वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 91–100

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 91–100

पृष्ठ 91

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 91 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२ शुक्लयजुर्वेद संहिता [ अ. ४ तथा चायं मन्त्रार्थ: - हे सोम, त्वमिन्द्रस्य यजमानस्य दक्षिणमूरुं विश दक्षिणेऽस्मिन्नूरावुपविश कीदृशस्त्वम्? उशन् दक्षिणमूरुं कामयमानः । स्योनः सुखरूपः । कथम्भूतमूरुम्? उशन्तं त्वद्विषयककामनोपेतं । स्योनं सुखकरम् । ' वश कान्तौ । कामयमानस्त्वं कामयमानमेव यजमानस्य दक्षिणमूरुमुपविशेत्यर्थः । परस्परं प्रीत्याऽवियुक्तौ भवेतामित्यभिप्रायः । पुरा देवाः क्रीतं सोममिन्द्रस्योरावुपावेशयन् । तस्मादत्र यजमानस्येन्द्रशब्देन व्यवहार इति । तदुक्तं तित्तिरिणा - ' देवा वैवं सोममक्रीणन् तमिन्द्रस्योरौ दक्षिण आसादयत्रेष खलु वा एतहींन्द्रो यो यजते तस्मादेवमाह ' ( तै. सं. ६.१.११.१ ) इति । ' स्वान भ्राजेति जपति सोमविक्रयिणमीक्षमाणः ' ( का. ७.८.२२ ), यजमान इति शेषः । हे स्वानादयो धिष्ण्याधिष्ठातारः सप्त देवाः, वो युष्माकं सोमक्रयणान् श्रौ. क्रेतुमानीता नो हिरण्यादिपदार्था एते पुरतः स्थापितास्तान् पदार्थान् यूयं रक्षध्वम् । मा वो दभन् वो सोमं वैरिणो मा हिंसिषत 1 । स्वानादीनां द्युलोके सोमरक्षकत्वं तित्तिरिर्दर्शयति-- ' स्वान भ्राजेत्याहैते वामुष्मिल्लोके युष्मान् तेऽपि सोममरक्षन् ' ( तै. सं. ६.१.१०.९ ) इति । के ते स्वानादय इत्याह-- स्वान भ्राजेति । स्वनतीति स्वानः । भ्राजते शोभते यः स भ्राजः । अड्डस्य पापस्यारिः I । बिभर्ति पुष्णाति विश्वमिति बम्भारिः । हसतीति हस्तः सर्वदा हृष्टरूपः शोभनौ हस्तौ यस्य स सुहस्तः । कृशं दुर्बलमनिति जीवतीति कृशानुः । एते स्वानादयः सप्त देवाः सोमरक्षकाः । अथवा स्वानभ्राजसप्तदशानां मध्यात् सप्त तावत् सोमक्रयणाननुदिशति - हे स्वान, भ्राज, अद्धारे, बम्भारे । सुहस्त, कृशानो! एवं सप्त धिष्ण्यान् सम्बोध्य अथेतरानाह— एते वः सोमक्रयणाः, एते वो युष्माकं, हस्त, सोमक्रयणाः, यैर्हिरण्यादिभिः सोमः क्रीयते, तदभिमानिनः स्वानादयस्तान् रक्षध्वं गोपायत । एते होतृका मध्ये स्वानादीन् मा दभन् मा हिंसिषत । ' धिष्ण्यानां वा एते भाजनेनैतानि वै धिष्ण्यानां नामानि तान्येवैभ्य वो एतदन्वदि- युष्मान् क्षत् ' ( श. ३.३.३.११ ) । भाजयतीति भाजनं स्थानम्, तेन तत्स्थानेनोपाधिना एते स्वानादयो धिष्ण्यानां सम्बन्धिनः । कथं तेषां धिष्ण्यसम्बन्ध इति तत्राह -- एतानि वै धिष्ण्यानां नामानि । नन्वेते गवादिपदार्था धिष्ण्यानामेव स्वानादयः सोमरक्षकाः, अतस्तेषामेवानुदेश इति, तत्राह - - एतानि वा इति । तथा चोत्तरत्र वक्ष्यति — ' तमेते गन्धर्वाः , न तु सोमरक्षका जुगुपुः । इमे धिष्ण्या इमा होत्रा: ' ( श. ३.६.२.९ ) । सोमरक्षका एते गन्धर्वास्तं सोमं जुगुपुः । ते य इमे सदसि वर्तमाना धिष्ण्याः इमा होत्रा इमे होत्रका होतृवर्जमैत्रावरुणादय इत्यर्थः । तान्येव दशक्रयद्रव्याण्ये- के? तद् एतेन एते वः सोमक्रमणा इति पाठेन एभ्यो धिष्ण्यभूतेभ्यः स्वानादिभ्योऽन्वदिक्षन् अनुदिष्टवान् भवति । अध्यात्मपक्षे -- हे सोम साम्बसदाशिव, त्वं समेषां भूतानां मित्रः सुहृद्भूत, अज्ञानान्धकारनाशको सूर्यरूपो वा अस्मान् आ समन्ताद् इहि प्राप्नुहि, प्रत्यक्चैतन्यभेदेनाभिव्यक्तो भवेत्यर्थः । कीदृशस्त्वम्? सुमित्रधः मित्रः शोभनानि मित्राणि दधाति पुष्णातीति । इन्द्रस्येदं सर्वं स्वात्मत्वेन दृष्टवानिति इदन्द्रः इदन्द्र इत्याख्यायते । श्रुतिषु इन्द्रो ब्रह्मवित् तस्य दक्षिणमुत्कृष्टं तदुपलक्षितमुशन्तं कामयमानमङ्कं एव परोक्षेणन्द्र कामयानो विश । कीदृशस्त्वम्? स्योनः सुखरूपः । कीदृशं चोरुम्? स्योनं सुखकरम् । उशन्नुशन्तं हृदयं वा उशन् विशेत्युक्त्या शिवः शिवं शान्तः शान्तं सुखात्मकः सुखात्मकं विश, तेन साजात्यमुभयोर्विवक्षितम् स्योनः स्योनं यजेद्देवान् ' इत्युक्तेः । दिव्यो दिव्यमुपैति । तत एव भूभूतादिशुद्धियज्ञमहायज्ञादिभिर्दिव्यत्वापादने प्रयासो ' देवो भवति भूत्वा । स्वानः स्वनति ब्रह्मात्मतत्त्वमुपदिशतीति स्वानो गुरुः । भ्राजते प्रकाशते परमात्मतत्त्वं यत्र स भ्राजस्तत्त्वबोधः । अध्यात्मपक्ष में यह अर्थ है - हे साम्बमहेश्वर! आप समस्त जीवों के सुहृद् अथवा अज्ञानान्धकार हमारे पास आवें । कल्याणकारी मित्रों के पोषक, सुखप्रदाता आप स्वात्मज्ञ हैं, आपकी कामना रखने के विनाशक हैं, आप वाले सुखकर हृदय में प्रविष्ट

पृष्ठ 92

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 92 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २७ ] वेदार्थपारिजात भाष्यसहिता ८३ अङ्घारिः, भगवन्नामात्मकः शब्दः । बम्भारि बिभर्ति विश्वमिति बम्भारिर्धर्मः । हस्तो मनःप्रसादः । सुहस्तः शोभनो हस्तः करो येन स दानधर्मः । कृशं दुर्बलमनिति जीवतीति कृशानुर्दयाधर्मः । सम्बोधने ते तथोक्ताः । हे स्वानादयः, वो युष्माकमेते उपदेशादयो धर्माः स्वरूपाश्च सोमक्रयणाः सोमः साम्बशिवः क्रीयत एभिस्ते सोमक्रयणाः, अतस्तान् रक्षध्वम् । वो युष्मान् अहङ्काररागादयो मा दभन् मा हिंसिषत । यत्तु ' दुष्टान् कृशतीति कृशानुः ' इति, तन्न, कृशधातोरकर्मकत्वेनार्थासङ्गतेः । यत्तु — ' कृशाननतीति धातुद्वयापत्तिः ' इति, तदपि न तस्येष्टत्वात् । न चोत्तरपदप्रकृतिस्वरत्वेनान्तोदात्तत्वापत्तिरिति वाच्यम्, व्यत्ययेनाभीष्टस्वरसिद्धेः । स्वामिदयानन्दस्तु — ‘ मित्रः सुहृत् सन् नोऽस्मान् एहि प्राप्नुहि । यः शोभनानि मित्राणि दधाति सः । इन्द्रस्य परमैश्वर्यस्य सभाध्यक्षस्य विदुष ऊरू बह्वाच्छादनं स्वीकरणं आसमन्ताद् विश । दक्षिणमुत्तमाङ्गं दक्षिणभागमुशन् कामयमान उशन्तं कामयमानं स्योनः सुखकारकः स्योनं सुखकारकम् । ' स्योनमिति सुखनामसु पठितम् ' ( निघ. ३.६.१५ ) । स्वान स्वनत्युपदिशति यतस्तत्सम्बुद्धौ । भ्राज यो भ्राजते प्रकाशते तत्सम्बुद्धौ । अस्य छलस्यारिः शत्रुस्तत्सम्बुद्धौ । बम्भारे बन्धानां सुविचारनिरोधकानामरिः शत्रुः । अत्र वर्णव्यत्ययेन धस्य भः । हस्त हसन्ति प्रसन्ना भवन्ति यस्मात्त-त्सम्बुद्धौ । सुहस्त शोभना हस्तक्रिया यस्य तत्सम्बुद्धौ । कृशानो कृशति यस्तत्सम्बुद्धौ । एते सर्वे धार्मिकाः प्रजास्था भृत्या वा वो युष्मान् सोमक्रयणाः ये सोमानुत्तमान् पदार्थान् क्रीणन्ति ते तान् सर्वान् रक्षध्वं सततं पालयत । अत्र व्यत्ययेनात्मनेपदम् । वो युष्मान् मा दभन् मा हिंसेयुः । अत्र विकरणप्रत्ययो लिङथें लुङ् च । अर्थाद् हे उपदेशक, हे प्रकाशक, हे छलारे, हे विचारविरोधिशत्रो, हे प्रसन्न, हे समीचीनहस्तक्रियावित्, हे दुष्टदुर्बलकारक, हे सुमित्रधारक, हे सर्वमित्र, सुखकाम सभाध्यक्ष, त्वमस्मानेहि तथा दक्षिणमुत्तमाङ्गयुक्तमुरुं बहुगुणयुक्तपदार्थयुक्तं स्वीकारार्हं वा कामयितव्यं स्योनं सुखमाविश । हे मनुष्याः एते ये इन्द्रस्य परमैश्वर्ययुक्तस्य विदुषः सोमक्रयणा उत्तमपदार्थक्रेतारः प्रजाजना भृत्या वा वो युष्मान् रक्षन्तु । भवन्तोऽपि तान् रक्षध्वम् । यथा ते शत्रवो युष्मान् हन्तुं समर्था न भवेयुस्तथा सम्यक् प्रीत्या परस्परं वर्तध्वमिति हिन्दी भाष्यार्थः ' इति, तदपि यत्किञ्चित्, राष्ट्रे बहूनां तादृशानां सम्भवात्, एकवचनेन सम्बोधयितुमशक्यत्वात् । न वा जात्या तथा सम्बोधनम्, सङ्करादिना जात्यसम्भवात् उपाधिभिर्व्यवहारसम्भवात्, हस्त-सुहस्तादीनामन्यथार्थत्वोपपत्तेः । न च सभाध्यक्ष एव सुखकामयिता सम्भवति, अन्येषामपि तथात्वोपपत्तेः । उशन्तमित्यस्य कामनायोग्यमिति नार्थः सम्भवति, कर्तृशतुर्विरोधात् । सोमपदस्य उत्तमपदार्थ इति कथमर्थः? कथं च तत्क्रेतारो रक्षकास्ते च कथं सभाध्यक्षीयाः । सभाध्यक्ष एव कथमिन्द्रपदार्थः? श्रुतिसूत्रविरोधस्तु स्फुट एव । तत्रेन्द्रपदेन याग-कर्तुर्यजमानस्योक्तत्वात् । • शतपथे तु — ' स वा अनेनैवाजां प्रयच्छति । अनेन राजानमादत्त आजा ह वै नामैषा यदजैतया होनमन्तत आजति तामेतत्परोक्षमजेत्याचक्षते ' ( श. ३.३.३.९ ) । अत्र वामदक्षिणबाहू क्रमेण अजाप्रदाने सोमादाने च निर्दिशति होइये । हे गुरुदेव! तत्त्वज्ञान, नाम - शब्द, धर्म, चित्तप्रसाद, दानधर्म, दयाधर्म आदि तत्त्वगण आप लोगों के उपदेशादि धर्म और स्वरूप ही साम्बशिव को प्राप्त करने के उपाय हैं । अतः उनकी रक्षा करें । आपको अहंकार आदि दोष अभिभूत न करें । स्वामी दयानन्द के संस्कृत एवं हिन्दी अर्थ ठीक नहीं हैं । सभाध्यक्ष ही सुखकामयिता नहीं हो सकता, अन्य भी सुख चाहने वाले होते हैं । सोम शब्द का अर्थ उत्तम पदार्थ कैसे है? उसके क्रेतागण रक्षक कैसे हो गये? सभाध्यक्ष ही इन्द्र पद का अर्थ कैसे है? इसके अतिरिक्त श्रुति एवं सूत्र के वाक्यों का विरोध इस अर्थ में स्पष्टतः है ॥ २७ ॥

पृष्ठ 93

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 93 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४ शुक्लयजुर्वेदसंहिता [ अ. ४ —स वा अनेनैवाजां प्रयच्छतीति । ' सव्येनाजां प्रयच्छन् मित्रो न इति दक्षिणेन सोममादायागत उत्तिष्ठति वा ' ( ७.८.२० ) इति कात्यायनेनोक्तत्वात् । अजाप्रदानेन सोमादानं तन्निर्वचनद्वारेण प्रशंसति - अजा ह वा इति । यस्मादेतयाऽजया एनं सोममेकाहनि हिरण्यादिक्रयं द्रव्याणामन्तत आजद् आभिमुखेनागच्छति, आजनसाधनत्वादाजा वस्तुतस्तां परोक्षेण अजेत्याचक्षते । ‘ अथ राजानमादत्ते । मित्रो न एहि सुमित्रध इति शिवो नः शान्त एहीत्येवैतदाह ( श. ३.३.३.१० ) । सोमस्यादाने मन्त्रं विधत्ते - अथ राजानमादत्ते मित्रो न एहीति । हे सोम, त्वं सुमित्रधः शोभनमित्रधारक;, त्वं मित्रो मित्रभूतः प्रियभूतः सन् आगच्छेत्यर्थः । अस्मिन् मन्त्रे मित्रशब्दार्थमाह श्रुतिः -- शिवो नः शान्त इति । शिवशब्दस्य वासः प्रत्यु व्याख्यानं शान्त इति । तं सोमं यजमानस्य दक्षिण ऊरौ प्रत्युह्य वासो निदधाति, ऊरुप्रदेशे तत्रान्तर्धायकं, यजनेन प्रसार्य तत्र सोमं निदध्यात् । एष वा अत्रेन्द्रो भवति यजमान इति । मन्त्रेऽस्मिन् इन्द्रपदेन यजमानो स्योनमित्यस्य विवक्षितः शिवः परमैश्वर्येण युक्तत्वात् । उशन्नुशन्तमित्यस्याभिप्रायमाह — प्रियः प्रियमित्येवैतदाह । एवमेव स्योनः शिवमित्येवैतदाहेति । एतेन सिद्धान्तानुसार्यर्थ एव श्रुतिसूत्रसम्मत इति । ' अथ सोमक्रयणाननुदिशति । स्वान. दनिति धिष्ण्यानां वा एते भाजनेनैतानि वै धिष्ण्यानां नामानि तान्येवैभ्य एतमन्वदिक्षत् ' ( श. ३.३.३.११ ) । सोमक्रयसाधनपदार्थानामनु पश्चाद् देशनं निर्देशनमनुदेशनम् । स्वान-भ्राजादिशब्देन त एवानुदेश्यन्ते । एते वो युष्माकं मध्यात् सोमक्रमणाः, तान् रक्षध्वम्, हे स्वानादयः, तत्सम्बन्धिदेवास्तान् सोमक्रयणान् हिरण्यादिपदार्थान् रक्षध्वम् । मा वो दभन् वो युष्मानपि शत्रवो मा दभन् मा दभ्नुयुः । एते धिष्ण्यानां वा एते सम्बन्धिनः, भाजनेन भाजयतीति भाजनं स्थानम्, तत्तत्स्थानेनोपाधिना एते स्वानादयो धिष्ण्यानां सम्बन्धिनः खलु । कथं तेषां धिष्ण्यसम्बन्ध इति तत्राह — एतानि वै धिष्ण्यानां नामानीति । अथवा अनुदेशनार्हा एते तत्राह सोमक्रयणा ---- एतानि गवादिपदार्था धिष्ण्यानामेव सम्बन्धिनः, न स्वानादयः सोमरक्षकाः । अतस्तेषामेवैते न धिष्ण्यानामिति वा इति 1 । शेषं मन्त्रव्याख्यानप्रसङ्गे पूर्वं द्रष्टव्यम् ॥ २७ ॥

प॑रि माग्ने॒ दुश्च॑रिताद् ब॒ध॒स्वा मा॒ सुच॑रिते भज ।

उदायु॑षा स्वा॒यु॒षोद॑स्थाम॒मृतं॒ २॥ अनु॑ ॥२८ ॥

' गृहीतसोमं परि माग्न इति वाचयति, उत्तरे च ' ( का. श्रौ. ७.९.१-२ ) । परि माग्न इति मन्त्रेणोत्थानमनः प्रति गमनं च गृहीतसोमो यजमान एव कुर्यात् । अग्निदेवत्या पुरस्ताद्बहती । यस्या आद्यो द्वादशाक्षरः त्रयोऽष्टाक्षराः, पादा; सा पुरस्ताद्बृहती ‘ आद्यश्चेत् पुरस्ताद्बृहती ' इत्युक्तेः । हे अग्ने, दुश्चरिताद् दुष्टं चरितं चरणं दुश्चरितं पापं तस्मात् मा मां परिबाधस्व परित्रायस्व, सर्वतो निवारय पाणदित्यर्थः । सुष्ठु चरितं पुण्याचरणं तत्र सदाचाररूपे पुण्ये मा मां मन्त्रार्थ हे अग्निदेव! मुझे आप सब तरह के पापों से हटाइये, मुझ यजमान को सदाचार रूपी पुण्य कार्य मैं में सोम सदा सब तरह से स्थापित कीजिये । उत्तम चिरजीवन रूप आयु से तथा यज्ञ, दान आदि के द्वारा शोभित होता हुआ आदि देवताओं को लेकर उठता हैं ॥ सोम ग्रहण करने वाला यजमान इस मन्त्र को पढ़ता है ॥२८ ॥

भाष्यसार - क्रीत सोम का ग्रहण करके ' परि मा ' इस ऋचा का उच्चारण करते हुए यजमान उठ कर शकट के प्रति प्रस्थान का उद्यम करे । कात्यायन श्रौतसूत्र ( ७.९.१-२ ) में प्रतिपादित इस याज्ञिक विनियोग के अनुसार शतपथ ब्राह्मण मन्त्र का अर्थ उपदिष्ट है ।

पृष्ठ 94

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 94 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २८ ] वेदार्थपारिजातभाष्यसहिता ८५ यजमानमा भज सर्वतो भज भाजय स्थापय । सुचरिते वर्तमानं मां वा आभज आसेवस्त्र वा अनुगृहाण । देवता-प्रसादादेवानिष्कर्मणो निवृत्तिः सत्कर्मणि स्थितिश्च सम्भवति । सत्कर्मणि वर्तमानमेव देवताऽभीष्टप्रदानादिभिः साध-कमाभजति, अनुगृह्णातीत्यर्थः । ' उदायुषेत्युत्थानं शीणि सोमं कृत्वा पाणिमन्तर्धाय ' ( का. श्रौ. ७.९.३ ) । यजमानः स्वशिरस्यधोमुखं स्वकीयं पाणि निधाय पाण्यन्तर्हिते शिरसि सोमं ( वाससा बद्धम् ) निधाय उदायुषेति मन्त्रेणोत्तिष्ठेतेति सूत्रार्थः । अथ मन्त्रार्थः – उदायुषा उत्कृष्टेन चिरजीवनलक्षणेन आयुषा निमित्तभूतेन अमृतान् अमरणधर्मान् सोमा-धिदेवाननुसृत्य उदस्थाम् अहमुत्थितवानस्मि । देवाननुसृत्योत्थानं दर्शयति तित्तिरिश्रुतिः – ' उदायुषा स्वायुषेत्याह देवता एवान्वारभ्योत्तिष्ठति ' ( तै. सं. ६.१.११.३ ) । आयुः साधनेनायुष्करणेन सोमेन वा सह उदस्थामहमुत्थितवानस्मि वा । अमृतान् सोमांशून् वा अनुसृत्याहमुत्थितवानस्मि । अध्यात्मपक्षे तु - हे अग्ने परमेश्वर, मा मां दुश्चरितात् पातकात् परिबाधस्व परित्रायस्व । सुचरिते आभज आभाजय प्रतिष्ठापय । सुचरिते सदाचारे वर्तमानं मामाभज अनुगृहाण । उदायुषा उत्कृष्टेन दीर्घकालिकेन जीवनेन स्वायुषा ज्ञानध्यानादिनिष्ठेन शोभनेन जीवनेन अमृतान्, पूजायां बहुवचनम्, भगवन्तमनुलक्ष्याहमुत्तिष्ठेय परमात्म-प्राप्तये सफलोत्थानः स्यामित्याशिषं पूरयितुमनुगृहाणेत्यर्थः । श्रीदयानन्दस्तु –— ' अग्ने विज्ञानस्वरूप, परि सर्वतो मा बाधस्व निवर्तय । आसमन्ताद् मां सुचरिते यस्मिन् शोभनानि चरितानि धर्म्ये व्यवहारे तस्मिन् भज स्थापय । उद् अपि आयुषा जीवनेन स्वायुषा शोभनमायुर्जीवनं प्राणधारणं यस्मिंस्तेन सह उदस्थामुत्तिष्ठेयम्, अमृतान् प्राप्तमोक्षान् सदेहान् विगतदेहान् वा विदुषः मुक्त्यानन्दा-नुत्तमान् भोगान् वा अनु आनुकूल्येन ' इति, तदपि न युक्तम्, अग्निपदस्य विज्ञानार्थत्वे मानाभावात् । उच्छब्दोऽप्य-कोऽभिप्रेतः । तथा च आयुषापि स्वायुषेति केन किं श्लिष्यते? वस्तुतस्तु न हलन्तोच्छब्दोऽप्यर्थकः, अदन्तस्यैव तथात्वात् । किञ्च, शोभनमायुर्जीवनं प्राणधारणं यस्मिन् तेन सहेत्यत्र यत्तत्पदार्थः कः? हिन्दीभाष्ये तु जीवन-मित्युक्तम् । जीवनमपि प्राणधारणमेव । प्राणधारणे किमन्यत् प्राणधारणम्? अमृतान् प्राप्तमोक्षान् सदेहानित्यपि न सङ्गतम्, त्वद्रीत्या मोक्षो देहपातानन्तरभावी भवति, न देहकाले, देहसद्भावे दुःखप्राप्तेरनिवार्यत्वात् । नहि ब्रह्मात्म-साक्षात्कारलक्षणं ज्ञानमेव मोक्षः, तथात्वे मोक्षादावृत्त्यनुपपत्तेः । न चेष्टापत्ति, अपसिद्धान्तापातात् । अत्र शतपथश्रुतिः — ‘ अथात्रापोर्णुते । गर्भो वा एष भवति यो दीक्षते प्रावृता वै गर्भा उल्बेनेव जरायुणेव तमत्राजीजनत तस्मादपोर्णुत एष वा अत्र गर्भो भवति तस्मात् परिवृतो भवति परिवृता इव हि गर्भा उल्बेनेव जरायुणेव ' ( श. ३.३.३.१२ ) । दीक्षासमये धृतस्य शिरः प्रावरणस्यापवारणं विधत्ते — अथेति । धृतस्य शिरः प्रावरण-स्यापवारणं प्रशंसति — प्रावृता वा इति । उल्बं गर्भस्यान्तरमावरणम्, जरायुर्बाह्यमावरणम् । ' अन्तरं वा अध्यात्मपक्ष में मन्त्रार्थ यह है- हे परमेश्वर अग्नि, पाप से मेरी रक्षा करें तथा सदाचार में मेरी स्थापना करें, सदाचार में अवस्थित मुझे अंगीकृत करें । उत्कृष्ट दीर्घजीवन से तथा सुन्दर जीवनायुष्य द्वारा अमृतमय परमेश्वर के प्रति मै सन्नद्ध होऊँ । श्री दयानन्द का अर्थ उचित नहीं है, क्योंकि अग्नि पद विज्ञानार्थक है, इसमें कोई प्रमाण नहीं है । ' उत् ' शब्द ' अपि ’ के अर्थ में माना है, परन्तु वस्तुतः हलन्त ' उत् ' अपि के अर्थ में नहीं होता, अदन्त ' उत ' ही अप्यर्थक है । ' अमृतान् ' का अर्थ ‘ मोक्ष प्राप्त कर चुके सदेह विद्वान् ' यह करना भी असंगत है, क्योंकि उस मत में देहपात के अनन्तर ही मोक्ष सम्भव है, सदेह सम्भव नहीं है । देह रहने पर दुःखप्राप्ति अनिवार्य है ॥२८ ॥

पृष्ठ 95

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 95 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६ शुक्लयजुर्वेदसंहिता [ अ. ४ उल्ब जरायुणो भवति ' ( श. ३.२.१.११ ) । उभयत्र इवशब्दो वाक्यालङ्कारार्थः । अन्यत् स्पष्टम् । युक्तम् तं गर्भभूतं । पूर्वं यजमानम्, अत्र सोमविक्रयसमनन्तरकाले अजीजनत् प्रादुरभावयदध्वर्युः । उत्पन्नस्यावरणयोगादपवरणं । ' अथ वाचयति । परि सति प्रावरणे पश्चादपवरणं युज्यते । तदेव कुत इत्यत आह - एष वा अत्र गर्भो भवतीति तन्मिथ्याकरोति व्रतं माग्ने दुश्चरिताद्बाधस्वा मा सुचरिते भजेत्यासीनं वा एनमेष आगच्छति स आगत उत्तिष्ठति तस्मादाह परि माग्ने प्रमीणाति तस्यो हैषा प्रायश्चित्तिस्तथो हास्यैतन्न मिथ्याकृतं भवति न व्रतं प्रमीणाति वाचयति । मां दुश्चरिताद्बाधस्वा मा सुचरिते भजेति ' ( श. ३.३.३.१३ ) । अध्वर्युः परि माग्न इति , सुचरिते मन्त्रं यजमानं वर्तमानं मामनुगृहाणेति दुश्चरितात् सकाशात् परिबाधस्व परित्रायस्व । सुचरिते सदाचारे आभज आभाजय सोमो राजा आगच्छति । वा । मन्त्रतात्पर्यं स्वयमेव श्रुतिराह - आसीनं वेति । आसीनं वा एनं यजमानमेष व्रतं प्रमीणाति श्रेष्ठस्यागमनात् प्रागेवोत्थानेन भाव्यम् । तद्वैपरीत्यान्मिथ्याकरणं तदनुत्थानलक्षणं मिथ्याकरणं २ || प्रहिनस्ति, तदनेन मन्त्रवाचनेन समाधीयत इति । ' अथ राजानमादायोत्तिष्ठति । उदायुषा स्वायुषोदस्थाममृताँ ' ( श. अन्वित्यमृतं वा एषोऽनूत्तिष्ठति यः सोमं क्रीतं तस्मादाहोदायुषा स्वायुषोदस्थाममृताँ आयुष्करणेन २ ॥ अन्विति सोमेन सह ३.३.३.१४ ) । उत्थानमन्त्रस्यार्थमाह — उदायुषेति । आयुषा स्वायुषा च सह तत्साधनत्वेन शोभनेन जीवनेन उदस्थाम् उत्तिष्ठामि । आयुषा स्वायुषा निमित्तेन चिरजीवनेन निमित्तभूतेन यागदानहोमादियुक्तेन । अमृत-प्राणधारणेन निमित्तभूतेन उदस्थाम् । अमृतान् सोमांशून्, अवयवापेक्षया बहुवचनम्, अनुसृत्य उदस्थाम् शब्दस्य तात्पर्यमाह— अमृतं वेति । अमृतं वा एषोऽनूत्तिष्ठति यः सोमं क्रीतमनूत्तिष्ठतीति शेषः ॥ २८ ॥

प्रति॒ पन्था॑मपद्महि स्वस्त॒ गाम॑ने॒हस॑म् ।

येन॒ विश्वा॒ाः परि॒ द्विषो॑ वृ॒णक्ति॑ि वि॒न्दते॒ वसु॑ ॥ २ ९ ॥

' शीणि सोमं कृत्वा पाणिमन्तर्धाय, प्रति पन्थामित्यनोऽभ्येति दक्षिणतस्तिष्ठंश्छन्नं समङ्गि धौतं प्रउगा-च्चोद्धते फलके ' ( का. श्रौ. ७ ९.३-४ ) । यजमानः प्रति पन्थामिति मन्त्रेण सोमक्रयदेशस्य दक्षिणतोऽवस्थितमाच्छा- शकटे दितं युगयोक्त्रानुडुदादिभिः सर्वाङ्गैर्युक्तं प्रक्षालितशकटमभिलक्ष्य तत्सम्मुखो गच्छेत् प्रउगादिति सङ्घटितं । भवति । प्रागपरायतः काष्ठविशेष ईषा यत्र युगं सम्बद्ध्यते । तस्या ईषायाः पार्श्वद्वयेऽपि काष्ठद्वयं तयोरीषायाश्च योऽन्तरालदेशः स प्रउगसंज्ञकः । तस्मात् प्रउगात् शकटस्य मध्यभागादुपरि काष्ठमयं फलकं सन्तर्दनीयं तादृशमनः शकटमभिगच्छेदिति सूत्रार्थः । अनुष्टुप् पथिदेवत्या । मन्त्रार्थस्तु – पन्थां पन्थानं मार्गं । प्रत्यपद्महि वयं प्रतिपद्येमहि, प्रतिपन्नाः प्राप्ता अभूमेत्यर्थः । ' पद् गतौ ' इत्यस्य व्यत्ययेन शपि लुप्ते गम्यते लङि रूपम् यत्र स विभक्तेः पूर्वसवर्णे पन्थामिति रूपम् । कीदृशं पन्थानम्? स्वस्तिगां शोभनगमनम् । स्वस्ति क्षेमेण मन्त्रार्थ - क्षेमपूर्वक गमन करने योग्य, चोर आदि की बाधाओं से रहित, पथिकों के सुखदायक उस मार्ग को । हम इस प्राप्त हों, जिस मार्ग से पुरुष मार्ग की चोर आदि की सब बाधाओं को दूर करता है, धन और मोक्ष को पाता है है ॥२९ ॥

मन्त्र को पढ़ते हुए यजमान अपने सिर पर सोम को रखकर और सिर पर अपना हाथ रखकर शकट की ओर जाता भाष्यसार — कात्यायन श्रौतसूत्र ( ७ ९.३-४ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोगानुसार ' प्रति पन्थाम् ' ऋचा से गृहीत सोम को सिर पर रख कर शकट की ओर गमन करे । शतपथ ब्राह्मण में इसी के अनुसार अर्थ निर्दिष्ट है ।

पृष्ठ 96

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 96 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २ ९ ] वेदार्थपारिजात भाष्यसहिता ८७ तं क्षेमेण गन्तुं योग्यम् । गमेः ' विड्वनोरनुनासिकस्यात् ' ( पा. सू. ६.४.४१ ) इति मकारस्याकारे रूपम् । तथा अनेहसम् एहः पापम्, पापश्चोरादिबाधो न विद्यते यत्र तादृशम् । यद्वा एह इत्यपराधनाम । यत्र गतानामपराधो न भवति तादृशम् । येन पथा गच्छन् पुरुषो विश्वा विश्वान् सर्वान् द्विषो द्वेष्टृन् द्विषतः शत्रून् परिवृणक्ति परिवर्जयति, ' वृजी वर्जने ', वसु धनं च लभते तं पन्थानं प्रतिपन्नाः स्मेत्यर्थः । इति पथिस्तुतिः । अध्यात्मपक्षे — हे परमात्मन्, पन्थां तत्त्वज्ञानलक्षणं पन्थानं प्रतिपद्येमहि प्राप्नुयाम, ' नान्यः पन्था विद्यतेऽय-नाय ' ( वा. सं. ३१.१८ ) इति मन्त्रवर्णात् । कीदृशं पन्थानम्? स्वस्तिगां स्वस्ति परमकल्याणमयं ब्रह्म गम्यते प्राप्यते येन तम्, ' तमेव विदित्वाऽतिमृत्युमेति ' ( वा. सं. ३१.१८ ) इति श्रुतेः । अनेहसम् एहो हननादिलक्षणं पापं न भवति येन तम् । एहोऽत्र पुण्यस्याप्युपलक्षणम्, ' क्षीयन्ते चास्य कर्माणि ' ( मु. उ. २.२.८ ) इति श्रुतेः । येन ज्ञानमार्गेण पुरुषो विश्वा विश्वान् अज्ञानाहङ्कारादिरूपान् द्विषतः परिवृणक्ति परिबाधते ब्रह्मात्मरूपं वसु लोकोत्तरं धनं च विन्दते लभते । स्वामिदयानन्दस्तु — ' प्रति पक्षे वीप्सायां च पन्थां मार्ग मार्गमपद्महि प्राप्नुयाम स्वस्ति सुखं गच्छति येन तम् | अविध्यमानानि एहांसि हननानि यस्मिन्, ' नञि हन एह च ' ( उ. सू. ४. २२४ ) इति सूत्रात् । येन मार्गेण विश्वाः सर्वाः परितः सर्वतो द्विषो द्विषन्त्यप्रीणयन्ति याभ्यः शत्रुसेनाभ्यो दुःखक्रियाभ्यो वा ताः । ' कृतो बहुलम् ' ( पा. सू. ३.३.११३ भाष्यवा. ) इति हेतौ क्विप् । वृणक्ति वर्जयति, अन्तर्भावितण्यर्थः विन्दते लभते वसु धनम् । हे जगदीश्वराग्ने त्वदनुगृहीताः पुरुषार्थिनो भूत्वा वयं येन विद्वान् विश्वा द्विषः परिवृणक्ति वस्तु विन्दते, तमनेहसं स्वस्तिगां पन्थां प्रत्यपद्महि प्रत्यक्षतया व्याप्त्या प्राप्नुयाम ' इति, तदपि तुच्छम्, निष्प्रमाणमध्याहारादिदोषबाहुल्यात् । त्वदनुगृतीता, विद्वान्, तमित्यादीनि पदानि न सन्त्येव मूले, न वा तदर्थकानि पदान्तराणि । किञ्च, विद्वान् कथं शत्रुसेनाः परिवर्जयति? विद्यामात्रेण तद्वर्जनासम्भवात् । मनुष्यैर्द्वेषादित्यागाय विद्याधनप्राप्तये धर्ममार्गप्रकाशनाये-श्वरप्रार्थना धर्मविद्वत्सेवा च नित्यं कार्येति भावार्थस्तु ततोऽप्यसम्बद्ध एव । शतपथविरोधश्च स्पष्टः । तथाहि — ' अथ राजानमादायारोहणमभिप्रैति । प्रतिपन्थां... वस्विति ' ( श. ३.३.३.१५ ) । आरोहन्त्यत्रेत्या-रोहणं शकटमभिलक्ष्य प्रैति गच्छति । तथा शकटाभिमुखगमनेऽयं मन्त्रो विनियुक्तः । तेन तदनुसार्येवार्थः । मन्त्रार्थस्तु सिद्धान्तानुसार्येव । अमुं मन्त्रमाख्यायिकया प्रशंसति श्रुतिः - ' देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्विभयाञ्चक्रुस्त एतद्यजुः स्वस्त्ययनं ददृशुस्त एतेन यजुषा नाष्टा रक्षां स्यपहत्यै तस्य यजुषो ऽभयेऽनाष्ट्रे निवाते स्वस्ति समाश्नुवत तथो एवैष एतेन यजुषा नाष्ट्रा रक्षां स्यपहत्यैतस्य यजुषोऽभयेऽनाष्ट्रे निवाते स्वस्ति समश्नुते तस्मादाह प्रतिपन्थामपद्महि... वस्विति ' ( श. ३.३.३.१६ ) । पुरा किल देवा देवत्वप्राप्तये यज्ञं तन्वाना अध्यात्मपक्ष में यह अर्थ है — हे परमात्मन्! कल्याणमय ब्रह्म के प्रापक, निष्पाप बन्धनकारक कर्मों से रहित, तत्त्वज्ञानात्मक पथ को मैं प्राप्त करूँ, जिस ज्ञानमार्ग के द्वारा पुरुष समस्त अज्ञान, अहंकार आदि शत्रुओं को विनष्ट करता है तथा ब्रह्मात्मरूपी लोकोत्तर धन को प्राप्त करता है I स्वामी दयानन्द का अर्थ प्रमाणरहित होने के कारण तथा अध्याहार आदि दोषों से मस्त होने के कारण अयुक्त है । विद्वान् आदि पद मूल मन्त्रपाठ में नहीं हैं और उनके समानार्थक दूसरे पद भी मूल में नहीं हैं । विद्वान् शत्रुसेनाओं का निराकरण कैसे कर सकता है, क्योंकि मात्र विद्या से सैन्य- निराकरण सम्भव नहीं है । इस अर्थ में शतपथ श्रुति का तो स्पष्टतः विरोध होता ही है ॥२ ९ ॥

पृष्ठ 97

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 97 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८८ शुक्लयजुर्वेदसंहिता [ अ. ४ असुराद्यासङ्गेन भीतास्तत्परिहारोपायत्वेन क्षेमप्रापकमेतद्यजुरिमं मन्त्रं दृष्ट्वा प्रयुज्य क्षेमं नाष्ट्रा प्राप्ताः रक्षांसि । तस्मादिदानीमपि नाशकारिणो राक्षसान् घातयित्वा एतन्मन्त्रसम्बन्धिनि भयरहिते बाधरहिते स्थाने विनाशरहितं गच्छन् प्रतिपन्था-तद्यजुः प्रयोगेण पुरुषः क्षेमं विन्दते । यस्मादस्य मन्त्रस्य सामर्थ्यमेवंविधम् तस्माच्छकटसमीपं परिवर्जयितुं मिति मन्त्रं ब्रूयादिति ब्राह्मणाभिप्रायः । चार्वाकप्रायो मन्त्रसामर्थ्ये विश्वासरहितः कथं कश्चित् परिवहन्ति शत्रुसेनाः महयन्त्येवै-शक्नोति? आस्तिकस्तु मन्त्रप्रभावाद् द्विषः परिवृणक्त्येव । ' तं वा इति हरन्ति । अनसा धृत्वा हरन्ति नमेतत्तस्माच्छीर्णा बीजं हरन्त्यनसोदावहन्ति ' ( श. ३.३.३.१७ ) । अनेन पूर्वोक्तप्रकारेण शिरसा कृतम्, प्रथमं क्रयात् पर्वतात् पश्चात्त्वनसा शकटेन परिवहन्ति । अनेन सोमं महयन्ति सत्कुर्वन्ति । यस्मात् पूर्वमेवं उदावहन्ति । तस्मादिदानीमप्यावापसमये कृष्टक्षेत्रं प्रति बीजं शीर्ष्णा हरन्ति पश्चात् फलितानामानयनसमयेऽनसा ३.३.३.१८ ) उदकुम्भसमीपे क्रयं प्रशंसति -- ' अथ यदपामन्ते क्रीणाति । रसो वा आपः सरसमेतत्क्रीणाति ' ( श. यद्वासो इति । हिरण्यादिदशरूपं द्रव्यं क्रमेणानूद्य प्रशंसति – ' अथ यद्धिरण्यं भवति सशुक्रमेवैतत् क्रीणात्यथ क्रीणात्यथ भवति सत्वचसमेवैतत् क्रीणात्यथ यदजा भवति सतपसमेवैतत् क्रीणात्यथ यद्धेनुर्भवति सशिरमेवैतत् वै विराड् वैराजः यन्मिथुनौ भवतः समिथुनमेवैतत्क्रीणाति तं वै दशभिरेव क्रीणीयान्नादशभिर्दशाक्षरा समर्थ्यते, न सोमस्तस्माद्दशभिरेव क्रीणीयान्नादशभिः ' ( श. ३.३.३.१८ ) । स्पष्टमत्र सिद्धान्तव्याख्यानं दयानन्दीयमिति ॥ २ ९ ॥ अदि॑त्या॒स्त्वम॒स्यदि॑त्यै॒ सद॒ आसी॑द । अस्त॑भ्ना॒द् द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं ' पृथि॒व्याः । आ॑सीद॒द्विश्वा भुव॑नानि स॒म्राड् विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥ ३० ॥

' कृष्णाजिनमस्मिन्नास्तृणात्यदित्यास्त्वगिति ' ( का. श्रौ. ७.९.५ ), ' तस्मिन् सोमं निदधान्यदित्यै सद भवसि इति ' ( का । हे. श्रौ. ७.९.६ ) । तस्मिन् कृष्णाजिने । हे कृष्णाजिन! त्वमदित्यास्त्वगसि, अखण्डितायाः पृथिव्यास्त्वग्रूपं । सोम, त्वमदित्यै अदित्याः सदोऽदित्या भूमेः सम्बन्धि सदनं स्थानम् आसीद सर्वतः प्राप्नुहि तत्रोपविशेत्यर्थः ‘ अस्तभ्नाद् द्यामिति सोममालभ्य वाचयति ' ( का. श्रौ. ७.९.७ ) । वरुणदेवते त्रिष्टुभौ क्रीतसोमस्य वरुणदेवताकत्वाद् वरुणो ब्रह्मरूपेण स्तूयते । सोम एव वा सर्वदेवश्रेष्ठत्वादिना स्तूयते - वृषभः श्रेष्ठो वरुण, अपां वर्षिता कामानां । वा वर्षिता, द्यामस्तभ्नाद् द्युलोकं धारितवान् द्युलोको यथा न पतति तथा स्वकीययाऽऽज्ञया स्तम्भितवान्, सर्वप्राणिरक्षणाय तथान्तरिक्षमप्यस्तभ्नात् । तथा पृथिव्या वरिमाणं गुरुत्वं भूमेरुरुत्वं वा, उरोर्भावो वरिमा वरुणो तममिमीत मिमीते, एतावती भूमिरिति तत्परिमाणमहत्त्वं जानाति । तथा सम्राट् लोकत्रयेऽपि सम्यग्राजमानो मन्त्रार्थ - हे कृष्णाजिन! तुम पृथ्वी के त्वचा रूप हो, इस पवित्र भूमि पर आराम से बैठो को । पृथ्वी नियमित के विस्तार करता है को । जानने वाला सम्यक् प्रकाशमान ब्रह्म वरुण, आकाश और अन्तरिक्ष को स्थिर करता हआ संसार पर मृगचर्म यह सब कुछ जगत् का सृष्टि आदि कार्य वरुण देव ही करता है । इस मन्त्र को पढ़ते हुए यजमान शकट बिछाता है ॥ ३० ॥

भाष्यसार - याज्ञिक विनियोग के अनुसार ' अदित्यास्त्वक् ' इस मन्त्र से कृष्ण मृगचर्म बिछा कर उस पर ' अदित्यै ' मन्त्र से सोम का स्थापन किया जाता है । तदनन्तर सोम का स्पर्श करते हुए ' अस्तभ्नात् ' मन्त्र का पाठ करता है । कात्यायन श्रौतसूत्र में कहा गया है I ( ७.९.५-७ ) में प्रतिपादित इस विनियोग के अनुकूल अर्थ शतपथ ब्राह्मण

पृष्ठ 98

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 98 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ३० ] वेदार्थपारिजात भाष्यसहिता ८ ९ विश्वानि सर्वाणि भुवनानि लोकान् भूतजातानि वा आसीदद् व्याप्नोति । यद्वा इदित्यव्यय इत्थमर्थे । इद् इत्थं तानि द्युलोकस्तम्भनादीनि वरुणस्य व्रतानि व्रतवन्नियतानि, सर्वदैव वरुणस्तानि करोतीत्यर्थः । अथवा यश्च सम्राड् आसीदद्विश्वा भुवनानि सर्वाणि भूतजातानि आत्मत्वेनाधिपत्येन च आसीदति प्राप्नोति, अधितिष्ठति वा । विश्वेत्तानि विश्वा विश्वानि सर्वाणि, इद् एव सर्वाण्येव तानि द्युस्तम्भनादीनि वरुणस्य सर्वपापनिवारकस्य सोमस्य वा व्रतानि कर्माणि, अर्थाद् य इमांल्लोकान् स्तभ्नुवन्ति ये च सर्वजनान् व्याप्नुवन्ति तेऽपि वरुणस्याज्ञामेवानुसरन्तीति परब्रह्मरूपेण वरुणस्तुतिः । अध्यात्मपक्षे तु — हे सोम साम्बसदाशिव, त्वमदित्याः पृथिव्यास्तदुपलक्षितंस्य सर्वस्यैव, त्वगसि त्वग्वत् परिवृत्य स्थितोऽसि । अदित्याः सम्बन्धि सदः सदनं स्थानमा समन्तात् सीद प्राप्नोषि । किञ्च त्वं वृषभः कामानां वर्षयिता सर्वश्रेष्ठो वा । सर्वप्राणिनां हिताय द्यां दिवमस्तभ्नाद् धारितवानसि अन्तरिक्षं चाऽस्तभ्नात् पृथिव्याश्च वरिमाणं परिमाणमहत्त्वम् अमिमीत मिमीते । तथा सम्राट् सर्वत्र स्वप्रकाशत्वेन राजमानो विश्वानि इत् सर्वाण्यपि, भुवनान्यासीदद् लोकान् व्याप्नोषि । इद् इत्थं तानि सर्वाण्यपि पूर्वोक्तानि व्रतानि कर्माणि वरुणस्य सर्वपापनिवा-रकस्य सर्ववरणीयस्य तव सम्बन्धीनि । दयानन्दस्तु — ‘ अदित्याः पृथिव्यादेः त्वग् यस्त्वचति संवृणोति सः असि अस्ति वा । अत्र पक्षे सर्वत्र व्यत्ययः । अदित्यै पृथिव्यादिसृष्टये सदः स्थापनम् आसमन्तात् सीद सादयति सादयसि वा, व्यत्ययः । अस्तभ्नात् स्तभ्नासि स्तभ्नाति धरति वा । द्यां सूर्यादिकं प्रकाशं वा । वृषभः श्रेष्ठः, अन्तरिक्षमवकाशम् अमिमीत निर्मिमीते वा निर्मिमीषे वा । वरिमाणं वरस्य भावम् । पृथिव्या अन्तरिक्षस्य आकाशस्य मध्ये, ' पृथिवीत्यन्तरिक्षनामसु ' ( निघ. १.३.९ ) । आ सर्वत, असीदत् सादयसि, सादयत्यवसादयति वा । विश्वा सर्वाणि भुवनानि लोकान् सम्राड् यः सम्यग्राजते स विश्वा अखिलानि इद् एव तान्येतानि वरुणस्य परमेश्वरस्य सूर्यस्य वायोर्वा व्रतानि शीलानि ' इति । अन्वयस्तु — ' हे जगदीश्वर, यतो वृषभस्त्वमदित्यास्त्वगसि अस्ति, अदित्यै सद आसीद आसादयसि, द्यामस्तभ्नात् स्तभ्नासि, वरिमाणमन्तरिक्षममिमीत निर्मिमीषे, सम्राट् सन् पृथिव्या अन्तरिक्षस्य मध्ये विश्वा भुवनान्यासीद आसादयसि, अस्मात्तान्येतानि विश्वा सर्वाणि वरुणस्य सूर्यस्य वायोश्च तव देवव्रतानि शीलानि सन्तीति वयमपद्महि विजानीयामेत्येकः, यो वृषभः सम्राट् सूर्यो वायुश्चादित्यास्त्वगसि अस्ति, संवृणोत्यदित्यै सद आसीद आसादयति, द्यामस्तभ्नात् स्तभ्नाति वरिमाणमन्तरिक्षमवकाशममिमीत निर्मिमीते, पृथिव्या अन्तरिक्षस्य मध्ये विश्वा भुवनानि आसीद आसादयति, तस्य तान्येतानि विश्वा सर्वाणि वरुणस्य सूर्यस्य वायोश्चैतान्येव व्रतानि शीलानि सन्तीति वयमपद्महीति द्वितीयः ' इति, तदेतदसङ्गतमेव, परमेश्वरस्य त्वक्त्वानुपपत्तेः । न च सर्वव्यापकस्य सर्वावरकत्वेन पृथिव्या अपि तथात्वेनादित्यास्त्वक्त्वोपपत्तिरिति वाच्यम्, सर्वव्यापकत्वेन सर्वत्वक्त्वोपपत्त्या पृथिव्या इति अध्यात्मपक्ष में अर्थ इस प्रकार है— हे साम्बशिव! आप पृथिवी एवं समस्त पदार्थों को त्वचा की भाँति व्याप्त करके स्थित हैं, अदिति के आश्रय हैं, कामनाओं के पूरयिता अथवा सर्वोत्कृष्ट हैं । प्राणियों के हितार्थ द्युलोक तथा अन्तरिक्ष को आपने धारण किया है, पृथिवी के महत्त्व का निर्माण किया है । सर्वत्र स्वयंप्रकाश के रूप में प्रदीप्त रहते हुए समस्त लोकों को आप व्याप्त करते हैं । इस प्रकार सम्पूर्ण पापों का निवारण करने वाले पूर्वोक्त समस्त विशिष्ट कार्य आपके ही हैं । स्वामी दयानन्द का अर्थ असंगत है, क्योंकि परमेश्वर का त्वचा होना युक्तियुक्त नहीं है । ' अदित्यै ' का ' पृथिवी आदि पदार्थों की सृष्टि के लिये ' यह अर्थ भी उचित नहीं है । लोक व्यवस्था की स्थापना परमेश्वर का स्वभाव होने के कारण प्रलय की

पृष्ठ 99

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 99 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ० शुक्लयजुर्वेदसंहिता [ अ. ४ विशेष्योक्तेरयोगात् । ' अदित्यै ' इत्यस्य पृथिव्यादिसृष्टय इत्यर्थोऽपि नोपपद्यते, अदितिशब्दस्य तथार्थत्वे मानाभा-वात् । तथा च लक्षणापि नोपपद्यते, अन्वयाद्यनुपपत्तेरभावात् । हिन्दीव्याख्यारीत्या – ' सद आसीद ' इत्यस्य व्यवस्थापनमपि नार्थः मानाभावात् । ' सदः स्थापनं सीद सादयसि ' इत्यपि न किञ्चित् स्थापनस्यासादनासङ्गतेः । स्थापनमित्यस्य स्थापनयोग्यमित्यपि नार्थः सदः स्थापन इत्युभयोरपि तद्योग्यता नार्थः पदयोस्तत्राशक्तेः । अन्तरि-क्षस्य वरिमत्वं कथम्, तदपेक्षयापि दिवो वरिमत्वोपपत्तेः । पृथिव्या इत्यस्य अन्तरिक्षार्थत्वेऽपि ' मध्ये ' इति पदं कुतः समानीतम्? मूले तदभावात् । सूर्यस्य वायोश्चापि त्वक्त्वानुपपत्तौ पूर्वोक्त एव न्यायः । किञ्च, लोकव्यवस्था-पनस्य तच्छीलत्वे प्रलयानुपपत्तौ सदैव सृष्ट्यापत्तिः तथात्वे प्रलयप्रतिपादकशास्त्रविरोधश्च । अतः सिद्धान्तानुसा-येवार्थः समीचीनः । शतपथेऽपि सिद्धान्तसम्मत एवार्थः समर्थितः । तथाहि - ' नीडे कृष्णाजिनमास्तृणाति । अदित्यास्त्वगसीति सोऽसावेव बन्धुरथैनमासादयत्यदित्यै सद आसीदेतीयं वै पृथिव्यदितिः सेयं प्रतिष्ठा तदस्यामेवैनमेतत्प्रतिष्ठायां प्रतिष्ठापयति तस्मादाहादित्यै सद आसीदेति ' ( श. ३.३.४.१ ) । शकटमध्ये सोमस्थापनाय कृष्णाजिनास्तरणं समन्त्रकं विधते - कृष्णाजिनमिति । ' उद्धते प्रउग्ये फलके भवतः ' ( श. ३.३.४.९ ) । तदुद्धतप्रउग्ये फलकद्वयोपेत-स्थानसो नीडे, परितः प्रावृतः शकटमध्यदेशो नीडम्, अस्मिन् कृष्णाजिनं प्रसारयेत् । तत्रैवायं मन्त्रो विनियुक्तः । तस्मादयमेव मन्त्रार्थ: - हे कृष्णाजिन, त्वमदित्या भूमेस्त्वग्रूपमसि यद्यत् पृथिव्या उपरि स्तृतं तत्सर्वं तस्यास्त्व-क्स्थानीयमित्यर्थः । अर्थवादरूपत्वात् कृष्णाजिनमास्तृणातीति विधिस्तुतावेवास्य तात्पर्यम् । दर्शपौर्णमासगतं कृष्णाजिनस्तरणब्राह्मणम् ( श. १.१.४.५ ) अतिदिशति - सोऽसावेव बन्धुरिति । स एवास्य समानार्थको ऽर्थवादो ज्ञेय इत्यर्थः । अथैनं सोममासादयति - अदित्यै सद इत्यनेन मन्त्रेण । तदर्थस्तु - हे सोम, त्वमदित्यै अदित्याः सम्बन्धि सदः सदनं स्थानम्, आसीद सर्वतः प्राप्नुहि तत्रोपविशेत्यर्थः । पृथिव्याः पार्थिवादिसर्वास्पदत्वेन प्रतिष्ठा-त्वम् । तस्मात् प्रतिष्ठात्मकत्वादिति भावनया कृष्णाजिने आसादितोऽपि सोमोऽदित्यां प्रतिष्ठापितो भवति । तेनामुं मन्त्रं पठेत् । " अथैवमभिपद्य वाचयति । अस्तभ्नाद् द्यां वृषभो अन्तरिक्षमिति देवा ह वै यज्ञं तन्वानास्तेऽसुररा-क्षसेभ्य आसङ्गाद्विभयाञ्चक्रुस्त एनमेतज्ज्यायांसमेव वधाच्चक्रुर्यदाहास्तभ्नाद् द्यां वृषभोऽन्तरिक्षमिति ' ( श. ३.३.४.२ ) । अथैनमिति । एनं सोममभिपद्य आलभ्य अस्तभ्नादिति मन्त्रं वाचयत्यध्वर्युः । ' सोममालभ्य वाचयति ' ( का. श्रौ. ७.९.७ ) इति सूत्रमपि तथैवाह । मन्त्रार्थस्तु पूर्वोक्तरीत्यैव ज्ञेयः । वृषभोऽपां वर्षिता सोमः, अथवा सर्वदेवश्रेष्ठः सोमः उपरि द्यां दिवमस्तभ्नात् सर्वप्राणिरक्षणाय स्तम्भितवान् । किञ्च पृथिव्या वरिमाणं परिमाण-महत्त्वमप्यमिमीत इयती पृथिवीति मानं कृतवान् । स तादृशः सम्राट् सम्यग् राजमानः सोमो विश्वा विश्वानि भूतजातानि आसीदधिपतित्वेन अधिष्ठितवान् । तानीमानि विश्वानि सर्वाणि इद् अपि व्रतानि स्तम्भनादीनि वरुणस्य पापनिवारकस्य सोमदेवस्य सम्बन्धीनि सर्वे देवादयस्तमेवानुसरन्तीत्यर्थः । द्वयोरप्यनुष्टुभोर्वरुणदेवताक त्वेन क्रीतसोमस्य वरुणदेवताकत्वेन च वरुणो वा परब्रह्मबुद्ध्या स्तूयते । अमुं मन्त्रं चतुर्धा विभज्य व्याचष्टे-देवा ह वै यज्ञमित्यादिना । पुरा देवा एनमेव सोमम् एतद् एतस्मिन् प्रस्तुते कर्मणि, वधाद् असुररक्षःकृतोद्वेगात् सिद्धि नहीं होती तथा सर्वदा ही सृष्टि की स्थिति रहती है । ऐसी स्थिति में प्रलय प्रतिपादक शास्त्रों का विरोध भी होता है, अतः हमारे सिद्धान्तपक्ष के अनुसार अर्थ करना ही ठीक है ॥ ३० ॥

( १ ) अथैनमिति सायणसम्मतः पाठः । तथैव च व्याख्यायते ब्राह्मणम् ।

पृष्ठ 100

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 100 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ३०-३१ ] वेदार्थपारिजात भाष्यसहिता ९ १ तत्परिहाराय ज्यायांसं प्रशस्यतरं श्रेष्ठं चक्रुः । यदाह मन्त्रः - अस्तभ्नाद् द्यां वृषभोऽन्तरिक्षमिति । स पूर्वोक्त-ब्राह्मणोक्तप्रकारेण देवैः कृतत्वादाहेत्यर्थः । तस्मिन् मन्त्रभागे श्रेष्ठवाचकवृषभशब्दस्य श्रवणान्मन्त्रप्रभावाद्यशोवर्ण-नाच्च सोमस्य प्रतापवृद्धेरसुरादिपराभवाच्च । ' अमिमीत वरिमाणं पृथिव्याः ' इत्यत्र श्रुत्या अमिमीत वरिमाणं पृथिव्या इति सम्बन्धप्रदर्शनेन पृथिव्या अन्तरिक्षस्य मध्ये विश्वा भुवनान्यासादयतीति व्याख्यानमपास्तम्, ' अथैनमभिपद्य वाचयति ' ( श. ३.३.३.२ ) इति श्रुत्या सोमस्तुतौ मन्त्रस्य विनियुक्तत्वात् । हे जगदीश्वरेत्यादि सम्बोधनमप्यसङ्गतमेन, ' आसीदद्विश्वा भूतानि सम्रा-डिति । तदेनेनेदं सर्वमास्पृणोति तस्य हि न हन्तास्ति न वधो येनेदं सर्वमास्मृतं तस्मादाहासीदद्विश्वा भुवनानि सम्राडिति ' ( श. ३.३.४.४ ) । तत् तस्मात् सोमेन पृथिव्या मितत्वात् । एनेन बलप्रकाशनमन्त्रपाठेन, अथवा एनेन पृथिवीमानकर्त्रा सोमेन, इमान् द्युलोकादीन् त्रीनपि लोकान्, आस्पृणोति सर्वतो बलिनः कारयति । सोमस्य बलवत्त्वमर्थापत्त्या द्रढयति - तस्य हि न हन्तास्तीति । हन्तुर्हननस्य च लोकत्रयान्तः पातित्वात् तस्य चैतदार्थापत्यं येने लोका आस्मृतः बलिनः कृतास्तस्य सोमस्य सुतरां परमबलवत्त्वान्न कोऽपि हन्ता, न वा तस्य वधः सम्भवति । यस्मादेवं तस्मादमिमीत वरिमाणं पृथिव्या इति मन्त्रभागस्तमर्थमाह । अथवा तस्मात्तं मन्त्रभागं ब्रूयात्, ' सोममालभ्य ' ( का. श्रौ. ७.९.७ ) इति सूत्रात् । तृतीयपादस्यापि बलप्रकाशनार्थत्वात् पूर्वमेव ब्राह्मणं पुनः पठितम्-' सर्वमास्पृणोति येनेदं सर्वमास्पृतमित्येव तस्माद् ब्राह्मणाद् विशेषः । ' विश्वेत्तानि वरुणस्य व्रतानीति । तदस्मा इदं सर्वमनुवर्त्म करोति यदिदं किञ्च न कञ्चन प्रत्युद्यामिनं तस्मादाह विश्वेत्तानि वरुणस्य व्रतानीति ' ( श. ३.३.४.५ ) । चतुर्थपादार्थमाह - तदस्मा इति । इदं सर्वं भूतजातमनुवर्त्म तदधीनस्थितिकं कृतवान् भवति । प्रत्युद्यामः प्रतिकूलोद्योगः, तत्कर्तारं प्रत्युद्यामिनं न करोतीति । मन्त्रार्थस्तूक्त एव ॥३० ॥

वने॑षु व्यन्तरि॑क्षं ततान॒ वाज॒मव॑त्स॒ पय॑ उ॒स्त्रिया॑सु ।

हृत्सु॒ क्रतु॑ वरु॑णो वि॒क्ष्व॒ग्न दि॒वि सूर्यमदधात् सोम॒मद्रो॑ ॥ ३१ ॥

' वनेषु व्यन्तरिक्षमिति सोमपर्याणहनेन परितत्य कृष्णाजिनं पुरस्तादासजति सूर्यस्य चक्षुरिति ' ( का. श्रौ. ७.९.८ ) । वनेषु व्यन्तरिक्षमिति मन्त्रेण सोमपर्याणहनेन सोमबन्धनेन वाससा बद्धं सोममत्यन्तं वेष्टयित्वा सूर्यस्य चक्षुरिति मन्त्रेण आसनार्थयोः कृष्णाजिनयोर्मध्ये एकं कृष्णाजिनं ध्वजस्थानीयं शकटस्य पूर्वभागे युगसमीपे उच्छ्रितदण्डेऽवगलयेत् । ' अथैनं वाससा परितनोति वनेषु ' इति बौधायनोऽपि तथैवाह । वरुणः सर्वावरणसमर्थः सोऽग्रेषु वनेषु वनगतवृक्षाग्रेष्वन्तरिक्षं विततान । वीत्युपसर्गस्ततानेति क्रियापदेन सम्बद्ध्यते । तत्रावरणद्रव्याभावा-मन्त्रार्थ - वरुणस्वरूप विष्णु ने वन के वृक्षों के ऊपर आकाश को फैलाया है । पुरुषों में वीर्य को गायों में दूध को, हृदय में संकल्पात्मक मन को, प्रजाओं में जाठर अग्नि को, द्युलोक में सूर्य को, पर्वतों पर वल्ली ( लता ) रूप सोम को स्थापित करने वाला वरुण देवता ही है । इस मन्त्र से यजमान सोम को वस्त्र में बांध कर रखता है ॥ ३१ ॥

भाष्यसार - कात्यायन श्रौतसूत्र ( ७.९ ८ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' वनेषु ' इस कण्डिका के द्वारा सोम का बन्धन किया जाता है । तैत्तिरीय श्रुति तथा शतपथ ब्राह्मण आदि में इस विनियोग के अनुकूल व्याख्यान उपलब्ध होता है ।