वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 81–90

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 81–90

पृष्ठ 81

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 81 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १ ९ ] वेदार्थपारिजातमाष्यसहिता ७१ उत्तरांशे स्फ्यमुदगग्रं निधाय तत्र प्रागग्रे जुहूपभृता आसादयेदिति सूत्रयोरर्थः । ' युजो ह वा ' इति विमोचनार्थवादः । तत्र युजो योक्तव्यावस्थावनड्वाही ह वा एते यज्ञस्य यत्सुची । ते एते यज्ञे युङ्क्ते यत्प्रचरति । स यं निधायावद्येदिति प्रसङ्गेनार्थप्राप्तं चरकश्रुतिप्राप्तं निधायावदानं प्रतिषेधति । वाह्यति तदेभिरिति वाहनमश्वादि । यथा तद् अवाछेद् अधः पतेद् वाह्यमानम्, एवं निधानं सुचोः प्राग्विमोकादधश्चालनं तद् यज्ञस्य स्यात् । तत्ते एतत् स्विष्टकृति विमोचनमागच्छतः ' इति ये सुचौ चरतां युङ्क्ते ते स्विष्टकृति अतीते इति शेषः । वि अपरि-समाप्तोऽर्थः । विमुच्यतेऽस्मिन्निति विमोचनं स्थानं तद् आगच्छतः स्विष्टकृद्यागसमाप्तौ जुहूपभृतो विमोचनस्थान-मनसो धुरादिकमागच्छतः । ते तत्र सादयत्यध्वर्युस्तत्र विमुञ्चति विश्रामार्थम् । पुनश्च अनुयाजेषु प्रयुङ्क्ते सोऽनुयाजैश्चरित्वा एतद्विमोचनमागच्छति । तदन्ते च विश्रामार्थं पुनर्विमुञ्चति पुनश्च सम्प्रगृह्णाति संस्रवहोमार्थं प्रयुङ्क्ते । तदन्ते च कृतार्थः सन् गतिं गतमभियुङ्क्ते करोति । यां गतिमभियुङ्क्ते तां गतिं गत्वा विमुञ्चते । मन्त्रेण देशनियमेन च गम्यते इति गतिः, गन्तव्योऽध्वा । तथा च यां गतिमध्वानमभिगन्तुं युङ्क्ते तांति तमध्वानं गत्वा विमुञ्चते । यज्ञं वा अनु प्रजा यज्ञमनुलक्ष्य प्रजा भवन्ति । तस्मादयं पुरुषो युङ्क्ते अथ विमुञ्चते अय युङ्क्ते तद्यां गतिमभियुङ्क्ते तां गतिं गत्वाऽन्ततो विमुञ्चते इत्यादिभिराधियाज्ञिकयोयोगदि मोकयोरधिभूतं वचनम् । स सादयति सोऽध्वर्युः सादयति जुहूपभृतौ घृताचीति मन्त्रेण । साध्यो इति मन्त्रगतस्य सुम्ने इत्यस्य व्याख्यानम्, साधी इति सुम्ने इत्यस्य । सुम्नं सुखं तच्च साध्वित्यभिप्रायः । स्पष्टमेवास्य मन्त्रस्य जुहूपभृतो. विमोचने अनो धुर्यासादने विनियुक्तत्वात् ते एवोच्येते नाग्निवायू । अत एव श्रुत्या प्रथमस्य सुम्ने इत्यस्य साध्थ्यौ इति व्याख्यानं कृतम् । न चाग्निवाय्वोस्तत्सङ्गच्छते । कात्यायन सूत्रयोरप्ययमेवाभिप्रायः । तथा चायं मन्त्रार्थः हे जुहूपभृती! युवां घृताची स्थः घृतमञ्चतः प्राप्नुत आज्याहुत्यादिसाधनत्वाद् इति घृताची, पूर्वसवर्णदीर्घः घृताची भवतः । तथाविधे युवां धुयौं धुरमर्हत इति धुर्यो अनड्वाही पातं रक्षतम् । किश्न, युवां सुम्ने स्थः सुखरूपे भवथः । तस्मात् सुम्ने सुखे मामाधत्त मां स्थापयतम् । ' यज्ञे नमश्च इति वेदिमालभते ' ( का ० श्री ० ३।६।२० ) । यज्ञ नमश्चेति मन्त्रेण वेदिमालभते । अतः पूर्वस्माद्भिन्नोऽयं मन्त्रः-अस्य मन्त्रस्य ' सूपं पवमान ऋषिरुबालवान् धनान्नवानित्येते ऋषय इत्युव्वाचार्यः । शूर्पं यवमान् कृषिरुद्बालवान् धनान्नर्वानिति पञ्च ऋषय इति महीधराचार्यः । यज्ञो देवता । भाष्यसार - स्वामी दयानन्दने इस मन्त्र की हूँ, वैसे ही तुम भी उसमें स्थित रहो । ईश्वर भी और वायु से अपने कार्यों को सम्पादित कर सुख की करो । व्याख्या करते हुए कहा है कि जैसे मैं यज्ञ के अनुष्ठान में स्थित कहता है कि हे मनुष्यों! क्रियाकाण्ड के निमित्तभूत अग्नि, वृद्धि करो । मेरी आज्ञा का पालन करो, उसको नमस्कार किन्तु यह दयानन्द व्याख्यान नितान्त सारहीन है, क्योंकि ईश्वर के वाक्यों में पिष्टपेषण नहीं हुआ करता । कार्य सम्पादन की बात तो कही, किन्तु कार्यपद्धति का निर्देश एक बार भी नहीं किया । ' घृताची ' पद से अग्नि और वायु की धारण - आकर्षण क्रिया को बोधित करना भी निर्मूल है । ' यज्ञो नमश्च ' यह वाक्य जीव का है या ईश्वर का है? दोनों में से किसी का भी यह वाक्य नहीं हो सकता । अन्यथा अनेक दोष उपस्थित होंगे । तस्मात् दयानन्दीय व्याख्यान शतपथ, श्रीतसूत्र के विरुद्ध होने से नितान्त सारहीन है । १. अस्य मन्त्रस्य १. सूर्पम् २. पवमानः ३ ऋषिः, ४. उद्बालवान् ५ धनान्नवानिति ऋषय उब्वटाचार्यमले | महीधराचार्यमते तु १. शूर्पम्, २. यवमान् ३. कृषि:, ४. उद्बालवान् ५ धनान्नर्वानिति । हस्तलिखितपाठेषु भ्रंशान्न सम्य निर्णेतुं पार्यते ।

पृष्ठ 82

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 82 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७२ शुक्लयजुर्वेद संहिता [ अ ० २. हे यज्ञ! प्रकृतयज्ञः, इज्यते नानाविधैर्यज्ञैर्यः स परमेश्वरो वा सम्बोध्यते । नमश्च ते तुभ्यं नमस्कारश्चास्तु । उप उपचयो वृद्धिश्च तेऽस्तु । परमेश्वरस्य लोकोत्तरमाहात्म्याभिवृद्धिः, यज्ञस्य चोत्कृष्टफलदानसामर्थ्यवृद्धिरेव वृद्धिः । चकारौ समुच्चयार्थी नम - उपशब्दाभ्यां यज्ञस्य यदतिरिक्तं यच्च न्यूनं जातं तत्पूर्ण जायते । ' यदतिरेचयति तन्नमस्कारेण शमयति । अथ यदूनं करोत्युप चेति तेन तदन्यूनं भवति ' ( श ० ११ १२ १३३ ९ ) इति श्रुतेः । किश्च यज्ञस्य शिवे सन्तिष्ठस्व अन्यूनानतिरिक्तं यज्ञं कुरु । ' यद्वै यज्ञस्यान्यूनातिरिक्तं तच्छिवं तेन तदुभय १ शमयति ' ( श ० ११ । २ । ३२ ९ ) इति श्रुतेः । मे मम स्विष्ठे सन्तिष्ठस्व साधु इष्टं स्विष्टं तस्मिन् मे सन्तिष्ठस्व समाप्ति याहि, पूर्णो भवेत्यर्थः । ईश्वरपक्षे तु हे परमेश्वर! ते तुभ्यं नमोऽस्तु । त्वत्प्रसादाद्यज्ञस्य प्रकृतस्य उपचयो वृद्धिः वन्दे, अन्यूनानतिरिक्तताऽस्तु । ' यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो तव ॥ ' तमच्युतम् ॥ ' ' मन्त्रतस्तन्त्रतरिछद्रं देशकालार्हवस्तुत: । सर्वं करोति निश्छिद्रं नामसङ्कीर्तनं ( भा ० पु ० ८ | २३३१६ ), ‘ यत्पादपद्मस्मरणाद्यस्य नामजपादपि । न्यूनं कर्म भवेत्पूर्णं तं वन्दे कल्याणे साम्बमीश्वरम् सन्तिष्ठस्व ॥ ' ( शि ० पु ० ६ | १२६० ) इति पुराणवचनात् । हे यज्ञ परमेश्वर! यज्ञस्य प्रकृतस्य शिवे यज्ञस्य साङ्गोपाङ्गतायै त्वं यज्ञे पूज्यत्वेन भोक्तृत्वेन च सम्यक् स्थिरो भव । मे मम स्विष्टे त्वदनुग्रहेण साधुसम्पन्ने यागे सन्तिष्ठस्व तदधिष्ठातृत्वेन स्वामित्वेन च सम्यगधितिष्ठ ॥ १ ९ ॥ अग्नेऽदब्धोऽशीतम पाहि मां दद्योः पाहि प्रति॑ित्यै पा॒हि दुरि॑िष्ट्ये पा॒हि दुर॑ह्म॒न्या अ॑वि॒षं न॑ पि॒तुं कृ॑णु । सु॒षदा योनौ स्वाहा॒वाय॒ग्नये॑ सं॒व॒ज्ञप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशो-अ॒गिन्यै॒ स्वाहा॑ ॥ २० ॥

दयानन्दरीत्या --- ' हे अग्ने अदब्धायो अदब्धमहिंसितमायुर्यस्मात्तत्सम्बुद्धौ । अशीतम अश्नुते व्याप्नोति चराचरं यज्ञं सोऽतिशयितस्तत्सम्बुद्धौ । स वा त्वं यज्ञं दुरिष्ट्ये दुष्टा इष्टिर्यजनं यस्याः पञ्चम्यर्थे चतुर्थी । पाहि पाति मां दिद्योः प्रमादरूपाद् दुःखात् प्रसित्यं प्रकृष्टा चासौ सितिबंन्धनं यस्यां तस्यै पाहि । दुरद्मन्यै दुष्टा अद्मनी अदनक्रिया यस्यां तस्यं पाहि । नोऽस्माकं भविष्यविषादिदोषरहितमन्नम्, पितुरित्यन्ननामसु मन्त्र का वास्तविक अर्थ, जो माध्य में बताया है, उसे मावार्थ के रूप में हिन्दी में पूर्व दे चुके हैं । अध्यात्मपक्ष में- हे परमेश्वर! तुमको प्रणाम है । तुम्हारे प्रसाद से प्रकृत यज्ञ में अन्यूनानतिरिक्तता रहे । यज्ञ की सांगोपांगता के सिद्धयर्थं तुम यज्ञ में पूजनीय तथा भोक्ता के रूप में सम्यक्तया स्थिर रहो ॥ रहो १ । ॥ तुम्हारे अनुग्रह से साबुतया सम्पन्न होने वाले याग में उसके अधिष्ठाता और स्वामी बनकर सम्यक्तया स्थित मन्त्रार्थ उपासना करने वाले को अहिंसित आयु देने वाले और भोक्तृतम कहलाने वाले हे गार्हपत्य! शत्रु के द्वारा प्रेरित किये गये वज्र से मेरी रक्षा करो, उसी प्रकार बन्धन की प्राप्ति में कारणीभूत जाल ( पाश ), अशास्त्रीय याग और दुर्भोजन से मेरी रक्षा करो । मेरा अन्न निर्विष करो और अच्छी तरह से रहने योग्य गृह में मेरी स्थापना करो । ये हृदि! तुम सुहुत हो । इस संवेश ( साभिलाष स्त्री - पुरुषों का एकत्र शयन करना ) इस का अधिपति जो अग्नि और यश की भगिनी जो वाणीरूप सरस्वती, उसे यह हवि सुहित हो । ' अग्ने अदब्धाया ' हवन करे ॥ २० ॥

मन्त्र से स्रुक् और स्त्रवा का ग्रहण करे । ' अग्नये ' और ' सरस्वत्यै ' इन मन्त्रों से दक्षिणाग्नि में

पृष्ठ 83

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 83 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २० ] वेदार्थपारिजात भाष्यसहिता ७३ ( निघ ० २७ ), पितुं कृणु कुरु करोति वा । लडर्थे लोट् । नोऽस्मान् सुषदा सुखे सीदन्ति यस्यां तस्यां सुपां सुलुगिति ङ: स्थाने आकारादेशः । योनौ युवन्ति यस्यां सा योनिगृहं जन्मान्तरं वा । स्वाहा वाट् सु आहानया सा वाट् क्रियार्थे सत्क्रियायां च कृणु । वयं यशोभगिन्यं यशांसि सत्यवचनादीनि कर्माणि भजितुं शीलं यस्यास्तस्यै स्वकीयं पदार्थं प्रत्याह यस्यां क्रियायां सा । सरन्ति येन तत्सरो ज्ञानम्, तत्प्रशस्तं विद्यते यस्यां वाचि तस्याम्, ' सरस्वतीति वाङ्नामसु ' ( निघ ० १११ ) । सरस्वत्यै स्वाहा । सुष्ठु आहुतं करोति यस्यां सा । संवेशपतये सम्यग् विशन्ति ये ते पृथिव्यादयः पदार्थास्तेषां पतये बालकाय परमेश्वराय भौतिकाग्नये वा । अग्नये तुभ्यं स्वाहा नमश्च नित्यं कुर्मः ' ( पृ ० १ ९ १ - १ ९ २ ) । हिन्दीभाषायां तु - ' हे निर्विघ्नायुप्रद परमेश्वर हे चराचरव्यापक! दुष्टाद्वेदविरुद्धाद् यज्ञात्पाहि । तथा मां दिद्यो: अतिदुःखाद्रक्ष प्रकृष्टबन्धनात् पाहि दुष्टभोजनविपत्ते रक्ष । मदर्थं दोषरहितमन्नादिपदार्थ-मुत्पादय । नोऽस्मान् सुस्थैर्यदाय के योनी गृहे वेदवाक्यः साध्यायां क्रियायां स्थिरान् कुरु । यतो वयं सत्यवचना-द्युत्तमकर्मसेवयित्र्यै पदार्थप्रकाशने श्रेष्ठज्ञानदायं वेदवाण्यं धन्यवादं कुर्मः । पृथिव्यादिपदार्थानां पालकाय च धन्यवादनमस्कारे कुर्मः । द्वितीयेऽर्थे - हे जगदीश्वर! भवन्निमितोऽग्निर्दुष्टयज्ञदूषित पदार्थप्रभावात् पाति, तथा मां दुःखात् पाति, दारिद्र्यादिबन्धनात् पाति, दुष्टभोजनक्रियायाः पाति, अस्माकमन्नादिपदार्थान् निर्विषान् करोति, सुखस्थितिदायके गृहे जन्मसु वा वेदवाक्यसाध्यक्रियाणां हेतुश्च भवति । वयं पृथिव्यादिपालकं तमग्न गृहीत्वा होमाय वेदवाणीप्राप्तये च स्वाहा परमात्मने धन्यवादं कुर्मः ' ( पृ ० १ ९ ३ ) इति । तदेतत्सर्वंमसत्, त्वदभिमतस्वाहाशब्दार्थस्य पूर्वमेव खण्डितत्वात्, निष्प्रमाणव्यत्ययस्य च दूषितत्वात् । मूर्धन्यान्तस्य आयुष्शब्दस्य कथम् ' अदब्धायो ' इति रूपम्? यदि तु ' छन्दसीण ' ( उ ०१२ ) इत्युणप्रत्ययान्त उकारान्त आयुशब्दस्तदापि दिद्युशब्दस्यातिदुःखं कथमर्थः? ' इषवो वे दिद्यवः ' ( श ० ५।४।२।२ ) इत्यत्र त्विषूणां वज्ररूपत्वोक्तिः । अशीतम इत्यत्र कथम् अन्येषामपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति दीर्घः? भौतिकाग्निपक्षे कथं तेन दुरिष्टेस्त्राणम्, तस्य जडत्वेनावैदिककर्मणो निवारकत्वासिद्धेः । एवं दुरद्मन्या अपि ततो निवारणमशक्यमेव, ज्ञानसाध्यत्वेन तत्रासम्भवात् । संवेशशब्देन पृथिव्यादिपदार्थग्रहणमपि सम्पूर्वकस्य विशतेः साभिलाषस्त्रीपुंसयोरेकत्र शयने रूढत्वाद् अग्नौ तत्पालकत्वमपि चिन्त्यम् । यशोभगिन्यं इत्यत्रापि भगिनीशब्दस्य स्वसृपरत्वे संभवति णिनिप्रत्ययान्तस्य छान्दसत्वेन दीर्घाभावत्वसमर्थनं निर्मूलमेव । शतपथविरुद्धत्वं च तत् । ' अथ जुहूं च स्रुवं च सम्प्रगृह्णाति । अदो हैवाहुति करोति यदनवयाहुतित्वा देवलोकं गच्छादिति । तस्माज्जुहं च स्रुवं च सम्प्रगृह्णाति । ( श ० ११ ९ / २ / १ ९ ), ( स वा अग्नये सम्प्रगृह्णाति । अग्नेऽदब्धायो अशीतमेत्यमृतो ह्यग्निस्तस्मादाहादब्धाय वित्यशीतमेत्य शिष्टो ह्यग्निस्तस्मादाहाशीतमेति पाहि मा दिद्यो: ' ' पाहि दुन्या इति सर्वाभ्यो मार्तिभ्यो गोपायेत्येवैतदाहाविषं नः पितुं कृष्वित्यन्नं वै पितुरनमीवं न इदमकिल्विषमन्नं कुवित्येवैतदाह । सुषदा योनावित्यात्मन्येतदाह स्वाहा वाडिति । तद्यथा वषट्कृत हुतमेवमस्यैतद्भवति ' ( श ० ११ ९ ।२।२० ) | अथ जुहूं च स्रुवं च सम्प्रगृह्णाति होतुं तत्स्थमाज्यं न तु चरुवत्तस्याहुतिकरणार्थं किं भाष्यसार -- स्वामी दयानन्द ने संस्कृत में कुछ अन्य व्याख्या की है और हिन्दी में कुछ अन्य व्याख्या कर दी है । वह सब असत् व्याख्यान है । ' स्वाहा ' शब्द के उनके अभिमत अर्थ का खण्डन पहले ही किया जा चुका है । दयानन्द जी ने ' आयुष् ' शब्द का ' अदब्धाय: ' रूप बताया है, किन्तु उन्होंने यह विचार नहीं किया कि मूर्धन्यान्त १०

पृष्ठ 84

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 84 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७४ शुक्लयजुर्वेदसंहिता [ अ ० २ कारणं अद एव तृणमध्वर्युः आहुति करोति यत् तद् अनक्ति अग्रं जुह्वां मध्यमुपभृति मूलं ध्रुवायामिति गच्छादिति | किमर्थं । जुहूं च स्रुवं च सम्प्रगृह्णाति किमर्थं वा अनक्ति? तत्राह - आहुतिर्भूत्वा दमाज्यं देवलोकं । पूर्वोक्तं संप्रग्रहमद्य मन्त्रं विधत्ते - अग्नेऽदब्धाऽयोशीतमेति । मन्त्रं व्याचष्टे - अशिष्ठो ह्यग्निस्तस्मादाहाशीतमेति सर्वाभ्यो अश्नाति भुङ्क्ते इत्यशी अतिशयेनाशी अशीतमो भोक्तृतमः । पाहि मा दिद्योरिति भागं व्याचष्टे मार्तिभ्यो गोपायेत्येवैतदाह । अविषं नः पितुं कृष्विति व्याचष्टे - गोपाय अन्नं वै पितुरनमीवं न इदमकिल्विषमन्नं कुवित्येवैतदाह । अमीवा व्याधिः स यस्य कार्यतया नास्ति तदनमीवं सुषदा योनावित्यस्य व्याख्यानम् आत्मन्येतदाह - आत्मनि अग्नी दक्षिणाग्निहोमादिशाखान्तरात् । ' शंय्वन्ते वेदतृणमादायानक्ति प्रस्तरवत् स्रुचि स्रुवे स्थाल्यां च ' ( कां ० श्री ० ३,७ | ११ ) शंयुवाके क्रियमाणे प्रास्य-वेदतृणं गृहीत्वा प्रस्तरवदग्रं जुह्वां मध्यं स्रुवे मूलं स्थाल्यां व्यन्तु वय इति मन्त्रावृत्त्याऽञ्ज्यादध्वर्युः ३।७।१४ । ' ) । तृणादिपूर्ववत् ' ( का ० श्री ० ३ | ७ | १३ ), ' शंय्वन्ते स्रुक्स्रुवं प्रगृह्णात्यग्नेऽदब्धायविति ' ( का ० श्रो ० शंयोर्वाकान्ते कर्मणि कृतेऽध्वयुः स्रुक्स्रुवं तूष्णीं प्रगृह्य गार्हपत्ये अग्ने अदब्धायविति मन्त्रेण जुहुयात् । स्वाहावाडिति तद्यथा वषट्कृत हुतमेवास्य तद्भवति । तथा च श्रुतिसूत्रसम्मतोऽयमर्थः सम्पद्यते - ' सव्येनावृत्य दक्षिणाग्नो जुहोत्यग्नय इति सरस्वत्या इति च ' ( का ० श्री ० ३ | ७ | १५ ) । सकृद्गृहीतमाज्यमग्नय इति सरस्वत्या इति मन्त्रेण गार्हपत्यं प्रदक्षिणं परीत्य जुहोति । अदब्धायो अदब्धः अहिंसितः आयुर्मनुष्यो यजमानरूपो यस्याग्नेः सोऽदब्धायुस्तत्सम्बुद्धौ अदब्धायो अहिंसितयजमानाग्ने! ' आयुरिति अन्ननाम ' ( निघ ० २ | ७ | २३ ) | अथवा अदब्धमनवखण्डितमायुस्य । तत्सम्बुद्धौ हे अदब्धायो अग्ने! अस्मिन् पक्षे ' छन्दसोण: ' ( उ ० १ २ ) इति व्युत्पादित उकारान्त आयुशब्दः अशीतमः अश्नातीत्यशी: ' अश भोजने ' अतिशयेनाशीरित्यशीतमो भोक्तृतमः । दीर्घत्वमत्रापि व्यापकतमः छान्दसम् । एवं । यद्वा ' अशूङ् व्याप्तौ ' इत्यस्माद्रूपम् | अश्नुते व्याप्नोतीत्यशी सोतिशयितोऽशीतमो पठितम् ' स्तुत्वा याचते पाहि मा दिद्योः । उक्तविशेषणद्वययुक्ताग्ने मां दिद्योर्वज्रात्, ' दिद्युदिति चतुर्थी । बन्धन वज्रनामसु हेतु जलविशेषः ( निघ ० २ ( २०११ ), शत्रुप्रयुक्ताद्वज्रसमादायुधाद् मां पाहि रक्ष । पञ्चम्यर्थ वा ' ( नि ० ६।१२ ) इति प्रसितिः, तस्याः शत्रुप्रयुक्तायाः, मां पाहि । ' प्रसितिः प्रसयनात् तन्तुर्वा जालं अद्मनी दुरद्मनी निरुक्तवचनात् । दुष्टा इष्टिः दुरिष्टि: अशास्त्रीयो यागः तस्मान्मां पाहि । अदनमद्मनी । दुष्टा सूत्रांत् । दुर्भोजनं ततो मां पाहि । चतुर्भ्यः सर्वत्र पञ्चम्यर्थे, ' भीत्रार्थानां भयहेतु: ' ( पा ० सू ० १/४/२५ ) इति पितुरित्यन्ननाम । नोऽस्मदीयमन्नं विषादिकिल्विषरहितं कुरु । ' योनिरिति गृहनाम ' ( निघ ० ३।४ ) । सुष्ठुसद । सम्यगवस्थानयोग्ये योनी गृहे मां स्थापयेति शेषः । सुषद्यते स्थीयते यस्यां सा सुषदा तस्यां सुषदा शयनं विभक्तेराकार इति महीधरः । गृहे स्थितानां नोऽन्नमविषं कुरु । स्त्रीपुंसयोः, साभिलाषमेकत्र तस्य भगिनी स्वसा संवेशः । तस्य पतिरग्निः । तस्मै स्वाहा हविर्दत्तमस्तु । जीवतः प्रशंसा यशः वाग्रूपा सरस्वती, उभयोरेकाश्रयजन्यत्वात् । तस्यै हविर्दत्तमस्तु | स्वाहावाडिति हविर्दानसम्बन्धिपदद्वयप्रयोगेण हविर्दान आदरातिशयस्य द्योतनाय । अध्यात्मपक्षेऽपि - हे अग्ने अदब्धायो अनुपक्षीणायो! क्लटस्थ नित्यस्वरूपमात्मन्! अशीतम व्यापकतम! आकाशादयोऽपि व्यापनाः सन्ति, तदपेक्षयातिशयेन व्यापकः, आकाशादिष्वपि व्यापकत्वात् । मां दिधोर्वज्रोप-अर्थं कैसे होगा? ' आयुष् ' शब्द का ' अदब्धाय: ' रूप कैसे हो पायेगा? उसी तरह ' दिद्यु ' शब्द का ' अतिदुःख ' है । ऐसे अनेक अप्रामाणिक विचार उन्होंने व्यक्त किये हैं, जिन्हें माध्य पढने पर अवगत किया जा सकता

पृष्ठ 85

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 85 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

' मन्त्रः २०-२१ ] वेदार्थपारिजातमाष्यसहिता ७५ माद्विपाकविस्फूर्जथोर्दुः खात् पाहि जन्ममृत्यु प्रहाणहेतुज्ञानोत्पादनेन रक्ष । प्रसितेः कर्मबन्धनाच्च पाहि कर्मबन्धनमेव प्रकृष्टं बन्धनम्, संसारबन्धनस्य तदपेक्षया नगण्यत्वात् । अविद्याबन्धनाद्वा प्रकृष्टबन्धनाद्रक्ष । दुरिष्टेरपि सर्वा-न्तर्यामित्वान्मनोबुद्धिनियामकत्वात् त्वमेव वेदशास्त्रतदुक्तार्थप्रकाशननिष्ठोत्पादनादिद्वाराऽशास्त्रीयाज्जनात् त्वमेव रक्षितुमर्हसि । दुरद्मन्या दुर्भोजनादपि विवेकोत्पादन रागादिप्रमादवारणद्वाराऽपि मां रक्ष । नोऽस्माकं पितुमन्तमन्नोपलक्षितं सकलभोग्यजातमविषं निष्किल्बिषं कृणु त्वमेव सम्पादय, आहारशुद्धेर्भगवन्निष्ठाहेतुत्वात्, ' आहार शुद्ध सत्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः ' ( छा ० ७ २६।२ ) इति श्रुतेः । सुषदा योनी शोभन स्थितिध्यान-धारणाभक्तिसम्पादनयोग्ये गृहे मां स्थापयेति शेषः । गृहशरणादिपदमाश्रयपरम्, सुष्ठु सद्यते यस्यां सा, तस्यां सुखद स्थित्याभये भगवद्रूपे आश्रये मां निवेशय । संवेशपतये संविशन्ति जना यत्र ते संवेशा लोकास्तेषां पतिः परमेश्वरोऽग्निः पापतापनाशक: परमेश्वरस्तस्मै स्वाहावाट् सम्पूर्णभावेन परमादरेणाहमात्मानं समर्पयामि । अथवा संवेशस्य स्त्रीपुंसयोः साभिलाषशयनस्य पतिरग्निः, तादृशशयन मूलक विवाहस्याग्निसाक्षिकत्वात् । संवेशपतिः परमात्मा च संवेशस्य तदुपादानवेदमूलकत्वात् । तस्मै परमात्मने समर्पणं युक्तम् । सरस्वत्यै यशोभगिन्यै स्वाहा यशसा • प्रशंसनीयेन विश्वपावनत्वादिगुणेन सज्जातायं वद्भगिन्यै सर्वेश्वरकृपाय स्वाहा इमात्मस्वरूपं हविर्दत्तमस्तु ॥ २० ॥

वेदोऽसि॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑व॒स्तेन॒ मह्यं वे॒दो भ॑याः । देवा॑ गातु-विदो गा॒तुं वि॒त्वा गा॒तुम॑त । मन॑सस्पत इ॒मं देव य॒ज्ञ ँ स्वाहा वाते ' धाः ॥ २१ ॥

अत्र श्रीदयानन्दः - ' हे जगदीश्वर येन त्वं देदोऽसि परमेश्वरो ऋग्वेदादिर्वा असि सर्वं च वेद येन त्वं देवेभ्यो विद्वद्भूयो वेदोऽभवस्ते वेदयिता भवसि भवति वा स विज्ञानप्रकाशनेन त्वं मामपि वेदो ज्ञापको भूयाः । हे गातुविदो देवा गीयते स्तूयतेऽनया सा गातुः स्तुतिस्तस्य विदो वक्तारः ' गा स्तुती ' इति ' कनिमनिजनि. ' ( उ ० १।७३ ) इत्यनेन तुप्रत्ययः । भवन्तो येन विज्ञानप्रकाशेन सर्वा विद्या विदन्ति तेन यूयं गातुं गीयते ज्ञायते येन स वेदस्तं वित्त्वा लब्ध्वा गातुं गीयते शब्द्यत इति गातुर्यज्ञस्तमित प्राप्नुत । हे मनसस्पते मनसो ज्ञानस्य पालक देव! त्वमिमं प्रत्यक्षमनुष्ठातव्यं वाते वायौ धाः धापय धापयति वा स्वाहा सुष्ठु आहुतं हविः करोत्यनया सा । हे देवास्तमिमं यज्ञं क्रियाकाण्डं संसारं वा मनसस्पति परमेश्वरमेव देवं नित्यमुपासोध्वम् । पक्षान्तरे सर्वत्र व्यत्ययः । हे देव येन त्वं चराचरज्ञातासि सर्वं जगज्जानासि । येन विज्ञानेन वेदेन वा विद्वद्भयः पदार्थानां वेदयिता भवसि तेन विज्ञानप्रकाशेन विज्ञान जिज्ञासवे मह्यं वेदयिता भूयाः । हे गातुविदः स्तुतिविदो देवाः! येन वेदेन मनुष्याः सर्वा विद्या जानन्ति तेन यूयं गातुं विशेषविज्ञानं वित्त्वो-अध्यात्मपक्ष में -- प्रस्तुत मन्त्र के द्वारा परमेश्वर की अत्यधिक व्यापकता को बताया गया है और सर्वविध विपत्तियों से अपनी सुरक्षा की प्रार्थना की गई है ॥ २० ॥

मन्त्रार्थ - कुशमुष्टिनिर्मित है वेदपदार्थ! तुम ऋग्वेदादिरूप हो । हे प्रकाशक वेद! जिस प्रकार तुम देवताओं के बोधक हुए हो, उसी प्रकार मेरे बोधक बनो । हे यज्ञवेत्ता देवताओं! हमारा यज्ञ आरम्भ हुआ, यह ज्ञात होते ही तुम सब यज्ञ में पधारो | हमारे यज्ञ से सन्तुष्ट होने पर अपने मार्ग से जाओ । हे मन के अधिपति चन्द्ररूप परमेश्वर! मैं इस अनुष्ठित यज्ञ को तुम्हारे स्वाधीन कर रहा हूँ । तुम उसे वायुरूप देवता में स्थापन कर दो । ' वेदोऽसि ' इस मन्त्र से यजमानपत्नी वेद = कुशमुष्टि को खोल दे । ' देवा गातुविद: ' इस मन्त्र से ध्रुवा पात्र से समिष्टयजुः संज्ञक होम करना चाहिये ॥ २१ ॥

पृष्ठ 86

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 86 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७६ शुक्ल यजुर्वेद संहिता [ अ ० २ पलभ्य गातुं प्रशंसायोग्यं वेदं प्राप्नुत । हे मनसस्पते विज्ञानपालक देव सर्वजगत्प्रकाशक परमेश्वर! भवानिमं प्रत्यक्षानुष्ठानयोग्यं यज्ञं क्रियाकाण्डेन सिद्धं यज्ञरूपं संसारं स्वाहाक्रियानुकल्पे वाते पवने स्थापय । हे देवास्तं विज्ञानदातारं परमेश्वरमुपासतम् ' ( पृ ० १ ९ ४ ), ' हे मनुष्याः! सर्वत्वेत्रा वेदविद्या प्रकाशिता । तमेवोपास्यं विदित्वा क्रियाकाण्डमनुष्ठाय सर्वहितं सम्पादयत, नैव वेदविज्ञानेन तत्रोक्तविधानानुकूलस्यानुष्ठानेन च विना मनुष्याणां कदाचित् सुखं भवति । वेदविद्यया सर्वसाक्षिणं सर्वतो व्यापकं मत्वैव नित्यं धर्मस्यानुष्ठातारो भवत ' ( पृ ० १ ९ ५ ) इति । तदेतत्सर्वं वेदाक्षरबाह्यमेव, अनुपपत्तेः उक्तविधानानुकूलं किमित्यस्यानुक्तत्वात् । तदनुष्ठानेन विना मनुष्याणां नैव कदाचित्सुखं भवतीति निरर्थकमेव, यतो मन्त्ररूपे वेदे किश्चिद्विधानं नास्त्येव, विधिनिषेधानां ब्राह्मणान्तर्गतत्वात् तेषां च त्वया वेदत्वानभ्युपगमात् । प्रमाणविधुरो व्यत्ययोऽपि न युक्तः, यथाश्रुतानु-पपत्तावेव तस्याश्रयणीयत्वात् । तस्या विदो वक्तार इत्यप्यसाम्प्रतम्, विदेर्वचनार्थतायाः प्रमाणविरहात् । गीयते शब्द्यते यः स यज्ञ इत्यप्यसङ्गतम्, सर्वस्य शब्द्यत्वाविशेषात् । न वा वायुजलशुद्धिप्रयोजनो यज्ञो वेदेन शब्द्यते, पशुपुत्रादिफलकब्राह्मणसूत्राद्युक्तयज्ञस्यैव वेदवेद्यत्वात् । न च मनस्पदेनाधुनिक विज्ञानबोधः सम्भवति, तेन तस्य शक्तिग्रहाभावात् । न वा संसारो यज्ञशब्दार्थः, व्याकरणकोशा दिभिरसमर्थनात् । शतपथे तु ब्राह्मण - सूत्र- याज्ञिकपद्धतिसम्मतस्यैव यज्ञस्य समर्थनं दृश्यते । तथाहि - ' अथ वेदं पत्नी विति । योषा वै वेदिर्वृषा वेदो मिथुनाय वै वेदः क्रियतेऽथ यदेनेन यज्ञ उपालभते मिथुनमेवैतत्प्रजननं क्रियते ' ( श ० १२ ९ २ २१ ), ' पत्नी वेदं प्रमुखति वेदोऽसीति योक्त्रं च ' ( का ० श्री ० ३८२ ) । नहि परमात्मनो वेदस्य वा पत्नीकर्तृकं विस्रंसनं सम्भवति, तस्मात् कुशमुष्टिरेवात्र वेदपदार्थः । नहि ' वेदं कृत्वा वेदि करोति ' इति श्रुतौ वेदिकरणात् प्राक् परमेश्वरस्य वेदस्य वा निर्माणं सम्भवति । ' प्रत्वा मुचामि वरुणस्य पाशाद्येन त्वा बध्नातु सविता सुशेवः । ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥ ' ( ऋ ० सं ० १०।८।२४ ) इति पत्नी वेदं कुशमुष्टिविशेषं वेदोऽसीति मन्त्रं पठित्वा विस्रंसयेत् । ' यद्धि युक्तं न विमुच्यते प्र तद्दह्यते ' ( श ० ६ | ७ | ४ | ८ ) इत्यत्र तदर्थवादं वक्ष्यति । पत्न्याः कर्तृत्वेऽप्यर्थवाद । तत्रोत्पत्तिस्तावत् ( श ० ११ ९ / २ / २२ ) इत्यत्र वक्ष्यति । विस्रंसनप्रसङ्गात् तदुत्पत्तिविनियोगावाह । योषा वै पत्नी ' योषा वै वेदि: ' इति । विनियोगस्तु -- ' अथ यत् ' इति । ' अथ यत् पत्नी विस्र ७ सयति वृषा वेदो मिथुनमेवैतत् प्रजननं क्रियते । तस्माद्वेदं पत्नी विस्रस्यति ' ( श ० ११ ९ / २ / २२ ) । एतेन वेदेन यज्ञे यत्किञ्चिद् उपालभते उपगृह्णाति । गृहीतमपि सद् उपचर्याय उपकाराय सुगृहीतत्वाद् यद् गृह्णाति, यन्मिथुनं क्रियते उपग्राह्यस्य च वेदस्येत्युपग्रहणे विनियोगः - ' सावित्रयति वेदोसि... वेदो भूया इति यदि यजुषा चिकीर्षेदेतेनैव कुर्यात् ' ( श ० ११ ९ ।२।२३ ) । विसनमनूद्य वेदोऽसीति मन्त्रं विधत्ते - यदि यजुषा चिकीर्षेदेतेन वेदोऽसीति मन्त्रेणैव विस्रंसनं कुर्यात् । यदिशब्दात् पाक्षिकं वेदस्य यजुषा करणमिति गम्यते । अथ यजुषाकरणचिकीर्षाऽनुपपन्नेति सामर्थ्यात् पतिः कुर्यात् करणमासाद्याज्यनिर्वापकाले चिकीर्षति । कः पुनः कुर्याद् यजमानः शाखान्तरात् मह्यं भूया इति मन्त्रलिङ्गाच्चेति हरिस्वामी । ' तमा वेदेः सस्तृणाति । योषा वै वेदिर्वृषा वेदः । पश्चाद्वै परीत्य वृषा भाष्यसार --- इस मन्त्र की स्वामी दयानन्द ने जो व्याख्या की है, वह सब वेदाक्षरबाह्य है । स्वामी दयानन्द ने इस मन्त्र के द्वारा जो विधान बताये हैं, वे अनुचित हैं, क्योंकि मन्त्ररूप वेद में कोई विधि होता ही नहीं है । विधि-निषेध तो ब्राह्मणरूप वेद में हुआ करते हैं और ' ब्राह्मण ' को तो स्वामी दयानन्द ' वेद ' नहीं मानते । तथा

पृष्ठ 87

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 87 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

' मन्त्रः २१ ] वेदार्थपारिजातभाष्यसहिता ७७ -योषामभिद्रवति पश्चादेवैनामेतत्परीत्य वृष्णा वेदेनाधिद्रावयति । तस्मादा वेदे: सस्तृणाति ' ( श ० ११ ९ | २ | २४ ) | आङ् अभिविधौ । वेदि व्याप्य सस्तृणात्यध्वर्युः । होत्रे विशेषवचनाद् होता संस्तृणाति । अभिव्याप्तेरर्थवादः वृषरूपेण -यथा पश्चाद्वैपरीत्य वृषा योषामभिद्रवति तथैव पश्चादेवैनां वेदि परीत्याभिव्याप्य वृष्णा वेदेनाधिद्रावयति । तस्मादावेदेः संस्तरणम् । नहि वेदेन परमात्मना वेदे: स्तरणं सम्भवति, किन्तु विस्रस्तकुशैरेव वेदे: स्तरणं सम्भवति । ' अथ समिष्टयजुर्जुहोति । प्राङ्मे यज्ञोऽनुसन्तिष्ठाता इत्यथ यद्धुत्वा समिष्टयजुः पत्नीः संयाजयेत् । प्रत्यङ्ङु हैवास्यैष यज्ञः सन्तिष्ठेत । तस्माद्वा एतर्हि समिष्टयजुर्जुहोति प्राङ्मे यज्ञोऽनुसन्तिष्ठाता इति ' ( श ० ११ ९ ।२।२५ ) ' अथ यस्मात्समिष्टयजुर्नाम या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायते सर्वा वै तत्ताः समिष्टा भवन्ति । तद्यत्तासु सर्वासु समिष्टास्वयैतज्जुहोति तस्मात् समिष्टयजुर्नाम ' ( श ० १ १ ९ | २ | २६ ), ' अथ यस्मात् समिष्ट-यजुजुहोति । या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायत उप ह वै ता आसते यावन्न समिष्टयजुर्जुह्वतीदं तं नुनो जुह्वत्विति ता एवैतद्यथायथं व्यवसृजति । यत्र यत्रासां चरणं तदनु यज्ञं वा एतदजीजनत यदेनमतत जनयित्वा यत्रास्य प्रतिष्ठा तत्प्रतिष्ठापयति । तस्मात् समिष्टयजुर्जुहोति ' ( श ० ११ ९ २ २७ ), ' स जुहोति । देवा गातुविद इति गातुविदो हि देवा गातुं वित्त्वेति यज्ञं वित्त्वेत्येवैतदाह गातुमितेति तदेतेन यथायथं व्यवसृजति -मनसस्पत इमं देवयज्ञस्वाहा वाते धा इत्ययं वै यज्ञो योऽयं पवते तदिमं यज्ञ सम्भृत्येतस्मिन् यज्ञे प्रतिष्ठा पयति यज्ञेन यज्ञ सन्दधाति तस्मादाह स्वाहा वाते धा इति ' ( श ० ११ ९ २ २८ ) । ' स्तृणात्या वेदेः ' ( का ० श्री ० ३३८३ ) । गार्हपत्यस्योत्तरत आरभ्य वेदेः पूर्वान्तं यावद्वेदं स्तृणीयात् । अभिविधावाङ् । ' ध्रोव समिष्ट-यजुर्जुहोति देवा गातुविद इति ' ( का ० श्र ० ३ | ८ | ४ ) | अध्वर्यु धौवमाज्यं जुह्वां गृहीत्वा वातोद्देशेन जुह्वा समिष्ट-यजुःसंज्ञकं होममाहवनीये कुर्यात् । अत्र होमे वातस्य देवतात्वमिति कर्काचार्य: । अथ समिष्टयजुर्जुहोतीति -श्रुत्या समिष्टयजुर्होमविधानम् । तस्यैवार्थवादः - प्राङ्मे यज्ञोऽनुसन्तिष्ठाता । २६ कण्डिकायां समिष्टयजुर्नाम निर्वचनम् । एतेन यज्ञेन या या देवता ह्वयति याभ्यो देवताभ्य एष यज्ञस्तायते सर्वा वैता देवतास्तत् तस्मिन् समिष्टा भवन्ति । तस्माद्यत्तासु सर्वासु समिष्टासु समिष्टयजुर्होमं करोति, तस्मादस्य समिष्टयजुर्नाम भवति । तस्मादेव यावन्न समिष्टयजुर्जुह्वति तावत् ता देवता उप ह समीप एव भवन्ति । इदं नु नोऽस्मभ्यं जुह्वत्विति । ता एवैतद्यथायथं व्यवसृजति विसृजति । यत्र यत्रासां देवतानां चरणं तदनु यज्ञं वा एतत् अजीजनत् यदेनं यज्ञं अतत विस्तीर्णवान् तं जनयित्वा यत्रास्य प्रतिष्ठा भवति तत्तत्र प्रतिष्ठापयति । तस्मात् समिष्टयजुर्जुहोति । स जुहोतीति तत्समिष्टयजुर्होममनूद्य देवा गातुविद इति मन्त्रं विधत्ते । वातेधा इति व्याचष्टे । तदिमं यज्ञं संभृत्यैतस्मिन् वातरूपे यज्ञे प्रतिष्ठापयति तदेतद् यज्ञेन यज्ञ सन्दधाति । तदनेन बेोऽसीति मन्त्रस्यायमर्थः संपद्यते -- हे वेददेव द्योतनात्मक कुशमुष्टिविशेष! त्वं वेदोऽसि । ' विद् ज्ञाने ' वेदितासि । यो ह्युपग्रहः स सन्निकर्षाद् यज्ञं जानाति । वेदश्च शतपथोक्तरीत्या यज्ञे ह्यपग्रहः, वेदेनैव यज्ञ उपगृह्णाति । यतस्त्वं वेदोऽसि, अतो ब्रवीमि येन कारणेन त्वं देवेभ्यो देवानाम्, विभक्तिव्यत्ययः, वेदोऽभवः ज्ञापकोऽभूः तेनैव कारणेन मह्यं मम वेदो ज्ञापको भूयाः भव । अत्रापि वेदाधिष्ठातृदेव एव प्राथ्यते । देवा गातुविद इति समिष्टयजुर्होममन्त्रः । ' इयं विराट्छन्दस्का वातदेवत्या मनसस्पतिदृष्टा ऋक् ' इति महीधरा-चार्यः । अस्याः पूर्वार्धन देवता व्यवसृजति । ' कै गँ शब्दे ' इति गीयते प्रतिपाद्यते मन्त्रब्राह्मणात्मकैर्वेर्दैरिति अप्रामाणिक व्यत्यय जो किया है, वह उचित नहीं है, क्योंकि यथाश्रुत की अनुपपत्ति होनेपर ही व्यत्यय का आश्रय लिया जाता है । इसी प्रकार अनेक त्रुटियाँ उपलब्ध हो रही हैं । अतः करपात्रमाध्य में श्रुति - सूत्र- याज्ञिक पद्धति अनुसार उब्वट - महीधर सम्मत जो अर्थ किया गया है, वही सब तरह से समुचित है ।

पृष्ठ 88

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 88 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७८ शुक्लयजुर्वेद संहिता [ अ ० २० गातुर्यज्ञः । तं विदन्तीति गातुविदो देवाः । हे तादृशा यज्ञविदो देवाः! गातुं यज्ञमित्वा यज्ञेन अस्मदीयो सन्तुष्टाः यज्ञः स्वकीयं प्रवृत्त इति विदित्वा गातुं यज्ञमित आगच्छत । यद्वा गातुर्गन्तव्यो मार्गः, तमित अस्मदीयेन, हे चन्द्रदेव! इमं मार्गं गच्छत । एवं देवान् यथायथं विसृज्य मनसस्पतिमाह - मनसस्पतिर्मन सोऽधिपतिश्चन्द्रमा कर्म करोत्य-यज्ञं वातेधाः वाते वायौ धारयति वाते हि यज्ञोऽवतिष्ठते, ' वायुरेवाग्निस्तस्माद् यदेवाध्वर्युरुत्तमं मनसः थैतमेवाप्येति ' ( श ० १० | ४ | ५ | १ ) इति श्रुतेरित्युव्वाचार्य: । हे मनसस्पते! देवान् यष्टुमस्मदीयस्य वायुरूपे देवे धाः प्रेरणेन पालक! अन्तर्यामिन! इममनुष्ठितं यज्ञं स्वाहा त्वद्धस्ते समर्पयामि देव अतः वातेधाः समाप्तावपि यज्ञस्थापनं स्थापय । ' वाताद्यज्ञः प्रयुज्यताम् ' इति काण्वमन्त्रेण वातस्य यज्ञप्रवर्तकत्वमुक्तम् । यो यज्ञं प्रयुङ्क्ते । तत्रैव युक्तम् । तथैवाह तित्तिरिः - - ' ब्रह्मवादिनो वदन्ति । स त्वा अध्वर्युः स्यात् तदेनं प्रतिष्ठापयतीति ' ( तै ० ब्रा ० ३ | ३ | ९ | १२ ) । तस्मात् श्रुतिसूत्रयाज्ञिकपद्धतिसायणोव्वटमहीधरसम्मतोऽय-मेव मन्त्रार्थः । अध्यात्मपक्षे त्वेवमपि योजयितुं शक्यते - हे देव! दीव्यति जगदुत्पत्तिस्थितिलयलीलया वेदो ज्ञापकोऽभवो क्रीडतो त देवः परमेश्वरस्तत्सम्बुद्धी हे देव! येन त्वं वेद: वेदिता सर्वसाक्षी असि त्वं सर्ववेदः - देवानामपि । तेन हेतुना भूः, ' यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ' ( श्वे ० उ ० ६।१८ विज्ञानरूपोऽसि ) इति श्रुतेः त्वं स्वपरस्वरूपं मह्यं मुमुक्षवे वेदः स्वरूपसाक्षात्कारकारको भूयाः भवेः । अथवा येन त्वं नित्यं, वेदतदुक्तयज्ञरेव सम्यग् वेद जानासि । त्वमेव देवेभ्यो देवानां हिताय वेदोऽभव ऋग्यजुः सामादिरूपोऽभूः सम्पादय । देवानामाप्यायनसम्भवात् । तेन मह्यमपि वेदमहातात्पर्यविषयब्रह्मात्मज्ञापको भूत्वा ब्रह्मात्मसाक्षात्कारं भगवन्मार्ग गाविद यज्ञविद देवा अग्न्यादयः! गातुं मदीयं यज्ञाद्याराधनं वित्त्वा ज्ञात्वा प्रसन्ना भूत्वा विविदिषावेदनादि- गातुं गन्तुं मामित प्रापयत । अन्तर्भावित णिजर्थोऽत्र द्रष्टव्यः । देवानामनुग्रहेण निर्विघ्नतया ४।४।२२ ) सम्भवात्, ' तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति । यज्ञेन दानेन तपसाऽनाशकेन ' ( बृ ० उ ० इति श्रुतेः । हे मनसस्पते मनोबुद्ध्यादिप्रवर्तक परमेश्वर! ' ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! इमं तिष्ठति यज्ञं । मदनुष्ठितं भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ' ( भ ० गी ० १८/६१ ) इति भगवद्वचनात् । हे देव कर्मज्ञानेन्द्रियवृत्तयः, ताश्च त्वदाराधनलक्षणं स्वाहा तुभ्यं समर्पयामि वातेन प्राणेनेध्यन्ते दीप्यन्त इति वातेधाः त्वयि स्वाहा समर्पयामः ॥ २१ ॥

सम्ब॒र्हिर॑ङ्क्त ह॒विषा॑ घृ॒तेन॒ समा॑दि॒त्यैर्वसु॑भिः॒ सम॒रुद्भिः । समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दिव्यं भो ' गच्छतु यत्स्वाहा ॥ २२ ॥

अत्र स्वामिदयानन्दः - ' हे मनुष्य भवान् यद् यदा इदं होतव्यं द्रव्यं हविषा होतुमर्हेण शुद्धेन सह संस्कृतेन सुखं हविषा घृतेन सह संयुक्तं कृत्वादित्यैर्वसुभिर्मरुद्भिर्द्वादशभिर्मासैरग्न्यादिभिरष्टभिर्वसुभिर्वायुविशेषैः की गई है । अध्यात्मपक्ष में - परमेश्वर को सर्वसाक्षी बताया है । उसीसे अपने स्वरूपसाक्षात्कार की दशेन्द्रियों प्रार्थना की वृत्तियों को परमेश्वराराधनात्मक यज्ञ को परमेश्वर के ही अर्पण करने के लिये कहा गया है । अपनी परमेश्वर के ही अर्पण करने की बात मन्त्र के द्वारा बताई गई है ॥ २१ ॥

मन्त्रार्थ - इन्द्रदेवता संस्कारयुक्त घृत से दर्भ को अञ्जन करे । उसी तरह वह आदित्य, वसु, मरुत् और ज्योति को प्राप्त विश्वेदेव के सहित दर्भ को अञ्जन करे । इनके द्वारा किया हुआ वह बभं द्युलोक स्थित आदित्यरूप हो । ये हवि सुहृत हों । ' सम्बहि ' इस मन्त्र से बहि ( ब ) का हवन करे ॥ २२ ॥

पृष्ठ 89

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 89 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्र: २२ ] पारिजातभाष्यसहिता II समङ्क्तां संयोजयतु । अयमिन्द्रः सूर्यलोको यज्ञे स्वाहा यत्सुगन्धादिद्रव्ययुक्तं हविः समङ्क्ताम् । सम्मिश्रितैविश्वदेवेभिर्दिव्यैः स्वकीय रश्मिभिर्नमः सङ्गच्छतु सम्यक् प्रकटयतु ' ( पृ ० १ ९ ७ ), ' यज्ञे संशोधितं यद्धविरग्नौ प्रक्षिप्यते तदन्तरिक्षे वायुजलसूर्यकिरणैः सह वर्तमानमितस्ततो गत्वा आकाशस्थान् सर्वान् पदार्थान् दिव्यं कृत्वा सततं प्रजाः सुखयति । तस्मात् सर्वैरुत्तमसामग्र्या श्रेष्ठः साधनैस्त्रिविधो यज्ञो नित्यमनुष्ठेयः ' ( पृ ० १ ९ ७ ) इति भावार्थ: । मन्त्रे बहिः पदमस्ति । बृहन्ते सर्वे पदार्था यस्मिंस्तद्द्बहिरन्तरिक्षमिति व्याख्यातम्, अन्वये च तत् त्यक्तमेव । ' हे मनुष्य! भवान् यद् यदा हविघृतादियुक्तं होष्यते, तदा तद् आदित्यैर्मासैः, वसुभिरग्न्यादिभिरष्टनिवासस्थानैः, मरुद्भिः प्रजाजनैः सह सम्भूय सम्यक् सुखं प्रकाशयिष्यति । इन्द्रः सूर्यलोकः स्वाहा उत्तमक्रियया यज्ञे त्यक्तं सुगन्ध्यादिपदार्थयुक्तं हविः, अन्तरिक्षं सङ्गच्छतु सङ्गमयति । तेन सम्मिश्रितं विश्वदेवेभिः स्वकिरणैदिव्ये स्वीये प्रकाश एकत्रितं नभोजलं समङ्क्ता सम्यक् प्रकटयति ' ( पृ ० १ ९ ७ ) । अत्र तदीयव्याख्यानेऽपि परस्परं समन्वयो नास्ति । पूर्वोक्तभावो हिन्दाव्याख्यानुसारेण गृहीतः । तत्राप्यन्तरिक्षपदं नास्ति । पदार्थेऽन्वयाय मया योजितम् । मरुद्भिवायुविशेषरत्यर्थः कृतः, हिन्द्यां तु प्रजाजनैरित्यर्थः कृतः । स्वाहा इत्यस्य शोभनं हविर्जुहोति यया क्रियया सा इत्यादिरर्थः । इत्थमस्य व्याख्याने सर्वत्र निरङ्कुशत्वमेव दृश्यते । यथाकथञ्चित् निघण्ट्वाद्याश्रयेण मन्त्राणामभिप्रेतार्थ-विरुद्धोऽप्यर्थः कर्तुं शक्यते । श्रीवंशीधरेण विदुषा श्रीमद्भागवताद्यपद्यस्याभिप्रेतार्थानुगुणानि शताधिकानि व्याख्यानानि कृतान्येव । स्वयमेवायमयं मन्त्रः ( श ० १ १ ९ २ २ ९ - ३१ ) इत्यत्र व्याख्यात इति वदति । तदपि नानुसरत्यस्य । व्याख्यानम् । तथाहि — ' अथ बहिर्जुहोति । अयं वै लोको बहिरोषधयो बहिर स्मिन्नेवं तल्लोक ओषधार्दधाति ता इमा अस्मिल्लोक ओषधयः प्रतिष्ठितास्तस्माद् बहिर्जुहोति ' ( श ० १ १ ९ / २ / २ ९ ) । अस्यां कण्डिकायाम् अयं लोको बर्हिरिति स्पष्टमुक्तम् । इदंपदेनापरोक्षः पृथिवोलाक एव गृह्यते । कथमयं लोका बहिरित्युपपादयति ओषधादधाति । ताश्वोषधया ब्राह्यवाद्या श्रुतिः । ओषधयो बहिस्तस्माद् बर्हिषो होमेनास्मिल्लोक अस्मिन्नेव लोके प्रतिष्ठिताः, तस्माद् बहिर्जुहोति । अत्र बहिष्पदवाच्या दर्भा एवं तत्सामान्या ब्रीहियवाद्या अपि बहिष्पदार्थाः । ओषधानां प्रतिष्ठाधारत्वादास्मन् पृथिवीलोकेऽपि गोण्या वृत्त्या बहिः पदं प्रवर्तते । अत्र बहिर्होमः श्रूयते । नान्तां रक्षलाकस्य न वास्य लोकस्य होमो भवति । तस्माद् बहिःपदन दर्भ एव गृह्यते । बृहि वृद्धाविति धातोर्बहिः पदनिष्पत्तिः । तस्मात् परिवृद्धोऽयं लोको बहिरुच्यते । तथा च धात्वथयागादयं लांका बहिः, ओषधित्वाशे सर्वा ओषधयो बहिःपदार्थाः । ततश्च यद्बहिरधियज्ञं जुहोति तत एतल्लोके ओषधाः ( बहिष ओषध्यात्मकत्वात् ) दधाति । तत्रेदं तथैव दृश्यते । ' बहिः सम्बहिरिति ( का ० श्र ० २३२८५ ) । अनेन वेद्यां स्तृतं बहिर्जुह्वां निधायाहवनीये जुहोति । ' तां वा अतिरिक्ता जुहोति । समिष्टयजु वान्तो यशस्य यद्ध्यूर्ध्व१७-भाष्यसार -- स्वामी दयानन्द ने इस मन्त्र की व्याख्या में मनुष्य को नित्य यज्ञानुष्ठान के लिये कहा है । मन्त्र में ' बहि ' पद है, उसको व्याख्या भी की है, किन्तु अन्वय करते समय उसे भूल गये । व्याख्या में पदों का परस्पर कोई समन्वय नहीं है । संस्कृत व्याख्या में कुछ अन्य अर्थ किया है और उसी की हिन्दी करते समय कुछ अन्य ही अर्थ कर दिया है । तात्पर्य यह है कि व्याख्या करने में निरङकुशता बरती है । श्रुति - सूत्र- याज्ञिकपरम्परा के अनुकूल जो अर्थं करपात्रभाष्य में किया गया है, उसी को मन्त्रार्थ के रूप में लिख दिया गया है ।

पृष्ठ 90

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 90 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८० शुक्लयजुर्वेदसंहिता [ अ ० २ समिष्टयजुषोऽविरिक्तं तद्यदा हि समिष्टयजुर्जुहोत्यथैताभ्यो जुहोति प्रजायन्ते ' ( श ० ११ ९ / २ / ३० ) | बहिराहुति यज्ञादतिरिक्तां तस्मादिमा अतिरिक्ता असम्मिता ओषधयः तस्य देवता विसर्जनार्थत्वात् । ततश्च या ऊध्वं समिष्टयजुषः जुहोति सातिरिक्ता । कुतः? समिष्टयजुर्होमस्यैव यज्ञान्तत्वात्, यजुर्जुहोति अथ तदनन्तरं एताभ्य ओषधिभ्योऽर्थाय तादर्थ्ये चतुर्थी । तृप्तासु गतासु देवतासु तद्यदा समिष्ट-त्येवमर्थं बहिर्जुहोति । यस्माद्यज्ञादतिरिक्तोऽयं बहिर्होमस्तस्मादतिरिक्ता । ओषधयोऽस्मिल्लोके कथं नाम भविष्यन्ती-अपरिमिता ओषधयः प्रजायन्ते बहिर्होमप्रभावात् । तस्यैव व्याख्यानमसम्मिता अधिका ' स जुहोति बहिरङ्क्ता हविषा स्वाहेति ' ( श ० मन्त्रं विधते स जुहोति संबहिरङ्क्तामिति । इयं बहिर्देवत्या ११ ९ / २/३१ ) । विहितं हविर्होममनूद्य संबहिरिति तस्मात् श्रुतिसूत्रसम्मतोऽयं सायणादिसम्मतोऽर्थः - बहिरिति द्वितीया विरारूपा त्रिष्टुब्बहिहोंमे विनियुक्ता । दर्भ समङ्क्तां हविषा हविःसंस्कारयुक्तन घृतेन सम्यगञ्जनोपेतं स्निग्धं । इन्द्रो देवो बहिः बहिहमिहातव्यं स चन्द्र । नैकलः, किन्त्वादित्यैर्वसुभिश्च द्विविधैर्देवगणैश्च सहितः करोतु । ' अञ्जु व्यक्तिम्रक्षणकान्तिगतिषु ' । समङ्क्ताम् । तथा विश्वेदेवेभिविश्व नामकेश्च देवगणैः सहितः समङ्क्ताम् । तथा मरुद्भिर्देवगणैः सहितः इत्यादित्यनामसु पठ्यते । तदुक्तम् - बहिदिव्यलोके वर्तमानं समक्ताम् । एतैर्देवैर्यदक्तं तदित्यध्याहारः । नभ बहिर्दवाद्देश्येन दत्तमस्तु । मन्त्रे समित्युपसर्गस्यावृत्त्या अक्तामिति नभ क्रियापदस्यावृत्तिज्ञेया आदित्यं गच्छतु प्राप्नोतु । स्वाहा इदं काशोऽर्थः । न वात्र मासानामग्न्यादीनां वा बहिःसंयोजकत्वमस्ति । एवं नात्र बहिः पदस्या-तेषां जडत्वात् । --अध्यात्मपक्षे तु - बहिः बृहत्तमं यद् ब्रह्म तदिन्द्रो घृतेन घृतोपमेन स्नेहेन समङ्क्तां स्नेहयतु, पूगकामस्य तस्य प्रेमातिरिक्तद्रव्यः सन्तापासम्भवात्, ' हविषा प्रेममयेन हविर्द्रव्येण देयमस्ति भवत जगदाश्वराय ' इति शिष्टैरुक्तत्वात् । नैकल इन्द्रः किन्त्वादित्यं रत्नाकरस्तव गृहं गृहिणी च पद्मा किं इन्द्रः समङ्क्ताम् । विश्वदेवेभिश्च देवः सह समक्ताम्, सर्वषां देवानां प्रेममयैरुपासनैरेव स्तदधिष्ठातृदेवैर्वसुभिर्मरुद्भिश्च सह भगवतोऽवतरणसम्भवात् । यद्वा इन्द्र आत्मा इदं सर्वमात्मत्वेन तेषामुद्दिघोषया इत्याचक्षते ' ( ऐ ० उ ० २।१४ ) स पूजितः प्रसन्नैरादित्यः सह मरुद्भिविश्वेदेवैः दृष्टवान् इतोन्द्र: ' तमिददन्द्र सन्तमिन्द्र तदनुग्रहैरुपबृंहितः समङ्क्ताम् । यद्यस्मात् प्रेम्णो दिव्यं नभो भूताकाशाद्विलक्षणं सर्वैर्देवैः सह समङ्क्ताम् । ' खं ब्रह्म ' ( वा ० सं ० ४० १७ ) इति श्रुतेः 1 । गच्छतु प्राप्नोति । स्वाहा दिव्यं चिदाकाशात्मकं ब्रह्म, तस्मिन् ब्रह्मणि स्वं सर्वस्वं हुतमस्तु ॥ २२ ॥

अध्यात्मपक्ष में --- देव - मानवादि भक्त परमेश्वर को कोई वस्तु अर्पण करने के लियेजब विचारने लगे, तो वे कुछ भी निर्णय नहीं कर पा रहे थे, क्योंकि वे कहने लगे कि हे भगवन्! ' रत्नाकरस्तव गृहं गृहिणी च पद्मा कि देयमस्ति भवते जगदीश्वराय ' । भगवान् तो पूर्णकाम, आप्तकाम हैं । तब भक्तों ने निर्णय लिया कि प्रेम ही एकमात्र ऐसी वस्तु है, जिसे अर्पित करने पर भगवान् अवश्य सन्तुष्ट हो सकते हैं । प्रेम से भिन्न कोई मौतिक द्रव्यऐसा नहीं है, जिससे हम भगवान् को सन्तुष्ट कर सकें । अतः हमारा जो सर्वस्व है, उसे हम भगवान् के अर्पण करें || २२ ||