वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 181–190
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 181–190
पृष्ठ 181
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २२-२३ ] वेदार्थपारिजातभाष्यसहिता १७१ केचित्तु — ' श्रीकृष्णस्याभिषेकार्थं गोविन्दनामकरणायेन्द्रेण सार्धमागतां कामधेनुं सम्बोध्य कृष्णो वक्ति— कामधेन! त्वं संहिता सन्निहिता मम सन्निधावागतासि । सम्यग् हिता अभीष्टप्रदानाद् हितकारिणी विश्वरूपी भूत्वा सङ्कल्पवशाद् बहुरूपधारिणी वशिष्ठेन स्पर्धमानस्य ससैन्यस्य विश्वामित्रस्य प्रबलसेनारूपधारिणी मामभिषिञ्चती तत्पराजयकारिणी यथाकामं रूपधारणक्षमा त्वं गोपत्ये गवामिन्द्रत्वे ऊर्जा क्षीरदध्यादिरसेन अनुग्रहीत्रीत्वेन आसमन्तात् प्रविश ' इति, तदपि दयानन्दीयाद् व्याख्यानात्तु सुश्लिष्टमेव । दयानन्दस्तु - ' संहिता सर्वपदार्थैः सह वर्तमाना विद्युत् सर्वव्यापकः परमेश्वरो वा । विश्वरूपी विश्वं सर्वं रूपं यस्याः सा विश्वरूपी । अत्र - ' जाते रस्त्रीविषयादयोपधात् ' ( पा ० सू ० ४। १ । ६३ ) इति ङीपप्रत्ययः । ऊर्जा वेगपराक्रमादियुक्ता मामाविश गौपत्येन गवामिन्द्रियाणां पशूनां वा पतिः पालकः, तस्य भावः कर्म वा । उप त्वा त्वां तं वा अग्ने अग्नि दिवेदिवे ज्ञानस्य प्रकाशाय प्रतिदिनं वा दोषावस्तः दोषां रात्रिं वस्ते स्वतेजसाच्छाद्य निवारयति सोऽग्निस्तं धिया कर्मणा प्रज्ञया वा वयं नमः अन्नं भरन्तः धारयन्तः आसमन्तात् इमसि प्राप्नुमः ' इति, तदपि न युक्तम्, पूर्वोक्त शतपथश्रुत्या संहितासीति मन्त्रस्य गवामुपस्पर्शने, उप त्वेति मन्त्रान्तरस्य च गार्हपत्योपस्थाने विनियुक्तत्वात् । विश्वरूपीत्यत्र ङीपप्रत्ययोऽपि न युक्तः, विश्वरूपशब्दस्य गुणवाचकत्वेन जातिवाचकत्वाभावात् । किन्तु ' षिद्गौरादिभ्यश्च ' ( पा ० सू ० ४ | १ | ४१ ) इति ङीष्प्रत्ययो युक्तः, गौरादेराकृतिगणत्वात् ॥ २२ ॥
राज॑न्तमध्व॒राणा॑ गो॒पाम॒तस्य॒ दीदि॑वम् । वर्ध॑माना॒ स्वे दमे ' ॥ २३ ॥
अत्र क्रियापदं पूर्वस्मादनुवर्तते । वयं यष्टारो राजन्तं दीप्यमानमध्वराणां अग्निसमीपे यज्ञानां यजमानो गोपां गोप्तारं व्रतं गोपायतीति गोपाः । ऋतस्य सत्यवचनरूपस्य व्रतस्य दीदिवि दीपयितारम् जयन्ति गृहीत्वा सत्यमेव वदतीत्यस्यार्थस्य द्योतकमिदं विशेषणम् । स्वे दमे दाम्यन्ति दुर्जयानिन्द्रियारातीन् गृहे वर्धमानं गृहस्था यत्र तस्मिन् दमे गृहे । ' दम इति गृहनामसु ' ( निघण्टु ३ । ४ । १२ ) उपैम । स्वीयेऽस्मदीये इत्यर्थः । वर्धमानशब्दस्य चातुर्मास्य सोम - पश्वादिभिवृद्धि गच्छन्तम् ईदृशमग्निम् उप आ इमसि । तात्पयं कण्व दर्शयति- ' यदस्माकमिष्टं त्वं नो भूय एव कुरु तन्नो वर्धयेत्येतदाह ' इति गां अपरस्तु राजपरत्वेनैतन्मन्त्रं योजयति । मन्त्राणां सङ्गतिस्त्वेतन्मते नापेक्षिता । अग्नि राजानं परमेश्वरं वोद्दिश्य संगतिमन्तरा वदन्नुन्मत्तवदेव भाति । यशसा प्रतापेन प्रकाशमानं शत्रुभिरप्रधृष्यं राजानं वयमन्नमुप- दुर्गाणां रक्षकं साधनानां च रक्षकं सत्यज्ञानप्रकाशकं स्वीये दमनकार्ये सर्वतोऽधिकं वर्धमानं । त्वां हरामः । अध्वरशब्दस्य प्रसिद्धं मुख्यमर्थमुपेक्ष्य रक्षासाधनदुर्गाद्यर्थंकरणमपि स्वैरित्वमेव स्वामी दयानन्द ने जो व्याख्या की है, वह शातपथी श्रुति के विरुद्ध है । श्रुति ने तो उपस्पर्शन ॥ २२ ॥ और मन्त्रान्तर
का ] उपस्थान में विनियोग बताया है । ' विश्वरूपी ' में जो व्याकरण बताया है, वह मी प्रमादपूर्ण है में मन्त्रार्थ- - प्रकाशमान यज्ञ का रक्षक, सत्यवचन का प्रकाशक तथा हमारे घर में चातुर्मास्यादि यज्ञ के रूप वृद्धि को प्राप्त होने वाला जो अग्नि है, उसके प्रति हम लोग प्राप्त हों ॥ २३ ॥
को कण्व ने भी भाष्यसार - मन्त्र का भाष्य मन्त्रार्थं से ही स्पष्ट हो जाता है । ' वर्धमान ' शब्द के तात्पर्य नहीं होती । बताया है । किसी व्याख्याकार ने इस मन्त्र की व्याख्या ' राजपरक ' की है, किन्तु उस अर्थ में मन्त्रसंगति संगतिहीन अर्थ करना उन्मत्तप्रलाप के समान ही है ।
पृष्ठ 182
पाठ पढ़ें पाठ छिपाएँ
१७२ शुक्लयजुर्वेदसंहिता [ अ ० ३ अध्यात्मपक्षे - हे अग्ने परमेश्वर! राजन्तं स्वप्रकाशत्वेन विभ्राजमानम् अध्वराणां गोपां गोप्तारम् ऋतस्य सत्यस्य स्वस्वरूपस्य तज्ज्ञानस्य वा दीदिवि प्रद्योतयितारं स्वे दमे स्वस्वरूपभूते गृहे वर्धमानं नित्यं नवनवायमानत्वेनानुभूयमानं त्वा वयं धिया भक्त्या त्वदर्पितेन कर्मणा वा प्राप्तुं श्रीरामं श्रीकृष्णं कामेश्वरं वा उपैमसि राजन्तं नित्यसिद्धस्वमहसा कोटिकोटिसूर्यसमप्रभेण विभ्राजमानम् अध्वराणां यज्ञानां गोपां स्वयमनुष्ठानेन तदनुष्ठान प्रोत्साहनेन वा त्रातारम् अध्वना शास्त्रीयेण यथा ये रान्ति दानयज्ञादि कुर्वन्ति तेषां वा रक्षकं ऋतस्य सत्यज्ञानादिलक्षणस्य स्वरूपस्य दीदिवि प्रद्योतयितारं स्वे दमे स्वीये धाम्नि स्वरूपे वा वर्धमानम् उपैमसि । दयानन्दस्तु - ' अध्वराणामग्निहोत्राद्यश्वमेधान्तानां शिल्पविद्यासाध्यानां वा सर्वथा रक्ष्याणां यज्ञानां गोपाम् इन्द्रियपश्वादीनां रक्षकम् ऋतस्यानादिस्वरूपस्य सत्यस्य कारणस्य जलस्य वा दीदिवं व्यवहारयन्तं वर्धमानं हानिरहितं स्वे स्वकीये दमे दाम्यन्त्युपशाम्यन्ति यस्मिन् तत्र स्वस्थाने परमोत्कृष्ट प्राप्तुमर्हे पदे राजन्तं प्रकाशमानमग्नि जगदीश्वरं भौतिकं वा नमो भरन्तो वयं धिया बुद्धया कर्मणा वा उपैमसि नित्यमाप्नुम ' इत्यादि, तदपि श्रुतिसूत्रविरोधादुपेक्ष्यम् । अध्वरपदस्य शिल्पविद्या साध्याः सर्वथा रक्ष्या यज्ञा अर्थः 1 इत्यस्य निर्मूलत्वाच्च । ' येन परमात्मना अध्वराणां गोपा ऋतस्य दीदिविः स्वे दमे वर्धमानोऽग्निः प्रकाशितोऽस्ति, तं नमो भरन्तो वयं धियोपैमसि नित्यमाप्नुम ' इत्यपि वेदबाह्यमेव तादृशार्थबोधकस्य पदसमुदायस्य मन्त्रेऽ-दर्शनात्, येनाग्निः प्रकाशित इत्यर्थबोधकस्य पदस्य तत्रासत्त्वात् । शतपथे तु — ' राजन्तमध्वराणां गोपामृतस्य दीदिवि वर्धमान स्वे दम इति स्वं वै त इदं यन्मम तो भूयोभूय एवं कुवित्येवैतदाह ' ( श ० २।३।४।२ ९ ) । मन्त्रं पठित्वा तात्पर्यमाह - स्वं वै त इदमिति । हे अग्ने! यन्मदीयं गृहं ते तव स्वभूतम्, अतस्तथाविधं नः अस्माकं पुनः पुनः कुरु । यन्मम स्वं गृहमिदं ते तव स्वभूतम्, अत एव नात्र दमपदस्य सर्वोत्कृष्टमोक्षोऽर्थः, तस्य भूयोभूयः करणासम्भवात् ॥ २३ ॥
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सू॒पाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ॥ २४ ॥
1 हे गार्हपत्याग्ने! स पूर्वोक्तगुणविशिष्टस्त्वं सूनवे पुत्रायौरसाय पिता जनक इव नोऽस्मभ्यं सुपायनः सुष्ठु शोभनमुपायनमासन्नप्रापणमुपचरणं नमस्कारादिभिरुपचारैरुपचरणं यस्य सः सूपायनः सुखोपगमनः सूपचरो भव । यथा पुत्राय पिता भयं विना सुखेनैव प्राप्तुं नमस्कारादिभिरुपचारैरुपचरितुं च शक्यते, तथास्माकं सुष्ठपप्राप्तुं सूपचरितुं शक्यो भव । अन्येषां कृते भयानकोऽपि सिंहो यथा पुत्राय सूपगमनो भवति, तथा सूपगमनो भव । सर्वैर्देवैर्दानवैर्लक्ष्म्या च दुरासदोऽपि नृसिंहो यथा प्रह्लादाय सूपायनो जातः, तथास्माकं सूपचरो भव । शोभनानि उपायनानि उपहारा दातव्यत्वेन यस्येति तु न युक्तम्, पूज्यं प्रत्येवोपायनानामुपस्थानीय-त्वात् । नः स्वस्तये क्षेमाय आसमन्तात् सचस्व अनेन कर्मणा समवेतो भव । सांहितिको वा दीर्घः । ‘ षच् अध्यात्मपक्ष में हम लोग यज्ञयागादि के अनुष्ठान से उस स्वप्रकाश परमेश्वर को ही प्राप्त करते हैं । स्वामी दयानन्द ने जो अर्थ किया है, वह श्रुति - सूत्र के विरुद्ध होने से उपेक्षणीय ही है ॥ २३ ॥
मन्त्रार्थ - हे गार्हपत्य अग्ने! जिस प्रकार पिता अपने पुत्र के घर निर्भय होकर जाता है, उसी प्रकार पूर्वोक्त गुणों से युक्त तुम हमारे घर भी सुख से आओ और हमारे कल्याणार्थं उत्तम कर्म से युक्त होकर रहो ॥ २४ ॥
पृष्ठ 183
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २४ ] वेदार्थपारिजातभाष्यसहिता १७३ समवाये ' इति धातोर्यद्वा ' षच सेवने ' इति धातोः सचस्वेति रूपम् । नोऽस्माकं स्वस्तये कल्याणाय अस्मद्दत्तं हविः आसमन्तात् सेवस्य । स्वयमवाप्तसमस्त कामत्वेऽप्यस्मद्धितायास्मद्दत्तं हविरुपभुङ्क्ष्व । यतो हि - ' नैवात्मनः प्रति-प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते । यद्यज्जनो भगवते विदधीत मानं तच्चात्मने मुखस्य यथा मुखश्रीः || ' ( भा ० ७ ९ | ११ ) इति वचनान्निजलाभपूर्णो भगवान् आत्मनो मानम् अर्चनादि- कामयते लक्षणं सम्मानं यद्यपि न वृणीते, तथापि करुणाक्रान्तमानसत्वाद् भक्तजनोपस्थापितं सम्मानं वृणीते स्वीकुरुते च । ननु तत्तदैश्वर्यदाने कारुण्यं युक्तमादाने कुतः कारुण्यमिति चेत्, शृणु तदादानस्यैव । जीव- यथा कल्याणहेतुत्वादादत्ते । जनो भगवते यन्मानं सम्मानं विदधीत विदधाति तत् सर्वमात्मने स्वात्महितायैव बिम्बरूपे समर्पिता श्रीः शोभाधाय कालङ्करणादिकं प्रतिमुखस्य प्रतिबिम्बस्य भवति, प्रतिमुखे मुख प्रतिबिम्बे मुकुटकुण्डलादिसमर्पणस्यायमेवोपायो यद् बिम्बे समर्पणम्, तथैव बिम्बरूपे भगवति समर्पितानामैश्वर्याणा- भक्तार्थमेव मेव प्रतिबिम्बभूतेषु जीवेषु संक्रान्तिः । तस्मात् पूर्णकामोऽपि भगवान् भक्तकृतां सपर्यां स्वीकरोति कामयते तत्समर्पितं हविः सेवते च । दृष्टान्ततात्पयं कण्वो दर्शयति-- ' यथा पिता पुत्राय सूपचरः, एवं नः सूपचर एधीत्येवैतदाहेति । एतेन सनातनधर्मसम्मत एवार्थ आर्षः । अध्यात्मपक्षेऽपि तथैव । हे अग्ने परमात्मन्! सूनवे पुत्राय पितेव नः सूपायनो भव सुष्ठुपगन्तुं योग्यो भव । शोभनमुपायनमिव प्रेमास्पदी मुयाभिव्यक्तो भव । नोऽस्माकं स्वस्तये परमकल्याणाय सचस्व समवेतो भव नित्यतादात्म्यसम्बन्धावरणापनयनेनाभिव्यक्तप्रत्यक् चैतन्याभेदवान् भव । श्रीकृष्णः श्रीरामः श्रीविष्णुः शिवो गुरुश्चानेन मन्त्रेण प्रार्थयितुं शक्यन्ते । दयानन्दस्तु -- ' स जगदीश्वरः नोऽस्मभ्यं पितेव जनक इव सूनदे औरसाय सन्तानाय अग्ने करुणामय विज्ञानस्वरूप सर्वपितः! सूपायनः । सुष्ठुपगतमयनं ज्ञानप्रापणं यस्मात् स भव भवति । सचस्व संयोजय नः अस्मान् स्वस्तये सुखाय ' इति, तदपि यत्किञ्चित् प्रकरणविरुद्धत्वात् । शतपथरीत्यात्रापि गार्हपत्योपस्थानमेव । सचस्वेत्यस्य प्रकृतम् । सूपायन इत्यनेन सुखोपगमनतैव विवक्षिता । तस्यां सत्यामेव ततो ज्ञानप्राप्तिसम्भवोऽपि संयोजयेत्यप्यसाम्प्रतम्, समवायार्थस्य सचधातोः संयोजनार्थत्वायोगात् । शतपथे च - ' - ' स नः पितेव सूनवेऽग्ने सूपायनो भव सचस्वा नः स्वस्तय इति यथा पिता पुत्राय सूपचरो नैवैनं केचन हिनस्त्येवं नः सूपचर एधि मैव त्वा केनचन हि ७ सिष्मेत्येवैतदाह ' ( श ० २ | ३ | ४ | ३० ) । दृष्टान्त-सिद्धयर्थं निष्कृष्यानुवदति - यथा पितेति । सूपचरः सुष्ठुपचरितुं पुत्रस्य सेवितुं योग्य एव भवति, स च पुत्र एनं पितरं न केनचनापि साधनेन हिनस्ति, एवं हे गार्हपत्याग्ने! त्वं नः अस्माकं सूपचर एधि । सुष्ठपचरितुं योग्यो भव । वयमपि त्वां न केनचिदपि साधनेन हिंसिष्मेति ॥ २४ ॥
भाष्यसार - हे गार्हपत्याग्ने! हमारे लिये तुम्हारी प्राप्ति सुलभ रहे । दूसरों के लिये भयानक प्रतीत होने वाला भी सिंह अपने बच्चे के लिये सुप्राप्य रहता है, उसी प्रकार तुम भी हमारे लिये सुप्राप्य रहो । सम्पूर्ण देव - दानव और लक्ष्मी के द्वारा भी नृसिंहावतार धारण किये हुए भगवान् यद्यपि दुष्प्राप्य थे, तथापि प्रह्लाद के लिये वे सुप्राप्य हो गये थे । उसी तरह तुम हमारे लिये सुप्राप्य बने रहो । अध्यात्मपक्ष में- अधिकारी भक्त श्रीराम, श्रीविष्णु, शिव, गुरु आदि की इस मन्त्र से प्रार्थना कर सकता है ।
स्वामी दयानन्द ने जो अर्थ किया है, वह प्रकरणविरुद्ध है । अतः उपेक्षणीय है ॥ २४ ॥
पृष्ठ 184
पाठ पढ़ें पाठ छिपाएँ
१७४ शुक्लयजुर्वेद संहिता
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त ऋ॒ता शिवो भ॑वा वरूथ्यः ।
वसु॑र॒ग्निर्वसु॑नवा अच्छा नक्षि द्यु॒मत॑ र॒यिं दा॑ः ॥ २५ ॥
[ अ ० ३ चतस्रो द्विपदा विराज आग्नेय्यो बन्ध्वादिदृष्टाः, दशार्णपादा विराट् । हे गार्हपत्याग्ने! त्वं नः अस्माकं अन्तमः अन्तिकतमः सदा अत्यन्तसमीपवर्ती भवा ' द्वयचोऽतस्तिङः ' ( पा ० सू ० ६।३।११५ ) इति दीर्घः । ' अन्तम इति समीपनाम ' ( निघण्टु २ १६ ९ ) । अन्तिकशब्दस्य तमपि पृषोदरादित्वेनान्तमेति रूपं वा, यद्वा ' अम् गतौ ' अमति समीपं प्राप्नोतीत्यम् अतिशयेन अम् इति अन्तमः, अम्शब्दात्तमप् । यो हि ब्रह्मचर्यप्रभृति अग्नि परिचरति, तस्याग्निर्निकटवमो भवति । देशविवक्षया परोक्षान्यदेवतापेक्षयाऽपरोक्षोऽग्निः सन्निकृष्ट एव । उतापि च त्राता सर्वरक्षक ऊष्मरूपेण जाठराग्निरूपेण वा, ऊष्माभावे अग्निमान्ये मरणदर्शनात् । शिवः कल्याणरूपः । वख्थ्यो भव पुत्रपौत्रादिसमूहो वरूथम्, गृहं वा वरूथम्, तस्मै हितो वरूथ्यः, गृहस्य साङ्गो -पाङ्गस्य सकुटुम्बस्य मम अत्यन्त समीपवर्ती कल्याणकल्पतरुहितसाधको भव । हे अग्ने! त्वं वसुः सर्वेषु प्राणिषु वसति वासयति वा सर्वानिति वसुः सर्वजनानां वासयिता सर्ववासी वा, तापपाकप्रकाशरूपकारकत्वात्, वसु धनम्, उपासकानाम् उपास्यस्यैव सर्वप्रियधनरूपत्वाद्वा । अग्निः अङ्गतीत्यग्निः । ' अगि गतौ ' । आहवनीयादिरूपेण गमनशीलः, गार्हपत्याग्नेरेवाहवनीयखरेऽङ्गनात् । वसुश्रवा वसुना धनेन श्रवः कीर्तिर्यस्य सः, धनप्रदोऽग्निरिति कीतिरग्नेराहिताग्निषु प्रसिद्धा । हे अच्छ निर्मलस्वभाव अग्ने! त्वं नक्षि अस्मदीयं होमस्थानं गच्छ ' नक्ष गतौं ' । यदा यदा होमः स्यात्तदा तदा तत्रागच्छेति भावः । यद्वा हे अग्ने! त्वं अच्छानक्षि अच्छ त्वां प्राप्तुं नक्षि अस्मानभिव्याप्नुहि । ' नशिराप्नोति कर्मेति । अच्छा मेराप्तुमिति शाकपूणि: ' ( नि ० ५।२८ ) । अर्थात् ' अच्छेतिशब्दो अर्भेरर्थे भवति, आप्तुमिति योऽर्थ उक्तः, स एवार्थोऽच्छेत्यनेनोक्तो भवति ' इति दुर्गाचार्यः । ' निपातस्य च ' ( पा ० सू ० ६।३।१३६ ) इति संहितायां दीर्घे ' अच्छा ' इति रूपम् । त्वत्प्राप्तये त्वमस्मानाप्नुहि द्युमत्तमं रयिं दाः धनं देहि । ददातेर्लुङि रूपं दा इति । ' बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा ० सू ० ६ | ४/७५ ) इति । सर्वशक्तिमान् सर्वेश्वर एवाग्नीन्द्रादिरूपेण तत्तद्यागेष्विज्यते, मन्त्रैश्च स्तूयते । यथा पादुकारथादिष्वपि वैदिकदत्तानि पदानि भूमावेव दत्तानि भवन्ति, पादुकादीनां भूमिविकारत्वात्; तथैव तत्तद्देवताभिधायिनां मन्त्राणां परब्रह्माभिधायित्वमेव सर्वेषां तद्विकारत्वात् । ' आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते ', ' सर्वं ' खल्विद ब्रह्म ', ' तज्जलान् इति शान्त उपासीत ' इत्यादिश्रुतिभ्यः । मन्त्रब्राह्मणात्मक वैदिका मन्त्राः शब्दाच क्वचित्परोक्षरूपेण क्वचिदपरोक्षरूपेण वा क्वचिदवान्तरतात्पर्यविधया क्वचिन्महातात्पर्य विधया वा परमात्मानमेवाभिव्याहरन्ति । तदधिष्ठात्र्यो देवताः कृष्णस्य भगवतोऽनन्यपूर्विकाः स्वकीया अन्य पूर्विकाः परकीयाभासाश्च व्रजसीमन्तिन्य आसन् । तत्र यासां ' सत्यं ज्ञानमनन्तं ब्रह्म ' ( तै ० उ ० २1१1१ ), मन्त्रार्थ - हे गार्हपत्य अग्ने! तुम सर्वदा हमारे समीप रहो, हमारा पालन करो और शान्त होकर हमारे पुत्रादि का रक्षण करो । तुम समस्त लोगों के आश्रयस्थान हो । आहवनीयादि रूप से गमन करने वाले और धनदाता के रूप में जिसका यश सर्वत्र विस्तीर्ण है, ऐसे हे अग्ने! तुम निर्मल स्वभाव के होकर हमारे हवन स्थान में आओ । अर्थात् जब - जब हम हवन करें, तब प्रत्येक समय तुम हवनशाला में आकर उपस्थित रहो और अत्यन्त प्रकाशमय द्रव्यं हमें दो ॥ २५ ॥
पृष्ठ 185
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २५ ] वेदार्थपारिजातभाष्यसहिता १७५ ' विज्ञानमानन्दं ब्रह्म ' ( बृ ० उ ० ३२ ९ | ३४ ) इत्यादीनां श्रुतीनां साक्षाद् भगवत्येव पर्यवसानं ता एवानन्य- ', पूर्विकास्तासामन्य सम्बन्धाभावात् । यासां पुनः ' अग्निमीळे पुरोहितम् ' ( ऋ ० सं ० १ | १ | १ ) ( राजन्तमध्वराणाम् ( शु ० य ० ३१२३ ), ' अग्ने त्वं नो अन्तम ' ( साम ० ४४८ ) इत्यादिश्रुतीनामवान्तरस्य तात्पर्यस्य तासु तासु कर्माङ्गदेवतासु सत्त्वेऽपि महातात्पर्यं ब्रह्मण्येवेति ता अन्य पूर्विकाः परकीयाभासाः । वस्तुतस्तु स्वकीयाः यथा सत्योऽपि दौर्लभ्यादिप्रयुक्तरस विशेषास्वादनाय परकीया इवावभासन्ते, स्वकीयापेक्षयापि भगवत्प्रियतमा तासां तासां तासां गोपसीमन्तिनीनां ते ते गोपाः पत्याभासाः सन्तोऽपि मुख्यः पतिर्भगवानेव, तथैव तासां श्रुतीनां तत्तद्देवतास्ववान्तरतात्पर्यविषयत्वासत्त्वेऽपि महातात्पर्यविषयता भगवत्येव तैस्तैर्वैदिककामकर्मज्ञानः पाशविककामकर्मज्ञानरूपं मृत्युं तीर्त्वा परमात्मसाक्षात्कारेण परमात्मप्राप्तेरेवेष्टतमत्वात्, ' अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ' ( वा ० सं ० ४० १४ ) इति मन्त्रवर्णात् । जलविकारभूतानां तरङ्गाणां मुख्यः सम्बन्धो जलेनैव, तरङ्गान्तरैः सम्बन्धस्त्वनित्य एव तथैव परमात्मविकाराणां जीवानां मुख्यः सम्बन्धः परमात्मनैव, जीवान्तरैः सम्बन्धस्त्वनित्य एव । तेन सर्वेषां जीवानां पतिपुत्रभ्रातृमातृपत्न्यादिसम्बन्धोऽनित्य एव परमात्मसम्बन्ध एव नित्यः । मीमांसकन घटपटादितत्तत्पदानां घटत्वपटत्वादिजातिष्वेव शक्तत्वेन, जातीनां च परजातिरूपायां सत्तायामेव पर्यवसानात्, सत्ताया अपि स्वप्रकाशे सद्रूपेऽपरोक्षब्रह्मण्येव पर्यवसानं सेत्स्यति । एवं च समेषामपि वस्तूनां पर्यवसानं स्वस्वकारणे भवति, कारणानां च परमकारणे कार्यकारणातीते ब्रह्मण्येव पर्यवसानम् । तदुक्तं श्रीमद्भागवते - ' सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान् कृष्णः किमतद्वस्तु रूप्यताम् ॥ ' ( भा ० १० १४।५७ ) भवति कार्याकारेण परिणामं प्राप्नोतीति भवत् कारणम्, तस्मिन् भवति कारणे । तेनाग्नेः परमात्मरूपेण सर्वान्तरत्वेनान्तिकतमत्वं शिवत्वं सर्वहिततमत्वं च स्वभावसिद्धं भवति । सच्चिदानन्द-महासमुद्रेऽभिधानात्मकप्रपञ्चोत्पादनानुकूलशक्त्यवच्छिन्नचिदानन्दविवर्तरूपाः प्रणवस्तद्विकारभूता वाचकाः शब्दाश्च तरङ्गरूपाः, अभिधेयात्मकप्रपञ्चोत्पादनानुगुणशक्त्यवच्छिन्न सदानन्दविवर्तभूता अव्याकृत - हिरण्यगर्भ-विराडादिसमष्टिव्यष्टिपदार्था अपि तरङ्गरूपा एव । तरङ्गाणां जलेनैव स्वाभाविकोऽविच्छेद्यः सम्बन्धः तरङ्गान्त-रेस्तु सम्बन्धोऽस्वाभाविकोऽनित्यश्च । ततः स्वाभाविक एव श्रुतीनां सर्वाधिष्ठानरूपेण परमात्मनैव सम्बन्धः, तद्विकारैस्त्वनित्य एव सम्बन्धः । तस्मादेव ' सर्वे वेदा यत्पदमामनन्ति ' ( कठो ० २।१५ ), ' वेदैश्च सर्वैरहमेव वेद्य: ' ( भ ० गो ० १५ | १५ ) इत्यादय: श्रुतिस्मृतिवादाः सङ्गच्छन्ते, तदभिन्नाभिन्नस्य तदभिन्नत्वनियमेन शब्दार्थानामपि परस्परं तादात्म्य सम्बन्धावगमात् । अध्यात्मपक्षे तु - हे अग्ने परमात्मन्! त्वमस्माकम् अन्तमः अन्तिकतमः सामीप्यस्य प्रत्यगात्मनि पर्यवसानेन प्रत्यगात्मासि 1 प्रत्यगात्मत्वेन सर्वान्तरतमत्वात् प्रियतमश्चासि त्राता रक्षकश्चासि प्रत्यगात्मतया ज्ञातस्य मोक्षप्रदत्वेन संसारभयात् त्रातृत्वात् । शिवो मोक्षरूपरचासि निरावरणस्यात्मन एव मोक्षरूपत्वात् । ' निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ' इत्याप्तोक्तेः । वरूथ्यः वरूथं गृहमाश्रयस्तत्र साधुर्वरूथ्यः शरण्योऽसि भाष्य सार- - जो ब्रह्मचर्याश्रम से ही अग्नि की परिचर्या करता है, उसके समीप ही अग्नि सर्वदा रहता है । ऊष्मा के रूप में अथवा जाठराग्नि के रूप में अग्नि सभी का रक्षक है । अग्नि के रूप में सर्वशक्तिमान् सर्वेश्वर की ही तत्तद् यज्ञों में पूजा होती है । मन्त्रों के द्वारा उसी की स्तुति की जाती है । मन्त्र ब्राह्मणात्मक वैदिक मन्त्र और शब्द सभी कुत्रचित् परोक्षतया, क्वचित् अपरोक्षतया, कहीं अवान्तर तात्पर्य के रूप में, तो कहीं महातात्पर्य के रूप में उस परमात्मा को ही बताते हैं ।
पृष्ठ 186
पाठ पढ़ें पाठ छिपाएँ
१७६ शुक्लयजुर्वेदसंहिता [ अ ० ३ ' वृञ् वरणे ' । वृणोति परित आच्छादयतीति वरूथः कवचदवद्रक्षकः क्षान्तिशान्तिसन्तोषादिसमूहस्तत्र हितो वा वरूध्योऽसि:, त्वदनुग्रहेणैव तद्दार्योपपत्तेः । त्वं वसुः सर्वस्मिन् जगति वससि, जगच्च स्वस्मिन् वासयसीति घा वसुः । वसुश्रवा वसु सर्वोत्कृष्टधनरूपं श्रवः कीर्तिर्यस्य स वसुश्रवाः । यशोधन इत्यर्थः । ' ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतोरणा ॥ ' ( वि ० पु ० ६ | ५ | ७४ ) इति षड्भिर्भगः पूर्णत्वाद् वसुश्रवाः । हे अच्छ मायातत्कार्य सम्बन्धशून्य! त्वम् अग्निः ब्रह्माकारवृत्तावभिव्यज्य संसारदाहकोऽसि । नक्षि सर्वत्र व्यापकोऽसि, सर्वकारणत्वात् । यद्वा अच्छानक्षि त्वां प्राप्तमभिमुख्येनास्मान् व्याप्नुहि । हे परमेश्वर मत्तमं रयिम् अतिशयेन द्योतमानं ब्रह्मात्मसाक्षात्काराख्यं ज्ञानं साक्षादपरोक्षं स्वात्मानमेवादा: देहि । यत्तु ' महीधरः ' अम् गती ' इत्यतः अमति समीपं प्राप्नोतीति कर्तरि क्विपा अशब्द संसाध्य तमपि अन्तम इवि शब्दसिद्धिमाह । अर्वाचीनश्च कश्चन ( दयानन्दः ) ' अन् प्राणने ' आदादिकः, इत्यतः अनिति जीवति सोऽतिशयित इत्याह, तदुभयं न साधु, पुरीतत् संयत् इत्यादिषु ' गमादीनामपि वक्तव्यः ' ( पा ० सू ० ६ | ४ | ४० ) इति वार्त्तिकेन क्विपि ' ह्रस्वस्य पिति कृति तुक् ' ( पा ० सू ० ६।१।७१ ) तुगागमे अम् अन् इत्यनयोरपि अनुनासिकलोपादिप्रसक्तेः ' इति, तत्तुच्छ्म्, गणपाठेषु गमादिगणस्यानुक्तत्वात् । तथा च तत्र महाभाष्ये परिगणितानामेव गमादित्वेन महाभाष्ये च अम् इत्यस्य अपरिगणितत्वेनानुनासिकलोपाद्यप्रसक्तेः । तथाहि - ' अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि ङ्किति ' ( पा ० सू ० ६ | ४ | ३७ ) अनुनासिकेति लुप्तषष्ठीकं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां बनतेश्च लोपः स्याद् झलादौ किति ङिति परे इति सूत्रार्थः । यमिरमिन मिगमिनिमन्यतयोऽनुदात्तोपदेशाः । तनुषणक्षणुक्षिणुऋणुतृणुघृणु-वनुमनुतनोत्यादयः । तस्मादेतेषामनुनासिकलोपो भवति । ' वा ल्यपि ' ( पा ० सू ० ६ | ४ | ३८ ) आगत्य आगम्येत्या-दिरूपाणि भवन्ति । ' न क्तिचि दीर्घश्च ' ( पा ० सू ० ६ | ४ | ३ ९ ) क्तिचि लोपो दीर्घश्च न भवतः । तेन यन्तिः, रन्तिः, वन्तिः, तन्तिः - इत्यादि रूपाणि भवन्ति । ' गमः क्वो ' ( पा ० सू ० ६ | ४ ४० ) इति गमधातोः क्वो अनुनासिकलोप:, तेन ' अङ्गमत् ' इति रूपं निष्पद्यते । अत्र सूत्रे वार्तिकम् – ' गमादीनामिति वक्तव्यम् ' परीतत्, संयत्, सुनुत्, । अपरं चात्र वार्तिकम् - ' ऊङ् च गमादीनामिति वक्तव्यम् ' चादल्लोपश्च । तेन अग्रेगः, अग्रेभ्रूः । अत्र गणपाठे गमादीनामुल्लेखाभावात्, महाभाष्ये च तनुयमिनमिभ्रमीतिधातूना मुदाहरणात् पञ्चैव गमादय इति । तस्मान्मुधैव महोधरदोषान्वेषणम् । ननु तर्ह्यनतेरेवैतद्रूपं किं न स्यादिति चेन्न मन्त्रस्येश्वरपरत्वे तथात्वेऽग्निपरत्वे तदनुपपत्त्या अमतेरेव रूपस्य युक्तत्वात् । दयानन्दस्तु – ' हे अग्ने ईश्वर! त्वं करुणामयो नोऽस्माकमस्मभ्यं वा अन्तमः आत्मान्तःस्थः अनिति जीवति सोऽतिशयितः ' स उ प्राणस्य प्राणः ' ( के ० उ ० १1१ )! उतापि त्राता रक्षकः शिवः मङ्गलकारी भव । वरूथ्यः वरूथेषु श्रेष्ठेषु गुणकर्मस्वभावेषु भवो वरूथ्यः । हे अग्ने! यस्त्वं वसुश्रवाः वसुरग्निः नक्षि सर्वत्र प्राप्तोऽसि स त्वं नोऽस्माकमन्तमस्त्राता वरूथ्यः शिवो भव । उतापि नोऽस्मभ्यं रयिमच्छ दाः सम्यग्देहि ' इति, तदपि श्रुति-सूत्रविरुद्धत्वादुपेक्ष्यमेव । ' अथ द्विपदा..... अग्ने त्वं नोऽन्तमः ' ( श ० २ | ३ | ४ | ३१ ) इत्यनया कण्डिकया चतसृभिद्विपदाभिर्गार्हपत्यस्याग्नेरुपस्थानमाह - अग्ने त्वमिति प्रथमा, वसुरग्निरिति द्वितीया, तं त्वा शोचिष्ठेति तृतीया स नो बोधि इति चतुर्थी ॥ २५ ॥
अध्यात्मपक्ष में हे अग्निरूप परमात्मन्! तुम ही हमारे प्रत्यगात्मरूप होने से प्रियतम हो, रक्षक हो । यशोधन हो, इत्यादि अर्थ मी मन्त्र से अभिव्यक्त होता है ।
पृष्ठ 187
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २६ ] वेदार्थपारिजातभाष्यसहिता
तं त्वा॑ शोचिष्ठ दीदिवः सुम्नायं नूनमीमहे सखिभ्यः ।
स नो॑ बोधि श्रुधी हव॑मरु॒या णो॑ अघाय॒तः स॑मस्मात् ॥ २६ ॥
१७७ हे शोचिष्ठ शोचिष्मत्तम! शोचिरिति ज्वालोच्यते, दीप्तिमत्तम! छान्दसो मतुब्लोपः । हे दीदिवः सर्वस्य दीपतिः! हे सर्व प्रकाशक! तं पूर्वोक्तगुणविशिष्टं त्वामग्नि सखिभ्यो मित्रेभ्योऽर्थाय नूनं निश्चयेन सुम्नाय सुखं द्वितीयार्थे चतुर्थी । नूनं निश्चयेन ईमहे याचामहे । यद्वा निम्नाय सुखार्थमस्मत्सखीनामुपकाराय त्वामीमहे | ' सुम्न मिति सुखनाम ' ( निघण्टु ३ | ६ | १६ ) । स त्वं नोऽस्मान् भवद्भक्तानबोधि बुद्धयस्व अनुग्रहेणावलोकय । हवं श्रुधी अस्मदीयाह्वानं शृणु । श्रधीत्यत्र ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति दीर्घः । समस्मात् सर्वस्मात्, अघायतः शत्रोरस्मानुरूष्य रक्ष । परस्याधं पापं य इच्छति स अघायत् । तस्मादघायतः शत्रोः ' छन्दसि परेच्छायामपि वक्तव्यम् ' ( पा ० सू ० ३।११८ ) इति स्थलीयेन वार्त्तिकेन क्यचि रूपसिद्धिः । सर्वेभ्योऽघकारिभ्यः शत्रभ्योऽस्मान् रक्ष । उरुष्यती रक्षणकर्मा ( नि ० ५।२३ ) । अध्यात्मपक्षे – हे शोचिष्ठ ज्योतिष्मत्तम कोटिकोटिसूर्यसमप्रभ परमात्मन् आन्तराणां बुद्धघादीनां बाह्यानां सूर्यादीनामपि प्रकाशक ' तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ' ( कठो ० ५।१५ ), ‘ येन सूर्य्यस्तपति तेजसेद्धः ' ( तै ० ब्रा ० ३ १२२ ९ ७ ) इत्यादिश्रुतिभ्यः । दीदिवः अनन्तानन्तविश्वब्रह्माण्डप्रकाशक तं वेदान्तेषु प्रसिद्धं त्वा त्वां सखिभ्यः त्वदीयसमानख्यानेभ्यो मित्रेभ्यो जीवेभ्यस्तेषां हिताय पापताप-वारणाय सुम्नाय ब्रह्मात्मप्राप्तिसुखाय च नूनं निश्चयेन ईमहे याचामहे । स त्वं नोऽस्मान् बोधि अनुग्रहपूर्ण-दृष्ट्टयावलोकय । हवं मदीयमाह्वानं प्रार्थनामयं श्रधि शृणु । समस्मात् सर्वस्माद् अघायतः अस्मासु पापमाचरतो बाह्यादान्त राच्च पापकामादेः, नोऽस्मान् उरुष्य रक्ष स्वात्मप्रकाशनेन । अनेन मन्त्रेण संसारदावानले दंदह्यमाना जीवा वृन्दावने दावानलपरीता गोपबाला लाक्षागृहदाहपीडिताः पाण्डवाश्च भगवन्तं प्रार्थयन्ते । अन्यस्तु – ' हे तेजसातिशयेन दीप्तिमन् राजन् निश्चयेन प्रसिद्धान् त्वत्तो मित्राणां कृते प्रार्थयामः । अस्मदभिप्रायं बुद्ध्वा ज्ञानवतो वाऽस्मान् कृत्वा अस्मत्कृतां प्रार्थनां शृणु । त्वमस्मान् पापकृताद् हिंसात् पुरुषात् सर्वतो रक्ष ' इत्याह । अयं तु महीधरादिभाष्येभ्योऽयं बुध्वा व्याख्याय तत्र स्वाभिप्रायं योजयित्वा यत्किचिद् वक्ति । वैदिक देवतादिषु विश्वासराहित्यात् क्वचित् परमात्मपरत्वेन क्वचिन्नृपमन्त्रिसेनापति-सैनिकादिपरत्वेन मन्त्रान् यथेच्छं योजयति । स्वामी दयानन्द ने जो अर्थ अपनी बुद्धि के अनुसार किया है, वह श्रुति और सूत्र के विरुद्ध होने से उपेक्षणीय है ॥ २५ ॥
मन्त्रार्थ -- ज्वालायुक्त तथा सर्वप्रकाशक अग्ने! पूर्वोक्तगुणविशिष्ट तुमसे हम लोग अपने मित्र के कल्याणार्थं निश्चित रूप से याचना करते हैं । अतः तुम हमारे अभिप्राय को जानकर हमारी आमन्त्रणरूप प्रार्थना को सुनो, समस्त शत्रुओं से हमारी रक्षा करो ॥ २६ ॥
भाष्यसार -- हे दीप्तिमत्तम, हे सर्वप्रकाशक! हमारे मित्रों को निश्चित सुख प्राप्त हो, यह हमारी याचना तुमसे है । तथा पापी शत्रुओं से हमारी रक्षा करो । अध्यात्मपक्ष में- हे भगवन्! हमारे पाप - ताप का निवारण करते हुए ब्रह्मात्मप्राप्ति के सुख की हमारी कामना को मित्रों के साथ ही पूर्ण करें, ऐसी हमारी याचना है । २३
पृष्ठ 188
पाठ पढ़ें पाठ छिपाएँ
१७८ शुक्लयजुर्वेदसंहिता [ अ ० ३ यत्तू दयानन्दः – ' तं जगदीश्वरं त्वां है शोचिष्ठ पवित्रतम दीदिवः प्रकाशमयानन्दप्रद! वयं नोऽस्माकं सखिभ्यश्च नूनं सुम्नाय त्वामीमहे । यो भवान्नोऽस्मान् बोधि सम्यग् विज्ञानं बोधयति स त्वं नोऽस्माकं हवं श्रोतुं श्रावयितुमहं स्तुतिसमूहं यज्ञं श्रधि कृपया शृणु । नोऽस्मान् समस्माद् अघायतः परपीडाकरणरूपात् पापाद् उरुष्य सततं पृथग् रक्ष ' इत्याह तन्न मनोज्ञम्, गार्हपत्योपस्थान विनियोगविरोधात् । अग्निपरत्वे च दीप्त्यर्थक एव शुचिर्युक्तः । दीदिव इत्यस्यापि योग्यत्वादग्नौ दीपयितृत्वमेवार्थः । हवमित्यस्याह्वानमेव मुख्यार्थः । स्तुतिसमूहो यज्ञो वा गौणार्थ एव । न च मुख्यार्थसम्भवे गोणार्याश्रयणं युक्तम् । सम्यग्विज्ञानं बोध चासङ्गतम्, प्रकाशप्रकाशनस्येव विज्ञान बोधनस्यानपेक्षणात् । यद्वा – ' आहवनीयमुपतिष्ठते । पशूंस्तद्याचते । तस्मात्तमुच्चावचैश्छन्दोभिरुपतिष्ठत उच्चावचा इव हि पशवः ' इति द्विपदाभिर्गार्हपत्योपस्थानस्य पुरुषप्राप्तिहेतुतां वक्तुमाहवनीयोपस्थानस्य पशुप्राप्तिहेतुत्वमुक्त्वा - ' अथ द्विपदाः पुरुषश्छन्दसां वै द्विपदा द्विपाद्वा अयं पुरुषः पुरुषानेवैतद्याचते ' ( श ० २।३।४।३२-३३ ) | पुरुषवत् पादद्वयोपेतत्वात् पुरुषप्राप्तिहेतुत्वम् ॥ २६ ॥
इड एह्यदि॑त॒ एहि॒ काम्य॒ एत॑ । मधि॑ वः काम॒धर॑णं भयात् ॥
२७ ॥
' गां गच्छतीड एहोति ' ( का ० श्र ० ४ १२ १८ ) । कर्माङ्गभूतां गां प्रति गच्छेत् । द्वे यजुषी गोदेवस्ये । हे इडे इडारूपे गौ: । ' इडेति गोनाम ' ( निघण्टु १११११५ ) | मात: ' अदितिरदीना देवमाता ' ( नि ० ४।२२ ) । अदितिरूपे घेनो मनोर्दुहिता । इडा मनुमिवास्मानेहि होमस्थानं वा आगच्छ । अदितिरादित्यानिवास्मानेहि । अत्रानिडायामनदितो च गवि इडादितिशब्दप्रयोग उपमार्थः । अतस्मिंस्तच्छब्दस्तद्वदतिदेशार्थः । ' काम्या एतेत्यालभते ' ( का ० श्र ० ४ १२२ ९ ) । काम्येति मन्त्रेण तामेव गां स्पृशति, ' मनुष्याणां ह्येतासु कामाः प्रविष्टाः ' ( श ० २ | ३ | ४ | ३४ ) इति श्रुतेः । हे काम्याः सर्वैः कामयितव्याः, यूयं एत आ इत आगच्छत । वः युष्माकं कामधरणं कामा ध्रियन्ते यस्मिन् तत्कामधरणम्, अभीष्टफलधारकत्वं मयि यज्ञानुष्ठातरि भूयात् । युष्माकमनु-ग्रहेणाहमभीष्टफलभाग् भूयासम् । अहं वः प्रियो भूयासम् । यद्वा अदिते अखण्डनीयेऽहन्तव्ये अघ्न्ये, ' दोऽवखण्डने ' इति धातो रूपम् । इडादितिशब्दो गोनामत्वेन प्रसिद्धौ । मनुष्याणां क्षीरदध्याज्यादिविषयाः कामा हि यस्मादेतासु गोषु प्रविष्टाः, तस्मादेताः कामनाविषयत्वात् काम्याः । तथा च शातपथी श्रुतिः - ' अथ गामभ्यति । ss एादित एहीतीडा हि गौरदितिहि गौस्तामभिमृशति काम्या एतेति । मनुष्याणा ह्येतासु कामाः किसी व्यक्ति ने महीधरादिभाष्योक्त अर्थ को ही बताकर साथ - साथ अपने अभिप्राय को भी जोड़ दिया है । किन्तु वैदिक देवताओं पर विश्वास न होने से कहीं तो परमात्मपरक और कहीं राजा मन्त्री - सेनापति परक अर्थ करते हुए अपनी उन्मुक्त कल्पना का परिचय दिया है । स्वामी दयानन्द ने श्रुत्युक्त विनियोग के विरुद्ध ही यथेष्ट व्याख्या कर दी है । अतः उसे प्रामाणिक कंसे कहा जा सकता है ॥ २६ ॥
मन्त्रार्थ - हे इडे ( मनुदुहिते )! हे अदिति! तुम सभी प्रार्थनीय हो । तुम सब हमारे होमस्थान ( हवनशाला ) में आओ । तुम्हारा अपेक्षित काम ( अभिलषित फल ) के धारण ( सुरक्षित ) करने का जो धर्म ( कर्तव्य ) है, मुझ में ( मेरे विषय में ) सर्वदा बना रहे । अर्थात् तुम्हारी कृपा से मैं अभीष्ट फल से युक्त रहूँ । ' इड एहि ' इस मन्त्र से गौ के समीप खड़ा रहे और काम्या एत ' इस मन्त्र से उसे स्पर्श करे ॥ २७ ॥
पृष्ठ 189
पाठ पढ़ें पाठ छिपाएँ
मंत्र: २७-२८ ] वेदार्थपारिजातमाष्यसहिता १७ ९ प्रविष्टास्तस्मादाह काम्या एतेति मयि वः कामधरणं भूयादित्यहं वः प्रियो भूयासमित्येवैतदाह ' ( श ० २ | ३ | ४ | ३४ ) | अनया कण्डिकथा गोसमीपगमनं तदुपस्पर्शनं च समन्त्रकं विधत्ते । अध्यात्मपक्षे - हे इडे संविद्रूपे परा वाक्! एहि स्वरूपप्राकटयेन मत्सन्निधावागच्छ, ' अनादिनिधनं ब्रह्म शब्दरूपं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ ' ( वा ० १० ११ ) इति वाक्यपदीयवचनात् । हे अदि अखण्डनीये अपरिच्छिन्ने चिन्मयि त्रिपुरे! एहि प्रत्यगानन्दरूपेणात्मानं मयि स्वात्मानं प्रकाशय स्वविषयकावरणापनयनेनेत्यर्थः । हे काम्याः कामेश्वरीरूपा दशमहाविद्यारूपाः! सर्वा यूयम् एत अस्मत्सन्निधावा-गच्छत । स्वस्वरूपं प्रादुर्भावयत । वो युष्माकं कामधरणं सर्वाभीष्टधारणसामध्यं मयि युष्माकमुपास के मयि भूयात् । दयानन्दस्तु - ' हे जगदीश्वर भवत्कृपयेडेयं पृथिवी मह्यं राज्यकरणाय एहि समन्तात् प्राप्नुयात् । एवमदितिः सर्वसुखप्रापिका नाशरहिता राज्यनीतिरेहि प्राप्नुयात् । एवं हे भगवन्! पृथिवीराज्यनीतिभ्यां मह्यं काम्याः पदार्था एत समन्तात् प्राप्नुवन्तु । तथा मयि वस्तेषां कामानां धरणं भूयात् ' इत्याह तदपि पूर्वोक्तशतपथश्रुतिविरोधादुपेक्ष्यम्, अश्रुतसम्बोधनपुरुषव्यत्ययादिकल्पनादोषाच्च । इडापदेन पृथिवीराज्यस्था-दितिपदेन नाशरहित राज्यनीते ग्रहणे प्रमाणाभावाच्च ॥ २७ ॥
सो॒मान॒ स्वर॑णं कृ॒ण॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औशि॒जः ॥ २८ ॥
' सोमानमित्यनुदकं व्रतोपायनवत् ' ( का ० श्री ० ४।१२।१० ) । अथान्तरेणाहवनीयं च गार्हपत्यं च प्राङ् तिष्ठन्नग्निमीक्षमाणो जपति दाशुष इत्यन्तम् । सोमानं स्वरणं तृचो गायत्रो ब्रह्मणस्पतिदैवत्यस्तेनैव दृष्टः । हे ब्रह्मणस्पते ब्रह्मणो वेदस्य पालक! सोमानं सोमानामभिषोतारं स्वरणं शब्दयितारं प्रकाशनवन्तं वा । ' स्वृ शब्दोपतापयोः ' । कृणुहि मामिति शेषः । त्वत्प्रसादादहं सोमयागे सोमानां लताविशेषाणां सोमराज्ञामभिषोता स्तोता च स्यामित्यर्थः । सुनोतीति सोमा, ' पुत्र अभिषवे ' इति धातो: ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३ २०७५ ) इति मनिन्प्रत्यये रूपसिद्धिः । सोमानं सोमयागकर्तारम् । सोमानं सोतारं पातारमिति पर्याया इत्युव्वाचार्याः । सोतारं पातारं सामर्थ्यात् प्रसङ्गाच्च सोमानां पातारं वा कुरु । तत्रोपमानमुच्यते -कक्षीवतं भाष्यसार - ' गौ ' को ' अदिति ' कहकर उसे अवश्य बताया है । ' इडा ' यह ' गो ' का नाम है । अध्यात्मपक्ष में हे चिन्मय त्रिपुरे! स्वविषयक आवरण को दूर करके प्रत्यगानन्दरूप से अपने को प्रकट करने की कृपा करो । मैं तुम्हारा उपासक हूँ । स्वामी दयानन्द ने जो अर्थ किया है, वह शतपथश्रुति के विरुद्ध रहने से arge सम्बोधन ओर पुरुषव्यत्ययादि कल्पना तथा प्रमाणरहित अर्थ की यह अर्थ है ॥ २७ ॥
उपेक्षा के ही योग्य है । साथ ही कल्पना आदि दोषों से परिपूर्ण मन्त्रार्थ - हे ब्रह्मणस्पते वेदपालक! जिस प्रकार तुमने दीर्घतमस्संज्ञक पिता और उशिक्संज्ञक माता से उत्पन्न हुए कक्षीवान नामक ऋषि को सोमयाग और स्तुति से युक्त कर दिया था, उसी प्रकार मुझे भी वैसा कर दे । ' सोमानम् ' इन नौ मन्त्रों का ( ' सोमानम् ' इस मन्त्र से लेकर ' परि ते दूडभो ' इस ३६ वें मन्त्र तक नौ मन्त्रों से ) आहवनीय के समीप पूर्वाभिमुख खड़ा रहकर जप करे ॥ २८ ॥
पृष्ठ 190
पाठ पढ़ें पाठ छिपाएँ
१८० शुक्लयजुर्वेद संहिता [ अ ० ३ कक्षीवानिति नामकमृषि दीर्घतमसः पुत्रं धनदानेन यथा सोमपायिनं स्तुतिशब्दयुक्तं स्तोतारं कृतवानसि तथैव मामपि कुरु । इवशब्दो लुप्तो ज्ञातव्यः । कोऽसौ कक्षीवानित्याह- - यः औशिजः, उशिग्नाम्नी कक्षीवतो ह माता, तस्याः पुत्र औशिजः कक्षीवान् । अनुष्ठातृषु मुनिषु कक्षीवतः प्रसिद्धिः । तथाहि तैत्तिरीयश्रुती - ' एतं वै अपृणारः कक्षीवाँ औशिजो वीतहव्यः श्रायसस्त्रसदस्युः पौरुकुत्स्यः प्रजाकामा अनिन्वत ' ( तै ० सं ० ५।६।५।३ ), ' अहं कक्षीवां ऋषिरस्मि विप्रः ' ( ऋ ० सं ० ४।२६।१ ) । यास्कस्तु - ' सोमानं सोतारं प्रकाशवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः कक्षीवान् कक्ष्या-वानौशिज उशिजः पुत्र उशिग्वष्टेः कान्तिकर्मणोऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात् । सोमानं सोतारं मां प्रकाशनवन्तं कुरु... ' ' ' ' ( नि ० ६ १० ) इति निरुक्ते मन्त्रमिमं व्याख्यातवान् । सोमानमनेकेषां सोमानां सोतारमभिषोतारं मां स्वरणं शब्दयितारं स्तुवन्तं यशस्विनं प्रकाशनवन्तं कुरु । कथं य औशिजः कक्षीवान् तमिव । कक्षीवान् कक्षे भवा कक्ष्या अश्वोदरसम्बन्धिनी रज्जुः साऽस्यास्तीति कक्षीवान् । निरुक्तदृष्ट्या मनुष्यकक्ष एवाभिप्रेतः । स हि कक्ष उत्पन्नः । तदुत्पत्तिसंयोगात् कक्षीवान् । औशिजः उशिजः पुत्रः । उशिग् इति कान्ति-कर्मणो वष्टे रूपम् । तमिव मां सोमानं स्वरणं कुरु । तैत्तिरीयाश्च तथैवाहु: - ' सोमानं स्वरणमित्याह सोमपीथमेवावरुन्धे कृणुहि ब्रह्मणस्पत इत्याह ब्रह्मवर्चसमेवावरुन्धे ' ( तै ० सं ० ११५/८/४ ) इति । तथैव शतपथे— ' अथान्तरेणाहवनीयं च गार्हपत्यं च प्राङ् तिष्ठन्नग्निमीक्षमाणो जपति सोपान ९ १ स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिज: ' ( श ० २ | ३ | ४ | ३५ ) । ' यद्वा आहवनीयमुपतिष्ठते दिवं तदुपतिष्ठतेऽथ यद् गार्हपत्यं पृथिवीं तदथैतदन्तरिक्षमेषा हि दिग् बृहस्पतेरेषा हि दिग् बृहस्पतेरेता ह्येतद्दिशमुपतिष्ठते । तस्माद् बार्हस्पत्यं जपति ' ( श ० २ | ३ | ४ | ३६ ) | गोरुपस्थानानन्तरं प्राङ् गार्हपत्याहवनीययोर्मध्ये तिष्ठन्नग्निमीक्षमाणो जपति सोमानमिति । मन्त्रव्याख्यानं तुक्तमेव । सोमानमित्यस्य जप्यस्य तृचस्य प्रयोजनमाह - यद्वेति । आहह्वनीयगार्हपत्योपस्थानाभ्यां द्यावापृथिव्योस्तन्मध्यवर्तिनोऽन्तरिक्षस्य चोपस्थानं कृतं भवति । तस्य देवता-विशेषसम्बन्धं प्रशंसति -- एषा हीति । द्यावापृथिव्योर्मध्ये वर्तमाना येयमूर्ध्वा दिक्, एषा बृहस्पतेः स्वभूता । ' ऊर्ध्वा दिग् बृहस्पतिर्देवता ' । बृहस्पतिब्रह्मणस्पत्योरभेदान्न विरोधः । अतएव दाशतय्यां ' गणानां त्वा " ( ऋ ० सं ० २।२३।१ ) इति ब्रह्मणस्पत्यसुक्तेषु बृहस्पतिः स्तूयते । अध्यात्मपक्षे – हे ब्रह्मणस्पते! वेदस्य तद्वारयितुर्ब्राह्मणस्य च पालक! त्वं तं स्वोपासकं सोमानं त्वदाराधनबुद्धया अभिषोतारं ज्योतिष्टोमादियागानुष्ठातारं स्वरणं शब्दयितारं देवब्राह्मणातिथीनां स्तोतारं दीयतां भुज्यतामिति बृहत्या वाचो वक्तारं वा कृगुहि कुरु धनबुद्धयादिप्रदानेन । कमिव औशिजं कक्षीवन्तमृषिमिव उपमानबोधक इवशब्दो लुप्तो द्रष्टव्यः । यद्वा उशिक् कमनीयं सगुणसाकारं ब्रह्म, ' न यत्र हंसा निरयन्त्यु शिक्क्षया: ' इति श्रीमद्भागवतवचनात् । तत्सम्बन्धी तदीयो भक्त औशिजः कक्षीवान् कक्ष्या रज्जु र विद्यारूपा सास्यास्तीत्यविद्यावान् जीवात्मा शास्त्रीयनियमो वा कक्ष्या तद्वान् नियन्त्रितकार्य करणसंघातो यः परमात्मभक्तस्तमिव । यद्वा मां जीवात्मानं सोमानमभिषोतारं स्वधर्मानुष्ठानेन शुद्धं निर्मलं स्वरणं वेदान्ताभ्यासपरावणं महावाक्यशब्दवन्तं कृणुहि । ' अरुन्मुखान् यतीन् भाष्यसार - मन्त्रार्थं से भाष्यार्थ स्पष्ट है । ब्रह्मणस्पति, कक्षीवान्, सोम आदि शब्दों की व्युत्पत्तियों को भाष्य अवगत कर लेना चाहिये । अध्यात्मपक्ष में- भक्त भगवान् से प्रार्थना करता है कि मुझ नियन्त्रित सगुण भगवद्भक्त को तत्त्वसाक्षात्कार जिस प्रकार कराना चाहो, वैसा कर दो ।