वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 201–210

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 201–210

पृष्ठ 201

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 201 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ३५-३६ ] वेदार्थपारिजातमाष्यसहिता १ ९ १ कण्व संहितायां वरेणियमिति पाठः । माध्यन्दिनीयस्तु ' पाठकाले वरेण्यं स्याज्जपकाले वरेणियम् ' इत्यङ्गीक्रियते, अन्यथा चतुर्विंशत्यक्षरत्वानुपपत्तिः । ' पाठकाले वरेण्यं स्याज्जपकाले वरेणियम् ' इति स्मरणात् तथैव पारम्पर्याच्च तदुपपादनीयम् । सवितृपदेन जगत्कारणत्वबोधनात् श्रुतिस्मृतिपुराणाद्यनुसारेण सूर्यो विष्णुः शिवो रामः कृष्णस्त्रिपुरसुन्दर्यादयोऽपि गृह्यन्ते । तेषां सगुणसाकाराणां भर्गस्तेजः प्रकाशः स्वरूप-सौन्दर्यं चिन्त्यते, सगुणनिराकाराणां सर्वकारणत्व सर्वशक्तिमत्त्व सर्वकर्मफलप्रदत्वादिकं वीर्यं चिन्त्यते । निर्गुण-निराकारस्य तु स्वरूपभूतं ज्योतिरेव भर्गश्चिन्त्यते । यद्वा सवितुर्देवस्येति तत्पदार्थः परमात्मोच्यते । धियो यो नः प्रचोदयादिति त्वंपदार्थो बोध्यते । भर्ग: पदेन तयोरैक्यं प्रत्यक चैतन्याभिन्नपरमात्मरूपमुच्यते । यः स्वप्रकाशः सर्वकारण नूतः परमात्मा, यश्च सर्वबुद्धयादिप्रवर्तकः प्रत्यगात्मा, तयोरभिन्नं सर्वोपाधिविवर्जित-मैक्योपलक्षितमनन्त सदात्मकं ज्योतिषामपि ज्योतिर्ध्यायाम इति निष्कर्ष: । सवितृपदस्य तात्पर्यं कण्वो दर्शयति- ' सविता वै देवानां प्रसविता, तथो हास्मा एते सवितृप्रसूताः सर्वे कामा: समृद्धघन्ते ' इति सायणोद्धरणात् । शतपथे तु – ' अथ सावित्री । सविता वै देवानां प्रसविता तथो हास्मा एते सवितृप्रसूता एव सर्वे कामाः समृद्ध्यन्ते तत्सवितुर्वरेण्यमित्यादि ' ( श ० २२३ | ४ | ३ ९ ) इति श्रुतेः सर्वतानां सवनात् पावनाच्च सविता, व्यते क्रीडते द्योतते दिवि रोचते तस्माद् देवः सर्वैः स्तूयमानत्वाच्च देवः, तस्य सवितुर्देवस्य भर्गो धीमहि चिन्तयामः, यो नः धियो बुद्धिवृत्तीः, धर्मार्थकाममोक्षेषु प्रचोदयात् । भर्गः भृज्जति पातकानि पाचयतीति भर्गः, अथवा भ्राजते दीप्यते सर्वं जगद् यस्मात् स भर्गः, अथवा कालाग्निरूपेणान्ते हरतीति भर्गः, अथवा स्वरूपे यो भ्राजते स भर्गः, अथवा लोकान् भासयति भोषयति वेति भर्गः, अथवा प्रजा रज्ज्यन्ते यस्मिन् स भर्गः, अथवा गच्छति सर्वत्र व्याप्नोतीति भर्गः, अथवा भास्य रज्ज्यते गच्छति च सर्वं जगद्यस्मात् स भर्गः, वरेण्यं संसारभयभीरुभिर्यद्वरणीयं तच्चिन्तयामः । तदुक्तम् - सवनात् पावनाच्चैव सविता तेन चोच्यते ' इत्यादिना । -आध्यात्मिकोऽर्थः - सवितुः सृष्टिस्थितिलयलीलस्य विष्णोर्देवस्य रामकृष्णाद्यवताररूपेण क्रीडतः, असुरान् विजिगीषतः, भर्गः स्वरूपभूतं तेजो धीमहि । यो नोऽस्माकं धियो बुद्धोः प्रचोदयात् प्रेरयति, तत्परमानन्दमयं वरेण्यं भर्गो धीमहि । तथैव सवितुः शिवस्य ' शान्तं शिवमद्वैतं चतुथं मन्यन्ते ' ( माण्डूक्यो ० ७ ) इत्यादि -श्रुतेः, देवस्य सर्वप्रकाशकस्य ' तस्य भासा सर्वमिदं विभाति ' ( मुण्डको ० २२1१० ) इति श्रुतेः । तद् वेदान्तेषु ब्रह्मविद्वरिष्ठेषु प्रसिद्धं नित्यज्ञानात्मकं वरेण्यं सर्वजनसंभजनीयं त्रिपुरान्धकादिविविधासुरव्रातं भृज्जत्यनेनेति भर्गः, एवं रावणादिभर्जकत्वेन रामः 1 कंसादिभर्जकत्वेन कृष्णः, भण्डासुरादिभर्जकत्वेन त्रपुरं महः सवितुर्देवस्य सवित्रुपलक्षितस्य देवसमूहस्य वरेण्यं संभजनीयं तेजो धीमहि ॥ ३५ ॥

परि॑ ते दू॒डभा॒ रथ॒ऽस्मा॑२अ॑श्नोतु॒ वि॒श्वत॑ः । येन॒ रक्ष॑सि दा॒शुष॑ः ॥ ३६ ॥

वामदेवदृष्टा आग्नेयी गायत्री । हे अग्ने! येन रथेन त्वं दाशुषो हविर्दत्तवतो यजमानान् रक्षसि पालयसि, ' यजमानो वै दाश्वान् ' ( श ० २ | ३ | ४ | ३८ । इति श्रुतेः । स ते तव रथो अस्मान् यजमानान् विश्वतः सर्वासु दिक्षु परि परितो अश्नोतु व्याप्नोतु, अस्मद्रक्षणाय सर्वतस्तिष्ठतु । कस्याञ्चिदपि दिश्यल्पमपि स्थानमपरि-त्यज्यास्मद्रक्षणाय व्याप्नोत्वित्यर्थः । इति परि विश्वत इत्यपुनरुक्तिः । कथंभूतो रथः? दूडभः दुर्दमः अध्यात्मपक्ष में सृष्टि - स्थिति - लय की लीला करने वाले, असुरों पर विजय प्राप्त करने वाले भगवान् के तेज का हम ध्यान करते हैं ॥ ३५ ॥

पृष्ठ 202

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 202 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ २ शुक्लयजुर्वेदसंहिता [ अ ० ३ हिंसितुमशक्यः । प्रतिषेधार्थंकदुरित्युपसर्गपूर्वकस्य हिंसार्थकस्य दभ्नोतेः खल्प्रत्यये ' दुरोदाशनाशदमध्येषूत्व-मुत्तरपदादेष्टुत्वं च ' ( पा ० सू ० ६ । ३ । १० ९ ) इति स्थलोयेन भाष्यवार्त्तिकेन नलोपे ' उकारं दुर्दे ' ( प्रा ० का ० ३ | ३ | ४ ) इति प्रातिशाख्यसूत्रेण दुरो रेफस्योकारः पूर्वसवर्णदीर्घः । अप्रधृष्यानाहतव्यापकरथारूढः स नो रक्षतुसर्वतोऽस्मानित्यर्थः । ' रथो रहतेर्गतिकर्मण, स्थिरतेर्वा स्याद् विपरीतस्य रममाणोऽस्मिस्तिष्ठतीति वा, रपतेर्वा रसतेर्वा । यज्ञसंयोगाद्राजा स्तुतिं लभेत, राजसंयोगाद्युद्धोपकरणानि । तेषां रथः प्रथमागामी भवति । रंहति वेगेन धावतीति रथः, स्थिरतेर्विपरीतस्य । तत्र हि सुप्रतिष्ठितो भवति योद्धा न तथाश्वादिषु । रमाणोऽस्मिस्तिष्ठति रपति रसति वेति रथः ' ( नि ० ९ ।११ ) । अध्यात्मपक्षे - हे अग्ने परमात्मन् विष्णो! ते तव रथो गरुडध्वजोऽस्मान् विश्वतः सर्वासु दिक्षु परितः सर्वतोऽश्नोतु व्याप्नोतु । येन दाशुषः सर्वस्वात्मनि वेदयितॄन् रक्षसि पासि । ' कृष्ण इन्द्रप्रस्थं गते शाल्वत्रस्ता यदुनार्यः सविनयं भगवन्तमाचक्षते -- येन रथेन दाशुष आत्मनिवेदकान् त्वं रक्षसि, स त्वदीयो दूडभो दुर्दमनीयो रथोऽस्मान् विश्वतः सर्वतः पर्यश्नोतु ' । अयमर्थो न विरुद्धः । दयानन्दस्तु - ' हे जगदीश! येन रथेन त्वं दाशुषो विश्वतो रक्षसि, स ते तव दूडभो रथो विज्ञानं विश्वतो रक्षितुमस्मान् पर्यश्नोतु सर्वतः प्राप्नोतु । रयते जानाति येन स रथः ' इति, तन्न, ज्ञानस्य रथपदवाच्यत्वे प्रमाणाभावात् । न च ‘ रथो रहतेर्गतिकर्मणः ' इति निरुक्तमेव प्रमाणमिति वाच्यम्, ' राजसंयोगाद् युद्धोपकरणानि, तेषां रथः ' ( नि ० ९ ।११ ) इत्युपक्रमविरोधात् । युद्धोपकरणभूतस्यैव रथस्यात्र निर्वचनम् । नानेन रथस्य ज्ञानत्वं सिद्धयति । रहतीत्यादीनामिव रयतेरपि तत्रैव सङ्गतिः । न च त्वन्मते निराकारस्येश्वरस्य रथः सम्भवति, निराकारत्वादेव । किचात्र सर्वत्र व्यापनार्थमेव रथोपयोग उक्तः, स्वतो व्यापकस्य रथानुपयोगात् । शतपथविरुद्धमप्येतत् । तथाहि - ' अथाग्नेयी । तदग्नय एवैतदात्मानमन्ततः परिददाति गुप्त परिते दूडभो रथो... दाशुष इति यजमाना वै दाश्वांसो यो ह वा अस्यानाधृष्यतमो रथस्तेनैष यजमानानभिरक्षति तेन नः सर्वतोऽभिगोपायेत्येवैतदाह त्रिरतज्जपति ' ( श ० २ | ३ | ४ | ४० ) । आग्नेयीमग्निदेवताकामृचं विधत्ते -तदग्नय एवैतदात्मानमन्ततः परिददातीति । परिदानं रक्षणार्थं दानं गुप्तयै । मन्त्रमुपन्यस्य व्याचष्टे – यजमाना वै दाश्वांस इति । योऽस्याग्नेरप्रधृष्यतमो रथस्तेनैष यजमानमभिरक्षति तेन नः सर्वतोऽभिगोपाय । अस्या ऋचस्त्रिर्जपं विधत्ते - त्रिरेतज्जपतीति ॥ ३६ ॥

मन्त्रार्थ --- हे अग्ने! जिस साधन से तुम हविर्दान करनेवाले समस्त यजमानों की रक्षा करते हो, वह तुम्हारा अविनाशी रथ हमारी सर्वत्र रक्षा करे ॥ ३६ ॥

भाष्यसार - भाष्यार्थ का ज्ञान मन्त्रार्थ से ही स्पष्ट हो रहा है । अध्यात्मपक्ष में हे अग्ने परमात्मन्! विष्णो! आपका गरुडध्वज रथ सभी दिशाओं में व्याप्त हो जाय । स्वामी दयानन्द ने जो अर्थ किया है, वह उनके ही मन्तव्यों के तथा शतपथश्रुति के विरुद्ध हो गया है ॥ ३६ ॥

पृष्ठ 203

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 203 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ३७ ] वेदार्थपारिजातभाष्य सहिता १ ९ ३ भूर्भुवः स्वः सुप्र॒जाः प्रजाभिः स्या ँ सुबीरों वीरः॑ सु॒पोषः पोषैः । नर्य प्र॒जां मे ' पाहि शस्य॑ प॒शून्मे॑ पा॒ह्यभ॑र्य पि॒तुं मे पाहि ॥ ३७ ॥

' भूर्भुवः स्वरिति वोभी ' ( का ० श्र ० ४।१२।१२ ) । पूर्वोक्तेन ' उपप्रयन्त ' ( का ० श्री ० ४।१२।३ ) । इत्यादिना वक्ष्यमाणेन भूर्भुवः स्वरित्यादिना वा विकल्पेनोभावग्नी उपतिष्ठेतेति सूत्रार्थः । आसुरेशम् । मन्त्रार्थस्तु – हे अग्ने! त्वं भूर्भुवःस्वरिति व्याहृतित्रयात्मकः, तदभिधेयलोकत्रयात्मकश्च । त्वत्प्रसादादहं प्रजाभिर्बन्धुभृत्यादिरूपाभिः सुप्रजाः शोभना अनुकूलाः शोभनगुणयुक्ताः प्रजा यस्य सोऽनुकूलप्रजावान् भवेयम् । तथा वीरः पुत्रः सुवीरैः शोभनसन्मार्गंस्थस्वस्थपुत्रपौत्रादिमान् भवेयम् । पोषैर्गोभूहिरण्यरत्नधान्यादिभिः सुपोषो बहुमूल्यसुखदगोभू-हिरण्यरत्नधान्यादिसम्पन्नः स्याम् । हे व्याहृतित्रयात्मकाग्ने! भवत्प्रसादादहं यदा बन्धुभृत्यादिरूपया प्रजया युज्येयं तदानीमनुकूलप्रजावानेव भूयासम् । वीरैः स्वस्वकार्येषु शूरैर्यदा युज्येयं तदा शास्त्रानुमोदितमार्गवर्ति-शोभनपुत्रो भूयासम् । यदा पोषः पुष्टिकारकैर्युज्येयं तदा बहुमूल्यार्हहिरण्यादियुक्तो भूयासमिति सायणाचार्यः । प्रवत्स्यदुपस्थानमागतोपस्थानं चादित्यदृष्टम् । ' प्रवत्स्यन् सर्वान्नर्येति प्रतिमन्त्रम् ' ( का ० ४।१२।१३ ) | यजमानो ग्रामान्तरं जिगमिषुः सर्वानग्नीन् नर्येत्यादिभिर्मन्त्रैरुपतिष्ठेत । मन्त्रार्थस्तु - हे नये नरेभ्यो हित गार्हपत्य! मे मम प्रजां पाहि पालय । हे शंस्य अनुष्ठातृभिः स्तोतुं योग्य आहवनीय! मे पशून् पाहि । हे अथर्य दक्षिणाग्ने! मे पितुमन्नं पाहि । दक्षिणाग्निः सततं गार्हपत्यात् स्वस्थानं नीयतेऽतः सातत्यगमनादथर्यः अतनवानुच्यते । ‘ अत सातत्यगमने ’ इत्यस्माद्धातोर्निपातनादथर्येति रूपसिद्धिः । ' पितुरित्यन्ननाम ' ( निघ ० २७/६ ) | ' पा रक्षणे ’ इत्यस्माद् बाहुलकात् तुप्रत्ययो धातोरकारस्येकारश्च । अध्यात्मपक्षे - हे अग्ने! परमेश्वरो हिरण्यगर्भो वाग्निः । त्वं भूरादिलोकत्रयरूपोऽसि । त्वत्प्रसादादहं प्रजाभिः परिपालनीय प्रजाभिः पुत्रशिष्यादिरूपाभिर्वा शोभनप्रजावान् स्याम् । वीरैर्योद्धृभिः साधनानुष्ठान दृढैः साधकैर्वा सुवीरः, दृढनिष्ठावद्भिर्योद्धृभिः साधकैश्चाहं सुवीरः स्याम् । पोषैः पुष्टिसाधनैर्धनादिभिर्भक्तिज्ञान-निष्ठापोषकैः शमदमादिभिरमानित्वादम्भित्वादिभिर्वा सुपोषः शोभनधनादिसम्पन्नः शमदमादिसाधनसम्पन्नो वा स्याम् । हे नर्य नरेभ्यो हित सर्वभूतसुहृत् परमेश्वर! ' सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ' ( भ ० गी ० ५।२ ९ ) इति गीतावचनात् । मे प्रजां पूर्वोक्तां पाहि । शंस्य स्तोतुं योग्य प्रभो! मे पशून् गवादीन् उपकरणभूतान् देहेन्द्रियादीन् वा पाहि सेवोपयोगिनः कुरु संसारान्निवर्त्य परमात्मनिष्ठान् कुरु । हे अथर्यं! भक्तरक्षार्थं सतत-गमनशील! मे मम पितुमन्नं व्रीहियवादिकमन्नमयं शरीरं च रक्ष भगवत्प्राप्तिसाधनानुष्ठाननिष्ठतासम्पादनेन भोगपरायणताया रक्ष । यद्वा भूः भवति सर्वं जगदस्मादिति भूः सर्वजगदुत्पादकोऽसि त्वम्, भुवः भूत्वा वसति सर्वं यस्मिन् स त्वं भुवः विश्वपालकोऽसि, स्वः स्वरति सर्वं तापयति प्रलय इति स्वः, अथवा स्वरति लयं गच्छति सर्वं यस्मिन् स त्वं स्वः सर्वल्याधिष्ठानभूतोऽसि । मन्त्रार्थ - हे अग्ने! तुम ' भूः भुवः स्वः ' इन तीन व्याहृतियों के स्वरूप हो । अतः तुम्हारे प्रसाद से मैं बन्धु, नृत्यादि प्रजा से युक्त और अनुकूल प्रजावान् हो सकूंगा तथा शास्त्रमागवतों पुत्रों से युक्त होऊंगा, हिरण्यादि द्रव्य से पुष्ट होऊंगा | मनुष्यों का हित करनेवाले हे गार्हपत्याग्ने! मेरी प्रजा का रक्षण करो । अनुष्ठान कर्ताओं के द्वारा स्तुति करने योग्य हे आहवनीय अग्ने! मेरी प्रजा का रक्षण करो । हे अथयं! अर्थात् सर्वदा रहनेवाले हे दक्षिणाग्ने! हमारे अन्न की रक्षा करो ॥ ३७ ॥

२५

पृष्ठ 204

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 204 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ४ शुक्लयजुर्वेद संहिता [ अ ० ३ श्रुतदेवबहुलाश्वकर्तृककृष्णस्तुतिपरत्वेन मन्त्रयोजनमपि नासङ्गतम्, परं मुख्योऽर्थस्तु श्रुतिसूत्रानुसार्ये व ' सर्वे वेदा यत्पदमामनन्ति ' ( कठोप ० ११२२१५ ) इति रीत्या परमेश्वराराधनबुद्ध्यानुष्ठीयमानकर्मप्रतिपादन-चित्तशुद्धयादिद्वारा कर्मपराणामपि मन्त्राणां ब्रह्मणि पर्यवसानात् विनियोगवशात्कर्मपरत्वेऽपि शक्त्या भक्त्या ( गोण्या ) वा वृत्त्या मन्त्राणां ब्रह्मबोधकत्वं नानुपपन्नम् । कश्चित्तु - ' प्राणोदानव्यानानां बलैरहं पुत्रपौत्रादिसन्तानवान् भत्रेयम् । वोर्यवद्भिः शूरवीरपुरुषैरहं पुत्रवान् भवेयम् ' इति, अत्र प्रजाभिरिति पदेन प्राणोदानव्यानवलं कथं गृहीतम्? तत्र किं मूलमिति चिन्त्यम् । यस्य स्वयं पुत्रोत्पादने शक्तिर्न भवति स एवान्यैर्वीर्यवद्भिः पुत्रवान् भवति । तद्रीत्या नर्यशंस्यादिभिरेक एव कश्चिद्धितकारी सम्बोद्ध्यते । अथर्येत्यस्य संशयरहितेति कथमर्थः? तेषां तेषां सम्बोद्ध्यानां प्रार्थनीय-प्रजादिभिः कः सम्बन्ध:? इत्यादिकं तु नोक्तमेव । सिद्धान्ते तु कात्यायन काण्वादिविनियोगवशाद् गार्हपत्यादयोऽग्नय एवं सम्बोध्या: । ' अथ हुतेऽग्निहोत्र उपतिष्ठते । भूर्भुवः स्वरिति तत्सत्येनैवैतद्वाच ७ समर्धयति यदाह तथा समृद्धयाशिषमाशास्ते सुप्रजाः प्रजाभिः स्यामिति तत्प्रजामाशास्ते सुवीरो वीरैरिति वद्वीरानाशास्ते सुपोषः पोषैरिति तत्पुष्टिमाशास्ते ॥ यद्वा अदो दीर्घमग्न्युपस्थानम् । आशीरेव साशीरियं तदेतावतैवैतत्सर्वमाप्नोति तस्मादेतेनैवोपतिष्ठेतैतेन न्वेव वयमुपचराम इति ह स्माहासुरः ' ( ० २।४।१।१ - २ ) । एवमग्निहोत्र होमोपस्थानमन्त्राणामनन्तरं लघूपस्थान मन्त्रा उच्यन्ते । भूर्भुवः स्वरित्यादिमन्त्रेणाहवनीयमुपतिष्ठते - अथ हुत इति । पूर्वोक्तादग्निहोत्रादनन्तरं मन्त्रस्यातिशयमाह-सत्यरूपा एता व्याहृतयः, त्रयीसारत्वात् । ' भूरित्येव ऋग्वेदादजायत भुव इति यजुर्वेदात् स्वरिति सामवेदात् ' ( ऐ ० ब्रा ० ५।३२ ) । एवं व्याहृतिरूपेण सत्येनैव इमां मन्त्ररूपां समर्धयति तया समृद्धया वाचा प्रागुक्तां सर्वामप्याशिषमाशास्ते प्रार्थयते । तदाशासनप्रकारमेवाह - स प्रजामाशास्ते प्रजाभिः पुत्रपौत्रादिभिः सुप्रजाः शोभनप्रजोपेतः स्याम् । एकः प्रजाशब्दोऽनुवादः । सुवीरो वीरैः । वीर्यवन्तः पुत्रा वीराः । तेषां प्रजाशब्देन परिगृहीतत्वेऽपि पुनः प्राधान्यख्यापनार्थं पृथगा शासनमिति । प्रागुतेन महोपस्थानेनास्य लघूपस्थानस्य समान कार्यकारित्वाद् विकल्पमाह - यद्वेति । अदः पूर्वोक्तं बहुकर्तव्योपेतं बहुमन्त्रसाध्यं यदग्न्युपस्थानम्, तद् आशीः फलप्रार्थंनमेव । तथा भूर्भुवः स्वरिति मन्त्र माध्यमुपस्थानमपि तादृगाशीभिर्युक्तम् । तत् तत एतावतैवोप-स्थानेन एतत् प्रागुक्तं फलमाप्नोति । अस्मिन्नुपस्थाने ऋषिवचनं सम्पादयति - तस्मादेतेनैवोपतिष्ठेते तेनैव लघूपस्थानेन वयमग्निमुपपरिचराम । यस्मादेवमासुरिर्महर्षिराह स्म उक्तवान् तस्मादिदमेवोपस्थानं कर्तव्यम् । ' अथ प्रवत्स्यन् । गार्हपत्यमेवात्र उपतिष्ठतेऽथाहवनीयम् ' ( श ० २ | ४ | १ | ३ ), ' स गार्हपत्यमुपतिष्ठते । न प्रजां मे पाहोति प्रजाया हैष ईष्टे तत्प्रजामेवास्या एतत्परिददाति गुप्त्य ' ( श ० २ | ४ | १ | ४ ) | अथ प्रवासं भाष्यसार - यजमान जब प्रवास करना चाहता है तब वह ' नर्य ' इत्यादि मन्त्रों से सभी अग्नियों का उपस्थान करता है । अध्यात्मपक्ष में — परमेश्वर को व्याहृतिरूप बताने से वही सृष्टि - स्थिति - लय कर्ता है । तथा कृष्णस्तुतिपरक बताकर इस मन्त्र को ब्रह्मबोधक भी गौणी वृत्ति के बलपर कह सकते हैं । किसी व्याख्याकार ने मन्त्रगत ' प्रजाभिः ' पद से प्राण उदान त्र्यानादि वायुओं का ग्रहण किया है । किन्तु वह निराधार है । तथैव शतपथश्रुति के विरुद्ध रहने से अप्रमाण है ।

पृष्ठ 205

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 205 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ३७-३८ ] वेदार्थपारिजातभाष्यसहिता १ ९ ५ कुर्वता यजमानेन कर्तव्यमुपस्थानं दर्शयति – गार्हपत्यमेवा इति । विहिते गार्हपत्योपस्थाने मन्त्रं विधत्ते – न प्रजामिति । मन्त्रस्य तात्पर्यमाह - एष हि गार्हपत्य इति । प्रजाया ईष्टे, कृत्स्नाग्नियोनिभूतत्वात् । अतोऽस्मै गार्हपत्याय रक्षणार्थं प्रजाया परिदानं क्रियते । ' अथाहवनीयमुपतिष्ठते । शस्य पशून् मे पाहीति पशूना हैष ईष्टे तत्पशूनेवारमा एतत्परिददाति गुप्त्यै ' ( श ० २ । ४ । ११५ ) । दयानन्दस्तु - ' हे नर्य त्वं कृपया मे प्रजां पाहि मे पशून् पाहि ये अथर्य मे पितुं पाहि हे शंस्य जगदीश्वर! भवत्कृपयाहं भूर्भुवः स्वः प्राणापानध्यानैर्युक्तः सन् प्रजाभिः सुप्रजाः, वीरैः सुवीरः, पोषैः सह सुपोषः स्यां नित्यं भवेयम् ' इति, तन्न, भूरित्यादिभिर्व्याहृतिभिः प्राणादिग्रहणे हेत्वनुक्तेः । भूः प्रियस्वरूपः प्राणः भुवः बलनिमित्त उदानः, स्वः सर्वचेष्टानिमित्तो व्यान इत्यपि निर्मूलम् । यत्तु -- ' थर्वतिश्चरतिकर्मा ' ( नि ० ११।१८ ) थर्वति संशेयः सथर्यो न थर्योऽथय्यः, वर्णव्यत्ययेन वकारस्थाने यकार: ' इति, तदपि न, परमेश्वरे संशयाप्राप्तेनिषेधस्य व्यर्थत्वात् । तस्मादत्र शतपथानुसारेणाग्न्युपस्थान मन्त्रा इमे, अत्राग्नय एव सम्बोधनीयाः । अथ इत्यनेन ' अत सातत्यगमने ' इति धातोर्निपातसिद्धेन सातत्येन गार्हपत्याद् दक्षिणाग्निस्थानगमनाद् दक्षिणाग्निरेव सम्बोधनीयः । अत एव गार्हपत्यमुपतिष्ठेत नर्थ्य प्रजां मे पाहि " ' आहवनीयमुपतिष्ठेत शंस्य पशून् पाहीति श्रुतिभ्यां शंस्यन शब्दाभ्यां स्पष्टमेव गार्हपत्याहवनीयौ सम्बोधनीयो विज्ञायेते ॥ ३७ ॥

आगन्म

विश्ववेदसमस्मभ्ये वसु॒वत॑मम् ।

अग्ने सम्राड॒भि द्यु॒म्नम॒भि सह आय॑च्छस्व ॥ ३८ ॥

' समित्पाणिरनुपेत्य कचिदुपतिष्ठते आवहनीय गार्हपत्य दक्षिणाग्नीनागन्मेति प्रतिमन्त्रम् ( का ० ४।१२।१७ ) । प्रत्यागतः समिधं हस्त आदाय कश्चिदपि जनमगत्वैव प्रथममेवाग्न्यागारं गत्वाऽऽगन्मेत्यादिमन्त्रत्रयेणाहवनीयादी-नग्नीनुपतिष्ठेत । आवहनीयदेवत्याऽनुष्टुप् । हे आहवनीय! सम्राट् सम्यग् राजते दीप्यते यः स सम्राट् अग्ने! वयं त्वामगन्म त्वामुद्दिश्य ग्रामान्तरात् प्रत्यागताः । कीदृशं त्वाम्? विश्ववेदसं विश्वं वेत्तीति वेदयतीति वा विश्ववेदास्तं सर्वज्ञं सर्वज्ञानप्रदातारं वा विश्वं वेदो धनं वा यस्य स विश्ववेदास्तं सर्वधनं वा । पुनः कथम्भूतम्? अस्मभ्यं वसुवित्तमम् अस्मदर्थमतिशयेन वसुनो धनस्य वेदितारं दातारं वसुनो लम्भयितृतमं वा । यद्वा षष्ठ्यर्थे चतुर्थी । अस्माकमतिशयेन धनस्य वेदितारम् । हे अग्ने! अभिद्युम्नं सर्वतोऽवस्थितं यशोऽन्नं वा द्योततेनिष्पन्नत्वात् । ' द्युम्नं द्योततेर्यशो वान्नं वा ' ( नि ० ५१५ ) | अभिसहः रिपूनभिभवितुं सहो बलं ' ह मर्षण ' । ' सह इति बलनाम ' ( निघ ० २२ ९ | १७ ) | आयच्छस्व अन्नं यशो बलं गृह्णीष्व । पूर्णकामस्य तवावाप्तसमस्तकामत्वेऽपि स्वोपासकार्थमेव अन्नादीन् गृह्णीष्व । अभ्यायच्छस्व अभिगमय वा विस्तारय वा । स्वामी दयानन्द ने भी स्व - मनःकल्पित निराधार व्याख्या की है, अतः वह भी उपेक्षणीय है । शतपथानुसारी व्याख्या जो भाष्यकार ने की है, वही सिद्धान्तरूप होने से ग्राह्य है ॥ ३७ ॥

मन्त्रार्थ - सर्वप्रकाशमान् हे आहवनीय अग्ने! हम ग्रामान्तर से तुम्हारे निमित्त आये हैं । तुम सर्वज्ञ ओर सम्पूर्ण धन से युक्त हो । हमारे लिये धन का संग्रह किया करते हो । हे अग्ने! तुम हमें यश और बक प्रदान करो ॥ ३८ ॥

भाष्यसार - ऊपर दिये गये मन्त्रार्थ से ही भाष्य का अभिप्राय स्पष्ट हो रहा है ।

पृष्ठ 206

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 206 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ६ शुक्लयजुर्वेद संहिता [ अ ० ३ अथवा ' दाणु दाने ' इत्यस्य ' पात्रामा... ( पा ० सू ० ७ ३ ७८ ) इत्यादिना यच्छादेशः । यशो बलं चास्मभ्यं देहि 1 । स्थापनार्थो वा यच्छतिः । अस्मासु यशो बलं स्थापयेत्यर्थः । अध्यात्मपक्षे - हे सम्राट्! सम्यक् स्वप्रकाशत्वेन राजमान दीप्यमान अनन्तकोटिब्रह्माण्डाधिपते निरङ्कुशैश्वर्यवत्त्वेन निरतिशयैश्वर्यवन् अग्ने परमेश्वर! विश्ववेदसं सर्वज्ञं सर्वसाक्षिणं वसुवित्तमं वसुनः साम्राज्यलक्ष्म्या मोक्षलक्ष्म्याश्च लम्भयितृतमं त्वाम् अभ्यागन्म आभिमुख्येन भक्त्या प्रपन्नाः स्म । द्युम्नं ज्ञानरूपं द्योतमानं धनं सहस्तन्निष्ठादाढ्यं च अस्मभ्यम् आयच्छस्व विस्तारय च । यत्तु - समस्वज्ञानधनादियुक्तं सर्वाधिकैश्वर्यप्रदायिनं श्रेष्ठपुरुषमभिप्रपद्याहमिदं वदेयम् - हे अस्माकमग्रणीः! त्वं नः सम्राडसि त्वं धनमन्नं समस्तबलं च सर्वतः संगृह्णीष्व अस्मभ्यं च तत्प्रयच्छ ' इति, तत्तु कल्पनामात्रम्, अक्षराननुगुणं च, वाक्यमेतत्प्रसङ्गं च प्रपद्याहमेवं वदेयमित्यर्थबोधकपदाभावात् । नह्यमूढः कश्चिदपि यं कचित् श्रेष्ठपुरुषं गत्वा तं प्रति कथयति त्वं नः सम्राडसीति । सम्राजमभिलक्ष्यैव सम्राडित्युक्तिः सङ्गच्छते । निर्वाचनप्रथायामपि न तथा सङ्गतिः, बहुमतापेक्षत्वात् साम्राज्यवादस्य घृणास्पदत्वाच्च । सर्वतो धनबलाद्याहृत्य केभ्यश्चिद्दानं चापि निर्वाचनप्रथायां दूषणमेव, कात्यायनादिसूत्रविरोधश्च । अत्र शातपथी श्रुतिः - ' अथ प्र वा व्रजति प्र वा धावयति । स यत्र वेलां मन्यते तत्स्यन्त्वा वाचं विसृजते s य प्रोष्य परेक्ष्य यत्र वेलां मन्यते तद्वाचं यच्छति स यद्यपि राजान्तरेण स्यान्नैव तमुपेयात् ' ( ० २ | ४ | १ | ६ ) | एवं गार्हपत्याहवनीययोः समन्त्रकमुपस्थानं कृत्वा वाहनहीनश्चेत् स्वयं प्रव्रजति गच्छति । सवाहनश्चेदश्वरथादीन् धावयेत् प्रगमयेदिति । स गच्छन् यत्र यस्मिन् देशे वेलां स्वनिवासग्राममर्यादां मन्यते तत्स्थानपर्यन्तं वाचंयमो गत्वा तदनन्तरं वाचं विसृजेत् न तु ततः प्राक् । एवं पुनरागमनकालेऽपि तत्स्थानप्रभृति अग्निसमीपगमनपर्यन्तं वाग्यमनं विधत्ते - - अथ प्रोष्येति । प्रोष्य प्रवासं कृत्वा पुनरागत्य यत्र ग्राममर्यादां मन्यते तत्र वाचंयमो भवेत् । एवं वाग्यतस्य यजमानस्य अग्न्यगारस्य च मध्ये यदि राजा स्यात् तमपि नैवोपेयात् । वाग्यमनानन्तरं राजादिपूज्यजनसन्निधानेऽपि तदनादरेण अग्निगतमनस्क एवाग्निसमीपं गच्छेत् । तदेतदापस्तम्बेनाप्युक्तम्- ' आरादग्निभ्यो वाचं यच्छति । यद्येन राजा पिताचार्यो वाऽन्तरेणाग्नीन् स्याच्छंदिर्दर्शनेनैनमाद्रियेत ' ( आप ० श्र ० २५/५/६ ) | दर्शने छदिर्व्यवधायकत्वेन स्यात्, नैनमाद्रियेतेति । ' स आहवनीयमेवा उपतिष्ठते । अथ गार्हपत्यं गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तद्गृहेष्वेवैतत्प्रतिष्ठायां प्रतितिष्ठति ' ( श ० २ | ४ | ११७ ) | प्रवत्स्यत उपस्थानवैप त्येनागतोपस्थानस्य विधानम् - गमनकाले गार्हपत्यो-पस्थानमग्रे पश्चादाहवनीयोपस्थानं प्रत्यागमनवेलायामाहवनीयोपस्थानमग्रे पश्चाद् गार्हपत्योपस्थानम् । तदुपपादयति- सर्वाग्नीनां योनित्वाद् गृहपतिना संयुक्तत्वाद् गार्हपत्यस्य गृहशब्दाभिधेयत्वम् । गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा गृहेष्वेव प्रतिष्ठायां प्रतितिष्ठति । तस्माद् गार्हपत्यस्य पश्चादुपस्थानम् । ' स आहवनीयमुपतिष्ठते । अध्यात्मपक्ष में- हे अनन्तकोटिब्रह्माण्डनायक! निरंकुश ऐश्वयंशालिन्! परमेश्वर! आप सब कुछ जानते हैं । आप ही साम्राज्यलक्ष्मी तथा मोक्षलक्ष्मी दोनों को दे सकते हैं । हम मक्तिपूर्वक आपके शरण में हैं । आप हमें ज्ञानरूप घन और उसमें दृढनिष्ठा देकर उसका विस्तार करें ॥ किसी अन्य व्यक्ति ने जो स्व - कल्पना प्रसूत व्याख्या की है, वह मन्त्र के शब्दों से कोई सम्बन्ध नहीं रख रही है तथा श्रौतसूत्र, शतपथश्रुति के विरुद्ध भी है, अतः उस त्याज्य ही समझना चाहिये ।

पृष्ठ 207

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 207 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ३८-३९ ] वेदार्थ पारिजातभाष्यसहिता १ ९ ७ आगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम् । अग्ने सम्राभि द्युम्नमभि सह आयच्छस्वेत्यथोपविश्य तृणान्यपलुम्पति ' ( श ० २ | ४ | १ | ८ ) । प्रथम कर्तव्योपस्थानं समन्त्रकं दर्शयति- - स आहवनीयमिति । समिदाधानं विधत्ते - अथेति । उपस्थानानन्तरमाहवनीयाग्निसमीपे उपविश्य तृणानि तृणोपलक्षितानि समिदादीनि अवलुम्पति प्रच्छि तस्मिन्नग्नौ प्रक्षिपति ' लुप्लु छेदने ' । दयानन्दस्तु - ' हे सम्राडग्ने जगदीश्वर! त्वमस्मभ्यं द्युम्नं सहश्चाभ्यायच्छस्व विस्तारय । एतदर्थं वयं वसुवित्तमं त्वामभ्यागन्म प्राप्नुयाम इत्येकोऽन्वयः । यः सम्राग्नेयमग्निरस्मभ्यं द्युम्नं सहश्चाभ्यायच्छस्व अभ्यायच्छति । तं वसुवित्तमं विश्ववेदसमग्नि वयमभ्यागम ' इति, तदेतस्येश्वरपरत्वेनादोषेऽपि शतपथ विरुद्धत्वाद् हेयमेवैतत् तत्रास्य मन्त्रस्याहवनीयोपस्थाने विनियुक्तत्वात् । भौतिकाग्निपक्षे पृथिव्यादिलोकान् वेदयति सूर्यरूपेणाग्निरेतान् प्रकाश्य प्रापयति स वसुंविदित्यसङ्गतमेव, अग्नेः सूर्यरूपेण प्रकाशकत्वे सत्यपि प्रापकत्वासिद्धेः, तस्य त्वया जडत्वाभ्युपगमात् ॥ ३८ ॥

अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गार्हपत्यः प्र॒जाया॑ वसु॒वित्त॑मः ।

अग्ने॑ गृ॒हपते॒ऽभि द्यु॒म्नम॒भि सह॒ आय॑च्छस्व ॥ ३ ९ ॥

गार्हपत्यमुपतिष्ठते न्यङ्कुसारिणी बृहतो । यत्र द्वितीय: पादो द्वादशाक्षरोऽन्यत्र त्रयोदशाक्षराणि सा न्यकुसारिणी । अत्र तृतीयो नवार्णस्तेनैकाधिका । अयं पुरोवर्ती गार्हपत्यस्तन्नामकोऽग्निर्गृहपतिः गृहपालकः, प्रजायाः पुत्रपौत्रादिरूपायाः सन्ततेरनुग्रहार्थं वसुवित्तमः, अतिशयेन धनस्य लब्धा दाता वा । हे अग्ने! स त्वं द्युम्नं सहश्च अस्मा यच्छस्व । अध्यात्मपक्षे - अयमपरोक्षः प्रत्यगात्मा क्षेत्रज्ञः, गृहपतिः गृहस्य क्षेत्रस्य कार्यकरणसंघातस्य परार्थत्वेन पतिः स्वामी । यथा शय्याप्रासादादिकं न स्वार्थं किन्तु स्वविलक्षणान्य चेतनार्थप्रयुक्तं भवति, तथैव देहेन्द्रियादिकमपि सुखदुःखमोहात्मकमनेकात्मकं न स्वार्थं किन्तु स्वविलक्षणसुखदुःख मोहाती तासं हत क चेतनार्थ-प्रयुक्तम् । स च गार्हपत्यो गृहपतिना अनन्तब्रह्माण्डात्मकस्य पत्या सत्तास्फूर्तिप्रदेन पालकेन परमात्मना युक्तः । ' गृहपतिना संयुक्ते ञ्यः ' ( पा ० सू ० ४ | ४ | १० ) इति त्र्यप्रत्ययेन रूपसिद्धिः । क्षेत्रज्ञः शोधितस्त्वंपदार्थः, अनन्तब्रह्माण्डवेदित्रा परमेश्वरेण युक्तः सदैव तादात्म्यलक्षणेन सम्बन्धेन सम्पृक्तः, ' द्वा सुपर्णा सयुजा सखाया ' ( ऋ ० सं ० १।१६४ / २० ) इति श्रुतेः । परमेश्वरेण सम्पृक्तत्वादेवायं क्षेत्रज्ञः प्रजायाः प्राणलक्षणाया अनुग्रहार्थं वसुवित्तमः । कर्मानुष्ठानार्थं वसूनां गोनू हिरण्यादिलक्षणानां मानुषवित्तानां कर्मदेवतादिज्ञानलक्षणानां स्वामी दयानन्द ने जो व्याख्या को है, वह भी शतपय श्रुति के विरुद्ध होने से त्याज्य ॥ ३८ ॥

मन्त्रार्थ - यह सामने अवस्थित रहने वाला गार्हपत्यसंज्ञक अग्नि गृह रक्षक है और पुत्र - पौत्रादि प्रजा के निमित्त अत्यधिक धन संग्राहक है । हे गार्हपत्य अग्ने! तुम हमें यश और बल प्रदान करो ॥ ३ ९ ॥ भाष्यसार - - माष्यार्थ की स्पष्टता मन्त्रार्थ से हो रही है । अध्यात्मपक्ष में - यह गृहपतिरूप गार्हपत्याग्नि अनन्त ब्रह्माण्डात्मक गृह का पति जो परमात्मा है, उससे युक्त है । अतः वही गार्हपत्याग्नि हमारी प्रजा पर अनुग्रह करने के लिये हमें ज्ञानरूप धन और योगशक्तिरूप बल प्रदान करे अथवा उसका विस्तार करे ।

पृष्ठ 208

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 208 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ८ शुक्लयजुर्वेद संहिता [ अ ० ३ दैववित्तानां च लब्धृतमः । हे अग्ने परमेश्वर गृहपते निखिल ब्रह्माण्डपालक! अभिद्युम्नं अभि सह सहश्च विद्यादिधनं तदीयदाढ्यं च आयच्छस्व देहि वर्धय विस्तारय वा । यद्वा निखिल ब्रह्माण्डाधिपतिरेव गृहपतिरत्र सम्बोध्यः । स च गृहपतिभिः क्षेत्रज्ञः संयुक्तत्वात् तेषामनुग्राहकत्वाच्च गार्हपत्योऽप्युच्यते । स त्वमस्माकं सम्बन्धित्वादस्माकं प्रजाया अनुग्रहार्थं वसुवित्तमः वसूनां लम्भयितृतमः । अस्मभ्यं द्युम्नं ज्ञानादिलक्षणं द्योतमानं धनं योगज्ञानादि -शक्तिरूपं बलं च प्रयच्छ विस्तारय वा । अन्यस्तु सम्राजमेव गृहस्वामितुल्यत्वाद् गृहपति गार्हपत्याग्नितुल्यत्वात् समस्तगृहस्वामिसंयुक्तं राष्ट्रपति च वक्ति, तदपि स्वाभ्यूहितमेव, तुल्यत्वबोधकपदाभावात् । ' अथ गार्हपत्यमुपतिष्ठते । अयमग्निर्गृहपति-गर्हिपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपतेऽभिद्युम्नमभि सह आयच्छस्वेत्यथोपविश्य तृणान्यपलुम्पत्येतन्नु जपेनैतेन न्वेव भूयिष्ठा इवोपतिष्ठन्ते ' ( श ० २२४: ११ ९ ) । एतेन जपेन भूयिष्ठा इवोपतिष्ठन्ते । दयानन्दस्तु – ' हे अग्ने गृहपते परमात्मन्! योऽयं भवान् गृहपतिर्गार्हपत्यः प्रजाया बहुवित्तमोऽग्निः, तस्मात्त्वमस्मदर्थं द्युम्नं सहश्वायच्छस्व ' इत्येको भौतिकाग्निपरत्वेनान्योऽप्यन्वयो दर्शितः, तदुभयमसङ्गतम्, शतपथश्रुतौ गार्हपत्याग्निपरत्वेन मन्त्रस्योक्तत्वात् । एवमेव सर्वेश्वरस्य गृहपतित्वं गृहपतिसंयुक्तत्वकथनमपि निर्मूलमेव । यदुक्तम्- ' गृहपतिना संयुक्ते ञ्यः ' ( पा ० सू ० ४ | ४ | ९ ० ) इत्यनेन गृहपतिना संयुक्त इत्यर्थे ञ्यः प्रत्ययः । ' इदं पदं महीधरादिभिर्व्याकरणज्ञानविरहाद् गृहस्य पतिः पालक इत्यशुद्धं व्याख्यातम् ' इति, तदेतद्दयानन्दस्यास्थाने पाण्डित्यप्रदर्शनम्, महीधरादिभाष्यानवबोधात् । ' नह्येष स्थाणोरपराधो यदेनमन्धो न पश्यति ' ( नि ० १।१६ ) । तथा चेदं महीधरभाष्यम् -- ' अयं पुरोऽवस्थितो गार्हपत्य एतन्नामकोऽग्निर्गृहस्य पतिः पालकः । विदाङ्कुर्वन्तु विद्वांसोऽस्य दयानन्दस्वामिनो धाष्टयं साहसं च । मन्त्रे गृहपतिशब्दः पठितः । तस्येदं व्याख्यानं गृहस्य पालकः । न गार्हपत्य इत्यस्य तद्व्याख्यानम् । अत एव टिप्पणीकारोऽछद्मना तत्स्वीकरोति, यदि गृहस्य पतिगर्हिपत्यार्थे तदैवायं दोषः स्यादिति ॥ ३ ९ ॥

अ॒यम॒ग्निः पु॑रो॒थ्यो रमि॒मान् वृ॑ष्टि॒वर्ध॑नः ।

अग्ने॑ पु॒रोष्या॒भि द्यु॒म्नम॒भि सह॒ आय॑च्छस्व ॥ ४० ॥

आसुरेरार्षम् । अनुष्टुप् । आहवनीयं गार्हपत्यं चोपस्थाय दक्षिणाग्निमुपतिष्ठते - अयं प्रत्यक्षो दक्षिणाग्निः पुरीष्यः पशव्यः, ' पशवो वै पुरीषम् ' ( श ० ७ ५ १ ९ ) इति श्रुतेः । पुरीषेभ्यो हितं पुरीष्यम् । रयिमान् धनवान् । पुष्टिवर्धनः पुष्टेर्धनधान्यादिसमृद्धेर्वर्धयिता । हे पशव्य दक्षिणाग्ने! अभि द्युम्नम् अभि सह आयच्छस्व । अध्यात्मपक्षे - अयं परमेश्वरोऽग्निः, महावाक्यजन्यवृत्त्यारूढस्य तस्य अविद्यातत्कार्यात्मकप्रपञ्चदाह-कत्वात् । स च पुरीष्यः पृणाति पश्यति स्वेन रूपेण सर्वमिति पुरीषम्, ' पृ पालनपूरणयो: ' इत्यस्मात् ' शृपृभ्यां किसी व्याख्याकार ने राष्ट्रपतिपरक मन्त्र को लगाया है, किन्तु वह भी स्वकपोलकल्पित ही है । स्वामी दयानन्द ने भौतिक अग्निपरक अर्थ लगाकर व्याख्या की है, वह भी असंगत है । शतपथश्रुति के भी विरुद्ध है, अतः उपेक्षणीय है ॥ ३ ९ ॥ मन्त्रार्थ - यह दक्षिणाग्नि पशुओं के लिये हितकारक, धनवान् और पोषण करने वाला है । अतः हे पशु करने वाले दक्षिणाग्ने! हमें कीति और बल हो ॥ ४० ॥

पृष्ठ 209

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 209 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ४०-४१ ] वेदार्थपारिजातमाष्यसहिता १ ९९ विच्च ' ( उ ० ४।२७ ) - इत्यौणादिक ईषन्प्रत्यये पुरीषम्, तत्र साधुरिति वा, छान्दसत्वाद्वा स्वार्थिके यत्प्रत्यये पुरीष्यः । रयिर्धनादिर्दातव्यत्वेनास्त्यस्येति रयिमान् पुष्टिवर्धनो ब्रह्मादिनिष्ठाया वर्धयिता । स त्वम् अग्ने! अभि द्युम्नमभिसह आयच्छस्व । दयानन्दस्तु - ' हे पुरीष्याग्ने जगदीश्वर! योऽयं पुरीष्यो रयिमान् पुष्टिवर्धनोऽग्निरस्ति, तस्मादस्मभ्य-मभिद्युम्नमभि सह आयच्छस्व । पृणन्ति पूरयन्ति सुखानि यैर्गुणैः, पृणन्ति यानि कर्माणि तानि पुरीषाणि तेषु साधुः पुरीष्यः ' इति, तदप्यसङ्गतम्, व्युत्पत्त्या गुणानां कर्मणामन्येषां वा पुरीषपदवाच्यत्वेन विनिगमनाविरहेणै-कस्याप्यर्थस्यानिश्चयात् । तस्मात् ' पशवो वै पुरीषम् ' ( श ० ७: ५।११ ९ ) इति श्रुत्यनुरोधेन पुरीषपदेन पशव एव ग्रहीतुं योग्याः । किञ्च, गुणेषु कर्मसु च साधुत्वमसाधुत्वं वा कर्तुर्भवति नाग्नेर्जंडस्येति । श्रुतिसूत्रादिषु तु दक्षिणाग्न्युपस्थानमन्त्रत्वाद् दक्षिणाग्निरेवात्र प्रतिपाद्यः ॥ ४० ॥

गृहा मा विभीत मा I पध्व॒मूज॒ विध॑त॒ एमसि ।

ऊज॒ बिभ॑द्वः सु॒मना॑ः सु॒मे॒धा गृ॒हाने॑सि॒ मन॑सा॒ मद॑मानः ॥। ४१ ॥

सुमनाः शोभनमनस्कः । सुमेधाः शोभनया धारणावत्या मेधया प्रज्ञया युक्तः । मनसा मोदमानः दुःखरहितेन हृष्यन् वो युष्मान् गृहान् एम आ इमः आ एमि आगच्छामि । आ इम इति बहुवचनम् ' अस्मदो द्वयोश्च ' ( पा ० सू ० ११२१५ ९ ) इति बहुवचनस्मरणात् । अध्यात्मपक्षे तु - नामरूपलीलाधाम्नां भगवद्रूपत्वेन भगवद्धामानि भगवता सम्बोधयितुं शक्यन्ते, ' स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि ' ( छा ० ७ २४ । १ ) इति श्रुतेः । तथा च वनवासादागतः श्रीरामः कुतश्चित् प्रवासादागतः श्रीकृष्णो गृहान् सम्बोध्याश्वासयति - हे गृहा यूयं मा बिभीत युष्मांस्त्यक्ष्यामीति भयं मा कार्ष्ट । असुरराक्षसाद्युपद्रवभीत्या मा कम्पध्वम् । किं तहि ऊर्जं बलं रसं वा धारयन्तः स्थिरा भवतेति शेषः । ऊजं बलं रसं च बिभ्रत धारयत । युष्मान् रसितुमेमि । सुमना भक्तविषयकेण शोभनेन मनसा भक्तकल्याणधारणावत्या च मेधया युक्तो मोदमानः प्रहृष्यमाणः प्रहर्षयश्च स्वीयान् एमि । अन्यस्तु –'गृहपदेन गृहस्थाः पुरुषा उच्यन्ते । हे गृहस्था:! ( सैनिकाः कथयन्ति यदा वयं विशेषबलं धारयमाणा आगच्छामस्तदा ) सैनिकराजपुरुषेभ्यो भयं मा कुरुत मा कम्पत । शोभनेन मनसा सुमेधया मोदमाना गृहस्थान प्राप्तुम: ' इति, अस्मिन् व्याख्याने वक्तृकल्पना स्वातन्त्र्येण कृता । सनातनिव्याख्याने अध्यात्मपक्ष में - यह परमेश्वररूप अग्नि महावाक्यजन्य वृत्त्यारूद है, अतः अविद्या तत्प्रपञ्च का दाहक है, पशुओं काहित करने वाला है । वही धनवान है, वही पुष्टिवर्धन है, अर्थात् ब्रह्मनिष्ठा का वर्धक है । अतः जो तुम्हारे पास है, वह मुझे भी दो । स्वामी दयानन्द की व्याख्या को असङ्गत ही कहना होगा, क्योंकि वह किसी अर्थ का निश्चय ही नहीं कर पा रही है तथा श्रुति - सूत्र के विरुद्ध मार्ग से चलती है ॥ ४० ॥

मन्त्रार्थ - हे गृहों! अपना पालक यजमान प्रामान्तर को गया है, यह समझकर भयभीत मत होना । तथा कोई शत्रु आकर तुम्हारा नाश कर देगा, इस विचार से कम्पित मत होना । क्योंकि हम बलप्राप्त किये तुम्हारे पास आ

पृष्ठ 210

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 210 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०० शुक्लयजुर्वेद संहिता [ अ ० ३ कात्यायनादिसूत्रानुसारेण प्रत्यागता यजमाना वास्तुदेवताविशिष्टान् गृहान् प्रतिवदन्ति । अत एतदेव व्याख्यानं साधीयः । ' गृहा मा बिभीत मा वेपध्वमूजं बिभ्रत एमसि । ऊजं विभ्रद्वः सुमनाः सुमेधा गृहानैमि मनसा मोदमानः ' ( वा ० स ० ३।४१ ), ' गृहा मा बिभीतेति गृहानुपैति ' ( का ० श्र ० ४।१२।२१ ) । ग्रामान्तरादागतो गृह मेत्यादिमन्त्रत्रयेण गृहं प्राप्नुयात् । तिस्रोऽपि वास्तुदेवत्याः शंयुदृष्टा स्त्रिष्टुब्विरारूपाः । हे गृहा यूयं मा बिभीत भयं मुञ्च गृहपतिर्गत इति भयं मा कुरुत मा वेपध्वं कम्पनं मुञ्चत कश्चिदरातिविनाशयिष्यतीति बुद्धया कम्पं मा कार्स्ट, यतो वयं युष्मान् ऊर्जमन्नं बिभ्रतो धारयमाणाननुपक्षीणान् अन्नेनैव आ इमसि आगताः स्मः । अहमपि ऊर्जमन्नं बिभ्रद् धारयन् वः युष्मान् प्रति सुमनाः शोभनमनाः सुमेधाः शोभनप्रज्ञः सन् गृहान् प्रति ऐमि आगच्छामि । मनसा मोदमानो दुःखरहितेन मनसा हृष्यन् । ' अथातो गृहाणामेवोपचारः । एतद्ध वै गृहपतेः प्रोषुष आगताद् गृहांः समुत्रस्ता इव भवन्ति किमयमिह वदिष्यति किं वा करिष्यतीति स यो ह तत्र किञ्चिद्वदति वा करोति वा तस्माद् गृहाः प्र त्रसन्ति तस्येश्वरः कुलं विक्षोन्धोरथ यो ह तत्र न वदति न किञ्चन करोति तं गृहा उपसश्रयन्ते न वा अयमिहावादीन्न किञ्चनाकर-दिति । स यदिहापि सुक्रुद्ध इव स्याच्छ्व एव ततस्तत्कुर्याद् यद्वदिष्यन् वा करिष्यन् वा स्यादेष उ गृहाणामुपचारः ' ( ० २ | ४ | १ | १४ ) | एवं प्रवासादागतस्य यजमानस्याग्निविषयं कर्तव्यमुपदिश्य गृहविषयं वक्तुं प्रतिजानीते-अथातो गृहाणामुपचार इति । उपचरणमुपचारः समाश्वासनम्, वक्ष्यत इति शेषः । गृहा मा बिभीतेति मन्त्रेण तेषामुपस्थानं विधित्सुस्तेषां भयसम्भावनां साधयति - एतद्ध वा इति । प्रोषुषः प्रवासं कृतवतो यजमानाद् गृहाः सस्ता भीता इव भवन्ति । भीतिकारणमाह- किं वदिष्यति किं वा करिष्यतीत्यभिप्रायेण तेषां भयशङ्का । स खलु यजमान आगत्य गृहा मा बिभीतेत्युपस्थानं विना यत्किञ्चन वदन् कुर्वन् वा भवति, अस्मद्विषये क्रुद्ध एवासौ वर्तत इति । तस्माद् यजमानाद् गृहाः प्रत्रसन्ति प्रोद्विजन्ते । ननु तेषां त्रासेन को दोष इत्याह-- तस्येश्वरः तस्य यजमानस्य कुलं वंशं विक्षोन्धोः विनष्टं कर्तुमीश्वरः । व्यत्ययेनैकवचनम् । ईश्वराः समर्था इत्यर्थः । यस्तु गृहानुपागत्य किमपि न वदति मौनमेव भजते गृहा मा बिभीतेत्युपस्थानं वा करोति तं गृहा उपसंश्रयन्ते उपगच्छन्ति । तेषामभिप्रायमाह - न खल्वयं यजमान इहास्मिन् समये किमप्यवादीत् किमपि च नाकरत् नाकार्षीत् । यदि अस्मदपराधः स्यात् तदा तद्विषयं वदिष्यति । तस्माद् यजमानस्यास्मद्विषये क्रोधो नास्तीत्य-नेनाभिप्रायेण तमुपश्रयन्ते । स यदिहापीति -- इहास्मिन् गृहविषये यद्यपि स आगतो यजमानोऽपराधश्रवणात् क्रुद्ध इघ स्यात् ततस्तस्मादागमनदिवसात् श्वः अनन्तरदिवस एव तद् वक्तव्यं कर्तव्यं वोपचारनिर्वृत्तये प्रयुञ्जीत, न त्वागमनदिवसे । तदुक्तं सूत्रकृतापि - ' गृहा मा बिभीतेति गृहानुपैति, क्षेमाय व इति प्रविशति न हिंस्यात् गृह्यान् पहुँचे हैं । जैसे तुमने बल धारण किया है, वैसे ही मैं भी बल प्राप्त कर तथा उत्तम मनोभावना और सद्बुद्धि से युक्त हुआ, दुःखरहित अन्तःकरण से तुम्हारे समीप आया हूँ । ' गृहा मा ' आदि तीन मन्त्रों का उच्चारण कर अपने निवासगृह में आवे ॥ ४१ ॥

भाष्यसार --- दिये गये मन्त्रार्थ के द्वारा भाष्य का भाव स्पष्ट हो जाता है । अध्यात्मपक्ष में - वनवास की अवधि समाप्त कर वापस आये हुए भगवान् रामचन्द्र अथवा कभी प्रवास के पश्चात् कहीं से वापस आये हुए भगवान् श्रीकृष्ण अपने निवासगृह को सम्बोधित कर आश्वासन दे रहे हैं । अग्रिम भाव स्पष्ट है । किसी व्यक्ति ने बिना किसी आधार के ही अपनी स्वतन्त्र कल्पना से पूर्ण व्याख्या कर दी है, जो शतपथश्रुति, श्रौतसूत्र - परम्परा के विरुद्ध है ।