वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 171–180
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 171–180
पृष्ठ 171
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः १८ ] वेदार्थपारिजात भाष्यसहिता १६१ सन्दीपयाम आहुत्यादिप्रदानेनार्चयामः । कीदृशं त्वाम्? द्युमन्तं दीप्तिमन्तम् । अग्नेः प्रसिद्धं दीप्तिमत्त्वम् । तथा वयस्कृतं वयोऽन्नं करोतीति वयस्कृत् तम्, अग्निप्रत्ताहुतीनामेव वृष्ट्यादिक्रमेण व्रीहियवान्नादिहेतुत्वस्मरणात् । ' अग्नी प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ' ( म ० ३ । ७६ ) इति मनुवचनात् । सहस्कृतं सहो बलं करोतीति सहस्कृत् तं बलवीर्यकरम्, अग्नेरौष्ण्याभावे महाबलवतामपि बलरहितस्य मरणस्य च दर्शनात् । अदाभ्यं केनापि हिंसितुमशक्यम् अप्रधृष्यम्, व्यापकस्याग्नेरस्त्राद्यगोचरत्वात् । स्थूलाग्निर्यद्यपि जलेन हिस्यते न तु व्यापकः, तस्य जलस्यापि कारणत्वेन तद्व्यापकत्वात्, ' अग्नेराप: ' इति श्रुतेः । ' वय इत्यन्ननाम ' ( निघ ० २२७: ७ ), ' सह इति बलनाम ' ( निघ ० २२ ९ / ७ ) । सपत्नदम्भनं सपत्नानां शत्रूणां दम्भनम्, अग्निमान्द्या-दिरुजोत्पादनेन नाशकम् । ' चित्रावसो स्वस्ति ते पारमशीय ' इति यजुः, ऋषिदृष्टं रात्रिदेवत्वम् । चित्राणि विचित्राणि चन्द्रनक्षत्रग्रहान्धकाररूपाणि वसन्ति यस्यां सा चित्रावसुः रात्रिः । हे चित्रावसो रात्रे! ' रात्रि चित्रावसुः साही गृह्येव चित्राणि वसति ' ( श ० २ | ३ | ४ २२ ) | चित्रावसो हे रात्रे! स्वस्ति क्षेमं यथा स्यात्तथा ते तव रात्रेः पारं समाप्तिमशीय व्याप्नुयाम । सुप्तेषु जनेषु चौराद्युपद्रवाद्देवयजने राक्षसाद्युपद्रवो मा भूदित्यग्निः प्रार्थ्यते । रात्र्युपलक्षिता रात्रिसूक्तप्रतिपादिता साधिष्ठाना परमात्मशक्तिरूपा, तादृशी प्रकृतिर्वात्र सम्बोध्यते । विचित्राणि जगन्ति तत्र निवसन्तीति सा सर्वकारणरूपा रात्रिश्चित्रावसुपदेन सम्बोध्यते पञ्चदश्यादिवेदान्त-ग्रन्थेषु चित्रदीपादिप्रसङ्गेन तस्या विचित्रजगदाश्रयत्ववर्णनात् । तस्याः पारगमनाय तदीयकैवल्यात्मकमुक्तोप-सृप्यस्वरूपप्रापणाय सा प्रायते, ' सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ' ( सप्तशती १।५७ ), ' भोगस्वर्गापवर्गदा ' ( सप्तशती १३।५ ) इत्यादिवचनेभ्यः, ' मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः । शृण्वतः श्रद्धया नित्यं माययात्मा परमेश्वरो गृह्यत इत्याह, तन्मते न मुह्यति ॥ ' ( भा ० पु ० २ ( ७ ५३ ) इत्युक्तेश्च । अन्यस्तु चित्रावसुशब्देनापि चित्रावसो रात्रित्वबोधकश्रुतिविरोधः स्फुट एव । दयानन्दस्तु भावार्थं निरूपयन्नाह - ' मनुष्यैः पुरुषार्थेनेश्वरोपासनयाऽग्न्यादिपदार्थेभ्य उपकारकरणेन सर्वदुःखान्तं गत्वा परं सुखं प्राप्य शतवर्षपर्यन्तं जीवितव्यम्, एकक्षणमप्यालस्येन न स्थातव्यम् ' इति, तत्तु विसङ्गतमेव, जिजीविषाया रागप्राप्तत्वेन विधेयत्वायोगात् । यत्तु - ' द्यौरनन्तः प्रकाशो विद्यते यस्मिन् परमेश्वरे ' इति, तत्तु निर्मूलम्, शब्दस्यानन्तप्रकाशवाचकत्वे मानाभावात् । शतपथे – ' इन्धानास्त्वा शत १७ हिमा घुमन्त ७ समिधीमहीति शतं वर्षाणि जीव्यास्मेत्येवैतदाह तावत्त्वा महान्तः समिधीमहीति यदाह द्युमन्त समिधीमहीति वयस्वन्तो वयस्कृत १७ सहस्वन्तः सहस्कृतमिति वयस्वन्तो वयं भूयास्म इति वयस्कृत्त्वं भूया. इत्येवैतदाहाग्ने सपत्नदम्भन मदब्धा सोऽदाभ्यमिति त्वया वय १७ सपत्नान् पापीयसः क्रियास्मेत्येवैतदाह । चित्रावसो स्वस्ति ते पारमशीयेति । त्रिरेतज्जपति रात्रिर्वै चित्रावसुः सा हीय ७ संगृह्येव चित्राणि वसति तस्मान्नारकाच्चित्रं ददृशे । एतेन ह स्म वा ऋषयो रात्रः स्वस्ति पार ७ समश्नुवत एतेनो ह स्मैनान्रात्रेर्नाष्ट्रा रक्षाऽसि न विन्दन्त्येतेनो ह एवैष एतद्रात्रः स्वस्ति पार समश्नुत एतेनो एन ७ रात्रेर्नाष्ट्रा मन्त्रार्थ - हे अग्ने! सौ वर्ष तक हम तुम्हें प्रकाशित करते रहें । तुम्हारी कृपा से हम प्रकाशित होंगे । हमें अन्न और बल प्राप्त होगा । कोई भी हमारी हिंसा नहीं कर पायेगा । क्योंकि तुम प्रकाशमान् हो, अन्न और बल के देने वाले हो, शत्रुओं के विनाशक हो, तथा सभी के लिये अहिंस्थ हो । चन्द्र - नक्षत्रादि विविध पदार्थों को धारण करनेवाली राक्षसों से हे रात्रि! हम कल्याणमय पद्धति से तेरी समाप्ति तक प्राप्त हों, अर्थात् सम्पूर्ण रात्रि तक हमें चोरों से और पीड़ा न हो ॥ १८ ॥
२१
पृष्ठ 172
पाठ पढ़ें पाठ छिपाएँ
१६२ शुक्लयजुर्वेद संहिता [ अल ३ रक्षासन विन्दन्त्येतावन्नु तिष्ठन् जपति ' ( श ० २।३।४।२१ - २३ ) । शतं हिमा इत्यस्य तात्पर्यं शतं वर्षाणि । अत एव शतं हिमाद्युमन्त समिधीमहीत्यस्य शतं वर्षाणि जीव्यास्मेत्येवार्थः । तैत्तिरीयकेऽपि - ' शतं हिमा इत्याह तं त्वा हेमन्तानिन्धिषीयेति वावैतदाह ' ( तै ० ११५१८५ ) । द्युमन्तमित्यस्यार्थमाह- तावत्त्वेति । शतसंवत्सर-जीवनावधि हे अग्ने! त्वां द्युमन्तं दीप्तिमन्तं महान्तं समिधीमहि सन्दीपयेमेत्यर्थः । वयस्वन्तः प्रभूतान्नयुक्ता भूत्वा वयसोऽन्नस्य कर्तारं त्वामुपतिष्ठेमहि । सहः शत्रूणामभिभवनम् तद्वन्तो वयं तादृशं सहः शत्रुविषयकमभि-भवनं करोतीति सहस्कृत् तं वयमुपतिष्ठेमहि । अग्ने सपत्नदम्भनमिति । हे अग्ने! सपत्नो दभ्यते हिंस्यतेऽनेनेति सपत्नदम्भनोऽग्निः त्वामदाभ्य मदब्धासो वयमुपतिष्ठेमहि त्वया वयं सपत्नान् पापीयसः क्रियास्म अतिशयेन निकृष्टान् क्रियास्म करवामेति विशेषणतात्पर्यकथनम् । चित्रावसोरित्यादिमन्त्रस्य त्रिपं विधत्ते – हि यस्मादियं रात्रिः ग्रहनक्षत्रादीनि चित्राणि सगृह्य इव वसति तस्माच्चित्राव सुरग्नेर्नामधेयम् । अत एव तारकालक्षणं चित्रं ददृशे दृश्यते । नारकापदं तारकापरम् । मन्त्रजपस्य प्रयोजनं वक्तुं पुरावृत्तमुदाहरति- एतेन मन्त्रेण रात्रेः पारमवसानं स्वस्ति क्षेमेण समश्नुवते स्म सम्प्राप्नुवन् । एनान् ऋषीन् एतन्मन्त्रजपेनैव रात्रेः प्रीणनात् तत्सम्बन्धिनो राक्षसादयो न विन्दन्ति । इदानीन्तनस्य मन्त्रमिममन्युपस्थाने जपतस्तत्फलमाह - एतेना एवेति । ‘ एताववन्ना उपप्रयन्त ' इत्यारभ्य ' चित्रावसो ' इत्येतावत्पर्यन्तमाहवनीयस्य समीपे तिष्ठन् जपेत् । यत्तु --- ' शतं हिमा अनन्तान् हिमाः ' इति, तदसङ्गतम्, जीवनानन्त्यस्याप्रामाणिकत्वात् । यत्तु ' सह उत्साहं करोति वर्धयतीति सहस्कृत् ' इति, तदप्यसङ्गतम् करोतेर्वर्धनार्थत्वायोगात् पूर्वोक्तशतपथवचनविरुद्ध-त्वाच्च । तेन अदब्धासो दम्भाहङ्काररहिता इत्यपि व्याख्यानमसङ्गतमेव, धात्वर्थंविरोधात् । अध्यात्मपक्षे - भगवन्तं निर्गुणं सगुणं श्रीरामं श्रीकृष्णं श्रीविष्णुं श्रीशिवं वा भक्तास्तदनुगामिनो देवा मानवा वानरा भल्लूका वा वदन्ति - हे अग्ने परमेश्वर! त्वदनुग्रहेण इन्धाना दीप्यमाना ज्ञानक्रियासमृद्धिभिर्लब्ध-ज्ञानादयस्त्वां शतं हिमाः शतं वर्षाणि इह परत्र च द्युमन्तं द्योतनवन्तं स्वप्रकाशं परमात्मानं त्वां समिधीमहि महावाक्यजन्यज्ञानेन त्वद्विषयक मनिर्वचनीयमावरणमपास्य स्वप्रकाशत्वेन साक्षात्कुर्मः । यद्वा द्युमन्तं कोटिसूर्यसम-प्रभं सूर्य चन्द्रादिप्रकाशकं त्वां समिधीमहि दीपैः सूर्यमिव विविधोपचारैरनन्तानन्द सूर्य चन्द्रादिदीपेश्च नीराजयामः । त्वत्कृपया वयस्वन्तोऽन्नवन्तो वयं प्रशस्तनानोपकरणवन्तो वयस्कृतमन्नबलकृतं त्वां सर्वस्यास्य परमेश्वरशेषत्वात् सर्वशेषिणं त्वामुपतिष्ठेमहि । सहस्कृतम् अन्तरबाह्य सर्वविधसपत्नाभिभवनं सहस्तत्करोतीति सहस्कृत् तं सहस्कृतं त्वां त्वत्कृपया बाह्य सपत्नजेतारः कामादिसपत्नाभिभवनसामर्थ्यवन्तरच भूत्वा वयं त्वामुपतिष्ठेमहि । बाह्या आन्तराश्च दम्यन्ते हिंस्यन्ते येन तं सपत्नदम्भनम्, अदाभ्यं दैत्यैर्दानवैर्मायया च सर्वैरहिंसनीयं त्वां त्वत्कृपया अदब्धासः कैश्चिदप्यनुपहिंसिता मदमत्सरादिभिरनुपहिंसिताश्च वयं त्वां प्रत्यक् चैतन्याभेदेन त्वामुप-भाष्यसार हे अग्ने! सौ वर्ष तक हम समिदाधान करते रहें, अर्थात् निरन्तर तुम्हारी सेवा करके तुमको बृद्धिङ्ग करते रहें । जैसे ' शरद ' शब्द ' संवत्सर ' को बताता है, वैसे ' हिम ' शब्द भी ' संवत्सर ' का बोधन करता है । जैसे आजकल वसन्त सम्पात से ( वसन्त ऋतु से ) संवत्सर का आरंभ होता है, उसी तरह किसी समय ' शरद् ऋतु ' से, किसी समय ' हेमन्त ऋतु ' से भी संपात के अनुसार संवत्सर का आरंभ हुआ करता था । स्वामी दयानन्द ने व्याख्या करते हुए ' मनुष्य को सौ वर्ष तक जीवित रहना चाहिये ' इत्यादि जो कहा है, वह विसंगत ही है, क्योंकि जिजीविषा तो रागप्राप्त है, अतः वह ' विधेय ' कैसे हो सकेगी? एवं शतपथ, तैत्तिरीयादिश्रुति. सूत्रादि से विरुद्ध व्याख्या है, अतः उसे उपेक्षणीय ही समझना चाहिये ।
पृष्ठ 173
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः १८-१९ ] वेदार्थपारिजात भाष्यसहिता १६३ तिष्ठेमहि । हे चित्रावसो रात्रिसूक्तस्तुते साधिष्ठानप्रकृते भगवच्छक्तिरूपे वा! स्वस्ति क्षेमं यथा स्यात्तथा ते ते संसारमूलभूत विद्यारूपं तीर्त्वा चिदानन्दमयं पारमशीय प्राप्नवानि, ' या देवी सर्वभूतेषु चितिरूपेण संस्थिता ' ( सप्तशती ५।७८ ) इति स्मरणात् । यद्वा चित्रदीपरीत्या संसारचित्रं चेतनाचेतनात्मकं पशु - पक्षि- मनुष्य - देव-यक्ष - गन्धर्व - सूर्य - चन्द्र - ग्रह - नक्षत्रादिमयस्य सर्वस्य जगतो निवासभूत हे चित्रावसो! ते तव प्रसादात् स्वस्ति निर्विघ्नं पारं विपदां पारं युद्धादिपारं संसारपारं वा अशीय प्राप्नुयाम् । श्रुतिसूत्राविरोधिनोऽनेके मन्त्राणामर्थाः सम्भवन्तीति तथाविधा अनेके अर्थाः कर्तुं शक्यन्ते ॥ १८ ॥
सन्त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथाः समृषणा स्तु॒तेन॑ । सम्प्रये॑ण॒ धाम्ना॒ सम॒मायु॑षा॒ संवर्च॑सा॒ सम्प्र॒जया सर्ायस्पोषेण मिषीय ॥ १ ९ ॥ ' सं त्वमित्युपविश्येति ' ( का ० धी ० ४ | १२ | ४ ), जपतीति शेषः । इतः पूर्वतनैर्मन्त्रैरुत्यायोपस्थानं कर्तव्यमनेन तूपविश्येति विशेषः । हे अग्ने! त्वं सूर्यस्य वर्चसा तेजसा समगथाः । समित्युपसर्गस्य अगथेत्याख्यातेन सम्बन्धः, रात्री सङ्गतो भवसि 1 तद्यदस्तं यन्नादित्य आहवनीयं प्रविशति तेनैतदाह ' ( श ० २ | ३ | ४ | २४ ) इति श्रुत्या तथैव मन्त्रार्थवर्णनात् । ऋषीणां मन्त्राणां स्तुतेन स्तोत्रेण समगथाः । समुपसर्गस्यावृत्त्या मन्त्रसम्बन्धिना अगथा इत्यस्याख्यातस्याश्रुताप्यावृत्तिः कर्तव्या । बहवो मन्त्रा अग्नि स्तुवन्ति । तेषां मन्त्राणां स्तुतेन ) स्तोत्रेण स्तुत्या त्वं सङ्गतोऽसि । बहुभिर्मन्त्रस्त्वं स्तुयस इत्यर्थः, ' तद्यदुपतिष्ठते तेनैवेतदाह ' ( श ० २ ३।४।२४ इति श्रुतेः । प्रियेण धाम्ना समगथाः सङ्गतोऽसि । यद्वा प्रियेण धाम्ना स्थानेन नाम्ना जन्मना च समगथाः, स्थानानि नामानि जन्मानीति वेति निरुक्तवचनात् । ' आहुतयो वा अस्य प्रियं धाम ' ( श ० यथा २ | ३ | त्वमेतैस्त्रिभिः ४ | २४ ) इति श्रुत्या धामशब्देनाहुतयो बोध्यन्ते । तेन प्रियाभिराहुतिभिर्वा सङ्गतोऽसि । हे अग्ने,! तथैव वर्चसा विद्यैश्वर्य-संगतस्तथैव त्वदनुग्रहादहमप्यायुषा आरोग्यानपमृत्य्वादिभिः सग्मिषीय संगतो भूयासम् संग्मिषीय संगतो प्रयुक्ततेजसा संग्मिषीय तथा रायस्पोषेण धनस्य पुष्ट्या संग्मिषीय प्रजया पुत्रपौत्रादिरूपया ' ( पा ० सू ० भूयासम् । ' समो गम्यृच्छि ' ( पा ० सू ० १ ३ २ ९ ) इत्यादिना मध्यमपुरुषैकवचने लुङि सिचि ' गमश्च १ १२ १३ ) इति सिचः क्वित्वे ' अनुदात्तोपदेश ' ( पा ० सू ०६ | ४ | ३७ ) इति मलोपे ' हस्वादङ्गात् ' ( पा ० सू ० ८ || २७ ) इति सिचो लोपे समगथा इति रूपम् । गमेराशीलिङि उत्तमपुरुषैकवचने ' इटोऽत् ' ( पा ० सू ० ३ | ४ | १०६ ) इत्यकारे परे सीयुटि कृते छान्दसे इडागमे ' गमन ' ( पा ० सू ० ६ | ४ | ५८ ) इत्युपधालोपे संग्मिषीयेति रूपम् । अध्यात्मपक्ष में - भक्तजन भगवान् से प्रार्थना कर रहे हैं कि हे भगवन्! हम लोग महावाक्यजन्य ज्ञान से त्वद्विषयक अनिर्वचनीय आवरणात्मक अज्ञान को नष्ट कर सौ वर्ष तक तुम्हारा साक्षात्कार करते रहें । श्रुति - सूत्र के विरोध को बचाकर मन्त्रों के अनेकानेक अर्थ भी संभव हो सकते हैं ॥ १८ ॥
मन्त्रार्थ - हे अग्ने! तुम रात्रि के समय सूर्य के तेज से युक्त हुए हो । तथा ऋषियों के स्तोत्रों से और प्रिय आहुतियों से युक्त हुए हो । जिस प्रकार इन तीन वस्तुओं से तुम युक्त हुए हो, उसी प्रकार मैं भी तुम्हारे उपस्थान अनुग्रह करते से आयु, वैदिक तेज, पुत्रादि प्रजा और धन की वृद्धि से युक्त होऊँ, अर्थात् आयु आदि मुझे प्राप्त हो । ॥ १ ९ ॥ समय पूर्वोक्त मन्त्र तक खड़े रहना है और प्रस्तुत ' सं त्वम् ' ( ३ | १२ ) मन्त्र से बैठकर उपस्थान करना है भाष्यसार - इस मन्त्र से अपने आयुरादि की कामना की गई है ।
पृष्ठ 174
पाठ पढ़ें पाठ छिपाएँ
१६४ शुक्लयजुर्वेद संहिता [ अ ० ३ ' अथासीनः सं त्वमग्ने सूर्यस्य वर्चसा गथा इति । तद्यदस्तं यन्नादित्य आहवनीयं प्रविशति तेनैतदाह-समृषीणा स्तुतेनेति । तदुपतिष्ठते तेनैतदाह - सम्प्रियेण धाम्नेत्याहुतयो वास्य प्रियं धामाहुतिभिरेव तदाह समहमायुषा संवर्चसा संप्रजया सरायस्योषेण ग्मिषीयेति यथा त्वमेतैः समगथा एवमहमायुषा वर्चसा प्रजया रायस्पोषेणेति । यद्भूम्नेति तदेवमहमेतैः संगच्छा इत्येवैतदाह ' ( श ० २ | ३ | ४ २४ ) | ' सं त्वमग्ने ' इत्येव-मादिकान् मन्त्रानासीनो जपति । हे अग्ने! त्वं सूर्यस्य वर्चसा तेजसा समगथाः संगतवानसीति प्रतीयमान-मर्थमुपपादयति - अस्तं यन् गच्छन् आहवनीयं प्रविशतीति । अग्निज्योतिर्ज्योतिरग्निः स्वाहेति प्रसङ्गे उक्त एव । ऋषीणां सम्बन्धि यत्स्तुतं स्तोत्रं तेन समगथाः । प्रकृताग्न्युपस्थानाभिप्रायमाह - तद्यदिति । अस्याग्नेः आज्यदधिक्षीराद्याहुतय एव प्रियं धाम तज्ज्योतिर्मयं शरीरं तथा च संप्रियेण धाम्ना संगतोऽसीत्यस्याहुतिभिरेव सङ्गतोऽसीत्यभिप्रायः । हे अग्ने! त्वमेतैरायुरादिभिः संगतवानसि तथाहमप्येतैः संगच्छेयेति । यद् भूम्नेति रायस्पोषेणेत्यस्य व्याख्यानम् । न धनकनकादिबहुत्वेनेत्युक्ते यावानर्थो भवति रायस्पोषेणेत्यनेन तावानर्थो भवति । अध्यात्मपक्षे - भगवन्तं श्रीरामं श्रीकृष्णं वा प्रार्थयन्ते भक्ताः - हे अग्ने नराकार परमेश्वर! त्वं सूर्यस्य कोटिकोटिसूर्यसमूहस्य वर्चसाऽनन्तदीप्त्या समगथाः संगतोऽसि, सूर्यस्यापि सूर्यत्वात् । ' सूर्यस्यापि । भवेत्सूर्यः ' इति वाल्मीकीय रामायणवचनात् कोटिकोटिसूर्यसमप्रभत्वाच्च । दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता -यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः ॥ ' ( भ ० गी ० ११।१२ ) इति श्रीमद्भगवद्गीता वचनात् । ऋषीणां मन्त्रद्रष्टृणां स्तुतेन स्तोत्रसमूहेन स्तोत्रसमूहस्तुतेन निरतिशयैश्वर्येण माहात्म्यातिशयेन वा समगथाः । रावणवधान्ते ब्रह्मादिदेवैर्महर्षिभिश्च संस्तुतत्वात् । कृष्णावतारे च गर्भस्तुत्यादिषु ब्रह्मादिभिः स्तुतत्वाच्च । संप्रियेण सर्वप्राणिपरप्रेमास्पदेन धाम्ना साकेतधाम्ना गोलोकधाम्ना स्थानेन दिव्येन लोकोत्तरेण भक्तप्रियतमेन जन्मना च संगतोऽसि । ' जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ' ( भ ० गी ० ४।९ ) इति गीतावचनात् । तथैव संप्रियेण संसारतारकेण पापतापहारकेण चनाम्ना संगतोऽसि । धामानि स्थानानि नामानि जन्मानि वेति निरुक्तेः । अहं च त्वत्प्रसादाद् आयुषा सफलेन भक्तिज्ञानवैराग्यादियुक्तेन पूर्णायुषा वर्चसा ब्रह्मचर्यवेदाध्ययनादिजनितेन तेजसा प्रजया लोकपरलोक-कल्याणकारिण्या धर्म - भक्ति - ज्ञाननिष्ठया रायस्पोषेण कर्मोपासनाद्युपयोगिनोत्तमधनेन संग्मिषीय । दयानन्दस्तु - ' हे अग्ने जगदीश्वर! यस्त्वं सूर्यस्य प्राणस्यर्षीणां येन संस्कृतेन सम्प्रियेण वर्चसा धाम्ना समायुषा संप्रजया रायस्पोषेण सह समगथाः, तेनैवाहमपि सर्वाणि सुखानि संग्मिषीय सम्यक् प्राप्नुयाम्-इत्येकः, योऽग्निः सूर्यस्य प्रत्यक्षस्य सवितृमण्डलस्यर्षीणां संस्तुतेन संप्रियेण संवर्चसा धाम्ना समायुषा संप्रजया रायस्पोषेण समगथाः संगतो भूत्वा राजते तेन संसाधितेनाहं सर्वाणि व्यवहारसुखानि संग्मिषीय ' इत्यपरः । तदेतद् द्वयमप्यसङ्गतमेव J परमेश्वरस्य नित्यस्य सर्वज्ञस्याप्त समस्त कामस्य विद्याध्ययनस्थानसमायुः सन्तानोत्तम-धनभोगपुष्टिसंगत्यसङ्गतेः । भौतिकोऽप्यग्निर्नहि विद्याध्ययन राज्यसंप्रजोत्तमधन भोगादिभिः संगतो भवति, तस्य देवो जडत्वात् । शतपथविरुद्धं चैतत् । त्वद्रीत्या कथं सूर्योऽग्नि प्रविशति? तस्मादत्र देवविशेषश्चेतनो महाभाग्यादेवमुपस्थीयत इत्येव मन्तव्यम् ॥ १ ९ ॥ अध्यात्मपक्ष में - भक्तजन भगवान् श्रीराम अथवा श्रीकृष्णचन्द्र की प्रार्थना अपने अभ्युदय हेतु कर रहे हैं । स्वामी दयानन्द ने दो अर्थ किये हैं, किन्तु दोनों असंगत हैं । शतपथ के विरुद्ध भी हैं ॥ १ ९ ॥
पृष्ठ 175
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २० ] वेदार्थपारिजातभाष्यसहिता १६५ अन्ध॒स्थान्ध ' वो भक्षीय॒ महि॑स्य॒ महो॑ वो भक्षयोर्ज स्थोज वो भक्षीय रायस्पोष॑स्थ रायस्पोषं वो भक्षीय ॥ २० ॥
गां गच्छति, ' गां गच्छत्यन्धस्थेति ' ( का ० श्र ० ४।१२।५ ) । अन्धस्था रेवती रमध्वमिति यजुर्द्वयेन जनकत्वाद् कर्माङ्गतां गामुपतिष्ठत इत्यर्थः । हे गावः! यूयमन्धःस्थ अन्नरूपा भवथ । क्षीराज्यादिरूपस्यान्नस्य वो महांसीति यतो यूयं गोष्वन्नत्वोपचारः । श्रुत्या त्वन्धपदेन लक्षणया वीर्यमुच्यते । यानि वो भक्षीय वीर्याणि भजेयम् यानि । ' भज सेवायाम् ' इति वीर्यहेतुभूतमन्धः स्थ भवथ, अतो अन्धो वो युष्मत्सम्बन्धि वीर्यं वा अन्नमहं भजेयम् । धातोराशीर्लिङि उत्तमपुरुषैकवचने रूपम्, न भक्षतेस्तदर्थाननुगमात् । क्षीराज्यादिरूपं तस्यै मस्तु तस्या आतञ्चनं तस्यै तथा यूयं महः स्थ । महःशब्देन गोर्वे प्रतिधुक् तस्यं शृतं तस्यै शरस्तस्यै दधि दुग्धं प्रतिधुक्, उष्णं नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनमिति दश वीर्याणीत्युच्यन्ते । तत्कालं, वाजिनस्तच्छेषभूतं ततः शृतम्, शरो दुग्धमण्डः, मस्तु दधिरसः, आतञ्चनं दधिपिण्डः, आमिक्षा स्फुटितं दुग्धम्, अतोऽहं वः पूज्यत्वं जलम् । यतो महः स्थ, अतो वो महो वीर्यं भजेयम् । यद्वा - ' मह पूजायाम् ' । पूज्यरूपाः तित्तिरिः सूचयति-भक्षीय सेवेय | गौर्न पदा स्प्रष्टव्येति स्मृतेर्गवां पूज्यत्वं प्रसिद्धमेव । तामेतां प्रसिद्धि गोक्षीरादेर्बल हेतुत्वाद् गोषु ' महसा महो वा भक्षीयेत्याह महो होता ' इति । यूयम् ऊर्जः स्थ बलरूपाः स्थ सेवेय , । तथा रायस्पोषाः स्थ बलरूपत्वोपचारः । ' ऊर्जं बलप्राणनयो: ' । वो युष्माकमनुग्रहेण ऊजं बलं भक्षीय । यूयं धनपुष्टिरूपा: स्थ क्षीराज्यादिक्षेत्रोपत्र ( खाद ) गोमूत्र गोमयादिद्वारा धनपुष्टि हेतुत्वात् शरि तत्र वा विसर्गलोपो रायस्पोषत्वोपचारः वक्तव्यः ' वो युष्माकं प्रसादाद्वा धनपुष्टी भक्षीय सेवेय । अन्धः स्थेत्यादिषु सर्वत्र ' खर्परे ( पा ० सू ० ८ । ३।३६ स्थलीयं वार्तिकम् ) इति विसर्गलोपः । अन्नोत्पादका हे भूमयः! अन्यस्तु – ' जलमाप्तपुरुषा गावो भूमयश्चानेन मन्त्रेण वर्ण्यन्ते । हे आपः! बलवीर्यरूपाः, वयं त्वदीयबलादिक-हे गावः! यूयं प्राणप्रदानरूपाः स्थ । अतो युष्मत्प्राप्तान्नं भक्षयामि । यूयं क्वचित्प्राप्तिश्चेति यथेष्टमेवार्थो मुपभोक्ष्यामः ' इति । तन्न मनोरमम्, भक्षीयेत्यस्य क्वचिद् भक्षणं क्वचिद्भोगः वर्ण्यते । तदेषा वेदेषु स्वच्छन्दचारिता दोष एव । कश्च प्रार्थयिता कथं स तेभ्यस्तत्तदभीष्टान्नबलवीर्यादिकं विनियोगः । तत्तदधिष्ठात्र्या प्राप्स्यतीति तु चिन्त्यम् | सिद्धान्ते त्वाप्रमाणेन कर्माङ्गगवामुपस्थानेऽस्य मन्त्रस्य देवतायाः प्रसादादेव तत्तत्सेवनं काम्यते । भगवानेव अध्यात्मपक्षे- ' भोक्तारं यज्ञतपसां सर्वभूतमहेश्वरम् ' ( भ ० गी ० ५।२ ९ ) इति गीतानुसारेण स्वात्मानं चेतनाचेतनसर्वभोक्ता । सर्वे च तद्भोग्यत्वेनात्मानं कृतार्थं मन्यन्ते । भोक्तृभोग्यरूपाः परापरप्रकृतयः भक्षण करूँगा तथा मन्त्रार्थ - हे गोमाताओं! तुम अन्नरूप हो, अतः तुम्हारे प्रसाद से मैं क्षीरादि अन्न का अत: तुम्हारे प्रसाद से मुझे बल तुम पूजनीय हो, अतः तुम्हारे प्रसाद से मुझे पूज्यत्व प्राप्त हो । तुम बलस्वरूप हो, धन का पोषण होता रहे । ' अन्धस्थ ' और प्राप्त हो । तथा तुम धनपोषण करने वाली हो, अत: तुम्हारे प्रसाद से मेरे अग्रिम ' रेवती ' इन दो मन्त्रों से गौओं के समीप गमन करे ॥ २० ॥
पृष्ठ 176
पाठ पढ़ें पाठ छिपाएँ
१६६ शुक्लयजुर्वेदसंहिता [ अ ०३ भोग्यत्वेन सर्वभोक्त्रे भगवते समर्पयन्त्यः स्वीकाराय च प्रार्थयन्ते - परमेश्वरः परापरप्रकृतिरूपान् भोक्तृ-भोग्यवर्गानुपलक्ष्याह -- अन्धस्थ यूयमन्नरूपाः स्थ परमेश्वरीय सृष्टयुपकरणत्वेन भोग्यत्वाद् वो युष्माकं सम्बन्धि अन्नं भुञ्जीय सेवेय । महः परप्रकृतयो जीवाश्चिद्रूपत्वात् तेजोरूपाः, अपरप्रकृतयस्तु मनोबुद्धिचित्ताहङ्कारेन्द्रिय-रूपाश्चिदभिव्यञ्जक वृत्तिजनकत्वात् सूर्यचन्द्रनक्षत्रादयस्त्वन्धकारनाशकत्वात् तेजोरूपा वो युष्माकं महो भक्षीय युष्मत्कृतोपकारान् युष्मांश्च भक्षीय आत्मसात्करणेन सेवेय । ऊर्जःस्थ बलप्राणरूपा वो युष्माकं सम्बन्धि ऊजं भक्षीय यूयं धनपुष्टिरूपाः स्थ वो युष्माकं रायस्पोषं धनपुष्टि भक्षीय । संहतानां परार्थत्वाद् भोक्तृभोग्यात्मकस्य सर्वस्यैव जगतः परार्थत्वात् तत्कृतं सर्वं कार्यं तदीयम्, तच्च भगवत्येव पर्यवस्यतीति भगवत एव तद्भोक्तृत्वम् । दयानन्दस्तु --- ' येन्धस्थान्धो वीर्यवन्तो वृक्षोषध्यादयः पदार्थाः सन्ति, वस्तेषां सकाशादहमन्धो वीर्य -कराण्यन्नानि भक्षीय स्वीकुर्याम् । ये महः स्थो महान्तो वाय्वग्न्यादयो विद्यादयो वा सन्ति वस्तेषां सकाशान्महः महांसि क्रियासिद्धिकराण्यहं भक्षीय भुञ्जीय । य ऊर्जस्थोज रसवन्तो जलदुग्धघृतमधुफलादयः सन्ति, वस्तेषां सकाशादूर्जं रसमहं भुञ्जीय । ये रायस्पोषः स्थ रायस्पोषो बहुगुणसमूहयुक्ताः पदार्थाः सन्ति, वस्तेषां सकाशादहं रायस्पोषं बहुशुभगुणैः पोषं भक्षीय सेवेय ' इति, तदपि शतपथविरुद्धमेव, तत्रानेन मन्त्रेण गोरुपस्थीयमानत्वात् । न च अन्ध आदिपदेन वृक्षौषध्यादयो ग्रहीतुं शक्यन्ते तस्य तत्राशक्तत्वात् । न वा कश्चिदिच्छामात्रेण तेषां सकाशाद् बलवीर्यकराण्यन्नानि भोक्तुं शक्नोति तथैव महः शब्दस्याग्निवाय्वादिपदार्था अर्थाः तेषां सकाशाच्च क्रियासिद्धिकराणि सम्पादयितुं शक्नोति, वैज्ञानिकानां चोपायानां लेशस्याप्यनिर्देशात् । शतपथे तु स्पष्टमेवास्य मन्त्रस्य अथ गामभ्यतीति कर्माङ्ग नूताया गोरुपस्थानेऽयं मन्त्रो विनियुक्तः । तथाहि - ' अथ गामभ्येति । अन्धः स्थान्धो वो भक्षीय महः स्थ महो वो भक्षोयेति यानि वो वीर्याणि यानि वो महा ७ सि तानि वो भक्षीयेत्येवैतदाहोर्जस्थ ऊर्जं वो भक्षीयेति रसस्थ रसं वो भक्षीयेत्येवैतदाह रायस्पोषस्थ रायस्पोषं वो भक्षयेति भूमा स्थ भूमानं वो भक्षी येत्येवैतदाह ' ( श ० २।३।४।२५ ) ॥ २० ॥
भाष्यसार - मनुष्य को अपने अभ्युदयार्थ जो कुछ भी अपेक्षित है, वह सब गोमाता में विद्यमान है । गोमाता पूजनीय है । उसके गोमय - गोमूत्र से धन की समृद्धि होती है । किसीने गोमाता को बलवीर्यरूप बताकर उसके बल आदि के उपभोग करने की बात अपनी व्याख्या में लिखी है, किन्तु यह लिखना ठीक नहीं है, क्योंकि श्रद्धालु भक्तजन प्रत्येक वस्तु की अधिष्ठात्री देवता के अनुग्रह से ही प्रत्येक वस्तु का सेवन करना चाहते हैं । अध्यात्मपक्ष में- भगवान् ही चेतन अचेतन सब का भोक्ता है और सब उसके भोग्य बनकर अपने को कृतार्थं मानते हैं । भोक्तृ - भोग्यरूप परापर प्रकृतियाँ भोग्य होने से अपने को सर्वभोक्ता भगवान् के अर्पण करती हुई अपने स्वीकार के लिये उसकी प्रार्थना करती हैं । परमेश्वर भोक्तृ - भोग्यरूप परापर प्रकृतियों को उद्देश्य कर कह रहे हैं । स्वामी दयानन्द ने मन्त्रगत ' अन्ध ' आदि पद से वृक्ष औषधि आदि जो अर्थ बताये हैं तथा वैज्ञानिक उपायों का निरूपण किया है, वह नितान्त अनुचित है । प्रस्तुत मन्त्र से तो गोमाता का उपस्थान किया जा रहा है । अतः दयानन्दोक्त अर्थ का मन्त्र के शब्दों से लेशमात्र भी सम्बन्ध नहीं है ॥ २० ॥
पृष्ठ 177
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २१ ] वेदार्थंपारिजातमाष्यसहिता N १६७ रेव॑ती रम॑ध्वम॒स्मिन् योना॑व॒स्मिन् गोष्टेऽस्मल्लो॒केऽस्मिन् क्षये । इ॒हैव स्त॒ माप॑गात ॥ २१ ॥
हे रेवती:! रेवत्यो गावः! अस्मिन् दृश्यमाने योनी अग्निहोत्रहविर्दोहनस्थाने रमध्वं क्रीडत । दोहनादूर्ध्वमस्मिन् गोष्ठे गृहाद् बहिविश्रम्भेण गवामावासस्थाने द्रजेऽस्मिन् यजमानलोके दृष्टिविषये लोकदर्शने मध्वं रात्रौ अस्मिन् क्षये यजमानगृहे ' क्षि निवासगत्योः ' रमध्वम् । किं बहुना, इहैव यजमानदृष्टिविषये स्त यूयं भवत मा अपगात इतः स्थानाद् अन्यत्र मा गच्छत । रेवतीशब्दस्य गोविषयत्वं कण्वो दर्शयति - पशवो वै रेवतीरिति । तित्तिरिश्चेति सायणः । रथिर्विद्यते यासां ता रेवत्यः । रयिशब्दान्मतुप् । ' रयेर्मतौ बहुलम् ' ( पा ० सू ० ६ १/३७ ) इति स्थलीयवार्त्तिकाद् रयेर्मती सम्प्रसारणम्, ' सम्प्रसारणाच्च ' ( पा ० सू ० ६ | १ | १०८ ) इति पररूपम् ' आद्गुणः ' ( पा ० सू ० ६ १७ ) इति गुणः, तथा च रेवतीति रूपसिद्धिः । पुत्रपौत्राद्यभिवृद्धया धनयुक्ताः क्षीरदध्याज्यादियुक्ताः पशवो रयिमत्त्वात् पशवो देवता उच्यन्ते । अध्यात्मपक्षे - रेवत्यो धनवत्यो जीवरूपाः परप्रकृतयः सम्बोध्यन्ते । ताश्च बाह्याध्यात्मिकधन-सम्पन्नत्वाद् रेवत्यः । पशुपतेः पशुरूपेण रेवताश्च वक्तुं शक्यन्ते । हे रेवत्यः! अस्मिन् योनौ सर्वकारणे परमात्मनि रमध्वम् । अस्मिन् गावो जीवरूपाः पशवो यत्र तिष्ठन्ति स पशुपतिरेव गोष्ठः । एवं च लोकः, लोक्यते दृश्यते भुज्यते इति लोकः फलम्, परमात्मन एव सर्वोत्कृष्टफलरूपत्वात्, ' येषां नोऽयमात्माऽयं लोक: ' इति श्रुतेः । ' क्षयन्ति निवसन्ति सर्वे यत्र गोष्ठे ' इत्यनेन जीवानां विशेषतः स्थितिस्थानत्वमुक्तम्, इह तु समेषामिति विशेषः । प्रत्यक् चैतन्याभिन्नत्वेन शास्त्रदृष्ट्या अपरोक्षत्वादस्मिन्निहैवेत्यादिप्रयोगाः । इहैव स्तं मनसापि तदेव चिन्तयन्त्यस्तस्मिन्नेव तिष्ठत । मापगात ततोऽन्यन्मनसापि मा चिन्तयत, अधिष्ठान सत्तातिरिक्तकल्पितसत्ताया अभावात् । प्रपञ्चस्य बाधितत्वं भावयतेत्यर्थः । दयानन्दस्तु -- ' रेवती: विद्याधनसहिताः प्रशस्ता नोतयो गाव इन्द्रियाणि पशवः पृथिवीराज्यादियुक्ता यासु ताः, हे मनुष्याः! प्रशस्ता नीत्यादयो रेवत्योऽस्मिन् योनौ जन्मनि स्थले वा, अस्मिन् समक्षे गोष्ठे गावः पशव इन्द्रियाणि यस्मिंस्तिष्ठन्ति तस्मिन् अस्मिल्लोके संसारे क्षये निवसनीये गृहे रमध्वं रमन्ताम् । स्त सन्ति इहैव स्त भवन्त एतेभ्यो मापगात दूरं मा गच्छन्तु । यत्र विद्वांसो निवसन्ति तत्र विद्यादीनां गुणानां निवासात् प्रजा विद्यासु शिक्षाधनवत्यो भूत्वा नित्यं सुखे युञ्जते । तस्मादेवं सर्वैरिच्छा कार्या । अस्माकं समीपाद्विद्वांसो विदुषां सकाशाच्च वयं कदाचिद् दूरे मा भवेमेति भावार्थ: ' इति । स्पष्टमेवात्र यथाश्रुतान् श्रोतान् शब्दान् विपरिणमय्य व्यत्यासादिनाऽर्थापनम् । मध्वमिति यथाश्रुतार्थाङ्गीकारेऽभिमतस्थाने रेवतीनां रमणं प्रार्थ्यते । तासां स्थानविशेषेऽवस्थानं ततोऽपगमनाभावश्च प्रायते । नीतयो धनविद्याश्च कथमेवं प्रार्थयितुं शक्यन्ते । ता चेल्लोके सन्ति स्थास्यन्त्येव । तत्कथनं निरर्थकमेव । संसाराच्च तासामपगमनमपि न सम्भवतीति तदपि कथनं व्यर्थमेव । विदुषां स्थित्या तासामवस्थाने तेषामेव प्रार्थनं युक्तम् । गोष्ठपदमपि न संसारपरम्, लोकपदेनैव गतार्थत्वात् । मन्त्रार्थ - हे धनयुक्त गौओं! आगे रहनेवाले अग्निहोत्र से सम्बन्धित हविद्रव्य के दोहनस्थान में स्वस्थ चित से आप रहें और बोहन होने के पश्चात् यजमान के गोचर क्षेत्र में सुख से संचार करें । रात में यजमान के घर गोष्ठ में शान्ति से रहें, अन्यत्र आप न जाँय ॥ २१ ॥
भाष्यसार - क्षीर, दधि, आज्य से युक्त पशु, धनवान होने से उन्हें देवता शब्द से कहा जाता है ।
पृष्ठ 178
पाठ पढ़ें पाठ छिपाएँ
१६८ शुक्लयजुर्वेदसंहिता [ अॅ ० ३ शतपथे - ' रेवती रमध्वमिति रेवन्तो हि पशवस्तस्मादाह रेवती रमध्वमित्यस्मिन् योनावस्मिन् गोष्ठेऽस्मिन् क्षये इहैव स्त मापगातेत्यात्मन एवैतदाह मदेव मापगातेति ' ( श ० २ | ३ | ४ | २६ ) | आत्मन एवैतदाह - स्वस्यैवैतत् फलमाशास्यते । हे गावो यूयम् इहैव मदीये गोष्ठे स्त भवत मापगच्छतेत्यत्रापगमना- दयानन्दीय-वधेरनुपादानात् तमुपन्यस्य योजयति । मदेव मत्सकाशात् मापगच्छतेत्यर्थः । नैतदपि व्याख्यानानुगुणम् । , कश्चित्तु - ' रेवतीः शमादिधनवत्यो वागादयोऽस्मिन् योनौ जीवरूपायां परशक्ती ' इयं शरीरे वा अस्य क्षये सर्वस्य योनिरस्यै वा इमाः प्रजाः ' ( श ० ४।१।२1 ९ ) । अस्मिन् गोष्ठे इन्द्रियालये अस्मिल्लोके उदाहृतश्रुतौ संसारे रमध्वम् इह संसार एव स्त मापगात समाध्यादो मापगच्छतेति ' इति, तदसङ्गतमेव पृथिवी विवक्षिता न जीवरूपा पराशक्तिः, पृथिव्या एव प्रजानां योनित्वात् तस्या एव मनसो प्रजानां गमनेऽपि प्रजातत्वात् वागादीनां । वागादयस्तु स्त्रयमेव देह एव भवन्ति, ततोऽन्यत्र गन्तुं तेषामसामर्थ्यात् । समाध्यादी वागादीनां संभवति? तत्राप्रवेशाद; गमनेऽपि तदिष्टमेवेति कुतो निषेधः । समाध्यभावे कथमात्मनि रमणं ' श्रीकृष्णेन रेवत्यो गावः सम्बोध्यन्ते - इहैव स्तेति । मापगात प्रदेशान्तरं मा व्रजत, तथा सति गोपानां मद्गवेषण क्लेशः सिंहाद्याक्रमणशङ्का च स्यात् ' इत्यादिकं तु न विरुद्धयते । कृष्णवेणुगीतपीयूषमास्वाद्य तत्पाद- ग्रामतो मुपागता गोप्यो रेवत्यो गवादिधनसम्पन्ना वस्त्रालङ्कारसमलङ्कृतगात्रा यूयं योनौ जन्म भूमौ पितृगृहे गोष्ठे नातिदवयसि गवावासस्थाने दोहनाय लोके उपभोगस्थाने पतिगृहे क्षये निवासे पत्यादिनिर्मितनूत्ननिवासस्थाने इहैव एतेषु स्थानेषु भवतीनां रमणमवस्थानं च युज्यते । मापगात ततोऽपेत्य दूरे मागात तानि स्थानानि न परित्यज्य अस्मत्समीपं न गच्छत ' इति, तदपि न मनोज्ञम्, लोके उपभोगस्थाने क्षये नूत्नगृहे अस्मत् समीपं गच्छतेत्यादिव्याख्यानस्य विमृश्यत्वात् । ‘ योनौ जगत्कारणे गोष्ठे सर्वजगतोऽधिष्ठाने लोके सर्वलोकसाक्षिणि क्षये सर्वनिवासस्थाने मत्समीपे रमध्वम्, इहैव स्त मापयात व्रजं न गच्छत ' इत्येतदपि न मनोज्ञम्, स्वभावत एव सर्वस्य कारणेऽवस्थानं ततोऽपगमनं मत्समीपे च न सम्भवति, उपादानं परित्यज्य कार्याणां स्थातुमशक्तत्वात् । ततश्च सगुण साकार कृष्णरूपेणावतीर्णे मयि वा रमध्वमितो न गन्तव्यमित्युपपत्तौ सत्यामपि क्लिष्ट कल्पना बहुलमेवैतत् ॥ २१ ॥
अध्यात्मपक्ष में - यहाँ जीवरूप पर प्रकृतियों को सम्बोधित किया गया है । उन्हीं को बाह्य आध्यात्मिक घन-सम्पन्नता के कारण ' रेवती ' शब्द से कहा गया है । सर्वत्र वही चैतन्य ब्रह्म भरा हुआ है, उसकी सत्ता पर ही यह सब प्रतिष्ठित है । अधिष्ठान की सत्ता से अतिरिक्त कल्पित की सत्ता है ही नहीं । अतः प्रपञ्च को बाधित ही समझो । किया स्वामी दयानन्द ने जो व्याख्या की है, उसमें श्रीत शब्दों का यथेष्ट विपरिणाम व्यत्यास आदि करके अर्थ गया है । कहीं पर तो ऐसा अर्थ किया है कि जो उन्हीं के व्याख्यान के प्रतिकूल हो गया है । अत: यह दयानन्दीय व्याख्यान विश्वासार्ह नहीं हो पाया है । किसी ने एक अन्य ढंग से भी व्याख्या की है, जो अंशत: ठीक है, कहीं असंगत भी है ॥ २१ ॥
पृष्ठ 179
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २२ ] वेदार्थपारिजातमाष्यसहिता १६ ९ सहितासि विश्वरूप्यूर्जामा वंश गौप॒त्येन॑ । उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्ता॑धि॒या व॒यम् । नमो॒भर॑न्त॒ एम॑सि ॥ २२ ॥
A मन्त्रेणानेन यजमानो गां स्पृशति, ' सहितेत्यालभते ' ( का ० श्री ० ४ | १२ | ६ ) | हे गौः! त्वं संहितासि क्षीराज्यहविर्दानेन संलग्नासि यज्ञहोमादिकर्मभिः । यद्वा सन्दधासि क्षीणान् प्राणिनः पोषयसि क्षीराज्यादिभिस्तेन संहितासि । विश्वानि सर्वाणि शुक्ल कृष्ण - रोहितादिरूपाणि यस्याः सा विश्वरूपी । जात्यभिप्रायेण शुक्लकृष्णादि-बहुरूपवती सा त्वमूर्जानरसेन गौपत्येन गवां स्वामित्वेन मां यजमानमाविश आसमन्तात् प्रविश । त्वत्प्रसादाद् बहुविधः क्षीराज्यादिरसो बहुविधं गोस्वामित्वं सम्पद्यताम् । ' गार्हपत्यं गत्वोपतिष्ठत उप खेतीति ' ( का ० श्री ० ४ | १२ | ७ ) । तिस्रो गायत्र्य आग्नेय्यो मधुच्छन्दोदृष्टाः । अनेन मन्त्रेण गार्हपत्योपस्थानम् । कण्वोऽप्याह - ' अथ गार्हपत्यमुपैत्युप त्वेति ' । हे दोषावस्तः! दोषा रात्रिस्तस्यामपि वसतीति दोषावस्तोऽग्निः, अजस्रं धार्यमाणत्वाद् रात्रावप्यनुशान्तत्वात् । यद्वा- ' अग्नी ह वै देवाः सर्वान् पशुन्निदधिरे । ये च ग्राम्या ये चारण्या विजयं वोपप्रयन्तः कामचारस्य वां कामायायं तो गोपष्ठो गोपायादिति वा तानु हाग्निर्निचक्रमे तैः संगृह्य रात्रिं प्रविवेश ' ( श ० २ ३ ४ १ - २ ) इतीतिहासानुसारेण दोषावस्तः! रात्रौ वसनशील हे गार्हपत्याग्ने हे तथाविधाग्ने! दिवेदिवे प्रतिदिनं धिया श्रद्धावत्या बुद्धया वयं यजमाना नमस्कारं सम्पादयन्त उप समीपे त्वा एमसि त्वां प्रत्यागच्छामः । ' इदन्तो मसि ' ( पा ० सू ० ७ १/४६ ) | यद्वा ' नम इत्यन्ननाम ' ( निघण्टु २७/२१ ) अन्नं हविर्बिभ्रतः । ऋक्संहिता-भाष्ये ( १ | १ | ७ स्थले ) सायणाचार्यस्तु दोषा रात्रौ वस्तर् अहनि चेति द्वन्द्वसमासे ' कार्तकौजपादयश्च ' ( पा ० सू ० ६।५।३७ ) इत्याद्युदात्तत्वमुक्तवान् । यत्तु — ' मन्त्रपठितेन दिवेदिवे इत्यनेनैवाहनिशमित्यर्थस्य गतार्थत्वान्नास्मभ्यं रोचते ' इति केनचिदुक्तम्, तन्न, दिवेदिवे इत्यस्य प्रतिदिन मित्येवार्थः । तथा च प्रतिदिनं रात्री अहनि चेत्यर्थविशेषलाभाय सायणीय-व्याख्यानस्यौचित्यात् । वस्तःशब्दोऽर्वाची, तस्य दोषाच्छादकत्वात्, ' वस आच्छादने ' इति धातोर्निष्पन्नत्वात् । ‘ दिवेदिवे ' ( ११ ) । ‘ द्यविद्यवि ( १२ ) इति द्वादश अहर्नामानि ( निघण्टु ११ ९ ) ' अहर्दिवम् ' अहनि अहनि इति तत्त्वबोधनी । ' अहर्दिवं दिवः ' ( शि ० का ० ११५१ ) अहनि च दिवा चेति अहर्दिवम् अहनि अहनीति मन्त्रार्थ- हे गोमातः! तू यज्ञकर्म से संयुक्त है । शुक्ल कृष्ण आदि अनेक रूपोंवाली तू अपने क्षीरादि रस को मुझे दे और मेरे स्वामित्व को स्वीकार कर । रात्रि में भी उपासना करने वाले के घर में निवास करने वाले, अर्थात् यज्ञशाला में रहने वाले हे गार्हपत्यसंज्ञक अग्ने! और तुम्हें प्रणाम करते हैं । ' स ७ हिता ' इस जाकर उपस्थान करे ॥ २२ ॥
प्रतिदिन हम यज्ञ करने के लिये श्रद्धापूर्ण हृदय से तुम्हारे सन्मुख होते हैं मन्त्र से गौ को स्पर्श करे । ' उप त्वा ' इस मन्त्र से गार्हपत्य के समीप भाष्यसार - किसीका कथन है कि ' दिवे - दिवे ' कहने मात्र से ही ' अहर्निश ' अर्थं उपलब्ध हो जाता है । अतः उसे अलग से बताना ठीक नहीं है । किन्तु उनका यह कथन साहसपूर्ण ही है । ' दिवे - दिवे ' का अर्थ प्रतिदिन किया गया है, जिसे साहसी व्यक्ति ने ' अहर्निश ' के रूप में समझ लिया है । ' दिवे - दिवे ' को ' अहर्निशार्थक ' कहने में कोई प्रमाण नहीं है । तथा च ' प्रतिदिन ' अर्थात् ' रात में और दिन में ' इस अर्थविशेष के लाभार्थ सायण ने ' दिवे - दिवे ' का अर्थ ' प्रतिदिन ' किया है । यह समझने की बात है । २२
पृष्ठ 180
पाठ पढ़ें पाठ छिपाएँ
१७० शुक्लयजुर्वेद संहिता अ ० मल्लिनाथ: । ' दोषावस्तधिया वयम् ' ( ऋ ० सं ० १ १ ७ ) दोषावस्तः रात्रावहनि च । दोषाशब्दो रात्रिवाची वस्तर अर्वाचीत सायणः । ' दोषावस्तर्दीदिवांसम् ' ( ऋ ० सं ० ४ | ४ | ९ ) दोषावस्तः रात्रावहनि च । यद्वा दोषाया रात्रिकृतस्य तमसो वरत आच्छादयितः निवारयित इति सायणः । ' त्वं नः पाह्यंहसो दीषा वस्तरघायतः । दिवा नक्तमदाभ्यः ॥ ' ( ऋ ० सं ० ७।१५।१५ ) । दोषावस्तः रात्रेराच्छादयितः । तमसो वारयित इत्यर्थ इति ' सायणः । ' अथ गामभिमृशति सहितासि विश्वरूपीति । विश्वरूपा इव हि पशवस्तस्मादाह विश्वरूपीत्यूर्जामा विश गोपत्येनेत्यूर्जेति यदाह रसेनेति तदाह गौपत्येनेति यदाह भूम्नेति तदाह । अथ गार्हपत्यमभ्यैति स गार्हपत्य-मुपतिष्ठ उप त्वाग्ने दिवेदिवे दोषावस्तधिया वयम् । नमो भरन्त एमसीति नम एवास्मा एतत्करोति यथैतं न हिंस्यात् । ' ( श ० २/३ | ४ | २७-२८ ) । अथ गामभिमृशतीति श्रुतिः सहिवासीति मन्त्रेण गोस्पर्शनं विधाय प्रशंसति । विश्वानि सर्वाणि शुक्लकृष्णादीनि रूपाणि यस्यासाविति व्युत्पत्तिमपेक्ष्य व्याचष्टे - विश्वरूपा इव हि पशव इति । ऊर्जेति व्याचष्टे – रसेनेति । गौपत्येनेति व्याचष्टे -- भूम्नेति तदाहेति । मतुपो भूमार्थत्वाभिप्रायेण बहुविधेन गोपत्येन मामाविशेति । एवमाहवनीयस्य समन्त्रकं सप्रपञ्चमुपस्थानं विधाय गार्हपत्योपस्थानं विधत्ते-अथ गार्हपत्यमभ्यतीति श्रुतिः । नमो भरन्त इति नमस्कारस्य सम्पाद्यत्वावगमाद् आहवनीयस्य योनिभूतं गार्हपत्यं त्यक्त्वा पूर्वमाहवनीयोपस्थानेन तदतिक्रमजनितापराधापनोदनाय गार्हपत्याय नमस्करोति । इतरथा प्रथमाग्निमतिक्रम्य आहवनीयोपस्थानकरणाद् गार्हपत्यः क्रुद्धः सन् यजमानं हिंस्यात् । तस्माद्यथा न हिंस्यात् तथा नमस्कारः क्रियते । अध्यात्मपक्षे तु - हे राजराजेश्वरि चिद्रूपे भगवति! त्वं संहितासि सर्वैः प्राणिभिः सत्तास्फूर्तिप्रदानेन संपृक्तासि । क्षीणानां बुद्धिबलादिहीनानाम् अनात्मतादात्म्यापत्या स्वरूपप्रच्युतानाम् अनुग्रहपारवश्येन बुद्धिबलादिप्रदानेन स्वात्मसाक्षात्कार प्रदानेन सन्दधासि सन्धानं स्वास्थ्यसम्पादनं करोष्यतः संहितासि । विश्वानि सर्वाणि रूपाणि लोहितादीनि ऊर्जा गोक्षीराज्यादिरसेन बलेन स्वरूपानुभवजनितेन लोकोत्तरानन्देन निष्ठादाढ-लक्षणेन बलेन वा गौपत्येन गवां घेनूनामिन्द्रियाणां वा स्वामित्वेन नियन्तृत्वेन वा मामाविश । हे अग्ने परमेश्वर! दोषावस्तः स्वीयज्ञानात्मकेन तेजसा अविद्यालक्षणाया रात्रेराच्छादक निवारयितः! दिवेदिवे प्रतिदिनं धिया ब्रह्माकारया स्निग्धया बुद्धिवृत्त्या नमो नमस्कारं भरन्तो बिभ्रतः त्वाम् उपैमसि प्राप्नुमः । यद्वा - हे अग्ने अविद्यातत्कार्यदाहक! दिवेदिवे प्रतिदिनं दोषावस्तः रात्रावहनि च वयं नमस्कारं भरन्तः सम्पादयन्तः, उप सामीप्येन प्रत्यगात्मत्वेन त्वा आ इमसि अवगच्छामः साक्षात्कुर्मः । ' आहवनीय ' का अर्थ योनिभूत ' गार्हपत्य ' है । उसे त्यागकर प्रथमतः ' आहवनीय ' का उपस्थान करने से जो अतिक्रमणरूप अपराध होता है, उसको दूर करने के लिये गार्हपत्य को नमस्कार किया जा रहा है । अन्यथा प्रथमाग्नि का अतिक्रमण करके आहवनीय का उपस्थान करने से ' गार्हपत्य ' को क्रोध हो आवेगा, जिससे यजमान की हिंसा भी हो सकती है । अतः किसी भी प्रकार से यजमान की कोई हिंसा न हो पाय, तदर्थ नमस्कार किया जा रहा है । अध्यात्मपक्ष में-- हे राजराजेश्वरि चिद्रूपे भगवति! तुम समस्त प्राणियों से सम्पृक्त हो और सबको स्वस्थ रखती हो । मेरी इन्द्रियों पर नियन्त्रण रखकर अपने स्वरूप का अनुभव कराती हुई मुझे अलौकिक आनन्द से भर दो । हे परमेश्वर! मैं आपको प्रणाम करता हूँ, मेरी अविद्या को दूर करते हुए मेरी बुद्धि ब्रह्माकार हो, ऐसी कृपा करो । किसी ने - कामधेनु को सम्बोधित करते हुए भगवान् श्रीकृष्ण कह रहे हैं, इस अर्थ को व्यक्त किया है । बह अर्थ करना दयानन्दीय अर्थ से अच्छा ही है ।