वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 21–30

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 21–30

पृष्ठ 21

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 21 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२ शुक्लयजुर्वेदसंहिता [ अ.४ -रूपम्, त्वचा निर्मुक्तः पुरुषः, अरुर्वै व्रणात्मकः खलु । तदेतेनाभ्यङ्गेन परिहरति — समर्धयतीति । गोसम्बन्धिनवनी- एतदेव स्पष्टम् च्यते । तत्र परिधानार्थवादे पुरुषत्वचो गवि धारणमुक्तम् । गोश्च नवनीतोत्पत्तिः प्रसिद्धैव । अतो तधारणेन स्वकीयत्वचैव समृद्धो भवति । अत एव स्वत्वचः पुनः प्राप्तेरव्रणत्वेनानरुत्वसम्पादनायाभ्यङ्गाय, नवनीतद्रव्यमुपयुज्यते | नवनीताभ्यङ्गं प्रशंसति — घृतं वै देवानामिति । नवनीतभावात् प्रागवस्थापन्नं द्रव्यं फाण्टम् तन्मनुष्याणाम् ।यस्मान्नवनीतं फाण्टघृतयोरन्तरालवर्तित्वात् तदन्यदन्यच्च भवति, तस्मान्मनुष्यदेवताभ्यामन्यस्यान्यस्य दीक्षितस्य तद्युक्तम् । अत एव पूर्वोत्तरभावात् प्रच्यवाप्रच्यवादयातयामता । तेनाभ्यञ्जनेनाध्वर्युर्दीक्षितमप्ययातयामानं करोति । ' तमभ्यनक्ति । शीर्षतोऽग्र आपादाभ्यामनुलोमं महीनां पयोऽसीति मह्य इति हं वा एतासामेकं नाम यद्गवां तासां वा एतत्पयो भवति तस्मादाह महीनां पयोऽसीति वर्चोदा असि वर्चों में देहीति नात्र तिरोहितमिवास्ति ' ( श. ३.१.३.९ ) । अभ्यङ्गस्योपक्रमोपसंहारौ विधत्ते - तमभ्यनक्तीति । अधोमुखावस्थानादवरोहाभ्यङ्गे आनुलोम्यं । ' इडेरन्ते स्यात् । ’ शीर्षतोऽग्र आपादाभ्यामानुलोम्यमिति मन्त्रमाह – महीनां पयोऽसि । मन्त्रस्य पूर्वभागं व्याचष्टे – मह्य इति महीति नाम | इत्युपक्रम्य ‘ महि विश्रुति ' इत्यन्तानि ' अघ्निये ते नामानीति ' ( तै. सं. ७.१.६.१८ ) तैत्तिरीयश्रुतौ गवां पूयो अन्यत् स्पष्टम् । ‘ अथाक्ष्यावानक्ति । अरुर्वै पुरुषस्याक्षि प्रशान् ममेति ह स्माह याज्ञवल्क्यो दुरक्ष इव हास हैवास्य दूषीका ते एवैतदनरुष्करोति यदक्ष्यावानक्ति ' ( श. ३.१.३.१० ) । अक्ष्णोरञ्जनं विधत्ते - अथेत्यादि । इतराव- । यवसंस्पर्शासहिष्णुत्वादक्षि अरुः व्रणो भवति । स मम व्रणः प्रशान् प्रशाम्येत इत्यञ्जनं कर्तव्यमिति याज्ञवल्क्य आह दुरक्षं नेत्रमालिन्यमेवारुरिति तत्परिहारायाञ्जनम् । दूषिका नेत्रयोर्मलम् । सा ह्यस्य पुरुषस्य भूय एवेत्यक्ष्णो दुरक्षत्वमेव । तदनेन नाशयति । ‘ यत्र वै देवाः । असुररक्षसानि जघ्नुस्तच्छुष्णो दानवः प्रत्यङ् पतित्वा मनुष्याणामक्षीणि प्रविवेश स एष कनीनकः कुमारक इव परिभासते तस्मा एवैतद्यज्ञमुपप्रयन्त्सर्वतोऽश्मपुरां परिदधात्यश्मा ह्याञ्जनम् ' ( श. ३.१.३.११ ) । अञ्जनं प्रकारान्तरेण प्रशंसति — यत्र वा इति । यत्र वा इत्यसुरवधसमये शुष्णः प्रत्यङ्गत्वा तद्भयात् पुरुषाणामक्षिमध्यं प्रविश्य कनीनिकारूपेण कुमारकः सन् वर्तते । तस्मै तस्य यज्ञं उपगच्छन् सर्वतः अश्मपुरोरक्षार्थं कृतवान् भवति गिरिं । ats यमश्मेत्यश्मशब्दार्थमाह- अश्मा ह्याञ्जनम् । ‘ त्रैककुदं भवति । यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्तं त्रिककुदमकरोत्तद्यत्त्रैककुदं भवति.... यदि त्रैककुदं न विन्देदप्यत्रैकककुदमेव स्यात् समानी ह्येवाञ्जनस्य बन्धुता ' ( श.३.१.३.१२ ) । अञ्जनं विशिनष्टि । त्रिककुत् पर्वतः तत्सम्बन्धि त्रैककुदम् । शिष्टं स्पष्टम् । यदि त्रैककुदं न विन्दे-त्तत्राऽत्रैकककुदमपि ग्राह्यम् । अञ्जनस्य बन्धुता बन्धु ब्राह्मणं तद्भावो बन्धुता सा समानी ' अरुर्वै पुरुषस्याक्षि ' इत्यादिकं ब्राह्मणं त्रैककुदाऽत्रैकककुदयोः समानमित्यर्थः । ' शरेषीकयाऽनक्ति । वज्रो वै शरो विरक्षस्तायै सतूला भवत्यमूलं वा इदमुभयतः..... परिच्छिन्नोऽन्तरिक्षमनुचरति ' ( श. ३.१.३.१३ ) इत्यादिभिः शरस्य तृणविशेषस्य शलाका इषीका विरक्षस्तायै सतूला कर्तव्या । राक्षसजातिरमूलं सदन्तरिक्षमनुचरति, उभयतः परिधिभ्यः परिच्छिन्नोऽमूलः सन् पुरुषोऽप्य-नन्तरिक्षमनुचरति । तस्मात् पुरुषसमानदेशवति रक्षोनिर्हरणाय शरेषीका सतूला कर्तव्या । ' स दक्षिणमेवाग्र आनक्ति । सव्यं वा अग्रे मानुषेऽथैवं देवत्राः ' ( श. ३.१.३.१४ ) । ' स आनक्ति । वृत्रस्यासि कनीनक इति वृत्रस्य ह्येष कनीनकश्चक्षुर्दा असि चक्षु में देहीति नात्र तिरोहितमिवास्ति ' ( श. ३.१.३.१५ ) । स दक्षिणं सकृद्यजुषाऽनक्ति । सकृत्तूष्णीमथोत्तरं सकृद्यजुषाऽनक्ति द्विस्तूष्णीं तदुत्तरमेवैतदुत्तरावत् करोति ' ( श. ३.१.३.१६ ) । कनीनकोऽक्षिमध्यकार्ण्यम्, ' इन्द्रो वृत्रमहन् तस्य कनीनका परापतत् तदाञ्जनमभवत् ' ( तै. सं. ६.१.१.५ ) । यजुषा उक्तमन्त्रेण । एवं श्रुत्या विनियोगस्तात्पर्यं चोच्यते ॥३ ॥

पृष्ठ 22

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 22 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ४ ] वेदार्थपारिजातभाष्यसहिता १३ चि॒त्पति॑र्मा पुनातु वा॒क्पति॑र्मा पुनातु दे॒वो मा॑ सवि॒ता पु॑ना॒त्वच्छि॑िद्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑ः । तस्य॑ ते पवित्रपते प॒वित्र॑पू॒तस्य॒ यत्का॑मः पु॒ने तच्छंकेयम् ॥४ ॥

‘ कुशपवित्रैश्चित्पतिर्मेति पावयति सप्तभि: सप्तभिः प्रतिमन्त्रमच्छिद्रेणेति सर्वत्रेति ' ( का. श्रौ. ७.३.१ ) । प्रतिमन्त्रं कुशा एव पवित्राणि, तैः सप्तभि: सप्तभिः कुशैरध्वर्युर्यजमानं शोधयेत । तत्र सर्वेषु मन्त्रेष्वच्छिद्रेणेत्यनु-षञ्जनीयम् 1 । प्रतिमन्त्रं पृथक् सप्तभिः कुशैः शोधने क्रियमाणे मिलित्वा कुशपवित्राण्येकविंशतिर्भवन्ति, ' एकविंशत्या पावयति दशहस्त्या अङ्गुलयो दशपद्या आत्मैकविंशो यावानेव पुरुषस्तमपरिवर्गं पावयति ' ( तै. सं. ६.१.१.२० ) इति तैत्तिरीयश्रुतेः । नाभेरुपरि प्रदक्षिणं द्विरुन्मार्जनम्, नाभेरधः सकृत् । ' चित्पतिर्मा पुनात्विति प्रजापतिर्वै चित्पतिः ' ( श. ३.१.३.२२ ) । यद्वा चितां ज्ञानानां पतिर्मनोऽभिमानी देवो मा मां यजमानं पुनातु शोधयतु, ' मनो वै चित्पतिः ' ( तै. सं. ६.१.१.९ ) इति तैत्तिरीयकश्रुतेः । अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः किरणैः, वायुरच्छिद्रं पवित्रं शुद्धिहेतुत्वात् । यद्वा आदित्यमण्डलमच्छिद्रम्, ' असौ वा आदित्योऽच्छिद्रं पवित्रम् ' ( तै. ब्रा. ३.२.५.२ ) इति श्रुतेः । हे पवित्रपते, पवित्रान् शुद्धान् पातीति पवित्रयतीति पवित्रपतिस्तत्सम्बुद्धौ हे पवित्रपते शुद्धपालक, ते पवित्रपूतस्य तव पवित्रेण पूर्वोक्तेन शुद्धस्य यजमानस्याभीष्टं भूयादित्यर्थः । तदेव स्पष्टयति — यत्काम इति । यत्कामो यस्मिन् कामो यस्य स यत्कामोऽहं पुने आत्मानं शोधयामि तच्छकेयम् । यद्वा यः कामो यस्य स सोमयागानुष्ठाने कामवानहं तत्सोमयागानुष्ठाने शक्तः स्याम् । सोमयागानुष्ठानसमर्थोऽहं भूयासम् । वाक्पतिर्वाचां पतिर्बृहस्पतिर्देवो मा मां पुनातु । ‘ सविता विश्वप्रसविता देवोऽन्तर्यामी मा मां पुनातु ' इति काण्वसंहिताव्याख्याने सायणभाष्यम् । यद्वा तस्य मम पवित्रपूतस्य सतस्ते तव प्रसवे वर्तमानस्य हे पवित्रपते देव सवितः एतद्भवतु यत्कामोऽहमात्मानं पावयामि तच्छकेयं शक्नुयाम्, ' यज्ञस्योदृचं गच्छानि ' ( श. ३.१.३.२३ ) इति श्रुतेरित्युव्वाचार्यः । शतपथेऽपि— अथैनं दर्भपवित्रेण पावयति । अमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतो मेध्या वै दर्भा मेध्यो भूत्वा दीक्षा इति पवित्रं वै दर्भाः पवित्रपूतो दीक्षा इति तस्मादेनं दर्भपवित्रेण पावयति ' ( श. ३.१.३.१८ ) । तत्र - ' तद्वा एकं स्यादिति । एको ह्येवायं पवते तदेतस्यैव रूपेण तस्मादेकं स्यात् ' ( श. ३.१.३.१ ९ ) इति कुशैकत्वपक्षम्, ‘ अथो अपि त्रीणि स्युः । एको ह्येवायं पवते सोऽयं पुरुषेऽन्तः प्रविष्टस्त्रेधा विहितः प्राण उदानो व्यान इति तदेतस्यैवानु-मात्रां तस्मात् त्रीणि स्युः ' ( श. ३.१.३.२० ) इति त्रित्वपक्षमुपक्षिप्य, ' अथो अपि सप्त स्युः । सप्त वा इमे शीर्षन् प्राणास्तस्मात् सप्त स्युस्त्रिः सप्तान्येव स्युरेकविंशतिरेषैव सम्पत् ' ( श. ३.१.३.२१ ) इति शीर्षन् शिरसि भवा मुखादिछिद्रगताः सप्त स्युः । सप्तसंख्यायास्त्रिरावृत्तौ एकविंशतिः स्युः । एषैव पुरुषरूपा सम्पत्, ' दशहस्त्या अङ्गुलयो दश पद्या आत्मैकविंशः ' ( तै. सं. ६.१.१.८ ) इति श्रुत्यन्तरात् । मन्त्रार्थ - ज्ञानाधीश ब्रह्मा वायुरूप पवित्र से, सूर्य की किरणों से मुझे पवित्र करें । वाणी की अधिष्ठात्री देवता मुझे पवित्र करें । सर्वान्तर्यामी देव मुझे पवित्र करें । हे पवित्र आत्मा के रक्षक! उस पवित्रपूत आपके पवित्र से मैं पवित्र हुआ हैं । जिस कामना से मैं पवित्र हुआ हूँ, उसको करने में मैं समर्थ होऊँ ॥ इस मन्त्र को सात बार पढ़कर कुशा से यजमान अपने सिर पर मार्जन करता है ॥४ ॥

भाष्यसार - ' चित्पतिर्मा ' इत्यादि मन्त्रों के द्वारा सात सात कुशात्मक पवित्रों से ( कुशाओं से ) अध्वर्यु यजमान को पवित्र करता है, यह याज्ञिक विनियोग का.श्रौ. ( ७. ३. १ ) में है । शतपथ आदि ब्राह्मणों में इस कण्डिका का याज्ञिक विनियोगानुसारी विवरण उल्लिखित है ।

पृष्ठ 23

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 23 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४ शुक्लयजुर्वेदसंहिता [ अ. ४ ‘ तं सप्तभिः सप्तभिः पावयति । चित्पतिर्मा पुनात्विति प्रजापतिर्वै चित्पतिः प्रजापतिर्मा पुनात्वित्येवैतदाह वाक्पतिर्मा पुनात्विति प्रजापतिर्वै वाक्पतिः प्रजापतिर्मा पुनात्वित्येवैतदाह देवो मा सविता पुनात्विति तद्वै सुपूतं यं देवः सविता पुनात्तस्मादाह देवो मा सविता पुनात्वित्यच्छिद्रेण पवित्रेणेति यो वा अयं पवत एषोऽच्छिद्रं पवित्रमेतेनैतदाह सूर्यस्य रश्मिभिरित्येते वै पवितारो यत्सूर्यस्य रश्मयस्तस्मादाह सूर्यस्य रश्मिभिरिति ' ( श. ३.१. ३.२२ ) । एकविंशतिपक्षे एकविंशतिं दर्भान् त्रेधा विभज्य सप्तभिः सप्तभिः ' चित्पतिर्मा वाक्पतिर्मा देवो मा ' इति त्रिषु मन्त्रेष्वेकैकेन मन्त्रेणा-ध्वर्युर्यजमानं पावयते । अच्छिद्रेण पवित्रेणेति मन्त्रशेषः सर्वत्रानुषञ्जनीयः । तत्राप्येवं विभागः — • सप्तभि: प्रथममन्त्रेण नाभित आरभ्योर्ध्वमुन्मृज्यात्, पुनश्च सप्तभिर्द्वितीयमन्त्रेणाप्येवम्, अवशिष्टैः सप्तभिः कुशैस्तृतीयमन्त्रेण नाभेरध आर-भ्यावमृज्यात् । तत्सर्वं कात्यायनवचनेन मन्त्रव्याख्यानप्रसङ्ग उक्तमेव । तत्र चित्पतिवाक्पतिशब्दयोः प्रजापतिरेवार्थः । चित्पतिपदेन मनोऽभिमानी देवोऽर्थ इत्यप्युक्तमेव । देवः सवितेति प्रसिद्ध एव । सर्वशेषभूतस्याच्छिद्रेणेत्यस्यार्थमाह श्रुतिः– ' यो वा अयं पवते एषोऽच्छिद्रं पवित्रम् ' इति । सर्वदा सर्वत्र पवनादेष वायुरच्छिद्रं पवित्रम् । सूर्यस्य रश्मिभिरित्येते वै पवितारो यत्सूर्यरश्मयस्तस्मादाह – सूर्यस्य रश्मिभिरिति । ' तस्य ते पवित्रपत इति । पवित्रपतिर्हि भवति पवित्रपूतस्येति पवित्रपूतो हि भवति यत्कामः पुने तच्छकेयमिति यज्ञस्योदृचं गच्छानीत्येवैतदाह ' ( श. ३.१.३.२३ ) । मन्त्रशेषं व्याचष्टे – तस्य त इति । ‘ पवित्राणि रश्मयः शोधकत्वात् ' ( निरु. ५.२ ), ' अग्निः पवित्रपतिः ' ( निरु. ५.२ ) । तत्पाठात् स्वरूपमपि पवित्रपतिर्भवति । उदृचम् उपरि भाविनी ऋग् उदृक्, अनेन च समाप्तिर्लक्ष्यते । तेन यज्ञस्यान्तं प्राप्नवानीत्यर्थः । अध्यात्मपक्षे – हे परमात्मन् चित्पतिः चितां ज्ञानानां पतिः परमात्मा मां पुनातु, वाक्पतिः वाचां परा - पश्यन्ती-मध्यमा - वैखरीणां पतिः स्वामी प्रजापतिर्मा मां पुनातु । देवो द्योतमानः सविता विश्वप्रसविता अच्छिद्रेण निर्विघ्नेन पवित्रेण पावनेन ज्ञानेन मां पुनातु । सूर्यस्य ज्ञानसूर्यस्य सच्चिदानन्दसूर्यस्य वा रश्मिभिरात्मानात्मविज्ञानैर्मननरूपैर्वा मां पुनातु । हे पवित्रपते पावनानां पावन, पवित्रपूतस्य पवित्रेण नाम्ना स्वरूपेण वा पूतस्य नित्यशुद्धस्य तव कृपया यत्कामोऽहं यस्मिन् ब्रह्मात्मसाक्षात्कारे ब्रह्मप्राप्तौ वा कामो यस्य सोऽहं यत्कामः पवित्रो भवामि, तत्सम्पादयितुमहं समर्थः स्याम् । दयानन्दस्तु— ‘ हे पवित्रपते परात्मन्, चित्पतिर्वाक्पतिः सविता देवो भवान् पवित्रेणाच्छिद्रेण विज्ञानेन सूर्यस्य रश्मिभिश्च मा मां मम चित्तं च पुनातु । मा मां मम वाचं च पुनातु । मा मां मम चक्षुश्च पुनातु । यस्य पवित्रपूतस्य कृपया यत्कामोऽहं पुने पवित्रो भवामि, यस्य ते तवोपासनया तत्पवित्रं कर्म कर्तुं शकेयं शक्नुयाम्, तस्य सेवां कर्तुं योग्यता मे कथं न भवेत् ' इति, तदेतत्सर्वं शतपथविरुद्धमेव तत्रास्य मन्त्रस्याध्वर्युकर्तृकैकविंशतिकुशकरणकय-जमानकर्मकपावने स्फुटमुपवर्णनात् ॥४ ॥

आध्यात्मिक अर्थ इस प्रकार है- हे परमात्मन्! ज्ञानों कापालक परमात्मा मुझे पवित्र करे । परा, पश्यन्ती, मध्यमा,, वैखरी इन वाणियों का स्वामी मुझे पवित्र करे । द्योतमान तथा विश्व का संचालक, विघ्नरहित पावन ज्ञान से मुझे पवित्र करे । ज्ञानसूर्य अथवा सच्चिदानन्द सूर्य की मननरूपी रश्मियों से मुझे पवित्र करे । हे पावनों के पावन, नाम अथवा स्वरूप के द्वारा नित्य शुद्ध आपकी कृपा से जिस ब्रह्मात्मसाक्षात्कार अथवा ब्रह्मप्राप्ति में मेरी कामना है, ऐसा कामनावान् मैं पवित्र होऊँ तथा उसे पूर्ण करने में समर्थ होऊँ । स्वामी दयानन्द ने – ' हे परात्मन् सविता देव, आप पवित्र विज्ञान एवं सूर्यरश्मियों से मेरे चित्त, वाणी और चक्षु को पवित्र करें ' इत्यादि अर्थ किया है, वह सब शतपथ ब्राह्मण के विरुद्ध है । शतपथ ब्राह्मण में इस मन्त्र का वर्णन अध्वर्युकर्तृक कुशकरणक यजमानकर्मक पवित्रीकरण के लिये स्पष्टतया किया गया है ॥४ ॥

पृष्ठ 24

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 24 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ५ ] वेदार्थपारिजात भाष्यसहिता

आ वो ' देवास ईमहे वा॒मं प्र॑य॒त्य॒ध्व॒रे ।

आ वो ' देवास आ॒शिष ' य॒ज्ञिया॑सो हवामहे ॥५ ॥

१५ ‘ आ वो देवास इति वाचयति ' ( का. श्रौ. ७.३.४ ) । अध्वर्युर्यजमानं वाचयति । दैवी अनुष्टुप् । हे देवासो देवाः, अध्वरे अस्मदीये यज्ञे प्रयति प्रतीति प्रयन् तस्मिन् प्रवर्तमाने वामं वननीयं सम्भजनीयमनुष्ठानं प्राप्नुवति सति तदीयं सम्भावितं फलं वो युष्मान् आ ईमहे आ समन्तात् साकल्येन ईमहे याचामहे । ‘ वन षण सम्भक्तौ ’ । किञ्च, हे देवासो देवाः, यज्ञियास आशिषो यज्ञसम्बन्धीनि फलान्यासमन्तान्नेतुं वो युष्मान् हवामहे आह्वयामः । अध्यात्मपक्षे तु — हे देवास इन्द्रियाद्यधिष्ठातारो देवाः, वो युष्मान् वामं शोभनं भगवत्प्राप्तिलक्षणं संभजनीयं फलम् आ साकल्येन ईमहे याचामहे, युष्माकं भगवत्परायणतायां सत्यामेव तत्फललाभसम्भवात् । युष्मदधीनमेव तत्फलम्, ' मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ' ( भ.गी. १०.९ ), ' तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थ ज्ञानदीपेन भास्वता ॥ ' ( भ. गी. १०.११ ) इति श्रीमद्भगवद्गीतावचनाभ्याम् । अध्वरे ज्ञानयज्ञे प्रयति वर्तमाने हे देवासो वो युष्मान् यज्ञियासो ज्ञानयज्ञसम्बन्धिन्य आशिषः सम्यग् आनेतुं युष्माकमानुकूल्याय युष्मानाह्वामहे । दयानन्दस्तु — ' हे देवास, यथा वयं वो युष्मान् प्रयत्यध्वरे वो युष्माकं वा भूमे समन्ताद्याचामहे ' इति, ' यत्तु प्रकृष्टं सुखमेति येन तस्मिन् प्रयति सुखयुक्ते अध्वरे ' इति च तन्मन्दम्, क्रियारूपस्य यज्ञस्य क्लेशात्मकत्वेन सुखयोगायोगात् । अन्यथा सुखप्रदे भोजनादाविव तस्मिन्नपि सर्वरागास्पदत्वापत्तेः । ' हे यज्ञियासो देवास;, यथास्मिन् संसारे वो युष्माकं सकाशाद् यज्ञियास आशिष आहवामहे ऽभितः स्वीकुर्वीमहि, तथैवास्मदर्थं भवद्भिः सततमनुष्ठेयम् ' इति, तदप्यसङ्गत्तम्, स्वसिद्धान्तव्याकोपात् । तथाहि — तन्मतरीत्या देवा मनुष्या एव । ते च वामं प्रशस्तं गुणसमूहमपि दातुं न शक्नुवन्ति, विद्वद्भ्योऽध्ययनादिभिरेव गुणप्राप्तिसम्भवात् । सिद्धान्ते त्वैश्वर्यवन्तो देवा वामं सम्भजनीयं फलं दातुं शक्नुवन्त्येव । किञ्च, त्वद्रीत्या वाय्वादिशुद्धयेऽग्नौ घृतादिनिक्षेप एव कर्तव्यः । तत्र न गुणसमूहोऽपेक्षितः । मन्त्रार्थ - हे देवताओं, इस यज्ञ में प्रवृत्त होकर हम आपसे माँगने योग्य कर्मफल की कामना करते हैं । हे देवताओं, यज्ञ संबन्धी फल रूप आशीर्वादों को प्राप्त करने के लिये हम आपका आह्वान करते हैं । अध्वर्यु यजमान द्वारा इस मन्त्र का उच्चारण करवाता है ॥५ ॥

भाष्यसार - कात्यायन श्रौतसूत्र ( ७.३.४ ) के विनियोगानुसार अध्वर्यु यजमान को ' आ वो देवासः ' इस ऋचा का वाचन ता है । · आध्यात्मिक पक्ष में इसका अर्थ है— हे इन्द्रियादि के अधिष्ठाता देवगण, आप लोगों से हम सुन्दर भगवत्प्राप्तिरूपी वाञ्छित फल की पूर्ण रूप से याचना करते हैं । भगवद्गीता ( १०.९, ११ ) के वचनानुसार जीव के भगवत्परायण होने पर ही उसकी फलप्राप्ति सम्भव है तथा आप लोगों के अधीन ही वह फल है । इस प्रवर्तमान ज्ञानयज्ञ में हे देवगण, आप लोगों को ज्ञानयज्ञसम्बन्धी आशीः सम्यक् प्राप्त करने हेतु आपकी अनुकूलता के लिये आहूत करते हैं । स्वामी दयानन्द ने ‘ प्रयति ' का अर्थ ' सुखयुक्त अध्वर में ' किया है, यह अनुचित है । क्रियारूपी यज्ञ के क्लेशात्मक होने कारण सुयोग अयुक्त है । अन्यथा भोजनादि की भांति यज्ञ में भी रागास्पदता हो जायगी । स्वामी दयानन्द के मत में देवता

पृष्ठ 25

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 25 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६ शुक्लयजुर्वेदसंहिता [ 37.8 तु सिद्धान्तसम्मत यज्ञसम्पादिन्य आशिष इच्छाश्च स्वेनैव पूरयितुं शक्याः किमर्थं विद्वांसोऽभ्यर्थनीयाः । शतपथे वाचयति । आ वो देवास.. हवामह इति तदस्मै स्वाः सतीर् ऋत्विज एवार्थः प्रतिपादितः -- ' अथाशिषामारम्भं । आशिष आशासते ' ( श. ३.१.३.२४ ) । आ वो देवास इति मन्त्रस्य आशिषामारम्भ इति नाम, भाव्याशिषामारम्भरूपत्वात् , स्वाः स्वकीया मन्त्रपाठस्य प्रयोजनमाह - तदस्मा इति । तत् तेन सर्वासामाशिषामादावेव यजमानेन परिगृहीतत्वात् एव सतीस्ता आशिष ऋत्विजस्तत्तन्मन्त्रेषु यजमानार्थमाशासते ॥५ ॥

स्वाहा॑ य॒ज्ञं मन॑स॒ स्वाहा॒ोरोर॒न्तरि॑क्ष॒त् स्वाहा॑हा॒ द्यावा॑पृथि॒वीभ्या॒ स्वाहा॑हा॒ वाता॒दार॑ते॒ स्वाहा॑ ॥६ ॥

‘ स्वाहा यज्ञमित्यङ्गुली अचते नानाहस्तयोरेवं शेषं प्रतिमन्त्रमुत्तमेन मुष्टी कृत्वा स्वाहेत्युक्त्वा यजमानः वाग्यतोऽङ्गुष्ठौ । एवमेव तत्सहिते चोत्सृजति ' ( का. श्रौ. ७.३.५-८ ) । द्वयोर्हस्तयोर्युगपदेकैकां कनिष्ठिके अङ्गुली सङ्कोचयति , अन्ते मुष्टीकरोति । वचनात् वाव यद्वा नाना पृथग् हस्तयोरङ्गुली सङ्कोचयति नैकस्यैव हस्तस्य द्वे, किन्त्वेकैकस्यैकैकाम् इति मन्त्रेण प्रथमं द्वे कनिष्ठिके । हस्तद्वयस्यानामिके मध्यमे क्रमेण सङ्कोचयेदित्यर्थः । उत्तमेन स्वाहा वातादारभ तर्जनीमङ्गुष्ठं च संकोच्य मुष्टीकृत्वा स्वाहा इति मन्त्रमुच्चार्य यजमानो वाग्यतो भवेत् । मन्त्राः अत्र सायणाचार्यः --- द्यावापृथिवीभ्यामेतत्पदं यथा मन्त्रद्वयं भवति तथा विच्छेदनीयम् । ततश्चत्वारो सम्पद्यन्ते । तदेतत्सर्वमापस्तम्बो विस्पष्टयति – ' स्वाहा यज्ञं मनसेति द्वे स्वाहा पृथिव्या इति द्वे स्वाहोरोरन्तरिक्षादिति । चतुर्णां यजुषां द्वे स्वाहा यज्ञं वातादारभ इति मुष्टीकरोति ' । मनःशब्दस्तैत्तिरीयके तृतीयान्तः अत्र तु पञ्चम्यन्त इति । मनस यज्ञो देवता । स्वाहाशब्दस्य निपातत्वेनानेकार्थत्वादुचिता अर्था ब्राह्मणानुसारेण ग्राह्याः । स्वाहा । स्वाहोरोरन्तरिक्षात् यज्ञं मनसः । इति पञ्चमी तृतीयार्थे । मनसा यज्ञं स्वाहा चित्तेन यज्ञमभिगच्छामि । अत्र स्वाहाशब्दोऽभिगमनार्थः द्यावा-अत्र पञ्चमी सप्तम्यर्थे । उरौ विस्तीर्णेऽन्तरिक्षे स्वाहा यज्ञ आश्रितः । स्वाहाशब्दो यज्ञार्थोऽतः प्रभृति । स्वाहा पृथिवीभ्यां द्यावापृथिव्योः स्वाहा यज्ञः श्रितः । लोकत्रयव्यापी यज्ञ इत्यर्थः । स्वाहा वातादारभे वाताद्वायुप्रसादात् स्वाहा यज्ञमारभे प्रवर्तयामि, वायोः सर्वकर्मप्रवर्तकत्वात् स्वाहा यज्ञ एवं सिद्ध इति शेषः । तित्तिरिश्रुतौ सर्वमेतत् स्पष्टम्— यज्ञ, ‘ स्वाहा यज्ञं मनसेत्याह । मनसा हि पुरुषो यज्ञमभिगच्छति । स्वाहा द्यावापृथिवीभ्यामित्याह द्यावापृथिव्योर्हि तो ऐश्वर्यसम्पन्न देवगण फलप्रदान मनुष्य हैं । अतः वे प्रशस्त गुणसमूह प्रदान करने में समर्थ नहीं हैं । हमारे सिद्धान्त पक्ष ॥५ में ॥ में समर्थ माने गये हैं । शतपथ ब्राह्मण में भी सिद्धान्त पक्ष से संमत अर्थ प्रतिपादित है मन्त्रार्थ - मैं चित्त से यज्ञ को आरम्भ करता हूँ, यह सुसिद्ध हो । विस्तीर्ण अन्तरिक्ष से, द्युलोक और भूलोक करते से हए मैं यज्ञ लाभ करता हैं । प्रवहमान वायु से मैं यज्ञ लाभ करता हैं । यह अनुष्ठान सुसिद्ध हो | इस मन्त्र का उच्चारण यजमान मुट्ठी बांधकर स्वाहा कहता है और मौन होकर फिर मुट्ठी खोलता है ॥६ ॥

करे भाष्यसार --- ' स्वाहा यज्ञम् ' इत्यादि मन्त्रों से यज्ञकर्ता यजमान क्रमशः कनिष्ठिका आदि अंगुलियों श्रौतसूत्र को संकुचित ( ७.३.५-८ ) ( सिकोड़ कर मोड़ ले ) । सबके अन्त में अंगूठे को मोड़ कर मुट्ठी बांध ले तथा मौन व्रत धारण करे । कात्यायन अर्थ किया है । 1 आदि में प्रतिपादित इस यज्ञप्रक्रिया के अनुसार सायणाचार्य ने इस कण्डिका के मन्त्रों का पदच्छेद करते हुए सायणाचार्य की व्याख्या माध्यन्दिनीय, काण्व, तैत्तिरीय आदि श्रुतियों तथा कात्यायनादि सूत्रों से संमत है ।

पृष्ठ 26

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 26 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ६ ] वेदार्थपारिजातभाष्यसहिता १७ स्वाहोरोरन्तरिक्षादित्याहान्तरिक्षे हि यज्ञः स्वाहा यज्ञं वातादारभ इत्याहायं वाव यः पवते स यज्ञस्तमेव साक्षादारभते मुष्टीकरोति वाचं यच्छति यज्ञस्य धृत्या ' ( तै. सं. ६.१.४.४-५ ) इति । वातस्य क्रियारूपत्वाद् यज्ञरूपत्वम् । उव्वटाचार्यरीत्या तु यज्ञं मनसः सकाशादहमारभ इत्यनुषङ्गः । उरोर्विस्तीर्णादन्तरिक्षादहमारभे यज्ञम्, द्यावापृ-थिवीभ्यामहमारभे यज्ञम्, वातादहमारभे यज्ञम् । पञ्च स्वाहाकारा येषु यज्ञेषु तत्रार्थवादः - ' यज्ञो वै स्वाहाकारो यज्ञ-मेवैतदात्मन् धत्ते ' ( श. ३.१.३.२७ ) इति स्वाहाकारेण हविः प्रदीयत इति स्वाहाकारो यज्ञः । शतपथे सर्वमेतत् । ‘ अथाङ्गुलीर्न्यचति स्वाहा यज्ञं मनस इति द्वे स्वाहोरोरन्तरिक्षादिति द्वे स्वाहा द्यावापृथि-वीभ्यामिति द्वे स्वाहा वातादारभ इति मुष्टीकरोति । न वै यज्ञः प्रत्यक्षमिवारभे यथायं दण्डो वा वासो वा परोक्षं वै देवाः परोक्षं यज्ञः ' ( श. ३.१.३.२५ ) । न्यचति सङ्कोचयति, एकैकेन मन्त्रेण हस्तद्वयेऽपि कनिष्ठिकादिक्रमेण द्वे द्वे अङ्गुली न्यचतीत्यर्थः । एवं करद्वयाङ्गुलिन्यञ्चनक्रमेणोत्तमेन मन्त्रेण पाणी मुष्टीकुर्यात् । तत्प्रयोजनमाह - यज्ञस्य वासो दण्डादिवद् धारयितुमशक्यत्वात् परोक्षभावेन मन्त्रेणोच्यते मुष्टीकरोतीति । मुष्टिबन्धनमेव यज्ञधारणमित्यर्थः । ' स यदाह । स्वाहा यज्ञं मनस इति तन्मनस आरभते स्वाहोरोरन्तरिक्षादिति तदन्तरिक्षादारभते स्वाहा द्यावापृथिवीभ्यामिति तदाभ्यां द्यावा-पृथिवीभ्यामारभते ययोरिदं सर्वमधि स्वाहा वातादारभ इति वातो वै यज्ञस्तद्यज्ञं प्रत्यक्षमारभते ' ( श. ३.१.३.२६ ) । मन्त्रस्य क्रमेण व्याख्यानं स्पष्टम् । वातेन प्राणेन व्याप्रियमाणत्वाद् वातो यज्ञः । वैशब्देन वातो यज्ञः प्रयुज्यतामिति मन्त्रप्रसिद्धिर्घोत्यते । ‘ अथ यत् स्वाहा स्वाहेति करोति । यज्ञो वै स्वाहाकारो यज्ञमेवैतदात्मन् धत्तेऽत्रो एव वाचं यच्छति वाग्वै यज्ञो यज्ञमेवैतदात्मन् धत्ते ' ( श. ३.१.३.२७ ) । हविस्त्यागस्य यज्ञत्वात् स्वाहाकारेण हविःप्रदानात् स्वाहा-कारस्य यज्ञात्मकता । अनन्तरं वाग्यमनं विधत्ते —— वाचं यच्छतीति । वाग्व्यवहारमन्त्रेण यज्ञनिष्पत्तेर्वाग्यज्ञः । तस्या बहिर्निगमनमकृत्वा आत्मनि निगमनाद् यज्ञमेवात्मन् धत्ते धृतवान् भवति । एतेन सायणादिव्याख्यानमेव माध्यन्दिन-काण्व - तैत्तिरीयकादिश्रुतिकात्यायनादिसूत्रसम्मतमिति स्पष्टम् । अध्यात्मपक्षे तु — हे परमेश्वर, भवत्प्रसादार्थमहं मनसः सकाशाद्यज्ञमारभे ब्रह्मयज्ञं ज्ञानोपासनादिलक्षणं यज्ञ-मारभे । उरो विस्तीर्णादन्तरिक्षादहं यज्ञं भवदुपासनमारभे । अन्तरिक्षस्येव सूक्ष्मत्वं व्यापकत्वमसङ्गतत्वं च भावत्कं भावयामि । द्यावापृथिवीभ्यामप्यहं यज्ञमारभे द्यावापृथिव्योरिव सर्वधारकत्वं भावयामि । वातात् प्राणादहमारभे यज्ञं वायोरपि कोटिकोटिगुणितत्वेन त्वदीयसर्वकर्मप्रवर्तकत्वं भावयामीत्यर्थः । दयानन्दस्तु — ' स्वाहा प्रत्यक्षलक्षणया वेदस्थया वाचा यज्ञं क्रियाजन्यं मनसो विज्ञानात् स्वाहा सुशिक्षितया , उरोः बहुन, लिङ्गव्यत्ययेन पुंस्त्वम् । अन्तरिक्षाद् द्यावापृथिव्योर्मध्ये वर्तमानादाकाशात् स्वाहा विद्याप्रकाशिकया वाचा वाण्या द्यावापृथिवीभ्यां प्रकाशभूम्योः शुद्धये स्वाहा सत्यप्रियत्वादिगुणविशिष्टया वाताद्वायोरा समन्ताद् रभे कुर्वे । अध्यात्मपक्ष के अनुसार यह अर्थ है - हे परमेश्वर, आपकी कृपा के लिये मैं मन से ज्ञानोपासनादिरूप ब्रह्मयज्ञ प्रारम्भ करता हूँ । अन्तरिक्ष की भांति आपके सूक्ष्मत्व, व्यापकत्व एवं निःसंगत्व का अवधारण करते हुए तथा द्यावापृथिवी की भांति आपके सर्वधारकत्व का अनुभव करते हुए मैं इनसे यज्ञ प्रारम्भ करता हूँ । वायु से भी करोड़ों गुना अधिक आपके सर्वकर्मप्रवर्तकत्व का अनुभव करते हुए यज्ञारम्भ करता हूँ । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ समुचित नहीं है, क्योंकि उस मत में यह ईश्वरकर्तृक उपदेश है अथवा जीवकर्तृक है? ईश्वरकर्तृक नहीं हो सकता, क्योंकि पूर्णकाम होने के कारण परमेश्वर द्वारा पुरुषार्थ के लिये यज्ञारम्भ असंगत है । जीवकर्तृक

पृष्ठ 27

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 27 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८ शुक्लयजुर्वेदसंहिता [ अ. ४ स्वाहा सुष्ठु जुहोति गृह्णाति ददाति यया क्रियया, तया हे मनुष्याः यथाहं स्वाहा वेदोक्तया स्वाहा सुशिक्षितया स्वाहा विद्याप्रकाशिकाया स्वाहा सत्यप्रियत्वादिगुणयुक्तया वाचा स्वाहा सुष्ठुक्रियया चोरोर्मनसोऽन्तरिक्षाद् वाताद् द्यावापृ-थिवीभ्यां यज्ञमारभे नित्यं कुर्वे, तथा भवन्तोऽप्यारभन्ताम् ' इति, तदपि यत्किञ्चित्, विकल्पासहत्वात् । अयमीश्वरकर्तृक उपदेशो जीवकर्तृको वा? नाद्यः, परमेश्वरस्य पूर्णकामत्वेन पुरुषार्थाय यज्ञारम्भानुपपत्तेः । नान्त्यः, तथात्वे वेदस्य पौरु-यत्वापत्तेः तादृशस्यादर्शभूतस्य जीवस्याप्रामाणिकत्वात् । स्वाहाशब्दस्य बह्वर्थबोधकत्वेऽपि प्रकृते तत्तदर्थकत्वे हेतु-र्वक्तव्यः । काण्वसंहिताभाष्ये सायणाचार्यस्तु - ' तत्र तत्रोचिता अर्था ब्राह्मणानुसारेणोपलक्षणीयाः ' इत्याह । ब्राह्मणानि तु सिद्धान्तव्याख्यानपोषकत्वेनोपस्थापितान्येव ॥ ६ ॥

--आकृ॑त्यै प्र॒युजेऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑सेऽग्नये॒ स्वाहा सर॑स्वत्यै पू॒ष्णे॒ ऽग्नये॒ स्वाहा॑ । आपो देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथिवो॒ उरो अन्तरिक्ष । बृह॒स्पत॑ये ह॒विषा॑ विधेम॒ स्वाहा॑ ॥ ७ ॥

' औद्य भणानि जुहोति स्थाल्याः स्रुवेणाकूत्या इति प्रतिमन्त्रमिति ' ( का.श्रौ. ७.३.१३ ) । स्थाल्याः सकाशादाज्यं स्रुवेण जुहुयादध्वर्युः । एषां मन्त्राणामौद्भणानीति वैदिकी संज्ञा संव्यवहारार्था । मन्त्रार्थस्त्वेवम्-- आकूत्यै, यज्ञं करिष्यामीत्येवंविधो मानससङ्कल्प आकूतिः, तस्यै आकूत्यै तत्सम्पूर्त्यर्थं प्रयुजे निर्विघ्नेन प्रेरयते अग्नये देवाय स्वाहा इदं तमस्तु | मेधा मनसेऽग्नये स्वाहा । यद्वा आकुवनमाकृतिः प्रयत्न आत्मनो धर्मस्तस्मै । मेधायै धारणशक्तिर्मेधा तत्सिद्ध्यर्थं मनसे मनोऽभिमानिने अग्नये हुतमस्तु । दीक्षायै तपसेऽग्नये स्वाहा । व्रतनियमो दीक्षा, तत्सिद्ध्यर्थं मदीयशरीरतपोभिमानिनेऽग्नये इदं हुतमस्तु । सरस्वत्यै पूष्णे ऽग्नये स्वाहा । मन्त्रोच्चारणशक्तिः सरस्वती, तत्सिद्ध्यर्थं वागिन्द्रियाय तत्पोषकाय वह्नये हुतमस्तु । यद्वा आकूताद्या अपि देवता एव । आकूतये प्रयुजेऽग्नये स्वाहा, येथायै मनसेऽग्नये स्वाहा, दीक्षायै तपसेऽग्नये स्वाहेति जपार्था मन्त्राः । तपः शब्दोऽत्रोपसदिष्टिपरः । सरस्वत्यै पूष्णे ऽग्नये स्वाहेति । तदन्ये होमार्था मन्त्राः । आपो देवीबृहतीर्विश्वशम्भुवो द्यावापृथिवी उर्वन्तरिक्ष बृहस्पतये हविषा विधेम स्वाहेति । हे आपः! यूयं ये द्यावापृथिवी द्यावापृथिव्यौ यच्वोरु विस्तीर्णमन्तरिक्षं तेषामबादिसर्वदेवानामनुग्रहादिति उपदेश मानने पर वेद की पौरुषेयता की आशंका होती है । अत एव सायणाचार्य ने काण्वसंहिता के भाष्य में ' ब्राह्मण ग्रन्थों के अनुसार अर्थालोचन करना चाहिये ' यह कहा है । हमारे सिद्धान्तपक्षीय व्याख्यान में ब्राह्मणवाक्य पोषक हैं ॥ ६ ॥

मन्त्रार्थ - यज्ञ करने की मन की प्रबल इच्छा को पूरी करने के लिये प्रेरित अग्नि के निमित्त यह आहति सुसिद्ध हो । व्रत, नियम आदि दीक्षा की सिद्धि के लिये तप के प्रवर्तक अग्निदेव के निमित्त यह आहति सुसिद्ध हो । मन्त्रोच्चारण की शक्ति के लिये पुष्टि के साधक अग्निदेव के निमित्त यह आहति सुसिद्ध हो । महान् जगत् के सुखदाता जलों, हे पृथ्वी द्युलोक, हे विस्तीर्ण अन्तरिक्ष! तुम्हारे और बृहस्पति के निमित्त दी गई यह हवि सुहुत हो || हे यजमान प्रकाशवान् यहाँ अन्न ग्रहण करके कार्यारम्भ सूचक आहुतियाँ देता है ॥ ७ ॥

भाष्यसार- ' आकूत्यै प्रयुजे ' इत्यादि मन्त्रों के द्वारा अध्वर्यु आज्यस्थाली से घृत लेकर हवन करता है । यज्ञीय व्यवहार के लिये इन मन्त्रों की वैदिक संज्ञा ' औद्मण ' है । औद्मभण होम का विधान कात्यायन श्रौतसूत्र ( ७.३.१३ ) और शतपथ ब्राह्मण के अनुसार किया गया है ।

पृष्ठ 28

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 28 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ७ ] वेदार्थपारिजात भाष्यसहिता १ ९ शेषः । बृहस्पतये तन्नामकाय देवाय हविषा विधेम आज्येन परिचर्यां करवाम । कथंभूता आपः? देवीद्यतमानाः । बृहती: बृहत्यः प्रभूताः । विश्वशम्भुवः विश्वं शं भुवो विश्वं सुखेन भावयित्र्यः । एतानि विशेषणानि वृष्टिजन्यास्वप्सु युज्यन्ते । तदाह तित्तिरिः— ' या वै वर्ष्यास्ता आपो देवीर्बृहतीर्विश्वशम्भुवः ' ( तै. सं. ६.१.२.३ ) इति । यद्वा हे आप, हे द्यावापृथिव्यौ, हे उरो, युष्मभ्यं बृहस्पतये च हविषा विधेम हविर्दद्मः । द्वितीयार्थे तृतीया । विधतिर्दानकर्मा । स्वाहा सुहुतमस्तु | देव्यो द्योतमानाः, बृहतीर्बृहत्यः प्रभूताः । पूर्वत्र पूर्वसवर्णदीर्घः । विश्वस्य जगतः शं सुखं भावयन्ति जनयन्ति विश्वशम्भुवः । अत्र लिङ्गोक्ता देवताः । विराट् छन्दः । यस्या एकादशाक्षरास्त्रयः पादाः सा विराट्, ' दशकास्त्रयो विराडेकादशका वा ' इत्युक्तेः । प्रथमो द्वादशार्णस्तेनैकाधिका । शतपथेच-- -'सर्वाणि ' ह वै दीक्षाया यजूंष्यौद्भणानि । उद्गृभ्णीते वा एषोऽस्माल्लोकाद् देवलोकमभि यो दीक्षत एतैरेव तद्यजुर्भिरुद्गृभ्णीते तस्मादाहुः सर्वाणि दीक्षाया यजूंष्यौद्मणानीति तत एतान्यवान्तरामाचक्षत औद्ग्रभणानीत्याहुतयो ह्येता आहुतिर्हि यज्ञः परोक्षं वै यजुर्जपत्यथैष प्रत्यक्षं यज्ञो यदाहुतिस्तदेतेन यज्ञेनोद्गभ्णीतेऽस्मा-ल्लोकाद्देवलोकमभि ' ( श. ३.१.४.१ ) । दीक्षाहुतीर्विधातुमाह — सर्वाणि ह वा इति । यजुःसम्बन्धाद् दीक्षासम्बन्धीनि यजूंषि औद्ग्रभणानि । तत् तदा एतैर्दीक्षाङ्गभूतैः सर्वैर्यजुर्भिर्दीक्षाप्रकरण उक्तानि सर्वाण्यपि यजूंषि औद्ग्रभणसंज्ञकानि । ' हग्रहोर्भश्छन्दसि ' इति ' दादेर्धातोर्घः ' ( पा. सू. ८. २.३२ ) इति स्थलीयेन वार्त्तिकेन हस्य घः । तेष्वेतानि दीक्षाहुतिसा-धनान्याकूत्यादीनि । अस्माल्लोकाद्देवलोकमुद्गृभ्णाति, तस्मादेतानि औद्भणानि । आहुतयो वा एता आहुतिर्हि यज्ञः । जप्यानां होम्यानां च तारतम्यमाह – परोक्षं वै यजुर्जपत्यथैष प्रत्यक्षो यज्ञो यदाहुतिस्तदेतेन यज्ञेनोद्गृभ्णीतेऽस्माल्लो-काद्देवलोकमभि । ‘ ततो यानि त्रीणि स्रुवेण जुहोति । तान्याधीतयूजंषीत्याचक्षते सम्पद एव कामाय चतुर्थंं हूयतेऽथ यत्पञ्चमं स्रुचा जुहोति तदेव प्रत्यक्षमौद्भणमनुष्टुभा हि तज्जुहोति वाग्घ्यनुष्टुब् वाग्घि यज्ञः ' ( श. ३.१.४.२ ) । आदितो यानि त्रीणि यजूंषि पठित्वा स्रुवेण जुहोति, तान्याधीतयजूंषीत्याचक्षत आधानलिङ्गकानि, तन्मन्त्रेष्वाधानव्या-पारलिङ्गदर्शनात् । सम्पदे कामाय । सम्पद्यत इति सम्पत् काम्यत इति काम सम्पाद्याय स्वर्गफलायेति । यथा लोके किञ्चित्फलं सिषाधयिषुरादौ फलानि तत्साधनानि च ज्ञात्वा ततः कामयित्वा तत्साधनमनुष्ठायान्ते फलं लभते, एवं त्रिभिः स्वर्गफलमाध्याय चतुर्थेन तत्साधनमनुष्ठाय पञ्चमेन तदुगृहीतवान् भवतीति । अथ चतुर्थस्य होमसाधनानभि-धानेनापि पञ्चमस्य विशेषितत्वात् त्रीणि स्रुवेण जुहोतीतिवत् चतुर्थमपि स्रुवेणैव हवनं वेदितव्यम् । ‘ अथ यत्पञ्चमं स्रुचा जुहोति ' इति यत् पञ्चमस्य साक्षादुद्ग्रहणं तन्मन्त्रस्यानुष्टुप्त्वे सिद्धम्, अनुष्टुभा वाचा मन्त्रेण साध्यत्वात् । तथा च श्रुतिः -- ' वाग्घ्यनुष्टुप् । वाग्घि यज्ञः ' ( श. ३.१.४.२ ) । ' यज्ञेन वै देवाः । इमां जिति जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदं मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम ' ( श. ३.१.४.३ ) । पुरातनवृत्तान्त-प्रदर्शनमुखेनैतेषां यजुषां स्वर्गोद्ग्रहणे साधनतामुपपादयति – यज्ञेन वा इति । पुरा किल देवा इमां जितिमिदानीं परिदृश्यमानप्रकारं स्वर्गजयं यज्ञेनैव साधनेन जिग्युर्जितवन्तः । ते देवाः स्वैर्जितं स्वर्गस्थानं तुच्छैर्मनुष्यैः कथमारोहणार्हं न भवेदिति परस्परमुक्त्वा यज्ञस्य रसं धीत्वा पीत्वा ' धेट् पाने ' यथा मधुकृतो मधु निःशेषेणास्राव्य गतसारमेव परिशेषयन्ति, एवं यज्ञं विदुह्य विदोहं कृत्वा तं यूपेनाच्छाद्य तिरोहिता अभवन् । योपनसाधनत्वाद् यूपस्य यूपेति नाम सम्पन्नम् । तद्देवैः कृतं यज्ञविदोहनमृषीणामनुश्रुतमासीत् । ' तद्वा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन् यथायं यज्ञः सम्भृत एवं वा एष यज्ञं सम्भरति यदेतानि जुहोति ' ( श. ३.१.४.४ ) । तदेतद्देवानुष्ठितप्रकारं जानद्भिर् ऋषिभिरयं

पृष्ठ 29

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 29 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२० शुक्लयजुर्वेदसंहिता यज्ञ औद्ग्रभणहोमेन संभृतः । एवमेतेषामनुष्ठानेन यजमानोऽपि यज्ञं सम्भृतवान् । [ अ.४ तस्मात् पञ्च ' तानि वै पञ्च जुहोति । संवत्सरसम्पितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य । आकूत्यै तं पञ्चभिराप्नोति प्रयुजेऽग्नये स्वाहेत्या जुहोति ' ( श. ३.१.४.५ ) । संख्यां प्रशंसति – तानि वै पञ्चेति । ' अथातो होमस्यैव ३.१.४.६ ) । होमस्यैव मन्त्रा वा अग्रे कुवते यजेयेति तद्यदेवात्र यज्ञस्य तदेवैतत् संभृत्यात्मन् कुरुते ' ( श प्राग्भावी . मनोव्यापारो लक्ष्यते । व्याख्यायन्त इति शेषः । अग्रे यागानुष्ठानात् पूर्वमाकुवते खलु । कुवनशब्देन सङ्कल्प्यात्मन्येकीकृत्य स्वात्मनि यजेयमिति सङ्कल्पयतीत्यर्थः । अतो यज्ञस्य यदेव कर्तव्यमङ्गजातं सर्वं सम्भृत्य यजेयेति तद्यदेवात्र यज्ञस्य तदेवैतत् कुरुते स्थापयति । ' मेधायै मनसेऽग्नये स्वाहेति । मेधया वै मनसाऽधिगच्छति धारयित्री बुद्धिर्मेधा, संभृत्यात्मन् कुरुते ' ( श. ३.१.४.७ ) । द्वितीयमन्त्रस्य तात्पर्यमाह — मेधयेति । सङ्कल्पितस्यार्थस्य सङ्कल्प्य तत्साधनप्रकारविशेष-तया मनसा च साधनेन उभाभ्यामधिगच्छति । यथा कश्चित् प्रथममिदं सम्यगिति ) । तृतीयस्यापि मवबुद्ध्यते, तद्वदित्यर्थः । ‘ दीक्षायै तपसेऽग्नये स्वाहेति । अन्वेवैतदुच्यते नेत्तु हूयते ' ( श. ३.१.४.८ मन्त्रस्य होमसाधनत्वप्रसक्तौ जप्यतामाह — ' तृतीयं जपत्येव ' ( का. श्रौ. ७.३.१४ ) इति । ‘ सरस्वत्यै पूष्णेऽग्नये स्वाहेति । वाग्वै सरस्वती वाग्यज्ञः पशवो वै पूषा पुष्टिर्वै पूषा पुष्टिः पशवः पशवः पशवो पूषेति हि यज्ञस्तद्यदेवात्र यज्ञस्य तदेवैतत् संभृत्यात्मन् कुरुते ' ( श. ३.१.४.९ ) । वाग्वै अपुष्यत् सरस्वती ' ( तै. सं वाग्यज्ञः . ७.१.९.१ ) । गवादि-. पशूनां पूषत्वमुक्तम्, पूषगतपुष्टिधर्मसद्भावात् पूष्णोऽपि पोषकत्वम् । ' पोषाँ आत्मन्यङ्गजातस्याधान-पशुगतक्षीरादिसाध्यत्वात् पशवो यज्ञः, तदेवैतत् सम्भृत्यात्मन् कुरुते । इमे उक्तमन्त्रत्रयेऽप्यग्नये त्रयो होममन्त्रा यदस्ति तत्राग्नेः कः मन्त्रत्वादाधानमन्त्रा उच्यन्ते, तत्साधनानि यजूंषि चाधीतयजूंयुक्तानि । अदेवकास्तत्र नेन्द्रो न सोमो नाग्निरिति ' प्रसङ्ग इति दर्शयितुमाह —— तदाहुः | अनद्धेवैता आहुतयो हूयन्तेऽप्रतिष्ठिता एताः कुत इति चेत्तत्राह - अदेवका ( श. ३.१.४.१० ) । अप्रत्यक्षमिव एतास्तिस्र आहुतयो हूयन्ते । अप्रतिष्ठिता भवितव्यमिति प्रदर्शयति — तत्र नेन्द्रो इति । यद्यप्याकूत्याद्या देवताः सन्त्येव, तथापि तासां प्रसिद्ध्यभावादिन्द्रादिना । नात एकञ्चना-न सोमो नाग्निरिति । प्रसिद्धदेवतानामभावं दर्शयितुमनुवदति - ' आकूत्यै प्रयुजेऽग्नये स्वाहेति सर्वास्वेवाग्नये स्वाहेति ग्निर्वा अद्धेवाग्निः प्रतिष्ठितः स यदग्नौ जुहोति तेनैवैता अद्धेव तेन प्रतिष्ठितास्तस्मादु इत्येवमादिकाद् वाक्यादेकमपी-जुहोति तत एतान्याधीतयजूंषीत्याचक्षते ' ( श. ३.१.४.११ ) । अतोऽस्मादाकूत्या । न्द्रादिकं नोपलभामह इति वदतोऽयमभिप्रायः - तेषु मन्त्रेष्वाकूतिमेधादेः प्रशंसितत्वेनाग्निमतिविहायायमाक्षेपः एवाग्निरद्धा इव प्रत्यक्ष-अनद्धात्वपरिहारमाह— अग्निर्वा इति । स यजमानो यस्मादग्नौ प्रत्यक्षेण जुहोति, अत, तत इत्थमग्नि मिव । अत एव प्रतिष्ठितश्च तेन खल्वेतास्तिस्रोऽप्यद्धेव प्रतिष्ठिताः । यत उक्तरीत्याऽग्निप्राधान्यम् प्रशस्यावशिष्टाकृतिप्रयुगग्निदेवतात्रयस्याध्यानसम्बन्धेनैतान्याधीताग्नियजूंषीत्याचक्षते । ' आकूत्यै प्रयुजेऽग्नये स्वाहेति । आत्मना वा अग्र आकुवते यजेयेति तमात्मन एव बुद्ध्येति प्रयुङ्क्ते वा यत्तनुते यजेयेत्याकुवते ते अस्यैते आत्मन् देवते आधीते भवत आकूतिश्च प्रयुक् च ' ( श. ३.१.४.१२ ) । अग्रे प्रथमं आत्मना बुद्धिविषयभावादुभे अपि सङ्कल्पयति । तं सङ्कल्पितमात्मन्येव विस्तीर्य प्रयुङ्क्ते । प्रयुज्यत इति प्रयुक् । उभयोरपि भवतः । आधीतप्रतिपादक-देवते आकूतिप्रयुजौ अस्य यजमानस्य आत्मन् आत्मनि आधीते आध्यानेन विषयीकृते स्वाहेति 1 । मेधया वै मनसाऽभिगच्छति त्वादाधीतयजूंषीत्युच्यन्ते । एवमुत्तरवाक्यान्यपि योज्यानि । ' मेधायै मनसेऽग्नये ऽग्नये स्वाहेति । यजेयेति ते अस्यैते आत्मन् देवते आधीते भवतो मेधा च मनश्च ' ( श. ३.१.४.१३ ) । ' सरस्वत्यै पूष्णे

पृष्ठ 30

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 30 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ७ ] वेदार्थपारिजात भाष्यसहिता २१ वाग्वै सरस्वती वाग्यज्ञः साऽस्यैषात्मन् देवताऽधीता भवति । वाक् पशवो वै पूषा पुष्टिर्वै पूषा पुष्टिः पशवः पशवो हि यज्ञस्तेऽस्यैत आत्मन् पशव आधीता भवन्ति तद्यदस्यैता आत्मन् देवता आधीता भवन्ति तस्मादाधीतयजूंषि नाम ' ( श. ३.१.४.१४ ) । व्याख्यातं प्राक् । ' अथ चतुर्थी जुहोति । आपो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उरो अन्तरिक्ष बृहस्पतये हविषा विधेम स्वाहेत्येषा ह नेदीयो यज्ञस्यापांहि कीर्तयत्यापो हि यज्ञो द्यावापृथिवी उरो अन्तरिक्षेति लोकानां हि कीर्तयति बृहस्पतये हविषा विधेम स्वाहेति ब्रह्म वै बृहस्पतिर्ब्रह्म यज्ञ एतेनो हैषा नेदीयो यज्ञस्य ' ( श. ३.१.४.१५ ) । इत्थमाधीतत्वसमानधर्मसम्भवादाहुतित्रयं पृथग्विधाय प्रशस्य च चतुर्थीमाहुतिं तन्मन्त्रं च विधत्ते— अथ चतुर्थीमिति । मन्त्रवाक्यानि क्रमेणोदाहृत्य व्याचष्टे – एषा हेति । एषा ऋगित्यर्थः । नेदीयो यज्ञस्याऽत्यन्तं सन्निहितम् । कथम्? यस्मादेषा अपां कीर्तयति तस्मान्नेदीयस्तत्कीर्तनेन यज्ञं प्रति नेदीयस्त्वमिति तत्राह — आपो हीति । अभिषवसंयवनादिसाधनत्वादपां यज्ञत्वम् । अन्यत् स्पष्टम् । ' अथ यां पञ्चमीं स्रुचा जुहोति । सा हैव प्रत्यक्षं यज्ञोऽनुष्टुभा हि तां जुहोति वाग्घ्यनुष्टुप् वाग्घि यज्ञः ' ( श. ३.१.४.१६ ) । अध्यात्मपक्षे — ब्रह्मणः सार्वात्म्यद्योतनाय आकूत्यादिरूपैर्व्यज्यमानाय परमात्मने स्वात्मलक्षणं हविरर्पयन् सा-र्वात्म्यमनुभवति साधकः । यज्ञादिसङ्कल्पपूर्तये निर्विघ्नं प्रेरयतेऽग्नये परमात्मने स्वाहा ममात्मसमर्पणमस्तु | धारणा-शक्तिमत्यै मेधायै मनसे मेधामनोऽन्तर्यामिणेऽग्नये स्वाहा आत्मानं निवेदयामि । एवं दीक्षाभिमानिने तपसे तपोऽन्तर्यामिणे स्वाहा । सरस्वत्यै वागधिष्ठात्र्यै ज्ञानविज्ञानाधिष्ठात्र्यै चिते तदन्तर्यामिणे स्वाहा पूष्णे वागादिपोष-कायाग्नये स्वाहा । हे आप, द्यावापृथिव्यौ हे उरो तत्तदन्तर्यामिणो युष्मभ्यं बृहस्पतिरूपायाग्नये तदधिष्ठात्रेऽन्तर्यामिणे हविषा विधेम । विदधातिर्दानकर्मा | हविषेति द्वितीयार्थे तृतीया । हविर्दद्म: । स्वाहा । कीदृश्य आपः? विश्वशंभुव विश्वस्य जगतः शं भावयन्ति जनयन्तीति । दयानन्दस्तु– ' हे मनुष्याः, यथा वयमाकूत्यै उत्साहाय प्रयुजेऽग्नये स्वाहा सरस्वत्यै पूष्णे बृहस्पतयेऽग्नये स्वाहा मेधायै मनसेऽग्नये स्वाहा दीक्षायै तपसेऽग्नये स्वाहा या बृहती बृहत्यो विश्वशंभुवो देवीर् देव्य आपः स्वाहा वाग् द्यावापृथिवी उरो अन्तरिक्षस्थे च स्तस्तथा स्वाहाक्रियया हविषा च शुद्धा विधेम, तथा यूयमपि विदधत ' इति, तत्तु सर्वथा वेदबाह्यमेव, शतपथविरुद्धत्वात् । यत्तु — ' प्रयुजे धर्मक्रियाः प्रकृष्टैर्गुणैर्युनक्ति योजयति वा तस्याः ' इति, तत्तुच्छम्, प्रयोक्तुः प्रयोजयितुः कर्तुः कारयितुरग्रहणे विनिगमनाविरहात् । अग्नये इत्यस्य अग्निदीपनायेति नार्थ, लाक्ष-णिकत्वप्रसङ्गात् । स्वाहेत्यस्य वेदवाणीप्रचार इत्यपि नार्थो मानाभावात् । मेधायै इत्यस्य प्रज्ञोन्नतये इत्यपि नार्थ, लाक्षणिकत्वात् । अग्नये विद्युद्विद्याग्रहणायेत्यपि न युक्तम्, अग्निशब्दस्य तादृशार्थेऽशक्तत्वात् । स्वाहा परोपकारिकायै इत्यपि स्वेच्छाचारितैव । तपसे प्रतापकाग्नये कारणरूपाय स्वाहा अध्ययनाध्यापनविद्यायै सरस्वत्यै विद्यासुशिक्षास-अध्यात्मपक्ष में कण्डिका का अर्थ इस प्रकार है- यज्ञादि संकल्प की पूर्ति के लिये निर्विघ्न प्रेरणा देने वाले परमात्मा के लिये मेरा समर्पण हो । धारणाशक्तिवाली मेधा एवं मन के अन्तर्यामी अग्नि के लिये स्वयं को निवेदित करता हूँ । इसी प्रकार दीक्षाधिष्ठाता तपोऽन्तर्यामी देव के लिये, वागधिष्ठात्री सरस्वती, ज्ञानविज्ञानाधिष्ठात्री चिति के अन्तर्यामी देव के लिये, वाक् आदि पोषक पूषा, अग्नि के लिये निवेदित करता हूँ । विश्व की कल्याणकारिणी जल, द्यावापृथिवी तथा विस्तीर्ण अन्तरिक्ष की अन्तर्यामी देवताओं के लिये, बृहस्पति रूप अग्न्यधिष्ठाता अन्तर्यामी के लिये हविष्य प्रदान करता हूँ । स्वामी दयानन्द का अर्थ तो शतपथ श्रुति से विरुद्ध होने के कारण सर्वथा वेदबाह्य है । ' स्वाहा ' इस पद का ' वेदवाणीप्रचार ' यह अर्थ नहीं हो सकता, क्योंकि इसमें कोई प्रमाण उपलब्ध नहीं होता । ' मेधायै ' इस पद का ' प्रज्ञा की उन्नति के लिये ' यह अर्थ