वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 41–50

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 41–50

पृष्ठ 41

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 41 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ८ ] वेदार्थ पारिजातमाष्य सहिता ३१ ' ईश्वर उपदिशति येन पूर्वोक्तेन यज्ञेनान्नजले शुद्धे पुष्कले भवतस्तदेतस्य सिद्धयर्थं मनुष्यः पुष्कलाः सम्भाराः सदा चेतव्याः । नैव मम व्यापकस्याज्ञामुल्लङ्घ्य वर्तितव्यम्, किन्तु बहुसुखप्रापकं मदाश्रयं गृहीत्वा अग्नौ यो यज्ञः क्रियते, यमिन्द्रः स्वकीयः किरणैश्छित्वा वायुना सहोर्ध्वमाकृष्योध्वं मेघमण्डले स्थापयति, पुनस्तस्माद् भूमि प्रति निपातयति, येन भूमौ महद्वीयं जायते स सदानुष्ठातव्यः ' ( पृ ० १६० ) इति भावार्थोऽपि तदीयो मूलाक्षरासम्बद्ध एव, प्रकृतिप्रत्ययलिङ्गविभक्तिव्यक्तार्थंविरुद्धश्च । ' स स्रुचोत्तरमाघारमाघारयिष्यन पूर्वेण सुचावञ्जलिं निदधाति नमो देवेभ्यः स्वधा पितृभ्य इति । तद्देवेभ्यश्चैवैतत् पितृभ्यश्चात्विज्यं करिष्यन् निह्नुते सुयमे मे भूयास्तमिति चुचावादत्ते सुभरे मे नूयास्तम् । भतुं त्वा शकेयमित्येवैतदाहास्कन्नमद्य देवेभ्यः आज्य सम्भ्रियासमित्यविक्षुब्धमद्य देवेभ्य: ' ( श ० १ ४/५ | १ ) । स्रुच्याधारस्य प्रयोगः प्रतिपाद्यते । जुहूपभृतो: पूर्वभागेऽञ्जलिं निदधाति । समन्त्रकस्याञ्जलिनिधानस्य प्रयोजनमाह - तद्देवेभ्य इति । आत्विज्यं करिष्यन् तदतिक्रमजनितमपराधं तन्नमस्कारेण निहृते शमयति । समन्त्रकं जुहूपभृतोरादानं विधत्ते - सुयमे इति । मन्त्रभागस्य विवक्षितमर्थमाह – सुभरे इति । सुष्ठुमनु नियन्तुं भतुं शक्ये हे जुहूपभृती! युवामोदृश्यो सुभरे भूयास्तम् । भतुं शकेयमिति तात्पर्यम् । मन्त्रस्य द्वितीयभागमनूद्य व्याचष्टे – अस्कन्नमद्येति । यज्जुहूपभृतोः स्थितमाज्यं तद् अस्कन्नं यथा भवति तथा सम्भ्रियासं संभतुं शक्तो भूयासमित्यर्थः | अविक्षुब्धमिति । आज्यस्य स्कन्दने हि यजस्य विक्षोभः स्यात् । स च मा भूदिति प्रार्थ्यते । ' अङ्घ्रिणा विष्णो मा त्वावक्रमिषमिति । यज्ञो वै विष्णुस्तस्मा एवैतन्निते मा त्वावक्रमिषमिति वसुमतीने ते छायामुपस्थेषमिति साध्वीमग्ने ते छायामुपस्थेषमित्येवैतदाह ' ( श ० १।४।५।२ ) । लिङ्गादेवाति-क्रमणे विनियोगः सिद्ध इत्यभिप्रेत्य केवलं मन्त्रमनूद्य व्याचष्टे - अङ्घ्रिगेति | हवीरूपेण वेद्यामवस्थितो यज्ञोऽत्र विष्णुशब्देन विवक्षितः । दक्षिणातिक्रमवेलायां तस्यातिक्रमशङ्का मा भूदिति तदभावः प्रार्थ्यते । हे विष्ण हवीरूप यज्ञ! त्वा त्वां मावक्रमिषम् अवज्ञया त्वां नावक्रमामि अपि तु होमार्थम् । तत्रापराधो यथा न भवति तथैव सञ्चरदेशे नातिक्रमामीत्यर्थः । एतल्लिङ्गकल्पितमेव विनियोगं कात्यायन आह - ' दक्षिणातिक्रामत्यङ्घ्रिणा विष्णाविति ' ( का ० श्री ० ३ | १ | १६ ) । स्रुग्व्याघारहोमार्थं यद्दक्षिणतोऽवस्थानं तदपि मन्त्रलिङ्ग सिद्ध-मित्यभिप्रेत्य तं मन्त्रमनूद्य व्याचष्टे वसुमतीमिति । वसुमतीं प्रशस्त बहुधनवतीं वासयोग्यां साध्वीं त्वदीयां छायां हे अग्ने! उपस्थेषम् उपेत्य तिष्ठेयम् । ' विष्णोः स्थानमसीति । यज्ञो वै विष्णुस्तस्येव ह्येतदन्तिकं तिष्ठति तस्मादाह विष्णोः स्थानमसीतीत इन्द्रो वोर्यमक्रुणोदित्य तो होन्द्रस्तिष्ठन् दक्षिणतो नाष्ट्रा रक्षास्यपाहंस्तस्मादात इन्द्रो वीर्यमकृणोदित्यूर्ध्वोऽध्वर आस्थादित्यवरो वै यज्ञ ऊर्ध्वो यज्ञ आस्थादित्येवैतदाह ' ( श ० १।४।५।३ ) । प्रकृतमन्त्रेनाङ्घ्रिपदेन गमनागमनसाधनोऽग्निरभिप्रेतः, किन्तु हे विष्णो हवीरूपेणावस्थित-स्वामी दयानन्दजी ने इस मन्त्र की जो व्याख्या को है, वह प्रमाणरहित है तथा व्यत्ययादि दोषों से दूषित है । ' देवेभ्यः ' इत्यादि के अर्थ में कोई प्रमाण नहीं है । इसी प्रकार प्रकृति - प्रत्यय - लिङ्ग - विभक्तिव्यत्यय आदि अप्रामाणिक रहने से विरुद्ध अर्थ का ही प्रतिपादन कर दिया है । शतपथब्राह्मण के अनुसार जो यज्ञप्रक्रिया है, उसे ऊपर भाष्य में बताया है, वहीं से अवगत कर लेना चाहिये । इसी प्रक्रिया का अवलम्वन काण्वश्रुति, तैत्तिरीयश्रुति, श्रीतसूत्र आदि ने किया है । तदनुसार ही सायण, महीधर, उव्वटादि आचार्यों ने व्याख्याएं की हैं । हमने भी उन्हीं आचार्यों के प्रदर्शित तथा श्रुति सूत्रप्रदर्शित मार्ग का ही अनुसरण किया है ।

पृष्ठ 42

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 42 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२ शुक्ल यजुर्वेद संहिता [ अध्यायः २ यज्ञपुरुष! त्वामङ्घ्रिणा पादेन मावक्रमिषं मावक्रमणं कार्षम् । पादेनातिक्रमणदोषो मे माभूदित्यर्थः । काण्वश्रुतिरपि परिधीनां तथैवाह - ' यज्ञो वै विष्णुस्तमेतदतिक्रमिष्यन् प्रभवति तस्मा एवैतन्निहृते मा त्वावक्रमिषम् ' इति ॥ दक्षिणेन पश्चिमभागः सञ्चारदेशस्ततो होमायोद्युक्तस्य सव्येन पादेनेतः परिघेः पश्चिमदिश्यवस्थानम् समीपवर्तिनी पादेनामुतः पूर्वस्यां दिश्यवस्थानमित्यर्थः । हे अग्ने! तव छायां वसुमतीं यथा पुरुषस्य छाया हे वसुमति तद्वत्तव समीपवर्तिनीं भूमिमुपतिष्ठेयं सेवेय । स एव सेवाप्रकारः स्पष्टीक्रियते - विष्णोः स्थानमसि भूमेर्यज्ञस्थानत्वं त्वं यज्ञस्य स्थानमसि, अत्र स्थित्वा यागः कर्तुं शक्यत इत्यर्थः । आहवनीयसमीपवर्तित्वादस्या वा एतदन्तिकं युक्तम् । तेनात्र वसुमती पृथिवी एव समीपवर्तित्वेन छायोच्यते । उपचारेण यज्ञो वै विष्णुर्यज्ञस्य पराजयरहितः । तिष्ठतीति तस्मादाह विष्णोः स्थानमसीति काण्वश्रुतेः । देवानां पराजयेऽपि यज्ञप्रदेशः । देवानामेवापराजित अत एवाह तित्तिरिः - ' यज्ञो वै विष्णुः । एतत्खलु वै देवानामपराजितमायतनं यद्यज्ञः आयतने तिष्ठति ' ( तै ० ब्रा ० ३ ३ ७ ७ ) । तथाविधादितोऽस्माद् देवयजनस्थानात् स्वकीयभुजबलोपार्जिताद् युद्धार्थमुद्यत इन्द्रो वीर्यमकृणोत् । वीरस्य कर्म शत्रुघातमकरोत् । इन्द्रेण वीर्ये कृते शत्रुप्रयुक्तविघ्नाभावात् अध्वरो यज्ञ ऊर्ध्वं आस्थाद् उन्नतावस्थः सञ्जातः । अध्यात्मपक्षेऽपि -- हे अग्ने विष्णो! त्वदंशेभ्यो देवेभ्य उपकाराय अद्यास्मिन् दिने अस्कन्नं विच्युति -रहितमाज्यं दिव्यं हविः सम्भ्रियासं संबिभ्रियाम् । हे विष्णो! अङ्घ्रिणा त्वा सर्वात्मभूतं त्वां मावक्रमिषम् -' भूमी स्खलितपादानां भूमिरेवावलम्बनम् । त्वयि जातापराधानां त्वमेव शरणं प्रभो भूमिं ॥ ' वसुमतीं त्वदीयां प्रभूत हिरण्यरत्नादिमती पादच्छायामुपस्थेयम् । यद्वा पद्भ्यां भूमिरित्यनुसारेण वसुमतीं यज्ञस्य वा स्थानमसि, छायामाश्रयमुपस्थेयं सेवेय । हे वसुमति! त्वं विष्णोर्व्यापनशीलस्य परमेश्वरस्य एव विष्णोर्यज्ञबले-तत्रैव यज्ञसम्पत्तेः । अन्येषां तु तत्र स्वत्वाभिमानमात्रम् । इन्द्रो महेन्द्र इत यज्ञ ऊर्ध्वं नाप्यायितो वृत्रादीन् जेतुं वीर्यं पराक्रममकरोत् । त्वत्स्थानत्वादेवात्राध्वरो भगवदाराधनलक्षणो उन्नावस्थो जातः ॥ ८ ॥

अध्यात्म पक्ष में मन्त्र का अर्थ यह है-J हवि को मैं हे अग्ने विष्णो! तुम्हारे अंशभूत देवताओं के उपकारार्थ आज विच्युतिरहित अपराधी आज्यरूप में न बन पाऊँ दिव्य । क्योंकि -सम्हाल कर धारण कर सकूं । हे विष्णो! मेरे पादस्पर्श से सर्वात्मभूत तुम्हारा भूम

स्खलितपादानां भूमिरेवावलम्बनम् ।

त्वयि जातापराधानां त्वमेव शरणं प्रभो ॥

अर्थात् भूमि पर पैर फिसले हुए लोगों का अवलम्ब ( आधार = सहारा ) भूमि ही होती है । अत: तुम्हारे पर प्रति मुझे अपराध किये हुए अपराधियों के शरण ( रक्षक ) हे प्रभो! तुम ही रहोगे । अतः मुझसे अपराध बन पैर जाने की छाया क्षमा करना, मेरी रक्षा करना । यह पृथ्वी जो हिरण्य - रत्न आदि से भरी पड़ी है, वह तो तुम्हारी यज्ञ की मूमि हो, है । तुम्हारे पैरों की छाया का आश्रय ले पाऊँ । हे वसुमति! तुम व्यापनशील विष्णु की अथवा मात्र है । इन्द्र ने इसी तुम पर ही यज्ञसम्पत्ति विद्यमान है । तुमसे अन्य जो लोग हैं, उनका तो केवल स्वामित्व । तुम्हारे कारण ही विष्णुस्थान से, अर्थात् यज्ञबल से परिपुष्ट होकर वृत्रादि असुरों को जीतने का पराक्रम किया था भगवदाराधनलक्षण यज्ञ उन्नत अवस्था को प्राप्त हो पाया है ॥ ८ ॥

पृष्ठ 43

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 43 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्र: ९ ] वेदार्थ पारिजात भाष्य सहिता ३३ अग्ने॒ वेर्होत्रं वेदु॑त्य॒मव॑तां॒ त्वां द्यावा॑पृथि॒वी अव॒ त्वं द्यावा॑पृथि॒वी स्वष्टा॒कृद्दे॒वेभ्य॒ इन्द्र॒ आज्येन हविषा॑ भू॒त्स्वाहा संज्योति॑षा॒ ज्योति॑ः ॥ ९ ॥

यस्मादध्वरो निर्विघ्नोऽवसितस्तस्माद् हे अग्ने! त्वं होतुः कर्म विद्धि जानीहि । वेरिति ' विद् ज्ञाने ' धातोर्लङि अडभावे रूपम् । तथा दूत्यं दूतसम्बन्धि कर्म विद्धि । मया होत्रं कर्तव्यं दूत्यं कर्म च कर्तव्य-मित्यवगतार्थो भवेत्यर्थः । होतृदूतत्वयोरग्निसम्बन्धित्वं दर्शयति कण्वोऽपि - ' अग्ने वेर्होत्रं वेर्दूत्यमित्युभयं ह वा एतदग्निर्देवानां होता ततश्च । उभयं वा एतदग्निर्देवाना होता दूतचेति ' ( का ० श ० १ | ४ | ५ | ४ ) इति श्रुतेः । त्वां द्यावापृथिवी अवतां पालयताम् । हे अग्ने! त्वमपि द्यावापृथिवी लोकद्वयदेवते अव पालय । इत्यन्योन्यपालने सति इन्द्र आज्येन हविषाऽस्माभिर्दत्तेन देवेभ्यो देवार्थं स्विष्टकृद् भूत् सुष्ठु इदं करोतीति स्विष्टकृद् भवतु । यद्यदस्माभिरिज्यते तत्तदिष्टं वैकल्यरहितं करोतु । स्वाहा सुष्ठु हुतमस्तु | देवेभ्योऽन्येभ्यः सकाशात् प्रथमं इन्द्र आज्येनेति ' अज गतिभक्षणयो: ' अजनेन हविषा हवनेन भूद् भूयात् । इन्द्रं देवमुद्दिश्य आज्यं दत्तमस्त्विर्थः । देवोद्देश्येन दाने स्वाहेति निपात्यते । ' जुह्वा ध्रुवां समनक्ति संज्योतिषेति ' ( का ० श्रौ ३।२।२ ) । आघारानन्तरं जुहूपभृतोः परस्परं स्पर्शमकुर्वन्नेव यजतिस्थानाद् वेदेः पश्चादागत्य जुहूस्थेनाज्येन ध्रुवास्थमाज्यं जुह्वैव समञ्ज्यात् । ध्रौव्याज्यमध्ये जुह्वाज्यबिन्दुं सम्पातयेत् । सङ्गच्छतामित्यध्याहारः । तथा च ध्रुवास्थिताज्यरूपज्योतिषा सह ज्योतिर्जुह्वा सिच्यमानं ज्योतिः सङ्गच्छताम् । आधारशेषाज्यस्य ध्रौवाज्यस्य च संगमनम् । तथा च तैत्तिरीये - ' शिरो वा एतद्यज्ञस्य यदाघार आत्मा ध्रुवा आघारमाघार्य ध्रुवा समनक्त्यात्मन्नेव यज्ञस्य शिरः प्रतिदधाति । ( तै ० सं ० २२५ । ११।२४ ) इति । अपरस्तु – ' हे अग्ने राजन्! अग्निर्यथा यज्ञं सम्पादयति तथैव होत्रं राष्ट्रसुव्यवस्थां कृत्वा संग्राहकं कर्म दूत्यं सन्धिविग्रहादिलक्षणं वा कर्म वेः रक्ष । द्यावापृथिव्यौ यथा ब्रह्माण्डीयं महायज्ञं रक्षतस्तथैव द्यौः प्रकाश-वत्त्वेन न्यायविभागः पृथ्वी महती राजसभा उभे अपि त्वामवतां त्वमपि ते रक्ष । त्वं देवानां विदुषां हिताय स्विष्टकृद् उत्तमकार्यकरो भव । यथैवाज्येन पुष्टिकारकेण हविषा इन्द्रो वायुरधिकमुपकारको भवति, तथैव बलकरेण हविषान्नेन शस्त्रादिसामग्र्या च इन्द्रो राजा समर्थो भवति । स्वाहा देववाणी इत्युपदिशति । ज्योतिः सुवर्णादि-कान्तिमद्बलैश्वर्योपेताः पदार्थास्तेजस्विना राज्ञा सङ्गता भवेयुः ' इति, तदपि न शोभनम्, मुख्यार्थं परित्यज्य गौणार्थग्रहणे बीजानुक्तेः । होत्रशब्देन राष्ट्रसुव्यवस्था कथं बोध्यते? स्वाहाशब्दे सु + आह इत्यर्थंकरणे हकारे कथं दैर्घ्यम्? इत्यप्रतिपादनान्निष्प्रमाणकोऽयमर्थः । पूर्वोक्तस्तु कात्यायनश्रौतसूत्रादिसमर्थितो ब्राह्मणादि -समर्थितश्च । अत एव सोऽर्थ एव शोभनः, स एव च ग्राह्यः । मन्त्रार्थ - हे अग्ने! तुम होता का और दूत का कर्तव्य जान लो । तुम जैसे सुज्ञ का द्यावापृथिवी पालन करे । हे अग्ने! तुम भी द्यावा - पृथिवी का पालन करो । इस रीति से परस्पर के द्वारा परस्पर का पालन किये जाने पर इन्द्र आज्यहवि देकर देवताओं का याग करे । अर्थात् हम लोग जो यज्ञ करते हैं, उन सबको इन्द्र पूर्ण करे । इन्द्र को दिया हुआ यह हवि सुहुत हो । ध्रुवा पात्र में स्थित और जुहू पात्र में स्थित घृतरूपी ज्योति एकत्रित हों । जुहू पात्र के और ध्रुवा पात्र के घृत को ' संज्योतिषा ' मन्त्र से एकत्रित करे ॥ ९ ॥

भाष्यसार-- - ' हो ' का अर्थ है होता का कर्म । ' होतृत्व ' और ' दूतत्व ' ये दोनों कर्म ' अग्नि ' के हैं । ' अग्नि ' ' द्यावापृथिवी ' का और द्यावापृथिवी ' अग्नि ' का परस्पर एक दूसरे का पालन करने पर हमारे द्वारा दिये गये ५

पृष्ठ 44

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 44 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४ शुक्लयजुर्वेदसंहिता [ अध्यायः २ अत्र दयानन्दः - ' हे अग्ने परमेश्वर भौतिकाग्ने वा! ये द्यावापृथिवी अस्मत्प्राप्ते न्यायप्रकाशपृथिवी-राज्ये त्वा तं यज्ञमवतां रक्षतः यथायमग्निहोत्रं दूत्यं च कर्म वा प्राप्तो द्यावापृथिवी रक्षति, तथा हे भगवन्! देवेभ्यो विद्वद्भयो दिव्यसुखेभ्यो वा स्विष्टकृत् शोभनमिष्टं करोति सः । त्वमस्मान् वेः विद्धि वेदयति प्रापयति वा पालय । यथायमाज्येन हविषा ज्योतिषा सह ज्योतिः स्विष्टकृदिन्द्रो द्यावापृथिव्यो रक्षकोऽभूद् भवति, तथा त्वं विज्ञानज्योतिः प्रदानेन अस्मान् समवेति स्वाहा । हे अग्ने परमेश्वर! ये द्यावापृथिव्यो न्यायप्रकाशपृथिवी -राज्यरूपे त्वा तं यज्ञमवतां रक्षतः, ते त्वं वेः विद्धि पालय । यथायं भौतिकोऽग्निर्होत्रं यज्ञं दूतकर्म च प्राप्य द्यावापृथिव्यो प्रकाशमयं सूर्यलोकं पृथिवीं च रक्षति, तथैव देवेभ्यो विद्वद्भयः स्विष्टकृत् तदिच्छानुसारेण शोभनकर्मकृद् अस्मान् वेः रक्ष । यथा आज्येन यज्ञनिमित्तमग्नौ त्यक्तुं योग्येन घृताद्युत्तमोत्तमपदार्थेन हविषा सम्यक् शोधितेन होमयोग्य कस्तूरीकेसरादिपदार्थेन च ज्योतिषा प्रकाशयुक्तैर्लोकः सह प्रकाशमयः किरणैरुत्तमो-त्तमकर्मकृत् सूर्यलोकप्रकाशं पृथिवीं च रक्षति, तथैव विज्ञानस्वरूपज्योतिर्दानेन अस्मान् समव सम्यग् रक्ष । इदं कर्म स्वाहा वेदवाणी प्राह । ईश्वरो मनुष्येभ्यो वेदेषूपदिष्टवानस्ति मनुष्यैर्यद्यदग्निपृथिवी सूर्यं वाय्वादिभ्यः पदार्थेभ्यो होत्रं दूत्यं च कर्म निमित्तं विदित्वानुष्ठीयते, तत्तदिष्टकारि भवति ' ( पृ ० १६१ - १६२ ) इति, तत्सर्वं वेदबाह्यं नियुक्तिकं च, अग्निवाय्वादिभ्यो होत्रं दृत्यं च किं भवति? तदनुष्ठानं च कथमिष्टकारीत्य-निरूपणात् । एवं द्यावापृथिव्यो यज्ञं रक्षत इत्यपि निर्मूलम्, शतपथविरुद्धं चैतत् । तत्र हि - ' अग्नेर्वेर्होत्रं वेर्दूत्यमिति । उभयं वा एतदग्निर्देवाना होता च दूतश्च । तदुभयं विद्धि यद्देवानामसीत्येवैतदाहावतां त्वां द्यावापृथिवी अव त्वं द्यावापृथिवी इति नात्र तिरोहितमिवास्ति । स्विष्टकृद्देवेभ्य इन्द्र आज्येन हविषा भूत् स्वाहेतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्र आज्येनेति । वाचे वा एतमाघारमाघारयतीन्द्रो व्याचष्टे - उभयं वा इति वागित्यु वा आहुस्तस्माद् द्वे वाहेन्द्र आज्येनेति ' ( श ० १ | ४ | ५ | ४ ) । अग्नेर्वेरित्यनूद्य अग्नेर्होत्रं होतृकर्म दृत्यं दूतकर्म च वेः बुध्यस्व । अग्निर्वे देवानां होता अग्नि दूतं वृणीमहे इत्यादिभिरग्नेस्तद्द्द्वयं ३।४।६ ), प्रसिद्धम् । ' विद् ज्ञाने ' ( अ ० प ० ५४ ) इत्यस्माच्छान्दसो लङ् ' छन्दसि लुङ्लङ लिट: ' ( पा ० सू ० दूतत्वं ' दश्च ' ( पा ० सू ० ८३२ ७५ ) इति दकारस्य रुत्वे वेरिति रूपम् । उभयं वा देवानामर्थेऽग्निर्होतृत्वं ' इष्ट ' हवि ( आय ) देवताओं के लिये स्विष्टकृत हों, अर्थात् जो हमारे द्वारा यजन किया जाता है, वह समस्त गया है । वैकल्य रहित हो । स्वाहा का अर्थ ' सुहुत ' रहे । इन्द्र देवता को उद्देश्य करके यह आज्य प्रदत्त ज्योतिः किया ' का अर्थ यह स्वाहा इस निपात का प्रयोग देवता को उद्देश्य कर ' दान ' देने में किया जाता है । ' संज्योतिषा ) ' संगच्छताम् ' है कि ध्रुवा स्थित आज्यरूप ज्योति के साथ जुहूपात्र के द्वारा आसिच्यमान ज्योति ( आज्य एकत्रित हो जाय । किसी व्याख्याकार ने मन्त्रगत शब्दों के मुख्यार्थं को छोड़कर गौण अर्थ को स्वीकार करके व्याख्या उचित नहीं की है है कि गौणार्थ वाली व्याख्या ऊपर भाष्य में प्रदर्शित की गई है । यह गोण अर्थ वालो व्याख्या इसलिये मुख्यार्थ को त्याग कर गौणार्थ का स्वीकार करने में कोई प्रमाण नहीं है । ' होत्र ' शब्द का अर्थ ' राष्ट्र में सुव्यवस्था ' यह किस आधार पर किया? ' स्वाहा ' शब्द का अर्थ ' सु + आह ' इस प्रकार सन्धिविच्छेद करके किया ' शब्द है, | किन्तु अतः ' सु + आह ' में ' स्वाह ' सन्धि तो हो सकती है, परन्तु मूलमन्त्र में तो ' स्वाहा ' शब्द है, न कि ' स्वाह से समर्पित यह अप्रामाणिक व्याख्या है । वेदमन्त्र की व्याख्या तो सर्वदा और सर्वथा श्रौतसूत्र, ब्राह्मण, प्रातिशाख्य आदि हुआ करती है । किन्तु इस बात पर ध्यान नहीं दिया गया है ।

पृष्ठ 45

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 45 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ९ ] वेदार्थपारिजातभाष्य सहिता ३५ चाङ्गीकृतवान् । अवतां त्वां द्यावापृथिवी रक्षतः । त्वं च द्यावापृथिवी अव । देवेभ्यो देवानामर्थे सोऽग्निः स्विष्टकृत् शोभनस्य यागस्य कर्ता । हे अग्ने! त्वं यस्मादेवं भवसि तस्मादनेनाज्येन हविषा आहुतेन इन्द्र: सङ्गतो भूत् भवतु । स्वाहा स्वाहुतमिदमाज्यमस्त्विति मन्त्रवाक्यार्थः । ननु ' मनसे चैव वाचे च ' ( श ० १ | ४ | ४ | १ ) इति द्वितीयाघारस्य वाग्देवतार्थत्वं प्रागाम्नातमिति कथमिन्द्रो देवतेत्याशङ्कय तयोस्तादात्म्यमाह - इन्द्रो वागित्यु वा आहुः । इन्द्रेण व्याकृतत्वात् तत्तादात्म्यम् । तथा च तैत्तिरीयके – ' इमां नो वाचं व्याकुरु ' इत्युपक्रम्याम्नातम् ' तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत् ' ( तै ० सं ० ६।४।७।४ ) । तस्माद्वेव वाच इन्द्रस्य च भेदाभावात् । अर्थाद् हे अग्ने! त्वं होत्रं दृत्यं च बुध्यस्व, यत उभयं वा एतदग्निर्देवानां होता च दूतश्चासि । इत्युभयं विद्धि । तादृशं त्वां द्यावापृथिवी अवतां रक्षतः । त्वं च ते द्यावापृथिवी अव रक्ष । स्पष्ट एवात्र मन्त्रार्थः, नात्र तिरोहितमिव किञ्चित् । देवेभ्यो देवानामर्थे शोभनस्य यागस्य कर्ता स्विष्टकृत् हे अग्ने! त्वं यस्मादेवं भवसि तस्मादाज्येन आहुतेन हविषा इन्द्रः संगतो भूत् भवति । इन्द्रायेदं हविरस्त्वित्यर्थः । कुतः? इन्द्रो वै प्रकृतस्य द्वितीयाघारयज्ञस्य देवतासम्प्रदानम् । यद्यपि मनसे वाचे इति वाग्देवतवाभाति, तथापि वाचो व्याकर्तृत्वेनेन्द्रस्य तस्याश्चाभेदादिन्द्रो देवता भवत्येव । ' अथासस्पर्शयन् स्रुचौ पर्येत्य ध्रुवया समनक्ति शिरो वै यज्ञस्योत्तर आघार आत्मा वै ध्रुवा तदात्मन्येवैतच्छिरः प्रतिदधाति । शिरो वै यज्ञस्य उत्तर आघारः श्रीर्वे शिरः श्रीहि वै शिरस्तस्याद्योऽर्धस्य श्रेष्ठो भवत्यसावमुष्यार्धस्य शिर इत्याहु: ' ( श ० १२४ | ५ | ५ ) | होमानन्तरं प्रत्याक्रम्य ध्रुवासमञ्जनं विधत्ते ---अथेति । ध्रुवया समनक्ति । तदेतत् समञ्जनं प्रशंसति - शिरो वा इति । उत्तराघारस्य यज्ञशिरस्त्वं प्रशंसति श्रीर्वा इति । ' आसीनस्तमाघारयति यो मूलं यज्ञस्य निषण्णमिव हीदं मूलं तिष्ठस्तमाघारयति यः शिरो यज्ञस्य तिष्ठतीव हीदं शिरः । ' ( श ० १ | ४ | ४ | १२ ) । प्राग्विहितयोरासीनस्थितयोर्मूलशिरस्त्वोपजीवनेन प्रशंसा क्रियते यो मूलमिति । इदं वृक्षादिमूलं निषण्णमिव एकत्रोपविष्टमिव भवति, खातत्वेन चाञ्चल्याभावात् । अतो मूलभूतस्याघारस्यासनसम्बन्धो युक्तः । हि यतो मनुष्यादीनां शिरस्तिष्ठतीव अस्तीति स्थितिक्रिया -विशिष्टमिवोर्ध्वमिव दृश्यते । अतः शिरः संस्तुतस्याधारस्य तिष्ठता कर्त्रा निष्पादनं युक्तमित्यर्थः । शिरो वं यज्ञस्योत्तर आघार आत्मा वै ध्रुवः, ध्रुवास्थस्याज्यस्य सर्वयज्ञसाधारण्यात् । यज्ञस्य मध्यदेह एव ध्रुवा, आघारशेषस्य तस्यां समञ्जनात् । शिर एव तस्मिन् प्रतिदधाति । यज्ञशिरस्त्वमुपजीव्य श्रीरूपत्वेनाघारं प्रशंसति - शिरो वा यज्ञस्योत्तर आधार इति । शिरसः श्रीत्वमुपपाद्यते । श्रीहि वै शिर इति प्रसिद्धिरेव । तस्मादर्धस्य देशभागस्य ग्रामादेर्यः श्रेष्ठो भवति, अमुष्य ग्रामादेरसी देवदत्तादिः शिर इति लौकिकाः कथयन्ति । अनः शिरसः श्रीरूपत्वम् । ' यजमान एव ध्रुवामनु योऽस्मा अरातीयति स उपभृतमनु स यद्धोपभृता समञ्ज्याद् यो यजमानायारातीयति तस्मिञ्छ्रियं दध्यात्तद्यजमान एवैतच्छ्रियं दधाति तस्माद् ध्रुवा समनक्ति ' ( श ० १ | ४ | ५ | ६ ) | यजमान एव ध्रुवामनु ' कर्मप्रवचनीययुक्ते द्वितीया ' ( पा ० सू ० २२३३८ ) इवि उक्त मन्त्र की व्याख्या स्वामी दयानन्द ने भी अपनी मन - मानी पद्धति से ही की है । इन्होंने अपनी व्याख्या में ' aran - पृथिवी ' को यज्ञ का रक्षक बताया है । ' मनुष्य जो कुछ अग्नि, वायु, सूर्य आदि पदार्थों से होत्र और दूत्य कर्म का निमित्त जानकर करता है, वह सब इष्टकारी होता है । ' यह कहा है । किन्तु वह सब वेदबाह्य और युक्तिरहित है । शतपथ और श्रौतसूत्रादि के अनुकूल प्रामाणिक अर्थ ऊपर भाष्य में दिया गया है ।

पृष्ठ 46

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 46 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६ शुक्ल यजुर्वेदसंहिता [ अ ० २ द्वितीया । ध्रुवाभागो यजमानोऽतोऽस्मं योऽरातीयति शत्रुवदाचरति स उपभृद्भागः । उपभृता इति द्वितीयार्थे ' व्यत्ययो बहुलम् ' ( पा ० सू ० ३ | १:८५ ) इति तृतीया । यद्ध उपभृतं समञ्ज्याद् यो यजमानायारातीयति तस्मिञ्छ्रियं दध्यात् तद्यजमान एव श्रियं दधात्यतस्तस्माद् ध्रुवया समनक्ति । स समनक्ति सञ्ज्योतिषा ज्योतिरिति ज्योतिर्वा इतरस्यामाज्यं भवति ज्योतिरितरस्यां ते ह्येतदुभे ज्योतिषी सङ्गच्छेते । तस्मादेवं -समनक्ति ' ( श ० १ | ४ | ५ | ७ ) । विहितं समञ्जनमनूद्य मन्त्रं विधत्ते - स समनक्तोति । मन्त्रगतज्योतिः शब्दद्वयस्यार्थमाह – ज्योतिर्वा इति । ध्रुवापेक्षया इतरा जुहूस्तस्यां यदाज्यं तत्तृतीयान्तज्योतिःशब्दार्थः । जुह्वपेक्षया इतरा ध्रुवा तस्यां यदाज्यं तत्प्रथमान्तज्योतिः शब्दार्थः । एते चाज्यज्योतिषी क्रमेण सूर्याग्न्यात्मके तदुभये समञ्जनेन संगच्छेते संगते भवतः । तथा च ब्राह्मणानुसारेणायमेव मन्त्रार्थः सम्बध्यते हे अग्ने! त्वं होत्रं होतुः कर्म दूत्यं दूतसम्बन्धि कर्म विद्धि । ईदृशं त्वामग्निमुभे द्यावापृथिवी देवते अवतां पालयताम् । हे अग्ने! त्वमपि द्यावापृथिवी लोकद्वयदेवते अव पालय । इत्थमन्योन्यपालने सति देवेभ्यो देवानामुपकारार्थम् तत्तदिष्टं इन्द्र आज्येन हविषा s स्माभिर्दत्तेन स्विकृद् भूत् तादृशो भवतु | अडभावश्छान्दसः । यद्यदस्माभिरिज्यते सर्वं वैकल्यरहितं करोतु । स्वाहा इन्द्रदेवमुद्दिश्य दत्तं हविः सुहुतमस्त्वित्यर्थः । अथवा शोभनस्य यागस्य कर्ता स्विष्टकृत् हे अग्ने! आज्येन हविषा इन्द्रः सङ्गतो भवतु । ' उत्तराधारमाघार्यासस्पर्शयन् स्रुचावेत्य जुह्वा ध्रुवा समनक्ति संज्योतिषेति ' ( का ० श्रौ ० ३१-२ ) इति कात्यायनः । अत्रागच्छतामित्यध्याहर्तव्यम् । ध्रुवायां स्थितमाज्यरूपं यज्ज्योतिस्तेन ज्योतिषा सह जुह्वां सिच्यमानमाज्यरूपं ज्योतिः संगच्छताम् । आधार-शेषस्याज्यस्य ध्रौवाज्यस्य च संगमनं वित्तिरिरप्याह -- ' शिरो वा एतद्यज्ञस्य यदाघार आत्मा ध्रुवा | आघार-माघार्य ध्रुवा समनक्ति । आत्मन्येव यज्ञस्य शिरः प्रतिदधाति ' ( तै ० सं ० २।५।११।२४ ) । कण्वोऽपि तथैवाह | अध्यात्मपक्षे - हे अग्ने आत्मन् हनूमन् वा, ' आत्मा वै अग्निः ' इति श्रुतेः, लौकिकव्यवहारस्याग्रेनयनाच्च । त्वं होतृकर्म लङ्कादहनकर्म दूतत्वं च वेः जानासि । द्यावापृथिवीदेवते त्वाम् अवतां पालयताम् वृष्ट्यन्नादिद्वारा । त्वं च द्यावापृथिवी अव | आत्मनः कर्मानुष्ठानद्वारा द्यावापृथिव्यो रक्षा भवति, ताभ्यां चात्मनो रक्षणं भवति । देवेभ्योऽर्थाय देवेभ्योऽन्येभ्यः सकाशात् प्रथमं स्विष्टकृद् इन्द्र आज्येन हुतेन हविषा इन्द्रः परमेश्वरः सङ्गतो भूत् भूयात् । अडभावच्छान्दसः । तस्मै स्वाहा इदं हविः सुहुतमस्तु । तेन परमेश्वराय ज्योतिषा ज्योतिर्मयस्याज्यस्य हविषो दानेन ज्योतिरिन्द्रियमनोबुद्धयादिप्रकाशको ज्योतिरात्मा ज्योतिषामपि परमेश्वरेण संगच्छताम् ' ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ' ( भ ० गी ० १३ | १७ ) इति । श्रीमद्भगवद्गीतावचनात् । वायोजतोऽग्निर्हनुमानपि द्यावापृथिवी देवते रक्षति, ते देवते च तं रक्षतः हनूमन्! वा । श्रुति कहती है-उक्त अर्थ किया गया है । होतृकर्म आध्याध्यिक पक्ष में उक्त मन्त्र का अर्थ यह होगा हे अग्ने! आत्मन्! ' आत्मा वै अग्निः ' । तथा लौकिक व्यवहार को अग्रसारित करने के कारण भी पालन करें यानी लङ्कादहन --- कर्म को दूत और तुम ' वे ' जानते हो । द्यावा और पृथिवी दोनों देवताएँ तुम्हारा है और उन और तुम भी द्यावापृथिवी का पालन करो । अपने कर्मानुष्ठान के द्वारा द्यावा- पृथिवी को रक्षा होती से दोनों से वृष्टि, अन्न आदि के द्वारा अपनी रक्षा होती है । अन्य लोगों से पूर्व हवि के रूप में दिये हुए आज्य हवि परमेश्वर सङ्गत हों । उस परमेश्वर के लिये यह हवि सुहुत रहे । उस मुहुत से, अर्थात् परमेश्वर के लिये ज्योतिर्मय के साथ आजयहवि के देने से इन्द्रिय, मन, बुद्धि आदि को प्रकाशक ज्योति आत्म ज्योतियों की ज्योतीरूप परमेश्वर गी ० मिल जाय । श्रीमद्भगवद्गीता में कहा गया है ' ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते ' ( भ ० वे १३।१७ ) । वायु से उत्पन्न हुआ अग्नि और हनुमान् भी द्यावा और पृथिवी देवता की रक्षा करते हैं और

पृष्ठ 47

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 47 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ९ -१० ] वेदार्थपारिजात भाष्यसहिता ३७ स्विष्टं रामस्य शोभनं कार्यं करोतीति स्विष्टकृद् इन्द्रः कपीन्द्रो देवेभ्यो हिताय आज्येन हविषा स्निग्धहविषा भूत् सङ्गतो भवतु । तस्मा इदं स्वाहा सुहुतमस्तु | ज्योतिः सोतामयं रामाख्येन ज्योतिषा सङ्गतमस्तु ॥ ९ ॥

य॒दमिन्द्र॑ इन्द्रि॒यं द॑धात्य॒स्मान् रायो॑ म॒घव॑नः सचन्ताम् । अ॒स्माकं॑ सन्त्वाशिर्षः स॒त्या न॑ः सन्त्व॒शिषा॒ उप॑हूता पृथि॒वी म॒तो मा॑ पृथि॒वी माता यताम॒ग्निराग्नी॑धा॒ात् स्वाहा॑ ॥ १० ॥

' मयोदमिति यजमानो जपति ' ( का ० श्री ० ३ | ४ | १८ ) । प्रधानयागानन्तरं पुरोडाशशेषप्राशनसमये होतरि आशिषं प्रयुञ्जाने सति यजमानो जपति । मन्त्रार्थस्तु - इन्द्रः परमेश्वर इदमिन्द्रियं मयि यजमाने दधातु । इदमित्यपेक्षितमाह - इन्द्रियमिति । वीर्यमाह -- इन्द्रवद्वीर्यमिति काण्वव्याख्याने सायणः । रायो धनानि मानुषदेवभेदभिन्नानि मयि दधातु । मघवानो धनवन्तश्चास्मात् सचन्तां सेवन्ताम् । धननिधानेन नश्चास्मान् सेवन्ताम् । किञ्चास्माकमाशिषोऽभीष्टार्थस्याशंसनानि सन्तु समीचीनानि भवन्तु, केवलानामाशिषां स्वाभाविकत्वेनाभ्यर्हणीयत्वात् । ' मनश्च भद्रं भजतात् ' ( भा ० पु ० ५२१८ / ९ ), ' भद्रं कर्णेभि: ' ( वा ० सं ० २५।२१ ), ' भद्रं नो अपि वातय ' इत्यादिवचनेभ्यः । नः पूर्वोक्ता आशिषः सत्या अवितथाः सफलाः सन्तु । ' एकैकमाहरति । द्यावापृथिव्योरुपह्वानेऽग्नीधे षडवत्तम् । प्राश्नात्युपहूता पृथिवीति ' ( का ० श्र ० ३।४।१५-१७ ) । यदा होता द्यावापृथिव्योरुपह्वानं करोति तदोभयोः पुरोडाशयोरेकैकमंशं षडवत्ते कृत्वा अग्नीवे ददाति । स चोपहूतेति मन्त्रेण तत्प्राश्नाति । अत्र चतुर्धा कृत्वादिष्टानां भागानां ब्रह्मादिभ्यो भक्षणार्थं यजमानोऽर्पयेत् । उपहृते द्यावापृथिवो इति होत्रा पठ्यमाने अग्नीधे षडवत्तं अग्नीद्भागं यजमानो दद्यात् । अत्र षडवत्तशब्दो रूढ्या-shi गवाचकः, न त्ववयववृत्त्याऽवदानषट्कबोधकः । अत एव द्वि: समर्पणम्, द्विरभिघारणम्, द्विरवदानमिति रीत्या षडवत्ता नाभिप्रेता । उपहृता पृथिवीति षडवतं प्राश्नीयात् । उपहृतो द्यौरिति द्वितोयं भागं प्राश्नाति । द्यावापृथिवी देवता भी अग्नि और हनुमान की रक्षा करती हैं । रामचन्द्र के लिये शोमन कार्य का करने वाला स्विष्टकृत् यानी इन्द्र, अर्थात् कपीन्द्र ( हनुमान् ) देवताओं के हितार्थ स्निग्ध हवि से संगत हो । उसके लिये यह स्वाहा यानी मुहुत रहे और सीतामय ज्योति रामनाम की ज्योति के साथ संगत होती रहे ॥ ९ ॥

मन्त्रार्थ - मुझे अभीष्ट लगनेवाले इन्द्रियजन्य तेज को मुझमें परमेश्वर स्थापित करे । तथा देव और मानुष द्विविध प्रकार के द्रध्य भी हम यजमानों के पास आवें । हमारे द्वारा पूर्व याचना किये गये ' वर ' पूर्ण हों । जगत् की माता जो पृथिवी है, उसे मैंने अनुज्ञा दी है । हमें माता के समान प्रतीत होने वाली पृथिवी मुझे हविःशेष के भक्षण करने की आज्ञा दे । मैंने अग्नीध्र का कार्य किया है, उस कारण में अग्नि होकर इस हवि को भक्षण करता है । यह जाठराग्नि में सुहुत हो । प्रधान याग के अनन्तर होता जब आशीर्वाद दे रहा होता है, तब यजमान ' मयोबम् ' मन्त्र का जप करता रहे । ' उपहूता पृथिवी ' मन्त्र से पुरोडाश का एक - एक भाग अग्नोध भक्षण करे ॥ १० ॥

भाष्यसार -- जब होता द्यावापृथिवी का उपह्वान करता है, तब दोनों पुरोडाशों के एक - एक घडवत्त करके अग्नीध्र को देता है और वह ' उपहूत ' मन्त्र कह भक्षण करता है । यहाँ पर बताये गये भागों का चतुर्धाकरण करके ब्रह्मादि ऋत्विजों को भक्षण करने के लिये यजमान उन्हें अर्पित करता है । ' उपहूते द्यावापृथिवी ' यह होता के द्वारा कहे जाने पर यजमान अग्नीध् नामक ऋत्विक् को षडवत ( अग्नीद् भाग ) दे । यहाँ पर ' षडवत '

पृष्ठ 48

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 48 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८ शुक्लयजुर्वेदसंहिता [ अ ० २ मन्त्रार्थस्तु - उपहूता येयं पृथिवी दृश्यते सा जगतो माता निर्मात्री मयोपहूता अभ्यनुज्ञाता । सा च पृथिवी माता मातृत्वेनास्माभिर्भाविता सती मां हविःशेषभक्षणायोद्यतमुपह्वयताम् अनुजानातु हविःशेष-भक्षणायानुज्ञां ददातु । अग्नीध इदं कर्म आग्नीध्रम् तस्माद् आग्नीध्रनामकादात्विज्यात् कर्मणो तो -स्वरूपोऽग्निः सन् तं भागं प्राश्नामीति शेषः । तस्मात् स्वाहा मदीयमुखाग्नाविदं हविः सुहुतमस्तु । आधुनिकस्तु - ' हे इन्द्र परमेश्वर! मयि इदं प्रत्यक्षमिन्द्रियं तेज आत्मबलं च दधातु । अस्मान् मघवानो बलादि पूर्णानि राय ऐश्वर्याणि प्राप्नुवन्तु । अस्माकमाशिषः कामनाः सत्याः सफलाः सन्तु । पृथिवोतुल्या अन्नदात्री माता पालयित्री उपहृता सादरास्तु । इयं पृथिवी माता विशालसुखदात्री माम् उपह्वयताम् उपदिशतु । ततः पश्चाद् आग्नीध्राद् ज्ञानोपदेशकाचार्य स्थानाद् अग्निः ज्ञानी मां स्वाहा उपदिशतु ' इति, तन्न, असामञ्जस्यात् । यद्यपि इदमित्यस्य प्रत्यक्षमित्यर्थोऽपि सम्भवति, तथापीन्द्रियशब्दस्य तेज आत्मबलं च कथमर्थं इति तु नोक्तम्, कथं च तयोः प्रत्यक्षत्वम्? किञ्चाग्नीध्राद् इत्यस्य आचार्य स्थानादित्यर्थ इत्यत्र किं मूलम्? पृथिव्या उपदेशे सिद्धे किमन्येनोपदेशस्थानेन? अत्र दयानन्दः –‘इन्द्रो मयि इदं शुद्धं ज्ञानयुक्तं प्रत्यक्षं स्थानम् इन्द्रियं रायश्च दधातु । तत्कृपया स्वपुरुषार्थेन च यथा वयं मघवानो भवेम तथाऽस्मान् रायः सचन्ताम् । एवं चास्माकमाशिषः सन्तु सत्या न आशिषः सन्तु । एवं सतीयं पृथिवी विद्योपहृता च सती पृथिवी माता मामुपह्वयतामुपदिशताम् । तथा मयानुष्ठितोऽयमग्निराग्नीघ्रादिष्टकृतः सन् अस्माकं सुखान्युपाह्वयति । एवं सम्यग्घुतमिष्टकारि भवतीति स्वाहा वेदवाणी आह ' ( पृ ० १६५ ) इति । तदपि यत्किञ्चित् स्वाहापदस्य वेदवाणी आहेत्यर्थस्य खण्डितत्वात् । सचन्तामिति क्रियापदेनैव मघवान इत्यस्याप्यन्वये सम्भवति भवेमेत्यध्याहारानुपपत्तेः । इदंपदस्य शुद्धज्ञानयुक्तं प्रत्यक्षमित्यपि नार्थः, तस्य सन्निकृष्ट प्रत्यक्षमात्र बोधकत्वात् । इन्द्रस्यैश्वर्यप्राप्तेर्लिङ्गं चिह्नमिन्द्रियमित्यपि न सङ्गतम्, ऐश्वर्यप्राप्तेरभीष्टत्वेऽपि तच्चिह्नस्याधित्साभावात् । परमेश्वरेण दृष्टं सृष्टं वेत्यप्यसङ्गतम्, आकाशादीनामपीन्द्रेण दृष्टत्वात्सृष्टत्वाच्चेन्द्रियत्वव्यवहारास्पदत्वापातात् । एवमिन्द्रजुष्टमिन्द्रदत्तमिन्द्रियमित्यप्यसङ्गतम्, इन्द्रजुष्टसोमादौ इन्द्रदत्तधनादावपि तत्प्रयोगापत्तेः । न च ' इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रद्रत्तम् ' ( पा ० सू ० २ ९ ३ ) इति प्रमाणेन सिद्धं तदिति वाच्यम्; विशेषणपर्यवसायित्वेन तथात्वेऽपीन्द्रस्य देहादिनामकस्य जीवस्येदं लिङ्गं चिह्नमिति व्युत्पत्त्यैव तस्य प्रसिद्धेन्द्रियपरत्वोपपत्तेः । उपहूयते जनै राज्यसुखार्थं या पृथिवी पृथुसुख निमित्तेत्यपि यत्किञ्चित् त्वद्रीत्या जडायाः पृथिव्या उपाह्वानासिद्धेः, पृथुदुःखानामपि ततः सम्भवाद् वैपरीत्यापत्तेश्च । माता मान्यकरणहेतुरित्यपि प्रमाणसापेक्षमेव । पृथुसुखदात्री विद्या इत्यपि न शोभनम्, पृथुदुःखदात्रीत्वेनाविद्याया अपि ग्रहणापत्तेः । ह्वयतामुपदिशतामित्यपि निर्मूलम्, ह्वयतेरुपदेशार्थताऽप्रसिद्धेः । ' अग्निरीश्वरः, आग्नीध्रादग्निरिध्यते प्रदीप्यते यस्मिन् तस्येदं श्रयणमाश्रयणं तस्मात् ' ( पृ ० १६५ ) इत्यपि यत्किञ्चित्, कस्मिन्नग्निः प्रदीप्यते कस्याश्रयणादग्निरीश्वरः किमिति न स्पष्टम् । हिन्दीभाष्ये तु - भौतिकोऽ-शब्द रूढि के बल पर ‘ अग्नीद् माग ' का वाचक है, न कि अवयववृत्ति से ' अवदानषट्क ' का बोधक है । अत एव ' दो बार समर्पण ', ' दो बार अभिघारण ' और ' दो बार अवदान ' -- इस रीति से ' षडवत्ता ' यहाँ अभिप्रेत नहीं है । ' उपहूता पृथिवी ' इस मन्त्र से ' प्रथम षडवत्त ' का प्राशन करता है और ' उपहूतो द्यौः ' मन्त्र से द्वितीय भाग का प्राशन करता है । धन और धनी हमारा सेवन करें । हमारे आशीर्वाद सत्य हों । पृथिवी माता मक्षण करने की मुझे आज्ञा दे । यह अग्नीधु का कर्म होने से इसे ' आग्नीध्र ' कहा गया है । उस कारण मैं अग्नि के रूप में ' होता ' हुआ उस भाग को भक्षण करता हूँ ।

पृष्ठ 49

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 49 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १० ] वेदार्थपारिजातमाष्यसहिता ३ ९ ग्निर्यमिन्धनादिभिः प्रज्वालयन्ति स वाञ्छितसुखकरो भूत्वाऽस्मान् सुखान्युपगमयतु ' ( भौतिक अग्नि, जिसको कि इन्धनादि से प्रज्वलित करते हैं, वह वाञ्छित सुखों का करने वाला हमारे सुखों को आगम कराये ) ' इति, तदप्यकिञ्चित्करम् वज्रवैयाकरणानुहारात् । स यथा मध्येमार्गं संलीनो व्याघ्रो मा पुरतो ब्राजीरिति केनचिदातेनोको विशेषेण आसमन्ताज्जिघ्रतीति व्याघ्र इति व्युत्पत्तिबलाद् आगत्यात्रास्यति किमन्यत् करिष्यतीति मन्वानोऽपरिगणयन्नाप्तनिषेधं पुरतो व्रजन् व्याघ्रेण व्यापाद्यते, तद्वत् । सिद्धान्ते तु ऋत्विग्-विशेषपरोऽयं शब्दो व्याख्यात एव । शतपथविरुद्धं च तत्सर्वम् । ' प्राणेष्वेव हूयते । होतरि त्वद्यजमाने स्वदध्वय त्वदथ यत्पूर्वाधं पुरोडाशस्य प्रशीर्यं पुरस्ताद् ध्रुवाय निदधाति यजमानो वै ध्रुवा तद्यजमानस्य प्राशितं भवत्यथ यत्प्रत्यक्षं न प्राश्नाति नेदस स्थिते यज्ञे प्राश्नातीत्येतदेवास्य प्राशितं भवति सर्वे प्राश्नन्ति सर्वेषु मे हुतासदिति पञ्च प्राश्नन्ति पशवो वा इडा पाङ्क्ता वै पशवस्तस्मात् पञ्च प्राश्नन्ति ' ( श ० ११८ १ ३ ९ ) । अमे इडाकर्मप्रसङ्गे इडोत्पत्तिसम्बन्धिन्याख्यायि-काख्याता । तस्यां च मत्स्यावतारेतिहासः । इडाया मैत्रावरुणीत्वकथनम् । प्रजाकामोऽर्चन् श्राम्यन् पाकयज्ञेन घृतादिभिरिष्टवान् । तस्मात् पाकयज्ञानां संवत्सरे पूर्ण योषिद् मिश्रीभावात्मिका संवृता । तया च मित्रावरुणौ सङ्गतौ । तो होचतुः कासीति । सा मनोर्दुहितेत्यब्रवीत् । तो होचतुरावयोर्दुहितेति ब्रूष्व । सा नेत्युवाच । सा यावता मैत्रावरुणी व्यपदिश्यते तावत्तयोर्दुहितृत्वमङ्गीकृतवती । तस्या मनोर्दुहितृत्वप्रतिपादनम् । मनुना आशीरूपायास्तस्या यज्ञे सम्भवकल्पनम् । ततो मनोः सर्वाशीः सम्प्राप्त्या इडायागफलनिष्पत्तिः । इडामिष्ट-वतस्तनिदानं ज्ञातवतस्तदेव फलमिति कथनम् । सहेतुकपञ्चावत्तताकरणविधिः । तत्र इडायां पात्र्यां हुतशेषान् चरुपुरोडाशादीन् रक्षित्वा तामुपस्पृश्य सर्वैर्ऋत्विग्भिरिडोपह्वानं क्रियते । तां वै सर्वे प्राश्नन्ति तां नाग्नो जुह्वति प्राणेष्वेव सा हूयते होतरि च यजमाने चाध्वयों चेति । यत्पूर्वाधं पुरोडाशस्य प्रशीर्यं पुरस्ताद् ध्रुवाय निदधाति । यजमानो वै ध्रुवा । तद्यजमानस्य प्राशितं भवति । ननु प्रत्यक्षमेव यजमानः कुतो न प्राश्नाति किमर्थं ध्रुवाय निदधातीति तत्राह - नेदसंस्थिते यज्ञे प्राश्नातीति, असंस्थितेऽसमाप्ते यज्ञे नाश्नातीति वचनात् । अग्नौ हुत्वाथ भक्षयति - देवो वा अस्यैष आत्मा मानुषोऽयं यजमानभागमनुपहूतं प्राश्नाति । इडां तु विशेषत उपहूतां प्राश्नात्येव । इडाभक्षणकालेऽप्यनुयाजपत्नीसंयाजदेवता नेज्यन्ते इति तास्वनिष्टासु न युक्तमशनमिति तत्राह - एतदेवास्य प्राशितं भवति सर्वे प्राश्नन्ति सर्वेषु मे हुतासदिति सर्वेषु मदीयो भागो हुतः असद् इत्यर्थः । सन्धिरार्षः । पञ्च प्राश्नन्ति होमानन्तरमेव प्राशितं भवति । अन्ते तु प्रत्यक्षमेव प्राशिष्यति । किसी आधुनिक ने जो व्याख्या की है, वह समञ्जस न होने के कारण उचित नहीं है । आधुनिक की व्याख्या ऊपर भाष्य में देखिये । उस व्याख्या में ' इन्द्रिय ' का ' तेज ' और ' आत्मबल ' अर्थ किया गया है, उनका प्रत्यक्ष होना कहा गया है, तथा ' आग्नीध्रात् ' का अर्थ ' आचार्य स्थान से ' किया है, इत्यादि अप्रामाणिक और निर्मूल अर्थ किया है । वेद का अर्थ करने में बड़ी सावधानी की आवश्यकता होती है । स्वामी दयानन्द इस मन्त्र की व्याख्या करते हुए यथेच्छ अध्याहार की कल्पना, मन्त्रगत शब्दों के मनसोक्त अर्थ तथा वैदिक प्रक्रिया के विपरीत व्याख्या करते हैं । ' स्वाहा ' पद का अर्थ ' वेदवाणी कहती है ' – किया है । ' सचन्ताम् ' इस क्रिया से ही ' मघवानः ' का मी अन्वय संभव रहते अध्याहार कर रहे हैं । ' इदम् ' पद सन्निकृष्ट प्रत्यक्षमात्र का बोधक रहते हुए भी उसका कुछ अन्य अर्थ ही बता रहे हैं । इस प्रकार पूर्व परम्परागत वैदिक प्रक्रिया के विरुद्ध यह दयानन्दीय व्याख्यान सर्वथा उपेक्षणीय ही है । स्वामी दयानन्दजी की व्याख्या और उसका खण्डन दोनों को ऊपर के संस्कृत भाष्य में पाठकवृन्द देख लें ।

पृष्ठ 50

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 50 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४० शुक्लयजुर्वेद संहिता [ अ ० २ अप्राश्यमाने यजमाने भागत्वव्यपदेशानुपपत्तिः । ' अथ यत्र प्रतिपद्यते तच्चतुर्धा पुरोडाशं कृत्वा बर्हिषदं करोति तदत्र पितॄणां भाजनेन । चतस्रो वा अवान्तरदिशोऽवान्तरदिशो वै पितरस्तस्माच्चतुर्धा पुरोडाशं कृत्वा बर्हिषदं करोति ' ( श ० १ | ८ | १ | ४० ) । अथ यत्र प्रतिपद्यते यत्र काले होता प्रतिपद्यते इडोपहूतेत्येतं निगदं तत्तदा चतुर्धा कृत्वा पुरोडाशम्, आग्नेयं चतुर्धा करोतीति शाखान्तरात् । बर्हिषि सीदतीति बहिषत् । यथा बर्हिषद् भवति तथा करोति, बर्हिषि सादयतीत्यर्थः । एवमाग्नेयस्य पुरोडाशस्य चतुर्धा करणेन ब्रह्महोत्रध्वय्वंग्नीधां भक्षः । नन्वेवमत्र अयजमानाश्चत्वारः प्राश्नन्तीति पच प्राश्नन्तीति विरोधः स्यादिति चेन्न यतश्चतुर्धा कृतस्य बर्हिषः सादनम् अत्र दर्शपूर्णमासयोः पितॄणां भाजनेन हेतुना क्रियते पितॄणां संविभागार्थम्, तर्हि किं तत्पितृभ्यो दीयते? नेत्याह- किन्तहि चतुः संख्या सामान्याद् बहिःसम्बन्धाच्च गौणमेव पितृभाजनम् । तदाह चतस्रो वै दिशः । अवान्तरदिशो वै पितरः । तासु पितृयज्ञेन तेभ्यो दीयते । तस्माच्चतुर्धा पुरोडाशं कृत्वा बर्हिषदं करोति । ' अथ यत्राहोपते द्यावापृथिवी इति । तदग्नीध आदधाति तदग्नीत् प्राश्नात्युपहूता पृथिवी मातोप मां पृथिवी माता ह्वयतामग्निराग्नीध्रात् स्वाहोपहूतो द्यौष्पितोप मां द्यौष्पिता यतामग्निराग्नीध्रात् स्वाहेति द्यावापृथिव्यौ वा एष यदाग्नीध्रस्तस्मादेवं प्राश्नाति ' ( श ० १२८ | १ | ४१ ) | अथ यत्राह उपहूते द्यावापृथिवी इति तदग्ध आदधाति । अत्रार्पणे आदधातिः । तदग्नीत् प्राश्नाति । न चैष इडाभाग:, किन्त्वन्य एवायमग्नीद्भागः, प्राशित्रं चेडा च यच्चाग्नीधे दधातीति इडाया भेदेन व्यपदेशात् । एतेन ब्रह्मभागयजमान-भागयोरपीडाव्यतिरेकः सिद्धः । द्यावापृथिव्यो वा एष यदाग्नीध्रः । अग्निमिन्धे दोपयति संमार्गेणेति अग्नीत् | अग्निसमिन्धनादियोगाद् आग्नीध्रस्य तत्परत्वम् । स इन्द्रो द्यावापृथिव्यो तर्पयति । ' धूमेनामूं वृष्टये-मामू ' ( ऋ ० सं ० १११६४ | ५१ ) । धूमेन अमूं द्यां वृष्ट्या इमां पृथिवीमिति द्यावापृथिव्यो आग्नीध्रः । तस्मिन् भक्षणादिना प्रीते सिद्धा द्यावापृथिव्योः प्रीतिः । ' अथ यत्राशिषमाशास्ते । तज्जपति मयोदमिन्द्र इन्द्रियं दधात्वस्मान् रायो मघवानः सचन्ताम् । अस्माक १७ सन्त्वाशिषः सत्या नः सन्त्वाशिष इत्याशिषामेवैष प्रतिग्रहस्तद्या एवात्रत्विजो यजमानायाशिष आशासते, ता एवैतत् प्रतिगृह्यात्मन् कुरुते ' ( श ० १।८।११४२ ) । यत्र का आशिषमुपहूतोऽयं यजमान उत्तरस्यां देवयज्यायामिति होता आशास्ते, तत्तदा जपति यजमानः । कुतः? आशिषां तदर्थत्वात् । न होमाथं तद्वद्याख्यानं स्पृशति । आग्नीध्रपदं तु ऋत्विग्विशेषपरमेव । तस्माच्छ्रतिसूत्रानुसारेण सिद्धान्तानुसार्येवार्थः । अध्यात्मपक्ष में अर्थ इस प्रकार होगा - हे इन्द्र! हे राम परमेश्वर! क्योंकि ' इन्द्रो मायाभिः पुरुरूप ईयते ' यह श्रुति बता रही है । दृश्य होने के कारण जो इदङ्कारास्पद है, अतः अन्तःकरण और बाह्यकरण समूह ये सब परमात्मा के चिह्न हैं । इसलिये इन्हें ' इन्द्रिय ' कहा जाता है । जैसे सातिशय अनित्य दाहक लौहपिण्ड को देखकर कल्पना होती है कि इससे भी अधिक, नित्य, दाहक, प्रकाशक कोई और भी हो सकता है, उसी तरह अनित्य सातिशय शब्दादि प्रकाश सामर्थ्य - सम्पन्न श्रोत्र की अपेक्षा किसी अन्य नित्य, निरतिशय, शब्दादि प्रकाश सामर्थ्य वाले श्रोत्र की, तथा उसी तरह नेत्र से नेत्र की, मन से मन की कल्पना हो सकती है । संहत वस्तु अपने से विलक्षण--असंहत वस्तु के लिये ही हुआ करती है । स्वर्गापवर्गादि पुरुषार्थोपयोगी और वीर्यविशिष्ट उसे कर दे । हे इन्द्र! हमें भक्ति, ज्ञान, वैराग्य, मोक्षरूप श्री तथा श्री से युक्त, अर्थात् भक्ति, ज्ञान, वैराग्य, मोक्षरूप श्रीसे युक्त लोग प्राप्त हों और वे हम पर अनुग्रह करें । अनिश हमारे मन में महापुरुषों को सङ्गति प्राप्त करने की उत्सुकता होती रहे ।