वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 61–70

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 61–70

पृष्ठ 61

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 61 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १४ ] वेदार्थपारिजातमाष्य सहिता ५१ आप्यासिषीमहि । आप्यायतेर्लिङि उत्तमपुरुषबहुवचनम् । सीयुटश्छान्दसोऽभ्यासः । ' संमाष्टि पूर्ववपदक्राम ँ सकृत् सकृत् ससृवा ७ समिति ' ( का. श्री. ३ | ५ | ४ ) पूर्वमग्ने वाजजिदिति मन्त्रेण यथेध्मसंनहनसंमार्गः कृतस्तथात्रापि संमाष्टि । तत्र परिक्रम्य त्रिस्त्रिः कृतः, अत्र तु परिक्रमणं विनैकैकवारमिति विशेषः । पूर्ववन्मन्त्रव्याख्यानम् । हे अग्ने त्वां संमाज्मि । कीदृशं त्वां वाजं ससृवांसमन्नमुद्दिश्य गतवन्तमन्नं सम्पादितवन्तम् । आधुनिकस्तु - ' हे शत्रुतापक! एषा ते समित् सम्यक् प्रदीप्ता विद्या कला वा, तया वर्धस्व आप्यायस्व सम्यक् पुष्टो भव । वयं प्रजाजनास्त्वया समृद्धा भवामः । हे अग्ने राजन्! वाजं युद्धं ससृवासं युद्धाय प्रयाणं कुर्वाणं वाजजितं युद्धविजेतारं त्वां संमाज्मि सम्यक् पवित्रयामि ' इति । अत्रार्थे गोणार्थकता तु स्पष्टैव । अग्निसमिच्छ्ब्दयोर्वह्रौ काष्ठविशेषे च रूढयो राज - विद्या- कला पर्यवसायित्वमप्रामाणिकम् । राज्ञश्च प्रजाजनकर्तृकं पवित्रीकरणं कीदृगित्यपि नोक्तम् । पौर्वापर्यविसङ्गतिरपि । सिद्धान्ते तु इडाभक्षणानन्तरमनुयाजार्थमध्वर्य कृत-प्रस्थानानुज्ञार्थं मन्त्रप्रसङ्गः । दयानन्दस्तु - ' हे अग्ने परमेश्वर भौतिकाग्ने वा एषा प्रदीप्तिहेतुस्ते तव तस्य वा । समिध्यते sar समित् विद्या काष्ठादिर्वा । तया विद्यया समिधा वास्माभिः स्तुतः संस्त्वं वर्धस्व चास्मान् वर्धय । आप्यायस्वेत्यनेनैवेष्टसिद्धौ वर्धिषीमहीति स्पष्टार्थम् । हे भगवन्नेवं भवद्विदितगुणैरस्माभिः प्रकाशितः संस्त्वं आप्यायस्व चास्मान्नित्यं प्यायय । वयं विद्यावन्तो धार्मिकाश्च आसमन्तात् क्रियायोगे प्यासिषीमहि । प्यङधातोः ' सिबुत्सर्गश्छन्दसि ' ( पा. सू. ३।१।२४ ) इत्यनेन वार्त्तिकेन सिप्प्रत्ययः । अग्ने ज्ञानस्वरूप विजयप्रद भौतिको वा, वाजं सर्वस्य वेगं जयति ईश्वरो वाजं जयति येन वा स भौतिको वाजं ज्ञानवन्तं वा त्वा त्वां तं वा ससृवांसं सर्वज्ञानवन्तं शिल्पविद्यागुणप्राप्तिमन्तं वा वाजं संग्रामं जाययति तं सम्यगर्थे माज्मि शुद्धो भवामि शोधयामि वा । हे भगन्नग्ने वाजजिद्वाजं ससृवांसं त्वां वयं वर्धिषीमहि कृपया भवान् अस्मानपि वाजजितः सस्रुषो वाजान् करोति । यथा वयं भवन्तमाप्यासिषीमहि, तथैव भवांश्चास्मान् सर्वेः शुभगुणैराप्यायतु । अहं भवन्तमाश्रित्य संमाज्मि भवदाज्ञानुष्ठानेन शुद्धो भवामि । यद्वा येषा तेऽग्ने वधिका समिदस्ति, तया चायं वर्धते आप्यायते च वयं तं वाजं ससृवांसं वाजजितमग्निविद्यावृद्धयै वर्धिषीमहि आप्यासिषीमहि । यतोऽयं शिल्पविद्यासिद्धये विमानादिभिर्यानैर्वाजान् सस्रुषो वाजजितोऽस्मान् विजयेन वर्धयति तमहं संमाज्मि । ये मनुष्याः परमेश्वराज्ञापालने क्रियाकौशले च वर्धन्ते ते विद्यायां सर्वानानन्दयित्वा शत्रून् जित्वा शुद्धा भूत्वा इष्टान् सुखयन्ति नेतरेऽलसाः । चकारचतुष्टयेन ईश्वराज्ञा धर्म्या सूक्ष्मस्थूलतयाऽनेकविधास्ति । तथा क्रियाकाण्डे कर्तव्यानि कर्माण्यनेकानि सन्तीति विज्ञेयम् । ' ( पृ. १७३ - १७४ ) इति । किसी आधुनिक विद्वान् ने व्याख्या की है कि हे शत्रुतापक! सम्यक् प्रदीप्त हुई विद्या अथवा कला से अच्छी तरह से सन्तुष्ट हो जाओ । हम प्रजा - जन तुम्हारे द्वारा समृद्ध हों । हे राजन्! युद्धार्थं प्रयाण करने वाले एवं युद्ध में विजय प्राप्त करने वाले तुम्हें हम पवित्र करते हैं । किन्तु इस अर्थ में गौणार्थकता तो स्पष्ट ही है । शब्दों को ' राज - विद्या- कला ' के अर्थ में पर्यवसित करने में वह्नि और काष्ठविशेष में रूढ रहने वाले ' अग्नि ' और ' समिध् ' कोई प्रमाण नहीं है । प्रजाजनकर्तृक राजा का पवित्रीकरण किस प्रकार का है, यह भी नहीं बताया है । तथा पौर्वापर्यविसङ्गति भी हो रही है । मन्त्र में प्रसंग तो यह है कि इडाभक्षण के अनन्तर अनुयाज के लिये अध्वर्युकृत प्रस्थानार्थं अनुज्ञा के लिये यह सब किया जा रहा है ।

पृष्ठ 62

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 62 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५२ शुक्लयजुर्वेदसंहिता [ अ ० २ तदपि यत्किञ्चित् अनुपपत्तेः । तथाहि - यद्यपि भौतिकाग्नेः समिधा वर्धनं सम्भवति, तथापि विद्यया समिधा वा न निरतिशयब्रह्मणो वर्धनसम्भवः । समिच्छब्दो विद्यायां शिष्टैरप्रयुक्तत्वान्न विद्यार्थः । यथा गमनशीलत्वेऽप्यजाविखरोष्ट्रमनुष्यादयो न गोपदार्थाः, किन्तु गलकम्बलादिमानेव पशुस्तदर्थः एवमाप्यायनमपि ब्रह्मणो न सम्भवति, नित्यकटस्थस्वाभाव्यात् । अग्ने ज्ञानस्वरूप विजयप्रद इत्यपि भाक्तोऽर्थः, सत्यां शक्तो तदयुक्तत्वात् । शिल्पादिविद्याप्राप्तिमन्तमिति कस्य विशेषणम्? न परमात्मनः, तस्य नित्यज्ञानवत्वेन शिल्पविद्याप्राप्त्यसम्भवात् । न वा भौतिकाग्नेविशेषणम्, तस्य जडत्वेन विद्यावत्त्वासम्भवात् । संमाज्मि शुद्धो भवामीत्यपि नार्थः, मृजुष्धातोः सकर्मकत्वेन कर्मसापेक्षत्वात् । चकारचतुष्टयस्येश्वराज्ञा धर्म्येत्याद्यर्थोऽपि निर्मूल एव प्रमाणानुपस्थापनात् । ( श ० ११८/२/३ - ७ ) इत्यनेनापि तद्विरुद्धमेव । ' अथ समिधमभ्यादधाति ' इत्यादिना त्वाहवनीयाग्नौ समिदाधानं विहितम्, न तत्र विद्याऽऽधानप्रसङ्गः । ' ता ' होतानुमन्त्रयते एषा ते अग्ने समित् तया वर्धस्व ' इत्यत्र सामिधेनीस्थानीयया एषा ते समिदित्यनया ऋचा होता तां समिधमनुमन्त्रयते, कात्यायनेनापि तथैव सूत्रणात् । अनुमन्त्रणात्मकं कर्म होतुर्नाध्वर्योः । यदि न मन्येत तदा स्वयमेव यजमानोऽनु-मन्त्रयेत् । तस्मादत्र काष्ठात्मिकायाः समिध एवानुमन्त्रणमनुयाजीयस्याग्नेः समिन्धनाय | अथ सम्माष्टति । अग्ने वाजजिद्वाजं त्वेत्यादिमन्त्रेण सकृत् सकृदग्नेः संमार्जनं विधाय जामितादोष-प्रदर्शनेन त्रिस्त्रिः संमार्जनं वारितम् । नह्येतौ सम्मार्जनविधिनिषेधौ आत्मशुद्धी युज्येते । संमाष्टति स ब्राह्मणेन प्रकृते मन्त्रे ससृवा ७ सं वाजजितं संमामति पाठः समर्थ्यते । अग्र आह - सरिष्यन्निव हि तहि भवत्यथात्र ससृवा समिति ससृवेव ह्यत्र भवति । पुरुषकालव्यत्ययस्वातन्त्र्ये कथमेतत् स्यात्? अथानुयाजान् यजतीत्यनुयाजनिर्वचनमुक्तम् । ' या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायते सर्वा वैतत्ता इष्टा भवन्ति । तद्यत्तासु सर्वास्विष्टास्वथैतत्पश्चैवानुयजति तस्मादनुयाजा नाम ( श ० ११८२७ ) । नहि त्वद्वत्या यज्ञे काश्चिद्देवता इज्यन्ते, मनुष्यातिरिक्तं देवतानभ्युपगमात् । तस्मादवैदिक एव त्वदीयवायुशुद्धधर्थो होमः, धूपवर्तिकादिप्रयोगवत् । यानादिनिर्माणचर्चा प्रकृतमन्त्रेऽज्ञजनव्यामोहार्थमेव । अध्यात्मपक्षेऽपि - हे अग्ने! परमात्मन्, ' एकं सद्विप्रा बहुधा वदन्ति ' ( ऋ ० सं ० १ ९ ६४।४६ ) इति मन्त्रवर्णात् । एषा साक्षिभास्यत्वेन प्रत्यक्षा ते तव समिद्धावाग्निदीपोपासना, तया वर्धस्व भक्तहृदयेऽभिव्यक्तं स्वीयं रूपं परमसौन्दर्यमाधुर्याद्यनन्तगुणगणशालितयाविर्भावय । आप्यायस्व अचिन्त्यानन्तैश्वर्यवत्त्वेन स्वामी दयानन्द ने इस मन्त्र की अपने ढंग से व्याख्या करके यह बताया है कि जो मनुष्य, परमेश्वर की आज्ञा का पालन करने में तथा क्रियाकौशल में निष्णात रहते हैं, वे सबको आनन्दित करके और शत्रुओं को जीतकर शुद्ध होकर अपने मित्रों को सुखी बनाते हैं । उनसे भिन्न आलसी लोग वैसा नहीं कर पाते । ईश्वर की आज्ञा धर्म्य है । वह स्थूल - सूक्ष्म भेद से अनेक प्रकार की होती है । तथा क्रियाकाण्ड में मी कर्तव्य कर्म अनेक हुआ करते हैं । अनेक अनुपपत्तियों के कारण उनकी यह व्याख्या मी उचित नहीं है । उन्होंने यानादिनिर्माण की चर्चा प्रकृत मन्त्र में जो की है, वह अज्ञानियों के व्यामोहार्थं ही है । अध्यात्मपक्ष में प्रकृत मन्त्र की व्याख्या इस प्रकार है - हे अग्ने परमात्मन् | यह जो समिद्भावाग्निदीपनरूप उपासना हम लोग करते हैं, उसके द्वारा भक्तिमान् लोगों के हृदय में अभिव्यक्त होनेवाले अपने रूप को परम सौन्दर्य माधुर्याद्यनन्तगुणगण के रूप में प्रकट करो । अचिन्त्य - अनन्त ऐश्वर्य तथा वधिष्णु के रूप में अपने को प्रकट करो | तुम्हारे अनुग्रह से ही ज्ञान - वैराग्यादि की वृद्धि हममें हो सकेगी । तुम्हारी उपासना करने से ही हममें सद्गुणों की

पृष्ठ 63

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 63 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १५ ] वेदार्थपारिजात भाष्य सहिता ५३ त्वेन स्वात्मानं प्रकटय । त्वत्प्रसादाद्वयं च वर्धिषीमहि ज्ञानवैराग्याद्यभिवृद्धि प्राप्नुयाम । आप्यासिषीमहि त्वदुपासनानुगुणान् गुणान् वृद्धान् करवाम । हे अग्ने! त्वां संमाज्मि किंभूतं त्वां वाजं ससृवांसम् अभीष्टमन्त्र-मुद्दिश्य गतवन्तमभीष्टं सम्पादितवन्तं कृतकार्यं त्वामभिषिञ्चामि । शेषं पूर्ववत् । श्रुतिसूत्रसम्मतं सिद्धान्तानुसारि व्याख्यानं तु पूर्वमुक्तमेव ॥ १४ ॥

अ॒ग्नीषोम॑यो॒रुज्जति॒मनु॒ज्जॆषं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि । अ॒ग्नीषोम॒ तमप॑नु॒दतां॒ य॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रसवेनापहामि । इन्द्राग्न्योरुज्जति॒मनु॒ज्जैषं वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि । इ॒न्द्रा॒ग्नी तमप॑नु॒दतां॒ य॒ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ॥ १५ ॥

' एत्य जुहूपभृतो व्यूहत्यग्नीषोमयोरिति जुहूं प्राचीं दक्षिणेनोत्तानेनाग्नीषोमौ तमितीतरेणेतरां नीचा प्रतीचीम् ' ( का ० श्र ० ३ | ५ | १७ ), ' यथादेवतमन्यत् ' ( का ० श्रो ० ३।५।१८ ) । यजमानो वेदे: पश्चादागत्य जुहूपभृतौ प्रेरयति । अग्नीषोमयोरिति मन्त्रेण दक्षिणहस्तेनोत्तानेन जुहूं प्रस्तरात् प्राचीं प्रेरयेत् । अग्नीषोमा-विति मन्त्रेण सव्येन पाणिना अधोमुखेन प्राङ्मुखीमेवोपभृतं प्रतीचीं प्रेरयेत् । विकृती ' शूर्पेण जुहोति ' ( श ० २।५।२।२३ ) इत्यादौ जुहुस्थानापन्नानां शूर्पादीनामपि व्यूहनं भवति । जुहूपभृतोः परस्परविपरीतत्वे-नापनोदनं व्यूहनम् । अग्नीषोमयोद्वितीयपुरोडाशदेवतयोरुज्जितिमनु अविघ्नेन हविः स्वीकाररूपमुत्कृष्टं जपमनुसृत्याहं यजमान उज्जेषमुत्कृष्टं प्रधानदेवतयोरुज्जिति मुत्कृष्टजयमनु उज्जेषं उत्कृष्टं जयं प्राप्तवानस्मि । वृद्धि हो पायेगी । हे अग्ने! अभीष्ट का सम्पादन करने के कारण तुम कृतकार्य हो । हम तुम्हारा अभिषिचन करते हैं । श्रुति - सूत्र सम्मत सिद्धान्त का अनुसरण करने वाली व्याख्या पहिले ही की जा चुकी है ॥ १४ ॥

मन्त्रार्थ - अग्नीषोमरूप पुरोडाश - देवताओं के हविस्वीकाररूप जय के समान मैंने भी उत्कृष्ट जय प्राप्त किया है । पुरोडाश की आज्ञा से जुहूरूपधारी यजमान को मैं उत्साहित करता हूँ । जो हमसे द्वेष करता है और हम जिससे द्वेष करते हैं, उन आलस्यादि शत्रुओं को अग्नीषोम दूर कर दे । उपभृतरूप शत्रु को पुरोडाश देवता की आज्ञा से मैं दूर करता हूँ । इन्द्राग्नीरूप पुरोडाश - देवताओं के हविस्वीकाररूप जय के समान मैंने भी उत्कृष्ट जय प्राप्त किया है । पुरोडाशरूप अन्न की आज्ञा से मैं उपभृत्धारी यजमान को प्रोत्साहित करता हूँ । जो हमारा द्वेष करता है और हम जिसका द्वेष करते हैं, उन आलस्यादि शत्रुओं को इन्द्राग्नी दूर कर दे । जुहूरूप शत्रु को पुरोडाश देवता की आज्ञा मैं दूर करता हूँ । ' अग्नीषोमयो: ' मन्त्र से जुहू और उपभृत् का व्यूहन करे । ( व्यूहन का अर्थ है -- परस्पर विरुद्ध ढकेलना, अर्थात् यजमान उपसृत् से पूर्व की ओर जुहू को ढकेल दे और जुहू से उपभृत् को पश्चिम की ओर ढकेल दे ) ॥ १५ ॥

भाष्यसार --- यजमान वेदी के पश्चिम भाग में आकर ' अग्नीषोमयोः ' मन्त्र से जुहू और उपभृत् को प्रेरित करता है । उत्तान किये हुए दक्षिण हाथ से जुहू को प्रस्तर से पूर्व को ओर प्रेरित करे और ' अग्नीषोमो ' मन्त्र से अधोमुख ( अनुत्तान ) वाम हाथ से पूर्व की ओर मुखवाली उपभृत् को प्रतीची की ओर प्रेरित करे ।

पृष्ठ 64

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 64 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४ शुक्लयजुर्वेद संहिता [ अ ० २ वाजस्यान्नस्य पुरोडाशादेः प्रसवेनाभ्यनुज्ञया मां प्रोहामि । मां यजमानं जुहूपधारिणं प्रोत्साहयामि । यद्यप्यू-हतिवितर्कार्थः, तथाप्युपसर्गवशादत्रोत्साहार्थः । उपभृतं प्रतीचीं प्रेरयति यः शत्रुरसुरादिरस्मान् द्वेष्टि अस्मदीय-यज्ञविनाशाय द्वेषं करोति यं चालस्यादिरूपं यज्ञविरोधिनं शत्रुं वयं द्विष्मो विनाशायोद्योगं कुर्मः, तमुभय-विधशत्रुम् अग्नीषोमो देवो अपनुदतां निराकुरुताम् । किञ्च, अहमप्येनं द्विविधं शत्रुं वाजस्य प्रसवेन पुरोडाश-देवताया अभ्यनुज्ञया प्रोहामि निराकरोमि । उत्तरो मन्त्री दर्शदेवताविषयी समानार्थी इन्द्राग्न्योरुज्जिति मनु उज्जेषं वाजस्य प्रसवेन मां प्रोहामि प्रोत्साहयामि योऽस्मान द्वेष्टि यं च वयं द्विष्मस्तमिन्द्राग्नी अपनुदताम् । अहमपि वाजस्य प्रसवेन तमपोहामि निराकरोमि । ऐन्द्राग्नपुरोडाशानुष्ठाने तावेतौ स्रुग्व्यूहनमन्त्री | आधुनिकस्तु - ' अग्निशब्देन शत्रुसन्तापकरं सेनापति सोमशब्देन चन्द्रवदाह्लादकं राजानं विवक्षित्वा तयोरुज्जितिमुत्तमविजयमनु अहमपि विजयलाभं कुर्याम् । मां वाजस्य प्रसवेन युद्धोपयोगिनैश्वर्येण प्रोहामि अग्रेसरं करोमि । अग्नीषोमो पूर्वोक्तो सेनापतिराजानी तमपनुदतां हत्वा दूरमपसारयताम् । योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । अहमपि वाजस्य युद्धस्य प्रसवेनैश्वर्येण तमपोहामि हत्वा दूरमपसारयामि । इन्द्राग्निपदाभ्यां च वायुविद्युतुल्यौ अस्त्रतज्ज्ञो विवक्षित्वा तयोरुज्जयमनु अहं राजा वाजस्य प्रसवेन उत्कृष्टविजयं प्राप्नुयाम् । वाजस्य प्रसवेन मां प्रोहामि, इन्द्राग्नी तमपनुदताम् । योऽस्मान् द्वेष्टि यं च वयं द्विष्मः तं युद्धयोग्येनास्त्रे दूरमपगमयामि ' इति, तन्न सङ्गतम्, अर्थविषये स्वातन्त्र्याचरणात् । यद्यप्ययं पूर्वाचार्यनिर्दिष्टमार्गमनुसृत्यैव पदार्थाश्चिनोति, तथापि सेनापतिराजानौ अस्त्रतज्ज्ञौ च स्वाभ्युहितो गौणार्थी गृह्णाति । ' गौणमुख्यार्थयोर्मुख्ये कार्य सम्प्रत्ययः ' इति न्यायेन गोणार्थस्त्याज्य एव । ' न विधौ परः शब्दार्थ: ' इति शाबरभाष्यवचनेनापि स्वार्थपर्यवसायिनि वाक्ये परो गौणः शब्दार्थो न युक्तः । किञ्च, अग्निशब्देन सेनापत्यर्थंकरणेनास्त्रतज्ज्ञयोरपि तत्रैवान्तर्भावः । पुनरिन्द्राग्निशब्देनास्त्रतज्ज्ञयोर्ग्रहणमप्यकिञ्चित्करमेव । किञ्च, व्यक्तिद्वेषिणं व्यक्तिगतद्वेषास्पदं सेनापतिराजानौ कथं निराकरिष्यतः? निष्प्रमाणकश्चायमर्थः, व्याकरणकोषाद्यनुसारेणानेकानभिमतार्थानामपि सम्भवात् । सायणोव्वटमहीधरादिसम्मतस्त्वर्थः कात्यायनादिश्रौतसूत्रप्रमाणितः । पौर्णमाससम्बन्धिनावग्नीषोमौ देवौ । दर्शसम्बन्धिनाविन्द्राग्नी देवौ । तत एव तत्र तत्र विनियुक्तयोर्मन्त्रयोर्वणिती । अत्र प्रसङ्गे वाजशब्दोऽपि न युद्धवाची, किन्त्वन्नवाच्येव । यज्ञप्रसङ्गे द्रव्यदेवतयोरेव प्रसक्तत्वादप्रसक्तत्वाच्चेतरस्य । श्रीदयानन्दस्तु — ' ईश्वर उपदिशति सर्वेर्मनुष्यैरिह विद्यायुक्तिभ्यामग्नि जलयोर्मेलनेन कलाकौशलाद् वेगादिगुणानां प्रकाशेन वायुविद्युतोविद्यया सर्वदारिद्र्यनाशेन शत्रूणां विजयेन सुशिक्षया मनुष्याणां मूढत्वं दूरीकृत्य विद्वत्त्वं प्रापय्य विविधानि सुखानि प्राप्तव्यानि प्रापयितव्यानि च । एवं सम्यक् पदार्थविद्या जगति प्रकाशनीया ' ( पृ. १७७ ) इति । तत्तु पाश्चात्त्यप्रभावजनितं वेदार्थं भ्रान्तेविलसितमेव, श्रुतिसूत्रादिभिर्मन्त्रस्य दर्शपूर्णमासादिशेषत्वतदङ्गदेवतास्मारकत्वोपपत्तेः । यत्तु ' प्रसिद्धाग्निचन्द्रलोकयोर्योत्कृष्टो ज्जि तिस्तामनुत्कृष्टं जयं कुर्यामिति ' ( पृ. १७६ ), तदपि न किञ्चित्, प्रसिद्धाग्निचन्द्रलोकयोः कोज्जितिः? तामनु कीदृशो विजयः प्रेप्सित इत्यनिरूपणात् । यदपि च ' वाजस्य युद्धस्य मां विजेतारं प्रसवेनोत्पादनेन प्रकृष्टैश्वर्येण सह वा प्रोहामि ' शूर्पेण जुहोति ' इत्यादि विकृति स्थल में जुहूस्थानापन्न शूर्प आदि का भी व्यूहन होता है । जुहू और उपभृत् दोनों का परस्पर विपरीत अपनोदन करने को ' व्यूहन ' कहते हैं । किसी आधुनिक ने यहाँ पर ' अग्नि ' शब्द से सेनापति और ' सोम ' शब्द से राजा को बताया है । उन दोनों के उत्तम विजय के बाद मैं मी विजय प्राप्त करूंगा इत्यादि अर्थ किया है । किन्तु यह ठीक नहीं है, क्योंकि वहां मन्त्रार्थ

पृष्ठ 65

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 65 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १५ ] वेदार्थपारिजातमाष्यसहिता प्रकृष्टतया विविधशुद्धतर्केण योजयामि ' ( पृ. १७६ ) इति, तदपि न सम्यक्, मांपदस्य विजेतारमित्यर्थंकरणे मानाभावात्, उत्पादनेन प्रकृष्टैश्वर्येण वा विविधशुद्धतर्केणेत्येतेषां पदानां कथं सम्बन्ध इत्यनिरूपणात् । ' अग्नीषोमो विद्यया सम्यक्प्रयोजितो ' ( पृ. १७६ ), इति पदप्रघट्टकः कुतः समानीतः? कथं वा तो तथाभूतावपि रोगं शत्रुं वा दूरमपनोत्स्यतः । एवं प्रसवेन प्रकृष्टतया युद्धविद्याप्रेरणेनेत्यपि ( पृ. १७६ ) निर्मूलम् ऊहामि विविधतर्केण क्षिपामीत्यपि धात्वर्थविरुद्धमेव । ' इन्द्रो वायुरग्निर्विद्युत् तयोरुज्जितिर्विद्यया सम्यगुत्कर्षः । अनुगतमुत्कर्षं प्राप्नुयामिति ' ( पृ. १७६ ) तदपि न सङ्गतम्, ज्ञानरूपाया विद्याया अज्ञातज्ञापकत्वेऽप्यकृत • कर्तृत्वानुपपत्तेः । अत एव वाय्वग्न्योरुज्जित्या कथं व्यक्त्युत्कर्ष:? वाजस्य प्रेरणा प्रेरणवेगप्राप्तेः । मा मां वायु-विद्याप्राप्तप्रसवेन ऐश्वर्यार्थमुत्पादितेन प्रोहामि विविधैस्तर्कैः सुखानि प्राप्नोमि ' ( पृ ० १७७ ) इत्येतत्सव वेदाक्षरेषु बलात् स्वाभ्यूहाध्यारोपणमेव शक्त्या लक्षणया वा तादृशार्थानवबोधात् । नहि विविधैस्तर्कैः सुखानि लभ्यन्ते । न वा वाजस्येति पदस्य प्रेरणाप्रेरणवेगप्राप्तिरर्थो भवति । एवं सम्यक्साधितो इन्द्राग्नी अविद्वांसं द्वेष्टारमपनुदताम् ' ( पृ ० १७७ ) इत्यपि न किश्चित्, साम्प्रतं त्वदभिमत वायुविद्युद्विद्यावतामपि परस्परसंहारे सङ्घर्षदर्शनात्, अण्वस्त्रादिमतामपि सुखलेशादर्शनाच्च । हिन्दीभाषायां तु मूलभाष्याद्विरुद्ध एवार्थो व्यञ्जितः । यथा - ' मैं प्रसिद्ध भौतिक अग्नि और चन्द्रलोक के ' उज्जितिम् ' दुःखके सहन योग्य शत्रुओं को यथाक्रम से जीतूं और वाजस्य युद्ध के प्रसवेन उत्पादन से विजय करने वाले अपने आपको प्रोहामि अच्छी प्रकार तर्कों से युक्त करूँ । " मैं भी दुष्ट शत्रु को वाजस्य यानवेगादिगुणों से युक्त सेना वाले संग्राम की प्रसवेन सम्यक् प्रेरणा से दूर करता हूँ । में वाजस्य ज्ञान की प्रेरणा के द्वारा वेग की प्राप्ति के प्रसवेन ऐश्वर्यं के अर्थ उत्पादन से वायु और बिजली की विद्या से जानने वाले अपने आपको नित्य अच्छी प्रकार तर्कों से सुखों को प्राप्त कराता हूँ । ' श्रुतिबलात्कारमूलोऽयमर्थोऽक्षरासम्बद्धोऽनुपपन्नो विशृङ्खलश्चेत्यलं परच्छिद्रान्वेषणेन । ( श ० १ | ८ | ३ | १-६ ) इति शतपथवचनैरपि त्वदुक्तोऽर्थो न सङ्गतः । तथाहि - ' सवै स्रुची व्यूहति । अग्नीषोमयोरुज्जितिमनुज्जेषं वाजस्य मा प्रसवेन प्रोहामीति जुहूं प्राचीं दक्षिणेन पाणिनाग्नीषोमो तमपनुदतां योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । वाजस्यैवं प्रसवेनापोहामीत्युपभृतं प्रतीची १७ सव्येन पाणिना यदि स्वयं यजमानः । ' ( श ० १ | ८ | ३ | १ ) । तत्रोत्तानेन दक्षिणहस्तेन जुहूं प्राचीं प्रथममन्त्रमुच्चारयन्नपनुदेत्, वामहस्तेन न्यग्भूतेनोपभृतं प्रतीचीं द्वितीयमन्त्रमुच्चारयन्नपनुदेत् । एवं तृतीयचतुर्थमन्त्राभ्यामैन्द्राग्नयागे जुहूपभृतो: पूर्ववद् व्यूहनं कुर्यात् ॥ ' एत्य जुहूपभृतौ व्यूहति ( का ० श्री ० ३।५।१७ ) । जुहूपभृतोर्व्यूहनं नाम परस्परविपरीतत्वेनो-पादानम् । अग्नीषोमयोरुज्जितिमनुज्जेषं वाजस्य मा प्रसवेन प्रोहामीति जुहूं प्राचीं दक्षिणेन पाणिना व्यूहति । अग्नीषोमो तमपनुदतामित्युपभृतं प्रतीचीं सव्येन पाणिना यदि यजमानो व्यूहति स्वयं व्यूहेत् । ' यद्य् अध्वर्युः । अग्नीषोमयोरुज्जितिमनुज्जयत्वयं यजमानो वाजस्यैनं प्रसवेन प्रोहाम्यग्नीषोम तमपनुदतां यमयं यजमानो द्वेष्टि यश्चैनं द्वेष्टि वाजस्यैनं प्रसवेनापोहामीति पौर्णमास्यामग्नीषोमीय हि पौर्णमासहविर्भवति ' ( श ० १ ८ ३ २ ) । एतावता दर्शपूर्णमासयागे पूर्णमास्यामग्नीषोमीयमग्नीषोमदेवताकं हविर्भवति । तेन तत्राग्नीषोमदेवतयोर्ग्रहणं विद्यते, अमावास्यायां त्विन्द्राग्निदेवतयोः सम्बन्धि हविर्भवति । करने में बहुत स्वतन्त्रता बरती है । जहाँ मुख्यार्थ का ग्रहण करना उचित है, वहीं गौण अर्थ का ग्रहण किया है । ' गोण-मुख्ययोर्मुख्ये कार्यसम्प्रत्ययः ' इस नियम का पालन नहीं किया गया है । तथा ' न विधी परः शब्दार्थ: ' इस माष्य वचनका मी ध्यान नहीं रखा गया है ।

पृष्ठ 66

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 66 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६ शुक्लयजुर्वेदसंहिता [ अ ० २ तेन तयोरेवोल्लेखः । तदप्युच्यते - ' अथामावास्यामिन्द्राग्न्योरुज्जितिमनुज्जेषं वाजस्य मा प्रसवेन प्रोहामन्द्राग्नी तमपनुदतां योऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामीति यदि स्वयं यजमानः ' ( श ० १२८ | ३ | ३ || ' यद्यु अध्वर्युः । इन्द्राग्न्योरुज्जिति मनूज्जयत्वयं यजमानो वाजस्यैनं प्रसवेन प्रोहामीन्द्राग्नी तमपनुदतां यमयं यजमानो द्वेष्टि यश्चैनं द्वेष्टि वाजस्यैनं प्रसवेना पोहामीत्यमावास्यामैन्द्राग्न ७ ह्यामावास्य ७ हविर्भवत्येवं यथादेवतं व्यूहति तद्यदेवं व्यूहति ' ( श ० १२८ | ३ | ४ ) । अत्र यथादैवतमिति प्रदानदेवताभिप्रायेणोक्तिः, तेन प्रयाजाद्यङ्गदेवतानुसारेण व्यूहनं भवति । देवतानभ्युपगमादेव दयानन्दादय इतस्ततो वेदार्थे भ्राम्यन्ति । अतोऽत्र नाग्निचन्द्रलोकयोर्न वा वायुविद्युतोर्ग्रहणमिति शतपथवचनेन मन्यताम् । ' यजमान एव जुहूमनु । योऽस्मा अरातीयति स उपभृतमनु प्रानमेवैतद्यजमानमुद्वहत्यपाञ्चं तमपोहति योऽस्मा अरातीयत्यत्रैव जुहूमन्वाद्य उपभृतमनु प्राञ्चमेवैतदत्तारमुदृहत्यपाञ्चमाद्यमपोहति ' ( श ० १२८ | ३ | ५ ) | जुह्वाः क्षत्रत्वेनात्तृत्वमुपभृतो वैश्यत्वेनाद्यत्वमुक्तं पूर्वम् । यश्च यजमानं प्रत्यरातिरिवाचरति स उपभृतमन्वाद्यो भूत्वात्तारं जुहूमनु यजमानं प्राञ्चं प्रति भोग्यो भवति । द्विविधं शत्रुमुपभृद्रूपं वाजस्य प्रसवेनाभ्यनुज्ञयापोहति निराकरोति । तद्वा एतत् समान एव कर्मन् व्याक्रियते । तस्मादु समानादेव पुरुषादत्ता चाद्यश्च जायेते । इह चतुर्थे पुरुषे तृयीये सङ्गच्छामह इति विदेवं दीव्यमाना जात्या आसत एतस्मादु तत् ' ( श ० १२८ | ३ | ६ ) | यस्मादेतत्समानेऽभिन्ने व्यूहनकर्मणि व्याक्रियते विलक्षणमाक्रियतेऽभिव्यज्यते । यजमान एव जुहूमनु प्राञ्चमनुगच्छति योऽस्मै यजमानायारातीयति शत्रुवदाचरति स उपभृतमनु प्रतीचीमुपगच्छति । एतेन यजमानं प्राञ्चमुदूहति ऊर्ध्वमुन्नयति । तं शत्रुमपाचमपोहति निराकरोति । जुहूमनुयजमानमत्ता भवति, उपभृतमनु शत्रुराद्यो भवति । यजमानमत्तारं प्रामुद्हति । आद्यमपाञ्चमपोहति । जुहूमनु यजमानस्य भोक्तृत्वमुपभृतमनु शत्रोर्भोग्यत्वं सम्पद्यते । तस्माद्यज्ञानुसारेण भूतेष्वपि समानादभिन्नात् पुरुषाद् अत्ता च आद्यश्च भर्ता च भार्या च जायेते । यथा समाने कर्मणि जुहूपभृतौ तथैव । इदं हि प्रत्यक्षं विलक्षणमधुनापि जात्याः समानजातीया विदेवम् अन्योन्यं भोक्तारो भोग्यः सह भोग्या भोक्तृभिः सह दीव्यमाना आसते । चतुर्थे पुरुषे तृतीये वा संगच्छामहै । वाशब्दोऽत्र लुप्तो निर्दिष्टः काण्वानां तृतीये चतुर्थे वेति श्रवणात् । चतुर्थे सङ्गच्छामह इति सौराष्ट्राणाम्, तृतीये सङ्गच्छामह इति दाक्षिणात्यानां मातुलदुहितृषु पितृष्वसृपुत्रेषु व्यवहारः सङ्गच्छते । ते च मूलपुरुषात्तृतीया भवन्ति । एतद् एतस्मात् सुग्व्यूहनादेव कारणाद् भवन्तीति शेषः । वस्तुतस्तु नेयं श्रुतिर्विवनविषया, किन्त्वियं सन्तानावध्यविभागप्रशंसा । यथा जुहूपभृतौ चिरकालं सह स्थिते, तथा तृतीयचतुर्थंसन्तानावधि सहस्थितिरिति । ये त्वनया श्रुत्या मनुशातातपादिस्मृतिप्रतिपादितस्य मातुलकन्यामातुलगोत्रकन्यापरिणयननिषेधस्य बाधमिच्छन्ति, तत्तु तेषां न सङ्गतम्, प्रकृतश्रुतेलौकिकार्थ-वादघटितत्वेनार्थवादकल्पितश्रुत्या प्रत्यक्षस्मृतिबाधस्यासङ्गतत्वात् । अलौकिकार्थवादकल्पितश्रुत्यैव स्मृति -बाधस्य पूर्वतन्त्रे सिद्धान्तितत्वात् । श्री दयानन्दजी ने जो व्याख्या की है, वह पाश्चात्य प्रभाव से प्रभावित होकर की है । अतः वेदार्थं करने में अपनी भ्रान्ति का ही प्रदर्शन उन्होंने किया है । जितना भी अर्थ किया है, वह सभी शतपथ और श्रीतसूत्र के विरुद्ध होने से ग्राह्य नहीं है । अध्यात्मपक्ष में —- उपासक कहता है कि मैंने वियोग संयोग में उत्कृष्ट जय रागनिष्पत्ति के होने से साधक की निष्कल्मषता, दिव्यानुरागवत्ता, रसवत्ता उपपन्न के प्रसव से अर्थात् अभ्यनुज्ञा से मैं तुम्हें पूर्व की ओर ले चलता हूँ । जो भी जन्मान्तरीय प्राप्त कर लिया है । उन्हीं से हो जाती है । प्रेमलक्षण अन्न दुष्कृत संस्कारादि शत्रु मेरे

पृष्ठ 67

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 67 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १५-१६ वेदार्थपारिजातमाष्यसहिता ५७ एवं शतपथप्रसङ्गपर्यालोचनयापि मन्त्रार्थः स्पष्टो भवति । अग्नीषोमयोद्वितीयपुरोडाशदेवतयोरुज्जिति-मन्वविघ्नेन हविःस्वीकाररूपमुत्कृष्टं जयमनुसृत्योज्जेषं यजमानोऽहमुत्कृष्टं जयं प्राप्तवानस्मि । वाजस्य पुरोडाशादिलक्षणस्यान्नस्य प्रसवेनाभ्यनुज्ञया मां प्रोहामि । मां यजमानं जुहूरूपं प्रोहामि प्रोत्साहयामि । प्रामुद्वहामि ऊर्ध्वमुन्नयामीत्यर्थः । वितर्कार्थस्याप्यूहतेरुपसर्गवशादुत्साहार्थतैव मन्तव्या, वितर्कार्थस्य प्रकृतेऽ-सङ्गतेः । यः शत्रुरसुरादिरस्मान् द्वेष्टि अस्मदीययज्ञविनाशनाय द्वेषं करोति, यं चालस्यादिरूपं शत्रुं वयं द्विष्मः, उभयविधं तं शत्रुम् अग्नीषोमो देवो अपनुदतां निराकुरुताम् । अहमप्येवं द्विविधं शत्रुमुपभृद्रूपं वाजस्य प्रसवेन पुरोडाशदेवताया अभ्यनुज्ञया अपोहामि निराकरोमि अपाञ्चं प्रेरयामि अधो नयामीत्यर्थः । उपसर्गवशादेवात्रापि निराकरणमर्थः । तथैव तृतीयचतुर्थयोरप्यर्थी ज्ञातव्यः । अध्यात्मपक्षे तु — उपासकोऽभिप्रति यदग्नीषोमयोविप्रलम्भसंभोगयोर्वियोगसंयोगयोरुज्जितिमुत्कर्षमनू-ज्जेषमुत्कृष्टं जयं प्राप्तवानस्मि ताभ्यामेव रसनिष्पत्त्या साधकस्य निष्कल्मषत्वदिव्यानुरागरसवत्त्वोपपत्तेः । वाजस्य प्रेमलक्षणस्यान्नस्य प्रसवेनाभ्यनुज्ञया मामहं प्रामुन्नयामि । यश्च जन्मान्तरीयदुष्कृत संस्कारादिः शत्रुरस्मान् द्वेष्टि ममाभीष्टलोकोत्तरपरमेश्वरानुरागसिद्धी बाधां करोति, यं च विषयरागादिकं वयं द्विष्मस्तमुभयविधं शत्रुमग्नीषोमो विप्रयोगसम्प्रयोगजी सन्तापप्रह्लादौ अपनुदतां निराकुरुताम्, सन्तापेन पापसंस्कारस्य परमेश्वररसास्वादना ह्लादेन विषय रागादेर्बाधोपपत्तेः । योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमेनं वाजस्य प्रेमदेवताया अभ्यनुज्ञया अहमपोहामि अपाञ्चं नयामि । इन्द्राग्न्योः परमेश्वरपरमैश्वर्य प्रतापयो रुज्जि तिमुत्कर्षा-भिव्यक्तिमनूज्जेषमहमपि लोकोत्तरमुत्कर्षं प्राप्नोमि । वाजस्य तन्माहात्म्यलक्षणस्यान्नस्याभ्यनुज्ञया प्रेरणयाहं मां प्रोहामि प्रोत्साहयामि । तत्स्वरूपस्य प्रेम्णः प्राप्तौ बाधकं ताविन्द्राग्नी अपनुदतां निराकुरुताम् । अहं च वाजस्य तादृशस्य माहात्म्यं ज्ञास्याम्यनुज्ञया तं विघ्नम् अपाञ्चं नयामि निराकरोमीति । इन्द्र ऐश्वर्य प्राप्तिः, अग्निः शत्रुदाहः, तयोरुज्जितिमनुज्जेषमुत्कर्षं प्राप्तवानस्मि । ऐश्वर्यप्राप्त्या शत्रुदाहेन च राज्ञो नीतिज्ञस्य वा उत्कर्षप्राप्तिर्भवति । वाजस्य भोग्यराज्यादिलक्षणस्याभ्यनुज्ञया मामहं प्रोहामि सोत्साहं करोमि । यः षाड्गुण्य-विरोधी प्रमादालस्यादिरभीष्टसिद्धी प्रवृत्तानस्मान् बाधते, यं च वयं द्विष्मस्तं ताविन्द्राग्नी अपनुदताम् । स्वयमहं च वाजस्याभ्यनुज्ञया तमपोहामीत्येवमन्येऽर्थाः सम्भवन्ति ॥ १५ ॥

वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वादि॒त्येभ्य॑स्त्वा सञ्जनाथ द्यावापृथिवी मित्रावरुणौ त्वा वृष्टयां-बताम् । व्यन्तु वयोक्त " रिहोणा म॒रुतां पृष॑तीर्गच्छ व॒शा पृश्निर्भूत्वा दिवं गच्छ ततो

नो॒ वृष्टि॒माव॑ह 1 । च॒क्षुष्पा अ॑ग्नेऽसि॒ चक्षु॑ पाहि ॥ १६ ॥

' जुह्वा परिधीननक्ति यथापूर्वम्, वसुभ्य इति प्रतिमन्त्रम् ' ( का ० श्री ० ३ | ५ | २०, ३ | ६ | १ ) | हे मध्यमपरिधे वसुभ्यो वसुदेवताप्रीत्यर्थं त्वा त्वां मध्यमपरिधिरूपमनज्मीति शेषः । एवमेव दक्षिणोत्तरी परिधिमन्त्री अभीष्ट - लोकोत्तर परमेश्वरानुराग की प्राप्ति होने में बाधा डालता है और जिस विषयराग आदि को हम नहीं चाहते, उन उमयविध शत्रुओं का तथा वियोग - संयोग से उत्पन्न होने वाले सन्ताप और आनन्द दोनों का निराकरण कर दो । इस प्रकार परमेश्वर की प्रार्थना करने का अर्थ मी मन्त्र से उपपन्न होता है ॥ १५ ॥

मन्त्रार्थ — हे मध्यम परिधे! वसु देवताओं के सन्तोषार्थं, हे दक्षिण परिधे! रुद्र देवताओं के सन्तोषार्थं, हे उत्तर परिघे! आदित्य देवताओं के सन्तोषार्थं मैं तुम्हारा अञ्जन करता हूँ । हे द्यावापृथिबी देवताओं! मेरे द्वारा ग्रहण I

पृष्ठ 68

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 68 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५८ शुक्लयजुर्वेदसंहिता [ अ ० २ व्याख्यातव्यौ । परिधित्रयाञ्जनेन सवनत्रयदेवताः प्रीयन्ते । ' संजानाथामिति प्रस्तरादानम् ' ( का ० श्री ० ३ ६ ४ ) | हे द्यावापृथिवी द्युलोकभूर्लोकदेव्यौ युवां संजानाथां गृह्यमाणं प्रस्तरं सम्यगवगच्छतम् । हे प्रस्तर! मित्रावरुणी प्राणापानवायू वृष्ट्या जलवर्षणेन त्वा त्वामवतां रक्षताम् । ' अयं वै वर्षस्येष्टे योऽयं पवते ' ( श ० १ | ८ | ३ | १२ ) इत्युक्तत्वाद् वर्षाधीशो वायुः । स चाध्यात्मगतः प्राणोदानरूपो मित्रावरुणशब्दाभ्यामुच्यते । स च प्रस्तररूपं यजमानं वृष्टया अवतु, ' यजमानो वै प्रस्तर: ' ( श ० १२८ | १ | ४४ ) इति श्रुतेः । विधृती स्थाने कृत्वा अनक्त्येनं व्यन्तु वय इति । ' अग्रं जुह्वामुपभृति मध्यं मूलमितरस्याम् ' ( का ० श्री ० ३।६।५-६ ) । प्रस्तरस्याधारभूते विधृती आहवनीये प्रक्षिप्य प्रस्तरं स्रुक्षु मन्त्रावृत्त्या अञ्ज्यात् । व्यन्तु वय इत्युपभृदाद्यभावेऽपि प्रस्तरः स्थाल्याज्येनाज्यत एव संस्कारत्वात् । अध्वर्युः प्रस्तरस्याग्रं जुह्वामञ्जित्वा तस्य मूलं ध्रुवाया अञ्ज्यात् । मन्त्रार्थस्तु – वयः पक्षिणः, व्यन्तु गच्छन्तु । वी गतिव्याप्तिप्रजननकान्त्य सनखादनेषु । पक्षिरूपापन्नानि गायत्र्यादीनि छन्दांसि गच्छन्तु, प्रस्तरमादायेति शेषः । कीदृशा वयः? अक्तं रिहाणा घृतलिप्तं प्रस्तरमास्वादयन्तः । रिहाणा इत्यस्य स्थाने लिहाना इति रलयोरभेदात् । ' मरुतामिति नीचैर्हृत्वा तृणमादायानुप्रहरति ' ( का ० श्र ० ३।६।७ ) | एकं तृणं प्रस्तरात् पृथक्कृत्य प्रस्तरं नीचैरौन्नत्यं यथा न स्यात्तथा हृत्वाऽग्नौ प्रक्षिपेदिति सूत्रार्थः । मरुतामिति प्रस्तर देवत्या बृहती कपिदृष्टा । चतुर्थः पाद आग्नेयः । आधुनिकस्तु – ' हे राजन् त्वा त्वां वसुभ्यः प्रजाभ्यो ब्राह्मणेभ्यो रुद्रेभ्यः शत्रूणां रोदयितृभ्यः क्षत्रियेभ्य आदित्येभ्य आदानप्रतिदानकर्तृभ्यो वैश्येभ्यः प्रजापतिमभिषिञ्चामि । द्युलोकपृथिवीलोको त्वां संजानाथां स्वामित्वेनावगच्छताम् । तत्तल्लोकगता जनास्तव स्वामित्वमङ्गीकुर्वन्तु । मित्रावरुणी सूर्यमेधी त्वदीयं राष्ट्रं वृष्ट्याऽवताम् । रिहाणाः स्तुतिकर्तारो विद्वांसो वयः पक्षिण इव अक्तं बलशालिनं त्वां व्यन्तु आगच्छन्तु । मरुतां वायुवेगेन गच्छन्तीः पृषतीर्मेघमाला इव सेना गच्छ प्राप्तो भव । वशा वशीभूता रसग्राहिणी भूमिरिवोत्तमं राज्यं प्राप्नुहि । ततो वोऽस्मभ्यं दृष्टिं सुखवृष्टिमावह । हे अग्ने! त्वमस्मद्दर्शनशक्त रक्ष अस्मद्विदुषो रक्षेति । दयानन्दस्तु --- ' वयं वसुभ्योऽग्न्यादिभ्यः, रुद्रेभ्य एकादशभ्यः, आदित्येभ्यो द्वादशमासेभ्यः, त्वा तं यज्ञं क्रियासमूहं नित्यं प्रोहामस्तर्कै विद्मः । यज्ञेने मे द्यावापृथिवी संजानाथां जानीतः । व्यत्ययेन लडर्थे लोट् । मित्रावरुणौ प्राणोदानौ वृष्ट्या शुद्धजलवर्षणेन त्वा तमिमं संसारं द्यावापृथिवीस्थमवतामवतः । यथा वयः पक्षिण इव गायत्र्यादीनि छन्दांसि अक्तं व्यक्तं प्रकटं वस्तु सुखं वा स्थानं व्यन्तु गच्छन्ति । सर्वत्र लडर्थे किये गये इस प्रस्तर का तुम ज्ञान प्राप्त कर लो । हे प्रस्तर! मित्रावरुण देव जलवृष्टि से तुम्हारा संरक्षण करें । घृत से लिप्स हुए प्रस्तर को चाटने वाले, पक्षियों का रूप धारण करने वाले गायत्री आदि छन्, ' प्रस्तर ' को ले जाँय । हे प्रस्तर! तू मदत् नामक देवता के चित्र - विचित्र वर्णों वाले जो वाहन हैं, उनके समीप जा, अर्थात् उन्हें लेकर अन्तरिक्ष में जा । अल्प शरीर धारण करने वाली और स्वाधीन रहने वाली गाय को लेकर तू द्युलोक में जा । तदनन्तर वहाँ से हमारे लिये वृष्टि करना । हे अग्ने! तू नेत्रों की रक्षा करने वाला है, इस लिये हमारे नेत्रों की रक्षा कर । पहले की तरह ' वसुभ्यः ' इत्यादि प्रत्येक मन्त्र से जुहू से परिधि को घृत लगावे । ' संजानाथाम् ' इस मन्त्र से प्रस्तर का ग्रहण करे । ' व्यन्तु वय: ' इस मन्त्र से जुहू में प्रस्तर का अप्र, उपभृत् में मध्य, ध्रुवा में मूल को घृत से भिगो दे । ' Heart ' इस मन्त्र से प्रस्तर में एक दर्भ निचले भाग से निकाल कर अग्नि में डाल दे । ' चक्षुष्पा ' इस मन्त्र से ' आत्मा ' को स्पर्श करे ॥ १६ ॥

पृष्ठ 69

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 69 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १६ ] वेदार्थ पारिजातभाष्यसहिता ५ ९ लोट् । तथा रिहागा अर्चका वयं छन्दोभिस्तं यज्ञं नित्यमनुतिष्ठामः । यज्ञे कृताहुतिर्वशा कामिताहुति: पृश्निरन्तरिक्षस्था भूत्वा भावयित्वा मरुतां संगेन दिवं सूर्यप्रकाशं गच्छ गच्छति । सा ततो नोऽस्माकं वृष्टिमावह समन्ताद् वर्षायति । तज्जलं पृषतीर्नाडीर्नदीर्वा गच्छ गच्छति । यतोऽयमग्निश्चक्षुष्या चक्षुर्दर्शनं रक्षति सः अस्ति । अतो मे चक्षुः पाहि पाति । चक्षुर्बाह्यमभ्यन्तरं विज्ञानं तत्साधनं वा । मनुष्यैर्याहुतिः क्रियते, सा वायोः सङ्गेन मेघमण्डलं गत्वा सूर्याकर्षितेज इमं शुद्धं भावयित्वा पुनस्तस्मात् पृथिवीमागत्योषधीः पुष्णाति । सा वेदमन्त्रैरेव कर्तव्या, यतस्तस्याः फलज्ञाने नित्यं श्रद्धोत्पद्यते । अयमग्निः सूर्यरूपो भूत्वा सर्वं प्रकाशयत्यतो दृष्टिव्यापारस्य पालनं जायते । एतेभ्यो वस्वादिभ्यो विद्योपकारेण दुष्टानां गुणानां प्राणिनां चापोहनं निवारणं च नित्यं कर्तव्यम् । इदमेव सर्वेषां पूजनं सत्करणं च ' ( पृ ० १७ ९ - १८० ) इति । तदेतत्सर्वमज्ञानविजृम्भितम्, मन्त्राणां यथाश्रुतार्थाज्ञानात् । व्यत्ययस्तु यथाश्रुतार्थासम्भव एव युज्यते । ' आहुतिः सूर्याकर्षन मेघमण्डलं गच्छति ' इदं तु बहुधाम्रेडितमपि निःसारमेव, ' अग्नी प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ( म ० ३।७६ ) इति मनुस्मृत्यादावपि प्रोक्तत्वात् । देवतानङ्गीकारात् स्मृतिरपि त्वत्पक्षे न सङ्गच्छते । कथं च वस्वादिभ्यो यज्ञस्य क्रियासमूहस्य वितर्ज्ञानम्? वितर्के तज्जन्ये ज्ञाने वा कथमष्टवसूनामेकादशरुद्राणां द्वादशादित्यानामुपयोगः? यज्ञेन कथं द्यावापृथिव्योः स्वं ज्ञातृत्वम्? प्राणोदानरूपाभ्यां मित्रावरुणाभ्यां वृष्टिः केन प्रमाणेन सिद्ध्यति? त्वेतिपदेन द्यावापृथिवीस्थसंसारस्य कथं बोध:? यथा पक्षिणः स्वं स्वं स्थानं स्वपन्ति तथा वयं छन्दोभिरर्चन्तस्तं यज्ञमनुतिष्ठामः कथमत्र केनांशेन दृष्टान्तदाष्टन्तिभावः? यज्ञेन तु सामाजिका वाय्वादिकमेव शोधयन्ति, नार्चयन्ति कचिदिति तदुक्त्या सिद्धान्त हानि:? पूर्वं तु भूमिकायामभ्यासार्थं मन्त्रोच्चारणमुक्तम्, इह तु वेदमन्त्ररेवाहुतिरित्युच्यते तत्परस्परं विरुद्धयते एतन्नियमफलं च वक्तव्यम् । श्रद्धोत्पत्तिस्तु होमप्रयोजिका । होमप्रवृत्तौ तु कृतं तया । न च श्रद्धा होमसहकारिणी, तया विनापि शुद्धेः सम्भवात् । एवं वसुभ्यः प्रजाभ्यो ब्राह्मणेभ्यो रुद्रेभ्यः क्षत्रियेभ्य इत्याद्यप्यसङ्गतम्, अप्रकृतत्वात् । राजात्र सम्बोध्य इत्यपि निर्मूलम्, व्यक्तिप्रार्थनया कथं द्युलोकपृथिवीलोकस्थाः सर्वे स्वामित्वेनाङ्गीकुर्युरित्यपि चिन्त्यम् । पृषतीपदस्य सेना, वशापदस्योत्तमराज्यम् इत्यपि निष्प्रमाणमेव । कथं च राजा वृष्टि दर्शनशक्ति प्रापयतीत्यपि चिन्त्यम् । सिद्धान्ते मन्त्रार्थस्तु – हे प्रस्तर! त्वं मरुतां पृषतीर्गच्छ प्राप्नुहि, वायुवाहनवद्वेगेन गच्छेत्यर्थः । अन्तरिक्षं वशा पृश्निर्भूत्वा वशा स्वाधीना पृश्निरल्पतनुगौर्भूत्वा दिवं गच्छ, कामधेनुवत्तृप्तिकरी भूत्वा स्वर्गं गच्छेत्यर्थः । ततः स्वर्गप्राप्तेरनन्तरं नोऽस्मदथं वृष्टिमावह भूलोके वृष्टिमानय । अथवा ' इयं वै वशा पृश्निर्यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्ठितं तेनेयं वशा पृश्नि: ' ( श ० १ | ८ | ३ | १५ ) इति श्रुत्या भूमिरेव वशापृश्नि-शब्देनोच्यते । तथा पृथिवी भूत्वा दिवं गच्छ पृथिवीसम्बन्धिभागमादाय द्युलोकं तर्पयेत्यर्थः । हे प्रस्तर! भाष्यसार - द्युलोक और भूर्लोक की देवियों! तुम दोनों ग्रहण किये हुये इस प्रस्तर को अच्छी तरह समझो । हे प्रस्तर! मित्रावरुण देवताएँ जल की वर्षा करके तुम्हारी रक्षा करें । शतपथ के अनुसार ' वायु ' वर्षा का स्वामी है । वही अध्यात्मगत होने पर प्राण अपानरूप हुआ ' मित्रावरुण ' शब्द से कहा जाता है । वह प्रस्तररूप यजमान की वर्षा के द्वारा रक्षा करे । प्रस्तर की आधारभूत दोनों विधृतियों को आहवनीय में डाल दे और स्रुक् में जो घृत है, उससे प्रस्तर को अञ्जित करे ।

पृष्ठ 70

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 70 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६० शुक्लयजुर्वेद संहिता [ अ ० २ त्वमन्तरिक्षं गत्वा तत्रस्थान् मरुतः सवानान् सन्तर्प्य स्वगं गत्वा देवांश्च सन्तर्प्य पृथिव्यां वृष्टि कुरु । अनेनाहुतिपरिणामः सूचितः । ' चक्षुष्पा इत्यात्मानमालभते ' ( का ० श्र ० ३ | ६ | १४ ) । हे अग्ने! त्वं यतश्चक्षुष्पा असि चक्षुः पातीति चक्षुष्पा । ज्वालयान्धकारं निवर्त्य चक्षुः पासि, अतो मम चक्षुः पाहि पालय । प्रस्तरप्रहरणप्रसक्तं चक्षुष उपद्रवं परिहर । ' अभ्युक्ष्य जुह्वा परिधीननक्ति यथापूर्वम् ' ( का ० श्रो ० सू ० ३।५।२० ) । अध्वर्युर्वेदगृहीतैः प्रणीतोदकैर्जुहूमभ्युक्ष्य जुहूस्थेनाज्येन पश्चिम दक्षिणोत्तर परिधीन् क्रमेणाञ्ज्यात् । इत्यादिवचनान्यपि सिद्धान्तानुसारीण्येव । अत्रैवार्थे शतपथवचनम् - ' अथ जुह्वा परिधीन् समनक्ति । यया देवेभ्योऽहौषीद् यया यज्ञसमतिष्ठिपत् तयंवैतत्परिधीन् प्रीणाति । तस्माज्जुह्वा परिधीन् समनक्ति ' ( श ० ११८ ३७ ) । जुह्वा स्रुक्पात्रेण तद्गत ज्येन परिधीन् समनक्ति स्नेहयति । परिधयोऽपि ह्यग्नयो देवाः । तेऽपि देवपात्रेणान्नमर्हन्ति । तथापि न समग्र महौषीदध्वर्युः । यया देवेभ्योऽध्वर्युरहौषीत् हुतवान् यज्ञं च संस्थापितवान् तयैव जुह्वा एतद् एतेन जुह्वाः स्नेहनेन परिधीन् प्रीणाति । तस्माज्जुह्वा परिधीन् समनक्ति । ' स समनक्ति । वसुभ्यस्त्वा रुद्रेभ्यस्त्वाऽऽ-दित्येभ्यस्त्वेत्येते वै त्रया देवा यद्वसवो रुद्रा आदित्या एतेभ्यस्त्वेत्येवैतदाह ' ( श ० १३८२३१८ ) । एषामेकैकेन एकैकमुपधानक्रमेण यथाक्रममनक्ति । वसुभ्यो देवेभ्योऽर्थाय त्वामनज्मि । त्वयि पार्थिवाग्न्यात्मके तृप्ते पार्थिवा वसवस्तृप्यन्ति । वस्वर्थं त्वामनज्मीत्यर्थः । एवमुत्तरत्रापि व्याख्येयम् । ' वसुभ्य इति प्रतिमन्त्रम् ' ( का ० श्रौ ० ३२६ १ ) | वसुभ्य इति त्रिभिर्मन्त्रः परिधित्रयमञ्ज्यात् । अनमीत्यस्य त्रिष्वपि मन्त्रेष्वध्याहारः । ' अथ परिधिमभिपद्याश्रावयति । परिधिभ्यो ह्येतदाश्रावयति यज्ञो वा आश्रावणं यज्ञेनैवैतत् प्रत्यक्षं परिधीन् प्रीणाति । तस्मात् परिधिमभिपद्याश्रावयति ' ( श ० १ | ७ | ३ | ९ ) । यद्यपि सूक्तवाकप्रषायं तदाश्रावयति, तद्वारेण च सूक्तदेवताभ्यः प्रस्तराय वा परिधीनां कथं तदाश्रावणमभिपद्यत इति भवत्याक्षेपः, तथापि तद्देवत्वाद्यज्ञार्हाः परिधयः । तेन प्रसिद्धयज्ञोपकरणेनाश्रावणेन परार्थेनारोप्यालभ्य क्रियमाणेन तेन लेशतो यज्ञभाजः कृता भवन्तीत्युपकारमात्रलक्षणार्था तादर्थे चतुर्थी । प्रत्यक्षमव्यभिचारि यज्ञरूपमाश्रावणं तेनैतत्प्रत्यक्षं यो यज्ञः । जुहूस्तु होमेष्वपि यज्ञेष्वपि भवतीति तन्न तथा प्रत्यक्षः जुह्वाञ्जने यज्ञः । तस्मात् परिधिमापद्य आश्रावणेन परिधिभ्यो ह्येतदाश्रावयति | आश्रावणं प्रत्यक्षं यज्ञस्तेनैवैतत् प्रत्यक्षं परिधीन् प्रीणाति । ' स आश्राव्याह- इषिता देव्या होतार इति दैव्या वा एते होतारो यत्परिधयोऽग्नयो होष्टा देव्या होतार aar | यदा षित देव्या होतार इति भद्रवाच्यायेति स्वयं वा एतस्मै युक्ता भवन्ति यत् साधु वदेयुर्यत्साधु कुर्युस्तस्मादाह भद्रवाच्यायेति । ' प्रोषितो मानुषः सूक्तवाकायेति । तदिमं मानुष होतार सूक्तवाकाय प्रसौति ' ( श ० १ | ८ | ३ | १० ) । स आश्राव्याहेति - देव्या वा एते होतारो यत्परिधय इति प्रतिज्ञा । अग्नयो होति हेतुवचनम् । इष्टा इति इषितव्या दैव्या होतार इति भद्रवाच्यायेति । स्वयं वा एतस्मै देवा युक्ता भवन्ति, यत्साधु वदेयुर्यत्साधु कुर्युस्तस्मादाह भद्रवाच्यायेति । प्रोषितो मानुषः सूक्तवाकायेति । किसी आधुनिक ने इस मन्त्र को राजा - प्रजापरक लगाकर उनकी रक्षा की बात बताई है । स्वामी दयानन्दजी ने मन्त्र की व्याख्या लौकिक अर्थपरक ही की है । उस कारण मन्त्र का यथाश्रुत वास्तविक अर्थ नहीं निकल पाता । यथाश्रुत अर्थ जहाँ सम्भव नहीं हो पाता, वहीं पर ' व्यत्यय ' आदि की कल्पना करने का नियम है, उसका पालन