वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 31–40
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 31–40
पृष्ठ 31
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ५-६ ] वेदार्थ पारिजातमाष्यसहिता २१ हे प्रस्तर एते वस्वादयो देवास्त्वां सोदन्तु त्वामभिलक्ष्य सीदन्तु तिष्ठन्तु त्वामासादयन्तु वा । नैतद्द्वयमपि जडेषु सम्भवति । तस्माद् वस्वाद्यधिष्ठातृदेवा एवेह विवक्षिताः । अध्यात्मपक्षे — समिदसि हे जीवात्मन्! त्वं समिद् सर्वदीपको देहेन्द्रियादिसर्वभासकोऽसि । सूर्यः स्वरति लयं गच्छति यस्मिन् स सूर्यः परमेश्वरस्त्वां पुरस्तात् पूर्वं पातु स्वसत्तास्फूर्तिप्रदानेन रक्षतु अथवा जीवादि-देहान्त प्रकाशशक्तिदानेन त्वां पालयतु, स्वप्रकाशब्रह्मात्मभानानन्तरमेव जीवादेर्भासमानत्वात्, ' तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ' इत्यादि श्रुतिभ्यः । कस्याश्चित् कस्या अपि अभिशस्त्यै कस्याश्चिदभिशस्त्या अविद्यमानदोषारोपणात् त्वा पातु । आत्मनि कर्तृत्वभोक्तृत्वादिकं सर्वमविद्यमानमेवारोप्यते । ब्रह्मात्मसाक्षात्कारेण च तत्सर्वमपोद्यते । ननु सूत्रात्महिरण्यगर्भाभ्यामेव प्राणबुद्धिशक्तिभ्यामेव जीवस्य क्रियाज्ञानशक्तिदानं भवति, न परमेश्वरस्येति चेन्न, तयोरपि तद्बाहुस्थानीयत्वात् । तद्बाहू - हे सूत्रात्म-हिरण्यगर्भो! युवां सवितु: सर्वोत्पादकस्य परमेश्वरस्य बाहू दक्षिणोत्तरभुजस्थानीयौ स्थः भवथः । प्राणबुद्धयुपाधिकाभ्यां ताभ्यामेव सर्वकार्यनिर्वाहात् । हे जीवात्मन् त्वा त्वां देवेभ्योऽग्नीन्द्रादिभ्यो देवदेवाय परमेश्वराय च ऊर्णासनमिव म्रदसं कोमलं स्वासस्थं शोभनासनमिवासितुं योग्यं स्वासदं करोमि । यो देवान् प्रति स्वात्मानं तदीयशय्याद्युपकरणरूपेण विपरिणमय्य संराधते स एव तेषामनुग्रहेण देवदेवस्थापि सर्वात्मभावेन सपर्यां कर्तुं प्रभवति । किश्व त्वा त्वां वसवो रुद्रा आदित्याः सदन्तु भृत्यरूपेणोपकरणरूपेण च प्राप्नुवन्तु । तदनु विशिष्टयोग्यतापूर्णः परमात्मोपासने स्वात्मसमर्पणेन सर्वात्मभावेन तदङ्गोपाङ्गः सन् तदुपासितुं प्रभवति । अत एव वर्णाश्रमाचारवता तत्तद्देवताराधनतत्परेण परमेश्वरः प्राप्तुं शक्यते ॥ ५ ॥
घृ॒ताय॑सि ज॒हूर्नाम्ना॒ सेद॑म्प्र॒येण॒ न प्रय ७ सद् आसी॑द घृ॒ताच्य॑स्य॒व॒भृत्राम्ना॒ सेदम्प्र॒येण॒ धाम्ना॑ प्रियव॒ सद॒ आसी॑द घृताच्य॑सि ध्रुवा नास्ना॒ सेदप्रि॒येण॒ धास्ता॑ प्रिय I सद॒ आस'द प्रि॒येण॒ धाम्ना॑ प्रि॒यः ७ सद् आसोद । ध्रुवा अ॑सदन्नृ॒तस्य॒ योनि॒ ता वि॑िष्णो पाहि पा॒हि यज्ञं पा॒हि य॒ज्ञप॑त पा॒हि मां य॑ज्ञ॒न्य॒म् ॥ ६ ॥
E ' सव्याशून्ये जुहूं प्रतिगृह्य निदधाति घृताचोत्येवमितरे उत्तराभ्यां प्रतिमन्त्रम् ' ( का ० श्री ० २।८।१२- १३ ) । अध्वर्युरग्नीधा समर्पितां जुहूमादाय सव्यहस्तेन अविमुक्ते प्रस्तरे प्रागग्रामासादयीत । हे जुहूः! त्वं घृताची उपकरण रूप से तुम्हें प्राप्त हों । उसके पश्चात् विशिष्ट योग्यता से पूर्ण होकर परमात्मा को उपासना में स्वात्मसमर्पण के द्वारा सर्वात्ममाव से उसका अंग - उपांग होता हुआ उस परमेश्वर की उपासना करने में समर्थ होता है । अत एव वर्णाश्रमाचार का पालन करने वाला व्यक्ति हो तत्तद् देवताओं के आराधन में तत्पर होता हुआ परमेश्वर को प्राप्त कर सकता है ॥ ५ ॥
मन्त्रार्थ - जुहू! तू घृत से पूर्ण है । तेरा नाम ' जुहू ' है । तू देवताओं को प्रिय लगने वाले गृहस्वरूपी घृत के सहित इस प्रस्तर पर बैठ । हे स्रुक्! तू घृत से पूर्ण है । तेरा नाम ' उपसृत् ' है । तू देवताओं को प्रिय लगने वाले गृहस्वरूपी घृत के सहित इस प्रस्तर पर बैठ । हे स्रुक्! तू घृत से पूर्ण है । तुझे ' ध्रुवा ' कहते हैं । देवताओं को प्रिय लगनेवाले गृहस्वरूपी घृत के सहित तू प्रस्तर पर बैठ । हे हविद्रव्य! देवताओं के लिये प्रिय गृहरूपी आउ
पृष्ठ 32
पाठ पढ़ें पाठ छिपाएँ
२२ शुक्लयजुर्वेदसंहिता [ अध्यायः २ घृतमति प्राप्नोतीति घृताची घृतपूर्णा असि । यद्वा घृतमचितं प्राप्तं यस्यां स्रुचि घृतं वा अच्यते यया सा घृताची असि । नाम्ना जुहूः । हूयतेऽनयेति जुहूः । हवनक्रिया यया क्रियते सा जुहूः । यत्तदोर्नित्यसम्बन्धात् तदध्याहारः कार्यः । या त्वं घृताची असि जुहूश्च नाम्ना सा त्वं प्रियेण धाम्ना देववल्लभेन आज्येन सह इदं प्रियं सदः प्रस्तरलक्षणम् आसीद अधितिष्ठ, ' एतद्वै वेदानां प्रियतमं धाम यदाज्यम् ' ( श ० २ | ३ | २ | १७ ) इति श्रुतेः । उपभृतं सादयति समीपे स्थित्वा बिर्भात आज्यं धारयतीत्युपभृत् । एवं ध्रुवामासादयति । ' ध्रुव स्थैर्ये ' यथा होमे जुहूपभृतोश्चलनं तद्वदस्याश्चलनाभावेन स्थिरत्वान्नाम्ना ध्रुवा | प्रियेण धाम्नेति हवींषि वेद्यां कृत्वा ध्रुवा असदन्निति सर्वाण्यालभते । प्रियेणेति मन्त्रेण आवृत्या आज्यपुरोडाशादीनि हवींषि ध्रुवाय उत्तरतो वेद्यामासाद्य ध्रुवा आसदन्ननृतस्येति मन्त्रावृत्त्या आज्यस्थाली स्थाज्यस्य जुहूपभृध्रुवास्थस्याऽज्यस्य पुरोडाशयोश्च उपयोगक्रमेणालम्भनं कुर्यात् । हे हविः! प्रियेण धाम्ना आज्येन सह प्रियं सद आसीद इत्येवमेकैकं हविः संबोध्य वचनम् । ' ध्रुवा असदन्निति सर्वाण्यालभते । ' ( का ० श्री ० २८ | १ ९ ) । ऋतस्यावश्यं भाविफलोपेतत्वेन सत्यस्य यज्ञस्य योनौ स्थाने ध्रुवाणि यानि हवींषि असदन्नतिष्ठन् स्थितानि, हे विष्णो व्यापक यज्ञपुरुष! तानि पाहि यज्ञपति यजमानं च पाहि । ' पाहि मामित्यात्मानम् ' ( का ० श्री ० २८ २० ) यज्ञन्यम्, यज्ञं नयतीति यज्ञनीस्तम्, यज्ञनेतारमध्वयुं मां पाहि । अत्र दयानन्दः — ‘ या जुहूर्नाम्ना घृताच्यसि भवति, या यज्ञे प्रयुक्ता सती प्रियेण धाम्ना सह वर्तमानमिदं प्रियं सद आसीद आसादयति । योपभृन्नाम्ना घृताच्यसि भवति सा यज्ञे प्रयुक्ता प्रियेण धाम्नेदं प्रियं सद आसीद समन्तात् प्रापयति । या ध्रुवा नाम्ना घृताची भवति सा सम्यक् स्थापिता सती प्रियेण धाम्नेदं प्रियं सद आसीद समन्तात् प्राप्नोति सा सर्वेनित्यं साध्या । हे विष्णो यथेमानि ऋतस्य योनी ध्रुवा ध्रुवाणि वस्तून्यसदन् भवेयुस्तथैव एतानि निरन्तरं पाहि । कृपया यज्ञं पाहि यज्ञन्यं यज्ञपतिं पाहि यज्ञन्यं मां पाहि । भावार्थस्तु – यो यज्ञो पूर्वोक्ते मन्त्रे वसुरुद्रादित्यैः सिद्धयति, स वायुजलशुद्धिद्वारा सर्वाणि स्थानानि सर्वाणि च वस्तूनि प्रियाणि निश्चलसुखसाधकानि ज्ञानवर्धकानि च करोति तेषां वृद्धये रक्षणाय च सर्वैर्व्यापकेश्वरस्य प्रार्थना सम्यक् पुरुषार्थश्च कार्यः ' इत्याह । ( घृत ) के सहित तू अपने प्रिय स्थान पर बैठ । समस्त हविर्द्रव्य अभीष्ट फलदायी यज्ञ में स्थिरतापूर्वक स्थित हुए । हे व्यापक यज्ञपुरुष! उस हविर्द्रव्य का, यजमान का, यज्ञ का और मुझ अध्वर्यु का तू रक्षण कर । वाम हस्त को प्रस्तर पर वैसे ही रखे हुए दक्षिण हस्त से ' जुहू ' पात्र को लेकर ' घृताची ' मन्त्र से प्रस्तर पर रखे और अन्य दो पात्रों को ' घृताची ' इत्यादि दो मन्त्रों से रखे । तदनन्तर ' प्रियेण धाम्ना ' मन्त्र से वेदी पर एक - एक त्रिव्य को रखे । तदनन्तर ' ध्रुवा असदन् ' इस मन्त्र से सब को स्पर्श करे और ' पाहि ' मन्त्र से स्वयं अपने को स्पर्श करे ॥ ६ ॥
भाष्यसार - ' घृतम् अञ्चति प्राप्नोतीति घृताची ' अर्थात् घृत से पूर्ण ' हूयते अनया इति जुहू: ' अर्थात् जिससे हवन किया जाता है, उसे ' जुहू ' पात्र कहते हैं । उप समीपे स्थित्वा आज्यं बिभर्ति धारयति इति ' उपभृत् ' । समीप रहकर जो घृत का धारण करती है, उसे ' उपभृत् ' कहते हैं । जुहू और उपभृत् के समान एक ' ध्रुवा ' पात्र भी है । ' ध्रुव स्थैर्ये ' स्थिरता के अर्थ में ' ध्रुव ' शब्द है । जैसे होमार्थ जुहू और उपभृत् का चलन होता है, वैसे इस ' ध्रुवा ' का चलन न होने से, अर्थात् स्थिर रहने से इस पात्र को ' ध्रुवा ' कहते हैं । स्वामी दयानन्द ने जो व्याख्या की है, वह बिना आधार के चित्र बनाने के समान ही है । वे लिखते हैं कि वसु, रुद्र, आदित्य के द्वारा किया गया यज्ञ वायु और जल की शुद्धि करता है । उसी के द्वारा सम्पूर्ण स्थानों को, समस्त
पृष्ठ 33
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ६ ] वेदार्थपारिजातमाष्यसहिता २३ तदप्यविचारमूलकम्, प्रसिद्धार्थत्यागे व्यवहारानुपपत्तेः । अनेकार्थत्वेऽपि प्रसङ्गानुसारेणार्थो भवति । यात्राप्रसङ्गे सैन्धत्रमानयेत्युक्त्या न सैन्धवं लवणमानीयते । जुह्वाग्नौ घृतं हूयते तत्तु श्लिष्यते । सुखं चानया दत्ते इति कथं सङ्गतिः? पारम्पर्येण तु सर्वाभिविहित क्रियाभिः सुखमेवादीयते । तत्र जुह्वां को विशेषः? यत्तु -इदं प्रत्यक्षं प्रियेण सुखस्तर्पकेण कमनीयेन धाम्ना स्थानेन प्रीणाति सुखयति यत्तत् सदः । सीदन्ति प्राप्नुवन्ति सुखानि यस्मिंस्तद् गृहम् । आ समन्तात् सीद सादयति, तदपि तुच्छम्, आदानक्रियया गृहनिर्माणासिद्धेः । एवमेवोपभृच्छन्दः । यत्तु - ' यज्ञे प्रयुक्ता या होमक्रिया घृतमुदकमवति प्रापयति सा घृताची ' इति, तदपि तुच्छम्, जुह्वादिविशेषणत्वानुपपत्तेः । यदपि – ' योपगतं बिभर्त्यनया हस्तक्रियया सा ' इति, तदपि विसङ्गतम्, तथात्व उपागतग्राहिकायाश्चौरादिहस्तक्रियाया अपि उपभृत्त्वापत्तेः । वस्तुतस्तु श्रुतिसूत्रादिरीत्या यज्ञादिपात्रबोधका एते शब्दाः । यदपि - ' समीपप्राप्तधारणक्रिया यज्ञोपयुक्ता । इदमोषध्यादिकं प्रियेण प्रीतिहेतुधाना स्थलेन प्रियं सुखयत्यारोग्येण यत्तत् सदः सीदन्ति घ्नन्ति दुःखानि येन तदौषधसेवनं पथ्याचरणं च आसमन्तात् सीद प्रापयेति ' इति, तदपि न संगतम् तादृशप्राप्यप्रापकभावस्य निष्प्रमाणत्वात् । स्थिरसुख-प्रापिकायुर्निमित्ता विद्या सोत्तमकार्येषु प्रयुक्ता प्रियेण प्रीत्युत्पादकेन धाम्ना स्थिरताया निमित्तेन प्रियमानन्दकरं सदः वस्तु आसादयति, तादृशकार्यकारणभावस्यापि प्रमाणसापेक्षत्वात् । किश्वायुर्निमित्ता विद्या आयुष्कार्य एव प्रयुज्यते । उत्तमकार्याण्यनेकानि भवन्ति । तत्र कथं तस्याः प्रयोगः? ' सोदति जानाति येन तज्ज्ञानं तत्प्रापयति ' इत्यपि यत्किञ्चित् प्रमाणविरहादेव । यदपि च - ' हे विष्णो ऋतस्य योनी शुद्धयज्ञे यथा वस्तूनि स्थिराणि भवेयुस्तथा पाहि यज्ञं यज्ञन्यं यज्ञपतिं यजमानं यज्ञप्रकाशकं मां यजमानं होत्रादींश्च रक्ष पालय ' इति, तदपि न किञ्चित्, यज्ञेन प्रार्थनया चास्थिराणां वस्तूनां स्थैर्यादर्शनात् । किञ्च यज्ञस्य कादाचित्कत्वात् तत्रत्यानां वस्तूनां सुतरां कादाचित्कत्वमेव 1 । सिद्धान्ते तु पूर्वोक्तो ध्रुवशब्दः स्रुग्विशेषपरः, तस्याश्चान्यापेक्षया स्थिरत्वात् तत्र ध्रुवापदप्रयोगः । द्वितीयो ध्रुवाशब्दस्तु जुह्वादीनि यज्ञसमाप्तिपर्यन्तं बर्हिषि स्थिराणि भवन्तीति ध्रुवास्तिष्ठन्त्वित्यभिप्रायेण ध्रुवाशब्दप्रयोगः । शतपथरीत्या तु — ' अथ दक्षिणेन जुहूं प्रतिगृह्णाति । नेदिह पुरा नाष्ट्रा रक्षांस्याविशन्तीति । ब्राह्मणो हि रक्षसामपहन्ता । तस्मादभिनिहित एव सव्येन पाणिना भवति ' ( श ० १ | ३ | ४ | १३ ) । अथानन्तरमेव दक्षिणेन हस्तेन जुहं प्रतिगृह्णीयात् । जुहूसादनपर्यन्तं प्रस्तरविमोको न कार्यः । यतो ब्राह्मणो रक्षसामपहन्ता, अतस्तत्स्पर्शा-भावे रक्षसामावेशः सम्भाव्यते । ' अथ जुहं प्रतिगृह्णाति घृताच्यसि जुहूर्नाम्नेति घृताची हि जुहूर्हि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद आसोदेति घृताच्यस्युपभृन्नेत्युपभृतं घृताची ह्युपभृद्धि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यसि ध्रुवा नाम्नेति ध्रुवा घृताची हि ध्रुवा हि नाम्ना " प्रियं सद आसीदेति यदन्यद्धविः ' ( श ० १।३।४: १४ ) । अथ जुह्वाः सादनं विधत्ते - अथेति । जुहूमादायानेन मन्त्रेण प्रस्तरे सादयेन्न तु ग्रहणमात्रम्, मन्त्रस्य वस्तुओं को निश्चल सुखसाधक और ज्ञानवर्धक बनाता है । उनकी वृद्धि के लिये, रक्षण करने के लिये सब लोग उस व्यापक ईश्वर की प्रार्थना और सम्यक् पुरुषार्थं करें । किन्तु उनका किया हुआ अर्थं का त्याग किया जाता है, जाता है | ' जुहू ' पात्र के विषय में - नहीं हुआ है । तथा ' उपभृत् ' का यह सम्पूर्ण अर्थ अविचारमूलक ही है । व्यवहार की अनुपपत्ति होने पर प्रसिद्ध अन्यथा नहीं । उसी तरह अनेकार्थक शब्दों के रहने पर प्रसंग के अनुसार अर्थ किया सब असंगत ही लिखा गया है । ' प्रियेण धाम्ना प्रियं सद आसीद ' का अर्थ भी ठीक अर्थ मी ठीक नहीं है । ' घृताची ' शब्द का भी अर्थठीक नहीं है । सबका कारण
पृष्ठ 34
पाठ पढ़ें पाठ छिपाएँ
२४ ] शुक्लयजुर्वेदसंहिता [ अ ० २ सादनप्रकाशनलिङ्गत्वात् । ' सव्याशून्ये जुहूं प्रतिगृह्य निदधाति घृताचीति ' ( का ० श्री ० २२८ १२ ) इति सूत्रेभ्यः । घृतमवतीति घृताचीत्येतत्प्रसिद्धमिति हिशब्दार्थः । प्रसिद्धघृताञ्चनाद् नाम्ना नामधेयेन एषा स्रुग जुहूः, केवलं होमसाधनत्वात् । एतावता जुहूनाम्नी सुगेव, नादानक्रिया । अथोपभृतः सादनं विधत्ते । शेषं पूर्ववत् । ध्रुवायाः सादनं विधत्ते - घृताच्यसि ध्रुवा नाम्नेति । स्रुग्गताज्यव्यतिरिक्तस्य हविषः सादनं विधत्ते-यद् आज्याद् अन्यद् हविः पुरोडाशादिकं सेदं प्रियेण धाम्ना प्रियं सद आसीदेति ( वा ० सं ० २६ ) मन्त्रेण सादयेदिति शेषः । ' सवा उपरि जुहं सादयति । अध इतराः स्रुचः । क्षत्रं वै जुहूविंश इतराः स्रुचः । क्षत्रमेतद्विश उत्तरं करोति । तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते । तस्मादुपरि जुहूं सादयत्यध इतराः स्रुचः ' ( ० १ | ३ | ४ | १५ ) । जुह्वादीनां सादने विशेषः । प्रस्तरस्योपरि जुहूमेव सादयेत् । तस्याधस्ताद् बर्हिषी इतरा उपभृदाद्याः स्रुचः सादयेत् । तदुपपादयति - स्वातन्त्र्येण होमसाधनत्वाद् जुहूः क्षत्रियजातिः । उपभृदादीनां तथा स्वातन्त्र्याभावे तत्स्थस्याज्यस्य जुह्वामानेयत्वात् ता वैश्यजातिस्थानीयाः । मूलं स्पष्टम् । अत्र स्पष्ट-माज्यसम्बन्धेन जुहूपभृद्ध्रुवादिषु घृताचीपदप्रयोगो न होमक्रियाभिप्रायेण । सोऽभिमृशतीत्यादिना समन्त्रकमासन्नानां हविषामभिमर्शनं विधत्ते - ध्रुवा असदन्निति । कर्मसमाप्तिपर्यन्तं निश्चलतया वेद्यां जुह्वाद्या उपसन्ना इत्यर्थः । ऋतस्य योनाविति यज्ञो वा ऋतस्य योनिर्यज्ञे ह्यसदंस्ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिमिति तद्यजमानमाह - पाहि मां यज्ञन्यं तदप्यात्मानं यज्ञान्नान्तरेति । यज्ञो वै विष्णुस्तद्यज्ञायैवैतत् सर्वं परिददाति गुप्त्येतस्मादाहता विष्णो पाहीति । ऋतयोनावित्यस्याभिप्रायमाह - ऋतशब्दः सत्यार्थकः, सत्यफलकारणत्वाद् यज्ञ ऋतस्य योनिः । यज्ञे खत्वेता जुह्वाद्या असान आसादिता: । अत ऋतस्य योनावित्यनेन यज्ञप्रतिपादनं युक्तम् । फलभोक्तृतया यज्ञस्वामित्वाद्यजमानो यज्ञपतिः । यज्ञं नयति निष्पादयतीति यज्ञनीरध्वर्युः । तेन यज्ञन्य मित्यनेनाध्वर्युर्न यजमानः । स्वात्मानं यज्ञसकाशान्नान्तरेति वियुक्तं न करोति । तस्माच्छतपथ विरुद्धमेव दयानन्दीयं व्याख्यानम् । एकमात्र यही प्रतीत हो रहा है कि उन्हें ' वैदिक यज्ञप्रक्रिया ' का परिचय नहीं होगा । शतपथद्वारा प्रतिपादित यज्ञप्रक्रिया का परिचय प्राप्त करके यदि व्याख्या गई होती तो ऐसी गलतियाँ न होतीं । वेद की व्याख्या करने वाले को व्याख्या का आरम्भ करने से पहिले - शतपथ, श्रौतसूत्र, प्रातिशाख्य, सायण, महीधर, उव्वट, स्कन्दस्वामी आदि पूर्वाचार्यों के भाष्यादि ग्रन्थों का अध्ययन, अवलोकन मनन कर लेना आवश्यक होता है, जिससे ऐसी गलतियां नहीं हो पाती । ' ऋत ' शब्द का अर्थ ' सत्य ' है । ' यज्ञ ' जो है वह ' ऋत ' की योनि है । अतः ' ऋतस्य योनी ' के द्वारा यज्ञ का प्रतिपादन जो उव्वट, महीधर ने किया है, वह उचित ही है । फल का भोक्ता होने के कारण ' यजमान ' को यज्ञपति कहा गया है । तथा यज्ञ का निष्पादन करने के कारण ' अध्वर्यु ' को ' यज्ञनी ' कहा गया है । अतः ' यज्ञन्यम् ' से अध्वर्युं को बताया गया है, यजमान को नहीं । इन सब बातों को देखने से स्पष्ट हो जाता है कि दयानन्दीय व्याख्या शतपथ के विरुद्ध है । अध्यात्मपक्ष में- हे भगवति! तुम ही यज्ञों में ' जुहू ' के नाम से प्रसिद्ध हो । तुम्हारे द्वारा ही इन्द्रादि देवताओं को घृत आदि हवि की प्राप्ति होती है, इस कारण तुम ही ' घृताची ' हो । देवताओं के लिये घृत आदि का आदान जिससे किया जाता है, उसे ' जुहू ' कहते हैं । उसकी अधिष्ठात्री परदेवता तुम ही हो । अथवा प्रत्यक् चितिस्वरूपिणी
पृष्ठ 35
पाठ पढ़ें पाठ छिपाएँ
मन्त्र ६ ] वेदार्थ पारिजात भाष्यसहिता २५ अध्यात्मपक्षे तु -हे भगवति! त्वमेव यज्ञेषु जुहूनाम्ना प्रसिद्धा । घृताची घृतमञ्चतीति घृताची, त्वद्द्द्वारवेन्द्रादीनामाज्यादिप्राप्तेः । देवानामर्थे जुहोति घृताद्यादत्ते यया सा जुहूः, तदधिष्ठात्री परदेवता त्वमेवासि । यद्वा जुहोत्यादत्ते सर्वमनया प्रत्यक् चितिरूपयेति जुहूः । सा त्वमिदं सदो निवासस्थानं मूर्तिमयं शरीरं भक्तहृदयं वा प्रियेण प्रेमास्पदेन स्वरूपभूतेन तेजसा अधितिष्ठ । त्वमेव उपभृन्नाम्ना घृताची घृताद्युपलक्षित दिव्यहविर्भोक्त्री असि भवसि । उप जुह्वाः समीपे स्थित्वा आज्यं बिभर्ति धारयतीत्युपभृत् पात्रविशेषस्तदधिष्ठात्री । उपेति सामीप्यवाची, सामीप्यस्य पर्यवसानमात्मन्येव । तथा च प्रत्यगात्मानं बिभर्तीत्युपभृत् परमात्मस्वरूपासि । हे राजराजेश्वरि! त्वं ध्रुवासि नाम्ना ध्रुवा स्रुगसि । जुहूपभृतोश्चलन-वदस्याश्चलनाभावेन ध्रुवात्वम् । तदधिष्ठात्री सती सर्वदेवतर्पयित्री ध्रुवा कुवन्निविकारतया तिष्ठतीति वा, कूटस्था वासि । सा त्वं प्रियेण सर्वप्राणिप्रेमास्पदेन तेजसा स्वरूपभूतेन तेजसा प्रियं सदः स्थानं मूर्ति हृदयं वाधितिष्ठ । ऋतस्य सत्यस्य योनौ अङ्गे जुह्वादीनि पात्राणि पुरोडाशादीनि, असदन्निति तद्रूपाणि सन्तु । विष्णो हे व्यापनशील परमेश्वर! पाहि रक्ष यज्ञं कर्मविशेषमुपासनं वा । पाहि यज्ञपति यजमानं यज्ञन्यं यज्ञनेतारमध्वर्युम् । यद्वा ऋतस्य सत्यस्य योनौ कारणभूतायां चिदात्मिकायां भगवत्यां सर्वाणि वस्तुनि सर्वाणि कर्माणि ध्रुवा स्थिराणि कारणात्मनाऽविनश्वराणि, असदन् आसादितानि सन्ति । हे विष्णो व्यापनशील सर्वकारण! व्यवहारेऽपि यज्ञादीनि सुखसाधनानि यज्ञपतिं यज्ञकर्तारं यज्ञन्यं यज्ञनेतार-मध्वर्युं च पाहि पालय । कश्चित्तु - ' यज्ञे त्रीणि स्रुक् पदाभिधेयानि हवनसाधनानि भवन्ति - जुहूः, उपभृत्, ध्रुवा च । त्रीणि मानि ब्रह्माण्डे दिवोऽन्तरिक्षस्य पृथिव्याश्च प्रतीकभूतानि । राष्ट्र च राजभृत्यप्रजाना प्रतीकानि । हे राजन्! त्वं जुहूरसि समस्त प्रजागणेभ्यः शक्तीरादाय सर्वेभ्यः सुखप्रदानसमर्थः घृताची तेजसा पराक्रमेण च युक्तः । जुहूरिति त्वदीयं नाम । सा राजशक्तिरिदमस्मिन् राजभवने राजपदे वा प्रियं सदः स्वप्रिये आश्रये आसने-नुकुलतेजसान्वितः आसीद विराजताम् । हे राजाधिकारिवर्ग! त्वमपि घृताची असि तेजः सम्पन्नोऽसि । नाम्ना उपभृत् । कुत इति चेत्, राज्ञा स्वसमीपे त्वां रक्षित्वा भृति ( वेतन ) द्वाराप्नोति सा अधिकारिगणरूपा प्रकृतिः, इदं स्वप्रियं सदः प्रीतिकरासनमारुह्य प्रीतिकरेण तेजसा युक्त आसीद । हे प्रजागण! त्वमपि घृताची अि घृततुल्य पुष्टिकरान्नादिपदार्थप्रापकत्वेन तेजस्वी भव । नाम्ना ध्रुवा पृथिवीवदेव स्थिरा भव । सा त्वमिदं स्वीयं प्रियमासनं प्रियेण तेजसा आसीद । सर्वेऽपि स्वीयेष्वासनेषु वा स्वानुकूलतेजसि च ऋतस्य योनौ सत्यज्ञानस्या-श्रयभूतेश्वराश्रयाश्रिता भूत्वा त्रयोऽपि राज कर्मचारि - प्रजाः स्वाश्रितैरुपादेयपदार्थेर्भुवा असदन् स्थिरा भवन्तु । हे विष्णो व्यापक प्रभो! ताः पाहि । यज्ञं रक्ष यज्ञपालकं स्वामिनं पाहि मां यज्ञन्यं यज्ञनेतारं रक्ष ' इति । तुम्हारे द्वारा ही सब कुछ ग्रहण किया जाता है, इसलिये तुम ही ' जुहू ' हो । ऐसी तुम निवासस्थानभूत मूर्तिमय शरोर में अथवा मक्त के हृदय में प्रेमास्पद स्वरूपभूत अपने तेज से निवास करो । तुम ही ' उपभृत् ' नाम से घृतादि के द्वारा उपलक्षित दिव्य हवियों की भोक्त्री हो । अतः तुम ही उपभृत् नाम की घृताची हो । जुहूपात्र के समीप स्थित रहकर आज्य का धारण करने से उस पात्र विशेष को ' उपभृत् ' कहते हैं, उसकी तुम अधिष्ठात्री देवता हो । ' उप ' शब्द ' समीप ' वाचक है । उस सामीप्य का पर्यवसान ' आत्म ' में ही होता है । तथा च प्रत्यगात्मा का धारण करने से तुम परमात्म-स्वरूपा हो । हे राजराजेश्वरि! तुम ' ध्रुवा ' नाम की स्रुक् हो । ' जुहू ' और उपभृत् पात्रों के समान ' ध्रुवा ' पात्र का चलनाभाव रहने से उस पात्रविशेष का नाम ' धुवा ' प्रसिद्ध हुआ है । उस पात्रविशेष की तुम अधिष्ठात्री सर्वदेव तर्पयित्री हो और कूट के समान निर्विकारभाव से स्थित रहती हो । सत्य की योनि, अर्थात् अंग में जुहू आदि पात्र *
पृष्ठ 36
पाठ पढ़ें पाठ छिपाएँ
२६ शुक्लयजुर्वेद संहिता | अध्यायः २ तदपि विविच्यते । अस्यां कण्डिकायां यज्ञशब्दः पठितो व्याख्यात्रा च यज्ञे तिस्रः स्रुचो भवन्तीत्युक्तम् राजाद्युपदेशपरा । तत्र कोऽयं यज्ञः किं प्रमाणकश्च? पात्राणि च किं प्रमाणकानि? सर्वेऽपि मन्त्रा आयुष्मता पद्धतियाज्ञिक-आस्थीयन्ते यज्ञे जुहूपभृद्ध्रुवाख्यानि पात्राणि चास्थीयन्ते । कानि च तानि? यदि च श्रौतसूत्र । तथात्वे हूयते ऽनयेति सम्प्रदायानुरोधेनैव यज्ञादिव्याख्यानमाद्रियते, तर्हि तदनुरोधि मन्त्रव्याख्यानमप्याद्रियताम् यदेव घृतमादीयते जुहूरित्येवं व्याख्यायताम् । न च राजा जुहुरूपः सम्भवति, तस्य होमं प्रत्यकरणत्वात् प्रजाभ्यः । जुह्वां कर आदीयते न शक्तिः, तदेवाग्नी देवतोद्देश्येन हूयते । राज्ञा तु न तथा यदेवादीयते तदेव दीयते । प्रजाभ्यश्च सुखं तत्साधनानि च दीयन्ते न यदेवादीयते तदेव । जुहूपभृध्रुवासु यद्वैलक्षण्यं सिंहनिरूपणानन्तरमेव न तद्राजभृत्यप्रजासु व्यञ्जितम् । दिवादिषु किंनिमित्तकं जुह्वादित्वमिति नोक्तम् । अपि च, यथा मुख्य देवदत्तादिगौणसिंहनिरूपणं भवति, तथैव मुख्यजुहूपभृद्ध्वादिनिरूपणानन्तरमेव चैते राजादिगौणजुह्वादिनिरूपण- शब्दाः प्रसिद्धाः । न च मुचितम् । किञ्च यज्ञ यज्ञपति यज्ञनीरक्षणं प्रार्थिनम् । नहि राष्ट्र राष्ट्रपती मांपदार्थः नेतृपु । स च नेश्वरः सम्भवति, तत्र जुह्वादयोऽपेक्ष्यन्ते । अपि चैतेषां मन्त्राणां य उच्चारयिता स एव । सिद्धान्ते श्रौतसूत्रानु-तस्य रक्षणप्रार्थनानुपपत्तेः । न च कश्चन नेतास्य मन्त्रस्योच्चारकः, निष्प्रमाणत्वात् । किञ्च, ऋतस्य सारणाध्वर्यु कर्तृकं मन्त्रोच्चारणम्, स एव च यज्ञनेता भवति, यजतिजुहोत्योस्तत्कर्तृकत्वात् तथात्वे च पौनरुक्त्यमेव । योनी परमेश्वरे कथमेषामवस्थानम्? ता इति पदेन केषां व्यपदेश:? राजादीनां यज्ञस्योत्सङ्गे सिद्धान्ते सूत्रानुसारेण तु यत्तदोः सम्बन्धाद्यान्येतानि ध्रुवाणि असदन आसादितानि ऋतस्य । सिद्धान्ते योनी तु यज्ञानुसारेण तास्तानि हवींषि गोपाय । अस्मिन्नर्थे मन्त्राणां परम्परमसङ्गतिस्तु स्पष्टं भासते स्पष्टैव सङ्गतिः ॥ ६ ॥
अग्ने ' वाजजिद्वाजन्वा सरिष्यन्तं पि॒तृभ्यः सु॒यमे॑ मे भूयास्तम् ॥ ७ ॥
वाजजित 129 सम्माज्मि ॥ नमो॑ दे॒वेभ्यः॑ स्व॒धा ' इध्मसंनहनरनुपरिधि संमाष्टर्यग्ने वाजजिदिति त्रिस्त्रिः इध्मबन्धनार्थैस्तृणैरग्नोत् पूर्वेण परिक्रम्य यजतिस्थानस्थः सम्मा परिक्रामम् ' ( का ० श्र ० ३।१।१३ ) । द्विस्नूष्णीं मार्जयेत् । ततोऽप्रादक्षिण्येन परमेश्वर! तुम यज्ञरूप कर्मविशेष की और पुरोडाशादि हवि स्थित हैं, अतः उनके स्वरूप से तुम ही हो । हे व्यापनशाल ( यज्ञनेता ) अध्वर्युं को रक्षा करो । अथवा उपासना की रक्षा करो । तथा यज्ञपति यजमान को और यज्ञन्य कर्म, स्थिर कारणरूप से अविनश्वर अथवा सत्य की कारण सूत विदात्मिका भगवती में समस्त वस्तुजात, समस्त को और अध्वर्यु को सुरक्षित रखो । रूप में आसादित हैं । हे विष्णो! व्यवहार में मां यज्ञादि सुखसाधनों को, यज्ञकर्ता और प्रजा के किसी व्याख्याता ने यज्ञपात्रों को अन्तरिक्ष और पृथिवी के प्रतीक मानकर राष्ट्र तरह में से राजा बताया , भृत्य गया है, वहीं प्रतीक रूप में माना है । किन्तु वह सब असंगत है । उस असंगति को भाष्य में अच्छी पर देखना चाहिये ॥ ६ ॥
करने वाले तुम्हारी मन्त्रार्थ - हे अन्नोत्पादक अग्ने! मैं अन्न के उद्देश्य से गमन करने वाले और विजय प्राप्त करनेवाले पितरों को यह हवि शुद्धि जल से करता हूँ । कर्म पर अनुग्रह करने वाले देवताओं को नमस्कार तुममें है । स्थित पालन रहने वाले घृत को नीचे गिरने सुहुत हो । हे जुहू और उपभृत् पात्रों! मेरे लिये तुम स्थिर रहो, अर्थात्
पृष्ठ 37
पाठ पढ़ें पाठ छिपाएँ
७ ] मन्त्रः ७ वेदार्थ पारिजातमाष्यसहिता २७ यजतिस्थानमागत्य पश्चिमपरिधिमुदक्संस्थं सकृन्मन्त्रेण द्विस्तूष्णीं सम्मार्जयेत, अनुपरिधि परिधिसमीपे अग्नि संमृद्धि इति प्रेषबलात् । वाजमन्नं जयतीति वाजजित् तत्सम्बुद्धी हे वाजजिदग्ने त्वा त्वामहं सम्माज्मि शोधयामि । कीदृशं त्वां सरिष्यन्तमन्नमुद्दिश्य गमिष्यन्तम् अन्नप्रतिबन्धनिवारकम्, अन्नसम्पादनो-पयुक्तमित्यर्थः । वाजं यज्ञं वा प्रापयिष्यन्तमन्नस्य जेतारमग्नि शोधयामि । ' अपरमाहवनीयादञ्जलिं करोति नमो देवेभ्यः ' ( का ० श्री ० ३ | १ | १५ ) । अध्वर्यु रुपभृतोः पुरस्तादाहवनीयस्य पश्चाद् ओं नमो देवेभ्यः स्वधा पितृभ्य इत्यञ्जलिपुटं निदधाति । तस्मादञ्जलिकरणस्थानाद् दक्षिणतो द्वितीयमञ्जलिमुत्तानं करोति, ये देवा अनुष्ठानमनुगृहुन्ति तेभ्यो नमस्करोति । ' स्वधा पितृभ्य इति दक्षिणत उत्तानम् ' ( का ० श्री ० ३ | १ | १५ ) प्राङ्मुखेनादो देवनत्यर्थमञ्जलिः कृतः । इदानीं पितृनत्यर्थं दक्षिणामुख उत्तानमञ्जलिं कुर्यात् । ये पितरः पालकाः सन्ति तेभ्यः स्वधाऽस्तु । स्वधाशब्दो निपातः पितृनुद्दिश्य देयद्रव्यस्य पिण्डादेर्दाने वर्तते । अनेन मन्त्रद्वयेन देवाः पितरश्च पूज्यन्ते । ' सुयमे म इति जुहूपभृतावादाय ' ( का ० श्र ० ३ १ १६ ) | हे जुहूपभृतो मे मदर्थं सुयमे सुष्ठु नियमने युवां भूयास्तं भवतम् यथा युवयोः स्थितमाज्यं न स्कन्दति तथा धारयतम् । तदाह कण्वोऽपि –'अथ स्रुचाघारमाकृष्यन्नग्रेण स्रुचोरञ्जलिं निदधाति नमो देवेभ्यः स्वधा पितृभ्यः ' इति । अत्र दयानन्दः -- ' यतोऽयमग्निर्वाजजिद् अन्नप्रापको भूत्वा सर्वान् पदार्थान् सम्माष्टि शोधयति, तस्मात् त्वा तमहं वाजं सरिष्यन्तं सर्वान् पदार्थान् अन्तरिक्षे गमिष्यन्तं वाजजितं युद्धजितं संमाज्मि येन यज्ञे प्रयुक्ते-नाग्निना देवेभ्यः सुखकारकेभ्यो वस्वादिभ्यो नम उदकं पितृभ्यः पालनहेतुभ्य ऋतुभ्यः स्वधान्नं ' ऋतवो वै पितरः ' । सुयमे सुशोभनेऽर्थे यमे यच्छन्ति बलपराक्रमी याभ्यां ते मम भूयास्तं भूयास्ताम् ' इति, तदपि निर्मूलम्, अग्नेः केवलस्यान्नप्रापकत्वाभावात् । न वाग्नेः केवलस्य युद्धजयहेतुत्वं सम्भवति । अग्निना चेहैवान्नं दह्यते न चान्तरिक्षे नीयते । न वाग्नेस्तादृशं सम्मार्जनं शोधनं दृश्यते श्रूयते वा, येन वस्वादिभ्यो जलं प्राप्येत । न तु ऋतुभ्योऽन्नं प्राप्यते, वसूनामृतूनां च समुच्चितानामेवान्नादिप्रापकत्वसम्भवात् । शतपथविरुद्धं चैतत् । तथाहि - ' अथ संमाष्टि । युनक्त्येवैनमेनद्युक्तो देवेभ्यो यज्ञं वहादिति तस्मात् संमाष्टि । परिक्रामं सम्माष्टि । परिक्रामं हि योग्यं युञ्जन्ति त्रिस्त्रिः संमाष्टि त्रिवृद्धि यज्ञः ' ( श ० १ | ४ | ४ | १४ ) | इति विधित्सितस्य सम्मार्जनस्याघारानन्तर्यमुपपादयति - यथेति । यथा अनडुहः स्कन्धदेशे धुरं युगधुरं अध्यूहेत योजयेत, एवमग्नो धुरोऽध्यूहनमेव पूर्वाघारहोमेन क्रियते । तत्रैव लोकप्रसिद्धिमाह - अध्युह्येति । हि मत दो । ' अग्ने वाजजित् ' इस मन्त्र से ' अग्नि ' का तीन बार संमार्जन करे । आहवनीय के पश्चिम भाग में नमो देवेभ्यः ' इस मन्त्र से नमस्काराञ्जलि करे । तदनन्तर ' स्वधा पितृभ्यः ' इस मन्त्र से दक्षिण की ओर उत्तान अञ्जलि करे । ' सुयमे मे ' इस मन्त्र से जहू और उपधृत् पात्रों का ग्रहण करे ॥ ७ ॥
भाष्यसार - अग्नि का संमार्जन एक बार समन्त्रक और दो बार तूष्णीं करना चाहिये । यह अग्नि अन्न-सम्पादनोपयुक्त है तथा अन्न का जेता है, अर्थात् अन्न प्रतिबन्ध का निवारण करने वाला है । तदनन्तर देवता और पितरों को प्रणामाञ्जलि के द्वारा प्रणाम किया जाता है । तदनन्तर जुहू और उपभृत् की घृतधारण करने के लिये प्रार्थना की गई है । स्वामी दयानन्द ने जो व्याख्या की है, वह मूलरहित ही है । शतपथब्राह्मण के विरुद्ध भी है । दयानन्दजी की व्याख्या और उसका शतपथ के साथ विरोध ऊपर दिये गये भाष्य में देखना चाहिये ।
पृष्ठ 38
पाठ पढ़ें पाठ छिपाएँ
२८ शुक्लयजुर्वेदसंहिता [ अ ० २ यतो रथादेर्वहनेऽनडुदश्वादिकं योज्यमानास्तदीयस्कन्धस्योपरि युगधुरमध्यु पश्चात् पाशैर्युञ्जन्ति, । अतो तत्र धुरोऽध्यूहन स्थानीयः पूर्वाधारहोमः । इतः पूर्वं सामधेन्यनुवचनम् । तथेध्मसामधेनीनाम्नोर्निर्वचनम् वज्र इत्युपपत्तिः । होतृपदमुपादेयमित्ये कोयमतनिरसनम् । सामिधेनीनामृचां छन्दोदेवतासंख्यादिकं च । पञ्चदशो पञ्चदशत्वम् । त्रिः प्रथमामन्वाह त्रिरुत्तमामित्येकादशानामृचां प्रथमाया उत्तमायाश्च त्रिस्त्रिरन्वाख्यानेन । तासां संख्यासाम्यात् पक्षस्य रात्र्यात्मना सम्पत्तिः । अक्षरसंख्यासाम्यात् षष्ट्युत्तरत्रिशतसंवत्सराहःसम्पत्तिः सामिधेन्यनुवचने उपांशु हिङ्करणादिधर्मविशेषविधानम् । हिकारप्रणवयोस्तादात्म्योपवर्णनम् यो । सामिवेनोनामृचां विश्ववेदस इति व्याख्यानम् । प्रसङ्गाद् मागध - विदेह - राजकथाप्रस्तावः । अग्नेर्दूतत्वेतिहासः । होता । मानुषपरिकल्पित पाठान्तरनिरासः । सामिधेनीष्वृक्षु सप्तदशसंख्यापूरकयोर्वाय्वांभूतयोर्ऋचोः प्रोक्षणी स्थाननिर्धारणम् प्रैषरूपत्वम् । दशम्या ऋचः प्राग् अनुयाजसमिद्वर्ज मवशिष्टसर्वेध्मानामाधानम् । अन्तिमाया द्वयोः ऋचः समानफलजनकत्वोक्तिः । अध्वरपदस्य निरुक्तिपूर्वकं सोमयागे रूढि प्रतिपाद्य दर्शपूर्णमासे तद्योगं दर्शयित्वा ' अग्ने महाअसि ब्राह्मण भारतेति । ब्रह्म ह्यग्निस्तस्मादाह ब्राह्मणेति । भारतेत्येष हि देवेभ्यो ( श ० हव्यं
१।४।२।२
भरति ) ॥
तस्माद् भारतोऽग्निरित्याहुरेष उ वा इमाः प्रजाः प्राणो भूत्वा बिर्भात तस्माद्वेवाह ७ शितादिनिवित्पाठः भारतेति । ' । यथादेवतं अथार्षेयप्रवरणम् – देवेद्धमन्विद्ध ऋषिष्टुत् विप्रानुमोदित वाविशस्त ब्रह्मस धर्मविशेषविधानम् । देवतावाहनम् । सामिधेनीपुरोनुवाक्ययोस्तिष्ठतानुवचनम् । याज्याया आसीनेनानुवचनमिति शान्तिकर्म । तत्र सामिधेनीभिः समिद्धोऽग्निः प्रदीप्ततमो भवति । ततो रक्षः प्रभृतिभिरहिंस्यः होतव्यौ स्प्रष्टुमशक्यश्च । तत्र जायते । आघारसंज्ञकयोर्होमयोविधानम् । मनोवाग्देवत्यो च तो पूर्वोत्तरावाघारौ समिद्धेऽग्नौ स्वाहाकारेण पूर्वाधार उपांशु स्रुवेण तूष्णीमुत्तरतः उपविष्टेन सता होतव्यः । उत्तराघारश्वोच्चः स्रुचा वाहयित्वा प्रदानार्थं दक्षिणतस्तिष्ठता होतव्यः । पूर्वाधारोत्तरं संप्रैषमग्निसम्मार्जनम् । देवेभ्यो यक्ष्यमाणहविर्द्रव्यं अग्ने वाजजिद्वाजं त्वा शकटसम्पत्त्या द्वयोराघारयोर्मध्येऽग्नि सम्मार्जनानुष्ठानस्य प्रशंसनम् । स सम्माष्टि । तूष्णीं त्रिस्तद्यथा सरिष्यन्तं वाजजित ७ संमामीति यज्ञं त्वा वक्ष्यन्तं यज्ञियसंमामत्येवैतदाहाथोपरिष्टात् त्रिस्तद्यदेतदन्तरेण युक्त्वा प्राजेत्प्रेहि वहेत्येवमेवैतत् कशयोपक्षिपति प्रेहि देवेभ्यो यज्ञं वहेति १।४।४।१५ । तस्मादुपरित्तूष्णो ) । कर्म क्रियते तस्मादिदं मनश्च वाक्व समानमेव सन्नानेव ' ( श ० विहितं सम्मार्जनमनूद्य मन्त्रं विधत्ते - स सम्माष्ठति । मन्त्रस्याभिप्रायमाह – सरिष्यन्तमिति यज्ञं त्वेति । पदद्वयस्यार्थः यज्ञसाधनत्वाद् । हविरत्र यज्ञः । यज्ञसाधनं हविर्लक्षणमन्तं देवेभ्यो वक्ष्यन्तं वहतं करिष्यन्तं वाजं वाजजित् । तथा च यज्ञ वाजजिदित्यस्य व्याख्या यज्ञियमिति । वाजं यज्ञसाधनं हविर्लक्षगमन्नं जयतीति ! अध्यात्मपक्ष में मन्त्र का अर्थ इस प्रकार है - वेदपुरुष अथवा आचार्य कह रहा है कि भोगग्रहणार्थं हे वाजजित् कर्म अग्ने के विविध प्रकार के अन्न को अपने कर्म से जीतने वाले भोक्ता अथवा जीवात्मन्! कर्मफल के कर और तुममें अनुसार वेगशाली बने हुए तुमसे गर्भावानादि अड़तालीस संस्कारों के द्वारा समस्त के मल लिये का अपसारण प्रणाम कर रहा हूँ तथा अतिशय का आधान कर तुम्हारा शोधन कर रहा हूँ । तदर्थं अग्नि आदि देवताओं तरह से नियमित रूप से पितरों के लिये स्वधा, अर्थात् दिव्यान्न अर्पित करता हूँ । हे वाणी और मन! तुम दोनों अच्छी रहना, जिससे ईश्वराराधन रूप कर्म सम्यक्तया अनुष्ठित हो सके । अथवा हे वाजजित्! मायामय अन्न को जातने वाले हे परमेश्वर! भोग के योग्य प्रभूत अन्न को अपने अधीन रखने वाले और भक्तों पर अनुग्रह करने के लिये अथवा फलदानार्थ गमन करने वाले तुम्हारा अभिषेक हम कर रहे हैं ।
पृष्ठ 39
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ७–८ ] वेदार्थपारिजातभाष्यसहिता २ ९ यज्ञसाधनं हविरर्हतीति यज्ञियशब्दार्थः सम्पद्यते । उपरिष्टात् सम्मार्जनं विधत्ते - अथेति । परिधित्रयानुसारेण परितोऽग्नि संमृज्य तदनन्तरमग्नेरुपरिष्टात् तूष्णीं त्रिः सम्मृज्यात् । तदेतत् स्तौति तद्यथेति । यथा लोके युगधुरेऽनडुहं संयोज्य प्रेहि प्रगच्छ वोढव्यं भारं वह इत्येवं वदन् कशया ताडनेन प्राजेत् प्रेरयेत्, एवं कशयोप-क्षेपणमेव तदुपरिमार्जनम् । अन्यत् स्पष्टम् । स्रोवस्रुग्व्याघारयोर्मध्येऽनुष्ठानं संमार्जनस्य प्रशंसति -- तद्यदिति । मनोवाक् संस्तुतयोरनयोराघारयोर्मध्ये सम्मार्जनस्य करणात् तद्व्यवधाने सति मनश्च वाक् च एतदुभयं समानविषयं समानाश्रयमपि नानेव भिन्नमिव भवति । एवं श्रुतिसूत्राभ्यां सायणादिपक्ष एव समर्थ्यते, न दयानन्दीयोऽन्यदीयो वा । नात्र वाजस्यान्तरिक्षे प्रेषणं न वाग्निसंशोधनेनास्त्रशस्त्र निर्माणादिना युद्धजयः सूच्यते । सिद्धान्तपक्षीयस्त्वर्थः पूर्वमेवोक्तः । अध्यात्मपक्षे वेदपुरुष आचार्यो वाह हे वाजजिदग्ने वाजमन्नं विविधं स्वकर्मणा जयतीति वाजजिद् भोक्तर्जीवात्मन्! वाजजितं त्वा कर्मफलभोगाय सरिष्यन्तं कर्मानुसारेण वाजं वेगवन्तं त्वा त्वां संमाज्मि गर्भाधानादिभिरष्टाचत्वारिंशत्संस्कारैर्मलापनयनेनातिशयाधानेन च सम्माज्मि शोधयामि । तदर्थं देवेभ्योऽग्न्या-दिभ्यो नमः प्रभावोऽञ्जलिबन्धोऽस्तु । तथा पितृभ्यः स्वधा दिव्यान्नमर्पितमस्तु । हे वाङ्मनसी! युवां सुयमे सुष्ठु नियते भूयास्तम्, यथा परमेश्वराराधनलक्षणं कर्म स्वनुष्ठितं स्यात् । यद्वा - हे वाजजित्! वाजं मायामयमन्नं जयतीति वाजजित् तत्सम्बुद्धौ वशीकृतमाय परमेश्वर अग्ने! वाजजितं वशीकृतभोग्यं वाजं प्रभूतान्नादिमन्तं सर्वैश्वर्यशालिनं भक्तानुग्रहार्थं फलदानार्थं वा गमिष्यन्तं संमाज्मि अभिषिञ्चामः । तस्य त्वदभिषेकादिलक्षणस्य निर्विघ्नसिद्धयर्थं देवेभ्यस्त्वदंशेभ्यो नमोऽञ्जलिवन्धोऽस्तु । पितृभ्यश्च त्वदङ्गेभ्यः स्वधास्तु । तदर्थं स्वीये वाङ्मनसी पूर्ववत्सम्बोध्य सुयमे सुष्ठु नियते भवतमित्यवधापयति ॥ ७ ॥
अस्क॑न्नम॒द्य दे॒वेभ्य॒ आज्य॒ सम्भ्रियास॒मङ्घ्रिणा विष्णो॒ मा त्वाव॑क्रमिषं वसुमतीमग्ने ते च्छ॒यामु॒प॑स्थेषं॒ विष्णो॒ः स्थान॑म॒स॒ इन्द्रो॑ वी॒र्य॒मकृणोदु॒र्ध्वोऽध्वर॒ आस्था॑त् ॥ ८ ॥
यथाहं संयताभ्यां स्रुग्भ्याम् अस्कन्नं सकलं घृतमद्य अस्मिन् कर्मणि अनुष्ठानदिने वा देवेभ्यो देवोपकाराय सम्प्रियासं सम्यक्पोषणं धारणं वा करोमि । आशीर्लिङि उत्तमे रूपम् । ' दक्षिणातिक्रामत्यङ्घ्रिणा विष्णो ' ( का ० श्र ० ३।१।१६ ) इति कात्यायनः । हे विष्णो व्यापक यज्ञपुरुष! अङ्घ्रिणा पादेन त्वा त्वामहं मा अवक्रमिषं मावक्रमणं कार्षम् । ' परिधीनपरेण सञ्चरो होष्यतः, सव्येनेतो दक्षिणेनामुतः, वसुमतीमित्यवस्थाय ' ( का ० श्री ० ३।१।१७-१९ ) । परिधीनां पश्चिमभागः सञ्चारदेशस्ततो होमायोद्युक्तस्य सव्येन पादेनेतः परिधेः अभिषेक की निर्विघ्नता सिद्धि के लिये तुम्हारे अंशभूत देवताओं को प्रणाम और तुम्हारे अंगभूत पितरों को स्वा अर्थात् जो देय है, उसे दे रहे हैं । तदर्थं हमारी वाणी और मन को सर्वदा नियत रखो || ७ ॥ मन्त्रार्थ - आज इस कर्म के दिन देवताओं के लिये तुममें ( जुहू, उपभृत् पात्रों में ) भरा हुआ घृत, जो पृथिवी पर न गिर सके, उस प्रकार से मेरे द्वारा उसको धारण किया जाय । उसे मेरा पाँव न लगे । हे अग्ने! तेरे समीप छाया के समान रहने वाली पृथ्वी का मैं सेवन करता हूँ । हे वसुमति! तू यज्ञ का स्थान है । हे अग्ने! धन देनेवाली वसुमती नामको तुम्हारी छाया का मैं सेवन करता हूँ । इन्द्र इस देवयजन स्थान से ऊर्ध्व होकर ही शशुवधरूप कर्म कर पाया । उसी कारण यज्ञ ऊध्वं हुआ है । ' वसुमतीम् ' इस मन्त्र से अग्नि के समीप सेवा करने के लिये खड़ा रहे । ' इत इन्द्र: ' इस मन्त्र से होम करे ॥ ८ ॥
पृष्ठ 40
पाठ पढ़ें पाठ छिपाएँ
-३० शुक्लयजुवद संहिता [ अध्यायः २. पश्चिमदिश्यवस्थानं दक्षिणेन पादेनामुतः पूर्वस्यां दिश्यवस्थानम् । परिधीनां पश्चात् सुचां पूर्वेण तेमं करिष्यतोऽध्वर्योर्गमनागमनमार्गो शेयः । इतो जुहोतिस्थानाद् यजतिदेशं गच्छन्नध्वर्युः सव्येन पादेन गच्छेत् । अमुतो यजतिस्थानात् प्रत्यागच्छन् दक्षिणेन पादेनागच्छेत् । एकैकेन पादेन गन्तुमशक्यत्वात् तस्य प्रथमप्रवृत्तिविवक्षिता । उत्तरतो जुहोतिस्थानं दक्षिणतो यजतिस्थानम् । यजतिस्थाने ईशानाभि-मुखस्तिष्ठेदध्वर्युः । क्रमणदोषो मे मा भूदित्यग्नि प्रार्थ्यते । हे अग्ने! ते छायां छायावत्समीपवर्तनीं भूमिमाश्रयभूतां वा भूमिमहमुपस्थेषम् उपतिष्ठेयं सेवेय । उपपूर्वकस्य तिष्ठतेः सेवार्थत्वात् स्तुतिरूपा सेववोच्यते, युष्माकं पादच्छायायां वसा मोत्यादी तथा प्रयोगदर्शनात् । तथा चादिकाव्यं रामायणम् – ' पाद-च्छायामुपागम्य सुखमस्य महात्मनः । उपवासपरकाग्रा वरा त्वं जनकात्मजे ॥ ' ( वा ० उ ० ४७:१७ ) इति । हे वसुमति! त्वं विष्णोर्यज्ञस्य स्थानमसि । अत्र स्थित्वा यज्ञः कर्तुं शक्यते । आहवनीयसमीपवर्तित्वाच्चास्या भूमेर्यज्ञस्थानत्वम् । यहा हे अग्ने! तव वसुमतीं धनवतीं धनप्राप्तिकरीं छायामाश्रयम् उपस्थेषं सेवेय । ' इत इन्द्र इति जुहोति ' ( का ० श्रो ० ३।२।१ ) | यज्ञसम्बन्धि यत्स्थानमुक्तम्, तदेव देवानां विजयहेतुत्वाद् इतः -शब्देन परामृश्यते । देवयजनव्यतिरिक्तभूमेरसुराधीनत्वे तत्र देवानां पराजयेऽपि यज्ञप्रदेशोऽजेयः । तदुक्तम्—– ' विष्णो स्थानमसीत्याह । यज्ञो वै विष्णुः । एतत्खलु देवानामपराजितमायतनं यद्यज्ञः । देवानामेवापराजित आयतने तिष्ठति ' ( तै ० ब्रा ० ३ | ३ | ७ | ७ ) इति । इत इन्द्र इतोऽस्माद् यजनस्थानात् स्वकीयभुजबलोपार्जिताद् युद्धार्थमुद्युक्तः सन् वीर्यमकृणोद् वीरस्य कर्म वीर्यं शत्रुवधरूपमकरोत् । अत एवाध्वरो यज्ञ ऊर्ध्वमास्थाद् उन्नतः स्थितः । इन्द्रेण वीर्ये कृते शत्रुकृतविघ्नाभावात् तस्योन्नत्यमर्थसिद्धम् । अत्र दयानन्दः – ‘ अहं देवेभ्य उत्तमसुख प्राप्तयेऽस्कन्नमविक्षुब्धं निश्चलसुखदायकमाज्यादिपदार्थप्रापक-मग्निमद्य सम्भ्रियासं धारयेयम् । विष्णो हे व्यापक परमेश्वर! त्वां तमङ्घ्रिणा गमनसाधनेनाग्निना मावक्रमिषं कदाचिदपि नोल्लङ्घयेयम् । हे अग्ने परमेश्वर भौतिकाग्ने वा! ते वसुमती बहूनि वस्तूनि भवन्ति यस्यां तां विविधपदार्थदात्रीं छायामाश्रये उपस्थेषं प्राप्नुयाम् । योऽयमग्निर्विष्णोर्यज्ञस्य स्थानमस्ति तस्याप्युत्तमपदार्थ-प्रापकमाश्रयं प्राप्याहं यज्ञं साधयामि । तथा य ऊर्ध्वमाकाशस्थोऽध्वरोऽग्नौ चास्थात् तिष्ठति तं यज्ञमित इन्द्रः सूर्यो वायुश्च धारयित्वा वीयं वीरस्य कर्म पराक्रमं वा अकृणोत् करोति ' ( पृ ० १६० ) इति, तदपि यत्किञ्चित्, निष्प्रमाणव्यत्ययादिदोषदुष्टत्वात् । देवेभ्य इत्यस्य उत्तमसुख प्राप्तिरूपोऽर्थोऽपि निष्प्रमाण एव । आज्यादिपदार्थे निश्चलसुखदायकत्वमपि निर्मूलमेव । अङ्घ्रिणा गमनागमनसाधनाग्निना धारितस्याज्यादेरग्निव कर्ता भवति नान्य: । उल्लङ्घनं च तस्य कीदृगित्य स्पष्टम् । भाष्यसार - यज्ञानुष्ठान के दिन यज्ञिय पात्र, अग्नि, वसुमतो, इन्द्र आदि की स्वरूपयोग्यता को बताया गया है और उनसे अपने शील के अनतिक्रमण की प्रार्थना की गई है । अध्वर्यु के गमनागमन का मार्ग नियत है । होमस्थान से यागस्थान तक अध्वर्यु को सव्य पैर से जाना चाहिये और यागस्थान से वापस आते हुए दक्षिण पैर से आना चाहिये । किन्तु एक पैर से जाना आना संभव न रहने से तत्तत् पैर की प्रथम प्रवृत्ति यहाँ विवक्षित है । जुहोतिस्थान उत्तर की ओर है और यजतिस्थान दक्षिण की ओर है । यजतिस्थान में ईशानाभिमुख होकर अध्वर्यु को खड़े रहना चाहिये । अपनी गमनागमन क्रिया में कोई दोष न हो पाये, तदर्थं अग्नि की प्रार्थना की गई है । ' उप ' पूर्वक स्था ' धातु का अर्थ ' सेवा ' है । अतः यहाँ स्तुतिरूप ' सेवा ' ही कही गई है । यह जो देवयजन स्थान है, वही देवताओं के विजय में कारण है । इस भूमि के अतिरिक्त जो भूमि है, वह असुरों के अधीन है । वहाँ देवताओं की पराजय होने पर भी यह यज्ञप्रदेश, अर्थात् देवयजनभूमि ' अजेय ' है । इन्द्र ने यहीं से बल प्राप्त किया और शत्रुओं का वध किया । अत एव यज्ञ को उन्नतिकारक समझा जाने लगा ।