वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 231–240

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 231–240

पृष्ठ 231

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 231 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ५१-५२ ] वेदार्थपारिजातभाष्यसहिता २२१ ऐन्द्रयौ पङ्क्त्यौ । तयोः साकमेधगतपितृयज्ञकर्मण्याहवनीयोपस्थाने विनियोगः । ' यज्ञोपवीतिनः सर्वे निष्क्रम्योदञ्चोऽक्षन्नमीमदन्तेत्याहवनीयमुपतिष्ठन्ते ' ( का ० श्री ० ५।९ ।१६ ) । hudis प्याह - ' ऐन्द्रीभ्यामुप-तिष्ठते । इन्द्रो ह्याहवनीयोऽक्षन्नमीमदन्त ' इति । ' अद् भक्षणे ' इति धातोर्लुटि घस्लादेशे अक्षन्निति रूपम् । पितृयज्ञकर्मणि ये पितरः सन्ति तेऽस्माभिर्दत्तं हविः स्वरूपमन्नमक्षन् भक्षितवन्तः । कथमेतदवगम्यत इति चेदुच्यते - यतोऽमीमदन्त हर्षं प्राप्ताः, ' मदी हर्षे ' । तृप्ता वा संजाताः, ' मदी तृप्ती ' । अत्रास्माकं भक्तिमवगत्य प्रीताः, अवप्रिया अतिप्रीताः, अधूषत स्वकीयं शिरः कम्पितवन्तः, ' धूञ् कम्पने ' | स्वभानवः स्वेनैव प्रकाशवन्तः, विप्रा मेधाविनः सन्तो नविष्ठया नवतमया मती मत्या युक्ता अस्तोषत स्तुतिं कृतवन्तः । यद्यपि ते स्तुति-भाजस्तथापि अहो स्वादु हविर्बहु दत्तमहो भक्तिरिति भक्तिप्रशंसां कृतवन्तः । हे इन्द्र! नु क्षिप्रं ते हरी हरिनाम-कावश्वौ योज गमनाय रथे योजय, अहं वा योजयामि त्वदभीष्टायाः पितृतृप्तेः सम्पन्नत्वे त्वद्गमनवेलाया अप्युपस्थितत्वात् । हे मघवन्! सुसन्दृशं सु सम्यक् पश्यतीति सुसन्दृशं शोभनदर्शनं त्वा त्वां वयमनुष्ठातारः 1 वन्दिषीमहि अभिवादयामः । पूर्णबन्धुरः ( बन्धुरशब्दो रथनीडवाची ) स्तोतृभ्यो देयैर्धनैः सम्पूर्णरथनीडोपेतो भूत्वा स्तुतः स्तूयमानः, वशान् कामान् ' वश कान्ती ' । अनु अस्मत्कामाननुलक्ष्य नूनं प्रयासि गच्छसि । अस्मत्कामान् दातुमेव स्वस्थानं गच्छसि । हे मघवन् धनवन् परमानन्दमयधनसम्पन्न परमेश्वर! सुसन्दृशं सुष्ठु सम्यग् द्रष्टारं सुष्ठु सम्यग् दर्शनीयं वा त्वा त्वां वन्दिषीमहि । स्तुतस्त्वं वशान् कामयमानान् भक्ताननुलक्ष्य नूनं प्रयासि । पूर्णबन्धुरो दातव्यपरिपूर्णरथनीडोपेतो गच्छसि । स त्वं हरी अश्वौ रथे योज । अध्यात्मपक्षे – हे इन्द्र परमेश्वर! श्रोत्रादयः प्राणा दिव्यानि ब्रह्मात्मकानि त्वदीयदिव्य-शब्दस्पर्शादीनि, अक्षन् अभुक्षत, यतो अमीमदन्त परमतृप्ता बाह्यविषयेभ्यस्तृप्तिमुपगतास्ततो विरक्ता इत्यर्थः । प्रहृष्टा वा । अवप्रिया लोकोत्तरं माधुर्यमनुभूय प्रीता अधूषत बाह्यरूपादिविषयिणीं तृष्णामवाधूषत व्यापादितवन्तः । स्वेनैवात्मनैव भानुः प्रकाशो येषां ते स्वभानवः, ' श्रोत्रस्य श्रोत्रं मनसो मनो यत् ' ( केनोप ० ११२ ) इति श्रुतेः । विशेषेण प्रान्ति अखण्डानन्दं पूरयन्तीति विप्राः नविष्ठया नवतमया मती मत्या स्तुत्या त्वामेव प्रतिक्षणं अस्तोषत स्तुवन्ति । हे इन्द्र! नु क्षिप्रं तान् स्वसमीपमानेतुं हरी अश्वौ योज योजय । ' पराचि खानि व्यतृणत् स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् ' ( कठोप ० २११११ ) इति स्वयम्भुवा निर्मितानि पराञ्चीन्द्रियाणि भगवद्वियोगेन स्वहिंसामवगत्य तपश्चेरुः । तत्तपस्तुष्ट इव भगवान् स्वीयया अचिन्त्य दिव्य लीलाशक्त्या स्वात्मानमदृश्यमग्राह्यमलक्षणमचिन्त्यमशब्दमस्पर्शमरूपमगन्धमपि दिव्यशब्दस्पर्शादि-विशिष्टरूपेण प्रादुर्भावितवान् । तेनैवेन्द्रियाणां भगवत्स्वरूपानुभवेन पूर्णतृप्तिर्भगवत्प्राप्तिश्च । यत्तु - ' अव अधूषत स्वीयानि शिरांसि अधस्तात् कम्पितवन्तः । अवधूननं नाम कव्यस्वीकारार्थमधस्तात् शिरः कम्पनम् ' इति, तन्न, अवेत्यस्य प्रियेति सम्बन्धेन गतार्थत्वात्, अत एव अवप्रिया इत्यस्य अस्माकं भक्तिमवगम्य प्रीताः प्रसन्ना इत्येवार्थः । हविः स्वीकारार्थमधस्तात् शिरः कम्पनं तु भोजनात् प्रागेव सङ्गच्छते । हमको दिया । इस यजमान की भक्ति प्रशंसनीय है ) । अतः हे इन्द्र! हरित वर्ण के दो घोड़ों को अपने रथ में शीघ्र जोतकर और तृप्त होकर पितरों के सहित गमन करो । साकमेधान्तर्गत पितृयज्ञ कर्म में सब लोग यज्ञोपवीती होकर ' अक्षन्नमीमदन्त ' इत्यादि दो मन्त्रों से आहवनीय का उपस्थान करें ॥ ५१ ॥

भाष्यसार - भाष्यार्थ स्पष्ट है ॥ अध्यात्मपक्ष में- भगवत्स्वरूप का अनुभव होने से इन्द्रियाँ पूर्ण रूप से तृप्त हो गईं हैं और भगवत्प्राप्ति हो गई है

पृष्ठ 232

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 232 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२२ शुक्लयजुर्वेद संहिता [ अ ० ३ अत्र तु अक्षन्निति पितृयज्ञाख्ये कर्मणि श्रद्धया मयोपनतमन्नमक्षन्निति त्वयाप्यर्थापितम् । तदनन्तरं हविः स्वीकारार्थमधस्तात् शिरःकम्पनस्य प्रसङ्ग एव नास्ति । यत्तु - ' अथवा कव्यदातार एव पितॄन् दृष्ट्वा प्रसन्नतातिशयेन सुदीप्तमुखा नवनवया स्तुत्या तान् स्तवन्ते ' इति तदप्यसङ्गतम्, विनियोगानुसारेण कव्यदातॄणामेव मन्त्रोच्चारयितृत्वेन स्वकर्तृकस्तु तेस्तत्रोल्लेखासम्भवात् । न च यजमानः प्रत्यक्षं पितॄन् पश्यति, तेषामतीन्द्रियत्वात् । ईश्वरोऽनादिर्वेदो वा सर्वज्ञत्वेन शक्नोत्येव तथा वर्णयितुम् । सर्वमेतच्छतपथे -- ' ते सर्व एव यज्ञोपवीतिनो भूत्वा उदञ्च उपनिष्क्रम्याहवनीयमुपतिष्ठन्ते । देवान् वा एष उपावर्तते य आहिताग्निर्भवति यो दर्शपूर्णमासाभ्यां यजतेऽथैतत् पितृयज्ञेनेवाचारिषुस्तदु देवेभ्यो निह्नवते ' ( श ० २।६।१।३७ ) | आहवनीयोपस्थानं विधत्ते - ते सर्व इति । ते सर्वे ऋत्विजो यजमानाश्च यज्ञोपवीतिनो भूत्वा ( पूर्वं प्राचीनावीतिन आसन् ) उदङ्मुखाः पिण्डपितृयज्ञस्थानान्निर्गत्य आहवनीयमुपतिष्ठन्ते । आहिताग्निर्भवति यश्च दर्शपूर्णमासाभ्यां यजते एष देवान् उपावर्तते उपगतो भवति । देवतासम्बन्धगतस्य यजमानस्य देवान् परित्यज्य यत् पिण्डपितृयज्ञाचरणभूतेन देवानां मनसि क्रोधोऽभूत् पुनरावृत्त्याहवनीयोप-स्थानेन उदासीनताजनितापराधं निह्नवते शमयन्ति । ' ऐन्द्रीभ्यामाहवनीयमुपतिष्ठन्ते । इन्द्रो ह्याहवनीयो-Sea मीमदन्त प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ सुसन्दृशं त्वा वयं मघवन् वन्दिषीमहि । प्र नूनं पूर्गबन्धुरः स्तुतो यासि वशा अनु योजा न्विन्द्र ते हरी इति ' ( श ० २६ | १ | ३८ ) । ननु ऐन्द्रया कथमग्न्युपस्थानम्? लिङ्गविरोधादिति चेत्तत्राह - इन्द्रो ह्याहवनीय इति । परमैश्वर्ययोगादाहवनीय एवेन्द्रः । अतस्तदुपस्थाने ऐन्द्रयाः करणत्वं न विरुद्धयते । अत एवैन्द्रयौ पठति - अक्षन्निति । व्याख्याते च । यद्वा सायणरीत्येत्थं व्याख्यानम् - अक्षन् अस्माभिर्दत्तं हविः पितरोऽभुक्षत । अदेर्लुङि ' लुङ्सनोर्घस्लृ ' ( पा ० सू ० २ | ४ | ३७ ) इति घस्लादेशे ' मन्त्रे घसरणश ' ( पा ० सू ० २ | ४ | ८० ) इति चलेलुकि ' गमहन ( पा ० सू ० ६।४।९ ८ ) इत्युपधालोपे रूपम् । हि यस्मादेवं मनसः पितरो हविः स्वीकारेण अमीमदन्त तृप्ता अभवन्, ' मद तृप्तियोगे ' । तृप्तिरपि कुतो ज्ञायते तत्राह – अवप्रिया आत्मीयास्तनूः पितरः अधूषत भुक्तस्य हविषो रसातिश-यस्याभिव्यक्त्यर्थम् अवाकम्पयन्, ' धूञ् कम्पने ' । तदनन्तरं स्वभानवः स्वायत्तदीप्तयो विप्रा मेधाविनस्ते पितरो हविःप्रदातारं यजमानं नविष्ठया अतिशयेन नवा नविष्ठा तया नवतरया, मती मत्या स्तुत्या अस्तोषत । उपभुक्तं हविः प्राशंसन् सम्यगेतत् सञ्जातमिति । आहवनीयस्थित हे इन्द्र! त्वमपि ते त्वदीयौ हरी अश्वौ नु क्षिप्रं यो योजयेति । हे मघवन् धनवन् आहवनीयरूपेन्द्र! सुष्ठु सम्यग् दर्शनीयं त्वा त्वां वन्दिषीमहि नमोऽभिवाद-यामो वा । अस्माभिर्वन्दितरत्वं पूर्ण बन्धुरो दत्तेन हविषा पूर्णेन रथनीडेन युक्तः स्तुतः सन् अस्माभिः कृतं स्तोत्रं हविश्च स्वीकृत्य वशान् कामान् अनु यथाकामं यथेष्टं प्रयासि । दयानन्दस्तु - ' हे इन्द्र! ते तव ये स्वभानवोऽवप्रिया विप्रा नविष्ठया मती मत्या हि खलु परमेश्वरमस्तोषत स्तुवन्त्यक्षन् श्रेष्ठान्नादिकमदन्ति अमीमदन्तानन्दयन्ति च तस्मात्ते शत्रून् दुःखानि च न्वधूषत क्षिप्रं धुन्वन्ति । किसी व्याख्याकार ने ' अव अधूषत ' का अर्थ ' शिरांसि अधस्तात् कम्पितवन्तः ' किया है, वह उचित नहीं है । स्वामी दयानन्द ने जो व्याख्या की है, वह भी विशृङ्खल है ॥ ५१ ॥

मन्त्रार्थ - इन्द्र! तुम सभी पर अनुग्रह करने वाले हो, तुम्हारी हम स्तुति करते हैं । इस प्रकार हमारे द्वारा स्तुति किये गये तुम कामना करनेवाले यजमान के यहाँ अवश्य जाते हो और जाते समय अपनी स्तुति करने वालों के लिये देय द्रव्यों को अपने रथ में भरकर ले जाते हो । हे इन्द्र! तुम अपने हरित वर्ण के घोड़ों को रथ में जोतो ॥ ५२ ॥

पृष्ठ 233

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 233 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ५२-५३ ] वेदार्थपारिजातभाष्यसहिता २२३ त्वमप्येतेषु स्वकीयौ हरी बलपराक्रमी योज संयोजय ' इति, तदपि न सङ्गतम्, निष्प्रमाणव्यत्ययाश्रयणादिदोष-बाहुल्यात् । ये ते, शत्रून्, दुःखानि चेति पदानि मूले न सन्त्येव । किञ्च परमेश्वरस्तु ते दुःखावधूननहेतुत्वेऽपि भक्षणानन्दनयोः कथं तत्र हेतुत्वम्? हरी इत्यस्येन्द्राश्वत्वे तु निघण्टुः कोषश्च प्रमाणम्, किन्तु बलपराक्रमार्थे प्रमाणं वक्तव्यम् । कथं च परमेश्वरीयबलपराक्रमयोर्जीवेषु योगः सम्भवति, अन्यसमवेतस्यान्यत्र समवायायोगात् । यदपि च-- ' हे मघवन्निन्द्र! वयं सुसन्दृशं त्वा त्वां नूनं वन्दिषीमहि, अस्माभिः स्तुतः पूर्णबन्धुरः पूर्णश्चासौ बन्धुरो बन्धनहेतुर्वा ', हिन्दी व्याख्याने तु पूर्णबन्धुरिति संस्त्वं वशान् कामान् यासि प्रापयसि ते तव हरी त्वमनुप्रयोज इत्येकः, वयं सुसन्दृशं मघवन् मघवन्तं पूर्णबन्धुरं त्वा तमिमं सूर्यलोकं नूनं वन्दिषीमहि । स्तुतः प्रकाशितगुणः सन्नयं वशानुत्कृष्टव्यवहारसाधकान् प्रति यासि प्रापयति । हे विद्वंस्त्वं! यथा तेऽस्येन्द्रस्य हरी अस्मिन् जगति युक्ते तथैव विद्यासिद्धिकराण्यनुप्रयोज इति द्वितीय: ' इति, तदपि यत्किञ्चित्, विशृङ्खलत्वात्, बन्धुरशब्दस्य बन्ध्वर्थत्वे मानानुपलब्धेः । त्वद्रीत्या सूर्यलोको जडः, स कथं स्तुति ज्ञास्यति? स्तुति विनापि यत्करोति तत्करिष्यत्येव, गुणप्रकाशस्य तत्राकिञ्चित्करत्वात् ॥ ५१-५२ ॥

मनो॒ न्वाह्वा॑महे॒ नाराश॒सेन॒ स्तोमे॑न । पि॒तॄणां च॒ मन्म॑भिः ॥ ५३ ॥

I तिस्रो मनोदेवत्या गायत्र्यो बन्धुदृष्टा ऋचः । ' मनो न्वाह्वामह इति गार्हपत्यं तिसृभि: ' ( का ० श्री ० ५।९ ।१७ ) । उपतिष्ठन्त इत्यनुवर्तते । नु क्षिप्रं मन आह्वामहे । ननु चित्तं प्रतिपुरुषं विद्यत एवेति चेत्सत्यम्, तथापि पितृयज्ञानुष्ठानेन पितृलोकं गतमिव भवतीति तदाह्वानं युक्तम् । यद्वा मनःपदेन मनोऽभिमानिदैव-तस्यैवाह्वानमत्र क्रियते । केन स्तोमेन स्तोत्रेण कीदृशेन नाराशंसेन नराणां मनुष्याणां शंसः प्रशंसनं येन सः, यद्वा नराः प्रशंस्यन्ते दीर्घायुषः पुत्रवन्तो भूयासुरित्यादिभिर्गुणैर्येन स नाराशंसः स्तोमस्तेन । यत्र देवा: स्तूयन्ते तद्दैवं स्तोत्रं यत्र मनुष्याः स्तूयन्ते तन्मानुषं स्तोत्रम् । पुनः कीदृशैः? पितॄणां च मन्मभिः । पितरो यः स्तोत्रैर्मन्यन्ते अवगम्यन्ते ते मन्मानस्तैः, पितृयाथात्म्यबोधकैः स्तोत्रैरित्यर्थः । पितॄणां मननीयैर्वा स्तोत्रर्मन आह्वायामः ॥ ५३ ॥

भाष्यसार - भाष्यार्थ स्पष्ट है । स्वामी दयानन्द ने जो व्याख्या की है, उसमें अनेक दोष हैं, जो भाष्य में दिखाये गये हैं ॥ ५२ ॥

मन्त्रार्थ पितृयज्ञ के अनुष्ठान से चित्त परलोक में गया हुआ - सा प्रतीत होता है । इस कारण नाराशंत नामक स्तोत्र से उसे हम बुलाते हैं । ( मनुष्य की उचित स्तुति को नाराशंस कहते हैं और तत्सम्बन्धी जो स्तोत्र है, उसे भी नाराशंस कहा गया है । यह स्तोत्र देव और मानुष भेद से दो प्रकार का है । जिससे देवता की स्तुति की जाती है, उसे ' देव ' और जिससे मनुष्य की स्तुति की जाती है, उसे ' मानुष ' कहते हैं । ) उसी प्रकार हम पितरों को मननीय स्तोत्रों से भी पितृलोकगमन का आह्वान करते हैं । ' मनो वाह्वामहे ' इत्यादि तीन मन्त्रों से सब लोग गार्हपत्य का उपस्थान करें ॥ ५३ ॥

भाष्यसार - भाष्यार्थ स्पष्ट है । मन्त्र ५३, ५४, ५५ का अर्थ संसृष्ट रहने से अग्रिम दो मन्त्रों को एक साथ देकर उनकी व्याख्या भाष्यकार ने की है ॥ ५३ ॥

पृष्ठ 234

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 234 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२४ शुक्लयजुर्वेदसंहिता इत आरभ्य त्रयाणां मन्त्राणां संसृष्टार्थत्वाद् अधस्तान्मन्त्रद्वयं व्याख्यायते आ न॑ एतु॒ मन॒ः पु॒न॒ः क्रत्वे॒ दधा॑य जी॒वसे ' । ज्योक् च॒ पुन॑र्नः पि॒तरो॒ मनो॑ ददा॑तु॒ दैव्यो॒ जन॑ः । जीव॑ व्रात॑ 1 [ अ ० ३ सूर्य दशे ॥५४ ॥

सचेमहि ॥५५ ॥

आ एतु आगच्छतु नोऽस्माकं मनः पुनः । किमर्थं क्रत्वे क्रतुः सङ्कल्पो यज्ञो वा दक्षाय सङ्कल्पसमृद्धये कर्मण्युत्साहाय वा, ' स यदेव मनसा कामयते इदं मे स्यादिदं कुर्वीयेति स एव क्रतुरंथ यदास्मै तत् समृद्ध्यते ' ( श ० ४ | १ | ४ | १ ) इति श्रुतेः । ज्योक चिराय जीवसे जीवनाय सूर्यं दृशे द्रष्टुम् । हे पितरः! पुनरस्माकं मनो ददातु दैव्यो जनो देवसम्बन्धी जनः । भवदनुज्ञया देवसम्बन्धी जनोऽस्मभ्यं चित्तं पुनर्भूयः प्रयच्छत्वित्यर्थः । जीवं जीवनवन्तं व्रातं पुत्रपौत्रपश्वादिगणं सचेमहि सेवेमहि । अध्यात्मपक्षे तु-- नोऽस्माकं मनः चेतः, एतु वशमागच्छतु किमर्थं क्रत्वे क्रतवे निर्गुणसगुणोपासनलक्षणाय क्रतवे उपासनाय दक्षाय बलाय उपासनस्य दार्व्याय जीवसे जीवितुम्, उपासनपरायणानामुपासनमेव जीवनम् । ज्यो चिरकालं सूर्यं दृशे स्वप्रकाशं परमात्मानं सगुणं निर्गुणं च द्रष्टुं साक्षात्कर्तुम् । हे पितरः गुरवः! भवदनुग्रहेण दैव्यो जनो देवानां सम्बन्धी जनो देवदेवः परमेश्वर, मनो ब्रह्माकाराकारितं मनः प्रयच्छतु केवलस्य मनसः प्राप्तत्वादेव सामर्थ्याद् विशिष्टं भगवदाकाराकारितं मनः प्रयच्छतु । तदर्थं जीवं जीवनवन्तं सप्राणं व्रातं सत्यादिव्रतानां समूहं सचेमहि सेवेमहि, दृढप्राणसत्यादि-सेवनस्य ब्रह्मात्मसाक्षात्काररूपे मनसि हेतुत्वात् । --दयानन्दस्तु – ' वयं नाराशंसेन स्तोमेन पितॄणां मन्मभिर्मनो वाह्वामहे स्पर्धामहे । नराणां समन्तात् शंसः प्रशंसनम्, तेन निर्वृत्तम् इत्यर्थे ' तेन निर्वृत्तम् ' ( पा ० सू ० ४/२/६८ ) इत्यणि नाराशंसेन स्तुतियुक्तेन व्यवहारेण पितॄणां पालकानामृतूनां ज्ञानवतां मनुष्याणां वा । मनुष्यं र्जन्मसाफल्यार्थं विद्यादिगुणयुक्तं मनः कर्तव्यम् । यथर्तवः स्वान् स्वान् गुणान् क्रमेण प्रकाशयन्ति यथा च विद्वांसः क्रमशोऽन्यामन्यां विद्यां साक्षात्कुर्वन्ति, तथैव सततमनुष्ठाय विद्याप्रकाशौ प्राप्तव्या इति भावार्थ: ' इति, तदपि विशृङ्खलम्, मन्त्रशब्देस्तथार्थाननुगमात् । मन्त्रे स्पष्टमेव मनस आह्वानमुक्तम्, व्याख्यायां तु ' स्पर्धा महे ' इत्युक्तम्, भावार्थे तु विद्यादिगुणयुक्तं मनः कर्तव्यमित्युक्तम्, हिन्द्यां तु हृढं करोमीत्युक्तम् । द्वितीयमन्त्रव्याख्यायामेतन्मतं यथा - ' यन्मनश्चित्तं ज्योग् निरन्तरं सूर्यं दृशे क्रत्वे दक्षाय जीवसे चान्येषां शुभकर्मणामनुष्ठानायास्ति तन्नोऽस्मान् पुनरा समन्तादेतु प्राप्नोतु ' इति एतदपि निरर्थकम्, निरन्तरजन्महेतुकर्मभिर्जन्मप्राप्तौ चित्तप्राप्तेर्नान्तरीयकत्वेन तदर्थं प्रार्थनाया संकल्प करने के निमित्त तथा कर्मानुष्ठान में उत्साह प्राप्त होने के लिये पुनः प्राप्त करने के लिये तथा चिरकाल तक सूर्य का अवलोकन करने के लिये मन्त्रार्थ - हमारा मन यज्ञ का हमें प्राप्त हो और चिरकाल तक जीवन वह मन पुनः हमें प्राप्त हो ॥ ५४ ॥

हे पितरों! तुम्हारी आज्ञा से देवसम्बन्धी पुरुष हमारा मन हमें पुनः प्रदान करे । तदनन्तर तम्हारे प्रसाद से जीवित पुत्र और पशुसमूह हमें प्राप्त हो ॥ ५५ ॥

भाष्यसार - भाष्यार्थ स्पष्ट है ।

पृष्ठ 235

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 235 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ५४-५५ ] वेदार्थपारिजातभाष्यसहिता २२५ अनावश्यकत्वात् । एतदीयं तृतीयमन्त्रव्याख्यानं यथा - ' हे पितरो जनका विद्याप्रदाश्च भवच्छिक्षया देव्यो जनो विद्वान् नोऽस्मभ्यं पुनर्मनोधारणावतीं बुद्धिं ददातु येन वयं जीवं व्रातं सचेमहि समवेयाम ' इति, तदपि यत्किञ्चिदसङ्गतेः । स्वद्रीत्या विदुष एव देवत्वेन देवेत्युक्त्यैव समीहितसिद्धो यत्रप्रत्ययप्रयोग वैयर्थ्यापत्तिः । विद्वांसः शिक्षया बुद्धिदातारो भवन्ति, धारणावत्या बुद्धेः प्रदाने ते कथं क्षमन्ते? शतपथविरुद्धं चैतत् । तत्र हि - - ' अथ प्रतिपरेत्य गार्हपत्यमुपतिष्ठन्ते । मनो न्वाह्वामहे नाराश सेन स्तोमेन पितॄणां च मन्मभिः । आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे ज्योक् च सूर्यं दृशे । पुनर्नः पितरो मनो ददातु दैव्य जनो जीवं व्रातं सचेमहीति पितृयज्ञेनेव वा एतदचारिषुस्तदुं खलु पुनर्जीवानपिपद्यन्ते तस्मादाह hi व्रतं समहीति ' ( श ० २२६ | ११३ ९ ) । गार्हपत्योपस्थानं विधत्ते - अथेति । प्रतिपरेत्य आहवनीयस्थानात् प्रतिनिवृत्य गार्हपत्यसमीपमागत्य गार्हपत्यमुपतिष्ठन्त इत्यर्थः । तदर्थं त्रयो मन्त्राः पठिताः । तेषामयमर्थः-अस्मदीयं मनो नु क्षिप्रं नाराशंसेन स्तोमेन साधनेन नरैः शंसनीयेन स्तोमेन स्तोत्रेण च पितॄणां सम्बन्धिभिः मन्मभिः मननैश्च आह्वामहे । पितृयज्ञकरणादपक्रान्तं मनः पुनरस्मानेतु आगच्छतु । किमर्थं क्रत्वे क्रतुलक्षणाय कर्मणे दक्षाय बलाय जीवसे जीवनाय ज्योक् चिरकालं सूर्यं च दृशे द्रष्टुम्, ' हशे विख्ये च ' ( पा ० सू ० ३ | ४ | १ ) इति तुमर्थे निपात्यते । मनोऽन्तरा न क्रतुर्न बलं न जीवनं न वा चिरं सूर्यदर्शनं सम्पद्यतेऽतस्तदाह्वानं क्रियते । हे पितरः! दैव्यो देवसम्बन्धी जनो नः अस्मभ्यं मनः पुनः ददातु । जीवं जीवनवन्तं व्रातं गणं पुत्र-पौत्रादिसमूहं सचेमहि प्राप्नुयाम | अन्तिमपादस्थजीवपदस्याभिप्रायं श्रुतिराह - पितृयज्ञेनेवेति । पितृयज्ञे खलु एत इदानीमचारिषुः । अतः पितृयज्ञस्य कर्तार ऋत्विग्यजमानाः पितृसंभक्ताः सन्तः प्रजायुक्ता भवेयुः । तत् तथा सति जीवं व्रातमनेन मन्त्रभागेन जीवान् पुत्रपौत्रादीन् स्वयं जीवन् पुनरपि गच्छन्ति । यत्तु - ' विदूषितान्नपानेन गोभिः सह मृतान् गोपालान् पुनरुज्जीवयितुकामो भगवान् कथयति - भो व्रजवासिनो न खिद्यध्वम्, एतेषु मृतशरीरेषु मनः अन्तःकरणोपलक्षितं सूक्ष्मशरीरं आह्वामहे । केन? नाराशंसेन आशंसनमाशंसः शुभाशंसनम्, नराणामाशंसो मनुष्याभिलाषपूरकेण अमृतवर्षिकृपादृष्टिसमूहेन पितॄणां पितृतुल्यानां व्रजौकसां वयोवृद्धानां मन्मभिः आकाङ्क्षाभिः वयोवृद्धानामनुरोधाद् दृष्टिपातमात्रेण लिङ्गशरीरमाहूय मृतशरीरेषु चानुप्रवेश्य गोभिः सहितान् गोपालान् पुनरुज्जीवयामि ' इति एतत् कृष्णचरित्रस्मारकत्वाद् रोचकमपि कल्पनागौरवावहमेव । एवं युधिष्ठिरदत्तस्वप्रश्नोत्तरतुष्टहृदयं वरं दातुमुद्यतं यक्षं प्रति युधिष्ठिर आह-नः त्वदवज्ञावशान्मृतानामस्माकं भ्रातॄणां चैतन्यसम्पादकं मनो लिङ्गशरीरं पुनरेतु तेषां शरीरेषु पुनः प्रविशतु । क्रत्वे श्रौतकर्मार्थं दक्षाय स्मार्त पूर्त दत्तादिकर्मसमर्थाय जीवसे जीवनाय ज्योक् च सूयं दृशे चिरं सूर्यं द्रष्टुम् ' इति, तदपि गौणार्थमेव मन्तव्यम्, श्रुतिसूत्रविरुद्धत्वात् ॥ ५४-५५ ॥ अध्यात्मपक्ष में-- हमारा मन सम्पूर्ण जीवन चिरकाल तक हे भगवन्! तुम्हारी निर्गुण - सगुण उपासना में लगा रहे तथा चिरकाल तक तुम्हारा ही साक्षात्कार करता रहे । हे पितरों! आपके अनुग्रह से दैव्य जन हमें ब्रह्माकाराकारित मन दें । स्वामी दयानन्द की व्याख्या मन्त्र के शब्दों के अनुसार न हो पाने से विशृङ्खल है तथा शतपथ के भी विरुद्ध है । किसी अन्य व्यक्ति ने जो व्याख्या की है, वह भी गौण अर्थ से ही भरी है और श्रुति - सूत्र के विरुद्ध है ॥ ५४-५५ ॥ २ ९

पृष्ठ 236

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 236 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२६ शुक्लयजुर्वेदसंहिता [ अ ० ३

व॒यम॑ व्र॒ तव॒ मन॑स्त॒नूषु बिच॑तः । प्र॒जाव॑न्तः सचेमहि ॥ ५६ ॥

अस्य मन्त्रस्य बन्धुऋषिर्गायत्री छन्दः सोमो देवता जपे विनियोगः । पितृयज्ञे सोमनामको देवोऽस्ति, सोमाय पितृमत इत्येवं हविषो विहितत्वात्, ' सोमाय पितृमते स्वाहा ' ( वा ० सं ० २।२ ९ ) इति श्रुतेः । वयं यष्टारस्तव व्रते त्वसम्बन्धिनि कर्मणि वर्तमानाः । ' व्रतमिति कर्मनाम ' ( निघण्टु २।१७ ) तनूषु भवदीयशरीरेषु नानावस्थाभेदभिन्नेषु मनो बिभ्रतः अस्मदीयचित्तं धारयन्तः, त्वत्कारुण्यात् प्रजावन्तः पुत्रपौत्रादिसम्पन्नाः सचेमहि सर्वदा भवन्तं सेवेमहि । अध्यात्मपक्षे - हे सोम! उमया पार्वत्या सहितः सोमस्तत्सम्बुद्धौ हे सोम! वयं तव परमेश्वरस्य तोषणार्थे व्रते संराधने वर्तमाना विविधासु त्वदीयासु तनूषु विशुद्धसत्त्वोपहित चिन्मयशरीरेषु मनोऽन्तःकरणं बिभ्रतो धारयन्तः प्रजावन्तः पुत्रशिष्यादिसहिताः त्वां सचेमहि सेवेमहि । दयानन्दरीत्या तु -- ' सुवति चराचरं जगदिति सोमस्तत्सम्बुद्धौ हे सोम परमेश्वर! सूयन्ते वा रसा यस्मात् स ओषधिराजः, तव व्रते सत्याचरणरूपे सर्वैः वर्तमानाः सुखः सचेमहि तनुषु समवेयाम विस्तृतसुखशरीरेषु | सोमस्योषधिराजस्य मनोऽन्तः-करणस्याहङ्कारादिवृत्ति धारयन्तः प्रजावन्तः सन्तः इति, तत्तु वा व्रते सत्याचरणनिमित्तं तनुषु मनो बिभ्रतः सन्तः प्रजावन्तो वयं सर्वैः सुखः सचेमहि ' श्रुतिविरुद्धमेव, तद्रीत्या मन्त्रस्य देवताविशेषस्य सोमस्य स्तुतौ पर्यवसानात् । यत्तु - ' राज्ञीभिर्थितः श्रीकृष्णः शैवाचार्यादुपमन्योः शैवीं दीक्षामवाप्य भगवन्तं शिवं वर्तमानास्त्व- प्रार्थयते – हे सोम! वयं तनूषु गौणात्मसु पुत्रपौत्रादिसन्ततिषु मनो बिभ्रतः संलग्नचेतसः, तव व्रते संराधने व्याख्यानं त्प्रसादात्प्रजावन्तो भूत्वा त्वां सेवेमहि ' इत्यादिकम्, तत्तु महाभारतादिसिद्धार्थद्योतकमपि युक्तमेव ॥ ५६ ॥

मन्त्रार्थ हे सोम! तुम्हारा कर्म करनेवाले हम तुम्हारे शरीर में अपने चित को स्थापन करेंगे । तुम्हारे गायत्री प्रसाद से पुत्र - पौत्रादिकों से युक्त होकर सेवनीय वस्तुओं का सेवन करेंगे । ' वय १७ सोम ' इस सोमदेवताक मन्त्र का उपयोग जप में होता है ॥ ५६ ॥

( मन्त्रसंख्या ५६ के आगे साकमेध पर्व के त्र्यम्बक हवि से सम्बद्ध मन्त्र हैं ) । भाष्यसार - भाष्यार्थ स्पष्ट है । अध्यात्मपक्ष में - पार्वती के सहित रहने वाले हे सोम परमेश्वर! हम भक्तगण ' परमेश्वर ' के सन्तोषार्थं आराधना में लगे रहते हैं । तुम्हारे विशुद्धसत्त्वोपहित चिन्मय शरीर में अपने मन को लगाने वाले पुत्र - शिष्यादिकों के सहित हम लोग तुम्हारी ही सेवा करते रहें । स्वामी दयानन्द की व्याख्या श्रुतिविरुद्ध होने से उपेक्षणीय है । किसी व्याख्याकार ने महाभारतादि प्रसिद्धार्थ द्योतक व्याख्या की है और वह ठीक भी है ॥ ५६ ॥

पृष्ठ 237

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 237 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ५७ ] वेदार्थ पारिजात भाष्यसहिता २२७ ए॒ष ते रुद्र भागः स॒ह स्वस्त्राऽम्बिकया॒ तं जु॑षस्व॒ स्वाह॒ष ते रुद्र भाग आखुस्ते ' प॒शुः ॥ ५७ ॥

raat मन्त्री, उभयोर्बन्धुर्ऋषिः, रुद्रो देवता ( पूर्वमन्त्रस्य प्राजापत्या बृहती ) याजुषी जगती च्छन्दः । पूर्वमन्त्रस्यावदानहोमे द्वितीयस्याखूत्करे पुरोडाशनिर्वापार्थे विनियोगः । ' पात्र्यां कृत्वा दक्षिणाग्न्युल्मुकमादाय चतुष्पथे पलाशपत्रमध्यमेन होम: ' ( का ० श्र ० ५ १०१७ ) । पुरोडाशान् पात्र्यां निधाय दक्षिणाग्न्युल्मुकमादाय चतुष्पथे गत्वा तत्रोल्मुकं संस्थाप्य तत्र पलाशपत्राणां यन्मध्यमं तेन जुहूस्थानीयेन होमः कार्यः । एष त इति जुहोति ' ( का ० श्र ० ५।१०।१० ) | है रुद्र हतो रोगान् द्रावयतीति रुद्रः । ' यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ' ( तै ० सं ० १।५।१।१ ) | रोदयति शत्रूनिति वा रुद्रः । ते तव स्वस्रा भगिन्या अम्बिकानाम्न्या सह एषोऽस्माभिर्दीयमानः पुरोडाशो भागो भजनीयः स्वीकर्तुं योग्यस्तं जुषस्व सेवस्व । स्वाहा इदं हविर्दत्तमस्तु | अम्बिकाया रुद्रभगिनीत्वं च श्रुत्युक्तम् -- ' अम्बिका ह वै नामास्य स्वसा तयास्यैष सह भागः ' ( श ० २२६ २२ ९ ) । योऽयं रुद्राख्यो देवस्तस्य विरोधिनं हन्तुमिच्छा भवति, तदानया भगिन्या क्रूरदेवतया साधनभूतया तं हन्ति । सा चाम्बिका शरद्रूपं प्राप्य जरादिकमुत्पाद्य तं हन्ति । रुद्रात्मकयो रुद्रत्वमनेन हविषा शान्तं भवति । तथा च तित्तिरिः -- एष ते रुद्रभागः सह स्वत्राम्बिकयेत्याह । शरद्वा अस्याम्बिका स्वसा तया वा एष हिनस्ति! य ७ हिनस्ति । तयैवैन ७ सह शमयति ' ( तै ० ब्रा ० १।६।१०।४ ) । ननु रुद्रस्य पत्नीत्वेनाम्बिका प्रसिद्धा, कथमत्र स्वसेत्युच्यते? इति चेन्न, व्युत्पत्त्या स्वसृशब्देन पत्न्या अपि बोधसम्भवात् । तथाहि - स्वमात्मानं सरति भजतीति स्वसा, आहोस्वित् सुष्ठु आत्मना अस्यते प्राप्यत इति स्वसा । ' अगत्यादिषु ' रूपसिद्धिः । ' अतिरिक्तमाखूत्कर उपकिरत्येष त इति ' ( का ० श्र ० ५ | १० | ११ ) | यजमानस्य यावन्तः पुत्रभृत्यादयः पुरुषाः सन्ति तान् गणयित्वा प्रतिपुरुषमेकैकं पुरोडाशं ततोऽप्यधिकमेकैकं निर्वपेत् । सोऽयमतिरिक्त उच्यते, ' त्र्यम्बकान् निर्वपति रौद्रानेककपालान् यावन्तो यजमानगृह्या एकाधिकान् ' ( का ० श्री ० ५।१०।१ ) इति कात्यायनोक्तेः । तत्र योऽयमतिरिक्तस्तं न जुहुयात्, किन्तु मूषकोत्खातेऽतिरिक्तं रौद्रं पुरोडाशं मूषकैरुत्कीर्णे पांसुराशी उपगूहति पांशुभिरन्तर्हितं करोति - एष त इत्यनेनेति । हे रुद्र! एषोऽस्माभिरुत्कीर्यमाणोऽतिरिक्तः पुरोडाशस्ते भागो भजनीयः । तथा ते तव आखुः मुषक: पशुत्वेन कल्पितः । आखुदानेन तुष्टो रुद्रस्तयाम्बिकया यजमानपशून्न मारयतीत्यर्थः । यथाह तित्तिरिः - प्रतिपुरुषमेककपालान्निर्वपत्येकमतिरिक्तम् ' ( तै ० सं ० १२८/६ । १ ) | इति काण्वसंहिता सायणभाष्यानुसारि व्याख्यानम् । • शतपथे च -- ' ते वै रौद्रा भवन्ति । रुद्रस्य हीषुस्तस्माद्रौद्रा भवन्त्येककपाला भवन्त्येकदेवत्या असन्निति तस्मादेककपाला भवन्ति । ते वै प्रतिपुरुषं यावन्तो गृह्याः स्युस्तावन्त एकेनातिरिक्ता भवन्ति तत्प्रतिपुरुषमेवै-तदेकैकेन या अस्य प्रजा जातास्ता रुद्रियात् प्रमुञ्चन्त्येकेनातिरिक्ता भवन्ति ' ( श ० २२६ २ ३ - ४ ) । ' महाहविषा मन्त्रार्थ - हे रुद्र! तुम अपनी अम्बिकानामक बहिन के सहित हमारे द्वारा दिये गये पुरोडाश ( हविर्द्रव्य ) का सेवन करो । हमारे द्वारा दिया हुआ हवि सुहुत रहे । हे रुद्र! हमारे द्वारा दिया गया यह पुरोडाश तुम्हारे द्वारा सेवन किया जाय । मूषकसंज्ञक पशु को हमने तुम्हें अर्पित किया है । ' एष ते ' इस मन्त्र से अवदानहोम करना चाहिये ॥ ५७ ॥

पृष्ठ 238

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 238 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२८ शुक्लयजुर्वेद संहिता [ अ ० ३ ह वै देवा वृत्रं जघ्नुः ' ( श ० २२६ २1१ ) इत्यादिना विधित्सितानां त्र्यम्बकहविषां शल्यनिर्हरणहेतुत्वमितिहास-मुखेनोक्तम् । तस्मिन् संग्रामे देवानां मध्ये यानेवेन्द्रप्रभृतीन् वृत्रमुक्ता इषव आर्छन् प्राप्नुवन् तान् देवान् एतैरेव त्र्यम्बकहविभिस्तस्माच्छ्ल्यान्निरहरन्त वियोजितवन्तः । निर्हरणप्रकारमाह - तानिति । व्यबृहन्त शल्यप्रोतां -स्तान् अस्माच्छ्ल्याद् एतैरेव त्र्यम्बकैर्हविर्भिर्निरहरन्त । अम्बिकानाम स्त्री अस्य स्वसा । अवस्त्र्यम्बको रुद्रः । देवतावाचिना शब्देन लक्षणयात्र हवींष्युच्यन्ते । अथेदानीन्तनो यजमान एतैर्यजते । तेन त्र्यम्बकहविर्यागेनाद्यापि यजमानस्य सम्बन्धिनं कमपि पुरुषं इषुर्नैव ऋच्छति । तस्य प्रजा जाता अजाताश्च प्रजनिष्यमाणाश्च ताः सर्वा रुद्रियात् रुद्रकृताद् हिंसनात् प्रमुञ्चन्ति प्रतिपुरुषं संख्याय क्रियमाणैत्र्यम्बकैर्हविर्भी रुद्रस्य प्रीणितत्वात् । रुद्रा देवता एषां ते रौद्राः । रुद्रसम्बन्धी इषुस्त्रिपुरविजयायं स्द्रस्यायुधत्वेन निर्मितः, ' त इषुं समस्कुर्वत ' ( तै ० सं ० ६ २ ३ १ ) इति त्रिपुरविजयप्रस्तावे उक्तत्वात् । ते रौद्रा एककपाला एकस्मिन् कपाले संस्कृता एकदेवत्या असन् भवन्ति । कियन्वस्त्र्यम्बकाः कार्या इत्याह ते वा इति । यावत्परिमाणविशिष्टा यजमानस्य गृह्या ज्ञातयः, तत्र प्रतिपुरुषमेकैकस्य एकैकः पुरोडाश इति गणयित्वा एकेनाधिकाः कार्याः । तेन जाता अजाताश्च प्रजा रुद्रियात् प्रमुञ्चन्ति । स्त्रीरूपाम्बिकासम्बन्धाद् रुद्रस्यैते पुरोडाशा आदिवर्णलोपेन त्र्यम्बका इत्याख्यायन्ते । यावदुक्तचोदना ह्येते पुरोडाशाः, अतस्तेषां संस्कारप्रकारोऽपि तत्रैव पञ्चम्या कण्डिकयोक्तः । गार्हपत्यस्य पश्चाद्यज्ञोपवीती भूत्वा उदङ्मुख आसीन एतान् पुरोडाशान् निर्वपेत् । ' जुहोतयोऽवषट्कारान् ' ( का ० श्रो ० ५।१०।५ ) । त्र्यम्बका जुहोतयो न यजतयः । अत एव अवषट्कारान् प्रतीयात् । प्रागुदीच्यां रुद्राधिष्ठितत्वेनोत्तर दिशो रुद्रसम्बन्धित्वाच्च तत्कर्मस्ववहननादिष्वपि सर्वत्रोदकसम्बन्धः कार्यः । पुरोडाशाश्च त आज्येनाभिधारिता अक्ता एव स्युरित्येकः, अनक्ताः स्युरित्यपरः पक्षः । ' तान् साधं पात्र्या समुद्वास्य । अन्वाहार्यं पचनादुल्मुक-मादायादङ परेत्य जुहोत्येषा ह्येतस्य देवस्य दिक् पथि जुहोति पथा हि स देवश्चरति चतुष्पथे जुहोत्येतद्धि वा अस्य जान्धितं प्रज्ञातमवसानं यच्चतुष्पथं तस्माच्चतुष्पथे जुहोति ' ( श ० २२६ | २ | ७ ) । पुरोडाशपात्र्यां सार्धमेव तान् समुद्वास्य अन्वाहार्य पचनादुल्मुकमादायोदङ् परेत्य एतस्य रुद्रस्योत्तरस्यां दिशि यः पन्था विद्यते तत्रोमुल्कं निधाय तस्मिन् पुरोडाशान् जुहुयात् । यतः खलु स रुद्रो देवः पथा मार्गेण हि चरति । पथ्यपि किश्चिद्विशेषं विधत्ते - चतुष्पथे जुहोतीति । चतसृभ्यो दिग्भ्य आगताः पन्थानो यत्र सङ्गच्छन्ते तत्र जुहुयात् । एतद्रुद्रस्य जान्धितं जनैः परिकल्पितं प्रज्ञातमवसानं स्थानं यच्चतुष्पथम् ' वटे वटे वैश्रवणश्चत्वरे चत्वरे शिवः ' इत्यभियुक्तोक्तः । ' पलाशस्य पलाशेन मध्यमेन जुहोति । ब्रह्म वै पलाशस्य पलाशं ब्रह्मणैवैतज्जुहोति स सर्वेषामेवावद्यत्येकस्यैव नावद्यति य एषोऽतिरिक्तो भवति ' ( श ० २२६ २८ ) । तस्मिन् होमे साधनं विधत्ते -पलाशस्येति । पलाशवृक्षस्य पलाशेन मध्यमेन पर्णेन जुहूस्थानीयेन जुहोति । पलाशवृक्षस्य ब्रह्मत्वश्रवणात् पर्णमपि ब्रह्मैव भवति । ' ‘ देवा वै ब्रह्मन्नवदन्त तत्पर्ण उपाशृणोत् ' ( तै ० सं ० ३।५।७।३ ) । यावन्तः पुरोडाशा: कृतास्तत्रैकमतिरिक्तं विहाय सर्वेषामेव सकाशात् तस्मिन् मध्यमपत्रेऽवद्येत । ' स जुहोति । एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहेत्यम्बिका ह वै नामास्य स्वसा तयास्यैष सहभागस्तद्यदस्यैष स्त्रिया सह भागस्तस्मात् त्र्यम्बका नाम तद्या अस्य प्रजा जातास्ता रुद्रियात् प्रमुञ्चति ' भाष्यसार - इस रुद्रसंज्ञक देव को अपने विरोधी को मारने की जब इच्छा होती है, तब वह अपनी भगिनी के द्वारा उस विरोधी का नाश करवा देता है । वह भगिनी अम्बिका शरद् रूप बनकर जरा आदि रोग - व्याधियों को उत्पन्न कर उस विरोधी का नाश कर देती है । उस समय के रुद्रत्व की शान्ति इस हवि से होती है ।

पृष्ठ 239

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 239 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ५७ ] वेदार्थ पारिजातभाष्यसहिता २२ ९ ( श ० २ / ६ / २ / ९ ) । इत्थं सर्वेभ्यः समवत्तस्य हविषः समन्त्रकं होमं विधत्ते - स जुहोतीति । मन्त्रार्थस्तूक्त एव । सह स्वस्राम्बिकयेति मन्त्रभागस्याभिप्रायमाविष्कुर्वन् तेषां हविषां त्र्यम्बकनाम निर्ऋते - अम्बिका हवा इति । ततः तथा सति अस्य रुद्रस्य तया स्त्रिया सह एष भागः कल्पितः । तस्मात् स्त्रीरूपाम्बिकासम्बन्धात् रुद्रस्यैते पुरोडाशा आदिवर्णलोपेन त्र्यम्बका इत्याख्यायन्ते । ' अथ य एष एकोऽतिरिक्तो भवति । तमाखूत्कर उपकिरत्येष ते रुद्र भाग आखुस्ते पशुरिति । तदस्मा आखुमेव पशूनामनुदिशति तेनो इतरान् पशून् न हिनस्ति तद्यदुपकिरति तिर इव वै गर्भस्तिर इवैतद्यदुपकीर्णं तस्माद्वा उपकिरति तद्या एवास्य प्रजा अजातास्ता रुद्रियात् प्रमुञ्चति ' ( श ० २२६ | २ | १० ) । अवदानकाले परिशेषितस्यैकस्य पुरोडाशस्य विनियोगमाह - अथेति । आखुभिः कृते आखूत्करे तमतिरिक्तं पुरोडाशम् उपकिरति उपक्षिपति तेन मन्त्रेण आखुमेवास्मै रुद्राय पशुत्वेन निर्दिशति । तेन कारणेन नृगवाश्वादिपशून् स रुद्रो न हिनस्ति । अतिरिक्तस्यैकस्य यदुपक्षेपणं विहितं तदुप-पादयति - तिर इवेति । तिरोहिता इव हि गर्भा भवन्ति, उत्कीर्णं च द्रव्यमपि तिरोहितं भवति, अतो गर्भस्थाना-मजातानां प्रजानां रुद्रकृत हिंसनविमोचनाय पुरोडाशस्योपकीर्णत्वं युक्तमेव । अध्यात्मपक्षे - हे रुद्र हे परमेश्वर! ' एको हि रुद्रो न द्वितीयाय तस्थुः ' ( श्वे ० उ ० ३।२ ) इति श्रुतेः । एष अपरोक्षः प्रत्यगात्मा ते तव भागो भजनीयोंऽशः, स्वस्रा सौभाग्यवत्या पत्त्याम्बिकया पराशक्त्या तं जुषस्व, त्वद्भोग्यरूपेण समर्पितस्तं जुषस्व सेवस्व । भक्ताः साधकाः स्वात्मानं भगवदुपकरणवल्युपहारादिरूपेण परिकल्पयन्ति, ' अहमन्नमहमन्नम् ' ( तै ० उ ० ३ | १० | ६ ) इति श्रुतेः । हे रुद्र! एष ते भागः, आखुः मूषकः तद्वत्सर्वहरः कालस्ते पशुरुपभोग्यो नियोज्यश्च । आखुर्मूषकश्चोरो रागादिर्वा पशुः, ' तावद्रागादयः स्तेनास्वावत् कारागृहं गृहम् ' ( भा ० पु ० १० । १४ । ३६ ) इति श्रीमद्भागवतवचनात् । श्री दयानन्दरीत्या तु ' हे रुद्र स्तोतस्ते तवैष भागोऽस्ति तं स्वस्राम्बिकया सह जुषस्व । हे रुद्र तवैष भागः स्वाहारित तं सेवस्व । तवैष आखुः पशुश्चास्ति तं जुषस्वेत्येकः, योऽयं रुद्रः प्राणस्तेऽस्य रुद्रस्य योऽयं भागोऽयमम्बिकया स्वस्रा सह जुषस्व सेवते तेऽस्य रुद्रस्यैषोऽयं स्वाहाभागः, तथा यस्तेऽस्याखुः पशुश्चास्ति यमयं सततं सेवते तं सर्वे मनुष्याः सेवन्ताम् इति द्वितीयः । रुद्रपदेन रोदयत्यपकारिणो जनान् स रुद्रः स्तोता प्राणो वा, सुष्ठु अस्यति प्रक्षिपति यया विद्यया क्रियया वा । अम्बते शब्दयति यया सा अम्बिका वेदवाणी तया, शोभनं देयमदेयमाह यया सा स्वाहा । आ समन्तात् खनति दृणाति येन भोजनसाधनेन स आखुः पशुः, यो दृश्यते भोग्यपदार्थसमूहः समक्षे स्थापितः । हिन्द्यां तु हे विद्वन् यस्तवैष भोगयोग्यः पदार्थसमूहोऽस्ति, तं त्वमम्बिकया वेदवाण्या उत्तमविद्यया क्रियया वा सह् जुषस्व । तथा यस्ते भागो धर्मसिद्धोंऽशो वेदवाणी अस्ति तां सेवस्व । यश्च ते खननयोग्यं शस्त्रं वा पशुः भोग्यपदार्थस्तं जुषस्वेति प्रथमः, य एष रुद्रः प्राणोऽस्ति तस्यैष भागो यमम्बिका वाण्या स्वस्रा विद्यया क्रियया वा सह सेवते यस्य सत्यवाणीरूपो भागः, यश्च ते आखुः खनितृपदार्थो दर्शनीयो भोग्यपदार्थस्तं जुषस्व सेवते सर्वे तं सेवेरन् ' इति, तदप्यकिञ्चित्करम्, स्वोतृषु भोगे रोदयितृत्वानुपपत्तेः । सुष्ठु अस्यतीति व्युत्पत्त्या क्रिया विद्या वा कथं बोध्यते? न च भोग्यपदार्थ विद्याकर्मसम्बन्धोऽनिवार्यः । एवमेव स्वाहापश्वादिशब्दार्थोऽपि चिन्त्यः । अध्यात्मपक्ष में- साधक भक्तगण भगवान् और अहर्निश भगवदाराधना में तत्पर रहा करते हैं । उपकरण - बलि आदि के रूप में अपने को समझा करते हैं स्वामी दयानन्द ने जो व्याख्या की है, वह मन्त्राक्षरों वह उपेक्षणीय है । अनुगुण नहीं है । शतपथ, निरुक्त आदि के विरुद्ध होने से

पृष्ठ 240

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 240 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३० शुक्लयजुर्वेदसंहिता [ अ ० ३ निरुक्तं तु – ' रुद्रो रौतीति सतो रोरूयमाणो द्रवतीति वा रोदयतेर्वा यदरुदत्तद्रस्य रुद्रत्वमिति काठकम् । यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति हारिद्रविकम् ' ( नि ० १० ५ ) इति । रुद्रः कस्मात्? रौतीति सतः । स हि स्तनयित्नुशब्दं करोति, रोरूयमाणो द्रवतीति वा । शब्दं कुर्वाणो मेघोदरस्थो द्रवतीति । रोदय शत्रूनसौ रोदयति दुःखयति । ब्राह्मणमपि च भवति - ' यदरुदत्तद्रुद्रस्य रुद्रत्वमिति काठकम् ' । ऐतिहासिकैस्त-त्सङ्गच्छते । स किल पितरं प्रजापतिमिषुणा विध्यन्तमनुशोचन्नरुदत्तद्रस्य रुद्रत्वं यदरोदीदिति हारिद्रविकम् ' इति दुर्गाचार्यः । नहि स्तोतृष्वयमर्थः सङ्गच्छते न वा प्राणे सम्भवति, रोदनादेः शरीरिधर्मत्वात् पूर्वोक्तशतपथविरोधाच्च । यच्च - ' सुभद्राहरणानन्तरं बलरामोऽर्जुनाय कथयति - हे रुद्र! शत्रुरोदक, महाभारतसारानुसारेण रुद्रावतार वा एष ते भागो भजनीयो वरवधूपहरणलक्षणः, तं मयोपहृतं स्वस्रा मम पितृभगिन्या कुन्त्या सत पुनरुक्तिरादरार्था । पशुरनागत ( दूर ) दर्शी मानुषः, बुद्धिरिति यावत् ते तव आखुः मूषक इव धरायामाखननेन यथार्थतत्त्वे अन्तः प्रविशति । सत्तर्कादिना मीमांसैवात्र खननम् ' इति, तदेतन्न मनोज्ञम्, तादृशाध्याहारादीनां निर्मूलत्वात् ॥ ५७ ॥

अव॑ रुद्र मंदीम॒ह्याव॑ दे॒व त्र्य॑स्व॒कम् । यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ न॒ः श्रेय॑स॒स्कर नो व्यवसा॒यया॑त् ॥ ५८ ॥

द्वे रौद्रयौ पङ्क्तिककुभौ । बन्धोरार्षम् । यस्य द्वितीय: पादो द्वादशाक्षरः प्रथमतृतीयावष्टाक्षरों सा ककुप् । द्वयोरपि जपे विनियोगः । ' आगम्यावरुद्र मदीमहीति जपन्ति ' ( का ० श्र ० ५।१०।१२ ) । ' अथ पुनरेत्य जपन्ति । अव रुद्र इत्याशी रेवैषैतस्य कर्मणः ' ( श ० २२६ । २ । ११ ) | अथ तदनन्तरं चतुष्पथादग्निसमीपमागत्य अवरुद्र भेषजमिति च मन्त्रौ सर्वे जपेयुः । मन्त्रार्थस्तु - अवादीमहि अवदीयामहै हविर्भागेन रुद्रमयुत्य पृथक्-कृत्य प्रजा रक्षामहै दुःखानि नाशयामः । ' दीङ् क्षये, दीङ् रक्षणे ' लोटि ' बहुलं छन्दसि ' ( पा ० सू ० २।३।६२ ) शब्लुकि ' घुमास्था ' ( पा ० सू ० ६/४/६६ ) इतीत्वम् । देवं देवनशीलं त्र्यम्बकं स्त्रियाम्बिकया सहितम् अवादीमहि । स च रुद्रो यथा येन प्रकारेण नो अस्मान् वस्यसो वसीयसो वसुमत्तमान् करत् कुर्यात् नो यथा श्रेयसः प्रशस्यतरान् करत् कुर्यात्, यथा नो व्यवसाययाद् व्यवस्येत व्यवसितार्थान् करत् कुर्यात्, तथा अवादी-महीति । यद्वा - रुद्रं रागादिद्रावकं देवमसौ रुद्र इति मनसावगम्य अवादीमहि । यथा त्वदनुग्रहादन्नं भक्षयेम तथा त्र्यम्बकं त्रीणि अम्बकानि नेत्राणि यस्य तं तादृशं देवमवगम्य त्रिनेत्रोऽयमिति मनसावगम्य अवादीमही-त्यनुवर्तते, यथा नोऽस्मान् वस्यसः वसुमत्तमान् करत् कुर्यात् यथा नः श्रेयसः प्रशस्यतरान् कुर्यात्, यथा येन किसी ने इस मन्त्र को बलराम - अर्जुन संवादपरक लगाया है । वह भी उचित नहीं है, क्योंकि जो अध्याहार आदि किये हैं, वे सब निर्मूल हैं ॥ ५७ ॥

मन्त्रार्थ -- चित्त में रुद्र का और त्र्यम्बक का ध्यान करके अथवा अन्य देवताओं से पृथक करके हम रुद्र को अन्न खिलाते हैं । वह रुद्र हमें निवसनशील और ज्ञाति में श्रेष्ठ कर दे । तथा वह हमें समस्त कार्यों में शीघ्र निर्णय लेने को शक्ति प्रदान करे, एतदर्थं हम उसका जप करते हैं । ' अव रुद्र मदीमहि ' इत्यादि दो मन्त्रों का जप करे ॥ ५८ ॥

भाष्यसार -- वह रुद्र हमें धन -पुत्र - धर्म - दीप्ति को यथेष्ट दे । हम अच्छी तरह से अपने पर में रह सकें, ऐसा गृह, सुन्दर यश - प्रतिष्ठा और निर्णायक शक्ति हमें वह प्रदान करे । यह प्रार्थना की गई है ।