वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 11–20

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 11–20

पृष्ठ 11

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 11 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ शुक्लयजुर्वेदसंहिता [ अ. ४ यथाविधि निमन्त्र्य यजमानगृहमानयेत् । तान् वृणीते । वृतेभ्यस्तेभ्यो मधुपर्कदानम् । ततोऽग्नीन् समारोप्य देवयजनं गत्वा शालां निर्मायारणीं मथित्वा खरेषु स्थापयेत् । अपराह्णे दम्पत्योरभीष्टभोजनम् । ततश्चतुर्षु दिवसेषूपवास एव प्रायः । अवभृथानन्तरं पुनरभीष्टभोजनम् । मध्ये तु व्रतप्राशनम् । यजमानस्य वपनं स्नानं ततो दीक्षणीयेष्टि: । नवनीतेन दम्पत्योः शिरस आरभ्य पादपर्यन्तमभ्यञ्जनम् । ततस्तयोर्मुष्टिबन्धनं हस्तद्वयेऽपि । वस्त्रादिना सर्वा अङ्गुलीर्बध्वा अङ्गु-ष्ठप्रदेशिन्यौ विसृजेत् । माध्यन्दिनसवनं यावद् बद्धमुष्टिभ्यामेव दम्पतीभ्यां कार्याणि सम्पादनीयानि । तत औद्भ-होमाः । ततः कृष्णाजिनदीक्षा । तत्र कृष्णाजिनमारुह्य मेखलां बध्वा उष्णीषेण शिरसः प्रावरणं पल्याः कृष्णाजिनाभावः । कण्डूयनार्थं कृष्णमृगशृङ्गं रक्षेत् । ततो दण्डग्रहणं यजमानस्य । ततः सायं दीक्षितोऽयं ब्राह्मण इति प्रतिप्रस्थातो-च्चैर्निवेदयेत् । ततः प्रभृति यावदवभृथं दन्तधावनस्नानाग्निहोत्रहोमदर्शपूर्णमासादिवैश्वदेवार्थपाकस्मार्तोपासनानुष्ठान-दानशूद्रसम्भाषणप्रत्युत्थानाभिवादनजलावगाहनानि न कर्तव्यानि । ततः प्रवर्ग्यार्थं महावीरसम्भरणं ततोऽस्तमिते व्रतभक्षणम् । व्रतपदेन पय उच्यते । प्रथमदिने गामेकां शाला-समीपमानीय तस्या एकमेव स्तनं दुह्यात् । तदेव द्विधा कृत्वा गार्हपत्ये यजमानार्थं दक्षिणाग्नौ पल्यर्थं श्रपयित्वा प्रयच्छेत् । द्वितीयतृतीयदिवसयोर्मध्याह्ने रात्रौ च वारद्वयं व्रतप्राशनम् । द्वितीयदिने स्तनद्वयं तृतीये स्तनत्रयं दुह्यात् । चतुर्थपञ्चमयोस्तु केवलं हविःशेषभक्षः । ततो भूमौ दक्षिणतोऽग्निमुखः शयीत । द्वितीयेऽह्नि प्रायणीयेष्टिः । तत्र अदिति;, पथ्या, स्वस्तिः अग्निः सोमः सविता च देवताः । अदित्यै चरुः शिष्टेभ्य आज्यम् । इष्ट्यन्ते चरुस्थाली मेक्षणं चोदयनीयार्थं निदध्यात् । ततः सोमक्रयः । क्रीतं तमध्वर्युः शकटे निधायानडुद्भ्यामूढं शकटं शालायामानाय्य तं सोममौदुम्बर्यामासन्द्यां निधाय शालायां स्थापयेत् । तत आतिथ्येष्टिः । तत्र विष्णुर्देवता नवकपालः पुरोडाशो द्रव्यम् । ततः परं मदन्तीसंज्ञकाभिस्तप्ताभिरद्भिरेव सर्वाण्युदककार्याणि दम्पतीभ्यां कर्तव्यानि न शीतोदकस्पर्शः । ततः सर्वे-षामृत्विजां यजमानस्य च तानूनप्त्रसंज्ञकाज्यस्पर्शो यावदवभृथं परस्परमद्रोहार्थं शपथरूपः । ततः प्रवर्ग्यानुष्ठानम् । तत्पल्याऽवेक्षणीयम् । अत्र गार्हपत्याहवनीयौ उत्तरेण द्वौ खरौ हस्तमात्रावङ्गुलोत्सेधौ दक्षिणतस्तृतीयं तावन्मात्रं सिकताभिः कृत्वा सम्राडासन्दीमाहवनीयपूर्वेण संस्थाप्य द्वौ महावीरावासादयेत् । ततो मुञ्ज-निर्मितानिण्ड्वानादीप्य तान् खरे संस्थाप्य तत्राज्यपूर्णं महावीरं निधाय होत्रा मन्त्रगणे पठ्यमाने प्रतिप्रणवं स्रौवमा-ज्यमासिञ्चेत् । ततो रौहिणपुरोडाशयोः प्रचारः । तत्रादौ दक्षिणं पुरोडाशं हुत्वा गां दुग्ध्वा महावीरमादाय तत्राऽजापयः प्रक्षिप्य शान्ते पयसि गोपयः प्रक्षिपेत् । अयं घर्म उच्यते । तत उत्तरं रौहिणं जुहुयात् । एवमपराह्णेऽपि प्रवर्ग्यानुष्ठानम् । तत्र उपसदिष्टिः । तत्राज्यं द्रव्यम् । अग्निः सोमो विष्णुश्च देवताः । ततः प्रातरुपसद्धोमः । एवं सायमपि । एवं द्विती-यतृतीयचतुर्थेषु दिवसेषु षडुपसदः क्रियन्ते । प्रवर्ग्यश्च तृतीयदिने । प्रातः प्रवर्ग्यमुपसदं च हुत्वा सौमिकीं महावेदिं निर्माय आपराणिक्यौ प्रवर्ग्योपसदौ कुर्यात् । चतुर्थे दिनेऽग्नीषोमीयः पशुः । अनेनैव पशुना सार्धं दौर्ब्राह्मण्यनिवृत्त्यर्थः पशुरपि समानतन्त्रेणाधुनैव संस्कर्तव्यः । ततस्तद्देवत्यं पशुपुरोडाशमन्यानि च पश्वङ्गानि यथावदनुष्ठाय तद्वपामार्जनान्ते वसतीवरीग्रहणार्थं बहिर्गत्वा यत्रापः स्यन्दन्ते ता वसतीवरीः पात्रे गृह्णीयादस्तमयात् पूर्वम् । सोमाभिषवकाले रसवृद्ध्यर्थं या आपः प्रक्षिप्यन्ते ता वसतीवर्य इत्युच्यन्ते । ता गृहीत्वा येन पथा तदानयनं विहितं तेनैव ता आनीयाग्नीधे ता निदध्यात् । · आपस्तम्ब परिभाषा के अनुसार यह तीन वेदों द्वारा अनुष्ठेय यज्ञ है । अग्निहोत्र तो केवल यजुर्वेद द्वारा ही साध्य है । दर्शपूर्णमास आदि इष्टियां कुछ लोगों द्वारा ऋग्वेद एवं यजुर्वेद दोनों से अथवा केवल यजुर्वेद से ही अनुष्ठित की जाती हैं । पशुयाग सभी

पृष्ठ 12

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 12 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १ ] वेदार्थपारिजात भाष्यसहिता ३ पञ्चमे सुत्यादिवसे सोमाभिषवग्रहग्रहणतद्धोमादीनामनुष्ठानम् । चतुर्थदिनस्यापरान्ते एवावबुद्ध्य स्नाता ऋत्विज आज्यासनान्तं कृत्वा सोमं द्वेधा विभज्य ग्राव्णां मुखे निदध्युः । ततः प्रातरनुवाकस्य शस्त्रं होता पठति । तच्च पक्षिणां वागुत्थानात् पूर्वमेवारब्धव्यम् । तत्काले जाग्रदेवाध्वर्युर्होतृसमीपे आसीत । ततः प्रातः सवनीयपुरोडाशानां निर्वापोऽग्नी-त्कर्तृकः । तत्र पञ्च हवींषि पञ्चदेवता, ऐन्द्र एकादशकपालः । इन्द्राय हरिवते धानाः इन्द्राय पूषण्वते करम्भ, इन्द्राय सरस्वतिमते दधि, इन्द्राय वरुणवते पयस्येति । एवं पुरोडाशादिनिर्वापान् पयस्यां च प्रातरनुवाकशस्त्रकाल एवाग्नीद् यथावत् सम्पाद्य तत उन्नेता ऐन्द्रवायवादीनि पात्राणि योजयेत् । योजितेषु चत्वार ऋत्विजः सोमाभिषवार्थमधिषवण-फलकयोः सर्वत उपविशेयुः । तत्रोत्तरतोऽध्वर्युयजमानौ, दक्षिणतो ब्रह्मप्रतिप्रस्थात्रुनेतृनेष्टारश्च । अभिषवार्थानां पदा-र्थानामीषान्तरेणैवानयनम् । ततोऽध्वर्युरधिषवणफलके उपांशुसवनाख्यं पाषाणं निधाय तदुपरि पञ्चकृत्वः सोममभिषुणुयात् । महाभिषवेऽध्वर्युप्रतिप्रस्थातृनेष्टृन्नेतारः कर्तारः । तेऽभिषवसोमं चतुर्धा विभज्य चत्वारः प्रहरेयुः । प्रहारश्चामि-तकृत्वः । यावता रसप्रच्युतिस्तावत्पर्यन्तं निग्राभ्या आसिच्याभिषुणुयुरिति महाभिषवः । अथ क्षुल्लकाभिषवः । तत्रा-ध्वर्युरेकः कर्ता । स एवोपांश्वभिषवः । तत्र क्षुल्लकाभिषवणार्थं पूर्वमितात् सोमादल्पांशूनपकृष्य पात्रान्तरे स्थापिता निग्राभ्याश्च होतृचमसे कृत्वा सोमोपरि आसिच्य अष्टकृत्वः प्रहरणम् । अभिषवान्ते प्रतिप्रस्थाता उपांशुग्रहपात्रं स्वहस्ते धारयेत् । अध्वर्युर्मुष्टिनाभिषुतं सोमं निष्पीड्य उपांशुग्रहं गृह्णीयात् । एवमादिरीत्या क्षुल्लकाभिषवः । अथ माध्य-न्दिनसवनम् । अथ तृतीयसवनम् । ततोऽवभृथः । शतपथे तृतीयकाण्डस्य प्रथमाध्याये शालानिर्माणप्रभृतिदीक्षाहुतिपर्यन्तमुक्तम् । शालानिर्माणार्थं देवयजन-परिग्रहो विहितः देवयजनं जोषयन्त इत्यादिना । ' स वै न सर्वेणेव संवदेत । देवान् वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति न वै देवाः सर्वेणेव संवदन्ते ब्राह्मणेन वैव राजन्येन वा वैश्येन वा ते हि यज्ञियास्तस्माद्यद्येनं शूद्रेण संवादो विन्देदेतेषामेवैकं ब्रूयादिममिति विचक्ष्वेममिति विचक्ष्वेत्येष उ तत्र दीक्षितस्योपचारः ' ( श. ३.१.१.१० ), ' अथारणी पाणौ कृत्वा । शालामध्यवस्यति स पूर्वार्ध्यं स्थूणाराजमभिपद्यैतद्यजुराहेदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्व इति तदस्य विश्वैश्च देवैर्जुष्टं भवति ये चेमे ब्राह्मणाः शुश्रुवां सोऽनूचाना यदहास्य तेऽक्षिभ्यामीक्षन्ते ब्राह्मणाः शुश्रुवांसस्तदहास्य तैर्जुष्टं भवति ' ( श. ३.१.१.११ ) । समन्त्रकं शालाप्रवेशं विधत्ते - अथारणीति । अरणी पाणौ कृत्वा शालां प्रविश्य मन्त्रेणैतद्देवयजनं निश्चिनुयात् । अध्यवसानप्रकारमाह — स पूर्वार्ध्यमिति । स्थूणाराजो मध्ये स्थितः महती स्थूणा स्थूणाराज उन्नतस्तम्भः, तस्य पूर्वार्ध्यमभिपद्य गृहीत्वा एदमगन्मेति यजुब्रूयात् । तथा च कात्यायनः - ' समारोप्याग्नी शालास्तम्भं पूर्वार्ध्यं गृहीत्वाऽरणिपाणिराहेदगन्मेति ' ( का. श्रौ. ७.१.३० ) । गृहे अग्नी अरण्योरारोप्य देवयजनमागत्य शालां प्रविश्य शालायाः पूर्वो भागः पूर्वार्धस्तत्र भवः पूर्वार्ध्यस्तं शालास्तम्भं गृहीत्वा अरणिपाणिर्यजमान एदमगन्मेति मन्त्रं पठेत्— लोगों द्वारा ऋग्वेद एवं यजुर्वेद दोनों से किये जाते हैं । सोमयाग से प्रारम्भ करके अन्य यागों में तीन वेदों का संबन्ध है । शतपथ ब्राह्मण के तृतीय काण्ड के प्रथम अध्याय में सोमयाग की शालानिर्माण से लेकर दीक्षाहुतिपर्यन्त की विधि कही गई है । तदनुसार कात्यायन श्रौतसूत्र ( ७.१.३० ) में शाला के पूर्व भाग में स्थित स्तम्भ का ग्रहण करते हुए, अरणि हाथ में लिये

पृष्ठ 13

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 13 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्लयजुर्वेदसंहिता [ अ. ४ ए॒दम॑गन्म देव॒यज॑न॑ पृथि॒व्या यत्र॑ दे॒वासो॒ अनु॑षन्त॒ विश्वे॑ । ऋ॒स॒माभ्य॒॑ स॒न्तय॑न्तो यजु॑र्भी रा॒यस्पोषे॑ण॒ सम॒षा म॑देम । इ॒मा आप॒ शर्म॑ मे सन्तु दे॒वीरोष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैं हिंसीः ॥ १ ॥

चतुर्थाध्यायमारभ्याष्टमाध्यायस्य द्वात्रिंशत्कण्डिकापर्यन्तमग्निष्टोममन्त्राः । तेषां प्रजापतिर् ऋषिः । तत्र चतुर्थे यजमानसंस्कारपूर्वकं सोमक्रयमन्त्राः प्राधान्येनोच्यन्ते । तत्र द्वे अत्यष्टी त्र्यवसाने । तयोः कण्डिकयोः सप्त मन्त्राः । आद्यावध्यर्ची देवयजनदेवत्यौ । वयं सयजमाना ऋत्विजः आ इदं पृथिव्याः सम्बन्धि इदमुत्कृष्टं देवयजनम्, देवा इज्यन्ते यस्मिंस्तद् देवयजनं स्थानं यष्टुकामा आ अगन्म आगताः स्मः गच्छतेर्लटि उत्तमबहुवचने व्यत्ययेन शपो लुकि, ' व्यवहिताश्च ' ( पा. सू. १. ४.८२ ) इत्युपसर्गक्रियापदयोर्व्यवधानम् । यत्र यस्मिन् देवयजने विश्वेदेवासः सर्वे देवा अजुषन्ताऽप्रीयन्त । ' जुषी प्रीतिसेवनयोः ' । प्रीत्या स्थिताः कामान् वा सेवितवन्तः । मन्त्रेऽस्मिन् ब्राह्मणा अनूचानाः शुश्रुवांसो देवा इति ज्ञेयम्, तथैव श्रुत्या व्याख्यातत्वात् । वयं रायो धनस्य पोषेण पुष्ट्या संवृद्ध्या इषा इष्यमाणेनान्नेन च संमदेम हृष्टा भवेम धनैरन्नैश्च तृप्येम । किं कुर्वन्तः? ऋक्सामाभ्यां ऋक् च साम च ऋक्सामे ' अचतुरविचतुरसुचतुर ' ( पा. सू. ५.४.७७ ) इति सूत्रेणाजन्तो निपातः । ताभ्यां यजुर्भिश्च वेदत्रयगतैर्मन्त्रैः सन्तरन्तः समुद्रवद्गम्भीरं सोमयागं समापयन्तः । ‘ दक्षिणं गोदानं वितार्योनत्तीमा आप इति ' ( का. श्रौ. ७.२.७ ) । शिरसो दक्षिणं प्रदेशं कङ्कतादिना विविच्य तत्स्थान् केशान् विजटान् कृत्वा आर्द्रीकरोतीति सूत्रार्थः । मन्त्रार्थस्तु – इमा आपो देवताः शिरः क्लेदाय सिच्यमाना एता आपो यजमानस्य शमु शं सुखार्थम् उ एव सुखकारिण्य एव सन्तु । किंभूता आपः? देव्यः, दीव्यन्तीति देव्यो द्योतना, निर्मला इति यावत् । ' यूपवत्कुशतरुणं क्षुरेण चाभिनिधाय छित्वोदपात्रे प्रास्यति ' ( का. श्रौ. ७.२.८ - ११ ) । केशमध्ये कुशपत्रं दध्यात् । यूपवदोषध इति मन्त्रेण । चशब्दाद् यूपवदेव क्षुरधारनिहिततृणस्योपरि निदध्यात् । ' स्वधिते ' इति सतृणान् केशान् छित्वोदपात्रे क्षिपेत् । यथा पश्चर्थयूपस्य छेदे मन्त्रः एवमत्रापि तृणान्तर्धानं क्षुरस्थापनं च मन्त्रद्वयेन कर्तव्यमित्यर्थः । कुशतरुणं देवता । हे ओषधे कुशतरुण, त्वं यजमानं त्रायस्व क्षुराद्रक्ष । कुशतरुणं सूक्ष्मं कुशाग्रं दर्भतरुणमिति हरिस्वामिनः । क्षुरो देवता । क्षुर स्वधिते, एनं यजमानं मा हिंसीः । ' मो नो धातो: ' ( पा. सू. ८.२.६४ ) इति मकारस्य नकारः अडागमश्च । वज्रकर्म कुर्वन्नवज्रोऽपि वज्र उच्यते । मन्त्रस्य द्वितीयं पादं देवतात्पर्याभिधानेन व्याचष्टे श्रुतिः - ' तदस्य विश्वैर्देवैर्जुष्टं भवति । ये चेमे ब्राह्मणाः शुश्रुवांसोऽनूचाना यदहास्य ते अक्षिभ्यामीक्षन्ते ब्राह्मणाः शुश्रुवांसस्तदहास्य तैर्जुष्टं भवति ' । अत्र मन्त्रे देवा अजुषन्त इति यदुक्तम्, तस्येदमेव तात्पर्यं यदत्र शुश्रुवांसोऽनूचाना ब्राह्मणा यदेनद्देवयजनमक्षिभ्यामीक्षन्ते, तदेव तैर्देवैर्देवयजनं जुष्टं भवति । ' यद्वाह । यत्र देवासो अजुषन्त विश्व इति तदस्य विश्वैर्देवैर्जुष्टं भवत्यृक्सामाभ्यां हुए यजमान ' एदमगन्म ' इस मन्त्र का पाठ करे । यह याज्ञिक विनियोग है । ' इमा आपः ' इत्यादि मन्त्रों से सिर के केशों को आर्द्र कर वपन किया जाता है । तदनुसार याज्ञिक पक्ष में मन्त्रों का अर्थ कहा गया है । मन्त्रार्थ- हम इस पृथ्वी संबन्धी देवयजन स्थान में आये हैं, जहां सब देवता प्रीतिपूर्वक स्थित हैं । हम ऋग्वेद, सामवेद और यजुर्वेद के मन्त्रों से समुद्र के समान गम्भीर सोम याग को करते हए धन से पुष्ट और इच्छित अन्न से हृष्ट और तृप्त हों । प्रकाशयुक्त, निर्मल, सिर पर लगाये हुए जल मुझ यजमान के निमित्त सुखदायक हों । हे कुशतरुण! ओषधि के देवता! यजमान की छुरे से रक्षा करो । हे क्षुर के अधिष्ठात्री देवता! इस यजमान को पीड़ा मत दो | तीसरे अध्याय में आधान, अग्निहोत्र, उपस्थान और चातुर्मास्य के मन्त्र कहे गये हैं । अब चौथे अध्याय में ३२ वीं कण्डिका तक अग्निष्टोम के मन्त्र कहे जायेंगे । प्रथम मन्त्र में क्षुर से यजमान को पीड़ा न पहुंचाने की प्रार्थना की गई है ॥१ ॥

पृष्ठ 14

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 14 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १ ] वेदार्थपारिजातभाष्यसहिता सन्तरन्तो यजुर्भिरित्यक्सामाभ्यां वै यजुर्भिर्यज्ञस्योदृचं गच्छन्ति यज्ञस्योदृचं गच्छानीत्येवैतदाह रायस्पोषेण समिषा मदेमेति भूमा वै रायस्पोषः श्रीर्वै भूमाशिषमेवैतदाशास्ते समिषा मदेमेतीषं मदतीति वै तमाहुर्यः श्रियमश्नुते यः परमतां गच्छति तस्मादाह समिषा मदेमेति ' ( श. ३.१.१.१२ ) । मन्त्रस्य तृतीयं पादं व्याचष्टे – ऋक्सामाभ्यामिति । यजुर्भिः क्रियमाणं यज्ञस्वरूपमृक्सामाभ्यां स्तोत्रशस्त्राभ्यां सन्तरन्तः पारं प्रापयन्त इति सन्तरन्त इत्यंशस्यार्थः । यजुषा ऋक्सामाभ्यां ये तरन्ति ते यज्ञस्योदृचमेव परिसमाप्ति गच्छन्ति । अत एतेन यज्ञस्य उदृचं परिसमाप्ति प्राप्नोमीत्युक्तवान् भवति । चतुर्थपादस्य प्रथमभागं व्याचष्टे - राय-स्पोषेणेति । भूमा बहुभाव एव । रायस्पोषो धनपुष्टिः । स च भूमा साक्षात् श्रीरेव, तस्मादेतद्भागपाठेन आशिषमेवाशास्ते । चतुर्थपादस्य द्वितीयभागस्य तात्पर्यमाह — समिषेति । लोके यः श्रियः परमतां गच्छति तमिषमन्नमदति मोदत इत्याहुः । अतो मन्त्रे समिषेति भागमाहेत्यर्थः । ' अपराह्णे दीक्षेत ' ( श. ३.१.२.१ ) इत्यपराह्णेऽह्नस्तृतीये भागे दीक्षाविधानम् । अथ दीक्षिताशनविषये सर्वान्नमभ्यनुजानाति — ' यत्कामयेत ' इत्यादिना । यतोऽतः परं व्रतं केवलं पयःपानमेव, अतः क्षौरकर्मणः प्राग् यथेष्टं भोक्तुं शक्यते । यद्यु नाशिषेदपि कामं नाश्नीयादिति तत्रैव यथेष्टानशनपक्षोऽप्युक्तः । ततः शालाया उत्तरभागे क्षौरार्थं परिश्रयणं तदत्रोदकुम्भपरिवृते देशे नापितः केशश्मश्रुवपनं नखनिकृन्तनं च कुर्यात् | । अमेध्यानां केशनखानां निरवशेषेण सुखच्छेदनाय उदकुम्भसन्निधानमावश्यकम् । तदुक्तं कात्यायनेन – ' उत्तरे परिवृत उदकुम्भवत्यप्सु दीक्षा । नापित उत्तरत उपतिष्ठते ' ( का.श्रौ. ७.२.५ - ६ ) । यजमानः क्रतुसाधनभूतं धान्यघृतहिरण्यादि वा क्रत्वर्थं मे गोपाय यथाकालं सम्पादयेत्येवमन्यस्मा उक्त्वा ततस्तेनाप्सु दीक्षा कार्या । अप्सु दीक्षेति वक्ष्यमाणस्य केशश्मश्रुवपनस्नानादिसंस्कारस्य नामधेयम् । परिवृतमध्ये हस्तमितं गर्तं कृत्वा तत्रोदकुम्भनिधानम् । ' नापित उत्तरत उपतिष्ठते नखानि निकृन्तत्यङ्गु-ष्ठप्रभृतीनि दक्षिणहस्तस्य प्रथमम् ' ( का. श्री. ७.२.६ ) । सर्वाङ्गवपनपक्षमुपन्यस्य निराकृत्य केशश्मश्रुवंपनमुक्तम् । तत्रापि मानुषत्वव्यावृत्त्युपन्यासमुखेन नखानामेव, तत्रापि याम्यपाणिपादस्यैव, तत्राप्यङ्गुष्ठयोरेवेति त्रयाणां प्राथम्यमुक्तम् । ' स वै नखान्येवाग्रे निकृन्तते । दक्षिणस्यैवाग्रे सव्यस्य वा अग्रे मानुषेऽथैवं देवत्राङ्गुष्ठयोरेवाग्रे कनिष्ठिकयोर्वा अग्रे मानुषेऽथैवं देवत्रा ' ( श. ३.१.२.४ ) । ‘ स दक्षिणमेवाग्रे गोदानं विस्तारयति । सव्यं वा अग्रे मानुषेऽथैवं देवत्रा ' ( श. ३.१.२.५ ) । वपनेऽपि दक्षिणस्य भागस्य प्राथम्यमाह— गोदानमिति । गोदानं नाम कर्णस्योपरि प्रदेशः । स्वपद्भिर्गवि पृथिव्यां दीयत इति गोदानं कर्णः, तं विस्तारयति विभजेत् । यस्य चाग्रे वपनं तस्यैव चोन्दनप्राथम्यं युक्तम् । ' स दक्षिणमेवाग्रे गोदानमभ्युनत्ति । इमा आपः श मे सन्तु देवीरिति स यदाहेमा आपः शमु मे सन्तु देवीरिति वज्रो हि वा आपो वज्रो वा आपस्तस्माद्येनैता यन्ति निम्नं कुर्वन्ति यत्रोपतिष्ठन्ते निर्दहन्ति तत्तदेतमेवैतद्वज्रं शमयति तथो हैनमेष वज्रः शान्तो न हिनस्ति तस्मादाहेमा आपः शमु मे सन्तु देवीरिति ' ( श. ३.१.२.६ ) । आपः शं सन्त्विति शान्तिप्रार्थनायाः क्रौर्यप्रसङ्गं दर्शयति — वज्रो वा आप इति । ‘ अथ दर्भतरुणकमन्तर्दधाति । ओषधे त्रायस्वेति वज्रो वै क्षुरस्तथो हैनमेष वज्रः क्षुरो न हिनस्त्यथ क्षुरेणाभिनिदधाति स्वधिते मैनं हिसीरिति वज्रो वै क्षुरस्तथो हैनमेष वज्रः क्षुरो न हिनस्ति ' ( श. ३.१.२.७ ) । क्षुरकृतविदारणपरिहाराय केशानामुपरि दर्भस्थापनं समन्त्रकमाह — अथेति । क्षुरस्य हिंसकत्वात् ततः पालनप्रार्थना । समन्त्रकं क्षुरनिधानमाह — स्वधित इति । स्पष्टमन्यत् । ' प्रच्छिद्योदपात्रे प्रास्यति । तूष्णीमेवोत्तरं गोदानमभ्युनत्ति तूष्णीं दर्भतरुणकमन्तर्दधाति तूष्णीं क्षुरेणाभिनिधाय प्रच्छिद्योदपात्रे प्रास्यति ' ( श. ३.१.२.८ ) । अत्र मन्त्रमन्तरैव तूष्णीमुत्तर-गोदानोन्दनादिकम् । ' अथ नापिताय क्षुरं प्रयच्छति । स केशश्मश्रु वपति ' ( श. ३.१.२.९ ) ।

पृष्ठ 15

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 15 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ शुक्लयजुर्वेदसंहिता [ अ. ४ अध्यात्मपक्षे तु—– इदं मानवशरीरं देवयजनं देवा इज्यन्ते येन तद् देवयजनं देवादिपूजनसाधनं पूर्वसुकृतैः परमेश्वरानुग्रहेण पृथिव्याः पृथिव्युपलक्षितानां पञ्चभूतानां सम्बन्धि उत्कृष्टं परिणामभूतम् अगन्म प्राप्तवन्तो वयम् । यत्र यस्मिन् निमित्ते सति विश्वे सर्वे देवासो देवा अजुषन्त प्रीतिमन्तः सन्तोऽभीष्टान् कामान् हविर्भागान् वा अजुषन्त सेवितवन्तः । यत्र स्थिता वयम् ऋक्सामाभ्यां यजुर्भिश्च रायस्पोषेण ब्रह्मविद्यारूपाया लक्ष्म्याः पोषेण पुष्ट्या स्वाभाविककामकर्माज्ञानरूपं मृत्युं तरन्तः इषा ब्रह्मरूपेणान्नेन संमदेम हृष्येमहि तुष्येमहि, ' अहमन्नमहमन्न-महमन्नमहमन्नादोऽहमन्नादोऽहमन्नादः ' ( तै. उ. ३.१०.६ ) इत्यादिश्रुतिभिर्ब्रह्मणोऽन्नान्नादत्वोक्तेः । इमा आपो व्यापन-शीला जलादिरूपेण परिणताः परमात्मदेवता देवीः द्योतमानाः स्वप्रकाशाः । पूजायां बहुवचनम् । मह्यं शम् उ सुखकारिण्य एव सन्तु । हे ओषधे संसाररोगनिवर्तक, एनं प्रत्यगात्मानं मा हिंसीः स्वात्मर्वैमुख्यापादनेन हननं मा कार्षीः । किन्तु त्रायस्व प्रत्यक्चैतन्याभिन्नब्रह्मात्मस्वरूपप्रकाशेन जननमरणाविच्छेदलक्षणायाः संसृते रक्ष । दयानन्दस्तु — ' हे विद्वन्! यथा पृथिव्या मध्ये मनुष्यजन्मा इदं देवयजनं च प्राप्य यत्र ऋक्सामाभ्यां यजुर्भी रायस्पोषेण दुःखानि समिषा सन्तरन्तो विश्वेदेवा अगन्मा अजुषन्त मदेम सुखयेम । उ इति वितर्के । मे मम विद्यासुशिक्षाभ्यां सेविता इमा देवीर् देव्य आपः सुखकारिकाः सन्ति, तथैव तत्र त्वं ता जुषस्व । तवैताः सन्तु सुखकारिका भवन्तु । यथौषधे सोमलताद्योषधिगणो रोगेभ्यस्त्रायते, तथा त्वं नस्त्रायस्वैनं स्वधितिर्वज्रस्त्वमेनं जीवं मा हिंसीर्हननं मा कुर्याः ' इति, तच्च विसंगतमेव पृथिव्या इदं देवयजनमिति सम्बन्धसम्भवे ' पृथिव्या मध्ये ' इत्यध्याहारस्याप्रामाणिकत्वात् । एवं ' सन्तरन्तो दुःखस्यान्तं प्राप्नुवन्तः ' इत्यपि तथाविधमेव, निर्मूलत्वात् । एवमेव ' ओषधे ' ' स्वधिते ' इति श्रुतां संबोधनविभक्तिमपहायार्थान्तरकल्पनमपि निर्मूलम् । शतपथविरुद्धं चैतत् । तत्र तु — ' ब्राह्मणाः शुश्रुवां सोऽनूचाना यदहास्य तेऽक्षिभ्यामीक्षन्तें.... तदहास्य तैर्जुष्टं भवति ' ( श. ३.१.१.११ ) इत्युक्तम् । दक्षिणगोदानवितारण उन्दने च इमा आप इति मन्त्रो विनियुक्तः, ' ओषधे त्रायस्व ' इत्यस्य च तत्र दर्भतरुणकस्य केशानामुपरि धारणे विनियोग उक्तः । स्वधितिपदेन तत्र क्षुर एव सम्बोध्यत्वेनोक्तः । ' अथ स्नाति । अमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतो मेध्या वा आपो मेध्यो भूत्वा दीक्षा इति पवित्रं वा आपः पवित्रपूतो दीक्षा इति तस्माद्वै स्नाति ' ( श. ३.१.२.१० ) । अनृतवदनेनान्तःपूतिः पुरुषोऽमेध्यो भवति, आपश्च मेध्या भवन्ति, तस्मात् स्नाति ॥ १ ॥

अध्यात्मपक्ष में तो यह अर्थ है - देवताओं का यजन इससे किया जाता है, अतः यह मानव शरीर देवयजन है । इस देवादिपूजन के साधन पृथिव्यादि पञ्चमहाभूतों से संबद्ध शरीर को हमनें परमेश्वर के अनुग्रह से प्राप्त किया है । जिसके निमित्त होने पर ही समस्त देवगण अभीष्ट कामों अथवा हविर्द्रव्यों का सेवन करते हैं । इस शरीर में स्थित हम लोग ऋक्, साम एवं जुर्मन्त्रों से ब्रह्मविद्यारूप लक्ष्मी की पुष्टि के द्वारा मृत्यु को पार कर ब्रह्मरूप अन से तुष्ट रहें । ये व्यापनशील जलादिरूप से परिणत स्वप्रकाशरूपिणी परमात्मदेवताएं मेरे लिये सुखकारिणी हों । हे संसाररोगनिवर्तक ओषधि, इस प्रत्यगात्मा को अपने से विमुख करते हुए विनष्ट मत होने दो, अपितु सृष्टिप्रपंच से इसकी रक्षा करो । स्वामी दयानन्द का अर्थ तो असंगत है, क्योंकि ' यह पृथिवी का देवयजन है ' इस प्रकार संबन्धकारक होजाने पर ' पृथिवी के मध्य में ' इस तरह का अध्याहार अप्रामाणिक है । ' सन्तरन्तः ' का ' दुःख का अन्त प्राप्त करते हुए यह अर्थ भी निर्मूल है । ‘ ओषधे, स्वधिते ' इन पदों में मन्त्रोक्त संबोधन विभक्तियों को छोड़कर अन्य अर्थ की कल्पना अनुचित है । यह शतपथ ब्राह्मण के भी विरुद्ध है ॥ १ ॥

पृष्ठ 16

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 16 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २ ] वेदार्थपारिजातभाष्यसहिता ७ आपो॑ अ॒स्मान्मा॒तर॑ः शुन्धयन्तु॒ घृ॒तेन॑ नो घृत॒प्व॒ः पुनन्तु । विश्वं हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पु॒त ए॑मि । दी॒क्षात॒पसो॑स्त॒नूर॑सि॒ तां त्वा॑ शि॒वा ँ श॒ग्मा॒ परि॑दधे भ॒द्रं वर्ण॒ पुष्य॑न् ॥२ ॥

' स स्नाति ' इति शतपथश्रुत्या, ' आपो अस्मानिति स्नात्वोदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्धम् ' ( का.श्रौ. ७.२.१५ ) इति मन्त्रः स्नाने विनियुक्तः । या एता आपो मातर ओषधिवनस्पत्यादिसकलजगन्निर्मात्र्य ता अस्मान् शुन्धयन्तु शोधयन्तु । मिमत इति मातरः, मातृवत् पालयित्र्यो वा एता आपः कृतक्षौरानस्मान् यजमानान् शुन्धयन्तु पुनन्तु क्षौर-कर्मनिमित्तामपहितिमशुद्धिं निवारयन्तु । ' घृ क्षरणदीप्त्यो: ' । जिघर्ति क्षरतीति घृतं तेन क्षरणोपेतेन जलेन पुनन्तीति घृतप्वः । जलदेवताश्च नोऽस्मान् क्षरणयुक्तेन जलेन पुनन्तु शुद्धान् कुर्वन्तु । देवीर् द्योतमाना आपः विश्वं हि सर्वमेव रिप्रं पापम् अस्मद्यजमानेभ्यः प्रवहन्तु प्रकर्षेण अपनयन्तु । ' रपो रिप्रमिति पापनामनी भवतः ' ( निरु. ४.२१ ) । यद्वा घृतेन पुनन्तीति घृतप्वः । घृतम् अपां परमं तेजः पवित्रं च । ' तद्वै सुपूतं यं घृतेन पुनन् ' ( श. ३.१.२.११ ) इति श्रुतिः । ' सुवर्णप्राशो घृतप्राश इति मेध्यानि ' इति गोतमः । हीति यस्मादर्थे । यस्मात् स्वभावत एव सर्वे पापं प्रकर्षेण वहन्ति देव्यस्तस्मात् पुनन्तु । ' उदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्धम् ' ( का. श्रौ. ७.२.१५ ) । पूर्वं परिवृतेन निहितेन उदकुम्भोदकेन स्नात्वा उदिदाभ्यः शुचिरा पूत एमीति मन्त्रेण उत्तरपूर्वार्धे निगच्छेत् । शुचिः पूत इति शब्दद्वयेन स्नानाचमनाभ्यां बहिरन्तश्च शुद्धिद्वयमभिधीयते । इच्छब्दः समुच्चयार्थकः । तथाविधशुद्धिद्वयोपेतोऽहम् आभ्योऽद्भय उत्सह्य उद्गम्य एमि भूमिमागच्छामि । शुचिः शुद्धः स्नानेन तथा आपूत आसमन्ताद् भावेनान्तरेणाप्याचमनेन शुचिर्ज-लान्निर्गच्छामीति । ' क्षौमं वस्ते निष्पेष्टवै ब्रूयादहतं चेदद्भिरभ्युक्ष्य, स्नातवस्यं वाऽमौत्रधौतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति ' ( का. श्रौ. ७.२.१६ - १८ ) । स्नानानन्तरं क्षौमं वासः परिदधीत यजमानः । अहतं यन्त्रनिर्मुक्तमधौतं वासो निष्पेष्टवै ब्रूयात् । प्रतिप्रस्थात्रे प्रैषं दत्त्वा तेन च प्रक्षालितं परिदध्यात् । चेदद्भिरभ्युक्ष्य चेच्छब्दो वाशब्दार्थे । अथवा अभ्युक्षणमात्रं कृत्वा परिधत्ते । यद्वा हस्ताभ्यां सम्पेष्टव्यमिति प्रैषार्थः । ततश्च ब्राह्मणहस्तसम्पर्काद् मेध्यता भवति । अहतं चेदद्भिरभ्युक्ष्य वा परिधत्ते । अत्र ब्राह्मणहस्तस्पर्शाऽभ्युक्षणयोर्विकल्पः । अथवा प्रत्यहं कृतस्नानेन सदा परिधीयमानं यद् वासस्तत्परिधत्ते । कीदृशं तत्? अमौत्रधौतम् अरजकप्रक्षालितं विचिता निष्काशिताः केशाः सूत्राणि यस्माद् तद् विचितकेशम्, प्रसारिता दशा अग्रभागो यस्य तत् प्रसारितदशम् तादृशं वासः परिदधीत । मन्त्रार्थस्तु – अत्र वासो देवता । हे क्षौमवस्त्र, त्वं दीक्षातपसोस्तनूरसि । दीक्षा दीक्षणीयेष्टि; तप उपसदिष्टिः । दीक्षाभिमानिदेवतायास्तपोऽभिमानिदेवतायाश्च त्वं शरीरवत् प्रियमसि । तां दीक्षातपसोस्तनूं तद्देवताद्वयशरीरभूतां त्वामहं मन्त्रार्थ - माता के समान पालन करने वाले हे जलदेवता! तुम हमें शुद्ध करो । निश्चय ही दीप्तिमान् निर्मल जल सम्पूर्ण पापों को धो डालते हैं । इस जल में स्नान कर बाहर - भीतर से शुद्ध हुआ मैं जल से बाहर आता हूँ । हे क्षौम वस्त्र! तुम दीक्षाभिमानी और तपोभिमानी देवता के शरीर के समान प्रिय हो । तुमको धारण कर मैं कल्याण रूप कान्ति से पुष्ट होता हूँ । इस मन्त्र का उच्चारण करते हुए यजमान तालाब आदि में स्नान करता है और रेशमी वस्त्र धारण करता है ॥२ ॥

भाष्यसार - शतपथश्रुति के अनुसार ' आपो अस्मान् ' इस मन्त्र से स्नान करना चाहिये, यह कात्यायन श्रौतसूत्र ( ७.२.१५ ) में कहा गया है । तदनन्तर ' दीक्षातपसोः ' इत्यादि मन्त्र से वस्त्रधारण करे । यह याज्ञिक विनियोग कात्यायन ( ७.२.१५-१८ ) ने बताया है । याज्ञिक प्रक्रिया में विनियोग के अनुसार इस कण्डिका का अर्थ किया गया है ।

पृष्ठ 17

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 17 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ शुक्लयजुर्वेदसंहिता [ अ. ४ । भद्रं वर्णं परिदधे । कीदृशीं त्वाम्? शिवां शग्मां द्वयोरपि शब्दयोः सुखार्थकत्वाद् अत्यन्तसुखरूपां कोमलत्वादिना त्वां परिदध इति साय-पुष्यन् त्वत्परिधाने कल्याणीं कान्ति बिभ्रत् । यद्वा शिवां शान्तां शग्मां ससुखां साध्वीं वा णादिसम्मतोऽर्थः । घृतेन नो घृतप्वः पुनन्त्विति.. विश्वं शतपथे च — ' स स्नाति । आपोऽस्मान् मातरः शुन्धयन्त्विति विश्वं हि हि रिप्रं प्रवहन्ति देवीरिति यद्वै विश्वं सर्वं यद्यदमेध्यं रिप्रं तत्सर्वं ह्यस्मादमेध्यं प्रवहन्ति तस्मादाह हीति । यद् विश्वं रिप्रं प्रवहन्ति देवीरिति ' ( श. ३.१.२.११ ) । मन्त्रो व्याख्यात एव । तृतीयपादस्य तात्पर्यमाह आपोऽस्माद् - विश्वं यजमानादपगमयन्ति तत्सर्वमुच्यते, यदमेध्यं तद् रिप्रम्, अतो देहगतं मालिन्यमात्मगतं पातकं सर्वं द्योतमाना पूत एति ' ( श. यतोऽत एवाह मन्त्रः । ‘ अथ प्राडिवोदङ्क्रामति । उदिदाभ्यः शुचिरा पूत एमीत्युद्ध्याभ्यः वा इयं गोस्त्वक् शुचिः पुरुषे हैषाग्र ३.१.२.१२ ) । ‘ अथ वासः परिधत्ते । सर्वत्वायैव स्वामेवास्मिन्नेतत्त्वचं दधाति या ह त्वग् गव्येतां दधाम तयैषा आस ’ ( श. ३.१.२.१३ ) । ' ते देवा अब्रुवन् । गौर्वा इदं सर्वं बिभर्ति हन्त येयं पुरुषे । गव्येतां त्वचमदधुस्तयैषा वर्षन्तं तया हिमं तया घृणि तितिक्षिष्यत इति ' ( श. ३.१.२.१४ ) । ' तेऽवच्छाय पुरुषम् च कुशो वर्षन्तं तया हिमं तया घृणि तितिक्षते ' ( श. ३.१.२.१५ ) । ' अवच्छिन्नो हि वै पुरुषः । तस्मादस्य बिभर्त्येतां यत्रैव क्व ह्यस्मि-वा यद्वा विकृन्तति तत एव लोहितमुत्पतति तस्मिन्नेतां त्वचमदधुर्वास एव तस्मान्नान्यः पुरुषाद्वासो सुवाससं दिदृक्षन्ते स्वया हि स्त्वचमदधुस्तस्मादु सुवासा एव बुभूषेत् स्वया त्वचा समृद्ध्या इति तस्मादप्यश्लीलं गौरहमस्य त्वचं बिभर्मीति सा बिभ्यती त्वचा समृद्धो भवति ' ( श. ३.१.२.१६ ) । ' नो हान्ते गोर्नग्नः स्यात् । वेद ह वाससः । त्रसति त्वचं म आदास्यत इति तस्मादु गावः सुवाससमुपैव निश्रयन्ते ' ( श. ३.१.२.१७ ) । ' तस्य आरोका वा एतस्य नक्षत्राणामेवं अग्नेः पर्य्यासो भवति वायोरनुच्छादो नीविः पितॄणां सर्पाणां प्रघातो विश्वेषां देवानां तन्तव हि वा एतत्सर्वे देवा अन्वायत्तास्तस्माद्दीक्षितवसनं भवति ' ( श. ३.१.२.१८ ) । मन्त्रगतस्य उदिदाभ्य इति चरमपादस्य पृथग्विनियोगमाह — शुचिः पूत इति । आभ्योऽद्भयः सकाशात् सर्वत्त्वाय वस्त्र- शुद्ध एव सन् उद्गच्छामीति तस्यार्थः । वासःपरिधानं विधाय प्रशंसति — सर्वत्वायेति । सर्वस्यैव दीक्षितस्य गव्याश्रिता त्वग् परिधानम् । वासोधारणेन त्वचमेव धारितवान् भवति । तत एतद्धारणवतः सर्वत्वं सम्पद्यते । इदानीं तत आदाय गवि अग्रे पुरा पुरुषे आस । ते देवाः किमर्थमियं त्वक् पुरुषे वर्तते? गौस्तु बहूपकारवती, अतस्तां त्वचं । अस्य कुशा-स्थापयामः, वृष्टिहिमादिकमेतया गौः परिहरत्विति गव्यधारयन् । पुरुषादपगमे लिङ्गमाह — तस्मादिति द्युपघाते रक्तस्रावदर्शनाद् देवैस्त्वचो विकर्तनं सिद्ध्यति । तदा पुरुषाणां निस्त्वक्त्वपरिहाराय वस्त्रमकल्पयन् । तस्मात्तत् तेषामेवासाधारणमभूत् । भृतेन च सम्भूषितो भवति । तथा च लौकिका आहुः – वस्त्रं पुरुषस्यालङ्कार प्रसङ्गात् इति । कञ्चित् लोके निन्दितमपि सुवाससं समाजादौ सम्यक् पश्यन्ति । पुरुषस्य त्वचो गवि स्थापनं यदस्ति तत्किमर्थमिति जानीत इत्यतो पुरुषार्थनियममाह — कदाचिदपि गोः समीपे विवासा न भवेत् । यस्मात्तु सा अस्य त्वचं धारयामीति प्रशंसति --- तस्य वा न नग्नः स्यात् । सा बिभ्यती पुनस्त्वगपच्छेदभयात् त्रसति । विहितवस्त्रं सर्वदेवतात्मकत्वेन भवतीत्यर्थः । एतस्येति । वस्त्रस्य परितस्तिर्यगस्यत इति विपर्यासस्तिर्यक्तन्तुसन्दर्भः सोऽग्नेर्भवति, अग्निदेवताको भूतप्रदेशः अनुच्छादोऽनुलोमाच्छाद्यत इति स वायोर्भवति । नीविराद्यन्तप्रदेशः पितॄणां प्रघातः सर्वहननस्थानम्, निबिडी दीक्षित-सर्पाणाम्, तन्तवः स्वरूपेण विश्वेषां देवानाम्, आरोका मध्यच्छिद्राणि नक्षत्राणाम् । तस्मात् सकलदेवत्यत्वाद् वसनेनावश्यं भवितव्यम् ।

पृष्ठ 18

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 18 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २ ] वेदार्थपारिजात भाष्यसहिता ९ ‘ तद्वा अहतं स्यात् । अयातयामतायै तद्वै निष्पेष्टवै ब्रूयाद्यदेवाऽस्यात्राऽमेध्यमा कृणत्ति वा वयति वा तदस्य मेध्यमसदिति यद्यु अहतं स्यादद्भिरभ्युक्षेन्मेध्यमसदित्यथो यदिदं स्नातवस्यं निहितमपल्यूलनकृतं भवति तेनो हापि दीक्षेत ' ( ३.१.२.१ ९ ) । तस्य वस्त्रस्य नूतनत्वं विधत्ते - तद्वा अहतं स्यादिति । अयातयामतायै अशिथिलत्वाय तद् अहतं वस्त्रं निष्पेष्टवै क्षालयितुमन्यं ब्रूयात् । अस्य वस्त्रस्य यदमेध्यम् आकृणत्ति आकृणोति आश्लिष्टं करोति निर्माणकाले, सहैव वपति च । अहतं चेदभ्युक्षणमेव कर्तव्यमिति तत्प्रयोजनम् । मेध्यमसद् मेध्या भवेदिति क्षालनमिति सायणः । देवयाज्ञिकरीत्या वासस उपघातः परिधानेन रागेण वा भवति, अतोऽहत-मपरिहितमरक्तं च निष्पेष्टवै, ' पिष्लृ सञ्चूर्णने ' इति धातुः । तेन हस्ताभ्यां संपेष्टव्यमिति पेषणार्थः । ततश्च ब्राह्मणहस्तसम्पर्काद् मेध्यता भवतीत्यभिप्रायः । अहतं चेदद्भिरभ्युक्ष्य वा परिधत्त इति वासो धावनाद्भिरभ्युक्षणयो-र्विकल्पः । उत्तरीयं च वासः काण्वश्रुतेः । तस्मादेतद्दीक्षणीयं तदहतं स्यादित्याहुस्तदुभयं निष्पेष्टवै ब्रूयात् । हरिस्वामिनस्तु एकमेव वासः परिधानीयमाहुः । तथाहि - ' तदेकमेव, सर्वत्रैकत्वदर्शनात्, उपादेयगतस्यैकत्वस्यावि-वक्षाकारणाभावात् । ‘ तस्य वा एतस्य वाससः ' ( श. ३.१.२.१८ ), ' नेदिदं दीक्षितवसनं परिधाय ' ( श. ३.१.३.६ ), ' अन्तरं दीक्षितवसनात् ' ( श. ५.२.१.१८ ), ' अथैनं पुनर्दीक्षितवसनं परिधापयन्ति ' ( श. ५.३.५.२५ ) इति सर्वत्रैव दृश्यते । ‘ तावन्ये वाससी परिधाय ' ( श. ४.४.५.२३ ), ' अथैनं वासांसि परिधापयन्ति ' ( श. ५.३.५.२० ) इति बहुषु बहुवचनदर्शनात् । तेनाविवक्षितमेवैकत्वम् । यद्वा अधोवसनसम्बन्ध एवैकत्वं विवक्षितम्, परिदधातेस्तत्रैव रूढ-त्वात् । कर्करीत्या तु उत्तरीयं सामर्थ्यप्रापितमेवेति सूत्रकृता नोपनिबद्धम् । तथा च - ' कृष्णविषाणां त्रिवलिं पञ्चवलिं वोत्तानां दशायां बध्नीते ' ( का. श्रौ. ७.३.२५ ) इत्यत्र सामर्थ्यप्रापितत्वाच्चोत्तरे सिचि बध्नातीति नोक्तमिति कर्काचार्यः | काण्वश्रुतौ तु निगदोक्तत्वादुत्तरीयमपि भवत्येव । अथो यदिदं स्नातेन पुरुषेणाच्छाद्य अपल्यूलनकृतं क्षारद्रव्यसहितेनाधौतं प्रतिदिनं प्रक्षाल्य यदेव धार्यते तत् तेन वा दीक्षेत । ' तत्परिधत्ते । दीक्षातपसोस्तनूरसीत्यदी-क्षितस्य वा अस्यैषाऽग्रे तनूर्भवत्यथात्र दीक्षातपसोस्तस्मादाह दीक्षातपसोस्तनूरसीति तां त्वा शिवां शग्मां परिदध इति तां त्वा शिवां साध्वीं परिदध इत्येवैतदाह भद्रं वर्ण पुष्यन्निति पापं वा एषोऽग्रे वर्णं पुष्यति यममुमदीक्षितोऽथात्र भद्रं तस्मादाह भद्रं वर्णं पुष्यनिति ' ( श. ३.१.२.२० ) । उक्तविधस्य वाससः समन्त्रकं परिधानं विधत्ते - तत्परिधत्त इति । दीक्षातपसोस्तनूरिति मन्त्रेण । मन्त्रार्थस्तूक्त एव । अत्र तु श्रुतिरेव मन्त्रस्य तात्पर्यमाह - अस्यैषा अग्रे तनूर्भवतीति । अग्रे प्राग् अदीक्षितस्यैषा तनूरासीत् । अथेदानीं तु दीक्षा दीक्षितदण्डकृष्णाजिनधारणनवनीताभ्यङ्गादिसाध्यः संस्कारः, तपोऽशनवर्जनादिजन्यक्लेशसहनात्मकम्, तदु-भयमनेन प्राप्तत्वाद् दीक्षातपसोस्तनूरसीत्याह । इतिशब्दस्य तात्पर्यमाह --- साध्वीमिति । वस्त्रस्य तनुत्वाभिधानात् स्त्रीलिङ्गता । तृतीयभागमनूद्य व्याचष्टे – भद्रं वर्णं पुष्यन्निति । भद्रत्वसमर्थनाय पूर्वत्राभद्रत्वं प्रसञ्जयति – पापं वा एषोऽग्रे वर्णं पुष्यति यमदीक्षितो धारयति । अध्यात्मपक्षे तु — हे आपः! आप्नुवन्ति व्याप्नुवन्तीत्यापः, पूजायां बहुवचनम्, हे व्यापक परमेश्वर! नोऽस्मान् मातृवत् पालयित्र्यः शुन्धयन्तु शोधयन्तु घृतेन घृततुल्येन स्नेहेन भक्त्या पुनन्तीति घृतप्वो भवत्यो घृतेन स्नेहेनास्मान् पुनन्तु पवित्रयन्तु भवत्यो विश्वं सर्वं रिप्रं पापं प्रवहन्ति प्रकर्षेणापगमयन्ति नाम्ना रूपेण स्वरूपेण वा स्मृतिगोचराः अध्यात्मपक्ष में तो अर्थ इस प्रकार है— हे आपः! अर्थात् हे व्यापक परमेश्वर! हमको मातृरूप से पालन करते हुए शुद्ध करें तथा अपने स्नेह से पवित्र ( निर्मल ) करें । आप नाम रूप अथवा स्वरूप से स्मरण किये जाने पर समस्त पापों को विनष्ट करते

पृष्ठ 19

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 19 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१० शुक्लयजुर्वेदसंहिता [ अ.४ सत्यः सर्वं पापं विनाशयन्ति । आभ्यो भवतीभ्यः शुचिर्बहिः शुद्धः, आपूतः अन्तःपवित्रः सन् उदेमि उद्गच्छामि संसारादूर्ध्वं ब्रह्मात्मभावं गच्छामि प्राप्नोमि । त्वं दीक्षायास्तपसश्च तनूः शरीरमसि, परमेश्वरीयपावनशक्त्यैव तयोः पावयितृत्वात् । तां दीक्षातपसोस्तनूरूपां शिवां कल्याणमयीं शग्मां सुखरूपां त्वां भद्रं सुखावहं वर्णं तमसः परमादित्यवर्णं पुष्यन् पोषयन् परिदधे सर्वतो धारयामि । दयानन्दस्तु — ' हे मनुष्याः, यथा भद्रं वर्णं पुष्यन्नहं या घृतप्वो देवीः देव्यो रिप्रं प्रवहन्ति, विद्वांसो मातरो या घृतवो घृतेन सन्ति याभिरस्मान् सुखयन्ति, ताभिर्नोऽस्मान् भवन्तः शुन्धन्तु पुनन्तु च यथाहमुदिदाभ्यः शुचिः पवित्र आपूतः शुद्धो भूत्वा या दीक्षातपसोस्तनूरस्यस्ति, त्वामेतां शिवां शग्माम् एमि प्राप्नोमि । परिदधे सर्वतो धरामि । यथा तास्तां च यूयमपि धरत ' इत्यन्वयः । भावार्थे तु —— ' याः सर्वसुखप्रापिका आपः प्राणधारिका मातृवत्पालनहेतव आपः सन्ति, ताभ्यः सर्वतः पवित्रतां सम्पाद्यैताः शोधयित्वा मनुष्यैर्नित्यं संसेव्याः । ततः सुन्दरं वर्णं रोगरहितं शरीरं च सम्पाद्य नित्यं प्रयलेन धर्ममनुष्ठाय पुरुषार्थेनानन्दः कर्तव्यः ' इति, तदेतत् सर्वं विशृङ्खलमेव, विकल्पासहत्वात् । तथाहि — कोऽयं सम्बोधकः? ईश्वरो जीवो वा? नाद्यः यथाहं भद्रं वर्णं पुष्यन्नित्यसङ्गतेः । नहीश्वरस्य वर्णं सम्भवति, तस्य निराकारत्वात् । कथं चापो घृतं पुनन्ति । रिप्रमित्यस्य व्यक्तवाणीप्राप्तव्यभिचारेति कथमर्थः? ज्ञातुं योग्यं विश्वमापः कथं प्रवहन्ति? घृतेनापः कथं पुष्टियोग्याः? इत्यपि स्पष्टयितव्यम् । नान्त्यः, अपसिद्धान्तापातात् । नहि त्वया वेदा

जीवोपदिष्टा मन्यन्ते । शतपथविरोधस्तु पूर्वव्याख्यानेन स्पष्ट एव ॥ २ ॥

म॒हीनां॒ पर्योऽसि वच॒दा अ॑सि॒ वर्चो मे देहि । वृ॒त्रस्या॑सि क॒नीन॑श्चक्षुर्दा अ॑सि॒ चक्षुर्मे देहि ॥ ३ ॥

' शालां पूर्वेण तिष्ठन्नभ्यङ्क्ते कुशेषु नवनीतेन शीर्णोऽध्यनुलोमं सपादको महीनां पयोऽसीति ' ( का. श्रौ. ७.२.३२ ) । शालायाः पुरस्तात् कुशेषु तिष्ठन्नध्वर्युर्यजमानं गव्येन नवनीतेन शिर आरभ्य अनुलोमं सपादकं पादविशिष्टं यथा स्यात्तथाऽभ्यङ्क्ते । सपादकमिति विभक्तिव्यत्ययो द्रष्टव्य इति सूत्रार्थः । हे नवनीत! त्वं महीनां हैं । अतः आपके द्वारा बाह्य एवं आन्तर रूप से पवित्र होकर जगत् से उत्तर ( उच्च ) ब्रह्मात्मभाव को प्राप्त करता हूँ । आप दीक्षा एवं तपःस्वरूप हैं । अतः हे दीक्षा एवं तप की कल्याणमयी, सुखरूपिणी मूर्ति, आपके तमोविरहित तेज का पोषण करते हुए मैं उसे सर्वतोभावेन धारण करता हूँ । स्वामी दयानन्द का अर्थ विशृंखलित है, क्योंकि तदनुसार यहां कौन सम्बोधनकर्ता है? ईश्वर या जीव? यह ज्ञात नहीं होता । ईश्वर सम्बोधक नहीं हो सकता, क्योंकि ' अहं भद्रं वर्णं पुष्यन् ' इसमें निराकार होने के कारण ईश्वर के वर्ण का कथन असम्भव है । अन्यत्र भी अर्थों में अस्पष्टता है । जीव को भी इस मन्त्र में सम्बोधनकर्ता नहीं माना जासकता, क्योंकि दयानन्दीय मतानुसार वेदमन्त्र जीव द्वारा उपदिष्ट नहीं हैं । इस अर्थ में शतपथ ब्राह्मण के साथ विरोध तो स्पष्ट ही है || २ || मन्त्रार्थ - हे नवनीत! तुम गायों के दूध के रूप हो, तेज का सम्पादन करने में समर्थ हो, मुझे तेज दो । हे अंजन! तुम वृत्रासुर की काली पुतली के समान हो, चक्षु इन्द्रिय को शक्ति देने वाले हो, मुझे दृष्टि दो । इस मन्त्र का उच्चारण करते हुए यजमान मस्तक पर नवनीत लगाता है और आंखों में अंजन लगाता है ॥ ३ ॥

भाष्यसार -- याज्ञिक विनियोग के अनुसार ' महीनां पयोऽसि मन्त्र से गौ के नवनीत से यजमान के शरीर का लिम्पन किया जाता है तथा ' वृत्रस्यासि ' मन्त्र से अध्वर्यु यजमान की आंखों में अंजन करता है । यह विनियोग कात्यायन

पृष्ठ 20

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 20 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ३ ] वेदार्थपारिजात भाष्यसहिता ११ गवां पयोऽसि । ‘ महीति गोनामसु पठितम् ' ( निघ. २.११. ५ ) | नवनीतस्य क्षीरजन्यत्वात् पयस्त्वोपचारः । वर्चोदा असि स्निग्धत्वेन कान्तिप्रदोऽसि । अतो मे मह्यं यजमानाय वर्चो देहि कान्ति प्रयच्छेति सायणः । पुंस्त्वमार्षम् । ‘ वृत्रस्येत्यक्ष्यावनक्ति त्रैककुदाञ्जनेन, अभावेऽन्यदिति ' ( का. श्रौ. ७.२.३३-३४ ) । वृत्रस्येति मन्त्रेण त्रिककुत्पर्वतीयेन सौवीराञ्जनेन यजमानस्याक्षिणी अञ्ज्यादध्वर्युः । तदभावेऽन्यदञ्जनं ग्राह्यम् । अञ्जनं देवता । हे अञ्जन! त्वं वृत्रस्यासुरस्य कनीनकोऽसि नेत्रमध्यगतकृष्णमण्डलरूपोऽसि, ' इन्द्रो वृत्रमहनत् । तस्य कनीनिका परापतत् । तदाञ्जनमभवत् ' ( तै. सं. ६.१.१.१७ ) इति श्रुतेः । त्वं कनीनिकारूपत्वाच्चक्षुर्दा असि दृष्टिप्रदोऽसि । अतो मे मह्यं चक्षुर्देहि चाक्षुषपाटवं प्रयच्छेति सायणसम्मतं व्याख्यानम् । अध्यात्मपक्षे— हे परमेश्वर! महीनां महनीयानां ( पूज्यानां ) गवामन्येषां पूज्यानां पवित्राणां पयः सारोऽसि सर्वपूज्यतमोऽसि । वर्चोदा, वर्चस्तेजो ददातीति वर्चोदा, वर्चो भजनध्यानादिजन्यो दीप्तिविशेषः, वर्चो मे देहि । वृत्रस्य सर्वावरकस्याच्छादकस्याज्ञानस्य कनीनकः प्रकाशकोऽसि । अज्ञानस्य तदवच्छिन्नचैतन्येनावृतेन साक्षिणैव प्रकाशनाच्चक्षुर्ज्ञानरूपं मे मह्यं देहि । दयानन्दस्तु— ‘ यो महीनां पयोऽस्यस्ति, यो मे मह्यं वर्चो देहि ददाति, वृत्रस्य कनीनकोऽस्यस्ति, चक्षुर्दा अस्ति, स सूर्यो मे मह्यं चक्षुर्देहि ददाति । | सर्वत्र व्यत्ययः ' इति, तदप्यसङ्गतम्, अनुपपत्तेः । तथाहि तद्दृष्ट्यात्र सूर्यः प्रार्थ्यते, तच्च नोपपद्यते, पृथिव्या एकत्वादत्र महीनामिति बहुवचनमनुपपन्नम् । न च सूर्यो महीनां पयोऽस्ति । यत्तु ' जलरसनिमित्तोऽसि ' इत्युक्तम्, तदप्यसङ्गतम्, तथात्वे महीनामित्यस्य वैयर्थ्यापत्तेः पयःपदस्य पयोनिमित्तार्थकत्वे मानाभावात्, ‘ वालाग्रशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ' इत्याप्तोक्तेः । सर्वस्यैव रूपवद् द्रव्यस्य प्रकाशकत्वे मेघ-प्रकाशकत्वोक्तेः प्रयोजनं वक्तव्यम् । तेन च कथं चक्षुर्दातृत्वम् । चक्षुःपदस्य चक्षुर्व्यवहारलक्षणायां बीजं वक्तव्यम्, अन्यथा लक्षणानुपपत्तेः । सिद्धान्तानुसारिव्याख्यानं तु शतपथसम्मतम् । तथाहि wwwwwwwwww ' अथाग्रेण शालां तिष्ठन्नभ्यङ्क्ते । अरुर्वै पुरुषोऽवच्छितोऽनरुरेवैतद् भवति यदभ्यङ्क्ते गवि वै पुरुषस्य त्वग्गोर्वा एतन्नवनीतं भवति स्वयैवैनमेतत्त्वचा समर्धयति तस्माद्वा अभ्यङ्क्ते ' ( श. ३.१.३.७ ) । ' तद्वै नवनीतं भवति । घृतं वै देवानां फाण्टं मनुष्याणामथैतन्नाहैव घृतं नो फाण्टं स्यादेव घृतं स्यात् फाण्टमयातयामतायै तदेनमयातयाम्नैवाऽयातयामानं करोति ' ( श. ३.१.३.८ ) । दीक्षितस्य स्वधर्मकमभ्यङ्गं विधत्ते -- अथाग्रेणेति । शालायाः पुरोदेशे तिष्ठन् सर्वाङ्गे नवनीताभ्यञ्जनं कुर्यादिति विशिष्टविधिः । अभ्यङ्गप्रयोजनमाह – अरुर्वा इति । अवच्छितः, अवपूर्वकात् ' छो छेदने ' इति धातोर्निष्ठायां श्रौतसूत्र ( ७.२.३०-३२ ) में निरूपित है । इसीके अनुसार सायण आदि ने व्याख्या की है । • अध्यात्मपक्ष में यह अर्थ है—- हे परमेश्वर! आप पूज्य गायों तथा अन्य पूज्य पवित्र पदार्थों के सारभूत हैं, सबके पूज्यतम हैं । भजन, ध्यान आदि से उत्पन्न होनेवाले विशिष्ट तेज के आप प्रदाता हैं । अतः मुझे वह तेज प्रदान करें । सबके आवरणकर्ता अज्ञान को आप अनावृत करते हैं, अतः ज्ञानरूपी चक्षु मुझे प्रदान करें । स्वामी दयानन्द की अर्थदृष्टि में यहां सूर्य की प्रार्थना की गई है, वह उपपन्न नहीं होती । पृथिवीं के एक होने के कारण ' महीनाम् ' इस पद में बहुवचन संगत नहीं है । सूर्य ' महीनां पयः ' नहीं हो सकता । ' जलरस के निमित्त हो ' यह कहना भी असंगत है, क्योंकि तब ' महीनाम् ' यह पद व्यर्थ हो जायगा । हमारे सिद्धान्त के अनुसार व्याख्या तो शतपथ ब्राह्मण से संमत है ॥ ३ ॥