वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 211–220
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 211–220
पृष्ठ 211
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ४१-४२ ] वेदार्थ पारिजातमाष्यसहिता २०१ कामं श्वः ' ( का ० श्रो ० ४।१२।२१ - २३ ) । अत्र न केवलं जडनूतानां गृहाणामुपस्थानं किन्तु गृहाधिष्ठातॄणां वास्तुदेवतानामेवैतदुपस्थानम्, तेषामेव भयाशङ्काया अनिष्टकरणादिसामर्थ्यस्य च सम्भवात् । दयानन्दस्तु - ' हे ब्रह्मचर्येण कृतविद्या गृहा गृहाश्रमिणो मनुष्या ऊजं बिभ्रतो यूयं गृहाश्रमं प्राप्नुत । तदनुष्ठानामा बिभीतमा वेपध्वम् । ऊजं बिभ्रतो वयं युष्मान् गृहान् एमसि समन्तात् प्राप्नुमः । वो युष्माकं मध्ये स्थित्वैवं गृहाश्रमे वर्तमानः सुमनाः सुमेधा मनसा मोदमान ऊजं बिभ्रत् सन्नं सुखान्येमि नित्यं प्राप्नुयाम् । गृहा गृह्णन्ति ब्रह्मचर्याश्रमानन्तरं गृहाश्रमं ये मनुष्यास्ते गृहाः ' इति, तन्न, गौणार्थग्रहणात् गृहपदेन गृहस्थानां कुतो ग्रहणे मानाभावात् । अन्यथा व्युत्पत्तिलभ्यार्थग्रहणे ये ब्रह्मचर्याश्रमानन्तरं संन्यासाश्रमं गृह्णन्ति तेऽपि गृहपति-न गृहपदव्यपदेश्या भवेयुः? शतपथे सूत्रे च यथाग्नीनामुपस्थानमुक्तम्, तथैव गृहाणामपि । उपस्थानस्य कर्तृकत्देन न प्रथमतो गृहपतिरेव गृहपदेन सम्बोधनीयः सम्भवति । एवमेव ' शाल्वत्रस्तानां द्वारकास्थानां नरनारीणां दाराणां वा सम्बोधनेन श्रीकृष्णस्तानाश्वासयति ' इत्यपि कल्पनामात्रम्, गृहशब्देन व्युत्पत्त्या तथैवान्येषां गृहस्थानामपि सम्बोधनसम्भवे तादृशार्थग्रहणे विनिगमनाविरहात् ॥ ४१ ॥
येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन॒सो ब॒हुः । गृहानुप॑ ह्वयामहे॒ ते नों जानन्तु जानृतः ॥ ४२ ॥
अनुष्टुप् । प्रवसन् देशान्तरं गच्छन् गृहपतिर्यजमानः येषामध्येति ' अधीगर्थदयेशां कर्मणि ' ( पा ० २।३।५२ ) इति षष्ठी, यान् गृहान् स्मरति गृहविषयं क्षेमं चिन्तयति, तथा येषु गृहेषु यजमानस्य बहुप्रकारं सौमनसः सौमनस्यं प्रसन्नतातिशयश्च भवति, तान् गृहाभिमानिनो वास्तुदेवानुपह्वयामहै आह्वयामः । ते गृहदेवा आहूताः सन्तो जानत उपकाराभिज्ञान् कृतज्ञानस्मान् जानन्तु, एते कृतघ्ना न सन्तीत्यवगच्छन्तु । अध्यात्मपक्षे - यान् गृहान् धामानि प्रवसन् कार्यवशात् प्रवासं कुर्वन् भगवानपि स्मरति, येषु भगवतः प्रीत्यतिशयस्तान् गृहान् भगवद्धामानि वयं भक्ता उपह्वयामहे । भगवत्प्रीत्यास्पदत्वाद् भगवद्रूपत्वाच्च ते तन्माहात्म्यं जानतोऽस्मान् जानन्तु कृपापात्रतयाऽनुग्रहबुद्ध्याऽवगच्छन्तु । अन्यस्तु ' सैनिकानां राजपुरुषाणामुक्तिः । प्रवसन् मनुष्यो यान् गृहस्थान स्मरति, येषु सौमनस्येन सुहृद्भावेन तिष्ठति, वयमधिकारिजनास्तान् पुरुषान् स्वसमीपे मानपूर्वकमाह्वयामहे । ते प्रत्यभिज्ञावतोऽस्मान् जानन्तु ' इति, तदपि यत्किचित् राजनयिकव्यवहारेषु सैनिका राजपुरुषाश्च स्वे स्वे कार्ये संल्लग्ना स्वामी दयानन्द ने भी अपने स्वभावानुसार मन्त्रगत शब्दों के मुख्यार्थ को त्याग कर गौण अर्थ को ही स्वीकार करके व्याख्या की है । अत: वह भी श्रुति - सूत्र के विरुद्ध होने से त्याज्य ही है ॥ ४१ ॥
मन्त्रार्थ- - प्रवास पर जाते समय ( देशान्तर - प्रामान्तर जाते समय ) यजमान जिस गृह ( घर ) का स्मरण करता है और जिस घर के विषय में उसे अतिशय प्रेम रहता है, उन घरों ( गृहों ) को हम आमन्त्रित कर रहे हैं । वे गृह अर्थात्, वे गृहदेवताएँ हमें कृतज्ञ समझें । तात्पर्य यह है कि हम उनके प्रति कृतघ्न नहीं हैं, इस बात को गृहदेवताएं स्मरण रखें ॥ ४२ ॥
भाष्यसार - माध्य का सार मन्त्रार्थ के पढ़ लेने से स्पष्ट हो रहा है । २६
पृष्ठ 212
पाठ पढ़ें पाठ छिपाएँ
२०३ शुक्लयजुर्वेद संहिता [ अ ० ३ भवन्ति न गृहस्थेषु सज्जन्ते, पक्षपातादिदोषोद्गमसम्भवात् । तेषामाह्वानं च न कुर्वन्ति, समेषामाह्वानासम्भवात्, केषाञ्चिदाह्वाने वैषम्यापातात् । वेदा लोकानवगतबोधनाय प्रवर्तन्ते न लोकसिद्धव्यवहारप्रवर्तनाय, तथा पिष्टपेषणापत्तेः । लोकायतपथे वेदप्रवर्तनमेवेह दूषणम् । दयानन्दस्तु – ' प्रवसन्नतिथिर्येषामध्येति येषु बहुः सौमनसोऽस्ति तान् गृहान् गृहस्थान् वयमतिथय उपह्वयामहे । ये सुहृदो गृहस्थास्ते जानतो नोऽस्मान् अतिथीन् जानन्तु ' इति, तत्तु निरर्गलमेव, मन्त्रेऽतिथि-बोधकपदाभावात् । तस्माद् ब्राह्मणसूत्रसम्मतत्वात् सिद्धान्तव्याख्यानमेव युक्तम् ॥ ४२ ॥
उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वय॑ः । अथो॒ अन्त॑स्य लाल उप॑हूतो गृहेषु॑ नः ।
क्षेमा॑य वः शान्त्ये प्रपद्ये शिव ७ श॒ग्म शंयोः शंयोः ॥ ४३ ॥
त्र्यवसाना महापक्तिः । यस्या अष्टार्णाः षट्पादाः सा पङ्क्तिः । पञ्चमो नवार्णस्तेनैकाधिका । इहास्माकं गृहेषु गावो गोत्वजातिविशिष्टा धेनवो बलीवर्दा अस्माभिरनुज्ञाताः सुखेन तिष्ठन्तु, तथा अजावयः अजात्वावित्व-जातिद्वयविशिष्टाः पशव उपहूताः सुखेन वर्तन्ताम् । अथो अपि च अन्नस्य कीलालो रसः अन्नसम्बन्धिबहु रसोऽस्म-गृहेषूपहूतः समृद्धस्तिष्ठतु । ' क्षेमाय व इति प्रविशति ' ( का ० श्री ० ४।१२।२३ ) | हे गृहाः! क्षेमाय विद्यमान-धनादे रक्षणाय शान्त्यं सर्वारिष्टशमनाय वो युष्मान् प्रपद्ये प्रविशामि । शं सुखं कामयत इति शंयुः । ' इदंयुरिदं कामयमानः ' ( नि ० ६।३१ ) । इतिवत् । तस्य शंयोः सुखं कामयमानस्य मम शिवं लौकिकं सुखं शग्ममामुष्मिकमित्युभयविधं बहुविधं वा सुखं भवत्विति शेषः । शिवं शग्मं द्वे अप्येते सुखस्य नामनी । शंयोरिति द्विरुक्तिरत्यादरार्था । अध्यात्मपक्षे - नोऽस्माकं गृहेषु शरीरेषु उपहूता गाव इन्द्रियाणि वेदवाचश्चोपहूताः । अजा प्रकृतिः, अवयो महदाद्याश्च सान्निध्यमुपगताः । अथो अन्नस्य भोग्यजातस्य कीलालो रस उपहूतः । अहं च क्षेत्रज्ञो वो युष्मान् तादृग्रसादिसम्पन्नान् गृहान् प्रपद्ये प्राप्नोमि । किमर्थं शंयोः मोक्षलक्षणं परमानुरागात्मकं भक्तिरूपं सुखं कामयमानस्य मम शान्तये सर्वानर्थनिवृत्तिपूर्वकपरमोपशमलक्षणस्य मोक्षस्य निरावरणभगवत्स्वरूपलक्षणस्य सुखस्य प्राप्तये क्षेमाय प्राप्तस्य तादृशस्य सुखस्य तदुपकरणस्य च रक्षणाय शंयोः शं सुखं मोक्षं वा कामयमानस्य मम शिवं मोक्षरूपं शग्मं भगवत्प्रापकं भक्तिसुखं च भूयादिति शेषः । शं सुखं गम्यतेऽनेनेति शग्मम् । अध्यात्मपक्ष में भगवान् के चारों धामों तथा अन्यान्य भगवत्सम्बन्धी धामों की यात्रा श्रद्धा - भक्ति- भगवत्स्मरण के साथ जो भक्त जन किया करते हैं, उनपर भगवान् अनुग्रह करते हैं । भगवान् उन भक्तों को कृतघ्न नहीं समझते, अपितु कृतज्ञ समझते हैं । किसी व्यक्ति ने राजनयिक व्यवहारपरक व्याख्या की है । वेद को उसने अनुवादक ही समझ लिया है, जो वेद के स्वरूप के विरुद्ध है । अतः ऐसी व्याख्या को त्याज्य ही समझना चाहिये । स्वामी दयानन्द ने भी निरर्गल व्याख्या की है, क्योंकि मन्त्र में उन अर्थों के बोधक शब्द ही नहीं हैं और
श्रुति सूत्र के विरुद्ध व्याख्या है । अतः उसे उपेक्षणीय ही समझना होगा ॥ ४२ ॥
मन्त्रार्थ -- हमारी अनुज्ञा से इस घर में धेनु, बैल, अजा, मेष सुखपूर्वक रहें । उसी प्रकार अन्न का विशेष रस हमारे घर में हमारी अनुज्ञा से समृद्ध रहे । हे गृहों! मैं तुमको प्राप्त हो रहा हूँ ( मैं तुममें प्रवेश कर रहा हूँ । तुम हमारे द्रव्य की रक्षा करो और हमारे समस्त अनिष्टों की शान्ति करो । मैं महान् सुख की कामना करता हूँ, अतः मुझे
पृष्ठ 213
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ४३ ] वेदार्थपारिजातभाष्यसहिता २०३ गावः, अजाश्वावयश्च प्राणधारका उत्तमान्नादिपदार्थाः अपरस्तु – ' राष्ट्र ' गृहेषु च पयस्विन्यो प्राप्नुवन्तु । हे गृहस्थाः! युष्माकं कुशलक्षेमाय विघ्नानां विघ्नकारिणां च शमनाय सुखप्रदानाय युष्मान् प्राप्नुयाम ' इति, तदप्यविचारचारु, उपहूता इत्यस्य प्राप्त्यर्थताभावात् । तथा सकृदुच्चरितस्य ' व: ' इत्यस्य ' युष्मान् ' ' युष्माकम् ' इति द्वघर्थतायाः सकृदुच्चरितः शब्दः सकृदेवार्थं गमयति ' इति सिद्धान्तविरोधात्, आवृत्तौ च प्रमाणाभावात् । दयानन्दस्तु – ' इहास्मिन् संसारे वो युष्माकं शान्त्यै नोऽस्माकं क्षेमाय गृहेषु गाव उपहृताः । अथोऽन्नस्य कीलाल उपहूतोऽस्त्येवं कुर्वन्नहं गृहस्थः शंयोः शिवं शग्मं च प्रपद्ये ' इति, तदप्यसङ्गतम्, पौर्वापर्यंविरोधात् । तथाहि -- गृहा मा बिभीतेत्यत्र गृहपदेन गृहाश्रमं प्राप्ता मनुष्या उक्ताः । तेषामेव भयकम्पादिनिषेधः कृतः । इह तु येषामध्येतीति मन्त्रे येषां गृहस्थानामित्यर्थं उक्तः । पुनः कथमिहाकस्मात् ' गृहेषु ' इति तृतीयमन्त्रे प्रासादेष्वित्यर्थः कृतः । अत्र मन्त्रव्याख्याने युष्माकमित्यनेन केषां ग्रहणमस्माकमित्यनेन च केषां ग्रहणमित्य स्पष्टमेव | किमर्थं युष्माकं शान्त्यं किमर्थं चास्माकं क्षेमायेत्यर्थः? एवं शंयोरित्यस्य कल्याणवतः साधनात् कर्मणो वा सुखवतो वा इत्यर्थे, अपरत्र शंयोः सुखाद् इत्यर्थे च भेदे किं बीजम्? ' कंशंभ्यां वमयुस्तितुतयसः ' ( पा ० सू ० ५ | २ | १३८ ) इति विधीयमानयुप्रत्ययस्योभयत्र समानत्वात् । सिद्धान्ते तु त्रिष्वपि मन्त्रेषु गृहपदस्य गृहा एवार्थः । ' वः ' इत्यस्य वो युष्मान् गृहान् प्रपद्य इत्येवार्थ:, ' क्षेमाय व इति प्रविशति ' ( का ० श्रो ० ४।१२।२२ ) इति कात्यायनसूत्रस्वारस्यात् । किमर्थं क्षेमाय विद्यमानस्य वसुनो रक्षणाय शान्त्यै मम सर्वारिष्टनिवृत्त्यं योरित्यत्य सुखं कामयमानस्य मम शिवं शग्मम् अनेकप्रकारकं सुखमस्तु । द्विरुक्तिस्त्वादरार्था । ' इयुरिदं कामयमान:: ( नि ० ६।३१ ) इति प्रमाणादत्र युस्प्रत्ययस्य कामयमान इत्येवार्थः । यत्त्वत्र कश्चित् - ' एवमेतत्पदमेव दुर्गाचार्येण ( ऋ ० सं ० १०/१५४ ) इति निरुक्तोद्धृतमन्त्र-व्याख्यानानन्तरम् अर्थासम्भवाद् द्विधा विभज्य भाष्यकारेण निरुक्तम् ' इति, तदप्यसत्, निरुक्तोद्धृतमन्त्रे शंयोरिति पदस्य सर्वोदात्तत्वात् पदद्वयमेव सम्भवति, कुतोऽत्र मन्त्रे एकपदत्वसम्भवः स्यादिति तत्तुच्छम्, पदद्वयसत्वे शंयोरिति पदस्येति त्वदुक्तेरेवाशुद्धत्वापातात् ' शाचीन् ' ( वा ० सं ० २३८ ) इत्यादिषु सर्वोदात्तत्वस्य दृष्टत्वात् । निरुक्तोद्धृतमन्त्रेऽप्येकपदत्वमेव प्रतीयते, प्रतीत्यभिप्रायेणैवैकपदत्वमालम्ब्यार्थ-विचारे तदुक्तेः सार्थक्यात् । स्कन्दस्वामिनापि तदेवोक्तम्- ' शंयोरिति द्वैपदमनवगतम्, शमित्येकम-द्वितीयम् । अन्यस्यापि यावनमिति ' ।........ " तथैव दुर्गाचार्योऽपि -नवगतम्, शमनमित्यवगमः, योरिति ' शंयोरित्यनवगतं पञ्चम्यन्तं वा षष्ठ्यन्तं वा सत् । न चैवं यजमानोऽर्थात्तस्माद् बृहस्पतिपुत्रादर्थमपेक्षते ममैते पितरः किञ्चिदर्थं विदध्युरिति । किं कारणम्? स्वत एव ते विधातुं समर्थाः! न च ऐहिक और पारलौकिक उभयविध सुख की प्राप्ति हो । ' क्षेमाय वः ' यह मन्त्र कहकर गृह में प्रवेश करे । उपस्थान मन्त्र यहाँ समाप्त हुए ॥ ४३ ॥
भाष्यसार - भाष्यार्थं स्पष्ट है । अध्यात्मपक्ष में - जीव कह रहा है कि इस शरीरात्मक गृह मैं प्रवेश कर रहा हूं । इन्द्रिय, वाणी, प्रकृति, भोग्य रस आदि से सम्पन्न यह गृह है । मैं मोक्षरूप और परमानुरागात्मक भक्तिरूप सुख चाहता हूँ । अतः सर्वानर्थ-निवृत्तिपूर्वक परमोपशमात्मक मोक्ष की, निरावरण भगवत्स्वरूपात्मक सुख की प्राप्ति मुझे हो ।
पृष्ठ 214
पाठ पढ़ें पाठ छिपाएँ
२०४ शुक्लयजुर्वेदसंहिता [ अं ० ३ बृहस्पतिपुत्रस्य शंयोः किञ्चिदेभिः पितृभिर्विधीयेतेति । एवं पञ्चम्यर्थासंभवं षष्ठ्यर्थासंभवं च पश्यन् भाष्यकार: योरित्येकं पदं द्वितीयान्ते द्वे पदे चकार शमिति योरिति च । शमित्यस्य शमनमित्यर्थं निराह, योरित्यस्य यावनमिति । एवं द्वितीयान्तेन विपरिणामं कृत्वार्थं निराह । कस्य शमनं कस्य वा यावनमिति पुनः पर्यनुयोगे रोगाणां भयानां चेत्यध्याजहार भाष्यकारः । शान्तरोगाश्च प्रहीणभयाश्च यथा स्याम तथाकुरुतेत्यभिप्रायः । ( निरु ० ४।२१ ) । सम्पूर्णो मन्त्रश्चेत्थम् -बर्हिषदः पितर कृत्यर्वागमा व हव्या च॑कृ॒मा ज॒षध्व॑म् । त आग॒ताव॑सा शन्त॑मे॒नाथा॑ नः॒ शं योर॑र॒पो द॑धात ॥ ( ऋ ० सं ० १०।१५।४ ) ' हे बर्हिषदः पितरः! ' ये यज्वानस्ते वै पितरो बर्हिषद: ' ( तै ० ब्रा ० ११६ / ९ / ६ ) इति श्रुतेः । अर्वाग् अर्वाचीनानामस्माकम् ऊती रक्षा कर्तव्येति शेषः । वो युष्मभ्यं इमा हव्या एतानि हवींषि चक्रम । तानि जुषध्वम् । ते यूयं शन्तमेन सुखतमेन अवसा रक्षणेन आगत आभिमुख्येनास्मान् प्राप्नुत । अथ नोऽस्मभ्यं शं सुखं योः दुःखवियोगं अरपः पापरहितं दधात दत्त । एवमेतत् पदमेकमप्यर्थासम्भवाद् द्विधा विभज्य भाष्यकारेण निरुक्तम् इयमप्यर्थासम्भवे सति निर्वचन प्राप्तिरस्तीत्यर्थस्य ख्यापनाय । टिप्पणीकारैस्त्वत्रानेकेषां पुस्तकानां विभिन्नान् पाठान् विमृश्योक्तम् । मूलपाठोऽपि दुर्बोधः, अशुद्धत्वाद् गलितशब्दत्वाच्च । ' प्रजापतिर्ह वा इदमग्र एक एवास । स ऐक्षत कथं नु प्रजायेयेति सोऽश्राम्यत् स तपोऽतप्यत । स प्रजा असृजत | वा अस्य प्रजाः सृष्टाः पराबभूवुस्तानीमानि वया ७ सि । पुरुषो वै प्रजापतेर्नेदिष्ठं द्विपाद्वा अयं पुरुषस्तस्माद् द्विपादो वया सि ' ( श ० २५ | १ | १ ) इत्यादिना चातुर्मास्यविधित्सया वैश्वदेवस्य प्रजासृष्टि-हेतुत्वमुक्तम् । प्रजापतिना तपसा प्रजाः सृष्टाः पराबभूवुस्तानीमानि वयांसि पक्षिरूपेणाभवन् । पुरुषो मनुष्यः सृष्टानां प्रजानां मध्ये प्रजापतेर्नेदिष्टं कार्यं स च द्विपात् । तत्परिणामत्वात् पक्षिणोऽपि पादद्वयोपेताः । पुनः प्रजापतिना प्रजा सृष्टास्ता अपि पराबभूवुः । तदिदं क्षुद्रं सरीसृपं पुनश्च तृतीयायां सृष्टौ सृष्टाः प्रजाः पराभूताः सर्पा अभवन् । प्रजापतिस्त्रिवारं सृष्टानां प्रजानां पराभवकारणं किमिति विचार्य उत्पन्नानां प्रजानामशन राहित्यं पराभवकारणमिति ददर्श । ततः स्वसम्बन्धिनोः स्तनयोः पय आप्याययाश्चक्रे । एवमशनं परिकल्प्य ततः प्रजापतेः सृष्टाः प्रजाः पयसा पूर्णौ स्तनावभिपद्य जीवनवत्योऽभवन् । अनन्तरं प्रजाः सम्यगुत्पन्नाः, न पराबभूवुः । तद्वै पय एवान्नम् ' ( श ० २२५२१२६ ) इत्यादिना इतरान्नसृष्टेः प्राक् पयस एवान्नत्वमुक्तम् । इदानीं स्त्रियाः स्तनौ पयसा पूरितौ भवतः । प्रजारक्षणाय गवादिपशूनामूधः पयसा पूर्ण भवति । उत्पन्नाः प्रजाः स्तनौ प्राप्य प्रवर्धन्ते । अनन्तरं ' स यः प्रजाकाम एतेन हविषा यजत आत्मानमेवैतद्यज्ञं विधत्ते प्रजापति भूतम् ' ( श ० २।२।१७ ) इति वैश्वदेवाख्यस्य चातुर्मास्यस्य प्रथमपर्वणो विधानम् । अयमभिप्रायः -- चतुर्षु मासेष्वनुष्ठेयत्वाच्चातुर्मास्यानीति कर्मणां संज्ञा । तत्र चत्वारि पर्वाणि -१. वैश्वदेवम्, २. वरुणप्रघासाः, ३. साकमेधा, ४ शुनासीरीयम् । तत्र प्रथमं पर्व फाल्गुन्यां पूर्णिमायामनुष्ठेयम् । ततश्चतुर्षु मासेषु गतेष्वाषाढ्यां पूर्णिमायां द्वितीयं पर्व । ततश्चतुर्षु मासेषु गतेषु कार्तिक्यां पूर्णिमायां तृतीयं पर्व । ततः फाल्गुन शुक्लप्रतिपदि चतुर्थं पर्वानुष्ठीयते । एवं पुनः पुनरावर्तनम् । तत्र प्रथमे स्वामी दयानन्द तथा अन्य किसी व्याख्याकार ने भी जो व्याख्या की है, वह स्व - कपोलकल्पित होने से निराधार
है, श्रुति - सूत्र के विरुद्ध है । अतः उसे अग्राह्य ही कहना चाहिये ॥ ४३ ॥
पृष्ठ 215
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ४३ ] वेदार्थपारिजातभाष्यसहिता २०५ पर्वण्याग्नेयोऽष्टाकपालः पुरोडाशः सारस्वतश्चरुः पौष्णः पैष्टश्चरुः केवलेभ्यो मरुद्भयः स्वतवद्गुणविशिष्टेभ्यो वा सप्तकपालः पुरोडाशो वैश्वदेवी पयस्या द्यावापृथिवीय एककपाल इत्यष्टी हवींषि । वरुणप्रघासाख्यं द्वितीयं पर्व आषाढ्यां प्रारभ्यते । वैश्वदेवे यानि हवींषि तेष्वादितः पञ्चहवींष्यत्राप्यनुष्ठेयानि । ततोऽधिकानि चत्वारि--ऐन्द्राग्नोऽष्टाकपालः, वारुण्यामिक्षा, मारुत्यामिक्षा, काय एककपाल इति । ' वैश्वदेवेन वै प्रजापतिः । प्रजाः ससृजे ता अस्य प्रजाः सृष्टा वरुणस्य यवान् जक्षुर्वरुण्यो ह वा अग्रे यवस्तद् यन्न्वेव वरुणस्य यवान् प्रादंस्तस्माद्वरुणप्रघासा नाम ' ( श ० २।५।२।१ ) । ' ता वरुणो जग्राह । ता वरुणगृहीताः परिदीर्णा अनत्यश्च प्राणत्यश्च शिश्यिरे च निषेदुश्च प्राणोदानो हैवाभ्यो नापचक्रमतुरथान्याः सर्वा देवता अपचक्रमुस्तयोर्हेवास्य हेतोः प्रजा न पराबभूवुः ' । ( श ० २५२२ ) । ' ता एतेन हविषा प्रजापतिरभिषिज्यत् । ता अस्यानमीवा अकिल्विषाः प्रजाः प्राजायन्त । ( श ० २५/२/३ ) | पुरा वैश्वदेवेन प्रजापतिना सृष्टाः प्रजा वरुणसम्बन्धिनो यवान् भक्षयामासुः । सृष्टिसमये सृज्यमानो यवो वरुणसम्बन्धी एवासीत् । अतो यवो वरुणस्य स्वभूतः । तत्प्रसङ्गाद्वरुणप्रघासो नाम निर्वृत्तम् । एवं वरुणसम्बन्धियवप्रघासनात् ( प्रभक्षणात् ) पाशगृहीतानां पाशविमोक्षणाय क्रियमाणा यागा अप्युपचारेण वरुणप्रघासाख्या जाताः । वरुणसम्बन्धियवभक्षणेन वरुणस्ता जग्राह । ते परिदीर्णाः परितो दीर्यमाणावयवा अनत्यश्चेष्टमाना हस्तपादादिविधूननं कुर्वाणाः प्राणत्यः श्वासोच्छ्वासं कुर्वत्यः शिश्यिरे निषेदुश्च शयनासनाभ्यामेव कालं नीतवत्यः, व्यापारान्तराक्षमा बभूवुः । केवलं प्राणोदानौ नापचक्रमतुः । अन्या वाक्-चक्षुरादीन्द्रियदेवा अग्न्यादयोऽपचक्रमुः । प्राणापानयोरनपक्रमणान्न विनष्टाः । वरुणपाशजनितामुक्तावस्थां विलोक्य प्रजापतिर् एतेन वरुणप्रघासाख्येन हविषा ताः प्रजा अभिषज्यद् अचिकित्सत् । तेन प्रजा वरुणपाशात् प्रामुञ्चत । ततः प्रजापतेः प्रजा अनमीवा रोगरहिता अकिल्विषा रोगनिदानतपापरहिताश्चाभवन् । इत्यादिभिश्चातुर्मास्यविधानम् । तत्र वेदिद्वयम् - दक्षिणा वेदिरुत्तरा वेदिश्च । ऋत्विजो यथा वैश्वदेवपर्वणि । एकः प्रतिप्रस्थाताऽधिकः । तत्र दक्षिणोत्तरयोर्द्वयोर्वेद्योर्हविः ष्वासादितेषु प्रतिप्रस्थाता पत्नीमुदानयंस्तदीयजारं पृच्छेत् केन चरसीति । सापि तं ब्रूयात् । नन्वेवं जारसम्बन्धवत्या अपि पत्न्या यागाधिकारे सिद्धे व्यभिचारप्रश्रयेण ब्राह्मणत्वादिजाति-निर्णयोऽपि दुर्लभो भविष्यति, तत एव ' वयं ब्राह्मणा वा अब्राह्मणा वा ' इति ब्राह्मण्यादिसन्देहवचनमपि स्वार्थपर्यवसाय्येव स्यात्, इष्टापत्तौ च ज्योतिष्टोमादिकर्मलोपप्रसङ्गः, वर्णाश्रमाधिकारि विशेषकर्तृकत्वादिति चेन्न, व्यभिचारनिषेधकश्रुतिस्मृतिवचनानुरोधेन श्रौतस्मार्तलक्षणानां कर्मणां वर्णाश्रममूलकत्वेन ब्राह्मणादिसन्देह-वचनस्य प्रवरानुमन्त्रणविधेरर्थवादत्वेन स्वार्थे तात्पर्याभावेन व्यभिचाराभावस्यैव स्वाभाविकत्वेनास्य वचनस्य मानसव्यभिचारपरत्वेन दोषाभावात् प्रश्नस्य तादृशव्यभिचारजनितपापनिवृत्त्यर्थत्वेनोपपत्तेः । तदाह – ' स पत्नीमुदानेष्यन् पृच्छति केन चरसीति वरुण्यं वा एतत्स्वीकरोति यदन्यस्य सत्यन्येन चरत्यथो नेन्मेऽन्तःशल्या जुहवदिति तस्मात्पृच्छति निरुक्तं वा एनः कनीयो भवति सत्य हि भवति तस्माद्वेव पृच्छति सा यन्न प्रतिजानीत ज्ञातिभ्यो हास्यै तदहित १७ स्यात् ' ( श ० २२५२१२० ) । करम्भपात्राणां होमस्य पत्नी कर्तृकत्वेन तच्छुद्ध सती प्रश्न: - हे पत्नि! केन जारेण चरसि । पुरुषान्तरसङ्गतेर्दोषेण वरुणपाशसम्बन्धो भवति । यदन्यस्य अन्येन सह वर्तते एषा पत्नी अन्तःशल्या पापरूपेण शल्येन युक्ता सती नैव मदीयेऽग्नौ जुहुयात् । तस्मात् । पृच्छति सा यदि पृष्टमथं न प्रब्रूयात् तदा तस्या ज्ञातिभ्योऽनिष्टं भवति । तस्माद् विद्यमानं वृत्तान्तमाचक्षीत - ' केन चरसीति असौ मे जार इति निर्दिशेत् । ततः प्रतिप्रस्थाता प्रघासिन इति मन्त्रं वाचयति । कण्वोऽपि वरुण्यं ह वा एतत्स्वीकरोति यदन्यस्य सत्यन्येन ' इति, वरुण्यमपकृत्यत्वेन निवारणीयमित्यर्थः । तित्तिरिरप्याह-' पत्नीं वाचयति मेध्यामेवैनां करोति अथो तप एवैनामुपनयति यज्जार सन्तं न ब्रूयात् प्रियं ज्ञाति
पृष्ठ 216
पाठ पढ़ें पाठ छिपाएँ
२०६ शुक्ल यजुर्वेद संहिता [ अ ० ३ रुन्ध्यात् । असो मे जार इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयतीति ' ( तै ० ना ० १२६।५।२ ) । आपस्तम्बोऽपि दर्शयति ' प्रतिप्रस्थाता पत्नी कति ते जाराः? यानाचष्टे तान् वरुणो गृह्णात्विति निर्दिशति । कात्यायनोऽपि ' आख्याते प्रघासिन इत्येनां वाचयति नयन्निति ' ( का ० श्री ० ५५१ ९ ) । जारे पत्न्या कथिते सत्येनां पत्नी नयन् प्रतिप्रस्थाता प्रघासिन इति मन्त्रं वाचयेत् । यथा प्रवरानुमन्त्रणमन्त्रः सन्दिग्धब्राह्मण्यस्यापि ब्राह्मण्यं जायते । तत्रैव कस्यचिदेवं मतिः स्यादहं तु ब्राह्मण एवेति किमर्थं प्रवरानुमन्त्रणमन्त्रमाश्रयेयेति, तदर्थ -मेवार्थवादः -- ' ब्राह्मणा वा अब्राह्मणा वा ' इति, मातुश्चारित्र्ये सन्देहसम्भवादवश्यमेव तदाश्रयणं युक्तम्, तथैव मानसव्यभिचारजनितपातकनिराकरणाय प्रश्नोत्तरोपयोगः । ' संस्तुतानाचष्टे, तृणानि वोद्गृह्णाति प्रतिसंस्तुतम् ' ( का ० श्री ० ५।५।६ - ७ ) | अर्थाद् यदि लज्जावशान्न कथयेत्तदा प्रतिजारं तृणानि उद्गृह्णाति ' अनाख्यातमहितं ज्ञातिभ्य इति श्रुतेः ' ( का ० श्र ० ५२५८ ) इति सूत्रात् । ' यन्न प्रतिजानीत ज्ञातिभ्यो हास्यै तदहित ७ स्यात् ' ( श ० २२५ २२० ) इति श्रुतेरित्यर्थः ॥ ४३ ॥
प्रघासिनो ' हवामहे म॒रुत॑श्च रि॒शाद॑सः । कुम्भेण॑ स॒जोष॑सः ॥ ४४ ॥
1 मारुती गायत्री । वयं मरुतश्चकारात् तत्परिचारकांश्च हवामहे । कथंभूतान्? प्रघासिनः प्रकर्षेण घस्यते भक्ष्यत इति प्रघासो हविर्विशेषः, सोऽस्त्येषां ते प्रघासिनः " तान् एतन्नामकान् देवान्, शुक्रज्योतिरित्यादयः सप्तसप्तका मारुतगणाः, तत्र स्वतवांश्च प्रघासी चेति पठ्यते ( १७।८५ ), प्रधास्युपलक्षितान् मरुत आह्वयामः । पुनः कीदृशान्? रिशादसः रिषतिहिंसार्थः, रिशो वैरिकृतां हिंसां दस्यन्ति उपक्षयन्तीति रिशादसः । यद्वा रिशन्ति हिंसन्तीति रिशा हिंसकाः, तान् दस्यन्ति क्षपयन्तीति रिशादसः । यद्वा रिशान् हिंसकान् दस्यन्तीति रिशादसः, रिशतोऽस्यन्तीति क्षिपन्तीति रिशादसः । अस्यतेविच । करम्भेण सजोषसः समानप्रीतयः, तांस्तथा-विधान् मरुतो हवामहे । ये वैरिकृतां हिंसां क्षपयन्ति हिंसकान् वा क्षपयन्ति, रिशतो हिंसां कुर्वतः क्षिपन्ति, ये च यवमयहविर्विशेषात्मककरम्भेण सप्रीतयः तान् प्रघास्युपलक्षितान् सपरिचारकान् मरुद्गणान् हवामहे । मञ्चाः क्रोशन्तीतिवत् करम्भपूर्णत्वात् करम्भपात्रेषु करम्भपदप्रयोगः । अध्यात्मपक्षे तु -- प्रघासिनः प्रकर्षेण घस्यते भक्ष्यत इति प्रघासो हविः सोऽस्त्येषामिति प्रघासिनो मरुतो मरुद्विशेषाः प्राणास्तान् हवामहे । कीदृशान्? रिशादस: रिशतो हिंसकान् दस्यन्ति उपक्षियन्तीति रिशादसस्तान् । करम्भेण राजोषसः करम्भः पूर्वोक्तभृष्टयवमय चरु विशेषपूर्णः पात्रविशेष:, तेन सजोषसः समानप्रीतयः करम्भोपलक्षितान्नविशेषेण समानप्रीतयः । छान्दोग्यबृहदारण्यकादिषु प्राणोपासनं विहितम्, प्राणस्य न किञ्चनान्नमित्यादिना तस्यैव सर्वात्तृत्ववर्णनात् । मन्त्रार्थ - हम मरुद्गणों को बुलाते हैं । वे मरुद देव ' प्रधासी ' नाम के हैं, अर्थात् ' प्रघासी ' संज्ञक हविर्भाग विशेष का भक्षण किया करते हैं । इन मरुद्गणों की ' शुक्रज्योति ' आदि संज्ञा भी है और वे हिंसा करने वालों के नाशक हैं । उसी प्रकार उन्हें ' करम्भ ' संज्ञक यवमय हविद्रव्य रुचिकर रहता है । चातुर्मास्येष्टि में प्रतिप्रस्थाता नाम का ऋत्विग् यजमान पत्नी के मुख ' प्रघासिन: ' मन्त्र को कहलावे ॥ ४४ ॥
भाष्यसार -- ये चातुर्मास्य याग के मन्त्र ' प्रजापति ' के द्वारा दृष्ट हैं । इस चातुर्मास्य याग में चार पर्व होते हैं । वे चार पर्व - वैश्वदेव, वरुणप्रधास, साकमेघ और शुनासीरीय-- इन नामों से प्रसिद्ध हैं । यह मन्त्र द्वितीय पर्व से सम्बद्ध है । अध्यात्मपक्ष - इस मन्त्र के द्वारा प्राणोपासना बताई गई है ।
पृष्ठ 217
पाठ पढ़ें पाठ छिपाएँ
मंन्त्रः ४४ ] वेदार्थ पारिजातभाष्यसहिता २०७ कश्चित्तु - ' उत्तमान्नभोजिनो हिंसक विनाशकान् साधुकर्मकृत्प्रीतिमतः शूरान् स्वगृहे निमन्त्रयामः ' इति, तत्तु प्रघास - करम्भ - मदादिशब्दानां वैदिकद्रव्य देवतासम्बन्धाज्ञानविजृम्भितमेव । एतद्रीत्या वैदिकदेवतानां स्थाने राजकर्मचारिणः सैनिका एवाहूयन्ते पूज्यन्ते च । शतपथे च - ' तां वाचयति । प्रघासिनो हवामहे मरुतश्च रिशादसः । करम्भेण सजोषस इति यथा पुरोऽनु-वाक्यैवमेषतयैवैनानेतेभ्यः पात्रेभ्यो ह्वयति ' ( श ० २५ २ २१ ) । तां वाचयतीति वाचनं विधत्ते । आशीर्वाचनीयो मन्त्रार्थस्तूक्त एव । एतन्मन्त्रं पुरोऽनुवाक्यासादृश्येन स्तौति -- यथेति । पुरोऽनुवाक्या हि यक्ष्यमाणदेवताह्वानार्था । एवमेव एषा प्रघासिन इति ऋक् । एतया एव एनान् मरुत एतेभ्यः पात्रेभ्यः करम्भपात्रेभ्यो ह्वयति, होष्यमाणं करम्भपात्र लक्षणं हविर्भोक्तुमाह्वयतीत्यर्थः । करम्भपात्रस्वरूपमुच्यते - ' अथ पूर्वेद्युः । अन्वाहार्य पचनेऽनुषानिव यवान् कृत्वा तानीषदिवोपतप्य तेषां करम्भपात्राणि कुर्वन्ति यावन्तो गृह्याः स्युस्तावन्त्येकेनातिरिक्तानि ' ( श ० २५ | २०१४ ) | यस्मिन् दिवसे वरुणप्रघासयागो भवति, ततः पूर्वेद्युर् अतुषान् तुषरहितान् यवान् कृत्वा तः पात्राणि सम्पूर्य तानत्यल्पमिवोपतप्य श्रपयित्वोदकेनालोड्य तैः करम्भपात्राणि, भृष्टयवचूर्णाः करम्भाः, तन्मयानि पात्राणि करम्भपात्राणि, अध्वर्युयजमानदयः कुर्वन्ति । कियन्ति तानीत्यपेक्षायां यावत्संख्याका यजमानस्य पुत्रपौत्रादिरूपा ज्ञातयो भवेयुस्तावन्ति जनिष्यमाणापत्यार्थमेकेनाधिकानि कार्याणि । " तदुक्तं शतपथे -- ' तानि वै प्रतिपुरुषम् । यावन्तो गृह्याः - स्युस्तावन्त्येकेनातिरिक्तानि भवन्ति ' ( श ० राश २२ ) इत्यादिभिः । यजमानस्य याः प्रजाः प्रजाताः, ताः प्रतिपुरुषं प्रत्येकम् एकैकेन पात्रेण वरुणपाशात् प्रमुञ्चति । जनिष्यमाणानां प्रजानां वरुणपाशविमोचनार्थमेकमतिरिक्तं कर्तव्यमित्युक्तम् । ' पात्राणि भवन्ति । पात्रेषु ह्यशनमश्यते यवमयानि भवन्ति । यवान् हि जक्षुषीर्वरुणो गृह्णात् शूर्पेण जुहोति शूर्पेण ह्यशनं क्रियते पत्नी जुहोति मिथुनादेवैतद् वरुणपाशात् प्रजाः प्रमुचति ' ( श ० २२५ २ २३ ) । पुरोडाशादिरूपतां विहाय पात्ररूपेण निर्माणमुपपाद्य तहि यस्मात् पात्रेषु कांस्यादिनिर्मितेष्वशनमन्नमश्यते, अतो मरुतां पयस्यारूपस्यान्नस्य भोजनीय पात्ररूपेणैवैतानि निर्मातव्यानि तानि च यवमयानि निर्मातव्यानि । तत्प्रशंसति - यवमयानीति । जक्षुषीः भक्षितवतीः प्रजाः वरुणोऽगृह्णात् । तस्माद्यवमयान्येव तानि स्युः । तेषां होमं विधत्ते - शूर्पेण जुहोतीति । यतः शूर्पेण तुषापाकरणद्वारा अन्नं क्रियते, अतः शूर्पहवनं प्रशस्तम् । पत्नी जुहोतीति कर्तृविधिः । स्त्रिया अपि कर्तृत्वेन होमेऽन्वयाद् मिथुनं सम्पद्यते । तस्माद् यजमानपत्नीरूपाद् मिथुनादेव वरुणपाशात् प्रमुक्तिः । ' पुरा यज्ञात् पुराहुतिभ्यो जुहोति । अहुतादो वै विशो विशो वै मरुतः ' ( श ० २२५ २२४ ) इत्यादिना स्रुवाघारहोमादेः करम्भपात्रहोमस्य पूर्व भावित्वं विहितम् । यज्ञो वषट्कारप्रदानो यजलिचोदित आग्नेयः । आहुतयः स्वाहाकारप्रदाना जुहोतिचोदिताः । यतोऽहुतं होमसंस्काररहितम् अदन्ति तस्मादहुतादः । मरुतां वैश्य जातित्वेन अहुतादानधर्मवत्त्वात् सर्वहोमात्पूर्वं तेभ्यो हविःप्रदानं युक्तम् । यदा प्रजापतेः प्रजा वरुणगृहीताः परिदीर्णा रोगगृहीतास्तदा तासां प्रजानां पाप्मानं मरुतो विमेथिरे विलोपयन्ति स्म । तथैव यजमानस्य प्रजानां वरुणगृहीतानां पाप्मानं पाशविमोचनाद् मरुतो विमथ्नन्ति । तस्माद् यज्ञाद् आहुतिभ्यश्च पूर्वमेव करम्भपात्राणां होमेन मरुतां शमनं युक्तम् । दयानन्दस्तु -- ' प्रघासिनः प्रघस्तुं शीलमेषां तान् मरुतोऽतिथीन् रिशादसः रिशान् दोषान् शत्रूश्च हिंसन्ति तान करम्भेण अविद्याहिसनेन सजोषसः समानप्रोतिसेविन ऋत्विजो हवामहे ' इत्याह तच्च निर्मूलम् । करम्भेणे. किसी व्याख्याता ने वैदिक देवताओं के बजाय राजकर्मचारी सैनिकों को बुलाना और पूजना बताया है ।
पृष्ठ 218
पाठ पढ़ें पाठ छिपाएँ
२०८ शुक्लयजुर्वेद संहिता [ अ ० ३ त्यस्य विद्याहिंसनमर्थः कथं ग्रहीतुं शक्यः? शतपथ श्रुतिविरोधस्त्वस्मिन्नर्थे स्पष्ट एव तस्य वरुणप्रघासे विनियुक्तत्वात् । यत्तु - ' क् विष्णुः अ ब्रह्मा, रः अग्निः, म् शिवः भः पराशक्तिः तेषां समूहः करम्भः ' इति, तन्न, एकाक्षरकोशाधारेण ये मन्त्रास्तेषामेवानेन प्रकारेण बोधो युक्तः, नहि गवानयनादौ प्रयुक्तस्य गामानयेति वाक्यस्यैकाक्षरानुसारेणार्थापनं युक्तम्, अभिप्रायाननुरोधिन स्तात्पर्याविषयस्याप्यर्थस्य एकाक्षरकोषाद्यनुसारेण बोधसम्भवात् ॥ ४४ ॥
यद् ग्रामै यदर॑ण्ये यत्स॒भाय॒ यदि॑न्द्रि॒ये ।
यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑ ॥ ४५ ॥
' करम्भपात्राणि जुहोति शूर्पेण मूर्धनि कृत्वा दक्षिणेऽग्नौ प्रत्यङ्मुखी जायापती वा दक्षिणेनाहृत्य तीर्थेन पूर्वेण वेदमपरेण वा यदु ग्राम इति ' ( का ० श्री ० ५।५।१० ) । यवपिष्टनिर्मितानि सन्तानपरिमितान्येकाधिकानि करम्भपात्राणि पत्नी मस्तकस्योपरि शूर्पे निधाय जुहूस्थानापन्नेन शूर्पेण प्रत्यङ्मुखी दक्षिणाग्नौ जुहोतीत्येकः पक्षः । दक्षिणस्यां वेद्यां स्थित आहवनीयेऽग्नौ जुहोतीत्यभिप्रायः, नान्वाहार्यं पचनरूपे दक्षिणाग्नो । तौ च दक्षिणेन मार्गेण तानि पात्राण्याहत्य वेदे: पूर्वदिशि पश्चिमदिशि वा स्थित्वा जुहुयातामित्यपरः पक्षः । मन्त्रार्थस्तु – ग्रामे निवसन्तो वयं यदेनः पापं ग्राम्योपद्रवरूपं चक्रमा कृतवन्तः । ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६।३।१३७ ) इति दीर्घः । तथा अरण्ये निवसन्तो यदेनो मृगवृक्षाद्युपद्रवरूपं कृतवन्तः । यच्च सभायां महाजनतिरस्कारादि-रूपम् एनः चकृम । यच्चेन्द्रिये जिह्वोपस्थरूपे प्रीतियुक्ता वयमेनः कलञ्जभक्षणपरस्त्रीगमनादिकं चकुम तथान्यत्रापि भृत्यस्वाम्यादी यदेनस्ताडनावज्ञादिकं चक्रम तदिदं सर्वं पापमवयजामहे विनाशयामः । अवपूर्वो यजिर्नाशार्थः । स्वाहेत्येतद्धविर्देवतायें पापविनाशिन्यं दत्तमस्तु । यत्र यत्र ग्रामादिष्ववस्थिताः सन्तस्तत्सम्बन्धि पापं कृतवन्तो वयं तत् सर्वं नाशयामः । अध्यात्मपक्षे - हे परमेश्वर! यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये मनसा वाचा कायेन वा एनो निषिद्धाचरणं भूतावमानलक्षणं भगवदवमानलक्षणं वा चक्रम अकार्ष्म तत्सर्वं नाशयामः । त्वयि स्वसर्वस्व -निवेदनलक्षणेन स्वाहाकारेण सुष्ठुरीत्या सम्यग् आसमन्ताद् मनसा वाचा कायेन स्वसर्वस्वत्यागः स्वाहा । ' ओहाक् त्यागे ' । प्रह्लादध्रुवादयो विष्णुं ब्रह्मविष्ण्वादयः शिवं सर्वे भक्ता वानरभल्लूकादयो रामम् अर्जुनादयः कृष्णं भगवन्माहात्म्यं ज्ञात्वा स्वकर्तृकभगवदवज्ञादिलक्षणम् एनः क्षमापयन्तः प्रार्थयन्ते - यद् ग्राम इति । स्वामी दयानन्द ने मन्त्रगत शब्दों का मन - माना अर्थ किया है, उस कारण श्रुतिविरोध उपस्थित होता है । अतः वह व्याख्या उपेक्षा के ही योग्य है ॥ ४४ ॥
मन्त्रार्थ -- - ग्राम में रहते हुए, बन में रहते हुए, सभा में बैठे हुए और इन्द्रियों की प्रीति के कारण जो पाप हमसे हुआ हो तथा नृत्यादि वर्गों की ताड़ना करके जो पाप हमसे हुआ हो, उन समस्त पापों का विनाश इस आहुति से हम कर रहे हैं । यह आहुति पाप का विनाश करने वाली देखता को प्राप्त हो । यजमानपत्नी अथवा यजमान और यजमानपत्नी दोनों ही एक सूपं में यव के पिष्ट से निर्मित करम्भ पात्रों को रखकर दक्षिणाग्नि में ' यद्मामे ' इस मन्त्र से उनका हवन करे ॥ ४५ ॥
पृष्ठ 219
पाठ पढ़ें पाठ छिपाएँ
' मन्त्रः ४५ ] वेदार्थपारिजातभाष्यसहिता २० ९ कश्चित्तु -- ' वयं यत्पापमयुक्तकार्यं निषिद्धाचरणं ग्रामेषु अरण्येषु सभायां चक्षुरादीन्द्रियसम्बन्धि विधायक-निषिद्धाचरणं कुर्मः, तत्परित्यक्ष्याम इति सर्वोऽपि भावयेत् ' इति, तदप्यविचाररमणीयम् विनाशः , तादृशभावना कथं स्यादित्य-पदाभावात् । भावनायाः प्रभावेण तदुत्तरभाविपापनिरोधसम्भवेऽपि पुराकृतानां समाधानात् । इदमपि वेदस्य लोकायतिकमतपरत्वापादनम् । शतपथे तु – ' सा वै दक्षिणेऽग्नौ जुहोति । यद्ग्रामे यन्मानुष इति तदाह यदिन्द्रिय इति प्रमुच्यामह यद्देवत्रेति तदाह यदेनश्चक्रमा वयमिदं तदवयजामहे स्वाहेति यत्किञ्च वयमेनश्चक्रमेदं वयं तस्मात् सर्वस्मात् जुहोति । पदशोऽनूद्य इत्येवैतदाह ' ( श ० २ ५।२।२५ ) । दक्षिणेऽग्नो दक्षिणस्यां वेद्यामवस्थिते आहवनीयेऽग्नौ क्रियत इति तदर्थः । व्याचष्टे - यत्सभायामिति । सभाशब्दं व्याचष्टे - यत्सभायामिति । यन्मानुषसंघैरेनः इति । मन्त्रांशस्यार्थः इन्द्रियपदस्य देवपरत्वमाह - इन्द्रियसम्बन्धिनि देवसमूहे निमित्तभूते यदेनः क्रियत । अवयजनं करम्भपात्र लक्षणेन हविषा अवयजामहे समर्पयामः । स्वाहेति निपातो दानार्थः । सुहुतमस्त्वित्यर्थः संग्रहाय सर्वस्मादिति नाम तस्मात् सर्वस्मात् प्रमोचनं विश्लेषः । ग्रामारण्यादिस्थानभेदेन बहुविधस्यैनसः विशेषणम् । दूरीकुर्मः । दयानन्दस्तु - ' स्वयं यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये यद्यत्रनश्चकृमेदं न सङ्गतम् तदवयजामहे , शतपथादिसिद्ध-यद्यत्र ते स्वाहा सत्यवाचा पुण्यकर्म चकुम तत्सर्वं सङ्गच्छामहे ' इति, तदपि करम्भो मन्त्रस्य विनियुक्तत्वात् । श्रुति-यत्तु कश्चित् – ' पत्नी मन्त्रं पठति ' इत्याह, तन्निर्मूलम्, ' तां वाचयति ' ( श ० २२५ | २ | २१ ) इति विरोधात् ॥ ४५ ॥
' अथेन्द्रीं मरुत्वतीं जपति । यत्र वै प्रजापतेः प्रजानां मरुतः पाप्मानं विमेथिरे तद्धेक्षाञ्चक्र क्षत्रं वै विशो इमे निषेद्धा ह प्रजा न विमथ्नीरन्निति । स एतामैन्द्री मरुत्वतीमजपत् । क्षत्रं वा इन्द्रो विशो मरुतः प्रजापतिरिमामंन्द्री निषिद्धा असन्निति तस्मादेन्द्री ' ( श ० २५ २ २६ - २७ ) । पाशबद्धानां प्रजानां प्रमोकाय मरुत्वतीमजपत् । तस्माद्यजमानोऽपि जपेत् — भाष्यसार - माष्यार्थ की स्पष्टता मन्त्रार्थ से हो जाती है । अध्यात्मपक्ष में -किया करते हैं । - भक्तजन अपने कायिक वाचिक मानसिक सभी कर्मों का समर्पण भगवच्चरणारविन्द में करने की बात कही किसी व्याख्याकार ने इस मन्त्र को भावनापरक बताकर उससे पूर्वकृत पापों प्रभाव का विनाश से उत्तरभावी पापों का तो है । किन्तु मन्त्र में वैसी भावना का विधायक पद कोई है ही नहीं । भावना के शतपथानुसारी व्याख्या निरोध कदाचित् हो भी सकता है, तथापि उससे पूर्वकृत पापों का नाश कैसे हो सकेगा? अतः यदि की होती, तभी वह प्रामाणिक होती, अन्यथा नहीं । है । प्रस्तुत प्रसंग तो स्वामी दयानन्द ने जो व्याख्या की है, वह प्रस्तुत प्रसङ्ग से कोई सम्बन्ध नहीं रख रही करम्भहोम का चल रहा है ॥ ४५ ॥
२७
पृष्ठ 220
पाठ पढ़ें पाठ छिपाएँ
२१० शुक्लयजुर्वेदसंहिता [ अ ० ३
मोषूण॑ इ॒न्द्रात्र॑ प॒त्सु दे॒वैर॑स्त॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।
म॒हश्चि॒द्यस्य॑ म॒दुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गोः ॥ ४६ ॥
ऐन्द्रमरुद्देवत्या विराट् । तत्र दशाक्षराश्चत्वारः पादाः । अत्र चतुर्थ एकाधिक: । ' मोषूण इति यजमानो जपति ' ( का ० श्र ० ५।५।११ ) । ' पृत्स्विति संग्रामवचनम् ' ( नि ० २।१७।२१ ) । हे इन्द्र! पृत्सु संग्रामेषु वर्तमानो देवैर्मरुद्भिस्त्वया सह सख्यं प्राप्तैर्मरुन्ना मकैर्देवैः सहितस्त्वं मा विमन्योर्मा हिंसीः । मोशब्दः प्रतिषेधार्थको निपातः पुरस्तादाख्यातस्य भवति । ' सु ' इति सौष्ठववाची निषेधस्य सौष्ठवं वक्ति । मन्त्र आख्याताभावात् ' यत्र वै प्रजापतिः प्रजानां मरुतः पाप्मानं विमेथिरे ' इति श्रुत्युक्तमध्याह्रियते । निषेधवलाद्विनाशरूपनिषेध्यस्याक्षेपो वा । तथा चास्मद्विनाशलेशोऽपि मा भूदित्यर्थः । कः प्रसङ्गो विनाशस्येत्याशङ्कय अस्ति होत्यादिना प्रसङ्गोऽभिधीयते । हे शुष्मिन्! बलवन् ते तव अवया अवेक्षारूपो व्यापारः अस्ति हि स्म विद्योतत एव । अवपूर्वस्य अयतेर् अवया इति रूपम्, यजतेर्वा । अवयुतो यागोऽवयाः यागाभावः । यद्यप्येवं तत्कालोचितत्वाद्यजनाभावरूपोऽपराधोऽस्त्येवास्मासु, तथापि दयापारवश्यात् त्वमस्मान् मोसु किञ्चिदपि मा हिंसी: । मो निषेधार्थक एव । मीदुषः वृष्टिप्रदत्वेन सेक्तुः । हविष्मतो हविर्भागयोग्यस्य तव यव्या यवमयः पिष्टैः करम्भपात्रनिष्पाद्या होमादिक्रिया महश्चित् पूजा । तस्य तव यथोक्तपूजोपेतस्य तव कृपालुत्वं युक्तमेव । किव, गीः स्तुतिरूपा मदीया वाग् मरुतेन भवत्सखीन् वन्दते नमस्करोति । ' नमो मरुद्भघः ' इत्येवमादिकायाः स्तुतेर्मरुद्विषयक नमस्कारेणापि तुष्टस्य तव कृपैव युक्तेति । उव्वटरीत्या तु क उपकारः, उपकृत्य हि प्रत्युपकारः प्रार्थ्यते, अस्ति हि यस्मात् स्मेत्यनर्थकः । हे शुष्मिन्! अवयाः अवयुतो यागोऽवयाः । ' अवयाः श्वेतवा: पुरोडाश्च ' ( पा ० सू ० ८२/६७ ) | पृथक् त्वदीययाग-भागोऽस्ति । महश्चित् पूजा । यद्वा महतश्चिद्यस्य तव मोदुषो महतः सेक्तुः । मत्सम्पादितः । पृथग यागभागोऽस्ति तस्मात्तवास्मासु कृपा युक्ता । यवमयः करम्भपात्रैर्हविष्मतो हविर्योग्यस्य तव मरुतः स्वभूतान् गीः वाक् स्तोतॄणां स्तुतिरूपवन्दते स्तोति । ' मोषूण ' अत्र ' सुत्र: ' ( पा ० सू ० ८ ३ १०७ ) इति षत्वम् । ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६।३।१३७ ) इति दीर्घः । ' नश्च धातुस्योरुषुभ्यः ' ( पा ० सू ० ८ | ४ | २७ ) इति नस्य णत्वम् । स्मेत्यस्यापि ' पूर्वपदात् संज्ञायामगः ' ( पा ० सू ० ८ । ४ । ३ ) इति षत्वम् । अध्यात्मपक्षे - हे इन्द्र परमेश्वर! अत्र पृत्सु संसारसंघर्षमयेषु संग्रामेषु नोऽस्माकं विनाशः पराभवो मैव भूत् । कुत इति चेत्? हे शुष्मिन् अतुलितबलशालिन्! अस्ति हि देवैर्द्यात नवद्भिरिन्द्रियमनोबुद्धिरूपैरनुष्ठीय मानः अवयाः त्वदीयो यागभागः, त्वदाराधनबुद्धयाऽनुष्ठीयमानस्वधर्मलक्षणो मानसाराधनरूपो वा । तेनास्मासु तवानुग्रहोऽस्तु । स च तव महश्चित् पूजा । यद्वा यस्य महतो निरतिशयबृहतः, चिन्मी दुषोऽभीष्टवर्षणशीलस्य मन्त्रार्थ - हे इन्द्र! इस संग्राम में देवताओं के साथ रहनेवाले तुम हमारा किचिन्मात्र भी नाश मत करना । हे शक्तिसम्पन्न इन्द्र! इस यज्ञ में तुम्हारा भाग पृथक है । वृष्टि के द्वारा जलसिचन करने वाले तथा हवि के योग्य समझे जानेवाले तुम्हारो यवमय करम्भपात्र से की जानेवाली हवनक्रिया पूजा ही है । उस पूजा का स्वीकार करके तुम हम पर अनुग्रह करो । हमारी स्तुतिरूपा वाणी मरुत् देवताओं को नमस्कार कर रही है । यजमान ' मोषूण ' इस मन्त्र का जप करे ॥ ४६ ॥
भाष्यसार - भाष्य का अर्थ मन्त्रार्थ से ही स्पष्ट हो जाता है ।