वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 221–230
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 221–230
पृष्ठ 221
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ४६ ] वेदार्थपारिजातभाष्यसहिता २११ हविष्मतस्तव राव्यानि यवादिनिर्मितानि विविधानि हव्यानि वेदेषु प्रसिद्धानि तस्य तव मरुतः प्राणरूपान् गुणान् गीः मदीया स्तुतिरूपा गीः वेदरूपा वा गीः सरस्वती वन्दते । तावतैव प्रसन्नः सन् संसारपराभवादस्मान् रक्ष जननमरणाविच्छेदलक्षणायाः संसृतेरुद्धृत्य स्वात्मनावस्थानं सम्पादयेति भावः । कश्चित्तु – ' हे राजन्! राष्ट्रियानस्मान् मा मारय प्रत्युत सम्यग् रक्ष । हे बलशालिन्! विनयिनः ससैनिकस्य तव पृथग् भागोऽस्ति । राज्ञा प्रजाभ्यो नियतो निजभागोऽन्नाद्यर्थं ग्राह्यः । तदर्थं प्रजोत्सादं न कुर्यात् । सुखप्रवर्षकाय राज्ञे अन्नं निर्मिता: पदार्था महान् सत्कारः । अन्नरस्त्रादिभिश्च सम्पन्नानां प्रजागणानामधिकारिगणानां च वाणीयं वन्दते तस्येन्द्रस्य कृतेऽवश्यं पृथग्भागः ' इति, तदयं महीधरादि-भाष्येभ्योऽयं गृहीत्वा स्वाभिप्रायानुसारेण विकृति नीतवान् । अथ चास्मिन्नर्थे इन्द्रशब्दस्य राजा, देवशब्दस्य सैनिकाः, पृत्स्वित्यस्य राष्ट्रम, अवया इत्यस्य राजभाग इत्यादयोऽर्थाः किमूलका इत्यपि चिन्त्यम् । शतपथे – ' मोषूण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः । महश्चिद्यस्य मीदुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥ ' ( श ० २५२ २८ ) । तामृचं पठति मोषूण इति । अवपूर्वाद् यजेः ' अवयाः श्वेतवाः पुरोडाश्च ' ( पा ० सू ० ८/२/६७ ) इति निपात्यत इति सायणः । -दयानन्दस्तु – ' हे इन्द्र! शूरवीर ईश्वर वा । कृपया स्त्वमत्र पृत्सु देवैविद्वद्भिः सहितान् नोऽस्मान् सुरक्ष मो हिन्धि । हे शुष्मिन् स्म ते महो गीतान् यस्य मीढुषो हविष्मतो मरुतो वन्दते चिदेते त्वां सततं वन्दन्ते, अभिवाद्यानन्दयन्तीव । योऽवया यजमानोऽस्ति स त्वदाज्ञया यानि यव्या यव्यानि हवींष्यग्नौ जुहोति तानि सर्वान् प्राणिनः सुखयन्ति ' इति, तन्न सङ्गतम्, मन्त्रे रक्षहिन्धिपदाभावात् । मह इति पदं गिरो विशेषणं महः पूर्वस्या गिरो वेदवाचकत्वे हेतुर्वक्तव्यः । ' एते त्वां सवतं वन्दन्ते ' इत्यपि निर्मूलम् । शतपथविरोधस्तु स्पष्ट एव । सिद्धान्ते तु श्रुत्युक्तस्यैव विमन्थीरित्यस्याध्याहारः । अध्याहारोऽपि यावता विनाऽर्थो नोपपद्यते तावत एव । यत्तु - ' हे इन्द्र अर्जुन! इन्द्रांशत्वात् शुष्मिन् महापराक्रम नः सुहृदो मैव ग्लासीः । अस्माकं राज्यं कपटद्यूतेनापहृतं दुर्योधनादिभिः । न केवलमेतावदेव इन्द्रप्रस्थान्निष्कासिता वयं वनं प्रेषिताश्च । द्वादशवर्षाणि वस्तव्यमरण्ये | त्रयोदशेऽज्ञातवासः स्थातव्यम् । ज्ञाते पुनर्दण्डावृत्तिः । कीदृशोऽस्माकमनागतसमयो बोभविता । दुस्तरे दुःखसागरे निमग्नान्न कश्चिदुद्धर्तुं करं गृह्णाति । वामो विधाता । नियतिरपि अतितरां दुःसहदुःख-दानदक्षा । न जाने कदा को विपत्पर्वतपातो नः शिरसि भवेत् इत्यनुतापं मा कार्षीः । हियस्मात् पृत्सु प्रवर्तिष्यमाणेषु संग्रामेषु देवैरिन्द्राग्न्यादिभिरनुगृह्यमाणस्य ते तव अवयाः, अवयजति पृथक्करोति इतरेभ्यो भिनत्ति कोऽपि विशेषः । अग्निना अक्षय्यमहेषुधिदिव्यरथगाण्डीवधनूंषि प्रदत्तानि । वनवासव्याजेन युधि प्रसादितात् त्रिशूलपाणैः पाशुपतास्त्रं तपसैव परितुष्टात् तातात् सस्नेहं समाहूतो भवान् पञ्चवर्षाणि तत्पाद-मूलमुपासीनः प्रहारप्रतिसंहारकृत्स्नविधिसंयुक्तदिव्यास्त्रपञ्चदशकैः अन्येभ्योऽपि वरुणयमकुबेरेभ्यो दण्ड- पाशा-न्तर्धान- प्रक्षेपणास्त्रं च लप्स्यते । इन्द्रेणैव गुरुदक्षिणां याचितोऽधि समुद्रं युधि व्यापादितनिवातकवचाद्यसुरगणः अध्यात्मपक्ष में -- संसार के संघर्षमय संग्राम में हमारा पराभव न हो । हमारे द्वारा स्तुति, पूजा आदि के द्वारा जो अर्चन किया जा रहा है, वह सब तुम्हारा ही हो रहा है । उससे प्रसन्न होकर जन्म - मरणरूपी संसार से हमारा उद्धार कर दो और अपने में हमें मिला लो । किसी अन्य व्याख्याकार ने महीधरादि के भाष्यों से ही अर्थग्रहण कर अपने अभिप्राय के अनुसार उसे विकृत कर दिया है । अतः वह उचित नहीं है ।
पृष्ठ 222
पाठ पढ़ें पाठ छिपाएँ
२१२ शुक्लयजुर्वेदसंहिता [ अ ० ३ स्वर्गं प्रत्यावर्त्य हिरण्यमयीं मालां देवदत्तं शङ्ख दुर्भेद्यकवचं हृष्टात् शक्रादवाप्स्यति । ततो लब्धविविधास्त्रं भवन्तं कोऽपि जेतुं न शक्ष्यते, का कथा कौरवाणां वराकाणाम् । तस्माद्वनवासोऽपि नाभिशाप:, किन्तु वर एव । निखिलसपत्नविजयक्षमदिव्यशक्तिसम्पादनहेतुः दुर्दैवोपनतदुर्बुद्धिना दुर्योधनेन भवद्भयो वनवासं प्रयच्छता नूनं विहितः स्वपादे कुठाराघातः । उषित्वा वने न चेदिव्यानि देवानुग्रहसमासादितान्यस्त्राणि लभेथास्त्वं तदा कथं कथापथातीतपराक्रमान् भीष्मद्रोणकर्णप्रमुखान् जेतुं क्षमेथाः । अतो देवानुग्रहलक्षणो विशेषस्त्वयि वर्तते । अतोऽनागत कालोऽतीव शोभनः । शत्रुभिरपहृतं राज्यमनायासेन प्रत्यायास्यति ' । किञ्च, मीढुषोऽभीष्टवर्षकस्य देवगणस्य यव्या यौति कुटुम्बिभ्यो वियुनक्तीति यवस्तपश्चर्या, तत्र भवा तत्साध्या महादेवेन्द्रादिसाक्षात्कृतिः, महश्चित् महती प्रसक्ता एव । तस्य देववर्गस्य हविष्मतो मरुतं महैश्वर्यंलक्षणं गीः वेदवाक् वन्दते ' इति, तदेतत् सर्वं रोचकं दयानन्दादिव्याख्यानादति सुन्दरमपि कल्पना बहुलमस्वाभाविकमेव ॥ ४६ ॥
अक्र॒न् कर्म॑ कर्म कृत॑ः स॒ह वा॒चा देवेभ्यः कर्म कृ॒त्वास्तं प्रेत॑
म॑यो॒भुवा॑ ।
सचाभुवः ॥ ४७ ॥
आग्नेय्यनुष्टुप् । ' अक्रन् कर्मेत्येनां वाचयति प्रतिनयन् ' ( का ० श्री ० ५।५।१२ ) । पत्नी ऋत्विजो ब्रवीति - हे सचाभुवः परस्परं यजमानेन तत्पत्न्या वा सचा सहावस्थिता ऋत्विजः कर्मकृतो वरुणप्रघासाख्य-कर्मकारिण ऋत्विजः, मयोभुवा मयः सुखं भवति यया सा मयोभुस्तया सुखोत्पादयित्र्या वाचा मन्त्रस्तुतिरूपया सह कर्मं वरुणप्रघासाख्यं अक्रन्: कृतवन्तः । देवेभ्यो देवाथं कर्म कृत्वा वरुणप्रधासाख्यं कर्मानुष्ठाय अस्तं गृहं प्रेत गच्छत । मय इति सुखनाम । सचेति सहार्थमव्ययम् । अस्तमिति गृहनाम ( निघ ० ३।४।५ ) । सचाभुवः पत्न्या यजमानेन च सह वर्तमानाः । अयमेव मन्त्रार्थं इति तित्तिरिराह - ' अक्रन् कर्म कर्मकृत इत्याह । देवानृणं निरवदाय अनृणा गृहानुपप्रेतेति । वा वैतदाह ' ( तै ० ब्रा ० १२६ । ५ । ५ ) देवानुद्दिश्य कर्तव्यो यज्ञ ऋणं तन्निरवदाय निःशेषेण परिहृत्येति सायणाचार्यः । अध्यात्मपक्षे — हे कर्मकृतः कर्माधिकारिणः! यूयं मयोभुवा सुखप्रसवित्र्या मन्त्रस्तुतिलक्षणया वाचा सह कर्म श्रौतस्मार्तलक्षणम् अक्रन् कृतवन्तः । सचाभुवः सहभवनशीलाः परस्परं यजमानेन पत्न्या च कर्मसु सहावस्थिताः । देवेभ्यः पूजायां बहुवचनम्, देवाय परमेश्वराय तत्समर्पणबुद्ध्या कर्मानुष्ठाय तत्प्रसादेन तद्धामलक्षणमस्तं गृहं प्रेत प्रगच्छत । वागादयो वा सम्बोध्यन्ते तेषामेव कर्मकर्तृत्वात् । वाचा मन्त्ररूपया मयोभुवा सुखयित्र्या देवेभ्यः कर्म अक्रन् कृतवन्तः । ते च शरीरे सचा सुहृद्भावेन वर्तमानाः कर्म कृत्वा अस्तं भगवद्धामलक्षणं प्रेत । यत्तु आत्मरूपं अस्तं यातेति तन्न, वागादीनां कैवल्यमोक्षेऽनन्वितत्वात् । ब्रह्मेन्द्रादयो भगवन्तं श्रीरामं श्रीकृष्णं वा वैकुण्ठं नेतुं प्रार्थयन्ते । बहुवचनमादरार्थम्, अवतारानेकत्वाभिप्रायेण वा । स्वामी दयानन्द ने जो व्याख्या की है, वह भी असंगत ही है । किसी अन्य व्याख्याकार ने पाण्डवपरक व्याख्या की है, वह यद्यपि रोचक है और दयानन्द की व्याख्या से कहीं सुन्दर है, तथापि कल्पना का बाहुल्य है, जो अस्वाभाविक - सा प्रतीत होता ॥ ४६ ॥
मन्त्रार्थ - वरुणप्रधास कर्म करनेवाले ऋत्विजों ने सुखकारक मन्त्रात्मक स्तुति के द्वारा उस कर्म को किया है । यजमान और यजमानपत्नी सहित हे ऋत्विजों! तुम लोग देवताओं के निमित्त वरुणप्रघास कर्म का अनुष्ठान करके अपने घर जाओ । ' अक्रन् कर्म ' इस मन्त्र को यजमान पत्नी से कहलावे ॥ ४७ ॥
पृष्ठ 223
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ४७ ] वेदार्थपारिजातभाष्यसहिता २१३ हे भगवन्तः! कर्म विश्वपालनलक्षणं कुर्वन्तीति कर्मकृतः यद्वा दुष्टनिग्रह - साधुपरित्राण धर्मसंस्थापनलक्षणं कर्म कुर्वन्तीति । देवेभ्यो देवानां हिताय अक्रन् कृतवन्तः । मयोभुवा सुखयित्र्या वाचा भक्ता आश्वासिता स्वभवनं इति शेषः । देवेभ्यो द्योतनात्मकेभ्यो भक्तेभ्यो हिताय श्रवणाय वर्णनाय च दिव्यं कर्म कृत्वा अस्तं सचाभुवा पार्षदैः भक्तैः प्रजाभिश्च सह वर्तन्व इति सचाभुवा भवन्तः स्वभक्तैः सार्धं वैकुण्ठं साकेतं गोलोकं वा प्रेत प्रगच्छत । साधारणस्य त्वेकस्यैव गतिर्भवति । दयानन्दस्तु --- ' ये मयोभुवा वाचा सह सचाभुवः कर्मकृतः कर्माक्रंस्त एतत्कर्म कृत्वा देवेभ्योऽस्तं सुखमयं गृहं प्रेत प्राप्नुवन्ति । पदार्थव्याख्याने कर्म ' कर्तुरीप्सिततमं कर्म ' ( पा ० सू ० १ १ ४ ४ ९ ) कर्तुर्यदीप्सिततममभीष्ट-योग्यं चेष्टामयमुत्क्षेपणादिकर्म वाचा वेदवाण्या स्वकीयया वा ' इत्याह, तदेतत्सर्वं प्रकरणविरुद्धम् । वरुणप्रघास-सम्बन्धी मन्त्रोऽयम् । तस्मान्नोत्क्षेपणादिलक्षणं कर्म, किन्तु कर्मसामान्यमत्र गृहीतम् । वाक् चात्र प्रकृतिविहितमन्त्र-लक्षणा स्तुतिरेव । शतपथविरुद्धं चैतत् । तथाहि - ' अथैनां वाचयति । अक्रन् कर्म कर्मकृत इत्यक्रन् सचाभुव हि कर्म इत्यन्यतो कर्मकृतः सह वाचा मयोभुवेति सह हि वाचाऽक्रन् देवेभ्यः कर्म कृत्वेति देवेभ्यो हि कर्म कृत्वाऽस्तं यत्पत्नी प्रेत तामेतत्प्राचीं यज्ञं होढया सह भवन्ति तस्मादाह सचाभुव इत्यस्तं प्रेतेति जघनार्धो वा एष यज्ञस्य २ २ ९ ) । पत्न्या प्रासीषदद् गृहा वा अस्तं गृहाः प्रतिष्ठा तद्गृहेष्वेवैनामेतत्प्रतिष्ठायां प्रतिष्ठापयति ' ( ० २५ वाचनं विधत्ते - अथैनामिति । वाचनीयं मन्त्रं पदशोऽनूद्य व्याचष्टे - कर्म कुर्वन्तीति कर्मकृतः । ये यजमानस्या-मात्यरूपा ऋत्विजस्ते हीदानीं करम्भपात्रहोमरूपं कर्म अक्रन् अकार्षुः । द्वितीयपादस्यार्थः प्रसिद्ध इत्याह-सह हि मयोभुवो मयसः सुखस्य भावयित्र्या मन्त्ररूपया वाचा सह एतत् कर्म अक्रन् । परस्परसहयोगेन यज्ञकर्मकर्तार ऋत्विजो यूयं वरुणप्रघासाख्यं करम्भपात्रहोमाख्यं कर्म देवाथं कृत्वा अस्तं यजमानस्य गृहान् सचाभुवो यजमानपत्न्या सह वर्तमानाः प्रेत आगच्छत । सचाभुव इत्येतद् व्याचष्टे - इत्यन्यत इति । अन्यस्माद् देशात् पत्न्यासनलक्षणाद् ऊढया आहवनीयसमीपं प्रापितया पत्न्या सह खल्विदानीं वर्तन्ते तस्मात् सचाभुव इत्येतद् यथार्थम् । जघनार्धो वा एतद्यज्ञस्य यत् पत्नी । एतत् एतहि प्राचीं प्राग्गच्छन्तीं पूर्वभागसम्बन्धिनीं यज्ञं प्रासीषदत् प्रापीपत् प्रतिप्रस्थाता । गृहा वा अस्तमिति । सर्वाणि वस्तुन्यत्र क्षिप्यन्त इति अस्तम् । गृहा प्रतिष्ठा । एषु प्रतितिष्ठति । तस्मात्तत्र ये प्रतितिष्ठन्ति तत्प्रतिष्ठायामेव प्रतितिष्ठन्ति । अन्यस्तु - ' कर्मकृतो वाचा परस्परसुखशान्तिप्रदानं कुर्वन्तः कर्म कुर्युः । हे कर्मचारिपुरुषाः! सुप्रसन्ना विदुषां राज्ञां धनदातॄणां पूज्यपुरुषाणां वा कृते कार्याणि सेवां वा कृत्वा परस्पर साहाय्येन समर्थाः भाष्यसार --- ' मय ' शब्द ' सुख ' की संज्ञा है । ' सच ' सहार्थक अव्यय है । ' अस्तम् ' शब्द ' गृह ' वाचक है । देवों के उद्देश्य से किया गया यज्ञ ' देवऋण ' का अपाकरण करता है । अध्यात्मपक्ष में- कर्म के अनुष्ठाताओं से कहा जा रहा है कि भगवत्समर्पण बुद्धि से कर्म का अनुष्ठान किया गया करना है चाहिये, जिससे भगवत्प्रसाद प्राप्त कर तुम वैकुण्ठादि धाम को जा सको । वाणी को रहे भी सम्बोधित हैं । इत्यादि अनेक अर्थ तथा ब्रह्मादि देवता भगवान् श्रीराम अथवा श्रीकृष्ण से वैकुण्ठ ले चलने की प्रार्थना कर भाष्यकार ने किये हैं । स्वामी दयानन्द ने प्रकरण के विरुद्ध ही व्याख्या की है ।
पृष्ठ 224
पाठ पढ़ें पाठ छिपाएँ
२१४ शुक्लयजुर्वेदसंहिता [ अ ० ३ गृहानागच्छत ' इति, तदप्यविचारितरमणीयम् ' मयोभुवा वाचा ' इत्यंशस्य सुखयित्र्या वाचेत्यर्थः । परन्तु परस्परं सुखशान्तिप्रदानं कुर्वन्तः कर्म कुर्वन्त्विति कस्य पदस्यार्थः? सचेति सहार्थकम् । सचाभुव इत्यस्य सहभाविन इत्यर्थस्य सत्त्वेऽपि सामर्थ्यवान् भूत्वा प्रसन्ना गच्छत इत्ययमप्यर्थी निर्मूल एव ॥ ४७ ॥
अवभृथ निचुम्पुण निचे॒रुर॑सि निचुम्पुणः । अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ज्यासिष॒मव॒ मत्यै॒र्मत्य॑कृ॒तं पुरु राव्णो देव रि॒षस्पोहि ॥ ४८ ॥
यज्ञदैवतं यजुः । ‘ मज्जयत्यवभृथेति ' ( का ० श्री ० ५।५।२ ९ ) । वरुणप्रघास कर्मान्ते तदङ्गभूतमवभृथाख्यं कर्म जलसमीपे क्रियते । तत्रानेन मन्त्रेण दम्पतीभ्यां स्नानं कार्यम् 1 । अवाचीनानि पात्राणि म्रियन्ते जलमध्ये क्रियन्ते यस्मिन् यज्ञविशेषे सोऽवभृथ इति सायणः । हे अवभृथ यज्ञ! त्वं निचुम्पुण नितरां मन्दं गच्छ । ' चुप मन्दायां गती ' उण्प्रत्ययो मुमागमश्च । निचेरुरसि नितरां चरतीत्येवं शीलोऽत्यन्तशीघ्रगमनशीलोऽसि तथाप्यत्र निचुम्पुणो नितरां मन्दगमनशीलो भव । यद्वा - हे निचुम्पुण इति सम्बोधनम् नितरां मन्दं चोपति गच्छतीति निचुम्पुणस्तत्सम्बुद्धौ । यद्वा नीचैरुपांशु कृणन्ति चलन्ति ऋत्विजोऽस्मिन्निति निचुम्पुणः, ' उपांशु अवभृथेष्ट्या चरन्ति ' इति श्रुतेः । ' वीण - स्थूणव्रण - भूण ' इत्यादिना नीचैरित्युपपदात् कृणतेः णकप्रत्ययान्तो निपातः । धातो: पुंभाव उपपदस्य निचुम्भावश्च निपातितः । अवभृथोऽपि निचुम्पुण उच्यते । नीचैरस्मिन् कृणन्ति नीचैर्दधतीति वा । ' अवभृथ निचुम्पुण इत्यपि निगमो भवति ' ( नि ० ५।१८ ) । हे अवभृथदेवते वरुण! नीचकृणनो भूत्वा गृहे गृहे यज्ञेऽवतिष्ठसे । मन्दगमनस्य किं प्रयोजनमिति चेदुच्यते देवविषयावद्योतनस्वभावैरिन्द्रियैर्देवकृतं देवेषु हविःस्वामिषु कृतमेनः पापं तदवयासिषम् अस्मिन् जलेऽहमवनीतवानस्मि । तथा अमात्यैरस्मत्सहाय भूतैर्ऋत्विग्भिर्मर्त्यकृतं मर्त्येषु यज्ञदर्शनार्थमागतेषु कृतमवज्ञारूपं यदेनोऽस्ति तदप्यहमवासिषमित्यनुवर्तते । इदमस्माभिः परित्यक्तमेनो यथा त्वां न प्राप्नोति तथा हे अवभृथ! किसी अन्य व्यक्ति ने कर्मचारी पुरुषपरक व्याख्या की है, वह भी अविचारितरमणीय है । मन्त्रगत शब्दों के स्वकल्पित नवीन अर्थ कर दिये हैं, जो निर्मूल हैं । अतः ऐसी व्याख्या को उपेक्षणीय ही समझना चाहिये || ४७ ॥ मन्त्रार्थ - हे अवभृथ यज्ञ! ( इस यज्ञ में वरुणप्रघास कर्म के अन्त में यज्ञपात्रों को ओंधा करके जल में डुबाया जाता है, इसलिये इसे अवभृथ कहते हैं । यह अवभृथ संज्ञक कर्म, वरुणप्रघास कर्म का अंगभूत है । इस यज्ञ के कर्म मन्द स्वर से ऋत्विजों के द्वारा किये जाते हैं, इसलिये इसे ' निचुम्पुण ' कहते हैं । ' चुप् मन्दायां गतो ' धातु है । नितरां चोपति मन्दं गच्छति निचुम्पुणः । ) यद्यपि तुम अत्यधिक वेगयुक्त गमन करते हो, तथापि अपनी गति को मन्द कर लेना, अर्थात् मन्दगतिवाले हो जाओ, क्योंकि हविर्भागों के स्वामी जो देवता हैं, उनके विषय में हमारी इन्द्रियों के द्वारा किये गये पापों को हम जल में डुबा रहे हैं । उसी तरह हमारी सहायता करनेवाले ऋत्विजों के द्वारा यज्ञवर्शनार्थ आये हुए लोगों का अपमान कर जो पाप किया है, उसे भी मैं जल में और डुबा रहा हूँ । हमारे द्वारा त्यागा हुआ यह पाप तुम्हें व्याप्त न कर पाये, तदर्थ तुम मन्दगतिशील हो जाओ न लगे । हे अवभृथ यज्ञ! तुम्हारे प्रसाद से हमारा विरुद्ध फलदायी वध न हो, अर्थात् हमें विरुद्ध फल देनेवाला पाप अवथ कर्म में ' अवथ ० ' इस मन्त्र से यजमान अपनी पत्नी सहित जल में स्नान करे ॥ ४८ ॥
भाष्यसार - हे अवभृथाख्य यज्ञ! संसारबन्धन से हमारी रक्षा करो ।
पृष्ठ 225
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ४८ ] वेदार्थपारिजात भाष्यसहिता २१५ मन्दं गच्छ । हे देव अवभृथाख्य यज्ञ! रिषो वधात् पाहि । रिषतेहिसार्थस्य विवबन्तस्य पञ्चम्यन्तम् । कथम्भूताद् रिषः? पुरुराव्णः पुरु बहु विरुद्धं फलं राति ददातीति पुरुरावा, तस्मात् पुरुराव्णः | ' रा दाने ' । वधात् पाहि पालय । त्वप्रसादाद्विरुद्धफलदायिपापकर्मरूपो वधोऽस्माकं मा भूदित्यर्थः । यद्वा रुवन्ति शब्दं कुर्वन्ति प्राणिनो यस्मिन् संसार्यमाणाः स पुरुरावा संसारः, तस्मात् संसारबन्धनरूपाद् वधाद् बन्धनाद्वा अस्मान् पाहि रक्ष । अध्यात्मपक्षे - हे निचुम्पुण समुद्र! ' समुद्रोऽपि निचुम्पुण उच्यते निचमनेन पूर्यते ' ( नि ० ५।१८ ) । निचमनेन उदकेन लक्षणया । परमानन्दसमुद्र परमेश्वर! अवभृथ अनेकशताश्वमेधावभृथादपि प्रणतानां पावन! ' एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ ' ( म ० भा ० शा ० ४७।९ १ ) इति श्रीमन्महाभारतवचनात् । अवाचीनान् पतितान् बिभर्ति धारयति पोषयति चेत्यवभृथः पतितपावनः, तत्सम्बुद्धी । त्वं बाललीलायां निचेरुनितरां चरणस्वभावश्चपलोऽपि निचुम्पुणो योगेश्वररूपेण नितरां मन्दगतिः निश्चलोऽसि यदा पश्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ॥ ' ( कठो ० २ | ३ | १० ) इति श्रुतेः । यद्वा सोपाधिकरूपेण निचेरुरसि, निरुपाधिकरूपेणाचलोऽसि, ' तदेजति तन्नजति ' ( वा ० सं ० ४०।५ ) इति श्रुतेः । देवैर्ज्ञानेन्द्रियैः सह देवकृतमेनः पापम् अवायासिषं त्वदीयज्ञानामृतावगाहनेन कथामृताब्धिपरिवर्तेन मत्यैर्देवैः सह मर्त्यकृतं देहकृतमेनः पापमवायासिषम् । हे देव स्वप्रकाश जगदुद्धरणक्रीडापरायण! पुरुराव्णो रिष आत्महननलक्षणात् पातकाद् ब्रह्मात्मनिष्ठासम्पादनेन पाहि । अपरस्तु – ' हे अवभृथ! नीचैरुच्चैश्च भरणपोषणकारिन हे मन्दगते! नीचैः स्वरेण सभ्यतापूर्वकवदनशील ज्ञानिपुरुष ' इत्यादि । दयानन्दस्तु – ' अवभृथ विद्याधर्मानुष्ठानेन शुद्ध निचुम्पुण धैर्येण शब्दविद्याध्यापक ' इत्यादि । एतदुभयमपि व्याख्यानं कात्यायनसूत्र श्रुत्यादिविरुद्धमेव, तत्रास्य मन्त्रस्य अवभृथस्नाने विनियुक्तत्वात् । तथाहि-- ' वरुणप्रघासँर्वै प्रजापतिः प्रजा वरुणपाशात् प्रामुञ्चत्ता अस्यानमीवा अकिल्बिषाः प्रजाः प्राजायन्तार्थतैः साकमेधैरेतैर्वै देवा वृत्रमघ्नन्तेतैर्वेव व्यजयन्त । येयमेषां विजितिस्तां तथो एवैष एतैः पाप्मानं द्विषन्तं भ्रातृव्य हन्ति । तथो एव विजयते । तस्माद्वा एष एतैश्चतुर्थे मासि यजते स वै द्वयहमनूचो नाहं यजते ' ( श ० २ | ५ | ३ | १ ) । प्रजापतिर्वरुणप्रघासः प्रजा वरुणपाशादमुञ्चत् ताश्चानमीवा अकिल्विषाच प्राजायन्त । एतैर्विधित्सितः साकमेधः प्रजापतिः प्रजा विजितपापा अकरोत् । देवाः साकमेधंर्वृत्रमघ्नन् । एतैरेव व्यजयन् । एषां देवानां येयं वृत्रहननकर्मणा विजितिः प्रसिद्धा, तां विजितिमेतं रेवाप्नुवन् । एष यजमान एतैरेव पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति तथो एव विजयते । तस्मादेतैश्चतुर्थे मासि यजते । अनीकवत्यादीनां साकमेधगताना मिष्टीनां बाहुल्यादेतैरिति बहुवचनम् । द्वयोरह्वोः समाहारो द्वयहम् | अनु सम्यगचतीति अन्वक् । अन्वगेवानूचीनम् । अनूचीने नैरन्तर्येण वर्तमानमहोऽनूचीनाहं यजते दिनद्वयं यावन्नैरन्तर्येण साकमेधैर्यजते ॥ ४८ ॥
अध्यात्मपक्ष में- हे परमानन्दसमुद्र परमेश्वर! हमें आत्महनन पातक से बचाकर ब्रह्मात्मनिष्ठा का सम्पादन कराकर हमारी रक्षा करो । स्वामी दयानन्द तथा अन्य किसी और का भी व्याख्यान दोनों ही सूत्र और शतपथ के विरुद्ध हैं, अतः त्याज्य हैं ॥ ४८ ॥
पृष्ठ 226
पाठ पढ़ें पाठ छिपाएँ
२१६ शुक्लयजुर्वेदसंहिता [ अ ० ३ प॒र्णा द॑व॒ परा॑ पत॒ सुप॑र्णा पुन॒राप॑त । वस्नेव॒ विक्रणावहा इषमूर्जं शतक्रतो ॥ ४ ९ ॥ द्वे ऐन्द्रयावनुष्टुभौ । ' स्थाल्या दर्व्यादत्ते पूर्णा दवति ' ( का ० श्री ० ५।६।३० ) । चातुर्मास्यस्य पर्वविशेषे साकमेधे किञ्चित् कर्मोच्यते । तत्र प्रथमयाऽनुष्टुभाज्यस्थालीत ओदनग्रहणं करोति, द्वितीयया तं जुहोति । यजमानोऽध्वर्युर्वा वदति - हे दवि! अन्नप्रदानसाधनभूते काष्ठनिमितपात्रविशेषरूपे! त्वं पूर्णा स्थाल्याः सकाशादन्नं गृहीत्वा पूर्णत्वादेव परा उत्कृष्टा सती पत इन्द्रं प्रति गच्छ । सुपूर्णा कर्मफलेन सुष्ठु पूर्णा सती पुनरापत भूयोऽस्मान् प्रत्यागच्छ । एवं दवमुक्त्वा इन्द्रमाह - हे शतक्रतो! शतमनन्ताः क्रतवो यदुद्देश्येन प्रवर्तन्ते, अर्थाद् बहुकर्मन् इन्द्र! त्वं चाहं चोभो वस्नेव मूल्येनेव तृतीयायाः पूर्वसवर्णः । वस्नशब्दो मूल्यवचनः ॥ इषमभीष्टवीरूपमन्नमूर्जं हविर्दानफलरूपं रसविशेषं परस्परद्रव्यविनिमयरूपं विक्रीणावहै विक्रयं करवावहै तुभ्यमहं हविर्ददामि त्वं मह्यं फलं देहि । अध्यात्मपक्षे - हे बुद्धिरूपे! दृश्यरूपेण पूर्णानुरागरूपेण वा हविषा पूर्णा सती स्वप्रकाशपरमात्मरूपं परमात्मानं परापत प्रतिगच्छ ततो ब्रह्मात्मभावेन तत्कृपाप्रसादरूपेण वा सुष्ठु पूर्णा सती पुनरापत । हे शतक्रतो सृष्ट्यादिशतलोकोत्तरालौकिककर्मकृत्! वस्तेव मूल्येनेव आवामिषमूर्जं च विक्रीणाव है | यथा कश्चिद्वणिग् वस्तुविनिमयेन पण्यं ददात्येवमावां विक्रीणाव है | अहं तुभ्यं दृश्यमयं विश्वं हविः समर्पयामि, त्वं च मह्यं स्वस्वरूपानन्दमनुग्रहप्रसादं वा प्रयच्छ । ----दयानन्दस्तु – ' या दर्वी परापत ऊध्वं द्रव्यं गमयति याहुतिराकाशं गत्वा वृष्ट्या पूर्णा भूत्वा पुनरापवति, हे शतक्रतो! तव कृपया आवामृत्विग्यज्ञपती वस्नेवेषमूजं च विक्रीणाव है व्यवहारयोग्यानि वस्तूनि दधाव गृह्णीयाव ' इति, तदपि न संगतम्, संबोध्येनैव विक्रीणनस्य न्यायप्राप्तत्वात् तव कृपयेत्यध्याहारस्य निर्मूलत्वात्, किं देयं किं ग्राह्यमित्यस्यानुक्तत्वाच्च । शतपथे तु – ' अथाहाग्नये स्विष्टकृतेऽनुब्रूहि " ( श ० २५ ३ १५ ) इत्यादिना स्विष्टकृद्यागेडो पह्वान-समनन्तरं यत्प्राशनं तत्र गृह्याणां पुत्रपौत्रादीनामृत्विजामन्येषां च ब्राह्मणानां समावेश उक्तः । तत्र कुम्भोनिधानम् -' अथैतामनिरशितां कुम्भीमपिधाय निदधाति पूर्णदर्वाय मातृभिर्वत्सान् समवार्जन्ति ' ( श ० २।५।३।१६ ) । निःशेषेणाशिता निरशिता तद्विपरीतमनिरशिता तां शेषसहितां पात्रान्तरेणापिधाय पूर्णदर्वाय पूर्णा दव यस्मिन् कर्मणि तत्पूर्णंदवं तस्मै कर्मणे तदथं स्थापयेत् । अस्यां रात्रौ वत्सानां मातृभिः सहवासं विधत्ते - मातृभिरिति । तेन वत्ससंगमेन पशवोऽपि मेधमात्मीयं सारं दधते । अग्निहोत्रार्थमपि तस्यां रात्रौ पयो न दोग्धव्यमिति द्रव्यान्तरं विधत्ते -- तत्रैव यवाग्वैतां रात्रिमग्निहोत्रं जुहोति । एवं समेषां वत्सानां मातृसमावर्जनप्राप्ती ' अर्ज गतिस्थानार्जनेषु ' पितृयज्ञार्थं दोह्याया निवान्याया गोवत्सस्य बन्धनं कर्तव्यमित्य भिप्रेत्याह- ' निवान्यां मन्त्रार्थ -- अन्नदान की साधनभूत हे काष्ठनिर्मित बवि! तुम स्थाली में से अन्न को लेकर पूर्ण हो जाओ । पूर्ण हुई तुमको उठाने पर तुम इन्द्र के समीप जाओ । वहाँ क फल से पूर्ण होकर पुन: तुम हमारे समीप आओ । हे इन्द्र! तुम और मैं दोनों परस्पर मूल्य देकर एक - दूसरे से हविरूप अन्न और उस हविर्दान के फलरूप रस का क्रय करेंगे, यानी हे इन्द्र! मैं तुम्हें हविर्दान करता हूँ और तू मुझे फल दे । इस प्रकार हम दोनों परस्पर लेन - देन करें । ' पूर्णा वि ' इस मन्त्र से दर्वी ( करछी ) के द्वारा स्थाली में से ओवन का ग्रहण करे । यह कर्म ' साकमेध ' संज्ञक तृतीय पर्व का है ॥ ४ ९ ॥
पृष्ठ 227
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ४ ९ ] वेदार्थपारिजातभाष्यसहिता २१७ प्रातर्दहन्ति पितृयज्ञाय ' ( श ० २२५ | ३ | १६ ) | स्वयं नष्टवत्सा अन्यदीयेन वत्सेन या गौर्दह्यते सा निवान्या । तां प्रातः पितृयज्ञार्थं यतो दुहन्ति तस्मात्तद्वत्सस्य बन्धनं कर्तव्यम् । ' मातृभिर्वत्सान् संसृज्य निवान्यावत्सं बध्नाति ' ( का ० श्र ० ५।६।२८ ) । ' अथ प्रातर्हुते वाऽहुते वा । यतरथा कामयेत सोऽस्या अनिरशितायं कुम्भ्यं दव्यपहन्ति पूर्णादवि परापत " शतक्रतविति यथः पुरोऽनुवाक्यैवमेवैतयंवैनमेतस्मै भागाय ह्वयति ' ( श ० २।५।३।१७ ) । पूर्णदर्व्याख्यस्य कर्मणः कालं विधत्ते - अथेति । प्रातः अग्निहोत्रे हुते वा अहुते वा अनयोः पक्षयोः यतरथा येन प्रकारेण कामयेत तथैवानुष्ठेयम् । होमाय समन्त्र कहविर्ग्रहणं विधत्ते -- सोऽस्या इति । षष्ठ्यर्थे चतुर्थी । सोखाया गृहमेधीय कुम्भ्याः सकाशात् पूर्णा दर्वि इति मन्त्रेण दर्व्या आघातेन उपहनिगृह्णीयात् । मन्त्रार्थस्तुक्त एव । एतन्मन्त्रोच्चारणं प्रशंसति - एनमिति । एनमिन्द्रम्, एतस्मै पूर्णदव्यख्याय भागाय पुरोवाक्यास्थानीयया एष पुरावक्तव्यया एतया आह्वयति । श्रुतौ एनमित्यनेन शतक्रतुरेवोक्तः । वस्तुतस्तु याज्ञिकसमयानभिज्ञतया यत्किञ्चित् प्रलपति । यत्तु - दर्वि भोजन परिवेषणसाधिके! पूर्णा स्थालीं प्रवेश्य भृता भोक्तृभ्यः परापत प्रत्यावर्तस्व । पुनर्वारं वारं वीप्सार्थगभितः पुनः शब्दः । सुपूर्णा अतिशयेन शोभनान्नादिना भृता आपत आगच्छ । धौम्योपदिष्टयुधिष्ठिरा- । नुष्ठितसूर्याराधनेन सूर्याल्लब्धा अक्षय्यभोजनस्थाली यावद् द्रौपदी न भुङ्क्ते कृत्स्नस्यापि विश्वस्य परितर्पणक्षमा तस्यां दव्य सहस्रशोऽप्योदनाद्यादाने सा न क्षीयते स्म । स्थाली वस्ना वस्नेन मूल्येनेव विक्रीडाव है विक्रम वयं सपत्नीकाः पाण्डुतनयाः । शतक्रतो हे इन्द्र! इषमन्नमूर्जं बलं दध्यादिरसं विशेषेण सम्पादयामः । विपूर्वकः क्रीडतिः सम्पादनकर्मा । यथा मूल्येन किञ्चिदात्मसात्क्रियते तथा भास्कराराधनेन हीयमक्षय्यस्थाली लब्धेति भावः ' इति, तदसङ्गतमेव, अक्षरार्थाननुगमात् । ' परापत ' ' आपत ' शब्दयोर्गमनप्रत्यागमनरूपावर्थाव पहाय परापतेत्यस्य प्रत्यावर्तस्वेति, आपतेत्यस्य आगच्छेत्यर्थंकरणस्यासङ्गतेः, उभयोरैकार्थ्यापत्तेः । एवं विक्रीणाव है इत्यस्यापि विक्रीडामहै इति वचनव्यत्ययः प्रकृतिव्यत्ययश्च निष्प्रमाणक एव । सम्बोध्यसम्बोधपेक्षया ' विक्रीडाव है ' इति द्विवचनमेव स्वाभाविकम् । तयोश्चादानप्रत्यादानाभ्यामेव वस्तुविनिमयरूपं विक्रीडनं सङ्गच्छते, विपूर्वस्य क्रीडतेः सम्पादनार्थतायां प्रमाणानुपलब्धेश्च । किचोभयोः साकाङ्क्षत्वेन वस्तुविनिमयरूपो व्यापारो भवति । उभाभ्यां च स्वस्वलाभोऽभिप्रेयते । हविर्भुजो देवा यष्टारश्च कथञ्चित्तत्र युज्यन्ते । सूर्य विष्ण्वादयस्त्वीश्वरा आप्तकामाः पूर्णकामाः स्वल्पेनाप्याराधनेन दयापरवशा उपासकहितकामनया बहु प्रयच्छन्तीति न ते तत्रोपमानमर्हन्ति ॥ ४ ९ ॥ भाष्यसार - भाष्य का अर्थ स्पष्ट है । अध्यात्मपक्ष में- - मन्त्र को बुद्धिपरक लगाकर बुद्धि को सम्बोधित किया गया है कि तुम अनुराग से पूर्ण होकर उस स्वप्रकाश परमात्मा के पास जाओ और ब्रह्मात्मभाव से पूर्ण होकर वापस आओ । इस प्रकार अन्न और रस का हम लेन - देन करें । स्वामी दयानन्द की व्याख्या में कोई संगति ही नहीं है, याज्ञिक परम्परा तथा उनके सिद्धान्तों का ज्ञान न रहने से इस प्रकार असंगत व्याख्या होना स्वाभाविक ही है । किसी अन्य व्यक्ति ने इस मन्त्र को पाण्डवों की कथापरक बताया है, किन्तु वह भी असंगत ही है, क्योंकि इसमें मन्त्राक्षरों का अनुगमन नहीं है ॥ ४ ९ ॥ २८
पृष्ठ 228
पाठ पढ़ें पाठ छिपाएँ
२१८ शुक्लयजुर्वेदसंहिता वे॒ह मे ददा॑मि ते नि मे धेहि नि ते बधे -निहारं च हरोसि मे निहारं निहंराणि ते॒ स्वाहा॑ ॥ ५० ॥
| अ ० ३ ' देहि म इति जुहोति ' ( का ० श्री ० ५ | ६ | ३४ ) । इन्द्रो वक्ति हे यजमान त्वं मह्यमिन्द्राय देहि हविः प्रयच्छ । ते तुभ्यं ददामि अपेक्षितं फलं पश्चात् प्रयच्छामि । पुनरपि द्वितीयपादेनादरातिशयार्थमुच्यते - मे निधेहि, प्रथमं त्वं हविर्नितरां सम्पादय । अपेक्षितं फलं ते तुभ्यं यजमानाय निदधे पश्चान्नितरां सम्पादयामि । एवमिन्द्रवाक्यं श्रुत्वा यजमान आह- नितरां ह्रियते निहारो मूल्येन क्रेतव्यपदार्थोऽर्थात् क्रेतव्यवस्तुस्वरूपं फलं मे मह्यं यजमानाय हरासि प्रयच्छ । हरते: ' लेटोऽडाटा ' ( पा ० सू ० ३ | ४ | ९ ४ ) इत्याडागमे हरासीति रूपम् । उत्तरो निहारशब्दो मूल्यवाची तत्रापि नितरां ह्रियत इत्येव व्युत्पत्तिः । निहारं मूल्यभूतं हविस्तुभ्यमिन्द्राय निहीराणि नितरां प्रयच्छामि | स्वाहेति हविर्दानात्मकः । पूर्वार्धे पादद्वयेनेन्द्रेणोक्तमर्थमुत्तरार्धेन यजमानः सम्यगङ्गीकरोति । हे इन्द्र! वस्ना मूल्येनेव आवामिषमिष्यमाणमन्नमूजं बलकरं रसं च विक्रीणाव है । त्वया दत्तं फलं स्वीकृत्य हविर्दास्यामि त्वयि मया दत्तं हविर्गृहीत्वा मह्यं फलं दास्यसि त्वम् । एवं व्यतिहारेण कर्म क्रीणावहा इति । यत्तु कश्चित् - ' निहारं देयमभीष्टफलं निहृत्य अवचित्यावचित्य । निपूर्वका हरतेर्णमुलन्तस्येदं रूपम् । नितरां ह्रियत इति निहारो घञन्तः क्रेतव्यपदार्थंपर्याय इतीवाभिमानो महीधरः स्वरदोषादमान्यः इन्द्राय निहारं निहृत्य चित्वा चित्वा यन्मत्समीपे सर्वोत्तमं देयं द्रव्यं तद् निहराणि निःशेषेण नितरां समर्पयामि ' इति, तदसङ्गतमेव, वैदिके कर्मणि देयद्रव्यस्य तदीयमात्रायाश्च नियतत्वात् । नहि यजमानगृहे यद्यदुत्तमं देयद्रव्यमस्ति तन्निःशेषेण दीयते, प्रवृत्तिनिवृत्त्यादेर्वेदवचनायत्तत्वात् । अत एव नातिथ्यादिपूजनवद् वैदिककर्मणा देवतापूजनम् । अतिथिर्यद् भोजनादिकं कामयते यावच्च कामयते तद्दातव्यं भवति । इह तु यद् यावच्च दातव्यत्वेन विहितं तत्तावच्च दीयते । विहितत्वादेव स्वरो: काष्ठविशेषस्यापि होमो भवति । एवं फलमपि नियतमेव । नह्यवचित्यावचित्य यद्यद्यजमानाभीष्टं भवति तत्तद्दीयते । तथात्वे एकेनैव कर्मणा सर्वाभीष्टसिद्धौ फल-भेदेन कर्मभेदानुपपत्तेः । अत एव न केवलो महीधरः, किन्तु सायणाचार्योऽपि काण्वसंहितायां तथैव व्याख्याति । स्वरदोषस्तु व्यत्ययेनाप्यपाकर्तुं शक्यः । दयानन्दस्तु – ' त्वं यथा स्वाहा सत्या वागाहेत्येवं मे मह्यमिदं देहि, अहं च ते तुभ्यमिदं ददामि त्वं मे ममेदं वस्तु निधेहि, अहं च ते तवेदं निदधे । त्वं मे मह्यं निहारं हरासि, अहं ते तुभ्यं निहारं निहराणि । सर्वैर्मनुष्यैर्दानग्रहणनिःक्षेपोपनिध्यादिव्यवहाराः सत्यत्वेनैव कार्याः......... इत्यादि, तदसत् । ' देहि मे ददामि ते ' इति दानप्रतिबोधेऽपि सर्वव्यवहाराणां सत्यत्वेन कर्तव्यतानवबोधात् स्वाहाशब्दस्य नियतार्थातिरिक्त-सत्यवागर्थत्वासिद्धेः । ' अथर्षभमाह्वयितवै ब्रूयात् । स यदि रुयात् स वषट्कार इत्यु हैक आहुस्तस्मिन् वषट्कारे जुहुयादित्यथो इन्द्रमेवैतत् स्वेन रूपेण ह्वयति वृत्रस्य वधायैतद्वा इन्द्रस्य रूपं यदृषभस्तत्स्वेनैवैनमेतद्रूपेण ह्वयति वृत्रस्य मन्त्रार्थ - हे यजमान! तू मेरे लिये प्रथमतः हषि दे, मैं इन्द्र तुम्हें अपेक्षित पुष्कल फल दूँगा । इन्द्र के इस वचन को सुनकर यजमान कहता है कि हे इन्द्र! मूल्य देकर क्रय करने योग्य फल तू मुझे दे और मूल्यभूत हविद्रव्य मैं तुमको देता हूँ । यह हवि सुहुत बनी रहे । ' देहि मे ' इस मन्त्र से उस ओवन का होम करे ॥ ५० ॥
भाष्यसार - भाष्यार्थ सरल है ।
पृष्ठ 229
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ५० ] वेदार्थपारिजातभाष्यसहिता २१ ९ यदि यादा म इन्द्रो यज्ञमगन्त्सेन्द्रो मे यज्ञ इति ह विद्याद्यद्यु न रुयाद् ब्राह्मण एव दक्षिणत आसीनो ब्रूयाज्जुहुधीति सैवैन्द्री वाक् ' ( श ० २२५ | ३ | १८ ) । ऋषभध्वनी होतव्यमिति विधित्सुराह - अथेति । आह्वयित ह्वातुं यदि आहूत ऋषभो रुयात् स वषट्कारः तस्मिन् वषट्कारे जुहुयादित्येक आहुः । तथा चोक्तं तैत्तिरीयके - ' ऋषभमाह्वयति । वषट्कार एवास्य स ' इति ( तै ० ब्रा ० १/६ | ७ | ४ ) । तस्मिन् वषट्कारे जुहुयादित्येकं मतम् | पक्षान्तरमाह - अथो इति । योऽयमृषभस्य ध्वनिर्नासो वषट्कारः किन्तु इन्द्रस्य स्वभूतेन ऋषभाख्येन स्वरूपेण तमेव इन्द्रम् एतेन शब्देन ह्वयति । किमर्थम्? वृत्रस्य वधाय वृत्रमसुरं हन्तुम् । एतदेव विवृणोति - एतद्वा । अभिभवनशीलो वृषभ इन्द्रस्य रूपम्, नहीन्द्रादन्यस्याभिभवन सामर्थ्य मस्तीत्यभिप्रायः । यदि स ऋषभः शब्दं कुर्यात् तदा आ म इन्द्रो यज्ञमगन् आगमत् । तथा च मदीयो यज्ञ इन्द्रसहितोऽभवदिति विद्यात् । यज्ञे ऋषभस्य शब्दाकरणेऽनुष्ठानप्रकारमाह - यद्युन रुयादिति । यदि शब्द न कुर्यात्तदा दक्षिणत उपविष्टो ब्राह्मणो ब्रह्मैव जुहुधीत्यध्वर्युं प्रति ब्रूयात् । सैवैन्द्री इन्द्राह्वानार्था वाक् । ' स जुहोति देहि मे ददामि हिदि । निहारं च हरासि मे निहारं निहराणि ते स्वाहेति || ' ( श ० २२५ | ३ | १ ९ ) । दर्या गृहीतं हविः ' देहि मे ' इत्यादिमन्त्रेण तयैव दय आहवनीये जुहोति । ' प्रातर्हत्वाऽहुत्वा वा स्थाल्या दर्यादत्ते पूर्णा दर्वीति । ऋषभमाह्वयितवं ब्रूयात् । रुते जुहोति । अव्याहरति ब्रह्मा जुहुधीत्याह । देहि म इति जुहोति ' ( का ० श्र ० ५।६ । ३० - ३४ ) । पूर्णिमायां प्रातरग्निहोत्रं हुत्वाऽहुत्वा वा सशेषाया गृहमेधीयचरुस्थाल्याः सकाशात् पूर्णा दर्वीति मन्त्रेण दर्व्याम् ओदनं गृह्णीयात् । अत्र दर्वीहोमे होममात्रं भवति न यजतयः । ' परतन्त्रोत्पत्तयो जुहोतिमात्रा: ' ( का ० श्री ६।१०।२५ ) | परतन्त्रे उत्पत्तिर्येषां ते परतन्त्रोत्पत्तयो जुहोतयः । ते जुहोतिमात्रा होममात्रावसानाः । अर्थाद ये होमा अन्यस्य कर्मणः प्रयोगमध्ये विहितास्तेषां यानि होमस्वरूप -निष्पादकद्रव्यनिष्पादकानि सन्निपत्योपकारकाण्यङ्गानि, तादृशाङ्गानुष्ठानपूर्वक होमाः कर्तव्याः, न तु तदङ्गत्वेन प्रयाजानुयाजाद्यारादुपकारकाङ्गकलापानुष्ठानम् । यथा वाजपेये सर्वान्नहोमो विहितः, तादृशान्न निष्पादकानि यान्यवननपाकादीनि सन्निपत्योपकारकाणि तदनुष्ठानपूर्वक होमः कार्यः । ऋषभो यथा शब्द करोति तथाह्वाने यत्नं कुर्याद् इति व्रैषार्थः । ऋषभे कृतशब्दे दर्व्या जुहुयात् । ऋषभे शब्दमकुर्वति ब्रह्मा जुहुधीति ब्रूयात् । देहि इति मन्त्रेण जुहुयादिति सूत्रार्थः । अध्यात्मपक्षे - सर्वेश्वरो वेदमुखेन जीवात्मानं प्राह हे प्रत्यगात्मन्! त्वं मे मह्यं शोधितत्वंपदार्थं त्वं पदलक्ष्यं देहि समर्पय त्वंपदलक्ष्यस्य तत्पदलक्ष्यार्थेनाभेदमनुसन्धेहि । अहमपि ते तुभ्यं स्वात्मस्वरूपं ददामि त्वंपदलक्ष्यार्थेनात्मनोऽभेदं पश्यामि । ते तत्पदार्थस्य प्रत्यक् चैतन्याभेदेन स्वप्रकाशत्वं परमानन्दरूपत्वं व्यज्यते । त्वंपदार्थे च पूर्णत्वमपरिच्छिन्नत्वं च त्यज्यते । तदन्तरा तु तत्पदार्थः परोक्ष एवापरमानन्दरूप इव भवति । त्वं पदार्थस्तु अपरोक्षोऽपि परमानन्दरूपोऽपि परिच्छिन्न इवापूर्ण इव च भवति । तदेवादरातिशयार्थं द्वितीय-पादेनापि वदति - मह्यं निधेहीति । नितरां सर्वस्वं समर्पय । अहमपि तुभ्यं स्वात्मानं निदधे स्वात्मानं समर्पयामि । ब्रह्मविदपि तथैवाह - हे सर्वेश्वर! निहारं भक्तिपूर्वकं तुलस्यादिमूल्येन क्रेतव्यं स्वात्मानं मे मह्यं हरासि प्रददासि } निहारं तन्मूल्य भूतं तुलस्यादिपुष्पफलादिसहितं स्वात्मानमहं ते तुभ्यं निहराणि समर्पयानि । किसी व्याख्याकार ने समीप स्थित द्रव्य के निःशेष देने की जो बात कही है, वह असङ्गत है, क्योंकि वैदिक कर्म में देय द्रव्य और उसकी मात्रा नियत बताई गई है । स्वामी दयानन्द ने जो व्याख्या की है, वह भी असंगत है, क्योंकि मन्त्रगत पदों से वह अर्थ नहीं निकल रहा है ।
पृष्ठ 230
पाठ पढ़ें पाठ छिपाएँ
२२० शुक्लयजुर्वेदसंहिता [ अ ० ३ स्वाहा मदीयं सर्वस्वं त्वयि सुहुतमस्तु, ' तत्त्वमसि ' ( छा ० ६८७ ) इत्यादिश्रुतिभ्यः, ' तुलसीदलमात्रेण जलस्य चुलुकेन च । विक्रीणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः ॥ ' इति सूक्ते:, ' पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ' ( भ ० गी ० ९ ।२६ ) इत्यादिगीतावचनाच्च । दध्यादिविक्रेतुं ग्रामान्तरं गच्छन्तं व्रजसीमन्तिनीजनमवरुद्ध्य सगोपालमण्डलः कृष्णः कथयति -देहि मे दध्यादिकम्, अहमपि तुभ्यं सर्वविधं पुरुषार्थं स्वात्मानं च ददामि । किञ्च त्वं मे मह्यं मनः स्वात्मानमपि निधेहि, ततोऽहं ते तुभ्यम् ऋणित्वेन स्वात्मानं निदधे त्वदधीनमात्मानं सम्पादयामि, ' न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः । भा ० पु ० १० | ३२ | २२ ) इत्यादिवचनात् । निहारं सर्वस्वं मे मह्यं हरासि अर्पयसि तदाऽहमपि ते तुभ्यं निहारं हरणीयं स्वात्मानं तुभ्यमहं निहराणि स्वाहा सुष्ठु आह - ' ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ' ( भ ० गी ० ४ ११ ) इति गीतावचनं चेह संवादि । दध्यादिविक्रेतुं ग्रामान्तरं गच्छन् दध्यादिकं याचितो गोपिकागणो ब्रवीति - हे कृष्ण! त्वं प्रथमं मे मह्यं स्वपादपद्मानुरागं स्वसन्निधिवसनं वा देहि, ततः परमहं ते तुभ्यं दध्यादिकं ददामि । त्वं मे शिरसि स्वकरसरोरुहं धेहि, ततः परमहं ते हस्ते आत्मीयं सर्वस्वं निदधे । निहारमनन्यभावं हरासि मह्यं प्रापयसि, अहं नितरां हरणीयं वस्तुजातं निहराणि श्रीचरणयोः । भगवाननुमोदते सु आह साधु ब्रूते गोपिकागणः ' इति, तत्तु सुन्दरमेव यद्यपि, तथापि कर्मसु विनियुक्तानां मन्त्राणामन्यशेषत्वान्न प्रमाणान्तरा सिद्धार्थसाधने सामर्थ्यम्, स्वप्रधानत्वाभावात् न वाऽयमेवार्थ इति नियन्तुं शक्यते, अर्थान्तरस्यापि सम्भवेन विनिगमनाविरहात् । इदमिह विचारणीयमध्यात्मपक्षीयेऽर्थे कथं नैष आक्षेप इति? मैवम्, ' सर्वे वेदा यत्पदमामनन्ति ' ( कठोप ० १२ १५ ) इति रीत्याऽध्यात्मप्रतिपादनेऽपि वेदानां तात्पर्यात्, विनियोगाविरोधेनैवाध्यात्मार्थस्य ग्राह्यत्वाच्च । यत्तु - ' अनेन साधकेन गुरवे देवाधिदेवाय च तनुरन्ते धनानि च समर्पणीयानि । जनको भूपतिः स्वाचार्याय याज्ञवल्क्याय तत्त्रयमर्पयाञ्चकार - ' नमस्तेऽस्त्विमे विदेहा अयमहमस्मीति ( बृ ० ४।२।४ ) इत्यादिना प्रथमचरणेन धनस्य, द्वितीयेन मनसः, उत्तरार्धेन शरीरस्य समर्पणम् ' इति, तत्तु लोकप्रतारणामात्रम्, पादत्रयस्य तदर्थत्वे मानाभावात् मन्त्रस्य तादृशार्थे विनियोगाभावाच्च विनियोगेनान्यपरस्य मन्त्रस्यान्यार्थ-बोधने तात्पर्याभावाच्च ॥ ५० ॥
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत । अस्तषत॒ स्वभा॑नव॒ विप्रा॒ नवि॑ष्ठया मती योज॒ न्वि॒न्द्र ते॒ हरी॑ ॥ ५१ ॥१
स॒स॒न्दृश॑ त्वा व॒यं मद्य॑वन् वन्दिषि॒महि॑ । प्र नूनं पू॒र्णब॑न्धुरः स्तु॒तो या॑सि॒ वश॒ अन योजा न्विन्द्र ते हरीं ॥ ५२ ॥
अध्यात्मपक्ष में --सर्वेश्वर वेदमुख से जीवात्मा से कह रहा है कि हे जीवात्मन्! तू मुझे शोधित ' त्वम् ' पदार्थ का अर्पण कर । मैं भी तुझे स्वात्मस्वरूप देता हूँ ॥ ५० ॥
मन्त्रार्थ - पितृयज्ञसंज्ञक कर्म में जो पितर हैं, उन्होंने हमारे दिये हुए हवि का भक्षण किया और सन्तुष्ट होकर हमारी भक्ति को देख अपना शिर हिलाकर अपनी प्रसन्नता व्यक्त की । स्वयम्प्रकाश ब्राह्मणों ने धारणा शक्ति से युक्त होकर तथा नवीन बुद्धि धारण कर उनकी स्तुति की । ( इस यजमान ने पर्याप्त मधु अन्न