वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 51–60

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 51–60

पृष्ठ 51

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 51 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

• मन्त्रः १० ] वेदार्थपारिजातभाष्यसहिता ४१ सिद्धान्ते त्वभिमतस्य बुद्धिसिद्धत्वाद् इदमर्थंतायां शङ्कापि न सम्भवति । इन्द्रस्य देवराजस्य वीयं प्रसिद्धमिति वीर्यमिन्द्रस्येदमिन्द्रियमिति निश्चप्रचम् । ' सत्या नः सन्त्वाशिषः ' इत्यंशस्य व्याख्याने व्यस्तस्य व्याख्यातुः ' अस्माकं सन्त्वाशिषः ' इति पूर्वांशस्य विस्मृतिरेव जाता । पुनरुक्तिबुद्धिरपि न जाता । किश्च, यद्युपह्वानमुपदेशस्तदोपहूता इत्यस्योपदिष्टा इत्यर्थोऽस्तु । तथा च मयोपदिष्टा पृथिवी मामुपदिश-त्विति सुव्याख्यातमार्यब्रुवेण । ' उपहूता सादरास्तु ' इत्यपि व्याख्यानं तथाविधमेव । सिद्धान्ते च - इन्द्रः परमेश्वरः, इदमस्मदपेक्षितमिन्द्रियमिन्द्रवद्वीर्यमपि यजमाने दधातु स्थापयतु । रायो धनानि दैवमानुषभेदेन द्विविधानि । मघवानो धनवन्तश्चास्मान् यजमानान् सचन्तां समवयन्तु सेवन्ताम् । किञ्चास्माक-माशिषोऽभीष्टार्थस्याशंसनानि ब्रह्मप्रेप्साद्या यज्ञादिभिः सन्तु विद्यन्ते, शुभाशंसनानामपि शुभावहत्वात् । किञ्चास्माकमाशिषः पूर्वोक्ताः सत्या अवितथा भवन्तु । अन्यत् सर्वं सिद्धान्तव्याख्याने स्पष्टम् । अध्यात्मपक्षे तु — हे इन्द्र हे राम परमेश्वर! ' इन्द्रो मायाभिः पुरुरूप ईयते ' इति श्रुतेः, इदं इदङ्कारास्पदं दृश्यत्वादिन्द्रियमिन्द्रस्य परमात्मनो लिङ्गम् अन्तःकरणबाह्यकरणग्रामम् । यथा दग्धुरप्ययः पिण्डस्य सातिशयानित्य-दाहकत्ववतः केनचिदन्येन नित्यदाहकत्वप्रकाशकत्ववता दग्ध्रा भाव्यम्, तथैवानित्यसातिशयस्य शब्दादिप्रकाश -सामर्थ्यवतः श्रोत्रादेः केनचिदन्येन नित्यनिरतिशय शब्दादिप्रकाशसामर्थ्यवतः श्रोत्रस्य श्रोत्रेण चक्षुष-चक्षुषा मनसो मनसावश्यं भाव्यम्, संहतानां स्वविलक्षणा संहतार्थत्वात् । तच्च दधातु स्थापयतु स्वर्गापवर्गा दिपुरुषार्थोपयोगिवीर्यवत् करोति । हे इन्द्र! अस्मान् रायो भक्तिज्ञानवैराग्यरूपाः श्रियो मघवानस्तद्वन्तो भक्तिज्ञानवैराग्यश्रद्धावन्तः सचन्तां समवयन्तु प्राप्ता भूत्वानुगृह्णन्तु । अस्माकमाशिषो भक्तिज्ञानवैराग्यभक्तज्ञानि-महापुरुषसङ्गतिसमुत्कण्ठाः सन्तु नित्यमेव विद्यन्ताम् । कदाचिदपि तेष्वनादरो मा भूत् । ताश्चाशिषः सत्या अवितथाश्च भवन्तु । उपहूता श्रद्धाऽऽकारिता पृथिवी पृथिवीजन्या सत्तासामान्यरूपा परमपुरुषार्थरूपा सीता माता सर्वप्रमापिका, सर्वस्य चिद्व्याप्यत्वेनैव भास्यमानत्वात् । मां तच्चरणानुरागिणं तदेकाश्रयं डिम्भं पृथिवी माता पृथिव्याः समुद्भूता अयोनिजा माता जननी प्रसवित्री वात्सल्यवती उपह्वयतां स्वाङ्कमुपवेशयतु । अग्निमिन्धे दीपयतीति अग्नीत् परमात्मा रामः ' सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः ' ( वा. रा. २ । ) ' अग्नीधः शरणे रण भं च ' ( पा. सू. ४ | ३ | १२० ) इति सूत्रस्थवार्त्तिकेन तस्येदमाश्रयणमाग्नीध्रं तस्माद् रामाश्रयणाद्धेतोरहमग्निः सन् सर्वाणि कर्माणि ज्ञानाग्निना दग्ध्वा निरावरणश्चिदग्निः सन् स्वात्मानं तस्मा अग्नीधे रामाय समर्पयामि । इदमस्मत्समर्पितं वस्तु सुहुतमस्तु । ' आर्द्र ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्मामहस्मि अहमेवाहं मां जुहोमि स्वाहा ' इति श्रुतेः ॥ १० ॥

उसमें कभी भी किसी प्रकार का विघ्न न हो । ये आशिष् संकल्प कभी भी असत्य न हों, अपितु सर्वथा सत्य होते रहें । श्रद्धा से बुलाई हुई पृथिवीजन्या सत्तासामान्यरूपा परमपुरुषार्थरूपा सीता माता, सत्र जाननेवाली है । क्योंकि चिद्व्याप्य होने से ही सब मास्यमान होता है । अतः उसी को एकमात्र अपना आश्रय समझने वाले, उसके चरणों में अनुराग रखने वाले अपने बालक को, वह पृथिवी से उत्पन्न, अयोनिजा, वात्सल्यपरिपूर्णा सीता माता, मुझे अपनी गोद में बैठा ले । अग्नि को जो प्रज्वलित करता है, उसे अग्नीत् कहते हैं । वह अग्नीत् परमात्मा राम है । उस राम का आश्रय कर लेने से मैं भी अग्निरूप होता हुआ, अर्थात् ज्ञानाग्नि से समस्त कर्मों को जलाकर निरावरण हुए अपने को उस अग्नीत् रूप राम के चरणों में अर्पित करता हूँ । यह हमारी समर्पित वस्तु ' सुहुत ' हो जाय । यह समस्त कथन श्रुति से समर्थित हो रहा है ॥ १० ॥

पृष्ठ 52

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 52 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४२ शुक्लयजुर्वेद संहिता [ अ ० २ उप॑हूत॒ द्यौष्षि॒तोप॒ मा॑ द्यौष्षि॒ता इ॑यताम॒ग्निराग्नोघ्रात् स्वाहा॑ । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विना॑ ब॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒ प्रति॑गृह्णाम्य॒ग्नेष्ट्वा॒स्येन प्राश्ना॑मि ॥ ११ ॥

एवं द्यौः पिता जगत्पालकः पितृत्वेनाभ्यनुज्ञातोऽस्माभिर्मामुपह्वयताम् । द्वितीयहविःशेषभक्षणोद्यतं मामभ्यजानातु । त्वद्भक्षणार्थं मुखमपि दिव्यमेवापेक्षितम्, न प्राकृतेन मुखेन त्वं भक्षणीय इत्यग्नेरास्येन अग्नि-देवतासम्बन्धिना मुखेन तथा बृहस्पतिसम्बन्धिना मुखेन च भक्षयामि । पुरा कदाचिद्देवानां यागे बृहस्पतिः प्राशित्रं प्रतिगृह्णन् भक्षयंश्च मां हिंसिष्यतीति भीतः सन् हिंसापरिहाराय देवस्य त्वेति मन्त्रेण प्रतिगृह्य अग्नेष्टवेति मन्त्रेण प्राशितवान् इत्येतादृशमभिप्रायं तित्तिरिराह - ' सोऽबिभेत् प्रतिगृह्णन्तं मा हिसिष्यतीति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीत्यब्रवीत् । सवितृप्रसूत एवैतद् ब्रह्मणा देवताभिः प्रत्यगृह्णात् ' ( तै. सं. २०६ ८ १३ ) । सोऽबिभेत् प्राश्नंस्तं मा हिसिष्यतीत्यग्नेष्ट्वास्येन प्राश्नामीत्य-ब्रवीत् । नह्यग्नेरास्यं किञ्चन हिनस्तीति । अहमाग्नीध्रात् कर्मणो हेतोरग्निस्वरूपः सन् प्राश्नामि । मन्मुखाग्नाविदं सुहुतमस्तु । इत उत्तरम् ओं प्रतिष्ठ ( ख १३ ) इत्यन्तं ब्रह्मत्वम् । तस्याङ्गिरसो बृहस्पति-ऋषिः । ' देवस्य त्वेति प्रतिगृह्णाति ' ( का. श्री. २२/१४ ) | ब्रह्मा देवस्य त्वेति प्राशित्रं गृह्णाति । हे प्राशित्र! त्वा त्वां सवितुः परमेश्वरस्य प्रसवे प्रेरणे सत्यश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृखामि न प्राकृतभौतिकप्रायाभ्यां लौकिकाभ्यां स्वीयाभ्यां बाहुभ्यां न वा तथाभूताभ्यां हस्ताभ्याम्, दिव्यस्य तव प्रतिग्रहे तादृशयोरयोग्यत्वात् । ' अग्नेष्ट्वेति प्राश्नाति दन्तैरनुपस्पृशन् ' ( का. श्री. २२/१६ ) । हे प्राशित्र! अग्नेः अग्निदेवताया आस्येन मुखेन त्वा त्वां प्राश्नामि भक्षयामि । या अप्स्वन्तर्देवतास्ता इदं शमयन्तु स्वाहा कृतं जठरमिन्द्रस्य गच्छ ऊध्वं नाभेः सीद इन्द्रस्य त्वा जठरे सादयामि । अतो ममोपद्रवो न भविष्यति । आधुनिकस्तु —'यथा वर्षंणेनाकाशं संसारपालकम्, तथैव पितापि बालानां सुखदानायोपहूतः शिक्षितोऽस्तु । मां सुखवर्षक: पितापि शिक्षयतु | आचार्यपदाद् आचार्य उत्तमं ज्ञानमुपदिशतु । हे अग्ने! सर्वोत्पादकस्य परमेश्वरस्य प्रसवे जगत्यहं प्राणापानयोर्बाहुभ्यां पोषकस्य वायोर्हस्ताभ्यां सर्वाङ्गरसदायकाभ्यामुभाभ्यां बलाभ्यां त्वा त्वामन्नं प्रतिगृह्णानि । त्वां सदोद्दीप्तजाठराग्नेरास्येन प्राश्नामि सम्यक्खादामि ' इति, तदपि यत्किञ्चित्, आकाशस्य वर्षकत्वेन पालकत्वं शिक्षकत्वमध्यात्मविमुखानां विप्रतिपन्नमेव, तदपेक्षया लौकिकस्य पितुः पोषकत्वं शिक्षकत्वं च प्रसिद्धमेव । प्रसिद्धमुदाह्रियते नाप्रसिद्धम् । आग्नीध्रपदं कथमाचार्यपदबोधकम्? कथं चाग्निशब्द आचार्यवाचकः । यदि प्रकाशकत्वसाम्याद् भाक्तोऽयमाचार्यस्तदाप्याग्नीध्रस्थानं कथमग्नि-स्थानन्? नह्यग्निरेवाग्नीत् । अस्मिन्नर्थे सर्वत्र प्रसिद्धयतिक्रमो दोषः । प्राणापानयोरश्वित्वं वायोश्च मन्त्रार्थ - मैंने द्युलोक को बुलाया है । वह द्युलोकरूपी पिता मुझे बुलाकर द्वितीय हविर्भक्षण की आज्ञा मुझे दे । मैंने अग्नीध्र का कार्य किया है । उस कारण मैं अग्निरूप होकर इस हवि का भक्षण करता हूँ । वह जठराग्नि में सुहुत होकर रहे । हे प्राशित्र! प्रेरक परमेश्वर की प्रेरणा से अश्विनीकुमारों की दोनों बाहुओं से और पूषा देवता के दोनों हाथों से मैं तुम्हारा ग्रहण करता हूँ और अग्नि के मुख से मैं तुम्हारा भक्षण करता हूँ । ब्रह्मा नाम का ऋत्विक ' देवस्य त्वा ' मन्त्र से प्राशित्र का ग्रहण करे और ' अग्नेष्ट्वा ' मन्त्र से बिना दाँत लगाये प्राशित्र का भक्षण करे ॥ ११ ॥

भाष्यसार - माष्य का सार ऊपर भावार्थ में ही दे दिया गया है । अतः पुनः उसको आवृत्ति करना यहाँ उचित नहीं है ।

पृष्ठ 53

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 53 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ११ ] वेदार्थपारिजातभाष्यसहिता ४३ पूषत्वमप्रसिद्धमेव । नहि बाह्वादिभी रसप्राप्तिर्दृश्यते । जाठराग्नेर्मुखं क्वास्ते? सर्वोऽपि स्वप्रसिद्धमुखेनैवाश्नाति न जाठराग्निमुखेन! गौणार्थत्वेऽपि किमुद्दिश्य तथाभिधानम्? सिद्धान्ते तु ' मनो ब्रह्म ' ( छा ० ३ | १८ | १ ), ' अन्नं ब्रह्म ' ( तै ० ३२२ ) इति मनोऽन्नादिषु ब्रह्मदृष्टिवद् ब्रह्मनामकत्विजः स्वबाहुहस्तमुखेष्वश्विपूषाग्निबाहुहस्त-मुखदृष्टिराधीयते वीर्यवत्तरताय, ' यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति ' ( छा ० १ | १ | १० ) इति श्रुतेः । श्रीदयानन्दस्तु — ' मया द्यौः पितेश्वर उपहूतो मामुपह्वयतां स्वीकरोत्वेवं मया द्यौः पिता पालनहेतुः सूर्यलोक उपहूतः स्पर्धितः सन् मां विद्यायै उपह्वयांत् । योऽग्निः स्वाहा सुहुतं भुक्तमन्नमाग्नीधात् पचति यो देवस्य सवितुः प्रसवे वर्तमानोऽस्ति त्वा तमहं भोगमश्विनोर्बाहुभ्यां प्रतिगृह्णामि । गृहीत्वा च प्रदीप्तस्याग्नेर्मध्ये त्वा तं पाचयित्वास्येन प्राश्नामि । सर्वैः परस्याह्वानं नित्यं कार्यम्, तथा विद्यासिद्धये चक्षुषा संशोध्य जाठराग्नि प्रदीप्य संस्कृतं मितमन्नं नित्यं भोक्तव्यम् । ईश्वरेण जगत्युत्पादितैः पदार्थैर्यः सर्वो भागः सिद्धयति, स च विद्याधर्मयुक्तेन व्यवहारेण भवेक्तव्यो भोजयितव्यश्चेति तदीयो भावार्थ: ' ( पृ ० १६७ - १६८ ) इति, तदपि यत्किञ्चित्, तदुक्तस्यार्थस्य लोकेनायुर्वेदेन च सिद्धत्वात् ज्ञातज्ञापकत्वेन मन्त्रस्य तत्राप्रामाण्यात् । मन्त्रे च चक्षुषा शोधनजाठराग्निप्रदीपनाद्यर्थानां दूरतोऽपि चर्चा नास्ति | ' आग्नीध्रात् पचति ' इति तु न सङ्गतम्, आग्नीध्रस्यान्नाशयार्थत्वेऽपि तस्य पाचकत्वाभावात् । यत्तु ' ल्यब्लोपेन पञ्चमीमाश्रित्य अन्नाशयं प्राप्य पचति ' इति, तदपि न युक्तम्, आग्नीध्रपदस्य अन्नाशयार्थत्वासम्भवात्, अग्निरिध्यते यत्रेत्यग्नीच्छब्दस्यैव तदर्थकत्वात् । अग्नेर्मध्ये पाचयित्वाऽऽस्येन प्राश्नामीत्यपि न सङ्गतम्, अग्नेरास्येनेति सम्बन्धे सम्भवत्यग्निमंध्ये इत्यध्याहारासङ्गतेः, वैयर्थ्याच्च । सर्वोऽप्यग्नौ पचत्यन्नं नाग्निमध्ये | न चैतद्वक्तव्यम्, सर्वोऽपि अन्नमग्नो पच्यत इति जानात्येव । यदत्रोक्तम् — ' अयं मन्त्रः ( श ० १ ८ १ ३ ९ - ४० ) इत्यत्र व्याख्यातः ' इति, तदपि न सम्यक् प्रकृत-मन्त्रस्य तत्राव्याख्यानात् । ' अथ पवित्रयोर्मार्जयन्ते । पाकयज्ञिययेव वा एतदिडयाचारिषुः पवित्रपूता यदुत किसी आधुनिक व्याख्याकार ने श्रुति स्मृत्यनुमोदित परम्परा को त्याग कर मनमानी व्याख्या की है - जिस प्रकार वर्षा के द्वारा संसार का पालन होता है, उसी तरह पिता भी बालकों को सुख देने के लिये शिक्षित रहे । मुझपर सुख की वर्षा करने वाला पिता भी शिक्षा दे । आचार्य उत्तम ज्ञान का उपदेश दे । हे अग्ने! सर्वोत्पादक परमेश्वर के जगत् में प्राण अपान के बाहुओं से, अर्थात् पोषक वायु के हाथों से सर्वाङ्गरसदायक दोनों बलों से अन्न को स्वीकार करता हूँ । सदा उद्दीप्त जाठराग्नि के मुख से तुम्हें अच्छी प्रकार से खाता हूँ । किन्तु यह अर्थ परस्पर असम्बद्ध है, जो सिद्धान्त के विरुद्ध है । सैद्धान्तिक अर्थ वही होता है, जो श्रुति-स्मृत्यनुमोदित, कल्पसूत्र आदि से समर्थित रहता है । स्वामी दयानन्द ने भी इस मन्त्र की व्याख्या के द्वारा श्रुति, कल्पसूत्र, पूर्वाचार्यों के माध्य का ध्यान न रखते हुए स्वाभिप्रेत अर्थ को ही अभिव्यक्त किया है । तथा भावार्थ में बताया है कि ईश्वर के द्वारा उत्पन्न हुए पदार्थों से जो भाग सिद्ध होता है, उसका भोग विद्या - धर्म से युक्त व्यवहार के द्वारा करना चाहिये और कराना चाहिये । किन्तु यह व्याख्या भी वैदिक पद्धति के विरुद्ध है, क्योंकि वैदिक पद्धति में अज्ञात ज्ञापन करना ही विधि का का होता है । स्वामी दयानन्दोक्त अर्थ तो लोकव्यवहार तथा आयुर्वेद से ही ज्ञात है । उसी ज्ञात अर्थ का ज्ञापन

पृष्ठ 54

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 54 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४ शुक्ल यजुर्वेदसंहिता [ अ ० २ ऊर्ध्वम स्थितं यज्ञस्य तत्तनवा महा इति तस्मात् पवित्रयोर्मार्जयन्ते । ( श ० ११८ | १ | ४३ ), ' अथ ते पवित्रे प्रस्तरेऽपि सृजति । यजमानो वै प्रस्तरः प्राणोदानी पवित्रे यजमाने तत्प्राणोदानो दधाति तस्मात्ते पवित्रे प्रस्तरेऽपि सृजति । ' ( श ० १२८ | १२ | ४४ ) पवित्राभ्यां ( व्यत्ययेन ) मार्जयन्ते पाकयज्ञसम्बन्धिन्येव एतदिडया अचारिषुः आचरितवन्तः । कुतो व्यत्यय इति चेत्, पवित्रपूता यदत ऊर्ध्वमस ७ स्थित ( मपूर्ण ) यज्ञस्यांशं तत् तं तनवामहै, इति वाक्यशेषात् । तस्मात् पवित्राभ्यां मार्जयन्ते । ' अथ ते पवित्रे प्रस्तरे अपि सृजति । यजमानो वै प्रस्तरः प्राणोदानौ पवित्रे तस्मात्पवित्रयोः प्रस्तरे संसर्जनेन यजमाने प्राणापानी दधाति तस्मात्ते पवित्रे प्रस्तरेऽपि सृजति एतेन मन्त्रव्याख्यानरूपमेव ब्राह्मणमित्यपास्तं वेदितव्यम् प्रकृतकण्डिकयोर्मन्त्र-व्याख्यानरूपत्वाभावात् । ब्राह्मणं यथा कर्मणि विद्यातदङ्गद्रव्यसंस्कारं विदधाति तथैव कर्माङ्गमन्त्रमपि तदानुगुण्येन व्याख्याय संस्करोति । अध्यात्मपक्षे s पि - द्यौः द्योतनात्मकः स्वप्रकाशोऽखण्डबोधात्मको रामः पिता सर्वाधिष्ठानत्वेन सकल-जगतः सत्तास्फूर्तिप्रदत्वात् सोऽस्माभिरुपहूतः श्रद्धयानुकूल्यमुपनीतो मामुपास्कमुपह्वयताम् अनुग्रहपूर्णया-मृतवर्षिण्या कृपादृष्ट्या वात्सल्येन उपह्वयतां स्वसामीप्यमुपनयतु स्वात्मतादात्म्यं वा प्रापयतु | अग्निरहं ज्योतिर्मयोऽहं शोधितत्वंपदार्थो देहेन्द्रियमनोबुद्ध यहङ्कारेभ्यः संहतेभ्यः सुखदुःखमोहात्मकेभ्यो दृश्येभ्यः पराग्भ्यो वैपरीत्येनासंहतत्वेन सुखदुःखमोहातीतत्वेन दृक्त्वेन प्रत्यकत्वेन अच्यते स्वप्रकाशत्वेनावगम्यत इति प्रत्यक्चैतन्यं तदात्मकोऽहमाग्नीध्रात् तत्पदलक्ष्यार्थस्य शुद्धब्रह्मणः समाश्रयणात् स्वाहा स्वात्मानमर्पयामि । तत्पदार्थेऽनन्तचैतन्ये प्रत्यक् चैतन्यं सुहुतमस्त्वित्यर्थः । ननु मायातत्कार्यात्मकस्य प्रपञ्चस्य जागरूकत्वे कथमात्म-ज्योतिष ब्रह्मज्योतिषि प्रविलापनं सम्भवतीति चेत्तत्राह - देवस्य प्रपञ्च क्रीडापरायणस्य सवितुर्जगदुत्पत्तिस्थिति-लयलीलस्य भगवतः प्रसवेऽनुशासनेऽश्विनोर्देव भिषजो रत्नालङ्कृताभ्यां बाहुभ्यां पूष्णः सूर्यस्य हिरण्यालङ्कृत-करने से तो वेदवाक्य का अप्रामाण्य होने लगेगा । मन्त्रगत शब्द से जिस अर्थ की चर्चा भी नहीं है, उसकी चर्चा स्वामी दयानन्दजी कर रहे हैं । अतः उनकी व्याख्या को सारहीन ही कहना पड़ रहा है । अध्यात्मपक्ष में मन्त्र का अर्थ इस प्रकार होगा — द्योतनात्मक स्वप्रकाश अखण्ड बोधात्मक राम पिता हैं, क्योंकि सर्वाधिष्ठान होने से सम्पूर्ण जगत् को सत्तास्फूर्तिप्रद है, जो हमारे द्वारा श्रद्धापूर्वक आनुकूल्य को प्राप्त हुआ है, वह मुझ उपासक को अपनी अनुग्रहपूर्ण अमृतवर्षिणी कृपादृष्टि से अपने समीप ले आवे, अथवा स्व तादात्म्य को प्राप्त करा दे । ज्योतिर्मय में ( अहम् ) से शोधित जो त्वम् पदार्थ है, वह यच्च यावत् दृश्य को दृक्रूप से समझा जाता है, इसलिये प्रत्यक्चैतन्यरूप में आग्नीध्र से, अर्थात् तत्पदलक्ष्यार्थं शुद्ध ब्रह्म के आश्रय से अपने को अर्पित कर रहा हूँ । अभिप्राय यह है कि अनन्त चैतन्य तत्पदार्थ में प्रत्यक चैतन्य सुहुत हो । शंका- माया और उसके कार्यरूप प्रपञ्च के जागरूक रहते आत्मज्योति का ब्रह्मज्योति में प्रविलापन कैसे सम्भव होगा? समा ० - प्रपञ्चक्रीडापरायण सविता देव के अनुशासन सूर्य के हिरण्यालंकृत हाथों से परापर विद्या का उपदेश देने वाले विचार रूप बाहुओं से ज्ञान प्रचण्डमाण्ड ब्रह्मविवरिष्ठ गुरु के में अश्विनीकुमारों के रत्नालंकृत बाहुओं से और भवरोग के वैद्य कहलाने वाले गुरुओं के आचार-परोक्ष - अपरोक्ष तत्त्वज्ञान - साक्षात्कार रूप पाणि से तुझ साधिष्ठान प्रपञ्च का ग्रहण करता हूँ । अधिष्ठानभूत परमेश्वरस्वरूप ब्रह्म के मुख से मैं प्राशन करता हूँ, अर्थात्

पृष्ठ 55

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 55 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १२ ] वेदार्थपारिजात माध्यसा ४५ पाणिभ्यां परापरत्रिद्योपदेष्ट्रोर्भवरोगवैद्ययोर्गुर्वोराचारविचाराभ्यां बाहुभ्यां पूष्णो ज्ञान प्रचण्डमार्तण्डस्य ब्रह्मविद्व-रिष्ठस्य गुरोः परोक्षापरोक्षतत्त्वज्ञान साक्षात्काराभ्यां पाणिभ्यां त्वा त्वां साधिष्ठानं प्रपञ्चं गृह्णामि । अग्नेः परमेश्वरस्याधिष्ठानभूतस्य ब्रह्मण आस्येन मुखेन प्राश्नामि स्वात्मतादात्म्यापादनं करोमि, अधिष्ठान साक्षात्कारेण प्रपञ्चं बाधित्वा निरावरणब्रह्मात्मना स्थितो भवामीत्यर्थः ॥ ११ ॥

ए॒तं ते देव सवितर्य॒ज्ञं प्राहृर्बृह॒स्पत॑ये ब्र॒ह्मणे । तेन॑ य॒ज्ञम॑त्र॒ तेन॑ य॒ज्ञप॑त॒ तेन॒ मामेव ॥ १२ ॥

' एतं त इति समिदामन्त्रितः प्रसोति ' ( का ० श्री ० २२ २१ ), ' ब्रह्मत् प्रस्थास्यामि ' ( आप ० श्री ० ३।४।५ ) इत्यनुयाजार्थमध्वर्युणा पृष्टो ब्रह्मा एतं ते ( २।१२ - १३ ) इति मन्त्रद्वयेनाध्वर्युमाज्ञापयेत । समिच्छब्देन तदर्थत्वादनुयाजा अभिधीयन्ते । एतं त इत्यादिः ओं प्रतिष्ठ इत्यन्तो मन्त्रः । हे देव दानादिगुणयुक्त हे सवितः प्रसवितः! एतं ते यज्ञमिदानीं क्रियमाणमिमं मखं ते तुभ्यं त्वदर्थं प्राहुर्यंजमानाः कथयन्ति । उब्वटरीत्या एकवचनस्य स्थाने बहुवचनम् । प्राह ब्रवीति । ' एतत्सवितारमेव प्रसवायोपधावति ' ( श ० २ | ७ | ४ | १४ ) इति श्रुतिः । त्वया प्रेरितो देवानां यज्ञे यो ब्रह्मा तस्मै ब्रह्मणे बृहस्पतये च प्राहुः ' बृहस्पतिर्वै देवानां ब्रह्मा ' तदधिष्ठित एवायं मानुषो ब्रह्मत्वं करोति । तेन हेतुना त्वदीयत्वेन यज्ञमव रक्ष । तेनैव च यज्ञपति यजमानं रक्ष । तथा तेनैव च हेतुना मां ब्रह्माणमव । हे सवितर्देव! एतं त्वा सवितृरूपं त्वां बृहस्पति ब्रह्माणं बृहस्पतिरूपं ब्रह्मनामकमृत्विजं वृणते याज्ञिका वरणं कुर्वन्ति । सवितृशब्दाभिधः परमेश्वर एव बृहस्पतिरूपेणावतीर्यास्मद्यागे ब्रह्मेति भावयन्ति । दयानन्दस्तु - ' हे देव दिव्यसुखगुणानां दातः सवितः सकलैश्वर्यं विधातः! वेदा विद्वांसश्च यमेतं ते यज्ञं सुखाय यष्टुमहं भवत्प्रकाशितं प्राहुः, येन बृहस्पतये बृहत्या वेदवाण्याः पालकाय ब्रह्मणे चतुर्वेदाध्ययनेन ब्रह्मत्वाधिकारं प्राप्ताय सुखाधिकाराः प्राप्नुवन्ति । तेन बृहद्विज्ञानदानेन इमं यज्ञं पूर्वोक्तं त्रिविधम् अव नित्यं रक्ष । तेन कर्मानुष्ठानेन विद्याधर्मप्रकाशनेन मां अव रक्ष ' ( पृ ० १६ ९ ), ' ईश्वरेण सृष्ट्यादी दिव्यगुणवद्भ्योऽग्निवायुरव्यङ्गिरोभ्यश्चतुर्वेदोपदेशेन सर्वेषां मनुष्याणां विद्याप्राप्त्या सुखाय यज्ञानुष्ठान विधि-रुपदिष्टोऽनेनेव सर्वरक्षाविधानं च नैव विद्याशुद्धिक्रियाभ्यां विना कस्यचित् सुखरक्षणे भवितुमर्हतः । तस्मात् सर्वैः परस्परं प्रीत्यं तयोर्वृद्धिरक्षणे प्रयत्नतः सदैव कार्ये इति भावार्थ: ' ( पृ ० १७० ) इत्याह, तदपि न क्षोदक्षमम्, सर्वस्यास्यार्थस्य निर्मूलत्वात् । न च ब्राह्मणं तत्र प्रमाणम्, तस्य त्वया स्वतः प्रामाण्यानभ्युपगमात्, परतः प्रामाण्ये तु तस्य बीजत्वेन मन्त्रप्रामाण्यस्य वक्तव्यत्वापत्तेः । यज्ञानुष्ठानविधिस्तु स्वात्मतादात्म्यापादन करता हूँ, यानी अधिष्ठान साक्षात्कार से प्रपञ्च का बाधकर निरावरण ब्रह्मरूप से स्थित होता हूँ ॥ ११ ॥

मन्त्रार्थ - बानगुणविशिष्ट प्रेरक परमेश्वर! यह किया हुआ यज्ञ तुम्हारे लिये है, ऐसा यजमान कहते हैं और तुम्हारी प्रेरणा से देवताओं के यज्ञ में ब्रह्मा बने हुए बृहस्पति के लिये है, ऐसा भी यजमान कहते हैं । इसलिये तुम इस अपने यज्ञ की, यजमान को और ब्रह्मा बने हुए मेरी रक्षा करो । समिधा के होम करने की आज्ञा बो - यह कहने पर ब्रह्मा नाम का ऋश्विक ' एतं ते ' से ' ॐ प्रतिष्ठ ' तक के दो मन्त्रों से वैसा करने की आज्ञा प्रदान करे ॥ १२ ॥

पृष्ठ 56

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 56 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६ शुक्लयजुर्वेदसंहिता [ अ ० २ ब्राह्मण एवोपलभ्यते न मन्त्रेषु ज्योतिष्टोमादेर्यज्ञस्य सेतिकर्तव्यताकस्य मन्त्रेष्वनुपदिष्टत्वात् । ब्राह्मणं तु त्वया नेश्वरोक्तमभ्युपगम्यते । मन्त्रब्राह्मणात्मके वेद एव यज्ञानुष्ठानविधानं सर्वरक्षणविधानमुक्तम्, न केवलेषु मन्त्रेषु । देवश्च कर्मानुसारेणैव दिव्यसुखगुणानां दाता भवति, न तन्निरपेक्षतया, अन्यथा संसारे सर्वेषामपि दिव्यसुखादिगुणवत्त्वापातात् । न च यज्ञः सुखायैव यष्टुमर्हः, निष्कामानामपि यज्ञानुष्ठानदर्शनात् । कोऽयं ब्रह्मा यो बृहत्या वेदवाण्याः पालकः? यश्च चतुर्वेदाध्ययनेन ब्रह्मत्वाधिकारं प्राप्तः? किं तत्र प्रमाणम्? कीदृक् च तस्येतिवृत्तम्? तेनेतिपदत्रयाणां बृहद्विज्ञानदानेनेति कथमर्थः? द्वितीयेन धर्मानुष्ठानग्रहणे किं बीजम्? तृतीयेन विद्याधर्मप्रकाशेनेति कथमर्थः? सिद्धान्ते तु ब्रह्मा विशिष्ठो भगवदवान्तरभूतस्तदर्थमेव च यज्ञः, तेन त्वदीयत्वेन हेतुना त्वं यज्ञं रक्ष, तेनैव च हेतुना यज्ञपतिं रक्ष, तेनैव च हेतुना मां ब्रह्माणं रक्षेति कथनं सङ्गच्छते । शतपथविरुद्धं चेदम् । तथाहि - ' तद्यर्थवादी बृहस्पतिः सवितारं प्रसवायोपाधावत् सविता वै देवानां प्रसवितेदं मे प्रसुवेति तदस्मै सविता प्रसविता प्रासुवत्तदेन सवितृप्रसूतं नाहिन्देवमेवैष एतत्सवितारमेव प्रसवायोपधावति सविता वै देवानां प्रसवितेदं मे प्रसुवेति तदस्मै सविता प्रसौति तदेन सवितृप्रसूतं न हिनस्ति ' ( श ० १ | ७ | ४ | १४ ) । बृहस्पतिः प्रसवाय सवितारमुपाधावत् । इदं मे प्रसुवेति कामनया तस्मादस्मँ बृहस्पतये सविता देव एनं बृहस्पति प्रासुवत् तस्मादेनं बृहस्पतिं सवितृप्रसूतं नाहिनत् न हिनस्तीत्यर्थः । इत्युपक्रम्य' तत्प्राश्नाति ( श ० १ | ७ | ४ | १५ ) अग्नेरास्येन त्वामहं प्राश्नामि न मनुष्यमुखेनेत्यर्थः । अग्नेरप्रधृष्यत्वादग्नि न किचन वस्तु हिनस्ति तथैवैतं भक्षितं न हिनस्ति । तन्न दद्भिः खादेत् " ( श ० १२ | ७ | ४ | १६ ) यत इदं रुद्रियं वस्तु मे दतो दन्तान् न हिंस्यादेतदर्थं न दद्भिः खादेत् । ' अथाप आचामति ( श ० १ | ७ | ४ | १७ ) शान्तिरापस्तस्माद् दद्भिरस्पर्शनेन शान्त्या च तद्रुद्रियं शमयते । अथ पात्रं परिक्षाल्य ' नाभिमालभते ' इति शाखान्तरान्नाभेरालभनं तच्छेष इति हरिस्वामी । ' अथास्मै ब्रह्मभागं पर्याहरन्ति ब्रह्मा वै यज्ञस्य दक्षिणत आस्तेऽभिगोप्ता । स एतं भागं प्रतिविदान आस्ते यत् प्राशित्रं तदस्मै पर्याहार्षुस्त-प्राशीदथ यमस्मै ब्रह्मभागं पर्याहरन्ति तेन भागी स यदुत ऊर्ध्वमस स्थितं यज्ञस्य तदभिगोपायति तस्माद्वा अस्मै ब्रह्मभागं पर्याहरन्ति । ( श ० १२७ ४ १ १८ ), ' स वै वाचंयम एव स्यात् ' ( श ० १२७ | ४ | १ ९ ) । स ब्रह्मा वाचंयमः स्यात् ' ब्रह्मन् प्रस्थास्यामि ' इत्यध्वर्युवचनपर्यन्तम् । वि बृहन्ति विच्छिदन्ति वा एते यज्ञं सण्वन्ति ये मध्ये यज्ञस्य पाकयज्ञियया पाकयागार्हया विलक्षणयेत्याचरन्ति पाकयज्ञेषु हुतशेषो भक्ष्यते । इडाभक्षणेऽपि हुतशेषो भक्ष्यते । इतीडा पाकयागार्होच्यते । ' स यदि पुरा मानुषीं वाचं व्याहरेत् तत्रों वैष्णवीमृचं वा यजुर्वा जपेत् । यज्ञो वै विष्णुस्तद् यज्ञं पुनरारभते तस्यो हैषा प्रायश्चित्तिः ' ( श ०१७ | ४ | २० ) ब्रह्मा वा ऋत्विजां भिषक्तमः, अतिशयेन यज्ञस्य चिकित्सकः । स प्रायश्चित्तैर्यज्ञं भिषज्यति स वाचंयमो यज्ञं सन्दधाति । अन्यथा तु भाष्यसार - यजमान सविता से कहता है कि हे सवितृदेव! यह अनुष्ठीयमान याग तुम्हारे लिये है । तुमसे प्रेरित होकर ही देवताओं के यज्ञ में जो ब्रह्मा है, उस ब्रह्मा और बृहस्पति के लिये कहता है । क्योंकि देवताओं का ' ब्रह्मा ' बृहस्पति है । उससे अधिष्ठित होकर ही यह मनुष्य ' ब्रह्मत्व ' कर पाता है । इसलिये यह यज्ञ तुम्हारा ही है । इस यज्ञ की रक्षा करो । उसीके लिये यज्ञ करने वाले यजमान की और मुझ ब्रह्मा की रक्षा करो । स्वामी दयानन्द ने इस मन्त्र की व्याख्या करके निष्कर्ष बताया है कि सब लोग परस्पर प्रेमसम्पादनार्थ तपोवृद्धि और उसके रक्षणार्थ सर्वदा प्रयत्न करते रहें ।

पृष्ठ 57

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 57 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १३ ] वेदार्थपारिजातमाष्यसहिता ४७ नैनं सन्दध्यात् । तस्माद्वाचंयम एव स्यात् । स यत्राह - ब्रह्मन् प्रस्थास्यामीति तद्ब्रह्मा जपत्येतं ते देव सवितर्यज्ञं प्राहुरिति तत्सवितारं प्रसवायोपधावति । सहि देवानां प्रसविता बृहस्पतये ब्रह्मण इति बृहस्पतिर्वे देवानां ब्रह्मा तद्य एव देवानां ब्रह्मा तस्मा एवैतत्प्राह । तस्मादाह बृहस्पतये ब्रह्मण इति तेन यज्ञमव तेन यज्ञपति तेन मामवेति नात्र तिरोहितमिवास्ति । ( श ० १२७४ २१ ) | ' ब्रह्मन् प्रस्थास्यामि ' ( आप ० श्री ० ३ | ४ | ५ ) इत्यध्वर्युणा समिधमाधातुमनुज्ञाप्रदानाय बोधितो ब्रह्मा ' एतं त इति समिदामन्त्रितः प्रसौति ' ( का ० श्र ० २।२।१ ९ ), अर्थाद् एतं त इति मन्त्रेणानुजानीयात् । मन्त्रस्तु व्याख्यात एव । अध्यात्मपक्षे तु – हे देव जगत्क्रीडाविनोदिन् सवितः प्रपञ्चोत्पादयितः! एतं पूर्वोक्तं ब्रह्माग्नौ ब्रह्मणा तं ज्ञानयज्ञं वेदा वेदान्ता ब्रह्मविद्वरिष्ठाश्च बृहस्पतये बृहत्या वाचः पतये वेदान् वाचो विधेयान् कुर्वते ब्रह्मणेऽपरब्रह्मोपासनया तद्भावितत्वेन ब्रह्मभावापन्नाय ब्रह्मभूताय प्राहुस्तात्पर्येण वर्णयन्ति । तेन हेतुना हे सवितस्तादृशं ज्ञानयज्ञमव साफल्यसम्पादनेन रक्ष । तेन साफल्येन यज्ञपालकमाचार्यमव पालय । तेनाचार्य -पालनेन आचार्यं प्रवचनसामर्थ्य प्रदानेन मां शिष्यं तद्ग्रहणधारणसामर्थ्य प्रदानेन अव रक्ष ब्रह्मस्वरूप-साक्षात्कारं प्रदाय रक्ष ॥ १२ ॥

मनो॑ जूतिर्जुषतामाज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नो॒त्वरि॑ष्ठं य॒ज्ञ ँसम॒मं द॑धातु॒ विश्वे देवास इह मोययन्ता॒म ३ प्रति॑ष्ठ ॥ १३ ॥

हे सवितः! मनस्त्वदीयं चित्तम् आज्यस्य आज्यं घृतं कर्मणि षष्ठी जुषतां सेवताम् । त्वदीयं चित्तं यज्ञसम्बन्धिन्याज्ये स्थापयेत्यर्थः । कीदृशं मनः? जूतिः अतीतानागतादिसर्वपदार्थेषु गमनशीलं गतिकर्मणो जवतेः क्तिन्प्रत्ययान्तो निपातः । स्त्रीत्वं छान्दसम् । जवते शीघ्रं गच्छतीति जूतिः । कि बृहस्पतिरिमं यज्ञं तनोतु विस्तारयतु ब्रह्मत्वात् । इमं यज्ञमरिष्टं हिंसारहितं दधातु सन्दधातु । इडाभक्षणेन हि मध्ये यज्ञो किन्तु स्वामी दयानन्दोक्त अर्थ मन्त्र के किसी शब्द से नहीं निकल रहा है । यज्ञानुष्ठान की विधि तो ब्राह्मणग्रन्थों में ही होती है, मन्त्रों में नहीं । किन्तु स्वामी दयानन्द तो ब्राह्मणग्रन्थ को ' वेद ' नहीं मानते और न ही उसे ईश्वरोक्त मानते हैं । उनका स्वतः प्रामाण्य भी वे स्वीकार नहीं करते । मन्त्रब्राह्मणात्मक वेद में ही ' सर्वरक्षणविधान ' आदि कहा गया है, केवल मन्त्रों में नहीं । देव यानी ईश्वर तो कर्म के अनुसार ही दिव्य सुखादि गुणों का दाता होता है, कर्मनिरपेक्ष होकर नहीं । अन्यथा संसार में सभी लोग दिव्य सुख गुणों से सम्पन्न हुए दिखाई देंगे । इत्यादि कारणों से दयानन्दोक्त अर्थ उचित नहीं प्रतीत हो रहा है । अतः उब्वट - महीधरोक्त अर्थ ही शतपथानुसारी होने से उचित है | अध्यात्मपक्ष में मन्त्र का अर्थ इस प्रकार होगा - हे सवितः! तुम ही प्रपञ्च को उत्पन्न करने वाले हो । आचार्य प्रवचन का ग्रहण, धारणसामर्थ्य हमें प्रदान कर और ब्रह्मस्वरूपसाक्षात्कार करा कर हमारी रक्षा करो ॥ १२ ॥

मन्त्रार्थ - हे मन! तू घृत का सेवन कर । हे सविता! अपने शीघ्रगामी मन को यज्ञसम्बन्धित घृत में स्थापित करो । बृहस्पति इस यज्ञ को वृद्धिङ्गत करे और हिंसारहित करके उसे धारण करे । समस्त देवगण इस यज्ञ कर्म में सन्तुष्ट हों । इस प्रकार से प्रार्थित हुआ सूर्य ' ओम् प्रतिष्ठ ' ठोक है, प्रयाण करो - ऐसी आज्ञा दे ॥ १३ ॥

भाष्यसार - उक्त मन्त्र के द्वारा सवितृ देवता की प्रार्थना की गई है । समिदाधान काल में यजमान के अभिप्रेत प्रयाण को जानकर और उसे स्वीकार कर सविता देव प्रयाण की प्रेरणा दे ।

पृष्ठ 58

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 58 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४८ शुक्लयजुर्वेद संहिता [ अ ० २ विच्छिन्न इत्येवमुच्यते । विश्वेदेवासः सर्वे देवा इह कर्मणि मादयन्ताम् । ' मद तृप्ती ' चुरादिस्तृप्यन्तामित्यर्थः । प्रतिष्ठ प्रयाणं । एवं प्रार्थितः सविता देव ओं प्रतिष्ठ इत्यनुज्ञां प्रयच्छतु । ओमित्यङ्गीकारार्थः तथास्त्वित्यर्थः प्रेरयतीत्यर्थः । कुरु । समिदाधानकाले यजमानस्याभिप्रेतं प्रयाणमवगम्य सविता देवोऽङ्गीकृत्य प्रयाणे तृणं ब्रह्म क्षिपेत् । ' ब्रह्मसदनात् तृणं निरस्यति निरस्तः पाप्मा ' ( का ० श्री ० २१ २२ ) इति नैर्ऋत्यां स्वस्थान आहवनीया-' इदमहं बृहस्पतेः सदसि सीदामि ' ( का ० श्र ० २ १ १ ) | ब्रह्मा इदमहमिति मन्त्रेण भिमुख उपविशेत् । कश्चिदाधुनिकस्तूभयोः कण्डिकयोः सम्बन्धमाह – ' हे देव सवितः सर्वप्रेरक प्रकाशक! मदीयमिमं ते तव उपर्युक्त यज्ञमव यज्ञं प्राहुः । अयं यज्ञो बृहस्पतये वेदलक्षणाया वाण्याः पालकाय विदुषेऽस्तु । तेन यज्ञेन रक्ष तेनैव यज्ञपतिमव तेन मामपि अव । कोऽयं यज्ञ इति नात्र स्पष्टम् । स च बृहस्पतये कथमस्तु | यज्ञादीनां पालकत्वे च कथं हेतुत्वम्? मनो जूतिरिति जूतिर्वेगवत्सावधानं मन आज्यस्य ज्ञानयोग्य साधनं जुषताम् । बृहस्पतिः वेदवाणीपरिपालको विद्वान् इमं यज्ञं तनोतु सम्पादयतु | ब्रह्मविद् इमं हिंसारहितं यज्ञं सम्यग्रीत्या पारयतु । इहलोके समस्ता विद्वांसो मादयन्ताम् आनन्दिनो भवन्तु । ओं हे विद्वन् प्रतिष्ठत्वं प्रतिष्ठां प्राप्नुहि । योऽयं श्रौतसूत्रब्राह्मणादिनिर्दिष्टः प्रसिद्धः मन्त्रेषु च यः प्रसिद्धस्तमनभ्युपगच्छन्नपि यज्ञस्य पालनीयत्वं पालनहेतुत्वं च कथयन्निस्त्रप एव । ओमित्यस्य रूढमर्थमुपेक्ष्यावयववृत्त्या विद्वन्नित्यर्थं लापयन् विदुषश्च प्रतिष्ठालाभे प्रेरयन हेतुमपि नापेक्षत इति चित्रम् । सिद्धान्ते तु - दानादिगुणयुतः सर्वोत्पादकः परमेश्वरोऽत्र प्रार्थ्यते । इमं क्रियमाणं यज्ञं त्वदर्थमेव यजमानः करोति, ' स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ' ( भ ० गी ० १८४६ ) इति परमेश्वरार्पण-बुद्धयाऽनुष्ठीयमानस्य यज्ञस्य प्रशस्तत्वोक्तेः । तस्यैवान्तर्यामिणः प्रेरणया देवानां यज्ञे बृहस्पतिः, मनुष्याणां यज्ञे ब्रह्मा यज्ञनिर्वाहको ब्रह्मनामक ऋत्विग्भवति । तदीयत्वेनैव यज्ञस्य यज्ञपतेर्ब्रह्मणश्च तत्कर्तृकक्षा प्रार्थ्यते । त्रयोदश्यां कण्डिकायामपि स एव सविता प्रायते - त्वदीयमतीतानागतवर्तमानकालान् तद्गत वस्तूनि च वेगेन युगपदेव गन्तु मनो यज्ञसम्बन्धिन्याज्ये स्थापय । यथा भक्तः स्वनिवेदिते यथोपलब्धे नैवेद्ये भगवद्भागास्पदत्वं प्रार्थयते - हे विभो! मदीयमिदं नीरसमपि पत्रपुष्पफलं जलादिकं श्रमणा ( शबरी ) -फलदृष्ट्या सौदामपृथुकदृष्ट्या गोपाङ्गनार्पितदधिनवनीतदृष्ट्या यशोदास्तन्यदृष्ट्या राधाधरसुधादृष्ट्या वा गृहाणेति तद्वत् । वेगेन सर्वदेशकालवस्तुगाम्यपि त्वदीयं मनो मदीये यज्ञाज्ये स्थिरं भवत्वित्यर्थः । किञ्च, त्वदीयांशो बृहस्पतिर्ब्रह्मा सन् यज्ञमिममरिष्टं हिंसारहितं कृत्वा तनोतु सन्दधातु । सर्वे च देवा अत्र यज्ञे तृप्यन्ताम् । त्वत्तृप्तिकरो यज्ञोऽपि त्वदनुग्रहादेव सम्पद्यताम् । एवं प्रार्थितः सविता देवः ओं प्रतिष्ठ इत्यनुज्ञां प्रयच्छतु किसी आधुनिक विद्वान् ने दोनों कण्डिकाओं का सम्बन्ध बताया है । यह यज्ञ वेदलक्षणवाणी के पालन करने वाले विद्वान के लिये हो । उस यज्ञ से मेरे इस यज्ञ की, उसीसे यज्ञपति की और उसी से मेरी भी रक्षा करो | किन्तु इस व्याख्या में कोई किसी प्रकार का कार्य - कारण माव न होकर भी व्याख्या कर दी गई है, अतः कोई निष्कर्ष ही नहीं निकल पाता है । अतः निरर्थक ही है । उव्व महीधर ने सैद्धान्तिक दृष्टि से जो व्याख्या की है, उससे स्पष्ट होता है कि परमेश्वरार्पण बुद्धि से अनुष्ठीयमान यज्ञ ही प्रशस्त है । उस अन्तर्यामी की प्रेरणा से ही बृहस्पति ब्रह्मा के रूप में यज्ञ का निर्वाहक बनता है । यह उस

पृष्ठ 59

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 59 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १३ ] वेदार्थ पारिजातभाष्यसहिता ४ ९ प्रतिष्ठ प्रयाणं कुरु । समिदाधानकाले यजमानस्याभिप्रेतं प्रयाणमवगम्य सविता देवोऽङ्गीकृत्य प्रयाणे प्रेरयतीत्यर्थः । अत्र दयानन्दः - ' मम मनः मननशीलं ज्ञानसाधनं जूतिः वेगेन व्याप्तिकर्म आज्यस्य आज्यं यज्ञसामग्रीं ' सुपां सुलुक् " प्रीत्या सेवताम् । बृहस्पतिः ( पा. सू. ३।३।९ ७ ) इति द्वितीयास्थाने षष्ठी । जुषतां बृहतां प्रकृत्याकाशादीनां पतिः पालक ईश्वरो यज्ञं संसाराख्यमिमं प्रत्यक्षाप्रत्यक्षं सुखभोगहेतुं त विस्तारयतु । अरिष्टं रिष्यते हिंस्यते यः स रिष्टो न रिष्टोऽरिष्टस्तं यज्ञमस्माभिरनुष्ठातुमहमिमं समक्षं प्रत्यक्षं विज्ञानयज्ञं सन्दधातु धारयतु । विश्वेदेवासः सर्वे विद्वांसः, अरिष्टं यज्ञद्वयं संतत्या सन्धाय अस्मिन् संसारे हृदये वा मादयन्तां हर्षन्ताम् । ओम् इतीश्वरवाचको वेदविद्या वा, प्रतिष्ठ प्रतिष्ठति । हे ओङ्कारवाच्यबृहस्पते! त्वमिह प्रतिष्ठ कृपयेमं यज्ञं विद्यां च प्रतिष्ठापय ' ( पृ ० १७१ - १७२ ) । ' ईश्वर आज्ञापयति हे मनुष्याः! युष्मन्मनः सत्कर्माण्येव प्राप्नोतु । मया योऽयं संसारे यज्ञः कर्तुमाज्ञाप्यते तमेवानुष्ठाय सुखिनो भवन्तु भावयन्तु च । ओमिति परमेश्वररस्यैव नाम । नैव सत्क्रियां विना प्रतिष्ठा भवति । तस्मान्मनुष्यः सर्वथाऽमं विहाय धर्मकार्याण्येव सेवनीयानि । यतः खल्वविद्यान्धकारनिवृत्तये विद्यार्कः प्रकाशत इति भावार्थ: ' ( पृ ० १७२ ) इति । तदेतत्सर्वं व्यत्ययबाहुल्येन स्वातन्त्र्येणार्थंकरणे वेदाक्षरबाह्यमेवार्थो भवति, तद्रीत्या धर्माधर्मयोरप्य-निर्णयात् । येऽग्निहोत्रदर्शपूर्णमासचातुर्मास्यज्योतिष्टोमादयो यज्ञा धर्मत्वेनाख्यायन्ते, ते वद्रीत्या वायुजलौषधि-शुद्धयर्था एव । परोपकारो धर्म इत्यपि न सङ्गतम्, तस्याप्यनिर्णयात् । परसुखापादनं परोपकार इत्यप्य-सङ्गतम्, तथा सति गुरुदारादिगमने धर्मत्वापत्तेः शिष्यताडनादावधर्मत्वापत्तेः रुग्णस्य कुपथ्याभिलाषिणो नियन्त्रणे वैद्यस्य पातकापातात् तद्दातुर्धार्मिकत्वापत्तेश्च । सत्यां वायुजलाद्यशुद्धावेव त्वदीयस्य यज्ञस्योपयोगः । आधुनिक सभ्यता रीत्यापि तदुपपत्तौ वैयथ्यमेव स्याद्यज्ञस्येति यज्ञानुष्ठानेनैव सुखिनो भवन्त्वितिरिक्तं वचः । यज्ञं संसाराख्यमित्यपि चिन्त्यम् । इममित्यस्य प्रत्यक्षाप्रत्यक्षं सुखहेतुमित्यपि प्रमाणसापेक्षम् । समक्षं विज्ञान-यज्ञमित्यपि प्रमाणापेक्षम् | हिन्दीभाष्ये तु वेगेन सर्वगामिविचारकं मन्मन आज्यं यज्ञसामग्री सेवतामिति लिखितम् । वेदे तु देवतोद्देश्येनाज्यादियज्ञसामग्री प्रयुज्यते न मनः सेवनार्थमिति विचित्रोऽर्थः । किञ्च, बृहस्पतिरिमं प्रकटाप्रकटमहिंसनीययज्ञं सुखानां भोगरूपं यज्ञं तनोतु इत्यपि किं सुखभोगरूप एव यज्ञः? ओमिति चेत्, कृतं वाय्वादिशुद्धयर्थेनापि होमेन, प्रकटाप्रकटसुखानां भोगेनैवाहिंसनीययागोपपत्तेः । यदुक्तं तेन ' अयं मन्त्रः शतपथे ( ११७१४/२२ ) व्याख्यातः ' इति, तदपि न त्वत्समीहितसाधनम्, तस्यान्यार्थत्वात् । तथाहि - ' मनो जूतिर्जुषतामाज्यस्येति । मनसा वा इद सर्वमाप्तम्, तन्मनसैवैतत्सर्वमाप्नोति बृहस्पतिर्यज्ञमिमं - तनोत्वरिष्टं यज्ञ समिमन्दधात्विति यद्विवृढं तत्सन्दधाति विश्वेदेवास इह मादयन्तामिति सर्वं वै विश्वेदेवाः सर्वेणैवैतत् सन्दधाति । स यदि कामयेत ब्रूयात् प्रतिष्ठेति यद्यु कामयेतापि नाद्रियेत ' ( ० १ १७ | ४ | २२ ) । एतदर्थस्तु देवानां जूतिः वेगवन्मनः जुषतां प्रीयतां तृप्यत्वाज्येनेत्यर्थः । बृहस्पतिर्ब्रह्मरूपो अन्तर्यामी परमेश्वर से ही सम्बन्धित होने से उसकी रक्षा की प्रार्थना उससे की गई है । तेरहवीं कण्डिका में भी उसी सविता की प्रार्थना की गई है । स्वामी दयानन्द ने जो व्याख्या की है, उसमें भी व्यत्ययबहुलता है, स्वतन्त्रतापूर्वक अर्थ किया गया है, अतः वेदाक्षरों से असम्बद्ध अर्थ हो गया है, उस कारण धर्माधर्म का निर्णय नहीं हो सकता । शतपथ की व्याख्या से दयानन्दोक्त अर्थ का समर्थन नहीं हो पा रहा है । ७

पृष्ठ 60

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 60 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५० शुक्लयजुर्वेद संहिता [ अ ० २ यज्ञं सन्दधातु विश्वे च देवास्तृप्यन्तु । त्वयानुज्ञातेऽध्वयों तस्मादनुजानीहीत्यभिप्राय मालक्ष्य सवितुः स्वयमाह् | ब्रह्मा सार्वात्म्यादहमेव सविता ततश्च प्रतिष्ठा अध्वयौं । अतिसर्जने लोट् ( पा ० सू ० ३ | ३ | १६३ ) इति गन्तृ हरिस्वामी तन्मन उब्वटस्तु – मनो जुषतां सेवतामाज्यस्य स्वमंशं जूतिः अतीतानागतवर्तमानकालेषु पदार्थेषु यद् इत्यर्थः । अत्रापि छान्दसं स्त्रीत्वम् । अध्यात्मपक्षे - हे मनः, आज्यस्येव करुणया द्रवद्धदयस्य भगवतः स्निग्धं स्वरूपं जुषतां सेवताम् । कीदृशं मनोजूतिर्वेगेन गमनशीलं मनो भगवतः स्वरूपचिन्तनेऽपि तस्य नायासः । नन्वेवं चाञ्चल्ये कथं नैरन्तर्येण भगवतः प्रीतिपूर्वकं सेवनं सम्भवतीति चेदाह -- बृहस्पतिः बुद्ध्यधिष्ठातृदेव इमं चिन्तनध्यानादिलक्षणं वृत्तिनिरोधयज्ञं तनोतु विस्तारयतु । न केवलं तनोतु किन्तु अरिष्टमविनष्टं यथा स्यात्तथा इमं यज्ञं सन्दधातु व्याधिस्त्यानादिविघ्नैर्यथा न प्रतिबद्धघेत तथा इमं भगवद्ध्यानलक्षणं यज्ञं सन्दधातु स्वरूपसाक्षात्कारफलपर्यन्तं सम्पादयतु । इह लोकोत्तरे आध्यात्मिके यज्ञे विश्वे सर्वे देवा मादयन्तां तृप्यन्ताम् भगवदाराधनेन सर्वेषां देवानां तृप्तिसम्भवात् । यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपनाखास्तथैव परमात्मोपासनेन तदंशभूता देवाः स्वयमेव तृप्यन्ति । सत्यामेवमभ्यर्थनायां देवो भगवान् बृहस्पतिः ओमिति तथास्त्वित्यङ्गीकृत्य प्रतिष्ठ भगवदुपासने सुस्थिरो भवेति प्रेरयति ॥ १३ ॥

एषा ते ' अग्ने स॒मिद्धैस्व॒ चा च॑ प्यायस्व । व॒ध॒षा॒महि॑ च व॒यमा च॑ प्यासिषीमहि । अग्ने ' वाजजि॒द्वाज॑ त्वा सस॒वा से वाज॒जित॒ सम्मा॑ज्मि ॥ १४ ॥

' एषा त इति होतानुमन्त्रयते ' ( का ० श्र ० ३ | ५ | २ ) । प्राकृतमार्षम् । इयमनुष्टुप् अग्निदैवत्या गच्छ ॥ हे अग्ने! एषा ते तव समित् समिन्धनहेतुः काष्ठविशेषो यः प्रक्षिप्यते, तया समिधा त्वं वर्धस्व प्यासिषीमहि वृद्धिं आप्यायस्व अस्मानपि वृद्धि प्रापय । तथा च त्वत्प्रसादाद्वयं वर्धिषीमहि पुत्रपश्वादिभिः । आच आज्य की तरह करुणा से द्रवित हुए हृदय को भगवान् के अध्यात्मपक्ष में अर्थ इस प्रकार होगा - हे मन! गमनशीलता बहुत ही वेगवती है, अतः उस परमेश्वर के स्वरूप-स्वरूप की सेवा में लगाओ । क्योंकि मन की भगवत्सेवा को, चिन्तन में भी उसे कोई आयास नहीं होगा । मन की अति चंचलता रहने पर भी निरन्तर और प्रीतिपूर्वक प्रकार भगवदाराधन अर्थात् भगवद्ध्यानलक्षण यज्ञ को, यानी स्वरूपसाक्षात्कारात्मक फल को सम्पन्न कर सकता है । इस करने से समस्त देवताओं को तृप्ति हो जाती है ॥ १३ ॥

मन्त्रार्थ - हे अग्ने! तुम्हें प्रदीप्त करने वाली यह समिध् है । उसके सम्पर्क से तुम की वृद्धिङ्गत सर्वथा हो सब और प्रकार हमें भी से वृद्धिङ्गत करो । तुम्हारे अनुग्रह से हमारी वृद्धि होगी और तब हम अपने पुत्र - पशु आदि करने वाले तुमको मैं जल से वृद्धि कर पायेंगे | हे अन्नोत्पादक अग्ने! अन्न के उद्देश्य से गमन करने वाले और उसे प्राप्त ' अग्ने वाजजित् ' मन्त्र से शुद्ध करता हूँ । होता नामक ऋत्विज् ' एषा ते ' मन्त्र को कहे । पहले जिस प्रकार रहित ' प्रसृवांसम् ' मन्त्र से परिक्रमण करके तीन - तीन बार अग्निसंमार्जन किया था, उसी प्रकार यहाँ परिक्रमण एक बार संमार्जन करे ॥ १४ ॥

तुम्हारे भाष्यसार हे अग्ने! इस समिदाधान से तुम वृद्धि को प्राप्त हो और हमें करने भी वृद्धि के लिये को प्राप्त कहा कराओ है ॥ प्रसाद से हम पुत्र- पशु आदि के साथ वृद्धि को प्राप्त हों । तदनन्तर अग्नि का संमार्जन