वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 111–120
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 111–120
पृष्ठ 111
पाठ पढ़ें पाठ छिपाएँ
१०२ शुक्लयजुर्वेदसंहिता [ अ. ४ यूयमपि शंसत कुरुत इत्येकः नमः सत्करणमन्त्रं वा, नम इत्यन्ननामसु पठितम् । मित्रस्य सर्वसुहृदः प्रकाशकस्य वा वरुणस्य श्रेष्ठस्य चक्षसे सर्वद्रष्टुर्दर्शयितुर्वा, षष्ठ्यर्थे चतुर्थी । महो महसे, देवाय दिव्यगुणाय । तत् चेतनस्वरूपं प्रकाशस्वरूपम् ऋतं सत्यं सपर्यत परिचरत । दूरेदृशे दूरे स्थितान् दर्शयति तस्मै । देवजाताय दिव्यगुणैः प्रसिद्धाय । केतवे विज्ञानस्वरूपाय ज्ञापकाय वा । दिवः प्रकाशस्वरूपस्य पुत्राय पवित्रकारकाय अग्निपुत्राय वा सूर्याय चराचरात्मने परमैश्वर्यहेतवे शंसत प्रशंसत इति पदार्थः । हे मनुष्याः, यथा वयं यन्मित्रस्य वरुणस्य दिवः प्रकाशस्वरूपस्य सूर्यलोकस्य यथार्थस्वरूपं सेवेमहि तद् यूयमपि विद्यया सपर्यत । यथा वयं यस्मै चक्षसे देवजाताय केतवे दिवोऽग्नेः पुत्राय दूरेदृशे महो देवाय सूर्याय लोकाय प्राप्त्यर्थं प्रवर्तेमहि, तथा यूयमपि प्रवर्तध्वमिति द्वितीयोऽन्वयः । प्रथमान्वये परमेश्वरस्य स्तुतिः, द्वितीये सूर्यलोकस्य ' इति, तदपि यत्किञ्चित्, विसङ्गतेः नम इत्यस्य प्रकृतेऽन्नार्थतानुपपत्तेश्च । सूर्यपक्षे सत्कर-णमप्यसङ्गतम्, त्वया तस्य जडत्वाभ्युपगमात्, जडपूजाया अपसिद्धान्ताच्च । दिव्यगुणैः प्रसिद्धायेत्यप्यसङ्गतम्, जातपदस्य प्रसिद्धार्थतासङ्गतेः । दिवस्पुत्रायाग्निपुत्रायेत्यप्यसङ्गतम्, तस्याग्निवाचकत्वे प्रमाणाभावात् । द्योतनात्मकत्वं तु विद्युत्सू-र्यादिषु व्यभिचरति । यथा वयं तथा यूयमित्यादिलुप्तोपमालङ्काराश्रयणमपि निर्मूलमेव, श्रुतिसूत्रविरोधाच्चेति । शतपथे तु — ' अथ सुब्रह्मण्यामाह्वयति । यथा येभ्यः पक्ष्यन् स्यात्तान् ब्रूयादित्यहे वः पक्ताऽस्मीत्येवमेवैतद् देवेभ्यो यज्ञं निवेदयति सुब्रह्मण्यो ३ सुब्रह्मण्यो ३ मिति ब्रह्म हि देवान् प्रच्यावयति त्रिष्कृत्व आह त्रिवृद्धि यज्ञः ' ( श. ३.३.४.१७ ) । देवानामाह्वानसाधनो मन्त्रोऽत्र ब्रह्मपदेनोच्यते । शोभनं ब्रह्म सुब्रह्म, तदर्हतीति सुब्रह्मण्या काचन देवता, तामाह्वयति सुब्रह्मण्यो ३ मिति निगदेन त्रिराह्वानम् । यथा लोके येभ्योऽर्थाय पक्ष्यन् पाकं कर्तुमिच्छन् भवति तान् ब्रूयाद् इत्यहे वः पक्तास्मीति । इतो द्वितीये तृतीये वा दिवस इत्येवंरूपेण तथैव देवेभ्यो वक्तव्यम् । ननु मन्त्रेणाह्वानेऽपि परमैश्वर्यशाली इन्द्रः कथमेष्यतीति तत्राह — ब्रह्म देवान् प्रच्यावयतीति, ' वायवायाहि दर्शत ' ( ऋ. सं. १.२.१ ) इति मन्त्रवर्णात् । सवनत्रयापेक्षया यज्ञस्य त्रिवृत्त्वम् । ' इन्द्रागच्छेति । इन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्रागच्छेति हरिव आगच्छ मेधातिथेर्मेषवृषणश्वस्य मैने गौरावस्कन्दिन्नहल्यायै जारेति तद्यान्येवास्य चरणानि तैरेवैनमेतत् प्रमुमोदयिषति ' ( श. ३.३.४.१८ ) । इन्द्रागच्छेत्यादिभिरिन्द्रस्याह्वानम् । सवितैवाहनि लीयमानतया रात्रेरहल्यापदवाच्यायाः क्षयात्मक-जरणहेतुत्वाज्जीर्यत्यस्मादित्यहल्यायै जार इन्द्र उच्यते । पुराणप्रसिद्धाहल्यायाः परस्त्रियः सम्बन्धेन वा देवराजस्या-हल्याजारत्वप्रसिद्धिः । तस्य ब्रह्मविद्याप्रशंसार्थमुच्यते - ' त्रिशीर्षाणं त्वाष्ट्रमहनम्, अवाङ्मुखान् यतीन् सालावृकेभ्यः प्रायच्छम् । तस्य मे तत्र न लोम च नामीयत ' ( कौ. बा. उ. ३.१ ) इति ब्रह्मविद्याप्रभावेण निषिद्धादपि कर्मणस्तस्य लोमापि च न विकृतमिति तदीयतथाचरणवर्णनापि स्तुतिरेव । ' कौशिक ब्राह्मण गौतम बुवाणेति ' ( श. ३.३.४.१ ९ ) । यान्येव चरणानि चरित्राणि पूर्वपक्षापरपक्षलक्षणाभ्यामभिमतस्य वस्तुनो हरणं मेधातिथेः काण्वायनेर्मेषो भूत्वा हरणम्, तैरेवैनं प्रमुमोदयितुमिच्छति, ' देवा ब्रह्माण आगच्छतेति ' ( श. ३.३.४.२० ) । तद्देवांश्च ब्राह्मणांश्चात्रास्मिन् यज्ञे द्विविधै-रुभयैर्देवैर्ब्राह्मणैश्च यष्टव्यत्वेन याजकत्वेनार्थः प्रयोजनं यज्ञसिद्धिर्यजमानस्येति द्विविधानामपि देवानामाह्वानं भवति । ' अथ प्रतिप्रस्थाता । अग्रेण शालामग्नीषोमीयेण पशुना प्रत्युपतिष्ठतेऽग्नीषोमौ वा एतमन्तर्जम्भ आदधाते यो दीक्षत आग्नावैष्णवं ह्यदो दीक्षणीयं हविर्भवति यो वै विष्णुः सोमः स हविर्वा एष देवानां भवति यो दीक्षते तदेनमन्तर्जम्भ आदधाते तत्पशुनात्मानं निष्क्रीणीते ' ( श. ३.३.४.२१ ) । अथ सुब्रह्मण्याह्वानानन्तरं प्रतिप्रस्थाताऽग्नीषोमीयेण पशुना भी असंगत है, क्योंकि उनके मत में सूर्य जड है तथा इस प्रकार का अर्थ करने पर जडपूजा का सिद्धान्त स्वीकार करना होगा, जो कि उनको अभीष्ट नहीं है । ' दिवस्पुत्राय ' का अर्थ ' अग्निपुत्र के लिये ' करना भी असंगत है, क्योंकि इस शब्द के अग्निवाचकत्व में कोई प्रमाण नहीं है ॥ ३५ ॥
पृष्ठ 112
पाठ पढ़ें पाठ छिपाएँ
म. ३५-३६ ] वेदार्थपारिजात भाष्यसहिता १०३ प्रत्युपतिष्ठते । प्रतिप्रस्थाता शालायाः पुरो देशेऽग्नीषोमीयं पशुमादाय गच्छतः सोमस्याभिमुखं स्थापयेत् । अग्नी-षोमीयस्यावस्थितिं यजमानस्यात्मनिष्क्रयरूपेण प्रशंसति — ' यो दीक्षते अग्नीषोमौ वेति । एतं दीक्षितमन्तर्जम्भे, अन्न-खादनस्थानं जम्भ; दन्तपङ्क्त्योरन्तराले आदधाते । तदेवोपपादयति — आग्नावैष्णवं ह्यद इति । यस्मादस्य यजमानस्य अदो विप्रकृष्टकाले दीक्षणीयेष्टौ हविरभूत् । अस्तु किं तत इत्याह- तत्र विष्णुर्योऽस्ति स सोमः । सोमस्य यागनिर्वर्तकत्वेन यज्ञत्वम् । यज्ञस्य च विष्णुत्वं प्रसिद्धमेव, ' यज्ञो वै विष्णुः ' ( श. १.१.२.१३ ) इति श्रुतेः । दीक्षा संस्कारः । दीक्षणी-येष्टिसंस्कृतत्वादेव दीक्षणीयेष्टिदेवतयोश्च हविश्च एनं जम्भे स्थितं यजमानम्, अतो जम्भाद्विमोक्षायाग्नीषोमीयं पशुं दत्त्वा आत्मनिष्क्रयणं कृतवान् भवतीत्यर्थः । ‘ तद्धैके 1 । आहवनीयादुल्मुकमाहरन्त्ययमग्निरयं सोमस्ताभ्यां सहसद्भ्यां निष्क्रेष्यामह इति वदन्तस्तदु तथा न कुर्यात् यत्र वा एतौ क्व च तत्सहैव ' ( श. ३.३.४.२२ ) । अयमुल्मुकरूपोऽग्निः अयं सोमः ताभ्यां सकाशादात्मानं निष्क्रेष्यामह इत्युल्मुकस्याहर्तुरभिप्रायः । अमुं पक्षं निराकरोति — तदु तथा न कुर्यादिति । तर्हि कथं सहभाव इति, तत्राह — यत्र वा एतौ क्व च तत्सहैव । एतौ अग्नीषोमौ यत्र क्व च स्थाने वर्तेते तत्तादृद्रूपा स्थितिरेव सहभावः । ' सवै द्विरूपो भवति । द्विदेवत्यो हि भवति देवतयोरसमदे कृष्णसारङ्गः स्यात् ' ( श. ३.३.४.२३ ) । द्वैरूप्यसिद्धयेऽपेक्षितौ वर्णावाह — कृष्णसारङ्गः स्यादित्याहुरिति । देवतयोरसमदेऽविरोधाय । सारङ्गः शबलवर्णः । कृष्णत्वं शबलत्वमेतयो-रग्नीषोमयो रूपतममिवात्यन्तमभिमतं रूपम्, ' आग्नेयः कृष्णग्रीवः ' ( वा. सं. २४.१ ), ' कृष्णग्रीवा आग्नेयाः ' ( वा. स. २४.६, ९, १४ ) इत्यादावग्नेः कार्यसम्बन्धश्रवणात् तदेव तदुचितं रूपम् । सारङ्गरूपस्य सोमयोग्यत्वमपि श्राद्धावल्यां द्रष्टव्यम् । तदलाभे वा लोहितसारङ्ग, लोहितस्याग्निवर्णसाम्यं प्रसिद्धम् । ' तस्मिन् वाचयति नमो मित्रस्य वरुणस्य चक्षसे महो देवाय... शंसतेति नम एवास्मा एतत्करोति मित्रधेयमेवैनेनैतत्कुरुते ' ( श. ३. ३.४.२४ ) । तस्मिन् कृष्णसारङ्गे, आगत इति शेषः । ‘ नमो मित्रस्येत्येनमालभ्य वाचयति ' ( का.श्रौ. ७.९.१ ९ ) इति कात्यायनः । मन्त्रार्थस्तूक्त एव । अनेन मन्त्रेणास्मानेवं करोति, एनं मित्रधेयमेव करोति ॥ ३५ ॥
वरु॑णस्य॒त्त॒म्भ॑न॒मसि॒ वरु॑णस्य स्कम्भ॒सर्जनी स्थ॒ वरु॑णस्य ऋत॒सद॑न्यसि॒ वरु॑णस्य ऋत॒सद॑न॒मसि॒ वरु॑णस्य ऋत॒सद॑न॒मासीद ॥ ३६ ॥
' समीपेऽन उपस्थाप्योत्तम्भनेनोपस्तभ्नाति वरुणस्योत्तम्भनमिति ' ( का. श्रौ. ७.९.२२ ) । शालायाः समीपे शकटमुपस्थाप्य उत्तम्भनकाष्ठेन निरुणद्धि वरुणस्योत्तम्भनमिति मन्त्रेण । मन्त्रार्थस्तु — उत्तम्भनम्, उत्तभ्यते शक-मन्त्रार्थ - हे काष्टाभिमानी देवता! तुम वरुण देवता की प्रीति के लिये इस शकट में वस्त्र से बँधे सोम के उन्नायक हो । हे शम्या! तुम दोनों वरुण को रोकने वाली हो । हे आसनादि! तुम वरुण देवता की प्रीति के लिये यज्ञ की प्रीति का स्थान हो । हे कृष्णाजिन! तुम वरुण की प्रीति के लिये अथवा कपड़े में बंधे सोम के यज्ञ के निमित्त बैठने के स्थान हो । हे सोम! तुम वरुण देवता की प्रीति के लिये लाये गये हो । तुम यज्ञसंबन्धी आसनादि पर बिछे हुए मृगचर्म पर आराम से बैठो || इस मन्त्र को पढ़ते हुए यजमान यज्ञशाला के नजदीक शकट को पूर्वमुख या उत्तरमुख खड़ा करता है और बैलों को जुए से अलग कर देता है । बाद में आसनादि पर मृगचर्म बिछा कर उस पर सोमवल्ली की गांठ को रखता है ॥ ३६ ॥
भाष्यसार - - कात्यायन श्रौतसूत्र ( ७.९.२२-२७ ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' वरुणस्य ' इत्यादि कण्डिकागत मन्त्रों का शकट के स्थापन, सोम को स्थापित करने के लिये गूलर की आसन्दी ( मंचिका ) के आहरण एवं स्पर्श, उस मंचिका ( चौकी ) पर कृष्ण मृगचर्म के आस्तरण, सोम के स्थापन- इन कार्यों में विनियोग है ।
पृष्ठ 113
पाठ पढ़ें पाठ छिपाएँ
१०४ शुक्लयजुर्वेदसंहिता [ अ. ४ टस्य मुखाग्रमुन्नतत्वेन स्थाप्यते यस्मिन् काष्ठे तत्काष्ठमुत्तम्भनम् । हे काष्ठ, त्वं वरुणस्य व्रियते वेष्ट्यते वस्त्रादिनेति वरुणः सोमः । वरुणदैवतत्वाच्च पञ्चस्वपि मन्त्रेषु वरुणपदेन सोमो गृह्यते । उपचाराच्च सायणाचार्येण शकटोऽपि वरुणशब्देन गृहीतः । वरुणस्य बन्धकारित्वाद् वस्त्रादिबद्धः सोमो ऽपि वरुणशब्देनोच्यते । तस्य शकटे स्थितत्वाद् वरुणशब्देन शकटमुपचर्यते । यद्वा वरुणस्य वस्त्रबद्धस्य सोमस्यैवोत्तम्भनमसि न शकटस्य । उपनह्य स्थापितस्य सोमस्य त्वमुत्तम्भनमसि । यद्यप्युपस्तम्भनकाष्ठस्य शकटेनैव सम्बन्धः, तथापि शकटस्योत्तम्भकत्वात् तद्द्वारा वरुणस्योपनह्य तत्र स्थापितस्य सोमस्याप्युपस्तम्भकत्वमिति । ' शम्ये चोद्बृहति वरुणस्य स्कम्भसर्जनी-स्थेति ' ( का. श्रौ. ७.९.२३ ) इति शम्ये युगकीलके ऊर्ध्वं निष्काशयेत् । वरुणस्य शकटस्य युगे बद्धयोर्बलीवर्दयो-र्गलस्य बहिर्भागे काष्ठनिर्मिते शम्ये स्थाप्येते । ताभ्यां बलीवर्दयोरितस्ततो गमननिवारणं भवति । ते ततः स्कम्भशब्देनोच्येते । हे शम्ये, वरुणस्य शकटस्य बद्धस्य सोमस्य वा युवां स्कम्भनी स्कम्भितुमवरोद्धुं सृज्यमाने भवथः । ' स्कम्भ रोधने, सर्ज अर्जने ' । स्कम्भनं स्कम्भो रोधः, सर्ज्यते क्रियते याभ्यां ते स्कम्भसर्जन्यौ । विभक्तेः पूर्वसवर्णः । यद्वा स्कम्भशब्देन युगमुच्यते, तस्य सर्जनी वशीकरण्यौ वरुणस्य युवां हे शम्यौ स्कम्भसर्जनी स्थो भवथः । ' औदुम्बरीमासन्दीं नाभिदघ्नामरनिमात्राङ्गीमूतामाहरन्ति चत्वारः अभिमृशत्येनां वरुणस्य ऋतसदन्यसीति ' ( का. श्रौ. ७.९.२४-२५ ), ( अध्वर्यु- प्रतिप्रस्थातृ- नेष्टृ - नेतारः ' ( आप श्रौ. १०.२ ९.७ ) । नाभिप्रमाणपादयुतामरलि-मात्राङ्गीं मुञ्जरज्ज्वा व्यूतामौदुम्बरीमासन्दीं मञ्चिकामानयेयुः । एनामासन्दी हस्तेन स्पृशति यजमानो वरुणस्य ऋतसदन्यसीति मन्त्रेण । वरुणशब्देनात्र बद्धः सोम उपलक्ष्यते । हे आसन्दि, त्वं वरुणस्य वस्त्रादिना बद्धस्य सोमस्य सम्बन्धिनी ऋतसदनी ऋतं यज्ञस्तन्निष्पत्त्यर्थमुपवेशनस्थान भूतासि । ऋताय यज्ञाय सद्यत उपविश्यते यस्यां सा ऋतसदनी, ‘ करणाधिकरणयोश्च ' ( पा. सू. ३.३.११७ ) इति ल्युटि रूपम् । ' कृष्णाजिनमस्यामास्तृणाति वरुणस्य ऋतसदनमसीति ' ( का. श्री. ७.९.२६ ) । हे कृष्णाजिन, त्वं वरुणस्य बद्धस्य सोमस्य सम्बन्धि ऋतसदन-मसि यज्ञार्थमुपवेशनस्थानमसीति । ' तस्मिन् सोमं निदधाति वरुणस्य ऋतसदनमासीदेति ' ( का. श्रौ. ७.९.२७ ) । तस्मिन् कृष्णाजिने हे सोम, त्वं वरुणस्य वस्त्रबद्धस्य तव सम्बन्धिनीमृतसदनीं यज्ञार्थमुपवेशनस्थानभूतामासन्दीं प्राप्य आसीद सुखेनोपविश । अध्यात्मपक्षे तु — ' हे सोम परमेश्वर, त्वं वरुणस्य वरणीयस्य मोक्षादेरुत्तम्भनमसि धारकोऽसि । हे चितिप्रकृती, युवां स्कम्भस्य दोषाणामवरोधाय सृष्टे स्थः । उभयोरनादित्वेऽपि तत्तदुपाधिभिः सृष्टत्वव्यवहारः । यद्वा स्कभ्नोति निगृह्णाति सर्वान् दोषान् सर्वाणि कर्माणि सर्वान् संशयानिति स्कम्भो ब्रह्मात्मसाक्षात्कार, तस्य सर्जन्यौ निर्मात्र्यौ स्थः, चरमवृत्तिरूपस्य ब्रह्मात्मसाक्षात्कारस्योभयात्मकत्वात् । हे चिते, त्वं वरुणस्य वरणीयस्य मोक्षस्य ऋताय अबा-धितपदप्राप्तये सद्यत उपविश्यते तादात्म्येन यस्यां सा ऋतसदनी असि । हे जीवात्मन् त्वं ऋतस्य ब्रह्मणः सत्यस्य सदनमावासस्थानमसि, प्रत्यक्चैतन्याभेदेन तस्य परमानन्दात्मनाऽभिव्यञ्जनात् । हे ब्रह्मन् ऋतसदनमृतस्य सत्यादे -गुणसमूहस्य सदनं जीवात्मानमभिलक्ष्य तदभेदेन चासीद प्रादुर्भूय स्थिरो भव । अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है - हे साम्बपरमेश्वर! आप प्राप्तव्य वांछित मोक्षादि के धारक हैं । हे चिति एवं प्रकृति शक्तियों, आप दोनों दोषों के अवरोध के लिये बनाई गई है अथवा ब्रह्मात्मसाक्षात्कार की निर्मात्री हैं । हे चिति! तुम प्राप्तव्य मोक्ष की प्राप्ति की स्थानभूता हो । हे जीवात्मा! तुम सत्य ब्रह्म के आवासस्थान हो! हे ब्रह्मन्! आप सत्यादि गुणसमूह के स्थान जीवात्मा के प्रति सुस्थिर हों ।
पृष्ठ 114
पाठ पढ़ें पाठ छिपाएँ
म. ३६ ] वेदार्थपारिजात भाष्यसहिता ९ ०५ श्रीदयानन्दस्तु — ' वरुणस्य वरितुं प्राप्तुं योग्यस्य श्रेष्ठस्य जगत उत्तम्भनम् उत्कृष्टं बन्धनमसि, अस्ति वा । वरुणस्य वायो, ‘ वरुण इति पदनामसु ' ( निरु. ५.४ ), अनेन ज्ञानप्राप्तिगमनवतोऽर्थस्य ग्रहणम् । स्कम्भसर्जनी या क्रिया स्कम्भानामाधारकाणां सर्जनी उत्पादिका सा स्थः स्तः । वरुणस्य सूर्यस्य ऋतसदनी या क्रिया ऋतानां जलानां सदनी गमनागमनकारिणी असि, अस्ति वा । वरुणस्य वरपदार्थसमूहस्य ऋतसदनम् ऋतानां यथार्थानां पदार्थानां सदनं स्थानम् । वरुणस्य उत्कृष्टगुणसमूहस्य ऋतसदनं यदृतानां सत्यानां बोधानां स्थानम्, तत आसमन्तात् सीद प्रापयसि, प्रापयति वा ' इत्यादिकम्, तदपि मोहमूलकमेव, शब्दमर्यादातिक्रमणात् । तथाहि— वरितुं प्राप्तुं योग्यस्य जगतो वरुणत्वे मोक्षाकाङ्क्षानुपपत्तेः । परमेश्वरं सम्बोध्य हे मरमेश्वर, त्वं वरुणस्य श्रेष्ठस्य जगत उत्कृष्टं प्रतिबन्धनमसीति निरर्थकं वचः । नहीश्वरः श्रेष्ठस्य जगतः प्रतिबन्धनं भवति, प्रत्युत निकृष्टस्यैव प्रतिबन्धनमस्ति । तथैव वरुणपदस्य पदनामत्वेऽपि ज्ञानप्राप्तिगमनवान् पदार्थः कथं गृह्येत? यदि तु ' वरुणपदेन वायुपदं गृह्यते, वायुपदेन ' वा गतिगन्धनयो: ' इति निष्पन्नेन गत्यर्थतायां प्राप्तिज्ञाने गृह्येते ' इति, तदपि रिक्तं वच, इन्द्रपदादिग्रहणे विनिगमनाविरहात् । एवं ' हे जगदीश्वर, या क्रिया स्कम्भानामाधारकाणां सर्जनी सा त्वमसि ' इत्यप्यसङ्गतम्, ईश्वरस्य क्रियारूपत्वेऽनित्यत्वापत्तेः । क्रियायाः साश्रयत्वनियमादीश्वरस्याप्यन्याश्रयत्वापत्तिः । तथात्वे आधेयानां सर्जनी काचिदन्या क्रिया वक्तव्या । सा च नोपपद्यते, परमेश्वरस्यैव सर्वोत्पादकत्वाङ्गीकारविरोधात् । यद्यपि ' वरुण एव सविता ' ( जै. उ. ४.२७.३ ), ' स वा एष अपः प्रविश्य वरुणो भवति ' ( कौ. १८.९ ), ' वरुणो वै देवानां राजा ' ( श. १२.८.३.११ ) इत्यादिभिर्वरुणपदस्य सूर्यादयोऽर्थाः सम्भवन्ति, तथापि सूर्यस्य ऋतानां जलानां सदनी गमनागमनकारिणी क्रियापि परमेश्वर एव चेत् तदा तस्यानेकरूपत्वापत्तिः स्यात् । तथात्वे तवापसिद्धान्ता-पात; परमात्मनः सर्वरूपत्वेऽद्वैतप्रसक्तिश्च । एवं वरपदार्थसमूहस्य ऋतानां यथार्थानां पदार्थानां सदनं स्थानमसीत्य-प्यपव्याख्यानम्, वरपदार्थेषु वरपदार्थान्तरासम्भवात् । नहि वरपदार्थेषु यथार्थाः पदार्था अन्ये सम्भवन्ति, तथात्वे वरपदार्थानामयथार्थपदार्थत्वापातात् । सीदेत्यस्य प्रापयसीत्यर्थोऽप्यसङ्गतः लक्षणायां बीजाभावात् । द्वितीयान्वयेऽपि ' यो वरुणस्योत्तम्भनं धारकोऽस्ति, या वरुणस्य स्कम्भसर्जनी, या च वरुणस्य ऋतसदनी क्रिये स्थः, तयो-र्धारकोऽस्ति ' इत्यत्र स क इति न निरूपितम् ईश्वरस्याभिन्ननिमित्तोपादानकत्ववादिरीत्या सर्वात्मत्वे सम्भवत्यपि तदन्यस्य तदनुपपत्तेः । किञ्च, ' स्थः ' इति क्रियापदं ' स्कम्भसर्जनी ' इति पदेन सम्बद्ध्यते, न ऋतसदनीति पदेन, ' ऋतसदन्यसीति ' विरोधात् । तस्मात् सर्वथा पदपदार्थसम्बन्धबोधविधुरस्यैव तादृशं व्याख्यानं शोभते । एवं पदे पदे स्खलन्नपि परमाचार्याणामुव्वटसायणमहीधराणां दोषाभासानुद्घाटयन्त्र जिहेतीत्याश्चर्यमेव । शतपथश्रुतिस्तु सिद्धान्तसम्मतमेव व्याख्यानं समर्थयते । तथाहि - ' अथाध्वर्युरारोहणं विमुञ्चति । वरुण-स्योत्तम्भनमसीत्युपस्तम्भनेनोपस्तभ्नाति वरुणस्य स्कम्भसर्जनी स्थ इति शम्ये उगृहति स यदाह वरुणस्य स्वामी दयानन्द का अर्थ शब्दों की मर्यादा का अतिक्रमण करने के कारण अज्ञानजन्य ही है । उस अर्थ के अनुसार वरणीय प्राप्तव्य जगत् के वरुण होने पर मोक्ष की आकांक्षा ही संगत नहीं होती । परमेश्वर को सम्बोधित करते हुए -- ' हे परमेश्वर, आप वरुण अर्थात् श्रेष्ठ जगत् के उत्कृष्ट प्रतिबन्धक हैं ' यह वाक्यरचना निरर्थक है, क्योंकि ईश्वर श्रेष्ठ जगत् का प्रतिबन्धक नहीं होता, अपितु निकृष्ट का ही प्रतिबन्धक है । इसी प्रकार अन्यत्र भी प्रत्येक पद पर त्रुटि करते हुए भी प्राचीन आचार्यो — उव्वट, सायण, महीधर आदि के वृथा दोषों का उल्लेख करते हुए इनको संकोच नहीं होता, यह आश्चर्य ही है । शतपथ श्रुति भी हमारे सिद्धान्त-सम्मत व्याख्यान का ही समर्थन करती है ॥ ३६ ॥
पृष्ठ 115
पाठ पढ़ें पाठ छिपाएँ
१०६ शुक्लयजुर्वेदसंहिता [ अ. ४ स्कम्भसर्जनी स्थ इति वरुण्यो ह्येष एतर्हि भवति यत्सोमः क्रीतः ' ( श. ३.३.४.२५ ) । अथाध्वर्युरारोहणमारु-ह्यतेऽस्मिन्नित्यारोहणं शकटं विमुञ्चति बलीवर्दस्कन्धाभ्यां शकटयुगात् शम्ये ऊर्ध्वं निष्काश्य बलीवर्दी पृथक्कृत्य शकटाग्रमुपस्तम्भनेनोपस्तभ्नाति । उपस्तभ्यते प्रतिबध्यत इत्युपस्तम्भः शकटाग्राधारकाष्ठम्, तेनोपस्तभ्नाति शकटा-ग्रम् । हे काष्ठ, त्वमुपना स्थापितस्य सोमस्योत्तम्भनमसि शकटस्योत्तम्भकत्वात् तद्द्वारा वरुणस्याप्युत्तम्भकत्व-मिति । ' हे शम्ये ' इति द्विवचनेन सम्बोध्य ' स्कम्भसर्जनी स्थ ' इति शम्ययोः समन्त्रकमुद्धरणं विधत्ते – वरुणस्य स्कम्भसर्जनी स्थः । वरुणस्य सोमस्य तदाश्रयभूतस्य शकटस्याङ्गस्य यत्स्कम्भनं तस्य सर्जन्यौ स्रष्ट्यौ स्थ; तस्यावरोधार्थं वा सृष्टे स्थः । तादृश्यौ युवामुद्गृह्णामीत्यर्थः । ततः ' स्थः ' इति द्विवचनान्तक्रिया सङ्गच्छते । एतेन स्कम्भसर्जनी आधारकाणामुत्पादिका क्रियेत्यादिव्याख्यानमज्ञानमूलकमेव । ‘ वरुण्यो ह्येष एतर्हि भवति यत्सोमः ’ ( श. ३.३.४.२५ ) ( एतस्मिन्नवसरे क्रीतावसरे सोमो वरुण्यो भवति ) इति श्रुत्या क्रीतस्य वाससा वेष्टितस्य सोमस्य वरुण्योक्त्या मन्त्रे वरुणपदेन सोमो गृह्यते । एतेन ' वरुणपदेन श्रेष्ठं जगत् वायुर्वा सूर्यो वा, उत्कृष्टगुणसमूहः श्रेष्ठपदार्थसमूहो वा ' इत्यादिव्याख्यानमप्यपव्याख्यानमेव मन्तव्यम्, स्वेच्छाचारमूलकत्वात् । ' अथ चत्वारो राजासन्दीमाददते । द्वौ वा अस्मै मानुषाय राज्ञ आददाते अथैतां चत्वारो योऽस्य सकृत् सर्वस्येष्टे ' ( श. ३.३.४.२६ ) । कात्यायनादिसूत्राणि ब्राह्मणानुसारीण्येव । तेष्वप्रामाण्यशङ्कोत्थापनमप्यनभिज्ञतामूलक प्राग्वंशं मेव । चत्वारोऽत्राध्वर्युप्रतिप्रस्थात्रादयोऽध्वर्युवर्ग्या एव । तथा चापस्तम्बः — ' तां सर्वेऽध्वर्यवोऽग्रेण । राजन्योद्गह्यमान उद्गृह्णन्ति ' ( आप. श्री. १०.२ ९.७ ) । व्यतिरेकप्रदर्शनमुखेन ऋत्विवचतुष्ट्वं प्रशंसति - द्वौ वेति मानुषाय राज्ञ आन्दोलिकां द्वौ पुरुषा आददाते । योऽस्य प्रतीयमानस्य सर्वस्यैव जगतः सकृद् उपायेनैव ईष्टे ईश्वरो भवति । अथ एतामेतदीयां सोमसम्बन्धिनीमासन्दीं चत्वार आददते । ' औदुम्बरी भवति । अन्नं वा ऊर्गुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरी भवति ' ( श. ३.३.४.२७ ) । आसन्द्या औदुम्बरीत्वविधानं प्रशंसति – औदुम्बरीति । ' देवा इषमूर्जं व्यभजन्त ' ( ऐ. ब्रा. ५.२४ ) । अन्नमूर्क्, ऊर्गुदुम्बरो भवति । तस्मादन्नाद्यस्यावरुद्ध्यै वशीकाराय औदुम्बरी आसन्दी भवति । नन्वन्नाद्यस्यावरुद्ध्यै इत्युदु-म्बरस्य फलविधानम्, कुतः? ' अवरुद्ध्यै ' इति चतुर्थ्या फलत्वप्रतिभानादिति चेन्न, औदुम्बरी भवतीत्यत्र वर्तमान-व्यपदेशेन विधिप्रत्ययाभावेन विध्यभावात् । किन्त्वर्थवादेन विधिः कल्पनीयः, औदुम्बरस्य विधातुमशक्यत्वात् तत्फलत्वानुपपत्तेः । न च फलं स्तुतिं चार्थवाद एव सम्पादयत्विति वाच्यम्, वाक्यभेदप्रसङ्गात् । तेन स्तावकमेवेदं वचनम् | ' नाभिदघ्ना भवति । अत्र वा अन्नं प्रतितिष्ठत्यन्नं सोमस्तस्मान्नाभिदध्ना भवत्यत्रो एव रेतस आशयो रेतः सोमस्तस्मादन्नदघ्ना भवति ' ( श. ३.३.४.२८ ) । नाभिप्रमाणा आसन्दी । ' प्रमाणे द्वयसज्दघ्नमात्रचः ' ( पा. सू. ५.२.३७ ) इति दघ्नञ्प्रत्ययः । अत्रेति पदेन नाभेरभिनयः । कुत एतदिति तत्राह — अत्र वानं प्रतितिष्ठत्तीति । नन्वन्नस्य प्रतिष्ठितत्वेऽपि सोमस्य किमायातमिति चेत्तत्राह – अन्नं सोम इति । सोमस्याप्यन्नत्वात्तस्य नाभिदघ्नाया-मासन्द्यां प्रतिष्ठितत्वं युक्तमेव । प्रकारान्तरेण नाभिदघ्नत्वं प्रशंसति - अत्रो एव रेतस इति । अत्रो अत्रैव । नाभावेव रेतस आशयो भवति । सोमोऽपि रेत एव । तस्मादपि नाभिदघ्ना सा युक्ता । ' तामभिमृशति । वरुणस्य ऋतसदन्यसीत्यथ कृष्णाजिनमास्तृणाति वरुणस्य ऋतसदनमसीत्यथैनमासादयति वरुणस्य ऋतसदनमासी-देति स यदाह वरुणस्य ऋतसदनमासीदेति वरुण्यो ह्येष एतर्हि भवति ' ( श. ३.३.४.२ ९ ) । तस्या अभिमर्शनं समन्त्रकं विधत्ते - तामभिमृशतीति । तामासन्दीम् । कृष्णाजिनमास्तृणाति । हे आसन्दि, त्वं वरुणस्य ऋतसदनम-
पृष्ठ 116
पाठ पढ़ें पाठ छिपाएँ
म. ३६-३७ ] वेदार्थपारिजातभाष्यसहिता १०७ सीति, ऋतमिति यज्ञनाम, ' सत्यं वा यज्ञं वा ' ( निरु. ४.१ ९ ), यज्ञार्हं स्थानमसीत्यर्थः । आसन्दीवत् कृष्णाजिनस्य सोमासादनार्हत्वाद् आसन्दीस्पर्शनमन्त्र एव कृष्णाजिनस्पर्शेऽपि विनियुक्तः । सोमासादनमन्त्रे त्वासीदेति विशेषः । अत्रापि स यदाह – वरुणस्य ऋतसदनमिति वरुण्यो ह्येष एतहत्यपि प्राग्वद् व्याख्येयम् ॥ ३६ ॥
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु॒ य॒ज्ञम् ।
गय॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवीर॒ प्रच॑रा॒ सोम॒ दुर्यान् ॥३७ ॥
इति वाजसनेयसंहितायां चतुर्थोऽध्यायः ॥
' शालां प्रवेशयन्ति दीक्षितसञ्चरेण, या त इति वाचयति ' ( का. ७.९.२८-२९ ) । आसन्दीस्थं सोमं पूर्वोक्तेन यजमानसञ्चरेण नयेयुरध्वर्यवः । तदानीं या त इति मन्त्रं वाचयति यजमानमध्वर्युः । सोमदेवत्या त्रिष्टुप् । गौतमस्यार्षम् । हे सोम, ते तव या यानि प्रातः सवनादीनि स्थानानि प्राप्येति शेषः । हविषा यजन्ति ऋत्विज-स्त्वदीयरसरूपेण हविषा यागं कुर्वन्ति, अतो यज्ञमभिलक्ष्येति शेषः । ते तव सम्बन्धीनि ता तानि विश्वा विश्वानि सर्वाणि स्थानानि परिभूरस्तु भवान् परितः प्राप्तवान् भवतु, यत्र ऋत्विजो यजन्ति तानि स्थानानि त्वं प्राप्नुहि । यद्वा — ऋत्विजो यानि धामानि प्राप्य यजन्ति तानि सर्वाणि ते तव यज्ञं परिभूरस्तु यज्ञमभिलक्ष्य परितो भवितॄणि यज्ञव्यापकानि सन्तु । किञ्च, गयस्फानो गयान् गृहान् स्फाययति पशुपुत्रहिरण्यादिभिर्वर्धयति यः स गयस्फान; ‘ गय इति गृहनामसु ' ( निघ. ३.४.१ ), ' स्फायी वृद्धौ ', गृहाभिवर्धकः । प्रतरणः प्रतारयति यज्ञपारं प्रापयतीति प्रकर्षेण यज्ञपारं प्रत्यस्मांस्तारयिता, यद्वा प्रकर्षेण तरन्त्यापदो येन स प्रतरणः । सुवीरः शोभनास्त्वत्प्रसादाल्लब्धा वीरा अस्मत्पुत्रपौत्रादयो यस्य स सुवीरस्त्वम् । अवीरहा यो वीराणां महतां पालकः । हे सोम, यथोक्तगुणयुक्तः सन् दुर्यान् गृहान् प्रचर प्राप्नुहि । ' दुर्गा इति गृहनामसु ' ( निघ. ३.४.९ ) । यद्वा हे सोम, या यानि ते तव सम्बन्धीनि धामानि नामानि स्थानानि जन्मानि त्रीण्यपि वा । ' धामानि त्रयाणि भवन्ति -- स्थानानि नामानि, जन्मानि च ' ( निरु. ९.२८ ) इति यास्कोक्तेः । हविषा यजन्ति यष्टारः । ता तानि ते तव विश्वा विश्वानि सर्वाणि परिभूः सर्वतो भवितॄणि । नपुंसकबहुवचनस्थाने पुंल्लिङ्गैकवचनं छान्दसम् । अस्तु सन्तु । बहुवचनान्तकर्तृकारकसंयोगात् क्रियाया अपि बहुवचनोपपत्ते, यज्ञं यज्ञं प्रति व्याप्नुवन्तीत्यर्थः । सोमस्य परमेश्वरात्मत्वेन स्तुतिः । परमेश्वरस्य च नामानि स्थानानि जन्मानि त्रीण्यपि व्यापकान्येव भवन्ति । यद्वा यज्ञमिति प्रथमार्थे द्वितीया । ते तव यानि विश्वानि धामानि नामानि तानि यज्ञः परिभूरस्तु यज्ञः परिगृह्य वर्तताम् । शेषं पूर्ववत् । मन्त्रार्थ - हे सोम! तुम्हारे जिन प्रातःसोम आदि स्थानों को पाकर तुम्हारे रसरूप हवि से हम यज्ञरूप हवि का भोजन करते हैं, तुम्हारे वह सम्पूर्ण स्थान तुमसे सब ओर से व्याप्त हों । घर की वृद्धि करने वाले यज्ञ को प्राप्त कराने वाले हम ऋत्विग् और यजमान पुत्र - पौत्र आदि से सम्पन्न हों, तुम वीर पुरुष आदि को पालने वाले हो । हमारे यज्ञगृह में तुम आओ || सोम को स्थापित कर अध्वर्यु यजमान से इस मन्त्र को पढ़वाता है ॥ ३७ ॥
भाष्यसार - ' या ते धामानि ' इस ऋचा द्वारा अध्वर्यु आदि ऋत्विग्गण यजमान को यज्ञशाला में ले जाते हैं तथा इस ऋचा का वाचन अध्वर्यु यजमान से कराता है । कात्यायन श्रौतसूत्र ( ७.९.२८-२९ ) में निरूपित इस याज्ञिक विनियोग के अनुकूल अर्थ शतपथ ब्राह्मण में उपलब्ध होता है ।
पृष्ठ 117
पाठ पढ़ें पाठ छिपाएँ
१०८ शुक्लयजुर्वेदसंहिता [ अ. ४ अध्यात्मपक्षे तु — हे सोम परमेश्वर, या यानि तव धामानि स्थानानि नामानि जन्मानि च यष्टारो हविषा चरुपुराडाशसोमादिभिर्यजन्ति पञ्च - दश - षोडश - चतुःषष्ट्युपचारैः पूजयन्ति ता तानि विश्वा सर्वाणि यज्ञं यज्ञं स्थानं प्रति यजनं परिभूः परिभूरीणि, अस्तु सन्तु तानि सर्वाणि व्यापकानि सन्तीत्यर्थः । तथाहि —- नहि परमेश्वरस्य तद्भिन्नं भवति, सर्वाधारस्य स्वयमनाधारत्वेन स्वप्रतिष्ठितत्वात्, ' स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि ' ( छा. उ. ७.२४.१ ) इति श्रुतेः । नामानि तत्तद्रूपेण जन्मानि च तद्रूपाण्येव । यथा वैयाकरणानां रीत्या शब्दा अर्थाश्च बौद्धा एव, तथैव वेदान्तिरीत्या रूपाणि नामानि च परमेश्वरस्य चिन्मयान्येव । ' ओम् इत्येत दक्षरमिदं सर्वम् ' ( माण्डू. उ. १ ), ' ब्रह्मैवेदं विश्वम् ' ( मु. २.२.११ ) इति माण्डूक्यादिश्रुतिभ्यः । यद्वा यज्ञं यज्ञः परमेश्वरार्चनम्, तानि धामानि परिगृह्य वर्तताम् । कीदृशस्त्वम्? गयस्फानो गृहस्थानामर्थे गृहस्य धनपुत्रादिभिर्वर्धयिता । आर्तानामाप-न्नानामार्तिभ्य आपद्भ्यस्तारयिता, मुमुक्षूणां संसारसिन्धुतारकः । भक्तानां मदमानादिनिवारणाय शोभनाः शमदमादयो वीरा यस्य स सुवीरः । अवीरहा अहन्ता रक्षको वीराणां स्वपक्षीयाणाम् । इत्थंभूतस्त्वं हे भगवन्, भक्तानां दुर्यान् हृदयगृहाणि प्रचर प्रविश्य स्थिरो भव । पदार्थेन दयानन्दस्तु —— ' या यानि ते तव तस्य वा धामान्यधिकरणद्रव्याणि हविषा ग्राह्येण दातव्येन साधकेन वा यजन्ति पूजयन्ति संगमयन्ति वा, ता तानि ते तव तस्य वा विश्वा सर्वाणि परिभूः परितो भवतीति परिभूः अस्तु भवतु । यज्ञं यष्टुमर्हं गयस्फानो गयानामपत्यधनगृहाणां स्फानो वर्धयिता, गय इत्यपत्यनामसु ( निघ. २.२.८ ), धननामसु ( निघ. २.१०.१२ ), गृहनामसु ( निघ. ३.४.१ ) । प्रतरणः प्रतरन्ति दुःखानि येन सः । सुवीरः । अवीरहा अवीरान् कातरान् हन्ति येन सः । प्रचर विजानीहि अनुतिष्ठ । हे सोम, सोमविद्यासम्पादक विद्वन्, वयमपि दुर्यान् गृहाणि ' इति । अन्वयस्तु — ' हे जगदीश्वर, यथा विद्वांसो यानि ते नामानि हविषा यजन्ति, तथा तानि विश्वा यजेम । एतेषां यथा यस्ते तव गयस्फानः प्रतरणः सुवीरोऽवीरहा परिभूर्यज्ञः सुखप्रदोऽस्ति, तथा भवत्कृप-याऽस्मभ्यमपि सुखकार्यस्तु । हे सोम विद्वन् यथा वयमेतं यज्ञमनुष्ठाय गृहेषु प्रचरेम विजानीयामानुतिष्ठेम, तथा त्वमप्येतं दुर्या गृहाणि प्रचर विजानीह्यनुतिष्ठ । श्लेषवाचकलुप्तोपमालङ्कारौ ' इति, तदपि यत्किञ्चित्, लुप्तोपमा- इत्यादि लङ्कारस्य प्रकृतमन्त्रे सत्त्वे मानाभावात् । अत एव ' यथा विद्वांसो धामानि यजन्ति, तथा वयमपि ' निर्मूलमेव । किञ्च, विदुषामनुकरणं कथञ्चित् सङ्गच्छेतापि, किन्तु विद्वत्कर्तृकमविद्वदनुकरणं तु सर्वथाऽसङ्गतमेव । शतपथे तु — ' अथैनं शालां प्रपादयति । स प्रपादयन् वाचयति या ते धामानिं • दुर्यानिति गृहा वै दुर्या गृहान्नः शिवः शान्तोऽपापकृत् प्रचरेत्येवैतदाह ' ( श. ३.३.४.३० ) । अथैनं शालामिति प्राग्वंशस्य पुरोदेशे अध्यात्मपक्ष में यह अर्थ है -- हे उमासहित परमेश्वर! आपके जिन स्थानों, नामों तथा जन्मावतारों का उपासकगण चरु, पुरोडाश, सोम आदि हविर्द्रव्यों से यजन करते हैं, अथवा पांच, दस, सोलह, चौंसठ आदि उपचारों से पूजन करते हैं, वे सभी प्रत्येक यजन, अर्चन परिपूर्ण, व्यापक हों । अथवा यजन, परमेश्वरार्चन उन स्थानों को प्राप्त करके स्थित रहे । धनपुत्रादि गृह्य पदार्थों को बढ़ाने वाले, आपत्तियों से तारने वाले अथवा मुमुक्षु जनों को संसाररूपी सिन्धु से पार कराने वाले, शम - दम आदि सुन्दर बलों से युक्त, वीरों के संरक्षणकर्ता हे भगवन्, आप भक्तों के हृदयावास में प्रविष्ट होकर स्थिर रहें । स्वामी दयानन्द का अर्थ इस मन्त्र में लुप्तोपमा अलंकार की स्थिति के लिये प्रमाण न होने के कारण उचित नहीं है । इस मन्त्रार्थ में विद्वानों का अनुकरण तो किसी प्रकार उचित माना भी जा सकता है, किन्तु विद्वान् ( सोम ) द्वारा अविद्वान् साधारण जनों का अनुकरण करना सर्वथा असंगत है ॥ ३७ ॥
पृष्ठ 118
पाठ पढ़ें पाठ छिपाएँ
म. ३७ ] वेदार्थपारिजातभाष्यसहिता १० ९ आसन्द्यां स्थापितं सोममासन्द्या सह प्राचीनवंशं गमयेदित्यर्थः । प्रपादन ( प्रापण ) समये या ते धामानीति मन्त्रं यजमानो वाचयेत् । अध्वर्योः प्राधान्यात्तदपेक्षया एकवचनम् । वस्तुतस्तु चत्वारोऽध्वर्युवर्ग्या ऋत्विजः प्रपादयन्ती-त्येवार्थः सूत्रकारेण तथैवोक्तत्वात्, ' आहवनीयं दक्षिणेन स्थापयन्ति ' ( का. श्रौ. ७.९.३० ) इति, आसन्दीमिति शेषः । तथा च सिद्धान्तानुसार्ययमर्थः - हे सोम ते या यानि धामानि स्थानानि नामानि जन्मानि त्रीण्यपि ( निरु. ९.२८ ) धामशब्दवाच्यानि हविषा त्वदीयरसेन यजन्ति, ते तव तानि सम्बन्धीनि विश्वा विश्वान्यपि, ' यज्ञम् ', व्यत्ययेन अयं यज्ञ, परिभूः परितो भावयिता अस्तु भवतु । त्वं च गयस्फानः पशुपुत्रादिना गृहस्य वर्धयिता, प्रतरण आपद्भ्य-स्तारयिता, सुवीरः शोभनवीरोपेतस्तत्प्रदः अवीरहा पुत्रादेरहन्ता सन् दुर्यान् गृहान् प्रचर प्रकरोषि । चतुर्थपादगत-दुर्यशब्दार्थं ब्रुवन् कृत्स्नमन्त्रतात्पर्यमाह – गृहा वै दुर्या इत्यादिना || ३७ ॥ इति वेदार्थपारिजातभाष्ये चतुर्थोऽध्यायः ॥
पृष्ठ 119
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः अ॒ग्नेस्त॒नूर॑सि॒ विष्ण॑वे॒ त्वा॒ सोम॑स्य त॒नूर॑सि॒ विष्ण॑वे॒ त्वाऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वा॒ऽग्नये॑ त्वा रायस्पोष॒दे विष्ण॑वे॒ त्वा ॥१ ॥
अथ ज्योतिष्टोमप्रकरणम् । तत्र यजमानो यथाविधि द्रव्यविनिमयेन सोमं ( लतां ) क्रीत्वा तं शकटयोः समारोप्य शकटाभ्यामृत्विग्भिश्च सह शालां प्राग्वंशाभिधां प्रविशेत् । ऐतत्सम्बन्धिनो मन्त्राश्चतुर्थाध्याय उक्ताः । पञ्चमेऽस्मिन्नध्याये · आतिथ्येष्टेर्हविषो ग्रहणमन्त्रा आदावुच्यन्ते । आतिथ्येष्टौ विष्णुर्देवता नवकपालः पुरोडाशश्च द्रव्यम्, ' वैष्णवो भवति ' ( ऐ. बा. १.१५ ), ' नवकपालो भवति ' ( ऐ. बा. १.१५ ) इति विधेः । इयमिष्टिः सोमस्य राज्ञो यजमानगृहानागतस्यातिथेः सत्कारायानुष्ठीयते, ‘ अतिथेरातिथ्यमसि ' इति मन्त्रलिङ्गात् । तत्र प्रथमं हविर्निर्वापः प्राप्नोति, ' तूर्णमेकविमुक्ते ' वा निर्वपेत् ' ( का. श्रौ. ८.१.२ ) इति सौत्रविधेः । अतो निर्वापाङ्गमयं मन्त्रः । अत एव ' निर्वपामि ' अथवा ' गृह्णामि ' इत्यध्याहारेण पूरणीयोऽयं मन्त्रभाग, ' अर्थैकत्वाधिकरणन्यायात् । अत्र त्वान्ताः पञ्च मन्त्रा आम्नाताः । तथा च ‘ अग्ने-स्तनूरसि विष्णवे त्वा जुष्टं निर्वपामि ' ( गृह्णामि ), ' सोमस्य तनूरसि विष्णवे त्वा जुष्टं निर्वपामि ' इत्यादयः पञ्च मन्त्रा जायन्ते । प्रकृतौ दर्शपूर्णमासयोः ' देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ' इति निर्वापमन्त्रः । सोऽयमत्रातिदेशेन प्राप्तः प्रकृतमन्त्रेण बाध्यत इति केचनाचार्या आशेरते, त्वाशब्दद्वयविरोधात् । प्राकृतसवितृमन्त्रेऽपि मन्त्रार्थ - हे सोम! तुम अग्नि के शरीर हो, परमात्मा की प्रीति के निमित्त तुमको ग्रहण करता हूँ । तुम सोम देवता के शरीर हो, विष्णु के लिये तुमको ग्रहण करता हूँ । हे सोम! तुम यज्ञमण्डप में आये अतिथि को अतिथिसत्कार से सन्तुष्ट करने वाले हो, विष्णुदेव की प्रीति के निमित्त तुमको ग्रहण करता हैं । सोम को लाने वाले, शत्रु के दमन करने को श्येन ( बाज ) के समान उद्योगी मुझ यजमान के कल्याणार्थ, यज्ञाधिष्ठात्री विष्णु देवता की प्रसन्नता के लिये तुमको ग्रहण करता हँ । हे धनसम्बन्धी पुष्टि देने वाले, अग्नि के निमित्त तुमको ग्रहण करता हूँ, यज्ञदेव विष्णु की प्रीति के निमित्त तुमको तक के ग्रहण मन्त्र करता हँ । चौथे अध्याय में ऋत्विक् सहित यजमान के शाला प्रवेश से लेकर सोमक्रय करके शाला- आगमन कहे गये हैं । इस पाँचवे अध्याय में पहले आतिथ्येष्टि, हविर्ग्रहण आदि के मन्त्रों का वर्णन है । यहाँ प्रथम मन्त्र से हवि का ग्रहण किया जाता है ॥ १ ॥
भाष्यसार – ज्योतिष्टोम यज्ञ के प्रकरण में यजमान विधि के अनुसार द्रव्यों का विनिमय करते हुए सोमलता खरीदता है । तदनन्तर सोमलता को गाड़ियों पर रख कर ऋत्विग्गणों तथा गाड़ियों के साथ ' प्राग्वंशशाला ' में आता है । इस यज्ञप्रक्रिया से सम्बद्ध मन्त्र चतुर्थ अध्याय में प्रतिपादित किये गये हैं । १. सोमं क्रीत्वा तं द्वयोः शकटयोः समारोप्य शालामानीयोत्तरदक्षिणपार्श्वयोः शकटाववस्थाप्य शकटादनड्वाहौ मोचनीयौ । तत्र विकल्पः— ‘ एकविमुक्ते वा ’ ( का.श्रौ.८.१.२ ) इति । उभयोर्मोचनानन्तरं निर्वापञ्श्चेत् कदाचिद्विलम्बः स्यादिति पक्षान्तरमभिहितम् । २. ‘ अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात् ' ( मी. सू. २.१.४६ ) इत्यधिकरणे विभागे साकाङ्क्ष सत्येकार्थप्रतिपादकत्वमेक-वाक्यत्वमिति यजुर्मन्त्रपरिमाणं व्यवस्थापितं जैमिनिना ।
पृष्ठ 120
पाठ पढ़ें पाठ छिपाएँ
म. १ ] वेदार्थपारिजात भाष्यसहिता १११ ' देवस्य त्वा ' इति त्वाशब्दः । वैकृतमन्त्रेऽपि ' विष्णवे त्वा ' इति त्वाशब्दः । उभयोरप्येकार्थत्वात् प्रयोगो नोचित इति तेषामाशयः । ‘ पञ्चसु सावित्रं जुष्टं चानुषजतिनोत्तरयोरित्येके ' इति सूत्रयन्त आपस्तम्बाचार्याः प्राकृतमन्त्रस्य समुच्च-यमभिप्रयन्ति । तत्र त्वाशब्दद्वयविरोधस्तु नाशङ्कनीयः, तथाविधविधेः सत्त्वात् ' श्येनाय त्वा सोमभृते विष्णवे त्वा ' इति वैकृतमन्त्रे त्वाशब्दद्वयश्रवणाच्च । कर्काचार्या अपि समुच्चयपक्षमेव समर्थयन्ते । तथा च समुच्चयपक्षे ‘ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नेस्तनूरसि विष्णवे त्वा जुष्टं निर्वपामि ' इत्यादय आकारा मन्त्राणां जायन्त इति स्थितिः । अस्यां स्थितौ महीधरभाष्यं प्रवृत्तम् । सोमस्य राज्ञः पञ्चानुचरा: - १. अग्नि, २. सोमः ३. अतिथि; ४. श्येनः ५. रायस्पोषदोऽग्निश्चेति । तत्राद्याश्चत्वारः क्रमेण गायत्री- त्रिष्टुप् जगती- गायत्रीच्छन्दोऽधिष्ठातार; अन्त्यस्तु सर्वच्छन्दोऽधिष्ठाता । अत आद्य-स्याग्नेरन्तिमस्य चाग्नेर्भेदः । मन्त्रे ' असि ' इति मध्यमपुरुषैकवचनश्रवणात्तदनुकूलं प्रकृतं हविः पदं सम्बुद्ध्यन्तमध्या-ह्रियते, वाक्यपूरणाय च ' निर्वपामि, गृह्णामि ' इति वाऽध्याह्रियते । तथा च मन्त्रस्यायमर्थः — हे हविः, त्वं सोमस्य राज्ञोऽनुचरस्याग्निसंज्ञकस्य तनूः शरीरमसि, तृप्तिजनकत्वात् । अतस्त्वा त्वां विष्णवे व्यापनशीलाय प्रकृतसोमाय प्रीतिजननार्थं निर्वपामि निर्वापसंस्कारेण संस्करोमि । तथैव सोमसंज्ञः कश्चित् सोमस्य राज्ञो भृत्यस्त्रिष्टुप्छन्दोऽधि-ष्ठाता | हे हविः! तस्य त्वं तनूरसि तृप्तिहेतुत्वादेव । एवमतिथिसंज्ञोऽपि सोमानुचरस्तस्यातिथ्यमसि, आतिथ्यसं-स्काररूपमसि । ' निर्णीततिथिविशेषं विनैवागते विप्रादौ तत्सत्काराय क्रियमाणः पादप्रक्षालनभोजनसंवहनादिसंस्कार आतिथ्यमुच्यते ' इति सायणः । तथाविधत्वं हविषोऽत्र विवक्ष्यते । विष्णवे त्वा निर्वपामि । श्येनाय त्वा निर्वपामि । श्येनसंज्ञको देवः सोमराजानुचरः स्वर्गात् सोमहर्ता श्येनरूपधारिगायत्र्य-धिष्ठातेति महीधरः । स च नानाविधोपपन्नादिसमर्पणेन सोमराजानं बिभर्तीति सोमभृत् तस्मै सोमभृते श्येनाय हे हविस्त्वां निर्वपामि । यद्वा सोमं हरतीति सोमहत्, ' हृग्रहोर्भश्छन्दसि ' ( पा. सू. ३.१.८४ ) इति स्थलीयेन वार्त्तिकेन हस्य भः । सोमानयनकर्त्रे श्येनाय देवाय त्वां निर्वपामीति, ' सा यद्गायत्री श्येनो भूत्वा दिवः सोममहरत् ' ( श. ३.४.१.१२ ) इति श्रुतेः । अग्नये त्वा रायस्पोषदे विष्णवे त्वेत्यपरोऽपि कश्चिदग्निनामकः सोमराजानुचरो रायस्पोषद; रायस्पोषं तुष्टिं ददातीति रायस्पोषदस्तस्मै । राज्ञो गृहे यद्धनमस्ति तत्क्रयविक्रयादिना बहुधा पोषयित्वा राज्ञे समर्पयतीति । तथाविधायाग्नये रायस्पोषदे हे हविस्त्वां निर्वपामि । ' रायस्पोषदे ' इति क्विप्प्रत्ययान्तश्चतुर्थ्यन्तः । स चानुक्तच्छन्दोऽधिष्ठाता । विष्णुशब्दाभिधेयस्य सोमस्य राज्ञो हविषा तदनुचराणामग्न्यादिदेवानां तद्द्वारा तत्सम्ब-न्धिगायत्र्यादिच्छन्दोदेवतानां च तृप्तिर्भवति । तदेतदभिप्रेत्य लौकिकन्यायवचनेन तित्तिरिर्विस्पष्टमाह— ' यावद्भिर्वै राजानुचरैरागच्छति सर्वेभ्यो वैतेभ्य आतिथ्यं क्रियते छन्दांसि खलु वै सोमस्य राज्ञोऽनुचराणीति ' ( तै. सं. ६.२.१.३ ) इति काण्वभाष्ये सायणाचार्यः । इस पश्चम अध्याय में यज्ञप्रक्रिया की दृष्टि से ' आतिथ्या ' नामक इष्टि के मन्त्र हैं । प्रारम्भ में आतिथ्येष्टि में हविर्द्रव्य के ग्रहण के मन्त्र उपदिष्ट हैं । आतिथ्येष्टि में प्रधान देवता विष्णु के लिये नवकपाल पुरोडाश हविर्द्रव्य प्रदान किया जाता है । यह इष्टि यजमान के घर में आये हुए अतिथियों के राजा सोम के सत्कार के लिये अनुष्ठित की जाती है । कात्यायान श्रौतसूत्र ( ८.१.२ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार इस मन्त्र से हविर्द्रव्य का निर्वाप ( ग्रहण ) किया जाता है । इस हेतु से ' निर्वपामि ' अथवा ' गृह्णामि ' इस प्रकार पद के अध्याहार से इस कण्डिका के मन्त्रभाग पूर्ण किये जाते हैं । इसमें ' त्वा ' अन्तिम पद वाले पांच मन्त्र कहे गये हैं ।