वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 191–200
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 191–200
पृष्ठ 191
पाठ पढ़ें पाठ छिपाएँ
१८१ मन्त्रः २८-२९ ] वेदार्थपारिजात माष्यसहिता नियन्त्रितं नियतात्मानं सगुणभगवद्भक्तं शालावृकेभ्यः प्रायच्छमित्यरुन्मुखत्वस्य निन्दितत्वात् । तत्त्वसाक्षात्कारवन्तं यथा करोषि तथा कुरु । ' तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नारायाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ' ( भ ० गो ० १० ११ ), ' ददामि बुद्धियोगं तं येन मामुपयन्ति ते ' ( भ ० गी ० १०1१० ) इत्यादिश्रीमद्भगवद्गीतावचनात् । -दयानन्दस्तु – ' हे ब्रह्मणस्पते! योऽहमशिजः तं मां सोमानं सुनोति निष्पादयत्योषधिरसान् विद्यासिद्धीश्च येन तं स्वरणं सर्वविद्याग्रप्रवक्तारं कृगुहि सम्पादय । कक्षेषु विद्याध्ययनकर्मसु साध्वो नीतिः कक्ष्या, सा बह्वो विद्यते यस्य विद्यां जिघृक्षोः, तं भूमार्थ मतुप् । ' संज्ञायां मत्रौ सम्प्रसारणम् ' ( पा ० सू ० ६।१।३७ ) इति स्थलीयेन वार्तिकेन सम्प्रसारणादेशः । यः सर्वा विद्या वष्टि स उशिक् तस्य विद्यापुत्र इव ' इत्यादि, तच्चाविचारितरमणीयम् प्रसिद्धस्य औशिजस्य कक्षीवतो दीर्घतमसः पुत्रस्यार्थस्य परित्यागेऽर्थान्तरस्य कल्पने मानाभावात् । उशिकपदवाच्यापि तस्यर्षेर्मातृत्वेन प्रसिद्धा काचित् स्त्रीति उशिक्पदेन सैव ग्राह्या । अन्यथा सर्वा विद्या एकां वा विद्यां परमेश्वरं धनं वा वष्टोति विनिगमनाविरहाद् उशिपदार्थोऽनिर्णीत एव स्यात् । कक्षेषु विद्याध्ययनकर्मसु साध्वी नीतिरित्यप्यर्थो निर्मूल एव मानाभावात् । यत्तु कश्चित् - ' सोमानमित्यत्र छान्दसो मनिःप्रत्यय औणादिकप्रत्ययस्वरेणान्तोदात्तः । कर्तर मनिप्रत्ययं व्याचक्षाणौ उव्वटमहीधरी स्वरदोषान्न रमणीयो ' इति, तत्तुच्छम् नित्वादाद्युदात्तत्वे प्राप्तेऽपि ' उञ्छादीनां च ' ( पा ० सू ० ६ | १ | १६० ) इत्यन्तोदात्तस्त्ररसिद्धौ बाधाभावात् । किञ्च यथा छान्दसत्वाद् मनिप्रत्ययः साध्यते, तथैव छान्दसत्वेनान्तोदात्तत्वमपि किं न साध्यते? प्रक्रिया गौरवापेक्षया स्वरस्य छान्दसत्वाश्रयणे लाघवात् । यत्तु केनचित् - ' यत्तु सायणभाष्ये ( ऋ ० १११८१ ) ' भवेच्छन्दसि ' इति यप्रत्यय प्रत्ययस्वरेण ईकार उदात्तः ' इति, तदयुक्तम्, ' भवेच्छन्दसि ' ( ४ | ४ | ११० ) इत्यत्राधिकारप्राप्तो यत्प्रत्यय एव सर्वसम्मतः । अतो यप्रत्ययेनेष्टस्वर सिद्धेरपि यत एव सर्वसम्मतत्वात् छान्दसत्वादेवेष्टस्वर सिद्धिरिति साधीयान् स्यात् ' इति, तदपि तुच्छम् यप्रत्ययेनेष्टस्वर सिद्धी छान्दसत्वाश्रयणस्यायुक्तत्वात् तस्यागतिकगतित्वाच्च ॥ २८ ॥
यो दे॒वाना॒ यो अ॑व॒हा व॑सु॒वित् पुष्टिवर्धनः । स न॑ः सिषक्तु यस्तुरः ॥ २ ९ ॥
यो ब्रह्मणस्पतिः, रेबान् रं धनं तद्वान् धनवान् । यश्चामोवहा व्याधिहन्ता । वसुविद् वसुनो धनस्य सारासारतां वेत्ति जानाति वेदयति च ददाति च स्तोतृभ्यो भक्तेभ्यः स वसुवित् । पुष्टिवर्धनः पुष्ठैः पोषणस्य वर्धयिता । यश्च तुरः स नोऽस्मान् सिषक्तु सेवताम् । ' सिषक्ति सचते इति सेवमानस्य ' ( नि ० ३।२१ ) । स्वामी दयानन्द ने स्व - कल्पित अर्थ करके प्रसिद्ध अर्थ का परित्याग अकारण ही किया है । अतः उस अर्थ को प्रामाणिक नहीं कह सकते । किसी आधुनिक व्याख्याकार ने ' सोमानम् ' शब्द की व्युत्पत्ति के प्रदर्शन में जो व्याकरण का पाण्डित्य बताया है, वह उपहासास्पद ही हो गया है । कुछ आधुनिक व्याख्याकार अपनी अल्पज्ञता को न पहिचान कर उव्वट - महीघर-सायणादि महान् आचार्यों की हँसी उड़ाने का प्रयत्न करते हैं, किन्तु सूर्य पर धूलिप्रक्षेप के समान वे स्वयं ही अपने को हँसी का पात्र बना लेते हैं ॥ २८ ॥
पृष्ठ 192
पाठ पढ़ें पाठ छिपाएँ
१८२ शुक्लयजुर्वेद संहिता [ अ ० ३ अविलम्बेन स्तोतॄणां कामपूरकस्त्वरणस्तूर्णकारी पूर्वोक्तधनवत्त्वादिगुणविशिष्टो ब्रह्मणस्पतिः बृहस्पतिः, तेनोपलक्षितः परमात्माऽस्मान् सेवतां सेवनीयविशेषणीभूतगुणादिवस्तुप्रदानेनानुगृह्णातु इत्यर्थः । प्रभूणां सेवकेष्वनुग्रहणमेव तत्सेवनम् । यद्यद्गुणो देव उपास्यते तत्तद्गुणाः फलरूपेणोपासकायोपतिष्ठन्ते । विशेषणी-भूतैर्गुणैः समवेतं कुरु, गुणादिसर्वानपेक्षस्य देवस्य परमबृहतः परमानन्दस्य नित्यनिरस्तसर्वानर्थस्य गुण-सम्पादितानां महत्त्वातिशयानन्दातिशयाधानानर्थनिबर्हणादीनां कृत्यानामसम्भवेन भक्तार्थमेव गुणधारणसम्भवात् । यद्वानेन मन्त्रेण पुत्रः प्रार्थ्यते - हे ब्रह्मणस्पते! यः पुत्रो धनवान् यश्च व्याधिहन्ता लब्धधनस्य पुष्टेश्च वर्धयिता यश्चतुरः शीघ्रकारी त्वत्प्रसादात् सोऽस्मान् सेवताम् । कालातिक्रमो हि प्रत्यनं रसं पिबति । तथा च राजनीतिः -' आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः । क्षिप्रम क्रियमाणस्य कालः पिबति तद्रसम् ॥ ' इति । अन्यस्त्वनेन मन्त्रेण परमेश्वराद् राजा काम्यते । ' हे वेदपते! यो धनवान् रोगाणां दोषाणां च निरसिता रत्नानां ज्ञाता वासयोग्यस्थानानां नगरग्रामादीनां लोकलोकान्तराणां च ज्ञाता शरीराणां वर्धयिता यश्चाविलम्बेन यथाकालं कार्याणां सम्पादयिता स राजा मह्यं प्राप्तोऽस्तु ' इति परं नैतन्मनोरमम् । शब्दानां यथा तथा योजनेनानेकेऽर्था लापयितुं शक्यन्ते । अत एव श्रीमद्भागवतटीकाकृता वंशीधरेण तदीयाद्यपद्यस्य जन्माद्यस्य यत इत्यस्याष्टोत्तरशतसंख्याका अर्थाः प्रदर्शिताः । तथापि यत्परः शब्दः स शब्दार्थः ' इति न्यायेन शब्द-तात्पर्यानुसारेणार्थी युज्यते । राज्ञश्च समष्टिराज्यस्योपकारकत्वेन नैककामनास्पदत्वं सम्भवति । तस्मात् पुत्रकामनापरत्वे देवविशेषणानुभूत फलपरत्वेनैव वा मन्त्रव्याख्यानं युक्तम्, अग्निहोत्रादिकर्मणां प्रातिस्विक प्राति स्विक फलपरत्वस्यै वौचित्यात् । अध्यात्मपक्षे — यः परमेश्वरः सगुणो निर्गुणः, साकारो निराकारो वा रेवान् विविधैश्वर्यमाधुर्यादि-गुणोपेतः, अमीवहा विविधानामाध्यात्मिकाधिभौतिकादिजरामरणक्रामक्रोधादिरोगाणां हन्ता ब्रह्मज्ञानरूपस्य वसुनो धनस्य वेदयिता पुष्टिवर्धनलब्धज्ञानदाढर्यस्य वर्धयिता तुरः त्वरावान् द्रौपद्यास्त्राणे गजोद्धरण इव वा अविलम्बेनाभीष्टकार्यसाधकः, ' या त्वरा द्रौपदीत्राणे या त्वरा गजमोक्षणे । मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे || ' इत्याप्तोक्तेः । स त्वं नोऽस्मान् सिषक्तु मदभीष्टभक्तिज्ञानवैराग्यादिभिरस्मान् समवेतान् कुरु । दयानन्दस्तु –‘यो रेवान् अमीवहा वसुवित् पुष्टिवर्धनो यस्तुरो ब्रह्मणस्पतिरीश्वरः स नोऽस्मान् शुभैर्गुणैः कर्मभिश्च सह सिषक्तु संयोजयतु ' इति, तदपि न, गुणैः कर्मभिश्चात्मनः संयोगासम्भवात् द्रव्ययोरेव संयोग-नियमात् ॥ २ ९ ॥ मन्त्रार्थ - धनवान्, रोगहारक, धन को जानने वाला, पुष्ट करने वाला और शीघ्र कार्य करने वाला जो ब्रह्मणस्पति है, वह हमारा सेवन करे, अर्थात् वह हमें प्राप्त हो ॥ २ ९ ॥ भाष्यसार– स्वामी का अपने सेवक पर जो अनुग्रह होता है, वही स्वामी के द्वारा सेवक का सेवन ( सेवा ) है । जिस - जिस गुण के कारण देवता की उपासना की जाती है, वे वे गुण फल के रूप में उपासक को प्राप्त होते हैं । अध्यात्मपक्ष में- जो परमेश्वर साकार - निराकार, अनेक ऐश्वर्यमाधुर्यादि गुणों से युक्त और विविध रोगों का नाशक, ज्ञान - विज्ञान का वर्धक और कार्य को शीघ्र करने वाला है, वह परमेश्वर हमें हमारे अभीष्ट भक्ति, ज्ञान, वैराग्य आदि गुणों से युक्त कर दे स्वामी दयानन्द ते जो अर्थ किया है, वह ठीक नहीं है, क्योंकि वे ' द्रव्य - द्रव्ययोरेव संयोग: ' इस नियम को भूल गये हैं ॥ २ ९ ॥
पृष्ठ 193
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ३० ] वेदार्थपारिजातभाष्यसहिता
मा नः॒ शा॑सो॒ अर॑रु॒षो धृतिः प्रण॒मय॑स्य । रक्ष णो ब्रह्मणस्पते ॥ ३० ॥
१८३ अररुषो दानादिधर्मरहितस्य मर्त्यस्य कृपणमनुष्यस्य शंसोऽनिष्टचिन्तनम्, तत्कृता धूर्तिहिंसा च नोऽस्मान् ) ' रा मा प्रणम् मा व्याप्नोतु मा नाशयतु वा । हे ब्रह्मणस्पते अग्ने! अस्मान् रक्ष । रराविति ररिवान् ( दानवान् अररुष दाने ' इत्यस्माद् धातोः क्वसुनि प्रत्यये ररिवानिति रूपम् । तस्यैव षष्ठ्यां ररुष इति रूपम् । नञ्योगे इति रूपम् । णशिर्व्याप्त्यर्थं कोऽदर्शनार्थं कश्च । धूर्वतिर्वधकर्मसु पठितः । अररुषोऽदानशीलस्येत्यत्रादानमिति हमने च प्रवृत्ति-दानादिधर्मरहितस्योपलक्षणम् । दानादिधर्मरहितस्य परलोकबुद्ध्यभावेनान्येषामनिष्ट चिन्तने सम्भवान्न केवलस्यादानवतस्तत्त्वस्याभावमूलकत्वस्यापि सम्भवात् । यद्वा काण्वसंहितास्थसायणभाष्यरीत्या हे ब्रह्मणस्पते! अररुषः कदाचिदपि हविर्दानमकृतवतो यज्ञदानादिशून्यस्य मर्त्यस्य मनुष्यस्य शंसः प्रशंसिता धूर्तिः कर्माननुष्ठानप्रशंसारूपेण धौर्त्येन युक्तः पुत्रो नोऽस्मान् मा प्रणम् मा व्याप्नोतु मा प्राप्नोतु ।, नोऽस्मान् मा विनाशयतु वा । हे ब्रह्मणस्पते! नोऽस्मान् रक्ष नास्तिकः पुत्रो यथा नोत्पद्येत तथा पालय अध्यात्मपक्षे तु हे ब्रह्मणस्पते वेदरक्षक विष्णो श्रीराम श्रीकृष्ण वा, अररुषः स्वसर्वस्वमनिवेदयतो देहादितादात्म्याध्यासेन मरणधर्मकस्य बहिर्मुखस्य शंसः अनिष्टचिन्तनं धूर्ति: हिंसा चास्मान् मा प्रणम् मा । पृणक्तु । अस्मान् ब्रह्मात्मनिष्ठादाढर्यसम्पादनेन रक्ष दयानन्दस्तु - ' हे ब्रह्मणस्पते! भवत्कृपया नोऽस्माकं शंसो मा प्रणक् कदाचिन्मा प्रणश्यतु । या अररुषः परस्वादायिनो मर्त्यस्य धूर्ति हिसास्ति तस्याः सकाशादस्मान् सततं रक्ष ' इति, तदपि न सङ्गतम् शंस इत्यनेन वेदविद्याग्रहणे मानाभावात् । अररुष इत्यस्य परस्वादानं नार्थः, रातेर्धात्वर्थाननुगमात् । एवमेव मूले प्रथमान्तस्य धूर्तिपदस्य पञ्चम्यन्तत्वेन विपरिणामस्तस्या इत्यध्याहारो वा अप्रामाणिक एव । ऋक्संहिता सायणभाष्यरीत्या तु अररुषो मर्त्यस्य उपद्रवं कर्तुमस्मत्समीपं प्राप्तस्य शत्रुरूपस्य मनुष्यस्य धूर्तिः हिंसकः शंसः शंसनमधिक्षेपस्तादृशो वाग्विशेषः नः अस्मान् मा प्राग् मा सम्पृणक्तु शत्रुणा प्रयुक्तोऽधिक्षेपः कदाचिदस्मान् मा प्राप्नोतु । तदर्थं हे ब्रह्मणस्पते! नोऽस्मान् रक्ष पालय । ' अर्तेररु: ' ( उ ० सू ० ४।५१ ९ ) । अन्तर्भावितण्यर्थात् ' ऋ गतौ ' इत्यस्माद् अररुष इति रूपम् । धूर्तिः, धूर्वी हिंसार्थ: । प्रणक ' पृची सम्पर्चने ' इत्यस्माल्लङि तिपि ' इतर ' ( पा ० सू ० ३ | ४ | १०० ) इतीकारलोपे हलुङयादिलोपे कुत्वे ' रुधादिभ्यः श्नम् ' ( पा ० सू ० ३ | १ | ७८ ) तस्य ' व्यत्ययो बहुलम् ( पा ० सू ० ३ ( १८५ ) इत्यडागमे यणादेशेऽकारस्य आगमानुदात्तं बाधित्वा व्यत्ययेनोदात्तत्वे ' चादिलोपे विभाषा ' ( पा ० सू ० ८ | १: ६३ ) इति निघाताभावः । यत्तु – ' मन्त्रे घसरणश 7 ( पा ० सू ० २/४/८० ) इति णश्धातोर्लेलुग्विधानात् तदयुक्तम् ' इति, तत्तुच्छम्, णशधातोस्तादृग्रूपसिद्धावपि प्रकृते तदर्थासम्भवेन पृचे रूपसाधने दोषाभावात् । यत्तु पदमञ्जरीन्यास-कारादयः ‘ प्रणङ् मर्त्यस्य ' इति प्रकृतमन्त्रस्यैवोदाहरणं प्रदर्शयन्तीति तदपि न किञ्चित्, णशेव्र्व्याप्त्यर्थतायां तदुक्तेरपि निर्दोषत्वात् । सम्पर्कार्थे क्लृप्तार्थस्य पृचेर्ग्रहणे मन्त्रस्य स्वारस्याधिक्यादेव सायणाचार्योक्तिर्विजयते-मन्त्रार्थ - कभी भी हविर्दान न करनेवाले मनुष्य के द्वारा किया जानेवाला हमारे सम्बन्ध में जो अनिष्ट चिन्तन और हिंसा है, वह हमारा विनाश न करे । हे ब्रह्मणस्पते वेदपालक अग्ने! तुम हमारी रक्षा करो ॥ ३० ॥
भाष्यसार - हमारे कुल में ऐसा धूर्त पुत्र न हो, जो यज्ञ दान न करनेवाले की मी कर्मानुष्ठानरूप मिथ्या प्रशंसा करे । हे ब्रह्मणस्पते! नास्तिक पुत्र हमारे कुल में उत्पन्न न हो, उस तरह हमारी रक्षा करो ।
पृष्ठ 194
पाठ पढ़ें पाठ छिपाएँ
III शुक्लयजुर्वेदसंहिता [ अ ० ३ तराम् । पाणिनिसूत्रं णशेः प्रणागति रूपं साधयति, नास्य धात्वन्तरात् प्रकारान्तरेण वा सिद्धि वारयति, वाक्यभेदप्रसङ्गात् । यदपि च पृचीधातोः प्र इति रेफस्य कथं निर्वृत्तिः स्यादिति, तदपि न किञ्चित् छन्दसि दृष्टानुविधित्वेन तन्निर्वृत्तौ बाधाभावात् । आश्चर्यमिदं यद् यः पदे पदे ' अर्थनित्यः परीक्षेत यथार्थं विभक्तीः सन्नमयेत् ' ( नि ० २1१ ) इत्यादीनि वचनान्याश्रित्य यथेष्टं मन्त्रेषु स्वैरित्वं प्रदर्शयति, स एव सायणाचार्य -स्यार्थप्राधान्येन परीक्षणे दोषमाविष्करोति ॥ ३० ॥
महि॑त्रा॒णामवो॑स्तु॒ द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दुराधर्षं वरुणस्य ॥ ३१ ॥
सत्यधृतिदृष्ट आदित्यदेवत्यस्तृचो गायत्रीजपे विनियुक्तः पथिजातोपद्रवनाशकश्चेति महीधरः । एतदपि सूक्तमन्तराग्नी तिष्ठन् जपेत् । मित्रस्यार्यम्णो वरुणस्येति त्रीणां त्रयाणामादित्यानामवः अवनम्, तत्कर्तृक-पालनमस्तु । ' त्रेरामि छन्दसि त्रयादेशो वेति वाच्यम् ' ( पा ० सू ० ७ १ ५३ ) इति स्थलीयेन वार्त्तिकेन त्रीणामिति रूपसिद्धिः । कीदृशं पालनम्? महि महत् सर्वापद्विनाशकम् । द्युक्षं द्युमन्ति सुवर्णरत्नादीनि द्रव्याणि क्षियन्ति निवसन्ति यस्मिन् पालने तादृशं पालनम् । पुनः कीदृशम्? दुराधर्षम्, अन्यैर्दुराधर्षयितुं तिरस्कर्तु-मशक्यम्, अर्थाद् मित्रार्यमवरुणास्त्रय आदित्या देवा एवंविधं पालनं कुर्वन्तु, येन सर्वापद्विनिवारणम्, रत्नसुवर्णा-दिदीप्तिमद्धनलाभः, असुरराक्षससर्पव्याघ्राद्युपद्रवादिनिवारणं च भवेत् । अध्यात्मपक्षे तु साधका भगवन्तं प्रार्थयन्ते - त्रीणां त्रयाणां त्रिविधानां मानसवाचिककायिककर्मणा-मवोऽवनं रक्षणं भगवत्यर्पणेन भवतु, भगवदर्पणमन्तरा तेषां संसारहेतुत्वेन नैरर्थक्यापातात् । अन्यस्तु सायणादिव्याख्यानानुसार्यर्थमेव गृहीत्वा तत्र स्वाभिप्रेतमर्थं संयोज्य मित्रपदेन रक्षाविभागम्, अर्यमशब्देन न्यायविभागम्, वरुणशब्देन च योद्धृवगं गृह्णाति । त्रयाणां विभागानामच्छेद्यमाज्ञापालन मस्ति, तच्च तत्कल्पनामात्रमूलकम् । तथा च शातपथी श्रुतिः - ' महित्रीणामवोऽस्तु । द्युक्षं मित्रस्यार्यम्णो दुराधर्षं वरुणस्य नहि तेषाममाचन नाध्वसु वारणेषु । ईशे रिपुमघशसः । ते हि पुत्रासोऽदितेः प्र जीवसे मर्त्याय ज्योतिर्यच्छन्त्यजत्रमिति तत्रास्ति नाध्वसु वारणेष्वित्येते ह वा अध्वानो वारणा य इमेऽन्तरेण द्यावापृथिवी एतान् ह्येतदुपतिष्ठते । तस्मादाह नाध्वसु वारणेष्विति ' ( श ० २ | ३ | ४ | ३७ ) | महित्रीणां ३१, नहि तेषाममाचन ३२, अध्यात्मपक्ष में — हे ब्रह्मणस्पते वेदरक्षक! हे विष्णो! हे श्रीराम! हे श्रीकृष्ण! जिसने आपके चरणारविन्द पर अपना सर्वस्व अर्पित नहीं किया, अर्थात् देहादि तादात्म्याध्यास के कारण मृत्युधर्मा बहिर्मुख व्यक्ति के द्वारा किया afg चिन्तन और हिंसा का हमें स्पर्श तक न हो । ब्रह्मात्मनिष्ठ दृढता सम्पादन कराकर हमारी रक्षा करो || स्वामी दयानन्दोक्त अर्थ मन्त्रगत शब्दों का न होने से तथा विपरिणाम, अध्याहार आदि का स्वीकार करने में कोई प्रमाण न होने से त्याज्य है ॥ ३० ॥
मन्त्रार्थ - मित्र, अर्थमा और वरुण ये तीनों हमारा रक्षण करें । वह रक्षणसामर्थ्य ( बल ) महान् हैं और उसमें सुवर्णानि द्रव्य निवास करते हैं । दूसरे के द्वारा उसका तिरस्कार करना शक्य न हो पाय, अर्थात् अशक्य रहे ॥ ३१ ॥
भाष्यसार -- मित्र, अर्यमा और वरुण ये तीनों देवता ऐसा पालन करें, जिससे सर्वविध विपत्तियों का निवारण हो जाय और रत्न- सुवर्णादि धन का लाभ होता रहे ।
पृष्ठ 195
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ३१-३२ ] वेदार्थपारिजात भाष्यसहिता १८५ तत्सवितु ३३ रिति तृचस्य प्रयोजनमाह । तत्र न अध्वसु वारणेषु इत्यस्ति । तस्याभिप्रायो वण्यते-- एते ह वेति । द्यावापृथिव्योर्मध्ये य इमेऽध्वानो वितताः एते खलु पुरुषस्य फलप्राप्तिवारणाय भवन्ति । अतो द्यावापृथिवीसंस्तुतयोर्गार्हपत्याहवनीययोर्मध्ये स्थित्वा इमं तृचं जपन् एतानेव मार्गानुपतिष्ठते । एवमध्वना-मुपस्थितत्वात् तं न कोऽपि वारयितुमीश्वरः । मित्रवरुणार्यम रक्षितानां तेषां यष्टृणाम् अघशंसो रिपुः पृथिव्यन्तरिक्षदिव्यमार्गेषु वारणेषु न ईशे समर्थो भवति । ते मित्रादयः अदितेः पुत्रासो भवन्ति । ते मर्त्या यज्ञकर्तुर्यजमानस्य जीवसे जीवनाय अजस्रं ज्योतिः प्रयच्छन्ति । द्यावापृथिव्योर्मध्ये ये वितता मार्गाः सन्ति, ते वारणाः पुरुषस्य फलप्राप्तौ वारणा बाधका भवन्ति । एतेषु विद्यमाना असुरादयो नाष्ट्राः स्वर्गगतौ प्रतिबन्धकाः, अतः स्वर्गगमने बाधावारणाय गार्हपत्याहवनीययोर्द्यावापृथिवीरूपयोर्मध्ये स्थित्वा अस्य तृचस्य जन मार्गानेोपतिष्ठते । तस्मात्तन्मार्गेभ्योऽपसारणे न कोऽपि समर्थो भवति । दयानन्दस्तु - ' हे ब्रह्मणस्पते! तव कृपया मित्रस्य बाह्याभ्यन्तरस्य प्राणस्य अर्यम्णः, य ऋच्छति नियच्छत्या कर्षणेन पृथिव्यादीन् सोऽर्यमा सूर्यलोकस्तस्य वरुणस्य वायोर्जलस्य वा च त्रीणां त्रयाणां सकाशान्नोऽस्माकं द्युक्षं दुराधर्षं महि महदवोऽस्तु } द्यौर्नीतिः प्रकाशः क्षियति निवसति यस्मिंस्तत् द्युक्षम् ' इति, तदेतच्छतपथश्रुतविरुद्धमेव । यद्येते मित्रादयो भयहेतवस्तस्मादेतेषां सकाशादात्मरक्षाभिप्रेता, तदा तेषां भयहेतुत्वे कारणं वाच्यम्, यतो हि तेषामुपकारकत्वस्यैव प्रसिद्धिः । यद्येतेषां रक्षकत्वेनैतेषां सकाशाद् रक्षण-मभीष्टम्, तदापि तव कृपयेत्यस्य स्वारस्यं वाच्यम्, परमेश्वरकृपयैव रक्षोपपत्ती तदपेक्षणस्याकिञ्चि-त्करत्वात् ॥ ३१ ॥
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे रि॒पुर॒घश॑सः ॥ ३२ ॥
अमा चन गृहेऽपि वर्तमानानाम्, अमाशब्दस्य गृहनामसु पठितत्वात् । अपीत्यर्थे चनशब्दः । मित्रार्यमवरुण-स्त्रिभिर्देवैः पालितानां यजमानानामुपद्रवार्थमिति शेषः । अघशंसः पापप्रशंसको रिपुः, न ईशे न समर्थो भवति । तथा वारणेषु चोरव्याघ्रादयो यत्र स्थिता निवारयन्ति पथिकान् ते वारणास्तेषु येषु चोरव्याघ्रादिभयवशा-निवारितेष्वपि अध्वसु चोरव्याघ्राद्युपद्रुतेषु मार्गेषु रिपुर्नेशे अनिष्टसम्पादनाय समर्थो न भवति, मित्रादिदेव-पालितानां गृहेऽरण्ये वा शत्रुचोरव्याघ्रादिकृता बाधा न भवतीत्यर्थः । तथैव परमेशपालितानां कामक्रोधादीना-मान्तराणां बाह्यानां च रिपूणां न भवतीति । अध्यात्मपक्ष में-- साधक भक्त अपने भगवान् से प्रार्थना करते हैं कि हमारे मानस, वाचिक और कायिक कर्म सर्वदा भगवान् के अर्पण होकर ही चलते रहें । किसी अन्य व्याख्याकार ने सायणाचार्य के अर्थ की छाया का आश्रय लेकर अपनी कल्पनाओं का मिश्रण कर दिया है, जिससे वह शतपथश्रुति के प्रतिकूल हो गया है । स्वामी दयानन्द की व्याख्या भी शतपथश्रुति के विरुद्ध ही है । अतः वह भी उपेक्षा के ही योग्य है ॥ ३१ ॥
मन्त्रार्थ- -घर में रहनेवाले तथा चोर और व्याघ्रों के भय से पूर्ण मार्ग में रहने वाले यजमानों को उपद्रव पहुँचाने के लिये पापकर्म की बड़ाई मारनेवाला शत्रु समर्थ नहीं होता, क्योंकि मित्र, अर्थमा और वरुण इन तीन देवताओं से उस यजमान की रक्षा की गई है ॥ ३२ ॥
२४
पृष्ठ 196
पाठ पढ़ें पाठ छिपाएँ
१८६ शुक्लयजुर्वेद संहिता [ अ ० अन्यस्तु - ' तेषां राष्ट्रवासिनां गृहेषु मार्गेषु शत्रुचोरव्याघ्रादिनिवारकेषु कार्येषु पापकर्मोपदेशका दुष्टाः षड्यन्त्रकारिणो बलवन्तो न भवेयुरितीश्वरः प्रार्थ्यते । सङ्गतिनैरपेक्ष्येण व्याख्याने केनापि पदेन स्वाच्छन्द्येन किमपि ग्रहीतुं शक्यते, अन्यथा तेषां पदेन कथमिव राष्ट्रवासिनां ग्रहणम्? मार्गवाचकस्य अध्वपदस्य सत्त्वेऽपि तस्य तद्विशेषणस्य वारणशब्दस्य व्याघ्रादिनिवारककार्यपरत्वयोजनमुच्छृङ्खलत्वमेव । यत्तु –'शंसनं शंसः, भावे घञ् । अघस्य पापस्यैव शंसश्चिन्तनं कथनं वा यस्येति बहुव्रीहिसमासे पूर्वपद-प्रकृतिस्वर: ' इति, तन्न तथात्वेऽघशंसपदस्य शत्रुबोधकत्वासम्भवात् । अघस्य शंसश्चिन्तनं कथनं वा अघजिहासोरपि सम्भवति । अतोऽत्र शत्रुविवक्षया अघं पापं शंसति, अथवा अधेनं तीव्रपापेन भक्षणादिना शंसो घातक इत्येवार्थो युक्तः । यत्त्वत्र बहुव्रीहेरभावात् पूर्वपदप्रकृतिस्वराभावो दोष इति, तन्न, ' तत्पुरुषे तुल्यार्थतृतीया-सप्तम्युपमानाव्ययद्वितीयाकृत्याः ' ( पा ० सू ० ६ २ २ ) इत्यादिभिः पूर्वपदप्रकृतिस्वरत्वोपपत्तेः । दयानन्दस्तु – ' हे ब्रह्मणस्पते! य ईश्वरोपासकास्तेषां गृहेषु अध्वसु वारणेषु चनाप्यघशंसो रिपुर्नप-तिष्ठते न खलु तान् क्लेशयितुं शक्नोति तं तांश्चाहं प्राप्तुमोशे ' इति, तन्न तच्छब्दस्य प्रकृतपरामशित्वात् । पूर्वमन्त्रे ईश्वरोपासकानामप्रकृतत्वेन तदसङ्गतेः । गृहेष्वध्वसु इत्याभ्यामेव पदाभ्यां गृहे मार्गे च रिपुकृत-बाधाभावेनैव चोरव्याघ्रादिबाधावारणेन वारणेष्वपि रिपुबाधाभावोपपत्तौ वारणेष्वित्यस्य वैयर्थ्यापत्तेः, तस्माच्चीराद्युपद्रुतेषु मार्गेषु शत्रुकृतबाधाभावसिद्धयेऽध्व विशेषणत्वेनैव तद्योगस्यौचित्यात् । अध्यात्मपक्षे तु – मित्रस्य सर्वमित्रस्य परमात्मनः, अरीनन्तरङ्गान् कामादीन् बहिरङ्गानग्निदगरदान् नियच्छतीत्यर्यमा आदित्यः । तस्य आदित्य मण्डलान्तर्गतस्य पुरुषस्य अरीणां तमसामज्ञानानां वा नियन्तुः अर्यम्णः सूर्यस्य महावाक्य जन्यवृत्त्यारूढस्य संशयविपर्ययविप्रतिपत्त्यज्ञानाद्यपनोदकस्य ' अर्यमा आदित्योऽ-रीन्नियच्छतीति ' ( नि ० १११२३ ) | वरुणस्य वरणीयस्य सर्वसम्भजनीयस्य सर्वप्राणिपरप्रेमास्पदस्य प्रत्यक्-चैतन्याभिन्नस्य इत्येतेषां भगवद्रूपाणां सम्बन्धी अवस्तत्कर्तृकं मत्कर्मकं पालनमस्तु । कीदृक् तत्पालनम्? महत् सर्वोत्कृष्टं तदपेक्षयेतरदेवमनुष्यादिकर्तृकं रक्षणं तु लघ्वेव तद्रक्षितानामपि पराभवदर्शनात् । द्योतमानाः शमादयो गुणा रत्नसुवर्णादयः पदार्थाः क्षियन्ति निवसन्ति यस्मिंस्तद् दुराधर्षं केनापि धर्षयितुमशक्यम् । तच्चावनं सर्वापद्भयः कामक्रोधादिभ्योऽन्तरङ्गेभ्यो बहिरङ्गेभ्यश्च शत्रुभ्यः, अविद्यापनोदनेना विद्यातत्का-र्यात्मकात् संसाराच्च संसरणं मास्त्विति । मित्रस्य नन्दस्य व्रजराजपुत्रस्य अर्यम्णः पूतनादिकं सान्तानरीन्नियच्छतस्तव कृष्णस्य । यद्वा अयं स्वामिनं राजानम्, ' अर्यः स्वामिवैश्ययोः ' ( पा ० सू ० ३ | १ | १०३ ), निर्मिमीते कंसस्य स्थाने तत्पितुरुग्रसेनस्य राज्ञो निर्माता अर्यमा, तस्य तव त्वदुपलक्षितस्य यदुकुलस्य वरुणस्य वरणीयस्य संभजनीयस्य भगिनीपुत्रत्वात् स्नेहास्पदस्य पाण्डवकुलस्य त्रयाणां रक्षणमस्तु । यद्वा नित्रस्य युधिष्ठिरस्य, अर्यम्णो निवातकवचादिघातकस्य भीमार्जुनयुगलस्य वरुणस्य लोकस्पृहणीयस्य नकुल सहदेवयुगलस्य रक्षणमस्त्वित्यादिकं यद्यपि भगवच्चरित्र -भाष्यसार -- मन्त्रार्थ से ही भाष्य का अर्थ स्पष्ट हो रहा है । किसी अन्य व्यक्ति ने जो व्याख्या की है, वह व्याकरण नियमों के विरुद्ध है, तथा सङ्गति - रहित होने से उसमें उच्छृङ्खलता के सिवाय ग्राह्य अंश कुछ भी नहीं है । स्वामी दयानन्द की व्याख्या भी उन्हीं दोषों से पूर्ण है । अतः उसे त्याज्य ही समझना चाहिये ।
पृष्ठ 197
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ३३ ] वेदार्थपारिजातभाष्य सहिता १८७ परत्वेन स्पृहणीयं व्याख्यानम्, तथापि न तन्मन्त्राक्षराणां स्वारसिकं व्याख्यानम्, किन्तु बलादिवाभिमतेऽर्थे योजनम्, क्लिष्टकल्पनाबाहुल्यात् ॥ ३२ ॥
ते हि पु॒त्रासो॒ अदि॑तेः प्र जा॒वसे॒ मर्त्याय । ज्योति॒र्य॑च्छ॒त्यज॑स्रम् ॥ ३३ ॥
कस्मान्मित्रादिदेव रक्षितानां गृहे बने वा शत्रवादिभयाभावः 1 यतस्तेऽदितेरखण्डितायाः शक्तेर्देवमातुः पुत्रासः पुत्रा मित्रार्यमवरुणा मर्त्याय मनुष्याय यजमानाय प्रजीवसे चिरं जीवनाय अजस्रं निरन्तरमनुपक्षीणं ज्योतिर्ज्ञानरूपं तेजः प्रयच्छन्ति । किमर्थम्? जीवसे यथा चिरं जीवनं भवति तथा त उपायज्ञानं प्रयच्छन्ती-त्यर्थः । विशिष्टशक्तिरूपाया अदितेः पुत्रत्वाद् विशिष्टशक्तिमन्तस्तेऽतस्तद्रक्षितत्वादेव तद्रक्षितानां भयाभावः । दीर्घजीवनोपायज्ञानरूपानुपक्षीणज्योतिः प्रदातृत्वाच्च तद्रक्षितानामकुतोभयत्वम् । अध्यात्मपक्षे तु ते पूर्वोक्ता मित्रादयो देशकालवस्तुपरिच्छेदशून्याया ब्रह्मरूपायाः स्वच्छसंविदः पुत्रासस्तदवस्थाविशेषाः । तस्या एव पूर्वोक्ताया मित्रार्यमवरुणा अवस्थाविशेषविशिष्टरूपाः । अत एव विशेषानुग्रहेण मर्त्याय जीवसे ब्रह्मात्मभावानुप्राणनाय अजस्रमनुपक्षीणज्ञानज्योतिः प्रयच्छन्ति । गोपा यादवाः पाण्डवा मित्रार्यमवरुणा अदितेः पुत्रास्ते मर्त्येभ्योऽजस्रं ज्योतिर्ज्ञानं प्रयच्छन्ति प्रददति, येन तैर्देशितभगवद्भक्ति-मार्गाः प्रभुमाराधयन्तः ससुखमुपजीवन्ति । तेषामाचरणेन ज्योतिः प्राप्तौ सत्यामपि तद्दाने तेषामन्यथासिद्धतैव, तथापि दयानन्दीयव्याख्यानादुत्कृष्टतरमेव । स्वामिदयानन्दस्तु – ' ये अदितेः पुत्रास्ते मर्त्याय जीवसे अजस्रं ज्योतिः प्रयच्छन्ति ' इति, तच्च तद्रीत्या कथं मित्रादयः कारणशक्तेः पुत्राः, सर्वस्यैव कार्यस्य तत्पुत्रत्वेन पुत्रत्वा वैशेष्यात् । अन्यस्तु - ' ते मित्रार्यमवरुणाः, अदितेः अखण्डशासनस्य पृथिव्या वा पुत्रान् पापेभ्यो दुःखेभ्यश्च त्रायन्ते मनुष्यजीवनायाविनाशिप्रकाशं प्रयच्छन्ति ' इति, तन्न, मन्त्रे पुत्रास इति प्रथमान्तत्वान्न ते कर्मभूताः । कथञ्चित् व्यत्ययेन तत्स्वीकारेऽपि त्रातृबोधकपदाभावात् ते पृथिव्या अखण्डशास्त्रा शासनस्य वा पुत्रान् त्रायन्ते इति कथमवगन्तुं शक्यते? मन्त्रे दुःखपापबोधकपदमपि नास्ति । ततो यत्किञ्चिदेव तत् । क्वचिददितिशब्देन अध्यात्मपक्ष में- भगवत्कर्तृक रक्षण ही सर्वोपरि रक्षण है, उसकी तुलना में मनुष्यादिकर्तृक रक्षण तो बहुत लघुकोटि का है ॥ ३२ ॥
मन्त्रार्थ - क्योंकि वे मित्र, अर्यमा और वरुण जो हैं, वे उस अखण्डित शक्ति अदिति के पुत्र हैं । अतः वे यजमान को चिरकालतक जीवित रहने के लिये निरन्तर तेज देते रहते हैं ॥ ३३ ॥
भाष्यसार - उक्त तीनों देवता विशिष्ट शक्तिरूप अदिति के पुत्र होने से वे भी विशिष्ट शक्तिसम्पन्न हैं । ऐसे शक्तिशाली उन देवताओं से सुरक्षित होने के कारण ही उन्हें किसी प्रकार के भय की सम्भावना नहीं है । अध्यात्मपक्ष में परिच्छेदरहित ब्रह्मरूपिणी विशुद्ध संवित् की विशेष अवस्था रूप ये मित्र आदि हैं । अत एव वे बहुत अनुग्रह करके मर्त्यं जीव को ब्रह्मात्मभाव के अनुप्राणनार्थं निरन्तर अनुपक्षीण ज्ञानज्योति दिया करते हैं । स्वामी दयानन्द की व्याख्या में कार्य कारणभाव की संगति नहीं हो रही है ।
पृष्ठ 198
पाठ पढ़ें पाठ छिपाएँ
१८८ शुक्लयजुर्वेदसंहिता [ अ ० ३ देशकालवस्तु परिच्छेदशून्यः परमात्मैव बोध्यते । प्रकृते त्वादित्यादिदेवानां माता अखण्डभगवच्छक्तिरूपा कश्यपपत्नीरूपाऽदितिः ॥ ३३ ॥
क॒दाच॒ न स्त॒रीर॑सि नेन्द्र सश्चसि दाशुषे॑ ।
उपेन्नु म॑घवन् भूय॒ इन्द्र॒ ते॒ वात॑ दे॒वस्य॑ पृ॒च्यते ॥ ३४ ॥
इयन्द्री पथ्याबृहती मधुच्छन्दोदृष्टा जपे विनियुक्ता । यस्यास्तृतीयः पादो द्वादशार्णोऽन्ये च त्रयः पादा अष्टाक्षराः सा पथ्याबृहती । हे इन्द्र! परमेश्वर्यशालिन्! त्वं कदाचन कदापि भूयो भूयो याच्यमानो न स्तरीरसि न स्तृणासि । स्तृणातेहिसार्थस्यैतद्रूपम् । न क्रुध्यसि, किन्तु दाशुषे हविर्दत्तवते यजमानाय सश्चसि धनपुत्रादिसमृद्धि प्रापयसि । ' गतिकर्मसु सश्चतिः पठितः ' ( नि ० २।१४।४१ ) । यद्वा द्वितीयार्थे चतुर्थी । दाश्वांसं त्वदनुग्रहार्थमाहुतिप्रदातारं यजमानं सश्चसि सेवसे अभीष्टदानेन प्रीणयसे । ' प्रसमुपोदः पादपूरणे ' ( पा ० सू ० ८११६ ) एक उपशब्दः पादपूरणे । इच्छब्द एवार्थकः । नुशब्दः क्षिप्रवचनः । एवमुपपदं पृच्यत इत्यनेन युज्यते । तथा च हे मघवन्! धनोपलक्षितविविधैश्वर्यवन्! देवस्य प्रकाशमानस्य ते तव भूय इद् बहुतरमेव दानं नु इद् क्षिप्रमेव दाश्वांसमुपपृच्यते । ' पृची सम्पर्के ' यजमानेन सम्पृक्तं भवति । अन्ये याच्ञया क्रुध्यन्ति त्वं पुनर्याच्यमानोऽपि न क्रुध्यसि हविर्दानपरायणं सदा प्राणयसे, त्वत्कर्तृकदानं यजमानेन सम्पृच्यते । तेन त्वत्कृतदानेन त्वद्भक्तः कृतार्थो भवतीत्यर्थः । यद्वा वेदे मात्रा-मात्रस्याप्यानर्थक्यायोगाद् उपोपेत्यस्यात्यन्तसामीप्यमर्थः । उपोप सश्चसि अत्यन्तानुग्रहेण सेवकवज् क्षिप्रमेवातिसमीपमागच्छसीत्यर्थः । कश्चित् राजनिति सम्बोधयन् इन्द्रपदेन राजानमवगच्छति, तथा दाशुष इत्यात्मसमर्पणमभिप्रैति । यद्यपि परमात्मपरत्वे सर्वथापि श्लिष्यते बृहतीयम्, निरङ्कुशस्य परमैश्वर्यस्य तत्रैव सम्भवात् । दाशुषे आत्मसमर्पणं कृतवते भक्ताय एवात्यन्तानुग्रहेणातिसामीप्य मात्मभावमुपयाति - ' ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ' ( भ ० गी ० ४ ११ ) इति रोत्या आत्मसमर्पयित्रे सोऽपि तस्मै स्वात्मानमर्पयति । सामीप्यस्य पर्यवसानमात्मन्येव भवति, तस्यैव सर्वान्तरतमत्वात् । तत्कर्तृकमेवामोघदानं सम्पृक्तं सद् भक्तं कृतार्थयति । ' इन्द्रो मायाभिः पुरुरूप ईयते ' ( ऋ ० सं ० ६।४७ / १८ ) इत्यादिमन्त्रेषु परमात्मन एवेन्द्रशब्देन ग्रहणं भवति । अत्रापि परमार्थदृष्ट्या सर्ववेदादिशास्त्रमहा तात्पर्यविषयत्वेन परमात्मपरैवेयमित्यध्यात्मव्याख्यानम् ' तथापि यज्ञादिव्यावहारिकदृष्ट्या यज्ञदेवतापरैवेयमिति, तथैव माध्यन्दिनाद्युक्तः । देवताया विग्रहवत्त्वेन प्रतिकल्पं भेदेऽपि मीमांसकानां सिद्धान्ते जाती शक्त्यङ्गीकारेण इन्द्रत्वजानित्यत्वेन नित्यैर्वेदिकैः शब्दनित्यः
सम्बन्धो नानुपपन्नः ।
किसी अन्य के व्याख्यान में भी वैसी ही असंगति हो रही है ॥ ३३ ॥
मन्त्रार्थ - हे इन्द्र! तुम कभी भी हिसक नहीं होते और हविर्दान करनेवाले यजमान का सेवन तुम किया करते हो । हे धनवान् इन्द्र! प्रकाशमान रहनेवाले तुम्हें दिया हुआ पुष्कल द्रव्य शीघ्र ही हविर्भाग देनेवाले यजमान को प्राप्त होता है ॥ ३४ ॥
पृष्ठ 199
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ३४ ] वेदार्थपारिजात माष्यसहिता १८ ९ यत्तु केनचिदुच्यते - ' सायणादिभि भूमिकायां ववरः प्रात्राहणिरकामयतेत्यादिस्थलेषु शब्दार्थसम्बन्धा-नित्यत्वभिया श्रुतिसामान्याभिप्रायेण नित्यवाय्वादिपरा एव वैदिकाः शब्दा नानित्यजरामरणादिधर्मव्यक्तिपरा इत्युद्घोषितम्, परं भाष्येऽनेकेषां मन्त्राणां व्यक्तिपरत्वं व्याचक्षाणैर्विस्मृतमेव तत् ' इति, तदपास्तम्, उक्तदृष्ट्या सम्बन्धनित्यत्वोपपत्तेः । उर्वशीपुरूरवआद्याख्यानेष्वपि कैमर्थ्याकाङ्क्षावशात्लक्षितार्थपरत्वेनाख्यानानां स्वार्थेषु वर्थेषु तात्पर्याभावेन तददोषात् । यद्यपीयमैन्द्री ऋग् इन्द्रपरैव, तथापि ' ऐन्द्रया गार्हपत्यमुपतिष्ठते ' इति गार्हपत्योपस्थाने विनियोगात् पारमैश्वर्यस्य लक्ष्यमाणस्य गुणस्य योगेन गार्हपत्याग्निपरोऽपीन्द्रशब्दः । शतपथे तु -- ' अथैन्द्री । इन्द्रो वै यज्ञस्य देवता सेन्द्रमेवैतदग्न्युपस्थानं कुरुते कदाचन स्तरोरसि नेन्द्र सश्चसि दाशुषे इति यजमानो वै दाश्वान यजमानाय द्रुह्यसीत्येवैतदाहोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यत इति भूयोभूय एव न इदं पुष्टं कुवित्ये-वैतदाह ' ( श ० २ | ३ | ४ | ३८ ) । ऐन्द्री इन्द्रदेवताका कदाचन स्तरोरसीत्यादिका अग्न्युपस्थाने प्रयोक्तव्या । तथा च तदग्न्युपस्थानमिन्द्रसहितं सद् यज्ञात्मना निष्पद्यते । तदेतदुच्यते इन्द्रो यज्ञस्य देवता तस्मात् सेन्द्रमेवैत-दग्न्युपस्थानम् । पूर्वार्धमनूद्य तात्पर्यं माह – कदाचनेति । ' दाट दाने ' । ' दाश्वान् साह्वान् ( पा ० सू ० ६ | १ | १२ ) इति निपातनाद् हविषां दाता यष्टा यजमानस्तस्मै कदाचिदपि स्तरीः हिंसको नासि न भवसि न ह्यसीति । उत्तराधं व्याचष्टे - हे मघवन्! अस्मभ्यं दीयमानं त्वदीयं धनं भूयोभूय एव उपपृच्यते समीपं प्राप्नोति । नोऽस्माकमिदं पुष्टं कुरु । दयानन्दस्तु – ' हे इन्द्र! यदा त्वं स्तरीरसि सदा दाशुषे कदाचनेन्तु न सश्चसि तदा हे मघवन्! देवस्य ते तव दानं तस्मै दाशुषे भूयः कदाचनेन्नु नोपपृच्यते ' इति, तन्न समीचीनम्, अन्वयस्यास्पष्टत्वात् । तत्रत्यटिप्पणी-कारोऽपि तथैवाह - ' अन्वयोऽयमस्पष्टः प्रतीयते ' इति । ' यदीश्वरः कर्मफलदाता न स्यात् तर्हि न कश्चिदपि जीवो व्यवस्थया कर्मफलं प्राप्नुयादिति भावार्थः । प्रायेणायमेवार्थो हिन्दोभाष्येऽपि । अस्मिन्नर्थे इदित्यर्थस्य ज्ञानमर्थः, स क्वोपयुज्यत इति न स्पष्टम् । आच्छादनार्थस्य स्तृणातेर्ग्रहणेऽपि सुखराच्छादयति यः स स्तरोरिति ग्रहीतुं दुःखैः सुखाच्छादकेऽपि तदन्वयस्य तुल्यत्वात् । मन्त्रे नेत्येकमेव निषेधार्थकं पदम्, तत्कथं न सश्चसि इत्यन्वयेन शान्ताकाङ्क्ष सत् पुनरुपपृच्यत इत्यनेन सम्बध्येत? अत्रार्थे शतपथ विरोधोऽपि स्पष्ट एव । ' गोवर्धनोद्धरणानन्तरं क्षमाप्रार्थनार्थ मागतायेन्द्राय भगवान् कृष्ण उपदिशति -- हे इन्द्र! दाशुषे मह्यमात्मानं निवेदयते मद्भक्ताय तमपकर्तुमधुना व्रजजनमिमं कदाचित् कदापि स्तरीः घातकः असिन मा भूद् मा भव । विस्मृत्यापि मद्भक्तस्यावज्ञां मा कुरुष्व । क्षमे कृतमपराधं व्रजोपप्लावनलक्षणम् । सश्चसि यथासुखं राजधानी गच्छ, छन्दसि कालानियमात् । हे मघवन्! देवस्य देवेन मया दीयमानं भूयो यद् बहुलमेव वैभवम्, तत् क्षिप्रमेव तवोपपृच्यते सम्पृक्तं भवतु | मद्दत्तवैभवस्य त्वं स्वामी न मनागपि ते स्वकीयं वर्तते । धिक् त्वां न त्रपसे मदाश्रितोऽपि मद्भक्तान् दुःखीकर्तुं समीहसे । अत ऊध्वं न प्रमदितव्यम् ' इत्येतद् व्याख्यानं सर्वथाऽमनोज्ञमेव, भाष्यसार - हे परमैश्वर्यशालिन्! बार - बार याचना करने पर भी तुम कभी क्रुद्ध नहीं होते हो । तुम्हारा अनुग्रह प्राप्त करने के लिये हवि देने वाले यजमान को तुम उसका अभीष्ट प्रदान कर प्रसन्न कर देते हो । अन्य लोग तो याचना करने पर क्रुद्ध होते हैं । किसी ने राजन ऐसा सम्बोधन करते हुए ' इन्द्र ' पद से राजा को समझ लिया है ।
पृष्ठ 200
पाठ पढ़ें पाठ छिपाएँ
१ ९ ० शुक्लयजुर्वेदसंहिता [ अ ०२ [ अ ० ३ उपपत्तिमन्तरा निष्प्रमाणलिङ्गविभक्तिव्यत्ययेन स्वेच्छानुसारेण मन्त्रार्थापनत्वात् । न च तद्युक्तम्, स्वेच्छाया अव्याहतप्रसरत्वात् । पूर्वाचार्यास्तु श्रुतिसूत्राद्यनुसारेणार्थावने तदनुरोधेनैव क्वचित् किञ्चिद् व्यत्ययादिक-मिच्छन्ति स्म । इमामेव पद्धतिमाश्रित्य दयानन्दो यथेष्टं योजयति मन्त्रान् । केचिच्च स्वस्वसम्प्रदायाचार्य -व्याख्यानमपि मन्त्रैरेव साधयन्ति । केचित्तु - ' अहमन्नादोऽहमन्नादोऽहमन्नाद ' ( तै ० उ ० ३।१०।६ ) इति श्रीतवचनेन अहमदपदवाच्यस्य नादं वेदेषु साधयन्ति । तदेतत् सर्वमुच्छ्ङ्खलमेव । एवंप्रकारेण सङ्गतिहीनतया मन्त्राणां यथेष्टार्थबोधकत्वे प्रमत्तगीतत्वापत्तेः ॥ ३४ ॥
तत्स॑वि॒तुर्वरेण्यं॒ भर्गो दे॒वस्य॑ धीमहि । धियो यो नः॑ प्रचो॒दया॑त् ॥ ३५ ॥
तदिति लुप्तषष्ठीकं पदम् । तस्य सवितुः सर्वस्य प्रसवकर्तुः । सूतिरुपलक्षणं स्थितिप्रलययोरपि । जगदुत्पत्तिस्थितिलय लीलस्य परमात्मन आदित्यस्य, ' सूर्याद्वं खल्विमानि भूतानि जायन्ते ' इति सूर्योपनिषच्छ्रुतेः । सूर्य मण्डलान्तर्गतस्य हिरण्यश्म श्रोहिरण्यकेशस्य आप्रणखाग्रं हिरण्यशरीरस्य हिरण्यगर्भोपाध्यवच्छिन्नस्य सर्वंशक्तिमतः परमेश्वरस्य तदुपलक्षितस्याशेषविशेषातोतस्य शुद्धब्रह्मणो वा देवस्य द्योतनात्मकस्य | अद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वेन स्वप्रकाशस्य वरेण्यं वरणीयं संभजनीयं सर्वप्राणिपरप्रेमास्पदं भर्गः स्वरूपभूतं ज्योतिः सर्वपापानामविद्यातत्कार्यात्मकस्य सर्वसंसारस्यैव वा भर्जनसमर्थं तेजः, ' येन सूर्यस्तपति तेजसेद्धः ' ( तै ० ब्रा ० ३।१२२ ९ ७ ), ज्योतिषामपि तज्ज्योति: ' ( योगशिखो ० ३।२२ ) इत्यादिश्रुतिभ्यः । धीमहि ध्यायामः चिन्तयामः, तन्निदिध्यासनं कुर्म इत्यर्थः । ' ध्यं चिन्तायाम् ' | छान्दसं सम्प्रसारणम् । तत्र प्रत्ययैकतानता -ध्यानमिति स्मृतेः । तस्य कस्य? यः सविता नोऽस्माकं धियो बुद्धीः प्रचोदयात् प्रकर्षेण सत्तामात्रेण प्रेरयति । यथायः कान्तः सन्निधानमात्रेणायसः प्रवर्तकस्तथैव तस्य निर्विकारकूटस्थस्य सत्तामात्रेण बुद्धीन्द्रियादीनि प्रवर्तन्ते । ' श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाच ७ स प्राणस्यः प्राणः ' ( केनो ० ११२ ) ' येनेषिता वागसवश्चरन्ति ', ' योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना । अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥ ' ( भा ० पु ० ४ / ९ / ६ ) इत्यादिश्रुतिस्मृति-पुराणवचनेभ्यः । ' यः ' इति लिङ्गव्यत्ययेन यत् ' इत्यवगन्तव्यम् । यद्वा धीशब्दो बुद्धिवचनः कर्मवचनो वाग्वचनश्चेति । यश्च नो बुद्धि कर्माणि वाचो वा प्रेरयति, तदनुग्रहेणैव बुद्धयादिप्रवृत्तेः । यद्वा सवितुर्देवस्य तद् भर्गो धीमहि यो यद् भर्गो नो बुद्धीः प्रचोदयात् । राहोः शिरः पुरुषस्य चैतन्यमितिवदभेदे षष्ठी । तेन _सवितुः स्वरूपाभिन्नमेव तद् भर्गोऽस्य बुद्धीः प्रचोदयादिति कामना सत्कर्मानुष्ठानाय परमात्मोपासनाय प्रत्यक्-चैतन्याभिन्नपरात्मसाक्षात्काराय प्रचोदयात् प्रेरयेदिति । भर्गशब्देन मण्डलं पुरुषो रश्मयश्चोच्यन्ते । तथा चाधिकारभेदेन भगवत आदित्यस्य रश्मीन् मण्डलं तदन्तर्गतं पुरुषं वा ध्यायाम इत्यर्थो भवति । वीर्यं वा भर्गः, ' वरुणाद्ध वा अभिषिषिचानाद् भर्गोऽपचक्राम | वीयं वै भर्गः ' ( श ० ५।४।५।१ ) इति श्रुतेः । भृज्ज्यते सवं पातकमत्रेति भर्गः । पौनःपुन्येनाभिषिच्यमानाद् वरुणाद् वीर्य लक्षणं भर्गोऽपचक्रामेति तदर्थः । तथा सवितुर्देवस्य वीर्यं पराक्रमं जगदुत्पादनादिलक्षणं ध्यायामः । स्वामी दयानन्द ने अपनी इच्छा के अनुसार ही सर्वत्र मन्त्रों की योजना कर दी है ॥ ३४ ॥
मन्त्रार्थ- -उस प्रकाशक प्रेरक आदित्यान्तर्गत पुरुषरूप ब्रह्म का सभी के द्वारा प्रार्थनीय जो सम्पूर्ण संसारनाशक तेज है, उसका हम ध्यान करते हैं । वह सविता हमारी बुद्धि को सत्कर्मानुष्ठान की प्रेरणा दे ॥ ३५ ॥