वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 71–80
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 71–80
पृष्ठ 71
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः १६ ] वेदार्थपारिजातमाष्यसहिता ६१ तस्मादिमं मानुषं होतारं सूक्तवाकाय प्रसौति – ' प्रथमं परिधिं गृहीत्वाऽऽश्राव्याहेषिता दैव्या होतारो भद्रवाच्याय प्रोषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति ' ( का ० श्री ० ३।६।२ ) । अध्वर्युर्मध्यमं परिधिं स्पृष्ट्वा अश्राव्य इषिता इति मन्त्रेण होतारं प्रेष्येत । दविहोमेषु प्रषाभावे परिधेरप्यनालम्भः । ' अथ प्रस्तरमादत्ते - यजमानो वै प्रस्तरस्तद्यत्रास्य यज्ञोऽगंस्तदेवैतद्यजमान स्वगाकरोति । देवलोकं वा अस्य यज्ञोऽगन् देवलोकमेवैतद्यजमानमपि नयति ' ( श ० १ | ८ | ३ | ११ ) | स्वगाशब्दः स्वस्थानगामि-वाच्यव्ययः । ' सजानाथामिति प्रस्तरादानम् ' ( का ० श्र ० ३ ६ ४ ) । स यदि वृष्टिकामः स्यात् एतेनैवाददीत नाथां द्यावापृथिवी इति । यदा वै द्यावापृथिवी सञ्जानाते अथ वर्षति । तस्मादाह - सज्जानाथां द्यावापृथिवी इति मित्रावरुणी त्वा वृष्ट्यावतामिति तद्यो वर्षस्येष्ठे स त्वा वृष्टयावत्वित्येवैतदाह । यं वै वर्षस्येष्ठे योऽयं पवत सोऽयमेक इवैव पवते । सोऽयं पुरुषोऽन्तः प्रविष्टः प्राङ् च प्रत्यङ् च ताविमौ प्राणोदानी । प्राणोदानी वै मित्रावरुणी तद्य एव वर्षस्येष्ठे स त्वा वृष्ट्या व स्वित्येवैतदाह - ' तमेतेनैवाददीत यदा ह्येव कदा च वृष्टिः समिव तमनक्त्याहुति-मेवैतत्करोत्याहुतित्वा देवलोकं गच्छादिति ' ( श ० १२८ | ३ | १२ ) । अथ प्रस्तरमादत्त इति प्रस्तरादानं विधाय स यदि वृष्टिकाम इत्यनूद्य सञ्जानाथामिति मन्त्रं विधत्ते । काम्यतया मन्त्रं विधाय नित्यतयापि तमेव विदधाति - वमेतेनैवाददीतेति । द्यावापृथिवी यदा सञ्जानाते पृथिवीस्था मनुष्या यज्ञं कुर्वन्ति, द्युलोकस्थास्तेन तृप्ताः पृथिवीस्थानाप्याययितुमिच्छन्ति, तदोभयेषां सहयोगेन परस्परभावनेनैव सुखदा वृष्टिर्भवति । मित्रावरुणौ त्वा वृष्ट्यावताम् । अयं वै वर्षस्येष्टे योऽयं पवते । सोऽसौ वायुरेव पुरुषेऽन्तः प्रविष्टः प्राङ् च प्रत्यङ् च प्राणोदानौ भवतस्तावेव मित्रावरुणी । तस्माद्य एव वर्षस्येष्ठे सत्वा वृष्ट्याव । यदा ह्येव कदा वृष्टिर्भवति समेव भवति तं प्रस्तरमनक्ति । तेनाहुतियोग्यमेवैतत्करोति । आहुतित्वा यजमानात्मकः प्रस्तरो देवलोकं गच्छति । " ' स वा अग्रं जुह्वामनक्ति मध्यमुपभृति मूलं ध्रुवायामग्रमिव हि जुहूर्मध्यमिवोपभृन्मूलमिव ध्रुवा ' ( श ० १ | ८ | ३ | १३ ) । ' स वा अध्वर्युः प्रस्तरस्य अग्रं जुह्वामनक्ति मध्यमुपभृति मूलं ध्रुवायामनक्ति हि यतो जुहर् अग्रमिव भवति । सा हि उपभृतं हित्वाऽऽहवनीयं यावद्याति मध्यमिवोपभृत् सापि वेदेर्यजतिस्थानं यावदुत्क्रामति मूलमिव ध्रुवा । यतो न सा चलति । सोऽनक्ति व्यन्तु वयोक्त ७ रिहाणा इति वय एवैनमेतद्भूतमस्मान्मनुष्यलोकाद्देवलोकमभ्युत्पातयति तन्नीचैरिव हरति द्वयं तद्यस्मान्नीचैरिव हरेद्यजमानो वै प्रस्तरो s स्या एवैनमेतत्प्रतिष्ठाय नोद्धन्तीहो एव वृष्टि नियच्छति ' ( श ० १ | ८ | ३ | १४ ) । सोऽनक्तीति पूर्वविहितमञ्जनमनूद्य व्यन्त्वित्यादिकं मन्त्रं विधत्ते - व्यन्तु वयोक्तमिति । ' विधृती स्थाने कृत्वा अनक्त्येनं व्यन्तु वय इति ' ( का ० श्र ० ३।६।५ ) | प्रस्तरस्याधारभूते विधृती आहवनीये प्रक्षिप्य प्रस्तरं स्रुक्षु मन्त्रावृत्त्या अञ्ज्यात् । उपभृदाद्यभावेऽपि प्रस्तरः खल्वाज्येनाज्यत एव संस्कारत्वात् । ' अग्रं जुह्वामुपभृति नहीं हो पाया है । स्वामी दयानन्द ने देवता का अङ्गीकार तो किया नहीं है, स्मृति की संगति कैसे हो सकेगी? इस प्रकार पूर्वापर असम्बद्ध वातें कही हैं । अतः व्याख्या में कुछ भी सार प्रतीत नहीं हो रहा है । वास्तविक सिद्धान्त पक्ष का अर्थ तो वही कहलाता है, जो शतपथब्राह्मण, श्रौतसूत्र आदि के अनुसार किया जाता है । उसी अर्थ को ऊपर भाष्य में दिया गया है । अध्यात्मपक्ष में — वेदपुरुष कह रहा है - हे जीवात्मन्! वसु, रुद्र, आदित्य देवताओं के लिये तुम्हें वैदिक कर्म में प्रेरित करता हूँ । तुम्हारे द्वारा अनुष्ठित हुए याग आदि से सम्पूर्ण देवताओं की तृप्ति होना संभव है । हे द्यावा-
पृष्ठ 72
पाठ पढ़ें पाठ छिपाएँ
६२ शुक्लयजुर्वेदसंहिता [ अ ० २ मध्यं मूलमितरस्याम् ' ( का ० श्री ० ३।६।६ ) | अध्वर्युः प्रस्तरस्यात्रं जुह्वामञ्जित्वा मध्यमुपभृति अञ्जित्वा तस्य मूलं ध्रुवायामञ्ज्यात् । मन्त्राभिप्रायं व्याचष्टे - व्यन्तु खादन्तु इमं प्रस्तरं देवा येभ्यो होष्यते । कोदृशं वयः पक्षिभूतं गतं सद् वय एवैनमेनद् भूतमस्माद् मनुष्यलोकाद् देवलोकमभ्युत्पातयति । तन्नीचैरिव हरति यजमानो वै प्रस्तरः । अस्या एवैनत् प्रतिष्ठाय नोद्धन्ति इहो एव दृष्टि नियच्छति । ' सहरति मरुतां पृषतीर्गच्छेति देवलोकं गच्छेत्येवैतदाह । यदाह मरुतां पृषतीर्गच्छेति वशा पृश्निर्भूत्वा दिवं गच्छ । ततो नो वृष्टिमावतीयं वै वशा पृश्निर्यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्ठितं तेनेयं वशा पृश्निरियं भूत्वा दिवं गच्छेत्येवैतदाह - ' ततो नो वृष्टिमावहेति वृष्टाद्वा ऊग्रेसः सुभूतं जायते तस्मादाह ततो नो वृष्टि-मावहेति ' ( श ० १ | ८ | ३ | १५ ) । ' मरुतामिति नीचैर्हृत्वा तृणमादायानुप्रहरति ' ( का ० श्री ० ३ | ६ | ७ ) | प्रस्तरं सुचां दक्षिणेनापरेण च प्रादक्षिण्येन भूमिलग्नमिवाहवनीयसमीपे होमार्थमानीय प्रस्तरमध्यादेकं ' तृणं परिशेष्य प्रस्तरमाहवनीये होतृपठितसूक्तवाकान्ते प्रक्षिपेत् । ' हस्तेनाचरति ' ( का ० श्र ० ३ ६ ८ ) । अध्वर्युः प्रस्तरं हस्तेनैवाहवनीये प्रक्षिपेत् । हस्तशब्देन काष्ठादीनां व्यावृत्तिः । अत्र प्रस्तरस्याहवनीये प्रक्षेपमात्रं न होम:, अतो न ममेति त्यागो न कार्यः । यथेयं पृथिवी मूल्यमूला मूलवती स्वयं चामूला अन्नसंस्पृष्टा पृश्निः, तद्योगाच्च वशा काम्या, एवं त्वमपि दर्भमयत्वान्मूलिनान्तेनोपेतः । प्रस्तरस्यान्तोऽपि मूलवत्त्वान्मूलीत्युच्यते स्वयं चामूलः । घृतेन वा मूलेन । ततश्चेयमिव भूत्वा इत्येतमर्थमाह - वृष्टाद्वा ऊग्रेसः सुभूतं भूतानां समृद्धिर्जायत इति वृष्ट्या वाहन प्रयोजनम् । सिद्धान्तपक्षीयं व्याख्यानमेवानेन समर्थितं भवति । ' अर्थकं तृणमुपगृह्णाति । यजमानो वै प्रस्तरः स यत्कृत्स्नं प्रस्तरमनुप्रहरेत् क्षित्रे ह यजमानोऽमुं लोकमियात्तथो ह यजमानो ज्योग्जीवति यावद्वेवास्येह मानुषमायुस्तस्मा एवैतदपगृह्णाति ' ( श ० १२८ | ३ | १६ ) । यदेकं तृणमपगृह्णाति — एकं वर्जयित्वा गृह्णाति तथा सत्येव यजमानश्चिरं जीवति । एवं तावत्कृत्यानुप्रहरण-कृतदोषपरिहारायापगृह्णाति । अधुना त्वन्यकृतोऽप्यायुषः क्षयोऽत्र तेनापग्रहणेन रक्ष्यते । उशब्दश्चार्थः । यावच्चेह लोकेऽस्य मानुषमायुः पूर्वकर्मोपात्तं तस्मै एव एतदपगृह्णाति । ' तन्मुहूतं धारयित्वाऽनुप्रहरति । तद्यत्रास्येतर आत्मागंस्तदेवास्यैतद्गमयत्यथ यन्नानुप्रहरेदन्तरियाद्ध यजमानं लोकात्तथो ह यजमानं लोकान्नान्तरेति । ' ( श ० ११८ | ३ | १७ ) । तन्मुहूर्तं धारयित्वाऽनुप्रहति किञ्चित्कालानन्तरमर्थात् सूक्तवाकान्तेऽग्नो प्रक्षेपः । तदेव तदनुप्रहरणम्, ' सूक्तवाकान्ते ' ( का ० श्री ० ३।६।१२ ) इति कात्यायनस्मरणात् । ' अग्नी-दाहानुप्रहरेति ' ( का ० श्र ० ३ | ६ | १३ ) अग्नीदध्वर्युमनुप्रहरेत्यध्येष्यति । ' प्रास्य तृणं चक्षुष्या इत्यात्मानमालभते ' ( का ० श्र ० ३ | ६ | १४ ) । अग्नीधाध्येषितोऽध्वर्युः प्रस्तरात् पृथक्कृतं तृणमाहवनीये तूष्णीं प्रक्षिप्य आत्मानं हृदेशे स्पृशेत् । प्रायेण कात्यायनः श्रुतीरनुसृत्यैव क्वचिल्लिङ्गादीननुसृत्य च विनियोगान् ब्रूते । अत एव सर्वमेतन्माध्यन्दिनीय काण्व - तैत्तिरीयादिब्राह्मणग्रन्थेषु विधानं दृश्यत एव । ' तं प्राचमनु समस्यति । प्राची हि देवानां दिगथो उदमुदीची हि मनुष्याणां दिक् । तमङ्गुलिभिरेव योयुप्येरन् न काष्ठैर्दारुभिर्वा इतर १ शवं व्यूषन्ति नेत्तथा करवाम यथेतर शवमिति तस्मादङ्गुलिभिरेव पृथिवी के अधिष्ठातृ देवों! तुम अपने भरण - पोषण आदि कर्तव्य को अच्छी तरह से जान हो । प्राण - अपान वायुरूप मित्रावरुण दोनों वर्षण के द्वारा तुम्हारी रक्षा करें । गायत्री आदि छन्दोरूप पक्षीगण बड़ी भक्तिभावना से घृत के समान स्निग्ध हुए तुम्हारा आस्वादन करते हुए स्वर्ग में जाँय अर्थात् स्वर्गीय सुख का मोग दिलाने के लिये तुम्हें स्वर्ग में पहुँचा दें । हे कर्मनिष्ठ जीवात्मन्! तुम्हें देवताओं की कामधेनु गायें प्राप्त हों । उसके द्वारा दी हुई आहुति से कहता है- तुम स्वाधीन हो, तुम छोटी - सी गाय बनकर कामधेनु की तरह तृप्तिकरी होकर स्वर्ग को जाओ और
पृष्ठ 73
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः १६-१७ ] वेदार्थ पारिजातमाष्यसहिता ६३ योयुप्येरन् न काष्ठैर्यदा होता सूक्तवाकमाह ' ( श ० २१ २८ | ३ | १८ ) । प्रस्तरानुप्रहरणप्रकारमाह - तं प्रकृतं प्रस्तरं प्राञ्चं प्रागनं सूक्तवाके उक्तप्राये अनु पश्चात् समस्यति समग्रमेवाग्नौ प्रक्षिपति । प्रक्षेपात् पूर्वं तमङ्गुलिभिरेव योयुप्येरन् । युप रुप लुप विमोहने दिवादिः । पुनः पुनः मूर्छयेयुः हस्तेनोपक्षिपेयुः, न काष्ठैः । उक्तमेव कात्यायनेन ' हस्तेनाचरति ' ( का ० श्र ० ३ ६ ८ ) । किं कारणमित्याह - काष्ठैर्दारुभिर्वा । इतरं मानुषं शवं व्यूषन्ति । ऋष ऋषि गतौ तुदादिः । विस्तारयन्ति सुदाहाद्यर्थम् । 1 तदुपचाराद् यज्ञियस्य विलक्षणेनोपचारेण भवितव्यमिति । नेत् इति परिभये । ' अथाग्नीदाहानुप्रहरेति । तद्यत्रास्येतर आत्मागंस्त-देवास्यैतद्गमयेत्येवैतदाह । तूष्णीमेवानुप्रहृत्य चक्षुष्या अग्नेऽसि चक्षुर्मे पाहीत्यात्मानमुपस्पृशति । तेनो अप्यात्मानं नानुप्रवृणक्ति ' ( श ० ११८ | ३ | १ ९ ) । प्रस्तरानुप्रहरणानन्तरं तस्मादवशेषित तृणस्यानुप्रहरणाय अग्नीदध्वर्युमनुप्रहरेति प्रेष्यति । तद्यत्रास्येतर आत्मा अगन् गतवान् तदेव तमेवाग्निमस्यैतदवशिष्टं भागं गमयतीत्येतदेवाहाग्नीत् । अध्वर्युरग्नीत्प्रेषानन्तरं तूष्णीमेव मन्त्रमन्तरैवानुप्रहृत्य प्रक्षिप्य चक्षुष्पा अग्नेऽसीत्यादि-मन्त्रेणात्मानमुपस्पृशति । तेन तथाकरणेन आत्मानं नानुप्रवृणक्ति आत्मानं नापवृक्तं करोति । अध्यात्मपक्षेऽपि वेदपुरुष आह - हे जीवात्मन्! वसुभ्यो वसुदेवताभ्यो रुद्रेभ्य आदित्येभ्यो देवताभ्योऽर्थाय त्वां वैदिके कर्मणि प्रवर्तयामि त्वत्कृतयागादिना सर्वासां देवतानां तृप्तिसम्भवात् । हे द्यावापृथिव्यो! तत्तदधिष्ठा-तृदेवौ युवां सञ्जानाथाम् । एनं प्रतिभरणपोषणादिलक्षणं स्वकर्तव्यं सञ्जानाथां सम्यगवगच्छतम् । मित्रावरुणौ प्राणापानौ वायुरूपीत्वा त्वां वृष्ट्यावतां वर्षणेन रक्षताम्, ' अयं वै वर्षस्येष्टे योऽयं पवते ' ( श ० १२८ | ३ | १२ ) इति श्रुतेः । वयो गायत्र्यादिछन्दोरूपाः पक्षिणः, अक्तं भक्तिभावनया घृतमिव स्निग्धं त्वां रिहाणा लिहाना आस्वादयन्तो व्यन्तु स्वर्गं गच्छन्तु त्वां स्वर्गसुखभोगाय नयन्त्वित्यर्थः । हे कर्मनिष्ठ जीवात्मन्! त्वं मरुतां देवानां पृषतीः कामधेनुरूपा गा गच्छ प्राप्नुहि । तद्दत्तामाहुति चाह आहुः । वशा स्वाधीना त्वं पृश्निरल्पतनुगौर्भूत्वा कामधेनुवत्तृप्तिकरी भूत्वा दिवं स्वगं गच्छ । ततश्च नोऽस्मभ्यं वृष्टिमावह भूलोके वृष्टि प्रापय । जीवः परमेश्वरं प्रार्थयते - हे अग्ने परमेश्वर! त्वं चक्षुष्पा चक्षूंषि ज्ञानानि पातीति चक्षुष्पा असि, अतो मे चक्षुर्ज्ञानं वेदादि-सकलज्ञानसाधनं पाहि ॥ १६ ॥
यं प॑रि॒धि प॒र्यध॑त्या॒ अग्ने ' देव प॒णिभि॑िग॒ह्यमा॑नः । तं त॑ त्वद॑च॒तया॑ता अ॒ग्नेः प्रि॒यं पाथोऽपतम् ॥ १७ ॥
एतमनुजोषं भराम्ये॒ष अत्र दयानन्दः - ' हे अग्ने सर्वव्यापिन्! देवपणिभिर्दिव्यगुणवतां विदुषां स्तुतिभिर्गुह्यमानो त्रियमाणो यं जोषं प्रीत्या सेवितुं योग्यं परिधिं परितः सर्वतो धीयते यस्मिस्तं प्रभुत्वं पर्यधत्थाः सर्वतो दधासि तमेव एषोऽहं भरामि अनुभरामि हृदये धारयामि । तथा त्वत् त्वत्तो न अपचेतयात विरुद्धो न भवेयम् । ते तवाग्नेः सृष्टी मया यत्प्रियं प्रीतिवर्धकं पाथः शरीररक्षकमन्नं प्राप्तं ततोऽप्यहं न कदाचिद् अपचेतयात विरुद्धो भवेयम् । वहाँ से हमारे लिये भूलोक में वर्षा करवा दो । जीव परमेश्वर से प्रार्थना करता है - हे अग्ने परमेश्वर! तुम चक्षुष्पा हो, अर्थात् तुम ज्ञान के रक्षक हो । अतः मेरे ज्ञान की, अर्थात् वेदादि सकल ज्ञानसाधन की रक्षा करो ॥ १६ ॥
मन्त्रार्थ - हे आहवनीय अग्ने! पणिनामक असुरों के द्वारा तुम चारों ओर से अवरुद्ध किये जाने पर पश्चिम दिशा की ओर तुमने जिस परिधि का आश्रय किया था, उस तुम्हारी प्रिय परिधि को मैं अग्नि में डालता हूँ । यह परिधि तुमसे दूर जाने की इच्छा कभी भी न करे । हे दोनों परिधियों! तुम अग्नि के प्रिय अन्न बन जाओ । ' यं परिधिम् '
पृष्ठ 74
पाठ पढ़ें पाठ छिपाएँ
६४ शुक्लयजुर्वेदसंहिता [ अ ० २ परिधि तथा हे जगदीश्वर! ते सृष्टौ योऽयं देवपणिभिर्गुह्यमानः पृथिव्यादिव्यवहारैब्रियमाण एषोऽग्निः यमेतं त्वत् तस्मात् विद्यादिगुणैर्धारणीयं जोषं प्रीत्या सेवनीयं कर्म पर्यधत्थाः परितो दधाति 1 तमित् तमहमनुभरामि च येन तदन्नम्, कदाचिन्नापचेतयात प्रतिकूलो न भवामि, तथा प्रीतिकरं शरीररक्षाकरमन्नं पाति शरीरमात्मानं प्रीतिकरं पाथः ‘ अन्ने च ' ( उ ० ४।२०५ ) इति पातेरन्ने असुनुप्रत्ययः थुठागमश्च । मया यदस्याग्नेः प्रियं नित्यमनु-शरीररक्षाकरमन्नं अपीतम् अपि संयोगे, अपीति संसगं प्राह ( नि ० ११३ ), गृहीतम्, स्तोतव्यः तदहं जोषं सम्प्रीत्या भरामि ' ( पृ ० १८२ - १८३ ), ' सर्वैर्मनुष्यैः प्रतिवस्तुषु व्यापकत्वेन धारको विद्वद्भिः प्राप्नुयुः । योऽयमीश्वरेण प्रकाशदाहवेग गुणादिसहितो नित्यमनुसेवनीयः, यतस्तदाज्ञापालनेन सर्वे सुखं प्रयोजितादग्नेर्व्यवहाराः साधनीयाः । यतः सुखानि मूर्तद्रव्यानुगतोऽग्नी रचितस्तस्मात् कलाकौशलादिषु वा क्वचिदपि परिधिपदार्थ-सिद्धयेयुरिति भावार्थ: ' ( पृ ० १८३ ) । तदेतत्सर्वमपव्याख्यानमेव पदार्थेऽन्वयद्वये । स्यानिरूपणात् । हिन्द्यां तु प्रथमव्याख्याने प्रभुता, द्वितीये तु कर्मेत्युक्तम् । निष्प्रमाणव्यत्ययादिदोषबहुलत्वाच्च मन्त्रे वृष्ट्यादि-भावार्थस्त्वर्थेनानेन सर्वथाप्यसंस्पृष्टः सर्वथा स्वतन्त्र एव । यत्तु सङ्गति निरूपणप्रसङ्गे मूले पूर्वस्मिन् पदार्थेऽन्वययोश्चाग्ने-साधकत्वमुक्तम्, तस्यानेन व्यापकत्वमुक्तमिति सङ्गतिः ( पृ ० १८३ ), तदपि चिन्त्यम् धारकत्वबोधकत्वादिति , वाच्यम्, व्र्व्यापकत्वानुक्तेः । न च पर्यधत्था इत्यनेन व्यापकत्वबोधनम्, परितो यं परिधिं पर्यधत्था शतपथेन तद्विरोधात् । तथाहि - ' अथ परिधीननुप्रहरति स मध्यममेवाग्रे परिधिमनुप्रहरति रावनु-अग्ने देवपणिभिर्गुह्यमानः । तं व एतमनुजोषं भराम्येष नेत्त्वदपचेतयाता इत्यग्नेः उक्तः । प्रियं परिधयश्च पाथोऽपीतमितीत त्रयो भवन्ति । समस्यति ' ( श ० १ | ८ | ३ | २२ ) । अत्र परिधीनामनुप्रहरणमग्नो प्रक्षेप ' ( श ० १1३1३ | १३ ), ते चाहवनीयस्य प्राचीमपहाय तिसृषु दिक्षु स्थापिताः समिध एव । ' अथ परिधीन् परिदधाति औदुम्बराः ' इत्यादिभिः ' ते वै पालाशाः स्युः ' ( श ० १ | ३ | ३ | १ ९ ) । ' पालाशवैकङ्कतकाष्मर्या वैल्वाः खादिरा इति तेषामार्द्रत्वं श्रुतिभिस्तेषां पालाशादियज्ञिय काष्ठमयत्वमुक्तम् । ' ते वा आर्द्राः स्युः ' ( श ० १ ३ | ४ | १ ) चोक्तम् | ' परिधीन् परिदधात्यार्द्रानेकवृक्षीयान् बाहुमात्रान् पालाशवैकङ्कतकाष्मर्यवैल्वान् पूर्वालाभे उत्तरान् खादिरौदुम्बरान् वा मध्यमदक्षिणोत्तरान् गन्धर्व इति प्रतिमन्त्रम् ' ( का ० श्री ० २८१ ) । सोऽध्वर्युर्मध्यममेवाग्रे परिधिमनुप्रहरति --- यं परिधिं पर्यधत्था इत्यादिमन्त्रेण । तादृशपरिधिपरिधानेन कथमग्नेर्व्यापकत्वमिति । विद्वांसो विदाङ्कुर्वन्तु । अग्नेः प्रियं पाथोऽपीतमिति मन्त्रेणेतरौ परिधी युगपत्समस्यति, अग्नौ प्रक्षिपतीत्यर्थः ततः पूर्वाभ्यां द्वाभ्यां कण्डिकाभ्याम् अथाह संवदस्वेत्यादीनां व्याहृतीनां बाह्योऽर्थस्तत्रैवोक्तः । तथाहि - अग्नीद् अध्वर्यु ं प्रेष्यति संवदस्व त्वं मया सह शंयुवाकप्रैषार्थम् । तमध्वर्युः पृच्छति - अगानग्नीत् हे अग्नीत् किमगमत् । अगन् प्रस्तरशरीरो यजमानः स्वर्गं लोकम्, किं दग्धः प्रस्तर इत्यर्थः । अग्नीत्तु अगत् इति प्रतिवचनं ददाति इति, अर्थाद् गतो यजमानः, दग्धः प्रस्तर इत्यर्थः । अध्वर्युस्तमाह-- यद्येवं ततः शंयुवाक् परिधिप्रहरणयोः इस मन्त्र से पहिली परिधि को अग्नि में डाल दे और ' अग्नेः प्रियम् ' इस मन्त्र से दक्षिण एवं उत्तर परिधि को एकदम अग्नि में डाल दे ॥ १७ ॥
भाष्यसार - इस मन्त्र की व्याख्या स्वामी दयानन्द ने वेदरहस्यवित् महीधर- उव्वट के विरुद्ध की है । जैसे— ' हे सर्वव्यापक अग्ने! दिव्य गुणसम्पन्न विद्वानों की स्तुतियों से ब्रियमाण हुए तुम जिस परिधि को सेवनीय समझकर जिसका प्रभुत्व सब प्रकार रखते हो, उसी को मैं हृदय में धारण करता हूँ । तुमसे मैं विरुद्ध नहीं होऊंगा की रची तथा हुई तुम्हारे प्रीतिवर्धक शरीररक्षक अन्न को जो मैंने प्राप्त किया है, उसके विरुद्ध भी नहीं जाऊँगा । ईश्वर अग्नि से अपने समस्त व्यवहार साध लेने चाहिये । जिससे सुख प्राप्त हो सके । '
पृष्ठ 75
पाठ पढ़ें पाठ छिपाएँ
• मन्त्रः १७ ] वेदार्थ पारिजात भाष्य सहिता ६५ कालो वर्तते । ततश्च श्रावय होतारम् आकर्णयेत्यर्थः । अग्नीच्चाह - श्रौषड् इति । अर्थात् शृणोत्येवायमवहितः, ब्रूहि त्वं यद्विवक्षितम् । ' अथाह स्वगा देव्या होतृभ्य इति । दैव्या वा एते होतारो यत्परिधयोऽग्नयो हि ताने-वैतत् स्वगा करोति । तस्मादाह स्वगा देव्या होतृभ्य इति । स्वस्तिर्मानुषेभ्य इति तदस्मै मानुषाय होत्रे लामाशास्ते ' ( श ० १२८/३/२१ ) | स्वगा देव्या होतृभ्य इति शंयुवाकप्रेषः । हे होतः! शंयोर्बार्हस्पत्यस्य ऋषेषं ब्रूहि स्वगा स्वस्थानगामिनं त्वां देव्या देवेभ्यो होतृभ्यः परिधिशरेभ्योऽत्र हूयन्तां परिधय इत्यर्थः । मानुषेभ्यस्तु होतृभ्यः स्वस्ति अविनाशोऽस्त्वित्येवंरूपं वाक्यं ब्रूहीति । श्रुतिस्तु साङ्केतिकं गूढतरमथं व्याचष्टे । तत्र च यथैव प्रहणसम्बन्धसूक्तवाकप्रेषसम्बद्धमाश्रावणमनुषङ्गः परिधीनामुपकारकमित्युक्तम्, तथेहापि परिधि -प्रहरणसम्बन्धशंयुवाकप्रैषसम्बद्धा व्याहृतयोऽनुषङ्गात् प्रस्तरवृत्तान्तं प्रकाशयन्तीति दर्शयति -- संवादयनं देवैरिति । प्रियमिवातिथिमागतैर्देवैः सम्भाषयेत्यर्थः । अगानग्नीदिति । गमनद्रढिम्नेतमेवाग्नीधं पृच्छति किं गतोऽयं यजमानो येन संवाह्यते? न गत इतीतरेणोक्तेऽध्वर्युराह तमेव तर्हि मद्वचनेन श्रावयैतमिति । अग्नीत्वाह-श्रौषडिति विदुर्वा एनमिति । जानन्त्येव देवा उपकारित्वादनाख्यातमिति । अनु वा एनमभुत्सतेति पूर्वमेवायं बुद्धो देवैरित्ययं वा श्रौषडित्यस्यार्थ इति हरिस्वामी । तदेतत्सर्वं कात्यायनोऽप्याह - ' संवदस्वागानग्नीदग -छ्रावय श्रौषट् स्वगा देव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः संयोब्रूहीत्येतेषा ७ संवदस्वागाच्छ्रोषडित्यग्नीच्छेषमित रो व्यत्यासं ब्रूते ' ( का ० श्र ० ३ ६ | १५ ) । सर्वथापि प्रकृतायां द्वाविंश्यां कण्डिकायां न मनागपि दयानन्दीयार्थं -सम्बन्धः । तस्मादत्र मन्त्रे परिधिशब्देन पालाशादिसमिद्विशेषो विवक्षितः, न प्रभुता न था कर्म । ' परिधीननु -प्रहरति यं परिधिमिति प्रथममितरौ च युगपदग्नेः प्रियमिति ' ( का ० श्रौ ० ३।६।१६ ) | अध्वर्युर्हस्तेनैव परिधीनाहवनीये प्रक्षिपेत् । तत्र प्रथमं यं परिधिमिति मन्त्रेण इतरौ च युगपत्सहैव प्रक्षिपेदग्नेः प्रियमिति मन्त्रेणेति सूत्रार्थः । श्रुति सूत्रसम्मतस्त्वयं मन्त्रार्थः - हे आहवनीयाग्ने देव । त्वं पणिभिः प्रतिपक्षभूतैरसुरैः प्राणिभिर्वा चेतनाचेतनैः, गुह्यमानः ' गुहू संवरणे ' संत्रियमाणः संरुध्यमानः सन् यं परिधिं पलाशादिमयं काष्ठविशेषं भुवनपतिसंज्ञकाग्निरूपं पश्चिमदिशि पर्यधत्था असुरोपद्रवनिवारणाय परिधारितवानसि ते तव जोषं प्रियं तमेतं परिधिम् अनुभरामि अनुक्रमेण हरामि वह्नौ प्रक्षिपामि ' हृग्रहोर्भश्छन्दसि ' ( पा ० सू ० ८/२/३२ ) इति वार्त्तिकेन हस्य भः । एष परिधिस्त्वत्तः सकाशात् अपगतः, नेत नैव अपचेतयात नैव चेतयतु त्वत्तोऽपगन्तुं मा जानातुत्वय्येव तिष्ठत्वित्यर्थः । परिधिस्त्वत्तोऽपगतचित्तो मास्त्विति यावत् । अथवा नेत इति निपातसमाहारः किन्तु उक्त व्याख्यान को अपव्याख्यान के सिवाय कुछ नहीं कहते बनता । हिन्दी व्याख्या में कुछ कहा गया है, तो दूसरी बार की व्याख्या में और ही कुछ कहा गया है । निष्प्रमाण व्यत्ययादि दोषों की विपुलता दिखाई दे रही है । मन्त्रार्थं का तो इस अर्थ से स्पर्श तक नहीं हो रहा है । वह सर्वथा स्वतन्त्र ही है । संगति निरूपण मी अद्भुत ही है । दयानन्दीय व्याख्या को देखने से स्पष्ट प्रतीत होता है कि वह शतपथ और श्रौतसूत्र के एकदम विरुद्ध है । श्रुति - सूत्र सम्मत अर्थ इस प्रकार है- आहवनीय अग्नि से कहा जा रहा है कि प्रतिपक्षी असुरों ने जब तुम्हें अरुद्ध किया था, तब तुमने जिस पलाशादिमय काष्ठविशेषरूप परिधिविशेष को, जो भुवनपतिसंज्ञक अग्निरूप है, उसे पश्चिम दिशा में असुरों के उपद्रवों के निवारणार्थं धारण किया था, उस तुम्हारी प्रिय परिधि को अग्नि में डाल रहा हूँ, जिससे वह तुम्हारे ही समीप सदा बनी रहे । उसी तरह से दक्षिण और उत्तर अन्य दो परिधियों को जो अग्नि को अन्नरूप हैं, उन्हें भी अग्नि में युगपत् डाल दें । ९
पृष्ठ 76
पाठ पढ़ें पाठ छिपाएँ
६६ शुक्लयजुर्वेद संहिता [ अ ० २ परिभवार्थः । अपचेतयातं इति आशङ्कायां पञ्चमो लकारः । चिती संज्ञाने । अपचेतयतु अर्थादेष परिधिर्मा कथञ्चित्वत्तो वियुक्तः सन्नस्मान् विगतचेतस्कान् विमनस्कान् वा करोतु । ' इतरौ च युगपदग्नेः प्रक्षिपेत् प्रियम् ' । ( का ० श्र ० ३ ६ १६ ) इति कात्यायनानुसारेण दक्षिणोत्तर परिधी अग्नेः प्रियमिति मन्त्रेण युगपदग्नी । अन्नमपि तथा च मन्त्रार्थः -- हे दक्षिणोत्तर परिधी युवामग्ने राहवनीयस्य प्रियमभिप्रेतं पाथोऽन्नमपीतमपिगतम् पाथ उच्यते ( नेघण्टु ९ ७ ) | अन्ने चेत्युणादिसूत्रादभिप्रेतमन्नं अपीतम् अपिगच्छतम् । अग्नेः प्रियमित्यादि पृथङ्मन्त्रः । अत एवाग्नेः प्रियमिति यजुर्देवलदृष्टमिति महीधरः । अध्यात्मपक्षेऽपि हे अग्ने द्योतनात्मक सर्वाधिष्ठान भूत परमात्मन्! पणिभिः प्रमात्रादिव्यवहारैर्गुह्यमानः प्रव्रियमाणो यं परिधि परितो धीयते धातुमर्हः सर्वेरादरेण धीयते स्वरूपभूतः प्रेमा वा तं सर्वकल्याणहेतुत्वेन जोषं पर्यधत्थ सर्वेषु प्राणिषु स्थापितवानसि । ते तव तमन्यनिष्ठत्वेन परोक्षमेतं प्रत्यगात्मस्वरूपेणापरोक्षं च त्वत्तो प्रीत्या सेवनीयमहमनुभरामि ध्येयत्वेन धारयामि । एष प्रेमा त्वत् त्वत्तः सकाशात् नेत नैव अपचेतयातं बहिर्मुखो व भवतु | अन्यनिष्ठो मा भूदित्यर्थः । यद्वा त्वत्तोऽस्मान्नैव विमनस्कान् करोतु । वेदपुरुष आह-अग्नेः परमात्मनः सम्बन्धि प्रियमभिप्रेतं पाथः प्रेमास्पदं पाथोऽन्नं भोग्यभूमौ युवामुपास्योपासको , भगवांश्च अपीतम् अपिगच्छतम् । प्रेमप्रभावेणान्नत्वं युवाभ्यां प्राप्यताम् । प्रेम्णा भक्तो भगवत भोग्यो भवति । प्रेमपरवशो भूत्वा भक्तस्य भोग्यो भवति, ' अहमन्नमहमन्नमहमन्नमहमन्नादोऽहमन्नादोऽहमन्नादः ' इत्यादिश्रुतेः यद्वा हे मनोबुद्धी! युवामग्नेः सम्बन्धि प्रियं पाथोऽन्नं भोग्यरूपम्, अपिगच्छतं युवाभ्यां तदुपलभ्यताम् ॥ १७ ॥
स॒स॒वर्भागास्ये॒षा बृ॒हन्त॑ः प्रस्त॒रे॒ष्ठाः प॑रि॒धेया॑श्च दे॒वाः । इ॒मां वाच॑मसि॒ विश्वे ' गृ॒णन्त॑ आ॒सद्य॒स्मिन् ब॒र्हिषि॑ मादयध्व॒ स्वाहा॒ वाट् ॥ १८ ॥
S अत्र दयानन्दः- हे बृहन्तः वर्धयन्तश्च प्रस्तरेष्ठाः प्रस्तरे शुभे न्यायविद्यासने तिष्ठन्ति ते परिधेयाः परितः सर्वतो धातुं धापयितुमर्हाः, देवा विद्वांसः यूयमिमां प्रत्यक्षां वाचं वचन्ति वाचयन्ति सर्वा विद्या सत्यलक्षणा वेदचतुष्टयो वा तामभिगृणन्तः स्तुवन्त उपदिशन्तो वा संस्रवभागा ज्ञानेन सम्यक् जयन्ते ये ते संस्रवाः, भज्यन्ते ये ते भागाः, संधवा भागा येषां ते, स्थ भवत । स्वाहा सु आहेत्यर्थः । वाट् वहन्ति सुखं यया क्रियया सा वाट् सद्यः अस्मिन् प्रत्यक्षे आ समन्ताद् विज्ञाय स्थित्वा वा । बहिषि बृहन्ते वर्धन्ते येन तद्बहिर्ज्ञानप्राप्तं कर्मकाण्डं वा तस्मिन् मनुष्यान् कृत्वा हर्षयत च । इति प्रथमोऽन्वयः । एवमस्मिन् बहिषि इमां वाचमाभगृणन्तः । तां अभिगृणद्भिर्युष्माभिरिषा स्वाहा वाडासद्य बृहन्तः प्रस्तरेष्ठाः विश्वेदेवाः सर्व विद्वांसः सदा परिधेयाः अध्यात्मपक्ष में- हे परमात्मन्! परोक्ष - अपरोक्ष रूप से रहने वाले तुम्हारे स्वरूप का ध्यान में बड़ी भक्ति से करता । मेरा प्रेम तुमको छोड़कर बहिर्मुख न हो । प्रेम के बल पर ही भक्त भगवान् का भोग्य होता है और भगवान् भी प्रेमपराधीन होकर भक्त का भोग्य बनता है । अथवा हे मन, हे बुद्धि! तुम दोनों अग्नि के भोग्य रूप अन्न के रूप में बन जाओ ॥ १७ ॥
मन्त्रार्थ - हे विश्वेदेवों! तुम लोग संस्रव भक्षण करने वाले हो, अतः तरल घृत का भक्षण करो । इस संत्रवरूप अन्न से तुमलोग महान् बनो और प्रस्तर तथा परिधि पर अधिष्ठित होने वाले एवं यजमान यथाविधि यागानुष्ठान कर रहा है ' इस प्रकार मेरी स्तुति ( प्रशंसा ) करने वाले हे विश्वेदेवों! तुम लोग इस यज्ञ में बैठकर तृप्त हो जाओ । यह हविर्भाग सर्वथैव तुम लोगों को ही अर्पित किया गया है । ' संस्रवभागा: ' इस मन्त्र से ' संस्रवों ' का हवन करे || १८ |
पृष्ठ 77
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः १८ ] वेदार्थपारिजात भाष्यसहिता ६७ संस्रवभागाश्च स्थ प्राप्य चास्मिन् बर्हिषि मादयध्वमिति द्वितीयः । ईश्वर आज्ञापयति - ये मनुष्या धार्मिकाः पुरुषार्थिनो वेदविद्याप्रचारे उत्तमे व्यवहारे च नित्यं वर्तन्ते तेषामेव बृहन्ति सुखानि भवन्ति ' इति, तन्न, अनुपपत्तेः सर्वेषां विदुषां न्यायाधीशत्वानुपपत्तेः । तथाहि - बृहन्तः प्रस्तरेष्ठाः परिवेयाः सर्वेऽप्येते विशेषण शब्दा निश्चितं विशेष्यमपेक्षन्ते । विनिगमनाविरहान्न कल्पनामात्रेण क्वचित् पर्यवस्यन्ति । आकाशदिगादयोऽपि बृहन्तो भवन्ति । प्रस्तरशब्देन कथञ्चित् प्रशस्तासन ग्रहणेऽपि न न्यायविद्यासन एवं पर्यवस्यति प्रस्तरशब्दः, राजसिंहासन - धर्मसिंहासनयोरपि प्रस्तरशब्देन ग्रहणप्रसक्तेः । तथा च न्यायविद्यासनारूढाः प्राड्विवाका न्यायमूर्तयो वा न ग्रहीतुं शक्यन्ते । परिधेयाः परिधातुं परिधापयितुमर्हाः के? हिन्दीभाष्ये तु धारणावतीबुद्धियुक्ता इति लिखितम् । बुद्धयः कामम् आपरिधातुं परिधापयितुमर्हा भवन्तु, परन्तु न तु बुद्धिमन्तस्तथा भवन्ति । संस्रवभागा इत्यनेनापि नार्थनिर्धारणं शक्यम्, संस्वशब्देन घृतादीनामिव पेट्रोल तैलादीनामपि सम्यक् सूयमाणत्वेन ग्रहीतुं शक्यत्वात् । भागशब्देनापि होमो न ग्रहीतुं शक्यते, अतः सम्यक् सूयन्ते ये ते संचवाः, भज्यन्ते ये ते भागाः संस्रवा भागा येषामित्यनया व्युत्पत्त्या केषां बोध इति तु मूले नोक्तम् | हिन्दीभाष्ये तु घृतादिपदार्थानां होमे निक्षिप्तार इत्युक्तम् । सामाजिका ब्रह्मदत्तादयः कथयन्ति यद् हिन्दीभाष्यं तदनुयायिभिर्विद्वद्भिलिखितम् अत एव तत्र तेषां प्रमादेनाशुद्धयो विद्यन्ते । ' भज्यन्ते ' इत्यस्य संस्रवा घृतादिपदार्था होतव्या येषां त इति स्वीकारेऽपि कथं भजतेर्होमार्थता स्यात्? स्वाहावाद सु आहेत्यस्मिन्नर्थे वहन्ति सुखानि यया क्रियया सा वाडित्युक्तम् । स्वाहावाडित्यनयोः कथं सम्बन्ध इति नोक्तम् । हिन्दीभाष्ये तु स्वाहा सम्यग्वचनेन वाट प्राप्यते या सुखवर्धिनी क्रिया ( स्वाहा अच्छे वचनों से वाट् प्राप्त होने और सुख बढ़ाने वाली क्रिया को प्राप्त होकर ) इत्युक्तम्, कथं तत्सङ्गच्छते? सम्यग्वचनेन कीदृशी सुखवधनी क्रियोत्पद्यते? इत्यादिकं सर्वं वक्तव्यमासीत् । तच्च नोक्तमिति न्यूनतैवेति मुधैव तस्य समासादितस्थिर-समाधित्वादिप्रजल्पनम् । किञ्च, ( श ० १ | ८ | ३ | २३ - २६ ) इति वचनान्यपि तद्व्याख्यानप्रतिकूलान्येव । मन्ये तदनुयायिभिरेव शतपथग्रन्थसङ्केतास्तद्ग्रन्थे योजिताः तेन तु ते नैव दृष्टाः स्युः, कथमन्यथा तद्विपरीतं व्याख्येयात् । अथवा शतपथसङ्केतं सूचयन् तदेव मुख्यं व्याख्यानम् मया तु केवलं बहिर्मुखाणां सन्तोषाय यत्किञ्चिदुच्यत इति वाभिप्रायः स्यात् । तथाहि ' अथ जुहू चोपभृतं च सम्प्रगृह्णाति । अदो हैवाहुति करोति यदनक्त्याहुति -र्भूत्वा देवलोकं गच्छादिति । तस्माज्जुहूं चोपभृतं च सम्प्रगृह्णाति ' ( श ० १ | ८ | ३ | २३ ) | नास्मिन् तद्व्याख्यान-सम्बन्धः अनया श्रुत्या जुह्वा उपभृतश्च संप्रग्रहणं विधीयते । स सम्प्रगृह्णातीत्यनया तु सम्प्रग्रहणमनूद्य स्वामी दयानन्द ने इस मन्त्र में दो प्रकार के अन्वय किये हैं । तदनन्तर अर्थ किया है कि ' ईश्वर आज्ञा देता है. जो धार्मिक पुरुषार्थी मनुष्य हैं, वे वेदविद्या के प्रचार में और उत्तम व्यवहार में नित्य तत्पर रहते हैं । उन्हीं को विपुल सुख की प्राप्ति होती है । किन्तु दयानन्दोक्त अर्थ उपपन्न नहीं हो रहा है । ' बृहन्तः, प्रस्तरेष्ठाः अतः इन्हें विशेष्य की अपेक्षा रहना निश्चित है । कोई विनिगमक न रहने से परिघेयाः ' ये सभी विशेषण शब्द हैं, केवल कल्पना कर लेने मात्र से इनका चाहे जहाँ पर्यवसान नहीं किया जा सकता । हिन्दी माध्य में धारणावती बुद्धियुक्त लिखा है, वह भी उपपन्न नहीं हो रहा है । ' संस्रवभागा ' कहने से भी अर्थनिश्चय कर पाना संभव नहीं है । हिन्दी भाष्य में जो भी लिखा गया है, उसकी उपपत्ति किसी प्रकार से भी नहीं हो रही है ।
पृष्ठ 78
पाठ पढ़ें पाठ छिपाएँ
६८ शुक्लयजुर्वेदसंहिता [ अ ० २० संस्रवभागा इति मन्त्रो विधीयते । संगते उभे उद्गृह्णाति संस्रवहोमाय स्वगाकाराय च कुत:? आहुति वाक्यशेषभूतमन्त्रवर्णात् । एतेन तं प्राञ्चमनुसमस्यति ' ( श ० ११८ | ३ | १८ ), ' परिधीननुप्रहरति अदो ' ( श ० १२८ | ३ | २२ ) इत्येते तथा ' परिधीननु ' ( का ० श्र ० ३ | १ | १६ ) इति होमचोदने एव वक्तव्ये, देवाहुतिमिति परिधिसंस्कारशङ्का निवर्तयति । एवं ह्याशङ्कयते - ' यद्वै हविरभ्यक्तं यदभिघारितं तज्जुष्टं तन्मेध्यम् ' इति वचनाद्धविरभिघारणीयम् । अनन्तरमेव च हुताः परिधयः । तेऽभिघारिता आहुतिर्भवति । अतस्तेषामाहुतित्वायैते खुचौ संगृह्येते । न पृथगेव संस्रवहोमकर्मेति तन्निराकरोति । अत एव आहुतित्वा परिधय आहुतिकृता ये ते आज्येन जौहवेनाक्तास्तस्मान्न तेषामाहुतित्वापसूची सम्प्रगृह्मेते, किं तर्हि देवलोकं गच्छेदित्येवमर्थं सम्प्रगृह्णाति । तथैव प्रस्तरपरिधीनां स्वगाकारो ह्युक्तः, एवमाज्यशेषस्यापि विलग्नस्येत्यभिप्रायः ' इति हरिस्वामी । कण्डिकार्थस्तु स्पष्ट एव । ' सवै विश्वेभ्यो देवेभ्यः सम्प्रगृह्णाति । यद्वा अनादिष्टं देवतायं हविगृह्यते । सर्वा वै तस्मिन् देवता अपित्विन्यो मन्यन्ते न वा एतत् कस्यचिद्देवतायं द्विगृन्नतिदिशति यदाज्यं तस्माद्विश्वेभ्यो देवेभ्यः सम्प्रगृह्णात्येतदु वैश्वदेव १४ हविर्यज्ञे ' ( श ० १२८ | ३ | २४ ) । सोऽध्वर्युर्विश्वेभ्यो देवेभ्यः सुची सम्प्रगृह्णाति । यद्धविरनादिष्टं देवताविशेषनामनिर्देशमन्तरा गृह्यते, तस्मिन् हविषि सर्वा देवता अपित्विन्यो वयंभागिन्य इति मन्यते | आज्यं च हविरनादिष्टमेव यतो ह्येतद् गृह्णन् न कस्याश्चन देवताया नामनिर्देशं करोत्यध्वर्युः । तस्मादेतद्वैश्वदेवं हविर्यज्ञे । ' स सम्प्रगृह्णाति । सवभागाः स्थेषा बृहन्त इति सस्रवो ह्येव खलु परिशिष्टो भवति प्रस्तरेष्ठाः परिधेयाश्च देवा इति । प्रस्तरश्च हि परिधयश्चानुप्रहृता भवन्तीमां वाचमभि विश्वे गृणन्त इत्येतद्वैश्वदेवं करोत्यासद्यास्मिन् बर्हिषि मादयध्व स्वाहावाडिति । तद्यथा वषट्कृत हुतमेवमस्यैतद्भवति । ' ( श ० १२८ | ३ | २५ ) । ' स्रुचौ प्रगृह्णाति । सत्रवभागा इति सछत्रवान् जुहोति ' ( का ० श्री ० ३।६।१७ ) | अध्वर्युर्जुहू-पभृतो तूष्णीमादाय तदुभयसंलग्नमाज्यं ताभ्यामेव जुहुयादुत्तरत उपविश्य विश्वेदेवाश्चात्र देवता । अतश्च यंत्र दविहोमादी मन्त्राभावस्तत्र विश्वेभ्यो देवेभ्य इत्याहुति: । अस्य संस्रवहोमस्य प्रतिपत्त्यर्थकर्मोभयरूपत्वात् प्रतिपत्त्यंशमादायान्तेऽपच्छिन्नेऽपि प्रवृत्तिः । म्रुक्स्थस्याज्यस्य पूर्वमेव निरवशेषितत्वात् संस्रवाणां न यागाङ्गत्वम्, किन्तु पात्र संलग्नाज्यप्रतिपत्त्यर्थतैव । अतश्च यत्र कर्मणि पूर्वकृतहोमसम्बन्ध्याज्यं पात्रे संलग्नं भवति, तत्र सर्वत्राप्ययं होमो भवत्येव । ' सवभागा " " स्वाहाबाद ' इति मन्त्रेऽन्यत्र वा स्वाहापदोच्चारणकाल एव होमः कार्यः । एवं च ' स्वाहाकारः सर्वत्र साकाङ्क्षत्वात् ' ( का ० भो ० ४ | ४ | १५ ) इति सूत्रेण सामान्यतया मन्त्रान्ते स्वाहाकारोच्चारणस्य विधानेऽपि यत्र मन्त्र एवं स्वाहाकारपाठ आदौ मध्येऽवसाने वा तत्रैव होमः कार्यः, न पुनः स्वाहाकारस्य मन्त्रान्ते योजनम् । ' सस्रवो ह्येवेति ' ( श ० १२८ । ३ । २५ ) यदा यः परिशिष्टः संश्रवस्तदा तत्र तद्भाजः संस्रवभागा एव भवन्तीत्यभिप्रायः । ते च प्रस्तरेष्ठाः परिधेयाश्च भवन्ति । प्रस्तरे परिधिषु च हुतेषु तदिन्धनोऽग्निः शरीरं येषां ते देवाः प्रस्तरेष्ठाः परिवेयाश्च भवन्ति । इमां वाचमभिविश्वे गृणन्तीति मन्त्रेण एतदु पात्रलग्नमाज्यं अतः शतपथ, श्रौतसूत्रानुसारी वैदिकसम्प्रदायानुकूल मन्त्रार्थ इस प्रकार है हे विश्वेदेवों! तुम संस्रव भाग वाले हो । विलीन आज्य को ' संस्रव ' कहते हैं । वही है भाग जिनका, वे संस्रवभाग वाले कहे जाते हैं । तथा संस्रव -लक्षण अन्न से तुम महान् हो । किंच, जो प्रस्तर पर स्थित रहते हैं, वे प्रस्तरेष्ठ यानी प्रस्तरस्थायी कहलाते हैं । जो परिधेय यानी परिधिभव हैं, वे विश्वेदेव मेरी वाणी ( कथन ) का वर्णन करते हुए, अर्थात् ' यह यजमान सम्यक् यजन ( यागानुष्ठान ) कर रहा है ' इस प्रकार देवताओं के मध्य में कहते हुए तुम इस यज्ञ में बैठकर तृप्त होना अथवा
पृष्ठ 79
पाठ पढ़ें पाठ छिपाएँ
१मन्त्रः १८ ] वेदार्थ पारिजातभाष्यसहिता ६ ९ वैश्वदेवं सर्वदेवसम्बन्धि करोति । आसद्यास्मिन् बर्हिषि मादयध्व १७ स्वाहा वाडिति मन्त्रेण यथा वषट्कृतं हुतं भवति, तथास्याज्यशेषस्य कृतं भवतीत्यर्थः । तथाच श्रुतिसूत्रानुगतं सायणादिसम्मतमिदमेव मन्त्रव्याख्यानम् - हे विश्वदेवाः सर्वे देवाः! यूयं संस्रव -भागाः स्थ सम्यक् स्रवतीति संस्रवो विलीनमाज्यं भागो येषां विश्वेषां देवानां ते संस्रवभागा जुहूपभृद्गत विलीना-ज्यभागिनो भवत । इषा इष्यमाणेन संखवलक्षणेनान्नेन बृहन्तो महान्तः स्थ । किञ्च प्रस्तरेष्ठाः प्रस्तरस्थायिनो ये देवाः परिधयः परिधिभावमापन्नाः परिधिषु भवाः परिधिदेहा वा ये देवाः सन्ति, ते विश्वेदेवा इमां मदीयां वाचमभिगृणन्तः सर्वत्र वर्णयन्तः, अयं यजमानः सम्यग्यजतीति सर्वेषां देवानां समक्षे कथयन्तः, यूयमासद्यास्मिन् बर्हिषि एतस्मिन् मदीययज्ञे मादयध्वं हृष्टा भवत । स्वाहावाडितिशब्दो हविर्दानार्थी । सर्वथा दत्तमित्येवादरे दर्शयितुं शब्दद्वयम् । न च बृहदारण्यके स्वाहावषडितिशब्दद्वयं देविकं हविर्दानमाम्नातम्, ' देवा उपजीवन्ति स्वाहाकारं वषट्कारं च ' ( वृ ० उ ० ५८१ ) इति श्रुतेर्नात्र वाशब्दः श्रुत इति वाच्यम्, वर्षांडित्यस्यैव परोक्षत्वाय वाडिति शब्दान्तरेण प्रयुज्यमानत्वात् । यद् वषट् कुर्याद् यातयामो वषट्कारः स्यात्, यन्न वषट्कुर्याद् रक्षाऽसि यज्ञ हन्युर्वाडित्याह परोक्षमेव दषट्करोति नास्य यातयामा वषट्कारो भवति न यज्ञ रक्षास घ्नन्ति ' ( तै ० सं ० ५११५५ ) इति वाड् इति युक्तम् । ननु ' वसवो वै रुद्रा आदित्याः स ैस्रवभागाः ' ( तै ० ब्रा ० ३।३१ ९ / ७ ) इति तैत्तिरीयश्रुत्यनुसारेण वस्वादीनामेव संस्रवभागत्वमुक्तम्, न विश्वेषां देवानामिति चेन्न, विश्वशब्देन वस्वादीनामपि विवक्षितत्वात् । अत एव वस्वादीन् प्रकृत्य विश्वदेवशब्दवाच्यत्वमपि तित्तिरिणैवोक्तम्, ' एते हि विश्वेदेवा: ' ( तै ० ब्रा ० ३ १३ ९ ८ ) इति तैत्तिरीयश्रुतेः । अध्यात्मपक्षेऽपि हे जीवात्मानः! यूयं संस्रवभागाः स्थ । सम्यक् स्यन्त इति संस्रवा दधिदुग्धाज्य -सोमादयः, अब्बहुलहविर्द्रव्यरूपाः पदार्थाः । ते भागाः शरीरांशा येषां ते संस्रवभागा हविः शरीराः, ' पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' ( छा ० ५।३।३ ) इति पञ्चाग्निविद्याश्रुतेः । तत्रापशब्देन सोमाद्यब्बहुलद्रव्याण्युक्तानि । तान्येवाग्नौ चन्द्रलोकेऽन्तरिक्षे पृथिव्यां पुरुषे योषिति हुतानि पुरुषरूपेण परिणतानि भवन्ति । संस्रवभागा घृतसोमादिभागिनः स्थ इषा इष्यमाणया परमेश्वराराधनलक्षणया भक्त्या धर्मब्रह्मविविदिषया वा महान्त उत्कर्ष प्राप्नुवन्तः प्रकर्षेण यूयमेव प्रस्तरेष्ठाः प्रस्वराग्निशरीराः परिधिशरीरा विश्वे सर्वे देवा: स्थ भवत । विश्वे सर्वेऽपि यूयम् आसद्य स्थित्वा वर्हिषि यज्ञे इमां स्वाहावारूपाम् अभिगृणन्तस्तया च देवांस्तर्पयन्तो मादयध्वं हृष्टा भवत ॥ १८ ॥
प्रसन्न होना । ' स्वाहा ' और ' वाट् ' दोनों शब्द ' हविर्दान ' के अर्थ में हैं । यह ' संस्रव ' सब तरह से ( सर्वथा ) आपको दिया गया है, यह आदरभाव प्रदर्शित करने के निमित्त ' स्वाहा और वाट् ' इन दो शब्दों का प्रयोग किया गया है । ' स्वाहाकारेण वा वषट्कारेण वा ' इस श्रुतिवचन से ' वषट् ' शब्द भी दानार्थक है, तथापि देवताओं की परोक्षप्रियता रहने से ' प्रत्यक्षत्व ' के परिहारार्थ ' वाद ' शब्द का प्रयोग किया गया है । तैत्तिरीय श्रुति के अनुसार वसु आदि देवताओं के लिये ही संस्रवभाग कहा गया है, विश्वेदेवों को नहीं, यह शंका नहीं करनी चाहिये, क्योंकि ' विश्व ' शब्द से ' वसु ' आदि देवताओं की भी विवक्षा की गई है । अध्यात्मपक्ष में- हे जीवात्माओं! तुम घृत, सोम आदि के भागी हो । परमेश्वराराधनस्वरूप भक्ति के द्वारा अथवा धर्म ब्रह्म को जानने को इच्छा द्वारा उत्कर्ष को प्राप्त हुए हो, तुम ही सम्यगुरूप से प्रस्तराग्नि शरीर वाले हो, तथा परिधि शरीर वाले तुम सब विश्वेदेव हो । तुम सभी यहाँ स्थित होकर यज्ञ में इस स्वाहा - वारूप वाणी की प्रशंसा करके देवताओं को तृप्त कर दो और तुम भी हर्ष को प्राप्त हो जाओ ॥ १८ ॥
पृष्ठ 80
पाठ पढ़ें पाठ छिपाएँ
७० शुक्लयजुर्वेदसंहिता [ अ ० २ घृ॒ताची स्थो ध॒यँ पात ७ सम्ने स्था॑ः सुभ्ने मा॑ धतम् । यज्ञ॒ नम॑श्च त॒ उप॑ च य॒ज्ञस्य ' शि॒िवे सन्ति॑ष्ठस्व॒ स्व॒ष्टे मे सन्तिष्ठस्व ॥ १ ९ ॥ । अत्र दयानन्द: - ' यावग्निवायू यज्ञस्य धुय सुम्ने च स्थः । घृताची घृतमुदकमञ्चत इति घृताची अग्निवाय्र्घर्षणक्रिये, स्थः स्तः, व्यत्ययः । सर्वं जगत् पातं रक्षतः । तौ मया सम्यक् प्रयोजित सुम्ने सुखकारिके उक्तक्रिये सुखे मां यज्ञानुष्ठातारं धत्त धारयतः । यज्ञ इज्यते सर्वैर्जनैरिति यज्ञ ईश्वरः, तत्सम्बुद्धौ हे यज्ञ, क्रियासाधो वा! नमश्च नम्रीभावार्थे । यथा ते तव स्विटे शोभनमिष्टं याभ्यां ते शिवे सन्तिष्ठेते । ते ममाप्येवं तथैव सन्तिष्ठेताम् । तस्माद् यथाहं तस्य यज्ञस्यानुष्ठाने सन्तिष्ठे तथा त्वमप्यत्र सन्तिष्ठस्व ( पृ ० १८८ - १८ ९ ) । ' ईश्वरोऽपि वदति हे मनुष्याः! युयमेव तयो रसच्छेदकधारकयोर्जगत्पालन हेत्वोः सुखकारिणोः क्रियाकाण्डस्य निमित्तयोरुध्वं तिर्यग्गमनशीलयोरग्निवाय्वोः सकाशात् कार्याणि साधयित्वा सुखेषु संस्थितिं कुरुत मदाज्ञापालनमाचरत तं नमस्कुरुतेति भावार्थ: ' ( पृ ० १ ९ ८ ) इति । तदपि यत्किञ्चित् ईश्वरवाक्येषु पिष्टपेषणानुपपत्तेः । अग्निवाय्वोरुपकारो ग्राह्यः सम्यक् प्रयोजितो वायुयानाद्यनेककार्याणि सम्पादयत इति नैकवारमुक्तमेव । कथं ताभ्यां कानि कानि कार्याणि कर्तव्यानीति कार्यपद्धतिनिर्देशस्तु नैकदापि क्रियते । नाग्निवायुयज्ञादिशब्देरेव तदुपकारग्रहणप्रकारोऽवबुद्धयते । घृताचीपदेनाग्निवाय्वोर्धारणाकर्षणक्रिये बोध्येते इत्यपि निर्मूलमेव । किञ्च यज्ञो नमश्च यथा ते तव स्विष्टे शिवे सन्तिष्ठेते मे ममाप्येते तथैव सन्तिष्ठेते इति कस्य वचनम्? जीवस्येश्वरस्य वा? नाद्यः, निष्प्रमाणत्वात्, तथात्वे वेदस्यानीश्वरवाक्यत्वापत्तेश्च । नान्त्यः, ईश्वरस्य कल्याणमयत्वात् स्वकल्याणाय तस्येश्वरान्तरा-नपेक्षणात् । किञ्च तथात्वे यज्ञ इति सम्बोधनपदमपि विरुद्धयते । शतपथाद्विरुद्धमप्येतद्व्याख्यानम् । तथाहि ' स यस्यानसो हविगृह्णन्ति । अनसस्तस्य धुरि विमुञ्चन्ति यतो युनजाम ततो विमुञ्चामेति यतो ह्येव युञ्जन्ति ततो विमुञ्चन्ति यस्यो पात्र्यं स्फ्ये तस्य यतो युनजाम ततो विमुञ्चामेति यतो ह्येव युञ्जन्ति ततो विमुञ्चन्ति ' ( श ० ११८ | ३ | २६ ), ' युजौ ह वा एते यज्ञस्य यत् स्रुचौ । ते एतद्युङ्क्ते यत्प्रचरति स यं निधायावद्येद्यया वाहनमवाच्छेदेवं तत्ते एवत्स्विष्टकृति विमोचनमागच्छतस्ते तत्साद-यति द्विमुञ्चति ते एतत्पुनः प्रयुङ्क्तेऽनुयाजेषु सोऽनुयाजैश्च रित्वैतद्विमोचनमागच्छति । ते वत्सादयति तद्विमुञ्चति ते एतत् पुनः प्रयुङ्क्ते यत्सम्प्रगृह्णाति । तद्यां गतिमभियुङ्क्ते तां गतिं गत्वा विमुञ्चते । यज्ञं वा अनु प्रजास्तस्मादयं पुरुषो युङ्क्तेऽथ विमुञ्चतेऽथ युङ्क्ते तद्यां गतिमभियुङ्क्तं तां गतिं गत्वाऽन्ततो विमुञ्चते । स सादयति घृताची स्थो धुपात सुम्ने स्थः सुम्ने मा धत्तमिति साध्थ्यो स्थः साधी मा धत्तमित्येवैतदाह । ' ( श ० १२८ | ३ | २७ ) | यस्य यजमानस्य राज्ञे अनसो हविगृह्णन्ति..... तस्थानसो धुरि विमुञ्चन्ति जुहूपभृतो - ' घृताची इति धुरि निदधाति, अनसि चेद् ग्रहणम् ' ( का ० श्र ० ३२६ | १८ ), ' स्पये पात्र्यां चेत् ' ( का ० श्री ० ३।६।१ ९ ) । यदि अनस्तो हविः पूर्वं गृहीतं तदा घृताचीति मन्त्रेणानसः शकटस्य धुरि सुचौ स्थापयेत् । यदि इडापात्र्यां हविगृहीतं तदा वेद्या मन्त्रार्थ हे जुहू, उपभृत् पात्रो! तुम घृत से पूर्ण हो । इस शकट के बैलों को रक्षा करो । तथा तुम सुखरूप हो, उस कारण मुझे सुख दो । हे यज्ञ! तुम्हें मेरा प्रणाम है । तुम्हारी अभिवृद्धि हो । हे नमस्कार! तुम यज्ञ के न्यूनातिरिक्त दोषों को दूर करो और मेरे यज्ञ को उत्तम करो और उसमें स्थित रहो । ' घुताची ' - इस मन्त्र से जुहू और उपभृत् को शकट की धुरा पर रख दे । ' यज्ञ नमश्च ' इस मन्त्र से वेदी को स्पर्श करे ॥ १ ९ ॥