वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 101–110
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 101–110
पृष्ठ 101
पाठ पढ़ें पाठ छिपाएँ
९ २ शुक्लयजुर्वेदसंहिता [ ज.० विततानेत्यनुवृत्तिः । दत्यन्तं विस्तारितवान् । तथा अर्वत्सु अश्वेषु । ' अर्वेत्यश्वनामसु पठितम् ' ( निघ. १. १४.३ ३.३.४.७ ) । ) बलं इति श्रुतेः । उस्रियासु यद्वा अर्वत्सु पुरुषेषु वाजं वीर्यं ततान, ' वीर्यं वै वाजाः पुमां सोऽर्वन्तः ' ( श. क्रतुं सङ्कल्पशक्तियुतं गोषु । ‘ उस्त्रियेति गोनामसु पठितम् ' ( निघ. २.११.३ ) । पयः क्षीरं विततान । हृत्सु अद्रौ हृदयेषु पर्वते सोमवल्लीरूपमदधात् मनो विततान | विक्षु प्रजास्वग्नि जाठराग्नि विततान । द्युलोके सूर्यं विततान । विज्ञेयम् । पर्वत-स्थापितवान्, परमेश्वरस्यैव सोमदेवतारूपेणावतीर्णत्वात् । मन्त्रद्वयोक्तं द्युलोकस्तम्भनादिसामर्थ्यं तदुक्तं तित्तिरिणा — ' सोम-गतानां पाषाणानां सन्धिषु सोमवल्ल्या उत्पद्यमानत्वा दद्रौ सोमस्थापनमपि द्रष्टव्यम् । मद्रावित्याह ग्रावाणो वा अद्रयस्तेषु वा एष सोमं दधाति ' ( तै. सं. ६.१.११.४ ) इति । अध्यात्मपक्षेऽपि तथैवार्थो योजयितुं शक्यते - उमया परया शक्त्या सहितो, हृत्सु देवः क्रतुं सोमः सङ्कल्पं परमेश्वरो तद्विशिष्टं वनेषु वृक्षसमूहेष्वन्तरिक्षं विस्तारितवान् । अर्वत्सु पुरुषेषु वीर्यं विततान । उस्त्रियासु पयः सर्वकारणत्वात् तेषां मनो विततान । विक्षु जाठराग्नि पर्वतपाषाणसन्धिषु सोमं वल्लीरूपमदधात् । परमेश्वरस्यैव । तेषां वस्तूनां तेषु तेषु योग्यस्थानेषु तस्यैव विधातृत्वमुपपद्यते । शेषं पूर्ववदेव व्याख्येयम् ), अन्तरिक्ष-श्रीदयानन्दस्तु —‘वनेषु रश्मिषु वृक्षसमूहेषु वा, ' वनमिति रश्मिनामसु पठितम् ' ( निघ. हृत्सु १.५.८ क्रतुं प्रज्ञा कर्म माकाशं विशेषेण ततान । वाजं वेगमर्वत्सु अश्वेषु प्राप्तवेगगुणेषु विद्युदादिषु उस्त्रियासु दिवि गोषु प्रकाशे सूर्यमदधात् । वा वरुणः परमेश्वरः सूर्यो वायुर्वा विक्षु प्रजासु अग्नि विद्युतं प्रसिद्धमग्नि वा श्रुत्यादिविरोधात् । सोमममृतात्मकं रसं सोमवल्ल्याद्योषधिगणं वा अद्रौ मेघे शैले वा ' इति, तदप्यकिञ्चित्करम् युक्तः । न च हृदयेषु प्रज्ञा शतपथानुसारेण सोमस्यैव प्रकृतत्वात्, सोमवेष्टने मन्त्रस्य विनियोगाच्च तदनुगुण एवार्थो कर्म वा वितन्यते । किञ्च, हृदये सङ्कल्पशक्तियुतस्य मनस एव विततिसम्भवः । शतपथे तु — ' अथ सोमपर्याणहनेन पर्याणह्यति । नेदेनं नाष्ट्रा रक्षांसि प्रमृशानिति गर्भो तस्माद्वै वा पर्याणह्यति एष भवति ' तिर इव वै गर्भास्तिर इवैतद् यत्पर्याणद्धं तिर इव वै देवा मनुष्येभ्यस्तिर इवैतद्यत्पर्याणद्धं कथयति — नेदेनं राष्ट्रा ( श. ३.३.४.६ ) । शकटेन सार्धं सोमस्य वेष्टनसाधनं वासः पर्याणहनम् । तत्प्रयोजनं पर्याणहनं न कुर्यात्तदा रक्षांसीति । नेद् इति परिभये । ' नेत्येष इदित्येतेन सम्प्रयुज्यते परिभये ' ( निरु. १.१० ) । यदि पर्याणहनमावश्यकम् । नाष्ट्रा नाशकराणि रक्षांस्येनं प्रमृशान् प्रमृशेयुः । तदेतद् भयकरम् । तस्मात्तत्परिहाराय वर्तन्ते । यस्माद्गर्भाणां प्रकारान्तरेण तदेव प्रशंसति - गर्भो वा एष भवतीति । तिर इव वै गर्भा अन्तर्हिता युक्तमेव । मन्त्रं तिरोधानमपेक्षितम्, यस्माच्च मनुष्येभ्यो देवास्तिर इव भवन्ति, तस्मात् सोमस्य देवस्य पर्याणहनं के सहित परमेश्वर ने वनों में अन्तरिक्ष अध्यात्मपक्ष में भी उसी रीति से अर्थयोजना की जा सकती है । परा शक्ति उमा में जाठराग्नि, द्युलोक में का विस्तार किया है, पुरुषों में बल का संचार किया है, गायों में दुग्ध, हृदयों में संकल्प शक्ति, है प्राणियों । तत्तद् वस्तुओं के तत्तद् योग्य सूर्य तथा पर्वतों में सोमवल्ली के रूप में वह प्रकाशित हुआ है । यह परमेश्वर ही सर्वकारणभूत स्थानों में उसी परमेश्वर का विधातृत्व सिद्ध होता है । अनुसार मन्त्रार्थ में स्वामी दयानन्द की व्याख्या श्रुतिवाक्यों के विरुद्ध होने के कारण अनुपयोगी है । शतपथ ब्राह्मण करना के ही उपयुक्त है । हृदयों सोम ही प्रसंगानुकूल है । सोम के बन्धन में मन्त्र का विनियोग होने के कारण उसके अनुकूल ही सम्भव अर्थ है । ' वनेषु ' का अर्थ रश्मियों में प्रज्ञा अथवा कर्म का विस्तार नहीं होता । हृदय में संकल्पशक्ति से युक्त मन का विस्तार ॥ में तथा ' अश्वेषु ' का अर्थ विद्युदादि में, इस प्रकार करना शतपथ ब्राह्मण के विरुद्ध है ॥३१
पृष्ठ 102
पाठ पढ़ें पाठ छिपाएँ
म. ३१-३२ ] वेदार्थपारिजातभाष्यसहिता ९ ३ विधाय प्रशंसति - स पर्याणह्यति वनेषु व्यन्तरिक्षमित्यादिना । वनेषु वृक्षसमूहेष्वन्तरिक्षं विततान सोमो विस्तारि -तवान् । तद् यद् वाजं वेगं बलं वा अर्वत्सु अरणवत्सु पुरुषेषु अश्वेषु वा व्यदधात्, उस्त्रियासु गोषु पयः क्षीरम्, हृत्सु हृदयेषु प्राणिबहुत्वापेक्षया बहुवचनम्, क्रतुं सङ्कल्पम्, विक्षु प्रजास्वग्नि भुक्तपीतान्नपानादिपाकसाधनम् दिवि सूर्यम्, अद्रौ पर्वतेषु सोमम्, वरुणः पापनिवारकः सोमो देवः अदधात् । वनशब्दस्यार्थान्तरभ्रमं निवारयन् वनेष्वन्तरिक्षविस्तरणं लोकसिद्धमित्याह – वनेषु हीदं विततमन्तरिक्षं वृक्षाग्रेषु यद्यपि सर्वत्रान्तरिक्षं विततम्, तथापि सामान्यजनदृष्ट्या सान्द्रवृक्षाग्रेषु पटास्तरणवत् प्रतिभासात् तथोक्तिः । अर्वत्सु पुंस्त्वसम्भवाद् वाजस्य वीर्यत्वात् पुंस्वेव वीर्यं स्थापितवान् । उस्त्रियाहृदादिषु पयःक्रत्वादिस्थितेर्लोकप्रसिद्धिरिति हृत्सु ह्ययमिति हिकारेण द्योत्यते । एतेन वनेषु रश्मिष्वश्वेषु विद्युदादिष्विति विवरणं शतपथविरुद्धमेव । परमेश्वरस्यैव तत्तद्देवतात्मना विराजमानत्वादत्र सोमदेवोपलक्षितः परमात्मैवान्तरिक्षादिविततिहेतुत्वेनोक्तः ॥३१ ॥
सूर्य॑स्य॒ चक्षु॑रारो॑हा॒ऽग्नेर॒क्ष्णः क॒नीन॑कम् ।
यंत्रैत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑ ॥ ३२ ॥
‘ कृष्णाजिनं पुरस्तादासजति सूर्यस्य चक्षुरिति ' ( का.श्रौ. ७.९.८ ) । शकटस्य पूर्वभागे युगसमीपे उच्छ्रिते दण्डे एकं कृष्णाजिनं ध्वजस्थानीयं संल्लगयेत् । उव्वटादिरीत्या कृष्णाजिनदेवत्याऽनुष्टुप् । | हे कृष्णाजिन, त्वं सूर्यस्य सवि-तुश्चक्षुत्रमारोह, तथाभ्युच्छ्रितो भव यथा सूर्यश्चक्षुषा त्वां पश्येत् । अग्नेर्वैश्वानरस्य देवस्य अक्ष्णो नेत्रस्य कनीनिकां तारिकामारोह, यथाग्निः स्वचक्षुस्तारिकया त्वां पश्येत् । यत्र यस्मिन्नेतयोर्दर्शने विपश्चिता सर्वज्ञेन सूर्येणाग्निना च सहितो भ्राजमानो दीप्यमानः एतशेभिरश्वैः ईयसे नीयसे गच्छसि । ' ई गतौ ' आत्मनेपदी । एतशैरिति करणे तृतीया । यदि ईयस इति कर्मणि रूपं चेत्, तदा एतशैरिति कर्तरि तृतीया । यत्राश्वैस्त्वं नीयस इत्यर्थः । भ्राजमान इति पुंस्त्वं कृष्णाजिनस्य पुंस्त्वविवक्षया । सूर्याग्निदृष्टिविषयत्वेन मार्गोऽसुरराक्षसादिनाष्ट्रोबाधरहितो भवति, ' एष खलु वा अर-क्षोहतः पन्था योऽग्नेश्च सूर्यस्य च ' ( तै. सं. ६.१.७.३ ) इति तैत्तिरीयश्रुतेः । इत्युव्वटमहीधरयोराशयः । काण्वसंहितायां सायणाचार्यस्तु - ' हे सोम त्वं सूर्यसम्बन्धि यच्चक्षुरस्ति तदारोह, तत्समानचक्षुर्युक्तो भव । तथाग्नेः सम्बन्धि यदक्षि विद्यते, तस्याक्ष्णः सम्बन्धिनी या कनीनिका तारिका, तामारोहेत्यनुवर्तते, तत्समानदृष्टिपा-टवयुक्तो भवेत्यर्थः । यत्र यस्मिन् देवयजने एतशेभिरश्वैर्गच्छसि, ' एतश इत्यश्वनामसु पठितम् ' ( निघ. १.१४.१० ), तत्रेत्यध्याहारः । तस्मिन् देवयजने विपश्चिता विदुषा सर्वज्ञेनाग्निना सह भ्राजमानो दीप्यमानस्तिष्ठेति शेषः । मन्त्रार्थ - हे कृष्णाजिन! तुम सूर्य के नेत्र और अग्नि के नेत्र की पलकों पर आरोहण करो, जहां इन दोनों के दर्शन या प्रकाश से सर्वज्ञ सूर्य या अग्नि से प्रकाशित होता हुआ अश्वों के द्वारा गमन करता है । सूर्य और अग्नि की दृष्टि पड़ने से ही मार्ग राक्षसों की बाधा से मुक्त होता है | इस मन्त्र को पढ़ते हुए यजमान आसन के लिये बिछाये दो मृगचर्मों में से एक को शकट के पूर्व भाग में जुए के समीप ऊँचे दण्ड में लगावे । यदि आसन का मृगचर्म एक ही हो, तो उसकी ग्रीवा की ओर के भाग को अलग करके शकट के पूर्व भाग में लगाते हैं ॥ ३२ ॥
भाष्यसार - ' सूर्यस्य चक्षुः ' ऋचा के द्वारा कृष्णाजिन को ध्वजा की भांति शकट पर लगाया जाता है । कात्यायन श्रौतसूत्र ( ७.९.८ ) में प्रतिपादित इस याज्ञिक विनियोग के अनुकूल अर्थ उव्वट, महीधर तथा काण्वसंहिता के भाष्य में सायणाचार्य ने किया है । शतपथ ब्राह्मण की व्याख्या में भी सायणाचार्य ने कृष्णाजिन को सम्बोधित करते हुए इस मन्त्र का अर्थ किया है ।
पृष्ठ 103
पाठ पढ़ें पाठ छिपाएँ
९ ४ शुक्लयजुर्वेदसंहिता [ अ. ४ कृष्णाजिनं सोमस्य चिह्नरूपं ध्वजस्थानीयमिति तद्द्द्वारापि सोमस्यैव स्तुतिः । शतपथव्याख्यानप्रसङ्गे तु कृष्णा-जिनमेव सम्बोध्यायं मन्त्रः सायणाचार्येणापि व्याख्यातः । तथाहि - ' हे कृष्णाजिन, त्वं सूर्यस्य चक्षुश्चक्षुस्थानीयम्, प्रकाशस्थानमित्यर्थः । उपरि हि सूर्यः प्रकाशते, अतस्त्वमनसि ऊर्ध्वदिशमारोह । तथाग्नेर्देवस्याक्ष्णः सम्बन्धि कनीनकमक्षिमध्यगतः कृष्णप्रदेशः कनीनिका तामारोह, अग्नेरक्ष्णः कनीनिकास्थानमन्तरिक्षं नीलं नभ इति प्रसिद्धेः । कृष्णाजिनस्य सोमध्वजस्थानीयस्य अनस उपर्यारोहे सत्येतदुभयारोहणं सम्पद्यते, उपर्येव सुर्यचक्ष-रूपस्य प्रकाशस्याग्नेरक्ष्णः कनीनिकारूपस्य नीलान्तरिक्षस्य सत्त्वात् । यत्र यस्मिन्नारोहे सत्येतशेभिरश्वैः ईयसे गच्छसि, विपश्चिता मेधाविना सोमेन सह भ्राजमानो दीप्यमानः सन् ' इति । अध्यात्मपक्षेऽपि — हे आत्मन् त्वं सूर्यस्य सर्वप्रकाशकस्य परमेश्वरस्य चक्षुरारोह तदीयानुग्रहपूर्णदृष्टिगोचरो भव । ज्ञानाग्निमतां ज्ञानिनामक्ष्णः कनीनकं तारकमारोह तदीयानुग्रहभाजनं भव । ‘ यस्यानुग्रहपर्यन्ता बुद्धिस्तत्त्वार्थगोचरा । तद्दृष्टिगोचराः सर्वे पूता एव न संशयः ॥ ' इति वचनात् । यत्र ययोर्दर्शने सत्येतशेभिरश्वैरिव तयोः कृपाकटाक्षकिरणैः परमपदमीयसे गच्छसि विपश्चिता सर्वसाक्षिणा परमेश्वरेण तद्रूपतया भ्राजमानो दीप्यमानः सन् तिष्ठसि । दयानन्दस्तु — ' सूर्यस्य सवितृमण्डलस्य विद्युतो वा चक्षुर्दर्शकम् आ समन्ताद् रोह दर्शयसि दर्शयति वा । अग्नेर्भौतिकस्य अक्ष्णो दर्शनसाधकस्य कनीनकं कनति प्रकाशते येन तद् यत्र यस्मिन् एतशेभिर्विज्ञाने वेगादिभिरा-' गन्तुकैर्गुणैरश्वैश्च ईयसे विज्ञायसे विज्ञायते वा भ्राजमानः प्रकाशमानो विपश्चिता । हे परमेश्वर यत्र त्वमेतशैर्भ्राजमानो विपश्चिता परो यत्र वा प्राणो विद्युद्वैतशेभिर्विपश्चिता भ्राजमानो विज्ञायते यत्र त्वं स सा च सूर्याग्नेरक्ष्णः कनीनकं समन्ताद् दर्शयति, तत्र वयं त्वां तं चोपासीमहि युञ्ज्याम वा ' इति, तदप्यकिञ्चित्करम्, एतशैरित्यनेन विज्ञानवेगादि-भिरागन्तुकैर्गुणैरित्यर्थग्रहणे मानाभावात् ' एतश इत्यश्वनामसु ' ( निघ. १.१४.१० ) इत्यश्वनामत्वेऽपि विज्ञानाद्यर्थकत्वस्य निर्मूलत्वात् । चक्षुरित्यस्य दर्शकमित्यर्थोऽपि निर्मूलः । तथैव रोहेत्यस्य दर्शयतीत्यर्थोऽपि निर्मूलः । अग्नेरक्ष्णो दर्शनसाधकस्य कनीनकमित्यस्यापि न सङ्गतिः भौतिकाग्नेर्भिन्नस्य दर्शनसाधनस्य तत्रानुपलब्धेः । कनीनकमित्यस्यापि प्रकाशकत्वमेवार्थः । तथा चाग्नेरक्ष्णः कनीनकमित्यत्र कथं नाम दयानन्दीयैः सम्बन्धः साध्यते? एतस्य हिन्दी भाष्यमपि न सङ्गच्छते । तथाहि —— ' अग्नि भौतिक अग्नि के ( अक्ष्णः ) देखने के साधन ( कनीनकं ) प्रकाश करने वाले ( चक्षु ) नेत्रों को ( आरोह ) देखने योग्य कराते हो । ' कोऽस्य वाक्यस्यार्थः? सिद्धान्ते तु विशिष्टैश्वर्यशालिनो ऽग्नेर्देवस्य विग्रहवतोऽक्षि नेत्रगोलकं भवति । तत्र नीलं कनीनकं तारिकापदवाच्यं भवति, यत्रेन्द्रियं विशेषतो व्यज्यते । ऐतशपदमश्वपरम् । अश्वश्च गमनसाधनं भवति । तस्मादीयसे गच्छसीत्येवार्थः, ' ई गतौ ' इति धातोर्निष्पत्तेः । कृष्णाजिनदेवत्याऽनुष्टुबियम् । अध्यात्मपक्ष में भी मन्त्रार्थ प्रायः उसी प्रकार है । हे आत्मन्! तुम सर्वप्रकाशक परमेश्वर की अनुग्रहपूर्ण दृष्टि में उन्नत रहो, ज्ञानियों के नेत्रगोलक में अनुग्रहपात्र बनो । इनका दर्शन हो जाने पर ( तुम ) अश्वों के समान उनकी कृपादृष्टि की रश्मियों से अनुत्तम पद को प्राप्त करते हो तथा सर्वसाक्षी परमेश्वर के साथ तद्रूप होकर प्रकाशित होते हो । स्वामी दयानन्द का अर्थ उचित नहीं है । ' एतश ' शब्द से ' विज्ञान, वेग आदि आगन्तुक गुण ' इस अर्थ को ग्रहण करने में कोई प्रमाण नहीं है, क्योंकि ' एतश ' शब्द अश्व के नामों के अन्तर्गत निघण्टु में पठित होने के कारण उसके विज्ञान आदि अर्थों की कल्पना निर्मूल है । ' चक्षु ' शब्द का ' दर्शक ' अर्थ करना भी निर्मूल है । इसकी हिन्दी व्याख्या भी संगत नहीं है । जैसे -' ( अग्नि ) – भौतिक अग्नि के ( अक्ष्णः ) देखने के साधन ( कनीनकं ) प्रकाश करनेवाले ( चक्षु ) नेत्रों को आरोह देखने योग्य कराते हो ' इस वाक्य का क्या अर्थ है? शतपथ श्रुति तथा सूत्र आदि का विरोध तो इस अर्थ में स्पष्ट ही है ॥३२ ॥
पृष्ठ 104
पाठ पढ़ें पाठ छिपाएँ
म. ३२-३३ ] वेदार्थपारिजात भाष्यसहिता ९ ५ तस्मात् कृष्णाजिनमेव सम्बोधयतीयम् । शकटयुगसमीपस्थोच्छ्रितदण्डे सोमध्वजरूपस्य कृष्णाजिनस्यासजने विनि-युक्तत्वात् सोमो वा सम्बोधनीयः । श्रुतिसूत्रविरोधस्तु स्फुट एव । तथाहि - ' अथ यदि द्वे कृष्णाजिने भवतः । तयोरन्यतरत् प्रत्यानह्यति प्रतीनाहभाजनं यद्यु एकं भवति कृष्णाजिनग्रीवा एवावकृत्य प्रत्यानह्यति प्रतीनाहभाजनं सूर्यस्य चक्षुरारोहाग्नेरक्ष्णः कनीनकं यत्रैतशेभिरीयसे भ्राजमानो विपश्चितेति सूर्यमेवैतत्पुरस्तात् करोति सूर्यः पुरस्तान्नाष्ट्रा रक्षां स्यपघ्नत्रेत्यथाभयेनानाष्ट्रेण परिवहन्ति ' ( श. ३.३.४.८ ) । अथ यदि द्वे इति । दीक्षाप्रसङ्गे यदि द्वे कृष्णाजिने स्वीकृते तयोरेकं कृष्णाजिनं प्रतिनाहभाजनं भवति । नद्धस्य सोमस्य पुरोदेशे प्रसारितो ध्वजः प्रतिनाहः तद्भाजनं तत्स्थानीयं भवतीत्यर्थः । द्वितीयालाभे उपायमाह — यद्यु एकं भवतीति । कृष्णाजिनग्रीवा एवावकृत्य प्रत्यानह्यतीति । तत्र प्रतिनाहमन्त्रः - सूर्यस्य चक्षुरिति । तथा च कात्यायनः——- ' कृष्णाजिनं पुरस्तादासजति सूर्यस्य चक्षुरिति... एकं चेद् ग्रीवा अवकृत्य ' ( का. श्रौ. ७.९.८ - ९ ) । आसनार्थमेकमेव कृष्णाजिनं यदि स्यात् तदा तस्य कृष्णाजिनस्य ग्रीवाः कण्ठं छित्त्वा शकटस्य पुरस्तादासजेत् । उत्तमाङ्गे त्वादरार्थं बहुवचनम् । मन्त्रार्थस्तूक्त एव । सर्वथाप्यत्र सोमस्य सोमध्वजस्य कृष्णाजिन-स्यैव स्तुतिर्विद्यते । एतन्मन्त्रपाठं स्तौति – सूर्यमेवैतत् पुरस्तादिति । मन्त्रे सूर्यस्य चक्षुरित्यभिधानेन सूर्यमेव सोमस्य पुरस्तात् कृतवान् भवति । ततः किमित्यथ – सूर्यः पुरस्तान्नाष्ट्रेति । सूर्यो नाष्ट्राणि यज्ञनाशकानि रक्षांस्य-पघ्नन् हिंसन् पुरो गच्छति । तस्मिन् सत्यभयेन नाशकरहितेन मार्गेण सोमं परिवहन्ति । वोढारोऽश्वा अनड्वाहो वा ॥ ३२ ॥
उस्ना॒वेत॑ धूर्षाहौ यु॒ज्येथा॑मन॒श्रू अवी॑र॒हणौ ब्रह्म॒चोद॑नौ । स्व॒स्ति यज॑मानस्य गृ॒हान् ग॑च्छतम् ॥३३ ॥
‘ अनड्वाहौ युनक्त्युस्रावेतमिति युगपत् तद्वचनत्वात् ' ( का. श्रौ. ७.९.१० ) । अनसि युगपदनड्वाहौ योजयेत् कुतः? तद्वचनत्वात् उस्रावेतमिति मन्त्रे द्विवचनश्रवणात् । आनडुही ऊर्ध्वबृहती । यस्यास्त्रयः पादा द्वादशाक्षरा सोर्ध्वबृहती, ' त्रिजागतोर्ध्वबृहती ' इत्युक्तेः । अत्राद्यो दशार्णः द्वितीयस्त्रयोदशार्णः तेनैकोना । हे उस्रौ! अनड्वाहौ, ‘ उस्रेति गोनामसु ' ( निघ. २.११.२ ) । आ इतं युवां वहनाय प्रत्यागच्छतम् । एत्य च स्वयमेव युज्येथां रथे युक्तौ भवतम् । कथंभूतावत्रौ? धूर्षाहौ धुरं सहेते इति धूर्षाहौ, ' षह मर्षणे ' शकटस्य धुरं वोढुं समर्थो, अनश्रू नेत्राश्रुरहितौ, अनार्तौ सोत्साहौ हृष्टौ अवीरहणौ न वीरान् भ्रातृपुत्रादीन् शिशूंश्च हत इति अवीरहणौ शृङ्गादिभिरहन्तारौ प्रशान्तौ, ब्रह्मचोदनौ ब्राह्मणानां धर्मब्रह्मणी प्रति प्रेरकौ ब्रह्मणो विप्रान् चोदयतः प्रेरयतस्तौ, ब्रह्मणा मन्त्रेण प्रेरितौ वा, एवंविशेषणविशिष्टौ युवां क्षेमेण यजमानस्य गृहं सोममादाय गच्छतम् । मन्त्रार्थ - हे शकट में जुड़े बैलों! तुम शकट की धुरा को धारण करने में समर्थ हो, उत्साहसम्पन्न हो, सींगों से बालकों को न मारने वाले, ब्राह्मण को यज्ञ में प्रेरित करने वाले तुम दोनों इस शकट में जुत जाओ, कुशलतापूर्वक यजमान के घर की तरफ जाओ || यजमान इस मन्त्र का उच्चारण करते हुए बैलों को शकट ( गाड़ी ) में जोतता है ॥३३ ॥
भाष्यसार — कात्यायन श्रौतसूत्र ( ७.९.१०-१२ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' उस्रावेतम् ' ऋचा के द्वारा शकट में बैलों को संयोजित करके उन्हें गमन के लिये प्रेरित किया जाता है 1
पृष्ठ 105
पाठ पढ़ें पाठ छिपाएँ
९ ६ शुक्लयजुर्वेदसंहिता [ अ. ४ अध्यात्मपक्षे – उत्रौ सत्त्वक्षेत्रज्ञरूपौ बलीवर्दी संसारशकटस्य धुरो वोढारौ युवामेतं संसारभारवहनाय आग-च्छतम्, एत्य च कर्मानुसारं युक्तौ भवतम् । कीदृशौ तौ? अनश्रू अनार्तौ संसारसम्बन्धेनार्तिप्राप्तावपि तत्त्वज्ञान-महिम्नाऽव्यथौ सोत्साहौ, अवीरहणौ अपापकृतौ तत्त्वज्ञानेन दग्धशुभाशुभकर्माणौ, ब्रह्मचोदनौ ब्रह्मणा वेदेन चोदितौ धर्मब्रह्मणोः प्रति प्रेरितौ, स्वस्ति यथा स्यात्तथा यजमानस्य धर्मानुष्ठातुर्विशुद्धसत्त्वस्य गृहान् शरणान् मुक्तोपसृप्यस्वरूपान्, प्राप्तृभेदेन प्राप्तव्येऽपि भेदोपचाराद् बहुवचनम्, गच्छतं प्रतिगच्छतम् । तत्त्वज्ञानेन सत्त्वस्य बाधसामानाधिकरण्येन मुक्तोपसृप्यब्रह्मप्राप्तिरिति । सूत्रदृष्ट्याप्युत्राविति बलीवर्दावेव जिघृक्षितौ । ' अनड्वाहौ युनक्ति ' ( का. श्री. ७.९.१० ), ' भेदे मन्त्रावृत्तिः सान्नि-पातितत्वात् ' ( का. श्रौ. ७.९.११ ) । भेदेन योजनं कर्तव्यं न युगपत् । कुतः? अनडुहः कण्ठे योक्त्रपरिणहनस्यैव योजनपदार्थत्वात्, तस्य दक्षिणेनैकपाणिना कर्तुमशक्यत्वात् । भेदेन योजने क्रियमाणे मन्त्रस्यावृत्तिः कर्तव्या । कुतः? मन्त्रस्य सान्निपातितत्वात् समवेतार्थत्वाद् द्विवचनमविवक्षितम्, प्रातिपदिकार्थस्यैव विवक्षितत्वात् । दयानन्दस्तु – ' उस्रौ रश्मिमन्तौ निवासहेतू सूर्यवायू । ' उस्रा इति रश्मिनामसु पठितम् ' ( निघ. १.५.९ ) । आ इतं प्राप्नुतः । धूर्षाहौ यौ धुरं पृथिव्याः शरीरस्य ज्ञानानां च धारणं सहेते, तौ युज्येथां युज्येते युक्तौ कुरुतः । अनश्रू अव्यापिनौ 1 । अवीरहणौ वीरहननरहितौ ब्रह्मचोदनौ आत्मान्नप्राप्तिप्रेरकौ । स्वस्ति सुखं सुखेन वा यजमानस्य धार्मिकस्य जीवस्य गृहान् गृहाणि गच्छतो गमयतः ' इति, तदपि न किञ्चित्, विसङ्गतेः । उस्रावित्यस्य रश्मिवाचकत्वेऽपि सूर्यस्य रश्मिमत्त्वेऽपि वायोस्तदयोगेन वायुसूर्ययो रश्मिपदेनोस्रपदेन वा ग्रहणासम्भवात् जीवैस्तयोरनियोज्यत्वाच्च, त्वया तयोर्जडत्वाभ्युपगमाच्च, पृथिव्याकाशयोर्निवासहेतुत्वव्यभिचाराच्च, पृथिवी - शरीर - ज्ञानादिषु धुरोऽप्रसिद्धत्वात् शकटस्य प्रसिद्धत्वाच्च, जडयोस्तयोर्धूर्षहत्वासम्भवाच्च, युज्येथामिति यथाश्रुतोपपत्तौ णिजन्तकल्पनानुपपत्तेश्च । प्रशंसाप्रसङ्गेऽन-श्रुपदेनाव्यापकत्वनिरूपणमप्यनर्थकमेव, तयोः सर्वानुग्राहकत्वेन वीरहननस्याप्रसक्तत्वेनावीरहणत्वकथनमपि तथाविध-मेव । जडत्वादेवात्मान्नप्राप्तिप्रेरकत्वं गृहगमयितृत्वं चापि नोपपद्येते । ' उद्धते प्रउग्ये फलके भवतः । तदन्तेरण तिष्ठन् सुब्रह्मण्यः प्राजति श्रेयान् वा एषोऽभ्यारोहाद् भवति को ह्येतमर्हत्यभ्यारोढुं तस्मादन्तरेण तिष्ठन् प्राजति ' ( श. ३.३.४.९ ) । प्रउग्ये फलके युगसम्बन्धिफलके उद्धते प्रउगादप्युन्नते चुबुकप्रमाणे भवतः ' प्रउगाच्चोद्धते फलके भवतः ' ( का. श्रौ. ७.९.४ ) । तदन्तरेण तत् तयोः फलकयोरन्तरेण मध्ये तिष्ठन् सुब्रह्मण्यनामक ऋत्विक् ' ईषान्तरे भूमिष्ठः सुब्रह्मण्यः पलाशशाखया प्राजति ' ( का.श्रौ. ७.९.१२ ) । ईषान्तराले अध्यात्मपक्ष में मन्त्र का अर्थ इस प्रकार है । xiaom - सत्त्व तथा क्षेत्रज्ञ रूपी संसारात्मक शकट का वहन करने वाले हे दो वृषभ, आप लोग संसार - वहन के लिये आवें । आर्ति से रहित, तत्त्वज्ञान के कारण शुभाशुभ कर्मों से निवृत्त, वेद से प्रवर्तित आप दोनों कल्याणपथ से विशुद्धसत्त्व धर्मानुष्ठान करने वाले यजमान के अधिष्ठानों के प्रति आवें । कात्यायन श्रौतसूत्र की दृष्टि से भी यहां ' उत्रौ ' शब्द से दो वृषभ ही वाञ्छित हैं । स्वामी दयानन्द का अर्थ असंगत होने के कारण समीचीन नहीं है । वायु तथा सूर्य का ' उस्र ' पद से ग्रहण सम्भव नहीं है, क्योंकि वे जीवों के द्वारा नियोक्तव्य नहीं है । इस मत में वायु तथा सूर्य का जडत्व भी प्राप्त हो जायगा । पृथ्वी, शरीर, ज्ञान आदि अर्थों में ' धुर ' शब्द प्रसिद्ध नहीं है । अपितु शकट के एक भाग लिये धुर शब्द की प्रसिद्धि है । वायु एवं सूर्य के सर्वहितैषी होने के कारण उनमें हिंसा की प्राप्ति ही नहीं है । ऐसी स्थिति में उनके लिये ' अवीरहणौ ' विशेषण का कथन भी असंगत है । शतपथ श्रुति के द्वारा भी उम्र शब्द से वृषभ ही प्रतिपादित है, सूर्य तथा वायु का कथन नहीं है । अतः हमारा सिद्धान्तपक्ष - सम्मत अर्थ ही श्रुति प्रतिपादित है ॥३३ ॥
पृष्ठ 106
पाठ पढ़ें पाठ छिपाएँ
म. ३३-३४ ] वेदार्थपारिजात भाष्यसहिता ९ ७ भूमौ तिष्ठन् सुब्रह्मण्यः पलाशशाखया अनड्वाहौ गमनाय प्रेरयेत्, भूमिष्ठ एव सन् प्राजति प्रेरयत्यनड्वाहौ । अधःस्थितिं प्रशंसति — श्रेयान् वेति । करितुरगाद्यारूढस्य प्रशस्तत्वं लोकप्रसिद्धम्, अतस्तदभ्यारोहात् सोमः श्रेयान् भवति । अतस्तदधिष्ठितं शकटमभ्यारोढुं कोऽर्हति? न कोऽपीत्यर्थः । ' पलाशशाखया प्राजति । यत्र वै गायत्री सोममच्छा-पतत्तदस्या आहरन्त्या अपादस्ताभ्यायत्य पर्णं प्रचिच्छेद गायत्र्यै वा सोमस्य वा राज्ञस्तत्पतित्वा पर्णोऽभवत्तस्मात् पर्णो नाम तद्यदेवात्र सोमस्य न्यक्तं तदिहाप्यसदिति तस्मात् पलाशशाखया प्राजति ' ( श. ३.३.४.१० ) । पलाशशाखया प्राजति भूमिष्ठास्वेव प्राजनयोग्यासु सतीष्वन्यशाखासु पलाशशाखायाः कोऽतिशय इति जिज्ञासायां तस्याः सोमस्य सम्बन्धं दर्शयति — यत्र वै गायत्रीति । व्याख्यातमिदं पूर्वत्र । यदेव सोमस्याङ्गं न्यक्तम्नवाङ्निपतितमासीत्, तदङ्ग-मिहाप्यस्मिन् सोम एव असद् भवेदिति पलाशशाखया प्राजनस्याभिप्रायः । ' अथानड्वाहावाजति । तौ यदि कृष्णौ स्यातामन्यतरो वा कृष्णस्तत्र विद्याद्वर्षिष्यत्यैषमः पर्जन्यो वृष्टिमान् भविष्यतीत्येतदु विज्ञानम् ' ( श. ३. ३.४.११ ) । अनडुहोर्वर्णविशेषमभिधातुं पुनरनुवदति — अथानड्वाहाविति । आजति युगवहनाय प्रेरयति । उभयोरन्यतरस्य वा यदि कृष्णत्वं लभ्येत तत्र पर्जन्यवर्णसाम्यादनुडुत्कृष्णत्वेन निमित्तेन ऐषमोऽस्मिन् संवत्सरे पर्जन्यो बहुवृष्टिप्रदो भविष्यतीति एतद् उ विज्ञानं वृष्टेः परिज्ञानं तदुपाय इत्यर्थः । अत्र श्रुतौ - ' अनड्वाहावाजति तौ यदि कृष्णौ स्यातामन्यतरो वा कृष्णः ' इत्युक्त्या उस्रावित्यनड्वाहावेवोक्तौ न सूर्यवायू । अथ युनक्तीति तयोरेव शकटस्य धूर्वहने योजनमुच्यते । तस्मात् सिद्धान्तसम्मत एवार्थः श्रौत इति । ' अथ युनक्ति । उस्रावेतं धूर्षाहावित्युत्रौ हि भवतो धूर्षाहाविति धूर्षाहौ हि भवतो युज्येथामनश्रू इति युज्येते ह्यनश्रू इत्यनार्ताविति तदवीरहणावित्यपापकृताविति तद्ब्रह्मचोदनाविति ब्रह्मचोदनौ हि भवतः स्वस्ति यजमानस्य गृहान् गच्छतमिति यथै-नावन्तरा नाष्ट्रा रक्षांसि न हिंस्युरेवमेतदाह ' ( श. ३.३.४.१२ ) । इदानीं समन्त्रकमुस्रयोजनं विधत्ते- अथ युक्तीति । मन्त्रार्थस्तूक्त एव । श्रुतिरपि मन्त्रं विभज्य व्याचष्टे - उस्रौ हि भवत इत्यादिना । उस्राविणावनयोर्भोगावित्युत्रौ । एषा प्रसिद्धिर्हिशब्देन द्योत्यते । धूर्षाहावित्यस्य तात्पर्यमाह – धूर्षाहाविति । अनश्रू अनार्ती, आर्तेषु अश्रुपातस्य दर्शनात् । एतेन अनश्रू अव्यापकावित्यपास्तम् । वीरहत्यायाः पापसाधनत्वादपापकृतावित्यवीरहणावित्यस्य तात्पर्याख्यानम् । ब्रह्मणा उस्राविति मन्त्रेणेदानीं चोद्यमानत्वाद् ब्रह्मचोदनाप्रसिद्धिः । स्वस्तिशब्दाभिप्रायमाह । यथा • यथैनावन्तरेति एनावनड्वाहौ अन्तरा मध्ये मार्गे नाष्ट्रा हिंस्रा न हिंस्युस्तथा भवेदिति मन्त्रे स्वस्तिशब्दस्याभिप्रायः ॥ ३३ ॥
भ॒द्रो मेऽसि॒ प्रय॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि । मा त्वा॑ परिप॒रिण ' विद॒न् मा त्वा॑ परिपुन्थिनो॑ वद॒न् मां त्वा॒ वृषा॑ अघा॒यवो ' विदन् । श्ये॒नो भू॒त्वा परा॑पत॒ यज॑मानस्य गृ॒हान् ग॑च्छ॒ तन्नौं ' संस्कृतम् ॥३४ ॥
सौम्यं यजुः । भद्रो म इति वाचयति ' ( का. श्रौ. ७.९.१६ ) । हे सोम, मे मह्यं मम यजमानस्योपकाराय भद्रोऽसि कल्याणरूपोऽसि कल्याणकरो वासि । ' भदि कल्याणे सुखे च ' इति धातोर्भद्र इति रूपम् । भन्दनीय इत्यर्थः । मे मन्त्रार्थ - हे सोम! तुम मुझ यजमान के लिये कल्याणरूप हो । अध्वर्यु आदि के प्रतिपालक हे यजमान! तुम पत्नीशाला, हविर्धान आदि स्थानों को देख कर चलो । तुमको सब ओर फिरने वाले तस्कर ( चोर ) न जानें, यज्ञद्रोही तुमको न जानें, दूसरों का अपराध करने वाले दुर्जन तुमको न जानें । श्येन ( बाज ) के समान तीव्रगामी होकर सामने चलो, यजमान के घर चलो । वह यज्ञस्थान हम तुम दोनों के लिये सब सामग्री से परिपूर्ण है । सोम लेकर यज्ञशाला की तरफ जाने वाले यजमान से अध्वर्यु यह मन्त्र कहलवावे ॥ ३४ ॥
पृष्ठ 107
पाठ पढ़ें पाठ छिपाएँ
९ ८ शुक्लयजुर्वेदसंहिता [ अ. ४ मम भन्दनीयः स्तुत्यस्त्वमसि । हे भुवस्पते भुवनानां पालक! यद्वात्र भुवस्पदेन भूमौ स्थितानि भूतानि यजमानाध्व-र्युप्रभृतीन्युपलक्ष्यन्ते । तेषां भूतानां पालकत्वाद् भुवस्पतिः । ' प्रच्यवस्व भुवस्पत इत्याह भूतानां ह्येष पतिः ' ( तै. सं. ६.१.११.११ ) । तथाविध हे सोम, विश्वानि सर्वाणि धामानि स्थानानि पत्नीशालाहविर्धानप्रभृतीनि ग्रहचमसादीनि वा ' अङ्गानि वै विश्वानि धामानि ' ( श. ब्रा. ३.३.४.१४ ) इति श्रुतेः । प्रच्यवस्व प्रकर्षेण गच्छ । ' च्युङ् गतौ ' प्रच्यवमानं त्वा त्वां परिपरिणो माविदन् सोमं मा जानन्तु । परिपरिण इत्यनेन सर्वत्र सञ्चरन्तस्तस्करविशेषा उच्यन्ते । तथा परिपन्थिनो यजमानयागस्य बाधका विद्वेषिणः त्वा त्वां मा विदन्, ' छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ' ( पा. सू. ५.२.८ ९ ) इति निपातनात् । अघायवोऽयं पापं हिंसारूपमिच्छन्तो वृका विकर्तनशीला अरण्यश्वानः परिणेतारो दुर्जना वा त्वा मा-विदन् यजमानगृहं गच्छन्तं मा जानन्तु । किञ्च श्येनः शंसनीयगमनः पक्षी भूत्वा त्वमपि श्येनपक्षिवत् शीघ्रगामी भूत्वा बलिष्ठोत्पतनशीलः सन्नस्मदीयस्य यजमानस्य गृहान् परापत शीघ्रं गच्छ । तत्र गृहेषु नौ आवयोस्तव मम च संस्कृतं सर्वोपस्करणसंयुक्तं स्थानं विद्यत इति शेषः । अध्यात्मपक्षे तु — हे सोम साम्बसदाशिव, त्वं मे भद्रोऽसि कल्याणकरोऽसि । हे भुवस्पते भुवनानां सर्वेषां लोकानां पालक, विश्वानि सर्वाणि धामानि स्थानानि वैकुण्ठकैलाशादीन्यभिलक्ष्य प्रच्यवस्व प्रगच्छसि । लट्स्थाने लोट् । यद्वा विश्वानि सर्वाणि धामानि भक्तानां हृदयान्यभिलक्ष्य प्रच्यवस्व प्रगच्छ, तेष्वभिव्यक्तो भवेत्यर्थः । मा त्वा परिपरिणो परस्वापहारिणो विदन् जानन्तु । परिपन्थिनो वृका धर्मद्विषो विकर्तनशालिनोऽघायवः परस्याघं विनाशमिच्छवो मा त्वा विदन् जानन्तु । हृदयेषु परमेश्वरप्राकट्ये बाधका इमे दोषा इति ज्ञात्वा तद्राहित्यं सम्पादनीयमित्यर्थः । हे सोम, श्येनो भूत्वा श्येनपक्षिवदोजसा वेगेन च सर्वान् विघ्नानविगणय्य यजमानस्योपास-कस्य धार्मिकस्य गृहान् गन्तव्यानि स्थानानि हृदयानि परापत गच्छ । तत् तत्र नौ तवेश्वरस्य ममोपासकस्य यजमानस्य च संस्कृतं सर्वोपस्करणयुक्तं स्थानं विद्यत इति शेषः । तत्रैव तत्त्वमर्थयोरभेदेन जीवस्य पूर्णत्वमपरि-च्छिन्नत्वं परमेश्वरस्यापरोक्षत्वं परप्रेमास्पदत्वमानन्दरूपत्वं च व्यज्यते । स्वामिदयानन्दस्तु —‘हे भुवस्पते! भुवः पृथिव्याः पते स्वामिन् विद्वन् त्वं मम भद्रोऽसि सुखकार्यसि । यन्नौ तव मम च संस्कृतं शिल्पविद्यासंस्कारयुक्तं सर्वर्तुकं यानमस्ति तत् तेन विश्वानि धामानि स्थानान्यभिप्रच्यवस्व अभि प्रकृष्टतया गच्छ । यथा सर्वत्राभिगच्छन्तं त्वां परिपरिणश्चौरा वृका मा विदन् मा लभन्तां तथा प्रयतस्व परदेशसेविनं त्वां यथा परिपन्थिन उत्कोचका दस्यवो वृकाः स्तेना मा विदन् तथानुतिष्ठ । यथा परदेशसेविनं त्वाम् अघायवः भाष्यसार — कात्यायन श्रौतसूत्र ( ७.९.१६ ) में निरूपित याज्ञिक विनियोग के अनुसार यजमान ' भद्रो में ' इस मन्त्र का वाचन करता है । सोम को सम्बोधित करते हुए इस मन्त्र का व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में यह अर्थ है - हे साम्बसदाशिव! आप मेरे लिये कल्याणकारी हैं । हे समस्त लोकों के पालनकर्ता! आप समस्त वैकुण्ठ, कैलास आदि धामों के प्रति प्रस्थान करते हैं, अथवा समस्त भक्तों के हृदयों में गमन करते हैं । आपको दूसरों के अपकारक जन न जानें । धर्म के द्वेषी, अपकारक, दूसरों के विनाश की इच्छा रखने वाले आपको न जानें । अर्थात् हृदयों में परमेश्वर के साक्षात्कार में ये दोष बाधक हैं, यह जानकर उनका निराकरण सम्पादित करना चाहिये । हे साम्बशिव! श्येन ( बाज ) पक्षी के समान अत्यन्त वेग से समस्त विघ्नों की गणना न करते हुए उपासक यजमान के हृदय के प्रति आवें । वह परमेश्वर आपका तथा मेरा भी समग्र उपकरणों से युक्त स्थान है । स्वामी दयानन्द की व्याख्या तथा भावार्थ दोनों ही विसंगत होने के कारण उचित नहीं हैं । उस अर्थ के अनुसार यहां परमेश्वर अथवा जीव में से कौन वक्ता है? परमेश्वर नहीं हो सकते, क्योंकि ' नौ ' अर्थात् ' तुम्हारा एवं मेरा संस्कृत यान ' यह अर्थ
पृष्ठ 108
पाठ पढ़ें पाठ छिपाएँ
म. ३४ ] --वेदार्थपारिजात भाष्यसहिता १ ९ पापिनो मनुष्या यथा मा विदन् तथानुजानीहि । त्वं श्येनो भूत्वा तेभ्यः परापत गच्छैतान् वा परापत दूरे गमय । एवं कृत्वा यजमानस्य योग्यस्य पूज्यस्य संगमं कर्तुं गृहान् द्वीपखण्डानि देशान्तरस्थानि गच्छ, यतो मार्गे किञ्चिदपि दुःखं न स्यात् ' इति । भावार्थस्तु —— ' मनुष्यैरुत्तमानि विमानादीनि यानानि निर्माय तत्र स्थित्वा यथायोग्यं प्रचाल्य श्येन इव द्वीपाद्यन्तरं देशं गत्वा धनं प्राप्य तस्मादागत्य दुष्टेभ्यः प्राणिभ्यो दूरे स्थित्वा सर्वदा सुखं भोक्तव्यम् ' इति, तदुभयमपि यत्किञ्चित्, विसङ्गतेः । तथाहि — कोऽयमुपदेष्टा? परमेश्वरो जीवो वा? न तावत् परमेश्वरः, नौ तव मम च संस्कृतं यानमित्यसङ्गतेः, सर्वव्यापिनः परमेश्वरस्य यानानपेक्षणात् । न खलु जीवः, तस्योपदेष्टव्यत्वाविशेषात् । ' धामानि द्वीपा - ' न्तंरस्थानानि ' इत्यप्यसङ्गतम् । ' न जनमियान्नान्तमियात् ( बृ. उ. १.३.१० ) इति श्रुत्या प्रत्यन्तगमनस्य निषेधात् । सर्व-त्राभिगच्छन्तं चोरा मा विदन्त्वित्यप्यसङ्गतम्, भुवस्पतेद्वपान्तराणि गत्वा प्रभूतधनान्याहरतोऽज्ञानासम्भवात् । किञ्च, किमेतद् वरशापादिवद् अलौकिकशक्तिकृतं चोरादिकर्तृकं भुवस्पतिविषयं ज्ञानं वार्यते, नियोगविशेषाद्वा? नाद्यः तथा-नभ्युपगमात् । नान्त्य, वस्तुतन्त्रे ज्ञाने पुरुषस्वातन्त्र्यायोगात् । किञ्च, न ज्ञानानि नियुज्यन्ते, किन्तु कर्तैव नियोक्तव्यः स्यात्, परिपरिणः परिपन्थिनो वृका इति पदानां चोरबोधकत्वे पदान्तरवैयर्थ्यापाताच्च । तेभ्यः परापत इत्यप्यसङ्गतम्, भुवस्पतेश्चोरेभ्यो दूरगमनं पलायनमेव स्यात् । यजमानस्य गृहान् पूज्यस्य द्वीपान्तरस्थगृहान् गच्छेत्याद्यपि प्रमत्तप्रल-पितमेव, तथार्थग्रहणे बीजाभावात् । मनुस्तु — एतद्देशप्रसूतादग्रजन्मनो द्वीपान्तरस्था अपि मनुष्याः स्वं स्वं चरित्रं शिक्षेरन्नित्याह । त्वया तु द्वीपान्तरस्थानां सङ्गमार्थं वायुयानादिना आर्याणां वैदिकानां गमनमुच्यते । तथात्वे यज-मानस्येत्येकवचनस्य किं तात्पर्यमित्यपि वक्तव्यम् । श्रुतिसूत्रविरुद्धं चैतत् । तथाहि शतपथे- ' अथ पश्चात् परिक्रम्य । अपालम्ब भिपद्या सोमाय क्रीतायानुब्रूहीति सोमाय पर्युह्यमाणायेति वाऽतो यतरथा कामयेत ' ( श. ३.३.४.१३ ) इति । शकटस्य पश्चाद्भागं गत्वा अपकृष्य आलम्ब्यत इत्यपालम्बः शकटस्य पश्चाद्भागः, तमालम्ब्य ब्रूयात् । ' अपालम्बशब्देन पश्चाद्वद्धा रज्जुरभिधीयते । ययाऽवतारेऽनः प्रवर्तमानं निवार्यते ' इति कर्काचार्य: । ' पश्चाद्भागे लम्बमानं काष्ठमपालम्बः । येनोर्ध्वप्रदेशे प्रचलतः शकटस्य पर्यावर्तनं वार्यते ' इति हरिस्वामिनः । सोमाय क्रीताय पर्युह्यमाणाय इति वाऽनुब्रूहि । अनुवचनविकल्पस्याभिप्रायमाह — सोमे क्रीते सत्यनन्तरं यत्कर्तव्यं तत्परिवहणमेव । तच्च क्रयानन्तरभावीत्यन्यतरोपादानेऽन्यतरस्यार्थात् सिद्धिः । ऐतरेयब्राह्मणे तु समुच्चयोपदेश उक्तः । सोमाय क्रीताय प्रोह्यमाणायानुब्रूहीत्याहाध्वर्युरिति । अयं विकल्पो न व्यवस्थितः, किन्त्वैच्छिक इत्याह — अतो यतरथेति । अतोऽनयोः पक्षयोर्मध्ये यतरथा कामयेत तथेति । कात्यायनोऽपि तथैवाह — ' पश्चात् परीत्यापालम्बं गृहीत्वा सोमाय क्रीतायानुवाचयति पर्युह्यमाणायेति वा ' ( का. श्रौ. ७.९.१३ ) । अध्वर्युरनसः पश्चाद्भागे आगत्य पूर्वोक्तमपालम्बं गृहीत्वा होतारं वाचयेत । ' अथ वाचयति । भद्रो मेऽसि प्रच्यवस्व भुवस्पत इति भद्रो ह्यस्यैष भवति तस्मान्नान्यमाद्रियतेऽप्यस्य राजानः सभागा आगच्छन्ति पूर्वो राज्ञोऽभिवदति भद्रो हि भवति तस्मादाह भद्रो मेऽसीति प्रच्यवस्व भुवस्पत इति भुवनानां ह्येष पतिर्विश्वान्यभि धामानीत्यङ्गानि वै विश्वानि धामान्यङ्गान्येवैतदभ्याह मा त्वा परिपरिणो विदन् मा त्वा परिपन्थिनो विदन् मा त्वा वृका अघायवो विदन्निति यथैनमन्तरा नाष्ट्रा रक्षांसि न विन्देयुरेवमेतदाह ' ( श. ३. ३.४.१४ ) । मन्त्रार्थस्तूक्त एव । भद्रो मेऽसीत्यत्र भद्रशब्दस्य तात्पर्यमाह — भद्रो ह्यस्यैष भवतीति । अस्य यजमानस्य एष सोमो यस्माद्भद्रो संगत नहीं होगा । सर्वव्यापी परमेश्वर को यान की अपेक्षा नहीं है । जीव भी वक्ता नहीं हो सकता, क्योंकि उसका उपदेष्टा होना असंगत है । ' यजमान के गृहों को ' इसका अर्थ ' पूज्य के दूसरे द्वीपों में स्थित गृहों के प्रति जाओ ' इत्यादि करना भी असंगत है, क्योंकि इस प्रकार का अर्थ करने में कोई मूल नहीं है ॥ ३४ ॥
पृष्ठ 109
पाठ पढ़ें पाठ छिपाएँ
१०० शुक्लयजुर्वेदसंहिता [ अ. ४ भवति, तस्मान्मन्त्रभाग एवमाह । यतोऽसावेव यजमानस्य भद्रकारी तस्मादन्यं सोमव्यतिरिक्तमयं यजमानो नाद्रियते आदरं न करोति । अन्यशब्दार्थं विशिनष्टि — अप्यस्य राजान इति । सभागा इत्यनेन राज्ञोऽनतिक्रमणीयत्वमुक्तम् । अपिः सम्भावनायाम् । ‘ मधुपर्कमाहरेद्राज्ञे चाचार्यत्विक्स्नातकप्रियातिथिश्व सुरमातुलानां च ' इति सम्भावनीयानां मध्ये राज्ञां प्रथमतो निर्देशेन श्रैष्ठ्यावगमादितरपूज्योपलक्षकत्वेनाप्यस्य राजानः सभागाः सभाजनीया आगच्छन्ति । राज्ञ आगमनात् स्वयमप्रह्व एव सन् पूर्वस्तेभ्यः प्रागेवाभिवदति वाग्व्यवहारं करोति किमिति भद्रो हि भवति तस्माद् भद्रो मेऽसीति युक्तम् । भुवस्पत इत्यत्र भूशब्देन सर्वाण्यपि भुवनान्युपलक्षितानीति व्याचष्टे – भुवनानां ह्येष पतिरिति । धामशब्दतात्पर्यमाह — अङ्गानि वै विश्वानि धामानीति । अत्राङ्गानि ग्रहचमसादीन्येव धामानि स्थानानि, क्रय प्रदेशादा-गमनस्य तदर्थत्वात् । परिपरि परिपन्थि वृकशब्दानामवयवार्थभेदेऽपि पर्यवसितार्थमाह - यथैनमन्तरा नाष्ट्रा रक्षांसि न विन्देयुरिति । --' श्येनो भूत्वा परापतेति । वय एवैनमेतद्भूतं प्रपातयति यद्वा उग्रं तन्नाष्ट्रा रक्षांसि नान्ववयन्त्येतद्वै वयसामोजिष्ठं बलिष्ठं यच्छ्येनस्तमेवैतद्भूतं प्रपातयति यदाह श्येनो भूत्वा परापतेति ' ( श. ३.३.४.१५ ) । श्येनो भूत्वेत्यस्य तात्पर्य-माह - वय एवैनमिति । एतेन पाठेन पक्षिरूपमेव सन्तं सोमं प्रापितवान् भवति । यद्वै उग्रं भवति तन्नाष्ट्रा रक्षांसि नान्ववयन्ति हन्तुं नानुगच्छन्ति । वयसां पक्षिणां मध्ये यदोजिष्ठं बलिष्ठं च भवति तद्वै श्येनः । एतन्मन्त्रपाठेन श्येन-भूतमेवौजिष्ठं बलिष्ठं च सोमं प्रपातयति यजमानस्य गृहं प्रापयति नाष्ट्रा रक्षांसि च नैनं हन्तुमनुगच्छन्ति । ' अथ शरीरमेवान्ववहन्ति । यजमानस्य गृहान् गच्छ तन्नौ संस्कृतमिति नात्र तिरोहितमिवास्ति ' ( श. ३.३.४.१६ ) । अथ शरीरमिति । यदि प्रमादात् सोमं रक्षादिर्हन्यात् तदानीं श्येनो भूत्वेति मन्त्रसामर्थ्याच्छ्येनी भावादुपादेयस्य सारांशस्य बाधाभावाद् हन्ता स्वशरीरमेवानुगत्य हन्ति न सोममित्यर्थः । यजमानस्य गृहान् गच्छ तन्नौ संस्कृतमिति स्पष्टमेवे-त्याह— नात्र तिरोहितमिवेति । एवं श्रुतिसूत्रानुसारेण सोमस्य यजमानगृहप्रापणे नाष्ट्रराक्षसादिकृतबाधादिनिवारण एवास्य मन्त्रस्य पाठो विनियुक्तः । तस्मान्नात्र भुवस्पती राजा वायुयानादिनिर्माणाय नियुज्यते ॥ ३४ ॥
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तद॒तं स॑पर्यत । दू॒रे॒दृशे ' दे॒वजा॑ताय॒ के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्याय शंसत ॥ ३५ ॥
' शालां पूर्वेण प्रतिप्रस्थाताऽग्नीषोमीयं पशुमादाय तिष्ठति कृष्णसारङ्गं मेध्यमभावे लोहितसारङ्गम्, नमो मित्र-स्येत्येनमालभ्य वाचयति ' ( का. श्री. ७.९.१८-१९ ) । शालां पूर्वेण प्रतिप्रस्थाता कृष्णसारङ्गं कृष्णवर्णेन कर्बुरं मेध्यं मेदुरं मत्तं तदभावे लोहितसारङ्गं मित्रस्येति मन्त्रेणैनं पशुमालभ्य वाचयति । सौरी जगती द्वादशाक्षरचतुःपादा जगती सूर्यदृष्टा । सोमो ऽत्र सूर्यरूपेण स्तूयते । मित्रस्य वरुणस्येति चतुर्थ्यर्थे षष्ठ्यौ । मित्राय मितेस्त्राता मित्रः सूर्यस्तस्मै मन्त्रार्थ - चराचर के मित्र, सबके दुःखों को दूर करने वाले सूर्य देवता के सम्मुख महान् तेजःस्वरूप प्रकाशमान, सब जगत् को दूर से ही देखने वाले, देवताओं पर अनुग्रह करने के लिये उत्पन्न हुए, प्रज्ञानघन, द्युलोक के पुत्रवत् प्रिय सूर्य देवता के लिये मैं नमस्कार करता हैं । हमें उस सत्य ब्रह्म का भजन करना चाहिये, उसकी स्तुति करनी चाहिये । इस मन्त्र को पढ़ते हुए प्रतिप्रस्थाता यज्ञशाला के पूर्व में कृष्ण सारंग पशु को ले आवे । उसके अभाव में लोहित सारंग को लावे ॥ ३५ ॥
भाष्यसार - ' नमो मित्रस्य ' इस मन्त्र का प्रतिप्रस्थाता नामक ऋत्विक् अग्नीषोमीय पशु का स्पर्श करते हुए वाचन करता है । कात्यायन श्रौतसूत्र ( ७.९.१८-१९ ) की इस याज्ञिक प्रक्रिया के विनियोगानुकूल ही मन्त्रार्थ शतपथ ब्राह्मण में प्रतिपादित है ।
पृष्ठ 110
पाठ पढ़ें पाठ छिपाएँ
म. ३५ वेदार्थपारिजात भाष्यसहिता १०१ मित्राय सूर्यरूपाय सोमाय नमोऽस्तु । कीदृशाय मित्राय वरुणाय स्वरश्मिभिर्जगदावृणोतीति वरुणस्तस्मै तमो-निवारकाय । पुनः कीदृशाय मित्राय? चक्षसे, चष्टे इति चक्षास्तस्मै चक्षुष्मते द्रष्ट्रे । ' मैत्रं वा अहर्वारुणी रात्रिः ' ( तै. सं. २.२.७.३ ) इति रीत्या अहरभिमानिदेवाय मित्राय रात्र्यभिमानिदेवाय वरुणाय च नमः । महो महते महसे तेजोरूपाय वा देवाय द्योतमानाय । हे ऋत्विजः तं ज्योतिष्टोमरूपमृतं सत्यमवश्यफलप्रदम्, कर्मानुष्ठायेति शेषः सपर्यत सपर्यया परिचर्यां कुरुत । किञ्च दूरेदृशे दूरे द्युलोकात्मके दृश्यते प्राणिभिरिति दूरदृक्, तस्मै । देवजाताय देवाद् द्योतमानात् परमात्मनो जात उत्पन्नो देवजातः, तस्मै 1 । केतवे अक्ष्णो लक्षणरूपाय दिवस्पुत्राय द्युलोकस्य पुत्राय सुतायेव प्रियाय सूर्याशंसत सूर्यप्रीत्यर्थं शंसनं प्रशंसनं कुरुत । यद्वा परब्रह्मरूपेणादित्यमवगम्य नमस्कारं कृत्वाऽन्येभ्यः कथयति — नमः सूर्यायेति । स्वरत्येक एवाकाश उपतापयति गच्छति वेति सूर्यः, ' स्वृ गत्युपतापयोः ' तस्मै । कीदृशाय? मित्रस्य वरुणस्य चक्षसे । उपलक्षणमेतद् द्यावापृथिवीनिवासिसर्वलोकस्य, ' अयं वै लोको मित्रोऽसौ वरुणः ' ( श. १२.९.२.१२ ) इति श्रुतेः । चक्षसे सर्वस्यैव जगतो द्रष्ट्रे परमेश्वररूपेण सर्वाध्यक्षाय, सर्वसाक्षिण इत्यर्थः । ' महोदेवाय तदृतं सपर्यत ' महते देवाय द्योतमानाय हे ब्राह्मणास्तत्सत्यं सपर्यत पूजयत । दूरेदृशे दूरे स्थितो दृश्यते प्राणिभिरिति दूरेदृक्, तस्मै । दूरे स्थितैर्वा दृश्यते । दूरे पश्यतीति वा दूरेदृक्, तस्मै । नमः प्रह्वीभावोऽस्तु । दूरेऽतीतानागतवर्तमानकालिकान् प्राणिनः पदार्थांश्च पश्यतीति दूरेदृक्, तस्मै । देवजाताय देवानुग्रहार्थं जाताय । जाता देवा अस्माद्वेति देवजातस्तस्मै । ' वाऽऽहि-ताग्न्यादिषु ' ( पा. सू. २.२.३७ ) इति बहुव्रीहौ जातशब्दस्य परनिपातः । केतवे प्रज्ञारूपाय विज्ञानघनाय । ‘ केतुरिति प्रज्ञानामसु पठितम् ' ( निघ. ३.९.१ ) । दिवस्पुत्राय द्युलोकात् सूर्यस्योत्पन्नत्वात् दिवः पुरुधा त्रायत इति दिवस्पुत्रस्तस्मै दिवः पालकायेति वा । एवंविधाय सूर्याय शंसत स्तुतीः कुरुत, शस्त्राणि पठत, यागे तदपेक्षणात्, ' शंसु स्तुतौ ' । अध्यात्मपक्षे - हे सोम सदाशिव, मित्राय सूर्यरूपाय वरुणाय तमोनिवारकाय तुभ्यं नमः प्रह्वीभावोऽस्तु । चतुर्थ्यर्थे षष्ठ्यौ । यद्वा मित्रस्य वरुणस्य तदुपलक्षितस्य सर्वस्यैव जगतश्चक्षसे द्रष्ट्रे तुभ्यं सर्वज्ञाय परमात्मने नमः | महो महसे तेजःस्वरूपाय महतेऽपरिच्छिन्नाय । पुनः कीदृशाय? देवाय जगदुत्पत्त्यादिक्रीडाकर्त्रे तादृशाय देवाय परमात्मने सोमाय स्वयं नत्वाऽन्येभ्यो मन्त्रद्रष्टोपदिशति - हे ब्राह्मणा ऋत्विजः तत्तोषणाय तदृतं ज्योतिष्टोमाख्यं यज्ञमनुष्ठाय सपर्यंत तं पूजयत । कीदृशाय तस्मै? दूरेदृशे दूरे दुर्लभं दर्शनं यस्य तस्मै विप्रकृष्टव्यवहितद्रष्ट्रे वा, अतीतादिद्रष्ट्रे वा 1 । देवजाताय देवानामनुग्रहाय जाताय लीलाविग्रहधारिणे देवोत्पत्तिहेतवे वा केतवे विज्ञानानन्दस्वरूपिणे दिवस्पुत्राय द्युलोकादेः पुरुधा त्रात्रे सूर्याय सूर्यार्थं शंसत स्तुतिं कुरुतेत्यर्थः । दयानन्दस्तु — ' हे मनुष्याः यथा वयं यन्मित्रस्य वरुणस्य दिव ऋतं सत्यं स्वरूपमस्ति, तद् यूयमपि सपर्यत । यस्य महो महसे दूरदृशे चक्षसे देवजाताय केतवे देवाय पुत्राय पवित्रकर्त्रे सूर्याय परमात्मने वयं नमस्कुर्मः, तथा अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है - हे साम्बसदाशिव । मित्ररूप तथा तमोनिवारक आपके लिये नमस्कार है । अथवा मित्र- वरुणादि सम्पूर्ण जगत् के द्रष्टा हे सर्वज्ञ परमात्मा! आपको नमस्कार है । तेजः स्वरूप, अपरिच्छिन्न, जगदुत्पत्त्यादि क्रीडा करने वाले परमात्मा को नमस्कार है । हे ऋत्विग्गण! आप लोग उस परमेश्वर की सन्तुष्टि के लिये यज्ञों द्वारा उसकी पूजा करें । दुर्लभ दर्शन वाले अथवा अतीन्द्रिय दृष्टि रखने वाले देवताओं की कृपा के लिये अवतार धारण करने वाले, विज्ञानानन्द स्वरूप, द्युलोकादि की सर्वविध रक्षा करने वाले उस तेजःस्वरूप के लिये स्तुति करें । स्वामी दयानन्द द्वारा कथित प्रथम अन्वय में परमेश्वर की स्तुति है तथा द्वितीय में सूर्यलोक की स्तुति है । यह परस्पर विसंगति के कारण अनुपयुक्त है । प्रसंगानुगत ' नमः ' शब्द का अन्न अर्थ युक्त नहीं है । सूर्य के पक्ष में ' सत्कार करना ' यह अर्थ