त्रे - अयं योनिरित्येकवचनेन मूलकारणस्यैकत्वमुक्तम् । ऋत्वियशब्दोऽपि तस्यैव विशेषणीभूतः । परं व्याख्यात्रा तु स्वाच्छन्द्येन क्रतूनां राजकर्तॄणां सदस्यानां चाश्रयत्वमुक्तम् । मूले योनित्वमुक्तम्, व्याख्यात्रा तु ततः सामर्थ्यलाभ उच्यते । यदि निर्वाचनप्रथाङ्गीक्रियेत तदा तु राजोत्पादकत्वमपि तत्रोपपन्नं स्यात्, किन्तु सर्वमेतद् व्याख्यानं ब्राह्मणसूत्रादिविरुद्धमेव । तत्पोषणाय ' क्रतवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य वै ' ( १1१ ) इति वचनमुद्धृतम्, परं न तत्पोषकम्, यतस्तत्र सोमस्य राज्ञो राजभ्रातृत्वं क्रतूनामुक्तम् । क्रतूनां सोमस्य राज्ञः पोषकत्वात् । अयमिह प्रथमोऽधायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः । यमप्तवाना भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविश इति । दयानन्दस्तु – ' अयं वायुस्तवेश्वरस्याग्नेर्वा सृष्टौ योनिः निमित्तकारणम्, ऋत्वियः ऋतुः प्राप्तोऽस्य सः । यतो जातो अरोचथा दीपयति व्यत्ययः । हे अग्ने ईश्वर विद्युद्वा, आ समन्ताद् रोह उन्नतिं गमय गमयति वा । अथास्माकं वर्धय सर्वोत्कृष्टवां सम्पादयति वेति ' ( पृ ० २५७ ), तदेतदपि प्रकरणविरुद्धम्, यदपि यथावद्वि-दित्वा सम्प्रयोज्य कार्याणि साधनीयानि ' इति, तदपि निःसारं प्रयोगस्यानुक्तत्वात् श्रुतिसूत्रविरोधाच्च । अध्यात्मपक्षे - हे अग्ने परमेश्वर! ' एकं सद्विप्रा बहुधा वदन्ति ' ( ऋ ० सं ० १ | १६४।४६ ) इति मन्त्र-वर्णात् । अयमपरोक्षः प्रत्यगात्मा योनिर् आविर्भावस्थानम्, प्रत्यगभेदेनैव परमेश्वरस्य स्वप्रकाशत्वपरप्रेमा-स्पदस्वपरमानन्दत्वाद्याविर्भावसम्भवात् । स्वतस्तु परोक्षत्वादिकमेवानुभूयते । ऋत्विय आविर्भावयोग्यः काल ऋतुः । ब्रह्माकारवृत्त्युत्पत्तिकाले प्रादुर्भावयोग्यः । यतः स्वप्रकाशपरमानन्दरूपेणाविर्भूतो भवति, तमारोह प्रत्यगात्मरूपेणाविर्भव । अथानन्तरं रयिं ब्रह्मात्मनिष्ठारूपां सम्पत्ति वर्धय उत्कृष्टभूमिकां प्रापय ॥ १४ ॥

भाष्यसार - पूर्व मन्त्र में ' अग्नि ' पद से ' गार्हपत्य ' का ग्रहण किया गया था, किन्तु इस मन्त्र में वैसा नहीं है, क्योंकि मन्त्रार्थ के अनुगमानुरोध से यहाँ ' आहवनीय ' की ही प्रधानता है । किसी आधुनिक व्याख्याकार ने राजाग्निपरक व्याख्या की है, किन्तु ऐसी व्याख्या करने का कोई आधार स्पष्ट नहीं है । शतपथादि ब्राह्मण, सूत्र आदि के विरुद्ध रहने से इस प्रकार की व्याख्या को त्याज्य कोटि में समझना चाहिये । स्वामी दयानन्द ने भी प्रकरणविरुद्ध ही अर्थ किया है । यह श्रुति - सूत्र विरुद्ध भी है, अतः उपेक्षणीय ही है । अध्यात्मपक्ष में -- ज्ञाननिष्ठा में तत्पर रहने वाले के लिये कहा गया है कि ब्रह्मात्मनिष्ठारूप सम्पत्ति को वृद्धिगत करो ॥ १४ ॥

पृष्ठ 165

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 165 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मंत्र: १५ ] वेदार्थपारिजातभाष्यसहिता अ॒यमि॒ह प्र॑थ॒मोऽधा॑य धा॒तृभि॒र्होता॒ यज॑ष्ठो अध्व॒रेष्वीड्य॑ । N यमप्त॑वानो॒ भृग॑वो विरुरु चुर्वनेषु चित्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥ १५ ॥

१५५ इयं जगती वामदेवदृष्टा । अयमाहवनीय इह कर्मानुष्ठानस्थाने प्रथमः मुख्यः । धातृभिर् आधानकर्तृ -भिधायि आहितः । होता देवानामाह्वाता । यजिष्ठो मानुषाद्धोतुरग्निरूपो होता यष्टृतमः, देवानामाह्वानाय जिष्ठोऽतिशयेन यागोपयुक्तो वा । अध्वरेषु सोमादियज्ञेषु । ईड्यः स्तुत्यः । यमप्नवानो यमग्नि वनेषु वन्यारणिष्वास्थितमाधाय पूर्वेऽपि ऋषय अप्नवानप्रभृतयो भृगवो भृगोरपत्यानि विरुरुचुः विविधां दीि प्राप्तवन्तः । कीदृशम्? चित्रं चयनयागादिषु चयनीयम् । पुनः कीदृशम्? विशेविशे विभ्वं विशिष्टजनेषु व्यापकं विभूतिशक्तियुतं वा । सायणरीत्या तु - अप्नशब्दस्य अपत्यनामसु पठितत्वाद् अप्नवानः पुत्रवन्तः भृगवो भृगुवंशोत्पन्नाः सर्वे महर्षयो विशेविशे विडिति मनुष्यनाम तस्मै तस्मै यजमानरूपाय मनुष्याय तस्योपकारार्थं वनेषु ग्रामाद् बहियंजनाख्येषु अरण्यप्रदेशेषु यमाहवनीयमग्निं रुरुचुर्विशेषेण दीपितवन्तः । कीदृशमग्निम्? चित्रं विविध-कर्मोपयोगित्वेन विचित्रमाश्चर्यकारिणं विभ्वं विभुत्वशक्तियुक्तम् । अयमित्यस्य मुख्यार्थपरत्वं तित्तिरिर्दर्शयति-' मिह प्रथमोऽधा धातृभिरित्याह मुख्यमेवैनं करोति ' इति । अध्यात्मपक्षे - इहलोके वेदे चायमपरोक्षः प्रत्यगात्मा प्रथमः प्रामुख्येन धातृभिलौकिक वैदिकव्यवहार-परायणैर्धायि न्यधायि पुरस्कृतः । अयमेव होता देवानामाह्वाता । अयमेव यजिष्ठो यष्टृतमः । अध्वरेषु प्रस्तुतेष्वयमेव यागादिकर्तृयजमानरूपेण हिरण्यगर्भादिरूपेण परमात्मरूपेण च ईड्यः स्तुत्यः । ध्यायिभिः प्रसंख्यानपरायणैश्चायमेव परमात्मरूपेण हृदये धायि ध्येयत्वेन धारितः । अप्तवन्तः पुत्रवन्तो भृगवो भृगुपत्न्या दीपितवन्तः प्रकाशितवन्तः, विशेविशे रक्षिताः सर्वे ऋषय आत्मरूपेण परमात्मरूपेण वने विरुरुचुः विशेषेण प्रतिजनं प्रतिप्रजनं चित्रमद्भुतमनेकधा देवतिर्यगादिरूपेणावस्थितं विभ्वं विभुताशक्तियुतं रोचयामासुः । अन्तर्भावितणिजर्थाद्विपूर्व काद् रोचते रूपम् । अयं परमात्मा निर्गुणः सगुण निराकारो वा साकारो वा रामः कृष्णः परशुरामो वा प्रथमः प्राथम्येन प्रामुख्येन धातृभिः श्रुतिशास्त्रकारकैर्ब्राह्मणैः अधायि सर्वकार्येषु पुरस्कृतः, तस्मात्सर्वेषु कालेषु मामनुस्मर युद्धय च ' ( भ ० गो ० ८1७ ) इति भगवत्स्मरणात् । होता पुण्याचरणाय सर्वेषां देवानां दानवानां मानवानां च आह्वाता अध्वरेषु यज्ञेषु याजकैर्यष्टभिश्च स एवेड्यः । स्वयं च यजिष्ठो यष्टृतमो यजमानेषु शक्तिप्रदानेन रामकृष्णपरशुरामादिरूपेण च यजमानो भूत्वा अतिशयेन मन्त्रार्थ - यह आहवनीय अग्नि इस स्थान में मुख्य है और आधान करनेवाले यजमान के द्वारा उसका स्थापन किया गया है । यह अग्नि देवताओं का आवाहन करनेवाला ( बुलानेवाला ) और उत्कृष्ट प्रकार से याग करने पुत्रवान् मुनियों ने प्रत्येक यजमान लिये अरण्य में वाला है । यज्ञ में ऋत्विग् लोग उसकी स्तुति करते हैं । भृगुकुलोत्पन्न महान् आश्चर्यकारक इस अग्नि को प्रदीप्त किया था । इस अग्नि का भिन्न - भिन्न कर्मों में उपयोग होता है, अतः वह और व्यापक है ॥ १५ ॥

भाष्यसार - यजिष्ठ, अर्थात् मनुष्य होता की अपेक्षा यह अग्निरूप होता यष्टृतम, अर्थात् देवों को बुलाने में अधिक कुशल है । चयनादि यागों में चयनीय होने से इसे ' चित्र ' कहा गया है ।

पृष्ठ 166

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 166 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५६ शुक्लयजुर्वेदसंहिता [ अ ० ३ यष्टा, अप्तवानः पुत्रवन्तो वनेषु भृगूपलक्षिता मुनय ऋषयश्च यं ध्यात्वा विरुरुचुः लोके वेदे च दीप्तिमन्तोऽभूवन्, वेदपुराणादिशास्त्रः कर्मोपासनज्ञानैयं विरोचयामासुश्च । कीदृशं तम्? चित्रमाश्चर्यमयम् ' आश्चर्यवत् पश्यति कश्चिदेनम् ' ( भ ० गी ० २१ २ ९ ) इत्यादिस्मरणात् । विभ्वं व्यापकं विशेविशे प्रतिजनं विरुरुचुः प्रकाशितवन्तः । दयानन्दस्तु --- ' अप्नवानो भृगवो विद्वांस इह वनेष्वध्वरेषु विशेविशे विभ्वं चित्रं यमग्नि विरुरुचुर्विदीपयन्ति सोऽयं धातृभिः प्रथम ईड्यः । होता यजिष्ठोऽग्निरिह धायि ध्रियते । अप्नवान इति अप्नान् विद्यासन्तानान् कुर्वन्ति ते अप्नवानः । ' अप्न इति अपत्यनामसु पठितम् ' ( निघण्टु २२ ), ' भृगव इति पदनामसु ' ( निघण्टु ५१५ ) अनेन ज्ञानवत्त्वं गृह्यते ' इति, तदपि यत्किञ्चित् वायुजलां दिशुद्धयर्थमग्नौ घृतादिनिःक्षेपस्य अध्वरयज्ञादिशब्दव्यपदेश्यताऽसम्भवात् श्रुतिसूत्रादिविरोधाच्च ॥ १५ ॥

अ॒स्य प्र॒त्नामनु॒ द्युत॑ शुक्रं दुदुहे॒ अह॑यः । पर्यः सहस्र॒सामृषि॑म् ॥ १६ ॥

अवत्सारदृष्टा गायत्री गोऽग्निपयोदेवत्या अग्न्युपस्थाने विनियुक्ता । ' स वै त्रिः प्रथमां जपति त्रिरुत्तमाम् ' इति ' उपप्रयन्त ' इत्यस्या इव ' अस्य प्रनाम् ' इत्यस्या अपि उत्थाय त्रिर्जपः कार्यः । अस्याग्नेः प्रत्नां चिरन्तनीं द्युतं दीप्तिमनुसृत्य अहयो लज्जारहिता दोग्धारम् ऋषिम् अर्षति दोहनस्थाने गच्छतीति ऋषिणः, ऋषी गताविति तन्निष्पत्तेः । तामृषि गां शुक्रं शुक्लं श्वेतवर्णं पयः दुहे दुदुहेऽग्निहोत्र होमा-द्यथं दुग्धवन्तः । सायं दोहन कालेऽग्निसम्बन्धिदीप्ति ( प्रकाशा ) भावे दुह्यमानं क्षीरं भूमौ निपतिष्यतीत्येवं दोग्धृणां लज्जा भवति । अग्निदीप्ती सत्यां तु दुग्धपतनशङ्काभावाद् लज्जादोषो नास्ति । सहस्रसामिति गोविशेषणम् । सहस्रसंख्याकानि कर्माणि स्यति क्षीरदध्याज्यादिप्रदानेन समापयति पूरयतीति सहस्रसा, तां सहस्रसामिति सायणानुसारी भावः । अपरस्तु - ' दूराद्दूरं प्रज्ञया व्याप्नुवन्तो विद्वांसोऽस्य राज्ञः श्रेष्ठां कान्ति सहस्रसंख्याकानां जनाना-मन्नवस्त्रशरणप्रदं पुष्टिकारकं बलं च गोदुग्धमिव प्राप्नुवन्ति ' इति, अत्र विद्वांसोऽविद्वांसो वा कथमन्यनिष्ठां कान्ति बलं च प्राप्तुं शक्नुवन्तीति न विचारितम्, अन्यनिष्ठरूपस्येवान्यनिष्ठकान्तेरन्यत्र संक्रान्त्यसम्भवात् । प्रत्नां सहस्रसामित्यादीनां पदानामर्थास्तु नोक्ताः । पदानपेक्षेच्छामात्रेण यत्किश्चित् कथनं तु न वेदार्थः । सिद्धान्ते तूपस्याप्यत्वेन प्रकृतस्याग्नेः प्रकृतपरामशिनेदमा ग्रहणं युक्तम् । राज्ञो ग्रहणे प्रकृतहान्य प्रकृप्रक्रिये प्रसज्येयाताम् । अध्यात्मपक्ष में - यह परमात्मा निर्गुण - सगुण, निराकार - साकार, राम - कृष्ण, परशुराम आदि सभी रूपों में वेद - शास्त्रों के ज्ञाता ब्राह्मणों के द्वारा प्रमुखतया पुरस्कृत किया जाता है । स्वामी दयानन्द ने वायु - जल आदि की शुद्धि के लिये अग्नि में घृत के प्रक्षेप को ' अध्वर ' कहा है, किन्तु यह अर्थ तो श्रुति - सूत्र आदि के विरुद्ध रहने से ग्राह्य नहीं है ॥ १५ ॥

मन्त्रार्थ --बहुत प्राचीन काल से इस अग्नि को कान्ति का अनुसरण करके ( अग्नि की बीति की ओर ध्यान देकर ) दोहनेवाले लोग, निःसङ्कोच होकर जिसके दूध का उपयोग हजारों कार्यों में किया जाता है, ऐसी गौ के दूध का दोहन किया करते थे ॥ १६ ॥

पृष्ठ 167

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 167 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १६ ] वेदार्थ पारिजातमाष्यसहिता १५७ रेतः उब्वटमहीधररीत्या तु-- ' तामुहाग्निरभिदध्यो मिथुन्येन यास्यामीति ता गामभिलक्ष्य ह सम्बभूव दध्यो तस्यां चिन्तनं प्रासिञ्चत् ' इत्यग्निहोत्रब्राह्मणोक्तमर्थमभिवदतीयमृक् । ब्राह्मणार्थंस्तु -- अग्निस्तां रेतः प्रसिक्तवान् । कृतवान् मिथुनधर्मेणैतामुपयास्यामीत्येवं ध्यात्वा तां सम्बभूव तया मिथुनीभूतस्तस्यां । तेनार्थमेवावगन्तुं ननु चेदमश्लीलमिति चेन्न श्रुतेरपौरुषेयत्वेनापास्तसमस्त कलङ्कपङ्काया अपर्यनुयोज्यत्वात् नेदमश्लीलम्, शक्ष्यामो न पर्यनुयोक्तुम् । सत्यघटनायाः स्वानभीष्टाया अपि वर्णनं न इतिवत्तत्समाधानोपपत्तेः दूषणम् । वस्तुतस्तु । परमेश्वरः ' मम योनिर्महद् ब्रह्म तस्मिन् गर्भ दधाम्यहम् ' ( भ ० गो ० १४।३ ) तेजस्तत्र निःक्षिपति । तेनैवाचेतनापि प्राकृतपुरुषवत् प्रकृतियोनी न गर्भं दधाति, किन्तु स्वप्रतिबिम्बरूपं विलक्षणसामर्थ्योपेतं तेजो निक्षिपति, प्रकृतिश्चेतना भवति ततो महदादिप्रपञ्चं प्रसूते, तथैवाग्निरपि गोषु स्त्रीष्वग्नितेजसैव दुग्धं भवति, तेनैव तद्गतं घासादिकमुज्ज्वलदुग्धरूपेण परिणमते । उपलक्षणमिदम् । सर्वत्रैव तथोक्तिः, तेनैवान्नादिपरिणामसम्भवात् । अत्र स्वग्नि- गो - पयसामग्निहोत्रादियज्ञसम्बन्धेन प्रशंसामिषेणैव - ' अग्निष्टे प्रथमः विधिना त्वेकवाक्यत्वेनार्थवादानां विधेयार्थप्राशस्त्यबोधपर्यवसायित्वात् । सामान्यस्त्रीणामपि पतिः ' इति मन्त्रेणैवाग्नेः प्रथमपतित्वमुक्तम् । हि लज्जते न मन्त्रार्थस्तु - अह्रयो गावः, नास्ति होर्यासां ता अह्नयः अलज्जाः प्रशस्ताः । तादृश्योऽह्रयो । मलिनो गावोऽग्नेः निर्मलः । निर्मला हि गावः, ब्राह्मणोक्ताग्निकृत्तेजोनिःक्षेपस्य लज्जानास्पदत्वात् पयो दुग्धं दुहन्ति क्षरन्ति । प्रत्नां स्वभावसिद्धां चिरन्तनीं घृतं द्युतिमात्मनि सिक्तां शुक्रं शुक्ररूपापन्नां द्युतमेव च अग्निना शुक्ररूपेण सिक्तां तदीयकान्तिमेव गावो दुग्धरूपेण क्षरन्ति । अस्मिन् व्याख्याने संभक्तारम् सहस्रसामृषिमिति । पुंस्त्वमार्षम् । पयसो विशेषणे सहस्रं सनोतीति सहस्रसा तं ' षण संभक्तौ ' चातुर्मास्यपशुसोमानां सामहिकारद्रष्ट्रित्यर्थः । गवि वर्तमानं संभक्तृसम्पादयित्रि इत्यर्थः " पयसैव तन्निष्पत्तेः । ऋषि द्रष्टारम्, साम्रो हिंकार इति श्रुत्या द्रष्टृत्वं तत्पयस्युपचर्यते, सा हैनानुदीक्ष्य हिचकारेत्युपक्रम्य ते देवा विदाञ्चकुरेष तद्विशेषणम् । तेनाहियो गाव एव गोर्हिङ्कारद्रष्टृत्वोक्तेः । विभक्तिलिङ्गवचनव्यत्ययेन तु अह्रिय इत्यस्यैव -- शुक्ररूपापन्नां गां दुग्धं क्षरन्ति । का चातुर्मास्यादियागसम्पादयित्र्यः । ता एव हिंकारद्रष्ट्रयः । उव्वटभाष्ये रक्षन्तीति । तत्र गामिति स्थाने गावः, दुहन्ति रक्षन्तिका इति वाक्यानि संशोधकप्रमादजनितान्येव शोधने पूर्वोक्त एवार्थः । तज्ज्ञात्वैव महीधरेण स्थाने क्षरन्ति, का दुहन्ति रक्षन्तीति स्थाने का दुहन्ति क्षरन्तीति तदनुसारेणैव व्याख्यातम् । परमेश्वरस्य अध्यात्मपक्षे तु - अहयो लज्जा भयशोकादिवर्जिता वीतरागा अस्य प्रत्यक् द्युतं चैतन्याभिन्नस्य स्वरूपभूतां दीप्तिमृषि प्रत्नां पुराणीं पुराप्यभिनवां सहस्रसां स्वज्योतिषा सूर्यचन्द्रादिसहस्रप्रकाशप्रदां प्रपूरितवन्तः । सर्वद्रष्ट्रीमनुसृत्य शुक्रं शुद्धं तद्विषयमपरोक्षसाक्षात्काररूपं पयो दुदुहिरे भाष्यसार - यहाँ ' ऋषि ' शब्द का अर्थ ' गो ' है । सायंकाल के पर दूध के गिरने से दोहनेवाले को लज्जा होना स्वाभाविक । है । किन्तु शङ्का नहीं रहती, इसलिये ग्वाले लज्जारहित हो जाते हैं समय दोहनकाल में प्रकाश न रहने से भूमि अग्नि का प्रकाश होने पर दूध के गिरने की समझ लिया है, किन्तु वैसा साहस दिखाना क्योंकि शतपथ, सूत्र, परम्परा आदि सभी किसी ने अपनी स्वच्छन्द व्याख्या को ही वेदमन्त्र की व्याख्या उचित नहीं है । उव्वट - महीधर की व्याख्या ही वस्तुतः व्याख्या है, दिखाई देता है, किन्तु वह देखने वाले के व्याख्यागुणों से युक्त है । उव्वट की व्याख्या में किसी को ' अश्लीलता ' दोष

पृष्ठ 168

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 168 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५८ शुक्लयजुर्वेद संहिता [ अ ० ३ ' अस्य जमदग्नेः प्रत्नामतिप्राचीनां द्युतं सर्वाभिलषितप्रदत्वेन द्योतमानां कामधेनुमनुभूय मयासी क्रेतव्येति निश्चित्य अहियो निर्लज्जा राजानुचराः सत्कर्तुरपि मुनेर्धेनुं नेतारः । ऋषि ऋषेः, गौणकर्मणि द्वितीया । सहस्रसां सहस्रप्रदाद् गोः शुक्रं शुद्धं पयो दुग्धमिव दुदुहिरे । दोहनं चात्र सारयुक्तवस्तुनः सारस्य पृथक्करणम् ' इति, तत्तु बलादिव स्वाभिमतेऽर्थे मन्त्रस्य योजनमिव, दयानन्दीयव्याख्यानवत् क्लिष्टकल्पनाबहुलं च । दयानन्दस्तु – ' अस्याग्नेः प्रनामनादिवर्तमानां पुराणोमनादि स्वरूपेण नित्याम् अनु पश्चाद् द्युतं कारणस्थां दीप्ति शुक्रं कार्यकरं साधनं दुदुह्रे प्रपूरयन्ति । अह्नयः अह्रुवन्ति व्याप्नुवन्ति या सहस्राण्यसंख्यातानि सर्वा विद्या ये ते विद्वांसः । ' अह व्याप्ती ' इत्यस्माद् बाहुलकेनौणादिकः क्विन्प्रत्ययः । पयो जलं सहस्रसां प्रत्नां कार्याणि सनोति ताम् ऋषि कार्यसिद्धिप्राप्तिहेतुम् । अन्वयस्तु - अह्रयो विद्वांसोऽस्याग्नेः सहस्रसामृषि कार्यप्रदामृषि द्युतं ज्ञात्वा शुक्रं पयश्चानु दुदुहे प्रपूरयन्ति । सर्वविद्याव्यापका विद्वांसोऽस्याग्नेः सहस्रसामसंख्यात, कार्यसिद्धिप्रापिकां प्रत्नां द्युतं कारणस्थां दीप्तिं ज्ञात्वा शुक्रं कार्याणां साधनरूपं पयो जलमनुदुदुहे अनुपूरयन्ति । अर्थाद् अग्नौ हवनादिकं कृत्वा वृष्ट्या संसारं पूरयन्ति ' इति हिन्दीभाषार्थ इति, तदप्यसाम्प्रतम् अनिरूपणात् शुक्रं अग्नेः सा कारणस्था द्युतिर्या असंख्यात कार्याणां प्रापिका अग्नेः कारणं वायुर्भवति तत्र द्युतिरेव कृत्वेत्यादिकमप्य- नास्ति । कार्यकरं साधनमिति तु निर्मूलमेव । अत्र ज्ञात्वेत्यध्याहारोऽपि निर्मूलः । अग्नौ हवनादिकं जीवानामणुत्वेन व्यापकत्वा-क्षरबाह्यमेव । ' अह व्याप्ती ' इति धातोर् अह्रय इति साधनमपि निरर्थकम् विदुषां देवदत्तस्य सम्भवात् । न च जीवानां सर्वविद्याव्यापकत्वमपि जीवस्य सार्वज्ञ्याभावात् । नहि धनादिप्रापकस्यापि तद्व्यापकत्वमुच्यते । यत्तु -- ' अह्नोतेर्वा क्विन्प्रत्ययः, ज्ञातार इति भट्टभास्कर: ' ( पृ ० २६१ ) इति, तत्तु धातोरनेकार्थत्वाश्रयेण ज्ञातव्यम् । न च प्रसिद्धार्थत्वे सम्भवत्यप्रसिद्धार्थाश्रयणं युक्तम्, तस्मादुव्वटसायणमहीधराणां रेतोगर्भाधान- नास्ति होर्लज्जा यासां ता अहय इति व्याख्यानमेव विजयते । वस्तुतस्तुव्वटाद्युद्धृतब्राह्मणानुसारेणाग्ने, प्रसङ्गेन गवां लज्जा प्राप्ता तन्निवारणाय अहयो लज्जारहिता इत्येवार्थो युक्तः, व्याप्त्यर्थस्य धातोस्तत्रासङ्गतेः अर्थानुसारेण स्वरव्यत्ययस्यापीष्टत्वात् । यत्तु कश्चित्तदनुकरणं कृत्वा पयोदोहने व्याप्तिमन्तस्त्वरया गोदोहनसम्भारमाप्नुवानाः ' इत्युक्तवान् भूमि, तदपि तथाविधमेव युक्तिशून्यम्, कर्तॄणां कार्यव्यापकत्वासम्भवात् । नहि सर्वभूमिप्रापकोऽपि राजा व्याप्नोति । तद्गतस्वामित्वमात्रेणौपचारिकमेव तद्व्यापकत्वमिति मन्तव्यम् । एवमेव ' वेदे पश्यत्यर्थं ऋषिः, दोग्धारः कदा मां दुहन्तीति कालं प्रतीक्षमाणाम् ' इत्यपि यत्किञ्चित्, दर्शनप्रतीक्षयोर्भेदप्रसिद्धेः । मन में जमी अपनी अश्लीलता ही उसके सामने उपस्थित होती है और उसे दिखाई देती है, जिसे वह विश्वमान्य प्राचीन व्याख्याकारों की व्याख्या पर मढ़ने का प्रयत्न करता है । स्वामी दयानन्द ने जो व्याख्या की है, व्याकरण की संगति ही हो रही है । शतपथ, सूत्र व्याख्या को सारहीन ही कहना होगा । उसमें न तो कार्य - कारणभाव ही ठीक बैठ पा रहा है और न आदि से तो व्याख्या का कोई मेल ही नहीं है, अतः ऐसी

पृष्ठ 169

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 169 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १७ ] वेदार्थ पारिजातमाष्यसहिता १५ ९ शतपथे च - ' अस्य प्रत्नाम् । अनुद्युत शुक्रं दुदुहे अह्नयः । पयः सहस्रसामृषिमिति परमा वा एषा सनीनां यत्सहस्रस निस्तदेतस्यावरुद्ध्यं तस्मादाह पयः सहस्रसामृषिमिति ' ( श ० २ | ३ | ४ | १५ ) । षष्ठीमृचं विधातुं प्रशंसति - परमा वा एष इति । सनीनां दानानां मध्ये यत् सहस्रसनि सहस्रसंख्याकस्य दानम्, एषा परमा सनिः ॥ १६ ॥

त॒नू॒पा अ॑ग्नेऽसि त॒न्वं॑ मे पाह्यायु॒र्दा अ॑ग्ने॒ऽस्यायु॑में देह वर्चोदा अग्नेऽसि॒ वर्चो मे देहि । अग्ने॒ यन्मे॑ त॒न्वा॒ ऊ॒नं तन्म॒ आपृ॑ण ॥ १७ ॥

यजूंयेतानि चत्वारि अग्निदेवत्यानि । हे अग्ने! यस्त्वं स्वभावत एव तनूपा असि प्रकरणादग्निहोत्रिणां तनूः शरीराणि पासि गोपायिता, स त्वं मे मम तन्वं शरीरं पहि गोपाय । यस्त्वमायुर्दा आयुषो दातासि हे अग्ने! स त्वं मे मम आयुर्देहि । अत एव शरीरेषु यावदग्नेरौष्ण्यं पाचकत्वं च भवति तावदेव जीवनं भवति । हे अग्ने! त्वं वर्चोदा वर्चसो वैदिकानुष्ठानप्रयुक्तस्य तेजसो दातासि, अतो मे वर्चो देहि येनाहं वर्चस्वी स्याम् । हे अग्ने! मे मम तन्वाः शरीरस्य यत् चक्षुराद्यङ्गम् ऊनं न्यूनं दृष्टिपाटवादिरहितं तन्मे मम आपृग आसमन्तात् पूरय । अग्नेरनुग्रहेणैव समुचितरसपाकादिनिष्पत्त्या शरीरस्य व्यङ्गतानिवृत्त्या पूर्ण सौष्ठवं जायते । आधुनिकस्तु अग्निशब्देन परमेश्वरो बोध्यत इति वक्ति, तत्तु श्रुतिविरुद्धमेव, मन्त्रस्यास्य कर्मसु विनियोगात् । ' यस्तनृपाः सर्वपदार्थदेहान् पाति परमेश्वरो भौतिकोऽग्निर्वा असि अस्ति । सर्वत्र व्यत्ययः । तन्वं शरीरं पाहि पाति वा । अग्ने विज्ञानरूपेश्वर विज्ञाननिमित्तोऽग्निर्वा असि । आयुर्जीवनं मे देहि ददाति । वर्चो विज्ञानं ददातीति वर्चोदाः । अग्ने सर्वविद्यामयेश्वर विद्याहेतुर्वा वर्चो विद्याप्राप्तिं मे देहि । हे अग्ने! कामानां प्रपूरकेश्वर कामपूर्तिहेतुर्वा मम तन्वा अन्तःकरणाख्यस्य बाह्यस्य शरीरस्य वा ऊनमपर्याप्तं तत् तावत् तस्माद्वा आपूण पूरयति वा ' ( पृ ० २६३ ) इति दयानन्दीयं व्याख्यानं त्वसङ्गतमेव, प्रकरणविरोधादसङ्गतेः, भौतिकाग्निपक्षे जडादायुरादिप्रार्थनासङ्गतेश्च । शतपथे - ' यद्ध वा अग्निहोत्रं जुहृद् बाह्येन कर्मणा वा मिथ्या करोत्यात्मनस्तदवघात्यायुषो वर्चसो वा प्रजायै वा ' ( श ० २।३।४।२० ), ' तदु खलु तनूपा अग्नेऽसि तन्वं मे पाहि आयुर्दा अग्नेऽस्यायुर्मे देहि वर्चोदा अग्नेऽसि वर्चो मे देहि । अग्ने यन्मे तन्वा ऊनं तन्म आपृणेति । श ० २।३४।१ ९ ) । तनूपा अग्नेऽसीत्यादिमन्त्रे राहवनीयोपस्थानं विधित्सुस्तन्निवत्यं दोषमुपन्यस्यति यद्ध वा इति । अग्निहोत्रहोमं कुर्वन् अध्यात्मपक्ष में प्रत्यक् चैतन्याभिन्न परमेश्वर की प्रकाशप्रद सूर्य चन्द्रादिरूप कान्ति का आश्रय कर वीतराग, ज्ञानी, भक्त आदि जन अपरोक्ष साक्षात्कार किया करते हैं ॥ १६ ॥

मन्त्रार्थ - हे अग्ने! स्वाभाविक रूप से ही तुम अग्निहोत्री के शरीर के रक्षक हो, अतः मेरे शरीर का पालन करो । उसी प्रकार तुम. आयु और तेज के देने वाले हो, अतः मुझे आयु और तेज बो । हे अग्ने! मेरे शरीर और इन्द्रियों में जो न्यूनता हो, उसे तुम पूर्ण कर दो ॥ १७ ॥

भाष्यसार --- ' तनूं पाति ' शरीर का जो पालन करता है, उसे ' तनूपा ' कहते हैं । उदराग्नि में अन्न के जीर्ण होने पर ही शरीरपालन होता है । अपमृत्यु के परिहार के द्वारा आयु की कामना की गई है, क्योंकि अग्नि ही आयु का दाता है । जितने समय तक शरीर में उदराग्नि की उष्णता उपलब्ध होती है, तब तक मनुष्य मरता नहीं है ।

पृष्ठ 170

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 170 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६० शुक्लयजुर्वेदसंहिता [ अ ० ३ बाह्येन व्यवहारसाध्येन मन्त्रोच्चारणेन शरीरसाध्येन कर्मणा यन्मिथ्याकरोति अन्यथानुतिष्ठति तत् तेन आत्मनो यजमानस्य आयुषो जीवनस्य वर्चसस्तेजसः प्रजायाश्च अवद्यति । वाशब्दश्चार्थे । तद्दोषपरिजिहीर्षया तदुचित-मन्त्रकरणकोपस्थानं कर्तव्यम् । तदु खलु तत्र खलु दोषे सति तनूपा अग्ने इत्यादिमन्त्रेणोपस्थानं कार्यम् । मन्त्रार्थस्तूक्त एव । दयानन्दीयं व्याख्यानं नै मर्थं मनागपि स्पृशति । अध्यात्मपक्षे तु हे अग्ने परमेश्वर! त्वं तनूपा असि । सर्वेषामपि पदार्थानां तनूः शरीराणि स्वसत्तया स्फूर्त्या च सत्तावन्ति स्फूर्तिमन्ति च करोषि । अतो मे मम जिज्ञासोः, तत्वं स्वरूपं प्रत्यक् चैतन्यरूपं पाहि विवेक प्रदानेन अनात्मतादात्म्याध्यासाद् रक्ष । हे अग्ने! आयुर्जीवनं ददासि स्वसत्तया सर्व पदार्थसत्त्वं सम्पादयसि, अतो मे मामपि, आयुर् अनात्मनैरपेक्ष्येण स्वात्मनावस्थान हेतुभूतं स्वरूपसत्त्वं देहि घटाकाशस्य महाकाशेने व प्रतीचः परमात्मसत्त्वेन सत्तावत्त्वात् । हे अग्ने! स्वप्रकाशपरमात्मन्! त्वं वर्चोदाः सूक्तादिषु कर्मोपासनादि -परिनिष्ठितेषु च वर्चस्तेजः प्रकाशं ब्रह्मतेजश्च ददासि । अतो मे वर्चः प्रत्यगभिन्नब्रह्मापवरकाज्ञानापनोदनेन निवारणात्मप्रकाशरूपं वर्चो देहि । यन्मे तन्वश्चिदात्मशरीरस्योनमनात्मारोपेणाविवेकेन वा न्यूनत्वं व्यङ्गत्वं कर्तृत्वभोक्तृत्वाद्यारोपेणापरिच्छिन्नत्वं पूर्णत्वं परमानन्दरूपत्वमावृतं तदपाकरणेन आपूण आसमन्तात् पूरय । यत्तु - ' हे अग्ने जगदग्रणी:! मे तत्त्वं तनूं सगर्भां पाहि रक्ष त्वं जगतस्तनूनां पालकोऽसि ' इत्यादिनोत्तरा-कृतस्वगर्भरक्षणप्रार्थनापरत्वेन योजितम्, तत्तु यत्किञ्चित्, ' कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ' ( भा ० पु ० ११८/१० ) इति श्रीमद्भागवतविरोधात् । मन्त्रे तु तन्वा रक्षा प्रार्थिता न गर्भरक्षेति ॥ १७ ॥

इन्धनात्वा श॒तमा॑ द्यु॒मन्त॒ समि॑धीमहि । वय॑स्वन्तो वय॒स्कृत॒ १७ सह॑स्वन्तः सह्-स्कृत॑म् । अग्ने॑ स॒पत्न॒दम्भ॑न॒मद॑न्धासो॒ अदा॑भ्य॒म् । चित्रवसो स्व॒स्ति ते॑ पा॒रम॑शीय ॥ १८ ॥

अग्निदेवत्या महापक्तिः, यस्यामष्टाक्षराः षट्पादा भवन्ति सा पङ्क्तिः, षष्ठः पादस्त्वत्र सप्ताक्षर एव । हे अग्ने शतं हिमा शतं वर्षाणि त्वा त्वां समिधीमहि नैरन्तर्येण त्वत्परिचर्यया त्वां वर्धयामः । यथा शरच्छब्देन संवत्सरोऽभिधीयते, तथैव हिमशब्देनापि संवत्सरो बोध्यते । यथेदानीं वसन्तसम्पाताद्वसन्तेन संवत्सरः प्रवर्तते, तथैव कदाचिच्छरदा कदाचिच्च हेमन्तेनापि सम्पातानुसारेण संवत्सरप्रतीतिरासीत् । नित्यया श्रुत्या शरद्धिम शब्दाभ्यां संवत्सरव्यवहृतिरुच्यते । हिमशरदो रोगबाहुल्यशीताधिक्यादिभिर्दुरत्ययत्वात् तदुत्पद्यते, संवत्सर-जीवनं निश्चप्रचं भवतीति वा हिमादिशब्दः संवत्सराभिधानम् । कीदृशा वयम्? इन्धानास्त्वदनुग्रहेण दीप्यमान-देवब्रह्मवर्चस्विनः सन्तः सम्पन्नास्तथा वयस्वन्तः अन्नवन्तो दैववित्तमानुषवित्तपूर्णाः " सहस्वन्तः बलवीर्यवन्तः, अदब्धासः केनचिदनुपद्रुताः शाल्वादिकृतबाधा रहितास्त्वत्प्रसादेसर्वेन गुणसामग्रघादिसम्पन्नाः सर्वोपद्रवरहितास्त्वां वैदिकानुष्ठान से प्राप्त होने वाले ' तेज ' को ' वर्च ' कहते हैं । जिसके देखते ही दर्शकों को यह अनुभव होता है कि यह ब्राह्मण महान् व्यक्ति है, महान् विद्वान् है, यह अपनी तपस्या से अग्नि के समान जाज्वल्यमान कान्ति से चमक रहा है, उसे ' वर्चस् ' = तेज कहते हैं । स्वामी दयानन्द ने भौतिक अग्निपरक व्याख्या की है, किन्तु वह प्रकरणविरुद्ध होने से असंगत ही है । अध्यात्मपक्ष में – जितने जड़ पदार्थ हैं, वे सब परमेश्वर के अनुग्रह से सत्ता - स्फूर्तिमान् हो पाते हैं । अतः मुझे विवेक प्रदान कर अनात्म- तादात्म्याभ्यास से मेरी रक्षा करो, इत्यादि प्रार्थना की गई है ॥ १७ ॥