वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 121–130

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 121–130

पृष्ठ 121

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 121 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११२ शुक्लयजुर्वेदसंहिता [ अ. ५ आध्यात्मिकोऽर्थो यथा— भक्तिसिद्धान्ते स्वसर्वस्वात्मनिवेदनं देवतायै क्रियते । ज्ञानयज्ञे च ब्रह्मैव यज्ञो भवति, ‘ ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना । ' ( भ.गी. ४.२४ ) इति गीतोक्तेः । तथा च स्वात्मानमेव हविष्ट्वेन भावयित्वा यः स्थितः स स्वात्मानमेव हविष्ट्वेन सम्बोधयति । हे हवि-स्त्वमग्नेस्तनूः स्वरूपमसि । अग्निरत्र परमात्मैव । यः परमात्मने हविष्ट्वेन भावयित्वात्मानं जुहोति स परमात्मस्वरूप । एव भवति । विष्णवे तदाराधनभूताय यज्ञाय त्वा गृह्णामि भावयामि । सोमस्य विमर्शात्मकस्य तनूः स्वरूपमसि अग्नीषोमौ पुरुषप्रकृत्यात्मकौ जगत्कारणभूतौ, सोपाधिकस्य जीवस्योभयात्मत्वात् । अतिथेरतिथित्वेन सत्करणीयस्ये-ष्टदेवस्यातिथ्यमसि सत्करणरूपमसि । यज्ञाय त्वा गृह्णामि । सोमभृते सोमाहरणकर्त्रे गायत्र्यधिष्ठायिने देवाय त्वा अग्नये त्वा रायस्पोषाय धनपोषाय तद्विशेषणविशिष्टाय श्येनाय पातकपोतकपक्षिसंहर्त्रे त्वा गृह्णामि, साङ्गोपाङ्गाय भगवते त्वा समर्पणीयहविष्ट्वेन भावयामीत्यर्थः । अत्र मन्त्रे दयानन्देन मन्त्रगतपदानामर्थाः तेषामन्वयः, भावार्थश्च पृथक् पृथग् निर्दिष्टाः । मध्यमपुरुषैकवचनम् ‘ असि ’ पदं प्रथमपुरुषैकवचनान्ततया व्यत्यस्य ' त्वा'पदस्य तच्छब्दार्थकत्वं स्वीकृत्य पदार्था वर्णिताः । अग्नेः प्रसिद्धस्य ज्वलनस्य, तनूः शरीरवद् भवति, विष्णवे यज्ञानुष्ठानाय त्वा तद्धविरिति । अन्वयप्रतिपादनावसरे— हे मनुष्याः! यथाहं यद्धविरग्नेस्तनूरसि भवति, त्वा तद्धविर्विष्णवे यज्ञानुष्ठानाय स्वीकरोमि 1 । तथैवैतत्सर्वं यूयमपि सेवध्वमिति वाक्यार्थः प्रतिपादितः । एवं सोमस्य या तनूः सामग्री वर्तते त्वा तां विष्णवे उपयुञ्जेऽहं यथा तथा यूयमप्युपयुङ्क्ष्व-मित्यादयो वाक्यार्थाः प्रदर्शिताः । अत्र त्वाशब्दस्य तच्छब्दार्थकत्वं तस्य हविः परामर्शकत्वं च कथमवधृतं दयानन्देन? तनूशब्दः शरीरवाची प्रसिद्धः । ' स्त्रियां मूर्तिस्तनुस्तनूः ' ( अ. को. २.६.७१ ), ' तनुर्वपुस्त्वचोः । विरलेऽल्पे कृशे क्वचिच्च ' ( अ. चि. २.२७० ), ‘ तनुः काये त्वचि स्त्री स्यात् त्रिष्वल्पे विरले कृशे ' इत्यादिकोशेभ्यः । तस्य क्वचिच्छरीरवदिति विस्तारकमिति चार्थो लक्षणयैव वाच्यः । लक्षणायाश्चान्वयानुपपत्तिस्तात्पर्यानुपपत्तिर्वा बीजम् । अग्नेस्तनूः शरीरं त्वमसि, अतस्त्वां गृह्णामीत्यन्वयोपपत्तेः । तात्पर्यानुपपत्तौ किमत्र मन्त्रतात्पर्यानुपपत्तिः, दयानन्दतात्पर्यानुपपत्तिर्वा? मन्त्रतात्पर्यं इस कण्डिका का आध्यात्मिक अर्थ इस प्रकार है • भक्तिसिद्धान्त में देवता के लिये अपने सर्वस्व सहित आत्मनिवेदन किया जाता है । ज्ञानयज्ञ में तो ब्रह्म ही यज्ञ होता है । श्रीमद्भगवद्गीता ( ४.२४ ) में भी यह कहा गया है । इस प्रकार स्वात्मतत्त्व को हविर्द्रव्य, ही हविर्द्रव्य के रूप में मानकर जो साधक अवस्थित है, वह स्वात्मा को ही हवि के रूप में सम्बोधित करता है कि करता हे है, वह तुम अग्नि के स्वरूप हो । अग्नि तो परमात्मा ही है । जो परमात्मा के प्रति हविर्द्रव्य के रूप में स्वयं को समर्पित परमात्म - स्वरूप ही हो जाता है । विष्णु के आराधनात्मक यज्ञ के लिये तुम्हारा ग्रहण करता हूँ । तुम विमर्शात्मक सोम के स्वरूप हो, क्योंकि पुरुष एवं प्रकृत्यात्मक अग्नि तथा सोम सोपाधिक जीव के उभयात्मक होने के कारण जगत् के हेतुभूत हैं । तुम अतिथि के रूप में सत्कार करने योग्य इष्टदेव के सत्कारभूत हो । यज्ञ के लिये तुमको ग्रहण करता हूँ । सोम का आहरण करने वाले गायत्री के अधिष्ठाता देव, अग्नि के लिये धनपुष्टि से विशिष्ट पापरूपी पक्षी का संहार करने वाले देव के लिये तुम्हारा ग्रहण करता हूँ । अर्थात् अङ्ग, उपाङ्गों के सहित भगवान् के लिये समर्पणीय हविर्द्रव्य के रूप में तुमको निवेदित करता हूँ । इस मन्त्र में स्वामी दयानन्द ने मन्त्रगत पदों का अर्थ, उनका अन्वय, तथा भावार्थ अलग - अलग किया है । इसमें ' त्वा ' शब्द का अर्थ ' तत् ' करना तथा उससे हवि का बोधन होना स्वामी दयानन्द ने कैसे माना है? ' तनु ' शब्द का कहीं शरीर अर्थ तथा कहीं विस्तारक अर्थ लक्षणा के द्वारा ही किया जा सकता है । लक्षणा करने में अन्वयानुपपत्ति अथवा तात्पर्यानुपपत्ति ही कारण होते हैं । यहां मन्त्रतात्पर्य में क्या अनुपपत्ति है? इसमें उपमान- उपमेय का सम्बन्ध भी प्रदर्शित किया गया है । ' अहम् ' यह उपमान है तथा ' यूयम् ' उपमेय है । इसमें ' अहं ' पदार्थ क्या है? अध्वर्यु है, यजमान है, अथवा स्वामी दयानन्द? हिन्दीभाष्य भी मन्त्रगत पदों के कहे गये उन उन अर्थों के खण्डित हो जाने के कारण बालोक्ति की भाँति ही है ॥१ ॥

पृष्ठ 122

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 122 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १ ] वेदार्थपारिजात भाष्यसहिता ११३ च निर्वापसंस्कारेण संस्क्रियमाणे हविषि वर्तते, तत्र न काचिदनुपपत्तिर्येन लक्षणा स्यात् । दयानन्दतात्पर्यं चेत्, तन्न व्यवस्थितम्, अप्रयोजकं च । वेदस्य तात्पर्यनिर्णायकत्वेन षट् प्रमाणानि परिगणितानि - ' उपक्रमोपसंहारावभ्यासोऽपू-र्वता फलम् | अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ' || इति । किञ्च, त्वाशब्दस्य तच्छब्दार्थकत्वमाश्रित्य तस्य हविः परामर्शकत्वं वर्ण्यते-- त्वा तद्धविरिति । किञ्च तद्धविः? केन च प्रमाणेन तत्प्राप्तम्? यदत्र त्वाशब्देन परामृश्यते । सर्वनाम्नां बुद्धिस्थत्वावच्छिन्नपदार्थे शक्तिः । बुद्धिस्थत्वं च प्रापकप्रमाणेन वक्तव्यम् । सिद्धान्तपक्षे तत्प्रापकं प्रमाणं ब्राह्मणवाक्यं वा सूत्रं वा मन्त्रगततनूः पदं वा । तदेव चेत्प्रमाणं दयानन्दस्य न तर्हि त्वाशब्दस्य तच्छब्दार्थकत्वम् त्वा त्वां हविर्गृह्णामीत्युपपत्तेः । " सोमस्य तनूरसि विष्णवे त्वा ' इत्यत्राप्येवमेव वाक्यार्थे सम्पद्यमाने किं निष्प्रमाणकेन क्लेशेन । ' अतिथेरातिथ्यमसि विष्णवे त्वा ' इत्यत्रापि विपरिणा-माध्याहारादिक्लेशोऽनुचित एव । किञ्चात्र ' स्वीकरोमि, उपयुञ्जे, परिगृह्णामि, प्रक्षिपामि, आददे, स्वीकरोमि, संगृह्णामि ' इति सप्त क्रियापदान्यध्याहृत्य वाक्यार्थाः प्रदर्शिताः । एवं च तत्तत्क्रियायां तत्तन्मन्त्रस्य विनियोग इत्यापतति । आसु क्रियास्वन्यतः प्राप्तासु तत्र मन्त्रा अङ्गमिति सिद्ध्यति । कस्मादिमाः क्रियाः प्राप्ता इति प्रश्नस्य किमुत्तरं भवेत्? यथेच्छं स्वेनोन्नीतासु क्रियासु नहि मन्त्राणामङ्गत्वम् । मन्त्राणामङ्गत्वग्राहकं प्रमाणं लिङ्ग वा वाक्यं वेति शास्त्रमर्यादा । तदत्र किं प्रमाणमिति वक्तव्यम् । किञ्च, यथाहं --- तथैवैतत्सर्वं यूयमपि, इत्युपमानोपमेयभावः प्रदर्शितः । अहमित्युपमानम्, यूयमिति चोपमेयम् । तत्राहंपदार्थः कः? किमध्वर्युः उत यजमानः, आहोस्विद्दयानन्दः? अध्वर्युस्तु हविर्निर्वपति, न स्वीकरोति नाप्युपयुङ्क्ते । नहीमानि कार्याणि विहितान्यध्वर्योः । यानि विहितानि निर्वापप्रोक्षणावहननादीनि तान्येव करोत्यध्वर्युः । यजमानश्चेदहं पदार्थः तर्हि स्वयं स्वीकृत्य तदुपयुज्य कथं देवेभ्यः प्रदद्यात्? यदि दयानन्दोऽहंपदार्थ; स यद्यत्करोति तत्तन्मनुष्यैः कर्तव्यमिति न निर्बन्धः । अतो नात्र क्वचिदुपमानं प्रसिद्धं पश्यामः । प्रसिद्धमेव भवत्युपमानम् । अतः सर्वथोपमानो-पमेयभावोऽऽसङ्गतः । किञ्च, वाचकलुप्तोपमालङ्कार इति दयानन्दः कथयति । वाचकं तु इवादिपदम् । तदत्र मन्त्रे नास्तीति तु सत्यम्, किन्तूपमानोपमेयसाधारणधर्मा अप्यत्र मन्त्रे न सन्ति । सर्वलुप्तोपमालङ्कारश्च न कैश्चनालङ्कारिकैः परिगणितः । ‘ यथाहं तथा यूयम् ' इति दयानन्दकृतविवरणे वर्तते । वाचकलुप्तोपमालङ्कारः किं मन्त्रस्य? उत दयानन्दविवरणस्य? मन्त्रस्येति तु न सङ्गतम्, तत्र कस्याप्यसत्त्वात् । दयानन्दविवरणस्येति चेत्र, तस्यानुपादेयत्वात् । अतः सर्वथा दया-नन्दकृतमिदं मन्त्रविवरणमप्रामाणिकं निर्युक्तिकं च । किञ्च भावार्थतया लिखितम् — ' मनुष्यैरेतत्फलप्राप्तये ' इति । न खलु मन्त्रे किञ्चित्फलमभिहितमुपलभामहे, यदवाप्तये मनुष्यास्तत्र प्रवर्तेरन्, त्रिविधं यज्ञं चानुतिष्ठेयुः । यज्ञानामनुष्ठेयत्वं विधिद्वारा सिद्ध्यति । कोऽयं विधिः? यश्च त्रिविधान् यज्ञान् विधत्ते । दयानन्दवाक्यं चेद् विधिः सोऽनादेय एव । किञ्च, पदार्थनिरूपणावसरे— ' श्येनाय श्येनवदितस्ततः सद्यो गमनाय, त्वा तद्भवनं कर्म ' इत्यभिधाय वाक्या-र्थनिरूपणावसरे स लिखति — ' यत् श्येनाय श्येनवच्छीघ्रगमनाय प्रवर्तते त्वा तद् अग्न्यादिषु प्रक्षिपामि ' इति । पदैरभिहिताः पदार्था वाक्यार्थे भासन्त इति शास्त्रीया सरणिः । त्वापदस्यार्थः ' तद्भवनं कर्म ' इति । वाक्यार्थेऽपि ‘ त्वा . तत् ' इति तच्छब्देन तदेव हवनं कर्म वक्तव्यम् । तस्य हवनस्य कर्मणः ' अग्न्यादिषु प्रक्षिपामि ' इत्यग्नौ प्रक्षेपः कथमुपपद्येत? नहि कर्म अग्न्यादिषु प्रक्षेप्तुं शक्यते, अतः सर्वथा विसङ्गतमेवेदं विवरणं दयानन्दस्य । किञ्च, भावार्थे त्रिविधो यज्ञो नित्यमनुष्ठेय इति लिखितम् । त्रैविध्यं च यज्ञस्यान्वयप्रतिपादितमिति टिप्पण्यां परिदृश्यते । अन्वये च——-'तथैवैतत्सर्वं यूयमपि सेवध्वम् ' इति वाक्ये ' सेवध्वम् ' इति विधिना यज्ञो विधातव्यः । स

पृष्ठ 123

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 123 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११४ शुक्लयजुर्वेदसंहिता [ अ. ५ च यज्ञः ' एतत् सर्वम् ' इत्यनेनोच्यत इति स्वीकर्तव्यम् । तत्रैतच्छब्दः पूर्वोक्तानि परामृशति । पूर्वोक्तानि स्वीकारादीनि सप्त कर्माणि दृश्यन्ते । एतेषां कर्मणामेव किं यज्ञत्वमभिप्रेतं दयानन्दस्य? यद्योमिति, तर्हि तानि सप्त सन्तीति त्रैविध्यम्? यद्याध्यात्मिकाधिदैविकाधियाज्ञिकरूपेण यज्ञानां त्रैविध्यमभिप्रेतम्, तर्हि तेषां प्रापकं प्रमाणं किमिति कथं व्यम्? ' विष्णवे ' इत्यस्य यज्ञानुष्ठानायेत्यपि गौण एवार्थः । सोमस्य जगदुत्पन्नस्य पदार्थसमूहस्येत्यर्थापनेऽपि वक्त किं मूलम्? ' विष्णवे व्यापनशीलस्य वायोश्च शुद्धये ' इत्यत्रापि मूलं चिन्त्यम् । कथञ्चिद् विष्णुपदस्य वाय्वर्थकत्वेऽपि शुद्धिः कस्य पदस्यार्थः? वस्तुतस्तु न वायोर्व्यापकत्वम्, आकाशाहमादौ तदभावात् । विज्ञानप्राप्तेरपि न व्यापकत्वं सम्भवति । ' अग्नये पावकवर्धनाय त्वा तदिदं धनादिकम् ' इत्यादिकमपि न शब्दमर्यादामनुरुणद्धि यथाहमग्नेः शरीरवत्प्रसिद्धं हविर्यज्ञसिद्धये स्वीकरोमि, यथा च पदार्थसमूहस्य विस्तारकसामग्री विष्णवे । " हे वायुशुद्धये मनुष्या उपयुञ्जे, यथा चातिथेरातिथ्यं सेवाकर्म विज्ञानप्राप्तये गृह्णामि, श्येनपक्षिवच्छीघ्रगमनागमनशीलं द्रव्यमग्न्यादिषु यामि, यच्च विष्णवे सर्वविद्याकर्मसोमधारिणो यजमानस्य सुखमस्ति तद् गृह्णामि, अग्निवर्धनाय काष्ठादिकं स्वीकरोमि प्रक्षि-ये च रायस्पोषदे धनपुष्टिदानाय विष्णवे उत्तमगुणविद्याव्याप्तये पदार्थाः सन्ति, तान् गृह्णामि, तथैव यूयमपि सेवध्वम्, इत्यादिकं हिन्दीभाष्यमपि बालभाषितमेव, मन्त्रपदानां तत्तदुक्तार्थकत्वस्य खण्डितत्वात् । ' शतपथे त्वातिथ्येष्टिप्रसङ्गेऽयं मन्त्रो व्याख्यातः । ' अथ यस्मादातिथ्यं नाम । अतिथिर्वा एष एतस्यागच्छति यत्सोमः क्रीतस्तस्मा एतद्यथा राज्ञे वा ब्राह्मणाय वा महोक्षं वा महाजं वा पचेत्तदह मानुषं हविर्देवानामेवमस्मा एतदातिथ्यं करोति ' ( श. ३.४.१.२ ) । यत्सम्बन्धादिदं हविरातिथ्यं तस्य सोमस्य कथमतिथित्वमिति निर्वचनेन दर्श-यति --- यस्मादातिथ्यं नामेति । एतस्य यजमानस्य वसतिं योऽतिथिः सन् यस्मादागच्छति, न विद्यते नियता सोऽतिथिस्तस्मादतिथये सोमाय राज्ञे चैतद्धविर्निरूप्यत इत्यातिथ्यं नाम सम्पन्नम् । राज्ञे वा ब्राह्मणाय तिथिर्यस्य महाजं वा, महोक्षं वृषभोत्पादितं व्रीहियवादिकम्, महाजं वा पचेत् । ' गोभिः श्रीणीत मत्सरम् ' वा महोक्षं वा यथा गोपदं गोविकारे दुग्धे प्रयुज्यते, तथैव महोक्षशब्दोऽपि महोक्षोत्पादिते व्रीहियवादौ प्रयुज्यते ( ऋ सं,. अघ्न्यादिश्रुतिवि- ९.४६.४ ) इत्यत्र रोधात् । तदह तदेव । मानुषमातिथ्यम् । देवानां तु हविरेवातिथ्यम् । अत एव तस्मै सोमाय राज्ञ एतदातिथ्यं करोति । ' स गृह्णाति । अग्नेस्तनूरसि विष्णवे त्वेत्यग्निर्वै गायत्री तद्गायत्रीमन्वाभजति | सोमस्य तनूरसि विष्णवे त्वेति । क्षत्रं वै सोमः क्षत्रं त्रिष्टुप् त्रिष्टुभमन्वाभजति ॥ अतिथेरातिथ्यमसि विष्णवे त्वेति 1 । सोऽस्योद्धारो यथा श्रेष्ठस्योद्धार एवमस्यैष ऋते छन्दोभ्यः ॥ श्येनाय त्वा सोमभृते विष्णवे त्वेति । तद्गायत्रीमन्वाभजति सा यद्गायत्री श्येनो सोममाहरत्तेन सा श्येनः सोमभृत्तेनैवैनामेतद्वीर्येण द्वितीयमन्वाभजति ॥ अग्नये त्वा रायस्पोषदे विष्णवे भूत्वा दिवः वै रायस्पोषः पशवो जगती तज्जगतीमन्वा भजति ॥ अथ यत्पञ्चकृत्वो गृह्णाति । संवत्सरसम्मितो वै त्वेति । पशवो ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात् पञ्चकृत्वो गृह्णात्यथ यद्विष्णवे त्वा विष्णवे त्वेति गृह्णाति यज्ञः विष्णवे पञ्च वा गृह्णाति यो यज्ञाय गृह्णाति ॥ ' ( रा. ३.४.१.९ -१४ ) । हि हविर्ग्रहणे मन्त्रं विधत्ते अग्नेस्तनूरसीति । स्वं शरीरं भवति शरीरोपचयहेतुत्वात्तनूवदाच्छादकत्वाद्वा सवनत्रयव्यापित्वात् सोमो विष्णुः सोमाय त्वा गृह्णामि, अथवा ' विष्णवे हि गृह्णाति यो यज्ञाय गृह्णाति तनूत्वम् । ३. ४.१.१४ ) इति श्रुत्या यज्ञाय त्वा गृह्णामीत्यर्थः । मन्त्रगतमग्निपदं गायत्र्यन्वा भक्तिसाधनत्वेन प्रशंसति - अग्निर्वै ' ( श. गायत्रीत्यादिना । अग्नेर्गायत्रीरूपत्वं तु प्रजापतेर्मुखात् सहोत्पत्रत्वात् ' तमग्निर्देवोऽन्वसृज्यत गायत्री ७.१.१.४ ) इति श्रुतेः । सोमस्यात्रत्वात् साक्षाच्छरीरोपचयहेतुत्वात् तनूत्वम् । सोमस्य राज्ञः क्षत्रत्वमसकृदुक्तम् छन्दः ' ( तै. सं. । प्रजा-

पृष्ठ 124

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 124 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १-२ ] वेदार्थपारिजात भाष्यसहिता ११५ पतेरुरसो बाहुभ्यां च राजन्येन सह त्रिष्टुभोऽप्युत्पत्तेः क्षत्रत्वम् ( तै. सं. ७.१.१.४ ) । अतिथिशब्दस्य तात्पर्यमाह— सोऽस्योद्धार इति । उद्भ्रियतेऽसाधारण्येन विभज्यत इत्युद्धारः प्रतिनियतभागः । गायत्र्या अन्वाभजनरूपतया श्येनशब्दं प्रशंसति — गायत्री श्येनो भूत्वेति । श्येनरूपं धृत्वा सोमाहरणाद् गायत्री सोमभृत् श्येनः । तदेवाह – सा यद्गायत्रीति । तेनैव वीर्येण हेतुना एनां गायत्रीं द्वितीयं भागं प्रत्यन्वाभजत्यध्वर्युरेतद्भागपाठेनेत्यर्थः । अग्नये त्वेति । अङ्गनादिगुण-विशिष्टाय रायस्पोषदे धनपोषप्रदात्रे विष्णवे सोमाय हे हविस्त्वां गृह्णामि । जगत्यन्वा भजनरूपतया मन्त्रभागं प्रशं-सति — पशवो वै रायस्पोष इति । पशूनामेव वर्धमानधनरूपत्वात् पशवो रायस्पोष इत्युक्तिः । पशूनां जगतीत्वं जगत्या सोमाहरणसमये आहृतत्वात् । ' सा पशुभिश्च दीक्षया चागच्छदिति ' ( तै. सं. ६.१.६.२ ) । प्रकृतौ चतुः कृत्वो ग्रहणादत्रापि चोदकेन तत्प्राप्त्या पञ्चसंख्यां विधाय प्रशंसति - अथ यत्पञ्चकृत्व इति । यज्ञस्य संवत्सरसम्मितत्वं गवामयनादिस-त्ररूपस्य यज्ञस्य संवत्सरसाध्यत्वाद्वा संवत्सरात्मकप्रजापतिसम्मितत्वाद्वा, ' द्वादशस्तोत्राण्यग्निष्टोमः ' ( ता. म. ब्रा. ४.२.१२ ) इति श्रुतेस्तद्गतसंख्यया संवत्सरसाम्याद्वा द्रष्टव्यम् । ग्रहणमन्त्रेषु सर्वत्र विष्णुशब्दोपादानं प्रशंसति —– अथ यद्विष्णव इति । यत्र यत्र हविर्गृह्यते तत्र तत्र यज्ञार्थत्वनियमात् सोमस्य हविष्ट्वेन यज्ञार्थत्वाद् विष्णवे ग्रहणं युक्तमित्यर्थः । एवं शतपथेनापि सायणादिसम्मत एवार्थः समर्थ्यते — ' आतिथ्येन वै देवा इष्ट्वा । तान् समदवियन् ते चतुर्धा व्यद्रवन्नन्योऽन्यस्य श्रिया अतिष्ठमाना अग्निर्वसुभिः सोमो रुद्रैर्वरुण आदित्यैरिन्द्रो मरुद्भिर्बृहस्पतिर्विश्वैर्देवैरित्यु हैक आहुरेते ह त्वेव ते विश्वे देवा ये ते चतुर्धा व्यद्रवंस्तान् विद्रुतानसुररक्षसान्यनुव्यवेयुः ' ( रा. ३.४.२.१ ) । तान् विद्रु-तानसुरराक्षसांश्चायमवसर इति निश्चित्यानुप्राप्ता इत्यर्थः ॥ १ ॥

अ॒ग्नेर्ज॒नित्र॑मसि॒ वृष॑णौ स्थ उ॒र्वश्य॑स्या॒युर॑सि पु॒रू॒रवा॑ असि । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॑ त्रैष्ट॑भेन॒ त्वा॒ छन्द॑सा मन्थामि॒ जाग॑तेन त्वा॒ छन्द॑सा मन्थामि ॥२ ॥

' ब्राह्मणविहितानि षट्कर्माणि – ( १ ) शकलस्य वेद्यां निधानम्, ( २ ) तदुपरि द्वयोः कुशयोर्निधानम्, ( ३ ) तयो-रुपर्यधरारणिनिधानम्, ( ४ ) उत्तरारण्या आज्यस्य संस्पर्शनम्, ( ५ ) तस्या अधरारणेरुपरि निधानम्, ( ६ ) अग्निमन्थनं चेति । षडिमानि कर्माणि सम्पादयितुं ' अग्नेः ' इति मन्त्रः प्रवृत्तः । यथाब्राह्मणं सूत्रकारोऽपीमानि कर्माणि प्रदर्श्य तत्र मन्त्रार्थ - हे काष्ठखण्ड! तुम अग्नि को उत्पन्न करने वाले हो । हे कुशों! तुम सींचने वाले, अर्थात् अरणि - काष्ठों में अग्नि उत्पन्न करने की शक्ति देने वाले हो । हे नीचे की अरणि! अग्नि की उत्पत्ति के लिये हमने तुमको स्त्रीरूप माना है, अब तुम उर्वशी नाम वाली हो । हे स्थाली के घृत! तुम अग्नि की आयु हो । हे उत्तराणि! हम अग्नि उत्पन्न करने के निमित्त तुम्हारी पुरुषरूप में कल्पना करते हैं, अत: तुम पुरूरवा नाम के हो । हे अग्नि! गायत्री छन्द के अधिष्ठाता अग्नि देवता के बल से तुमको मन्थन से प्रकट करता हूँ, त्रिष्टुप् छन्द के अधिष्ठाता इन्द्रदेवता के बल से तुमको दो अरणियों के द्वारा मथता हूँ । हे अग्निदेव! जगती छन्द के अधिष्ठाता विश्वेदेवों के बल से तुमको दो अरणियों के द्वारा मथता हूँ ॥२ ॥

भाष्यसार - ' अग्नेर्जनित्रमसि ' इस कण्डिका द्वारा शतपथ ब्राह्मण में प्रतिपादित छः कार्य किये जाते हैं— वेदि पर काष्ठखण्ड का स्थापन, दो कुशाओं का स्थापन, उन पर अधरारणि का स्थापन, उत्तरारणि द्वारा घृत का स्पर्श, अधरारणि पर उत्तरारणि द्वारा घृत १. ' शकलमादत्ते, दर्भतरुणके निदधाति, अथाधरारणिं निदधाति, उत्तरारण्याज्यविलापनीमुपस्पृशति, तामभिनिदधाति, स मन्थति ' ( श. ३.४.१.२० - २३ ) इति विधयः । २.का.श्रौ.५.१.२२-२५,५.२.२

पृष्ठ 125

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 125 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११६ शुक्लयजुर्वेदसंहिता [ अ. ५ मन्त्रान् विनियुङ्क्ते । अग्निमन्थनार्थमधरारणिरुत्तरारणिरित्यरणिद्वयम् । तत्राधरारणेर्वेद्यां निक्षेपणात् पूर्वं शकलमेकं निक्षिप्य तदुपरि द्वौ कुशौ प्रागग्रतया प्रसारणीयौ । तदुपर्यधरारणि, तदुपरि चोत्तरारणिः, ततश्च मन्थानमिति प्रक्रिया । ' अग्नेर्जनित्रमिति शकलमादाय तूष्णीं वेद्यां करोति ' ( का. श्रौ. ५.१.२२ ) । हे शकल! त्वमग्नेर्जनित्रमसि, जायतेऽस्मिन्निति जनित्रम्, अग्निजननाधारभूतमसि । ' वृषणाविति कुशतरुणे तस्मिन् ' ( का.श्रौ. ५.१.२३ ) इति कात्यायनः । आदायेत्यनुवर्तते । तस्मिन् शकले द्वे दर्भतृणे प्रागग्रे निदध्यात् । हे दर्भों, युवां वृषणौ सेक्तारौ भवतः । यथा पुत्रजननाय स्त्रीपुरुषौ वीर्यस्य सेक्तारौ तद्वद् युवामप्यरण्योरग्निजननसामर्थ्यसम्पादकौ स्त इत्यर्थः । ' उर्वशीत्यधरारणि तयोः ' ( का. श्रौ. ५.१.२४ ) । तयोर्दर्भतरुणयोरुपरि उत्तराग्रामधरारणि निदध्यात् । हे अधरारणे, त्वमुर्वश्यसि यथोर्वशी पुरुषभो -गायाधस्ताच्छेते तद्वत्त्वमधोऽवस्थितासीत्यर्थः । ' आयुरसीत्युत्तरयाज्यस्थालीं संस्पृश्य पुरूरवा इत्यभिनिधानं तया ' ( का. श्रौ. ५.१.२५ ) येयमुत्तरारणिर्निधास्यते तया आजस्थालीस्थमाज्यं स्पृशेत् । स्पृष्ट्वा पुरूरवा इति मन्त्रेण तया उत्तरया अरण्या अभिनिधानं कुर्यात्, अधरारणेरुपरि उत्तरारणिं निदध्यादिति सूत्रार्थः । हे स्थालीगताज्य, त्वमायुरसि । अरणिद्वयेन जायमानस्याग्नेरायुःप्रदमसीत्यर्थः । हे उत्तरारणे, त्वं पुरूरवा असि । यथा पुरूरवा इति शब्दाभिधेयः पुरुष उर्वश्या अभिमुखत्वेनोपरि वर्तते, तथा त्वमपीत्यर्थः । तथैवापस्तम्बोऽपि - ' अग्नेर्जनित्रमसीत्यधिमन्थनशकलं निदधाति, वृषणौ स्थ इति प्राञ्चौ दर्भावुर्वश्यसीत्यधरारणिमादत्ते पुरूरवा इत्युत्तरारणिमिति ' ( आप. श्री. ७.१२ ) । ' मन्थति गायत्रेणेति प्रतिमन्त्रं त्रिः प्रदक्षिणम् ' ( का.श्रौ. ५.२.२ ) । अध्वर्युर्गायत्रेति मन्त्रत्रयेणारण्योर्मन्थनं कुर्यात् । प्रदक्षिणमप्रदक्षिणं च मन्थनं भवति । तत्राह — प्रदक्षिणमिति । त्रिः प्रदक्षिणं मन्थनं कुर्यात् । हे अग्ने, गायत्रीच्छन्दोऽभिमानिना देवेनाहं त्वां मन्थामि अरण्योर्मन्थनेनोत्पादयामि । दयानन्दस्तु — ' अग्नेराग्नेयास्त्रादेः सिद्धिकरस्य पावकस्य जनित्रं जनकं हविः असि भवति ' इति पदार्थः । तत्रेदं वक्तव्यम् -- अग्निस्तु पाकस्यापि सिद्धिकरः तर्हि आग्नेयास्त्रादेरिति कुतो लब्धम्? जनित्रपदेनात्र हविरभिप्रेतम् । ' आग्नेयास्त्रादेः ' इति पदघटकादिपदेन पाकोऽपि चेदभिप्रेयते, तर्हि तज्जनकं हविरिति कथं सिद्ध्यति? किं हविरग्नौ हुत्वाऽग्नि सम्पाद्य ततः पाक इति स्यात्? विनैव हविषो होमेनाग्नि सम्पाद्य तेन किं पाको न सिद्ध्येत्? यदि हविर्होमो नियम्यते, हविर्होमेनैवाग्नि सम्पाद्य पाकः कर्तव्य इति, तर्हि नेदं भवदभिमतयज्ञस्वरूपं सिद्ध्येत् । सर्वथाऽप्य-सम्बद्धः पदार्थः । सत्यं वृषणौ वर्षयितारौ भवतः किन्तु तौ कौ कस्येति न प्रतिपादितं दयानन्देन । महीधरमते तु वृषणौ कुशौ भवतः, ' दर्भतरुणके निदधाति ' ( श. ३.४.१.२१ ) इति ब्राह्मणात् । यथा वृषणयोर्वर्षयितृत्वं तथा कुशयोरपीति न किमप्यसामञ्जस्यम् । दयानन्दमते तु सर्वथाऽनन्वित एव मन्त्रार्थः । उर्वशीशब्दः पुरूरवःशब्दश्च यौगिकव्युत्पत्त्या का स्पर्श, अधरारणि पर उत्तरारणि का स्थापन तथा अग्निमन्थन । ब्राह्मणोक्ति के अनुसार सूत्रकार कात्यायन ने भी ( का. श्री. ५.१.२२-२५, ५.२.२ ) इन्हीं कर्मों को प्रदर्शित करते हुए उनमें मन्त्रों का विनियोग किया है । तदनुसार मन्त्रार्थ इस प्रकार है - - हे काष्ठशकल, तुम अग्नि के उत्पादनाधार हो । हे दर्भद्वय, तुम अग्नि के उत्पादन गायत्री हेतु सामर्थ्य के सम्पादक हो । हे अधरारणि, तुम उर्वशी के समान हो । हे उत्तरारणि, तुम पुरूरवा के स्वरूप हो । हे अग्निदेव, मैं छन्द से मन्थन करता हुआ आपका प्रादुर्भाव करता हूँ, त्रिष्टुप् छन्द के द्वारा मन्थन करता हुआ आपको प्रादुर्भूत करता हूँ तथा जगती छन्द के द्वारा मन्थन से आपको प्रादुर्भूत करता हूँ । स्वामी दयानन्द ने अग्नि का ' आग्नेयास्त्र आदि का साधक ' अर्थ किया है । अग्नि तो पाक का भी साधक है, अतः आग्नेयास्त्रादि अर्थ ही कैसे प्राप्त हुआ । ' वृषणौ ' का अर्थ वर्षण करने वाले हैं, यह तो ठीक है, किन्तु वे कौन हैं? किसके

पृष्ठ 126

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 126 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २ ] वेदार्थपारिजात भाष्यसहिता ११७ यज्ञक्रियायाः शास्त्रोपदेशकगुरोश्च बोधकौ । आयुःशब्दश्च एति जीवनं येनेति व्युत्पत्त्या घृताद्यभिधायी । एवं च या यज्ञक्रिया यश्च तादृशो गुरुः, यश्च जीवनप्रापको घृतादि; त्वा तं गायत्र - त्रैष्टभ- जागतैश्छन्दोभिर्मन्थामीति निष्पद्यते । तत्र ' त्वा'शब्दस्य प्रथममग्नि, अनन्तरं सोमाद्योषधिसमूह; तृतीय त्वा ' शब्दस्य सामग्रीसमूहः शत्रुदुःखसमूहो वाऽर्था निर्दिष्टाः । छन्दःशब्दस्यानन्दकर्तरि सुखकारके, सुखसम्पादके च प्रयोगः कृतः । मन्थामिशब्दस्य च सर्वत्र विलोडन-क्रियाकरणकनिष्पादनं निवारणं चार्थः । तथा चायमर्थः सम्पद्यते -- यद्धविः, यौ वृषणौ, या यज्ञक्रिया, यश्चायुःप्रापकपदार्थः, यश्च शास्त्रोपदेशको गुरुस्तमग्नि तं सोमाद्योषधिसमूहं तं सामग्रीसमूहं शत्रुदुःखसमूहं वा आनन्दकर्ता सुखकारकेण सुखसम्पादकेन च विलोडनक्रियया निष्पादयामि निवारयामि च । यच्छब्देन यस्य ग्रहणं तस्यैव तच्छब्दो वक्ता भवतीति सर्वसम्प्रतिपन्नम् । प्रथमं यदग्नेर्जनित्रं हविरित्युक्त्वाऽनन्तरं त्वा तमग्नि मन्थामि विलोर्डनक्रियया निष्पादयामीति प्रति-पादिते किं केन सम्बद्धमिति विचारयन्तु सुधियः । उर्वशी यज्ञक्रिया, पुरूरवाः शास्त्रोपदेशको गुरु; अनयोर्विलोडन-क्रियया निष्पादनम्, आयुष्करस्य वस्तुनस्तादृशं निष्पादनं कीदृशमिति न बुद्धिमारोहति । ' यौ वृषणौ स्थो भवतः ’ इत्यभिधाय तयोर्मन्थनं परित्यक्तम् । अत्रापि वाचकलुप्तोपमालङ्कारोऽसङ्गत एव, पूर्वमेवासङ्गतेः प्रदर्शितत्वात् । भावार्थस्तु सर्वथाऽसङ्गतः । हविषो यज्ञक्रियायाः, गुरोः आयुःप्रापकपदार्थस्य च मन्थनेन कः परोपकारः स्यात्? अतः सर्वांशेन दयानन्दविवरणमिदमसम्बद्धम्, अनन्वितम्, निष्प्रमाणकं चेति सिद्धम् । यदपि च — ' अभि न इळा यूथस्य माता स्मन्त्रदीभिरुर्वशी वा गृणातु । उर्वशी वा बृहद्दिवा गृणानाऽभ्यूर्णवाना प्रभृथस्यायोः ॥ ' ( ऋ सं. ५.४१.१ ९ ), ( अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वशिष्ठः ' ( ऋ सं. १०.९ ५.१७ ) एभिः प्रमाणैरुर्वशी विद्युत् । नैरुक्तपक्षे तु पुरूरवा मध्यस्थानो वाय्वादीनामन्यतमः । पुरु रौतीति पुरूरवाः । उर्वशी विद्युत्, उरु विस्तीर्णमन्तरिक्षमश्नुत इत्युर्वशी । वर्षाकाले विद्युति विनष्टायां तया वियुक्तः स्तनयिलुलक्षणं शब्दं कुर्वन् विलपति । ' तस्याग्नेः ( औषाधयोऽप्सरसः ) ' ( वा. सं. १८३८; श. १३.४.३.८ ), ' तस्य चन्द्रमसः ( नक्षत्राण्यप्सरसः ) ( वा. सं. १८.४०; श. ९.४.१.९ ), ' तस्य मनस ऋक्सामान्यप्सरसः ' ( वा. सं. १८.४३; श. ९.४.१.१२ ), सूर्यस्य मरीचयो रश्मयः, अप्सरसोऽपो जलानि ' इति, तदपि यत्किञ्चित्, मन्त्रार्थानवगमात् । मन्त्रार्थस्तु - अभिगृणातु नोऽस्मान् इला भूमि, यूथस्य गोसङ्घस्य माता निर्मात्री, यद्वा इडा गोरूपधरा मनोः पुत्री, यद्वा यूथस्य मरुद्गणस्य निर्मात्रीडा माध्यमिकी वाग्, नदीभिः गङ्गादिभिः सह गुणातु, स्मच्छब्दः प्रशस्तवचन, प्राशस्त्यं गुणातु । अथवा उर्वशी बृहद्दिवा प्रभूतदीप्तिः, गृणाना शब्दयन्ती अस्मदीयं कर्म प्रशंसन्ती अभ्यूर्णवाना आच्छादयन्ती, आयोरायुं मनुष्यो यजमानः केन प्रभृथस्य तेजसो वोदकस्य दानेन ' प्रभृथस्य ज्योतिषो वोदकस्य ' ( निरु. ११.४ ९ ), अथवा प्रभृथस्य प्रभरणवत आयो-र्यज्ञमभ्यूर्णवानाच्छादयन्ती । नहि विद्युद्रूपोर्वशी गृणाना शब्दयन्ती वा भवति । किञ्च, तत्तद्ब्राह्मणानुसारेण काममन्यत्रान्येऽप्यर्था भवन्तूर्वश्यादिशब्दानाम्, प्रकृते त्वधरोत्तरारण्योरुर्वशीपुरू-रवस्त्वदृष्ट्या तज्जनिते यज्ञसाधनोऽग्नौ चोर्वशीपुरूरवोमिथुनादुत्पन्नायुर्दृष्ट्या वर्णनम् । तथाहि ——स मन्थति । गाय-त्रेण त्वा छन्दसा मन्थामि त्रैष्टुभेन त्वा छन्दसा मन्थामि जागतेन त्वा छन्दसा मन्थामीति तं वै छन्दोभिरेव मन्थति छन्दांसि मथ्यमानायान्वाह छन्दां स्येवैतद्यज्ञमन्वायातयति यथामुमादित्यं रश्मयो जातायानुब्रूहीत्याह यदा जायते प्रह्रियमाणायेत्यनुप्रहरन् ' ( श. ३.४.१.२३ ) । समन्त्रकं मन्थनं विधत्ते —स मन्थतीति-. - तं छन्दोभिरेवेति । यद्यप्यन्यैः वर्षक हैं? यह स्वामी दयानन्द ने प्रतिपादित नहीं किया । भावार्थ भी सर्वथा असंगत है, अतः स्वामी दयानन्द का अर्थ पूर्णतः असम्बद्धहै॥२ ॥

पृष्ठ 127

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 127 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११८ शुक्लयजुर्वेदसंहिता [ अ. ५ साधनैर्मथ्नाति तथापि गायत्रेण त्वेति मन्त्रसामर्थ्येन छन्दोभिरेव साधनैर्मन्थनं कृतवान् भवति । अस्त्वेवं छन्दसां किं फलमितितत्राह छन्दांस्येवैतं यज्ञमन्वायातयति । छन्दसामनुप्रवेशनं न केवलं छन्दोलिङ्गकैर्मन्त्रैर्मन्थनाद् भवति, अपि तु तस्मिन् काले होत्रा छन्दसामनुवचनादपि भवतीत्याह । तत्र दृष्टान्त: - यथामुमादित्यमिति । यथादित्यं रश्मयोऽन्वायन्ति, तथा छन्दांसि यज्ञभन्वायत्तानीत्याहवनीये प्रह्रियमाणाय प्रक्षिप्यमाणायानुप्रहरन्ननुबूहीत्यनुषज्यते । शतपथे तु — ' सोऽधिमन्थनं शकलमादत्ते । अग्नेर्जनित्रमसीत्यत्र ह्यग्निर्जायते तस्मादाहाग्नेर्जनित्रमसीति ' ( श. ३.४.१.२० ) । यूपतक्षणोत्पन्नोऽधरारण्या अधः स्थाप्यमानः शकलोऽधिमन्थनशकलः । यस्योपरि मध्यते, तमादत्ते । हे शकल! त्वमग्नेर्जनित्रमुत्पादकमसि । कथमस्य जनित्रत्वमिति तत्राह- - अत्र हीति । अत्र ह्यधरारणिव्यवहिते श-कलेऽग्निर्जायते । नात्र व्याख्यानेऽप्याग्नेयास्त्रादिकमुक्तम् । ' अथ दर्भतरुणके निदधाति । वृषणौ स्थ इति तद्यावेवेमौ स्त्रियै साकञ्जावेतावेवैतौ ' ( श. ३. ४.१.२१ ) । अत्र दर्भतरुणके कोमलौ परस्परसदृशौ दर्भावुद्दिश्य वृषणौ स्थ इत्याह । ना सूर्यवायू विवक्षितौ श्रुतिविरुद्धत्वात् । हे दर्भों, युवां वृषणौ अभिमतवर्षितारौ स्थः । तौ प्रशंसति —तद्याविति । स्त्रियै स्त्रियाः सकाशात् साकौ सहोत्पन्नौ याविमौ परस्परसदृशौ पुत्रौ तावेव युगलौ पुत्रावेव, रूपकोपन्यासेनात्य-न्तसादृश्यमभिमतमिति । ' अथाधरारणि निदधाति । उर्वश्यसीत्यथोत्तरारण्याज्यविलापनीमुपस्पृशत्यायुरसीति ताम-भिनिदधाति पुरूरवा असीत्युर्वशी वा अप्सराः पुरूरवाः पतिरथ यत्तस्मान्मिथुनादजायत तदायुरेवमेवैष एतस्मान्मिथुनाद्यज्ञं जनयत्यथाहाग्नये मध्यमानायानुब्रूहीति ' ( श. ३.४.१.२२ ) । अधरारणिनिधाने मन्त्रः - उर्वश्यसीति । हे अधरारणे! त्वमुर्वशी भवसि । आज्यं विलाप्यते यस्यां सा आज्यविलापनी स्थाली, तामुत्तरारण्या संस्पृशेद् आयुरसीति मन्त्रेण । तामुत्तराणि पुरूरवा असीति मन्त्रेण तस्या उपरि निदध्यात् । अरण्योराज्यविलापन्याश्च यदुर्वश्याद्यात्मकत्वम्, तत् त्रयं प्रशंसितुं पुरावृत्तदृष्टान्तमाह — उर्वशी वा अप्सराः पत्नी आसीत् पुरूरवाः पतिरभवत् । अन्यत्रोर्वशीशब्दस्य कामं भवत्वन्योऽर्थः, परं प्रकृते तु शतपथप्रामाण्यात् पुरूरवाः पतिरुर्वशी च तत्पल्येवाभिप्रेता, पतिसम्बन्धस्यान्यत्रासम्भवात् । तस्मान्मिथुनादायुर्नामा पुत्रोऽजायत । तत्सर्वमग्रे समाम्नास्यते – ' उर्वशी हाप्सराः पुरूरवसमैलं चकमे ' ( श. ११.५.१.१-१७ ) इति । एवमेवैष इति दान्तिकाभिधानम् । एतस्मान्मिथुनाद् यज्ञमग्नि जनयति, यज्ञसाधनत्वादग्नेः । अथारण्योरासादनानन्तरमग्नये मध्यमानाय अनुब्रूहीति होतारमाह ॥ २ ॥

भव॑तं नः॒ सम॑न॒स॒ सचे॑त॒सावर॒पस । मा य॒ज्ञं ह॑सिष्ठ॒ मा य॒ज्ञप॑तं जातवेदसौ शि॒िवौ भ॑वतम॒द्य न॑ः ॥ ३ ॥

मन्थनानन्तरं निष्पन्नस्याग्नेराहवनीयाग्निना योजनम् — ' सोऽनुप्रहरति भवतं नः ' ( श. ३.४.१.२४ ) इति विधेः, ' भवतं न इति प्रास्यति ' ( का.श्रौ. ५.२.५ ) इति कात्यायनसूत्राच्च । एतेनाहवनीयाग्निः, निर्मथ्याग्निश्चेति द्वावग्नी सिद्ध्यतः । मन्त्रार्थ - हे दोनों अग्नियों! हमारी कार्यसिद्धि के लिये एकाग्र मन, समान चित्त वाले होइये, हम पर क्रोध न कीजिये । यज्ञ को नष्ट न होने दीजिये, यज्ञपति ( यजमान ) को क्षतिग्रस्त न होने दीजिये । आज आप लोग हमारे निमित्त कल्याणकारक होइये || पहले मन्त्र से अरणि - मन्थन द्वारा उत्पन्न की गई अग्नि को इस मन्त्र का उच्चारण करते हुए आहवनीय अग्नि के साथ संयुक्त कर यज्ञ और यज्ञपति के कल्याण के लिये प्रार्थना की जाती है ॥ ३ ॥

भाष्यसार - ' भवतं नः ' इस मन्त्र से याज्ञिक विनियोग के अनुसार अरणिमन्थन से उद्भूत अग्नि को आहवनीय अग्नि से संयुक्त किया जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ५.२५ ) में प्रतिपादित है । याज्ञिक प्रक्रिया के अनुसार अर्थ शतपथ ब्राह्मण में उपदिष्ट है ।

पृष्ठ 128

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 128 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ३ ] वेदार्थपारिजात भाष्यसहिता ११ ९ ‘ तत्र भवतम् ' इत्यादयो मन्त्रगता द्विवचनान्ताः शब्दा उपपन्ना भवन्ति । यद्यप्याहवनीयेऽपि निर्मन्थ्यत्वमस्ति, तथापि निर्मन्थ्याधिकरणन्यायेन ' ( मी. सू. १.४.१० ) अचिरनिर्मथिताग्नावेव निर्मन्थ्यशब्दस्य प्रवृत्तिरिति द्वावग्नी सिद्ध्यतः । प्रार्थनायां लोट् । हे जातवेदसौ मन्त्रोक्तगुणयुक्तौ, युवां कल्याणकारिणौ भवतमिति । सुगममन्यत् । ' भवतमिति प्रास्यति ' ( का. श्रौ. ५.२.५ ) । आहवनीये जातमग्नि प्रक्षिपेदध्वर्युः । पङ्क्तिश्छन्दः । यस्या अष्टार्णाः पञ्चपादाः सा पङ्क्तिरिति । अत्र तु तृतीयः षडक्षरः, चतुर्थो दशार्णः । निर्मथ्याहवनीयावग्नी देवते इति महीधरः । भवतं नः समनसावित्यग्रेणोत्तरं परिधिमाहवनीये प्रहरतीत्यापस्तम्बः । भवतं नः समनसावित्यग्रेणोत्तरं परिधिमाहवनीये प्रहरतीति सायणः । प्रहरति प्रास्यतीत्यर्थः । योऽयमाहवनीयोऽग्निः, यश्चायं मथितोऽग्निस्तावुभौ हे जातवेदसौ, नोऽस्मदर्थं समनसौ मनसा सहितौ ( सचेतसौ ) समानप्रज्ञौ परस्परसमानचित्तौ वा अन्यविषयं मनः परित्यज्यास्मदनुग्रहाभिमुखत्वं समनस्त्वं तत्रानुग्रहं पर-स्परविप्रतिपत्तिराहित्यं वा सचेतस्त्वमित्यपुनरुक्तता । अरेपसौ पापरहितौ । रेप इति पापनाम । अस्मद्विषये प्रामादि-केनापराधेनापि कोपाभावः पापराहित्यम् । यथोक्तगुणयुक्तावुभौ तिष्ठतम् । तदेव स्पष्टयति-- ' यज्ञं मा हिं सिष्टम् ’ अस्मदीयं कर्म मा विनाशयतम् । हे जातवेदसा उभावग्नी, अद्य अस्मिन्ननुष्ठानदिने नोऽस्मदर्थं शिवौ शान्तौ भवतमिति सायणाद्यनुसारि व्याख्यानम् । शतपथे च - ' सोऽनुप्रहरति । भवतं नः समनसौ... भवतमद्य न इति शान्तिमेवाभ्या-मेतद्वदति यथा नान्योऽन्यं हिंस्याताम् ' ( श. ३.४.१.२४ ) । व्याख्यानं तूक्तमेव । तात्पर्यमाह —–— शान्तिमेवाभ्या-मेतन्मन्त्रवचनं वदति । कुतस्तत्प्रसङ्ग इति तत्राह — नान्योन्यं हिंस्यातामिति । अध्यात्मपक्षे—- हे जातवेदसौ, जातो वेदो ज्ञानं याभ्यां तौ जातवेदसौ ज्ञानोत्पादकौ शमदमौ, युवां समनसौ अन्यविषयत्वं परिहृत्य मदभिमुखौ अनुग्रहवैमत्यराहित्येनैकमत्येन अरेपसौ प्रमादेऽपि कोपरहितौ मम यज्ञमुपासनालक्षणं ज्ञानलक्षणं वा यज्ञं मा विनाशयतम् । यज्ञपतिमुपासकं ज्ञानाभ्यासिनं वा मा विनाशयतम् । नोऽस्मभ्यं हिताय शिव कल्याणकारिणौ भवतम् । ‘ यजमानयज्ञसम्पादकौ कीदृशौ भवेतामित्युपदिश्यते ' इत्युपक्रम्य दयानन्दो मन्त्रं व्याख्यातवान् । तत्र यज्ञस-म्पादकशब्देन किं यज्ञानुष्ठाताभिमतः? उत यज्ञसामग्रीसम्पादकः? आद्ये द्विवचनानुपपत्तिः, यजमानयज्ञानुष्ठात्रोरभेदात् । द्वितीयेऽपि स एव दोषः सामग्रीसम्पादकानां बहूनामपि सम्भवात् । अत्र मन्त्रे द्विवचनान्तानां पदानामुपपादनाय ' यज-मान - यज्ञसम्पादकौ ' इति निर्दिष्टं दयानन्देन । मन्त्रे च ' यज्ञम् ' इति, ' यज्ञपतिम् ' इति च पदद्वयोल्लेखो दृश्यते । एत-अध्यात्मपक्ष में अर्थ इस प्रकार है - हे ज्ञानोत्पादक शम तथा दम, आप दोनों अन्यविषयकत्व का परित्याग करके मेरे अभिमुख एकमत रहते हुए मेरें प्रमाद में भी कोपरहित होकर मेरे उपासनात्मक अथवा ज्ञानात्मक यज्ञ को हीन न करें, उपासक अथवा ज्ञान का अभ्यास करने वाले मुझको हिंसित न करें तथा हमारे लिये कल्याणकारी हों । यजमान तथा यज्ञ के सम्पादक कैसे हों? इस आशय से स्वामी दयानन्द ने इस मन्त्र की व्याख्या की है । यज्ञसम्पादक शब्द का अभिप्राय यज्ञ का अनुष्ठाता है अथवा यज्ञ की सामग्री को जुटाने वाला है । यज्ञानुष्ठाता होने पर मन्त्रोक्त द्विवचन से विसंगति होती है, क्योंकि यजमान तथा यज्ञानुष्ठाता एक ही हैं । सामग्रीसम्पादक अर्थ में भी वही दोष है, क्योंकि सामग्री का १. प्रथमः- चतुर्थ- दशमाधिकरणे ' निर्मन्थ्येनेष्टकाः पचन्ति ' इति वाक्यमुदाहृत्य विचारः प्रवर्तित ः किं निर्मन्थ्यशब्दः संस्कारप्रवृत्तिनि-मित्तकः? उत जातिप्रवृत्तिनिमित्तको बर्हिराज्यादिवत्? आहोस्विदचिरमन्थनक्रियाप्रवृत्तिनिमित्तकः? इति त्रेधा सन्दिह्य ' निर्मन्थ्यमा-नायोदनं पक्ष्यामहे ' इति जातौ लौकिकप्रयोगदर्शनात् संस्कारनिमित्तत्वं निरस्य जातिप्रवृत्तिनिमित्तत्वमेवेति पूर्वपक्षयित्वा निष्पूर्वाद् मन्थतेः ' ऋहलोर्ण्यत् ' ( पा.सू. ३.१.१२४ ) इति कर्मणि ण्यति निष्पन्नस्य निर्मन्थ्यशब्दस्यावयवार्थयोगेन मन्थनकर्मतावाचित्वसम्भवाद् यौगिकत्वमेवेति सिद्धान्तितम् ।

पृष्ठ 129

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 129 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२० शुक्लयजुर्वेदसंहिता [ अ. ५ स्वारस्येनापि यजमानयज्ञसम्पादकयोर्लाभो न भवति, ' यज्ञम् ' इत्यस्य ' अध्ययनाध्यापनाख्यं कर्म ' इति, ' यज्ञपतिम् ' इत्यस्य ' एतद्यज्ञपालयितारम् ' इति च तेन स्वयं व्याख्यातत्वात् । ' एष वाव प्रथमो यज्ञानाम् ' । ( ताण्ड्यबा. १६.१.२ ), ' तं न प्रथमयज्ञे प्रवृञ्ज्यात् ' ( श. १४.२.२.४४ ), ' तस्माद्दर्शपूर्णमासयोर्यज्ञक्रतोश्चत्वार ऋत्विजः ' ( तै. बा. २.३.६.२ ), ' यज्ञो वै देवेभ्यः ( ताण्ड्यब्रा. १४.३.१० ) इत्यादिश्रुतिवाक्येषु यज्ञशब्दस्यान्यार्थकत्वदर्शनात्, अध्ययनाध्यापनाख्ये कर्मणि क्वापि यज्ञशब्दप्रयोगादर्शनाच्च यज्ञपदार्थोऽयमनुपपन्नः । ' उरु प्रथस्वेति प्रथयत्येवैनमेतदुरु ते यज्ञपतिः प्रथताम् ' ( श. १.२.२.८ ) इत्यादिश्रुतिषु यज्ञपतिशब्दो नाध्ययनाध्यापनाख्यकर्मपरिपालयितरि प्रयुक्तः, तत्र तस्यान्यार्थकत्वात् । यथेच्छं शब्दानामर्थविवरणं न खलु समुचितम् । मनःशब्दस्य विज्ञानम्, चेतःशब्दस्य च संज्ञानं विज्ञापनमिति चार्थः कृतः । विज्ञानस्य मनः साधनं भवति, न तु तद् विज्ञानमेव भवति, मनसा विज्ञायत इति प्रयोगात् । ज्ञानस्य प्रकारा विज्ञानसंज्ञानादयः, तत्साधनं च मनश्चेतः । साध्यसाधनयोरेकरूपत्वं न खलु सङ्गतम् । जातवेदः शब्दोऽग्निवाची प्रसिद्धः । ' जातवेदसे सुनवाम सोमम् ' ( ऋ सं. १. ९९.१ ) इत्यादिमन्त्रेषु तस्याग्निरेवार्थो गृहीतः शास्त्रकारैः । व्युत्पत्तिरस्तीति यथा तथा वार्थकथनं न शोभायै स्यात् । ' जातवेदा ' इत्यस्य व्युत्पत्तिरस्ति - जातं वेदो धनं यस्मादिति । यस्माद् धनं जातं स जातवेदा आढ्यः । तस्य द्विवचने आदयाविति सम्पद्यते । आदयौ समनसौ सचेतसावरेपसौ सन्तौ यज्ञं यज्ञपतिं च माहिंसिष्टमिति मन्त्रविवरणं किं रोचेत दयानन्दाय? प्रकरणेऽत्र द्वावग्नी भवतः - आहवनीयो निर्मन्थ्यश्च । उभावपि तौ जातवेदःपदेन निर्दिश्य मन्त्रार्थवर्णने या सङ्गतिर्न सा दयानन्दविवरण इति पश्यामः ॥ ३ ॥

अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्टा॒ ऋषी॑णां पु॒त्रो अ॑भिशस्त॒पावा॑ । स न॑ः स्यो॒नः सुयजा॑ यजे॒ह दे॒वेभ्यो ह॒व्यं सद॒मप्र॑यु॒च्छृन् स्वाहा॑ ॥४ ॥

' अग्नावग्निरिति जुहोति स्थाल्याः स्रुवेण ' ( का. श्री. ५. २.६ ) । स्थाल्या आज्यं गृहीत्वा स्रुवेण जुहुयादध्वर्युः । विराट् छन्दः । दशाक्षरैश्चतुर्भिः पादैर्विराट् । अत्र तु द्वितीयतुर्यावेकादशार्णौ ततो द्व्यधिका । अग्नावाहवनीयाख्ये यः प्रविष्टोऽग्निर्मथ्यमानः सोऽयं चरति हविर्भक्षयति, इतस्ततो ज्वालाभिः सञ्चरति वा, ' चर गतिभक्षणयोः ' इति धातोः । कीदृशोऽग्निरित्याह-- ऋषीणां पुत्र इति । ऋत्विजो वेदविदश्चात्र ऋषय उच्यन्ते । तैरुत्पादितत्वात् पुत्र इव पुत्रः । अभि-शस्तिपावा, अभिशस्तिर्वैकल्यनिमित्तोऽभिशापो निन्दालक्षणो वा शापः तस्मात् पाति रक्षतीत्यभिशस्तिपावा । ' आतो मनिन्... ' ( पा. सू. ३.२.७४ ) इति वनिप्प्रत्ययः । हे अग्ने, स तथाविधस्त्वं नोऽस्माकं स्योनः सुखरूपो भूत्वा सुयजा संकलन करनेवाले बहुत भी हो सकते हैं । जातवेद शब्द अग्निवाचक ही प्रसिद्ध है । शास्त्रकारों ने इसका अग्नि अर्थ ही लिया है । अन्य व्युत्पत्ति भी हो सकती है, इसके लिये जैसे तैसे अर्थ कर देना शोभनीय नहीं है ॥ ३ ॥

मन्त्रार्थ - वेदवेत्ता ऋषियों के द्वारा उत्पन्न किया हुआ अग्निरूप ऋषिकुमार अथवा वैकल्य - निमित्तक अभिशाप से या दुष्टों के आक्रमण से रक्षा करने वाला मथित अग्नि आहवनीय अग्नि में प्रविष्ट हआ हवि को भक्षण करता है । हे अग्निदेव! वह तुम ही हो । तुम हमारे लिये सुखरूप हो कर इस सुन्दर यज्ञस्थान में सदा प्रमादरहित होकर इन्द्रादि देवताओं के निमित्त हवि ले जाओ । तुम्हें यह घृत की श्रेष्ठ आहुति देता हूँ ॥ इस मन्त्र को बोलते हुए स्रुवे से आज्यस्थाली का घी लेकर अग्नि में आहुति दी जाती है ॥ ४ ॥

भाष्यसार - कात्यायन श्रौतसूत्र ( ५.२६ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' अग्नावग्नि: ' इस मन्त्र द्वारा अध्वर्यु आज्यस्थाली से घृत लेकर स्रुव से हवन करे । शतपथ ब्राह्मण में भी इस स्रुबाहुति का विधान किया गया है ।

पृष्ठ 130

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 130 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ४ ] वेदार्थपारिजात भाष्यसहिता १२१ शोभनेन यागेन इह स्थाने देवेभ्य इन्द्रादिभ्यो हव्यं सोमादिरूपं यज देहि सङ्गमय वा । अस्माभिर्दत्तं हविर्देवान् प्रापय । किं कुर्वन्? सदं सदा अप्रयुच्छन् अप्रमाद्यन्, उच्छिष्टेषु देवेषु कमप्यपरित्यजन्, ' युच्छ प्रमादे ' । स्वाहा तुभ्यमिदमाज्यं तुमस्तु । यद्वा सोऽग्निर्नो हविर्देवेभ्यो यज यजतु ददातु । पुरुषव्यत्ययः । निर्मन्थ्यमाहवनीये प्रक्षिपेदित्युक्तम् । द्वयोरग्न्योर्निमन्थ्याहवनीययोर्मेलनेनानिष्टोत्पत्तिर्मा भूदिति तावग्नी सम्प्रा-थितौ – ' जातवेदसौ शिवौ भवतमद्य नः ' ( श. ३.४.१.२४ ) इति । तदूर्ध्वं तत्र सुवाहुतिर्विहिता – ' अग्निमभिजुहोति ' ( श. ३.४.१.२५ ) इति । तत्रायं मन्त्रो विनियुक्तः - अग्नावग्निश्चरतीति । अत्र कात्यायन: - ' अग्नावग्निरिति जुहोति स्थाल्याः स्रुवेण ' ( का. श्रौ. ५.२.६ ) इति । आज्यस्थालीतः स्रुवेणाज्यमादायाऽग्नावग्निरिति मन्त्रेण जुहुयादित्यर्थः । आरादुपकारकोऽयं होम, यागीयद्रव्यदेवताद्यनुद्दिश्य विहितत्वात् । तथा च —- आहवनीयाग्नौ निर्मन्थ्याग्निरयं प्रविष्टोऽस्माभिर्दीयमानं हविश्चरति भक्षयति । अयं च ऋत्विग्रूपेभ्य ऋषिभ्य उत्पन्नः, अत एव तेषां पुत्र इव, अपि चाभिशस्तिपावा अभिशापात्पालकः । एतादृशः सोऽस्मदर्थमिह यज्ञे देवेभ्य इन्द्रादिभ्यो ऽस्मद्भुतमाज्यादिकं हविः प्रापयतु । अध्यात्मपक्षेऽपि — जीवः परमात्मानमुपास्ते । तदग्निश्चिद्रूपो जीवोऽग्नौ परमात्मनि चरति विहरति । उपासकस्य उपास्यतत्त्वे मनसा सञ्चार एवोपासनप्रयोजनम् । तथा च कारिकासु ' देवो भूत्वा यजेद्देवान् ' इति । तदर्थमेव भूशुद्धि-भूतशुद्ध्यादिभिर्जीवरूपस्य साधकस्य देवात्मभावापादनम् । स उपासक ऋषीणां वेदविदामुपदेशेन संस्कृतः सन् नवीनं जन्म प्राप्य तत्पुत्रो भूत्वा अभिशस्तेर्निन्दिताद् असुर्याद् भावादात्मनः पाता भूत्वा स्योनः सुखस्वरूपब्रह्मरूपः सन् हे साधक, त्वं सुयजा शोभनेन उपासनालक्षणेन यागेन नः सर्वेभ्यो हिताय इहास्यां व्यवहारभूमौ देवेभ्य उपास्यतदङ्गोपाङ्गेभ्यो हव्यं समर्पणीयं बाह्यमान्तरं मनोमयं विविधं समर्पणीयमात्मरूपं च यज सङ्गमय । दयानन्दस्तु — ‘ अत्र महीधरेण विराडित्यशुद्धं व्याख्यातम् ' इत्युक्त्वा स्वयं ' आर्षी त्रिष्टुप् ' इति वदति । तत्पूर्वं विचारणीयम् । ‘ तानि त्रीणि समागम्य सनामानि सनाम तत् ' इति, ' एकं भवत्यृषिश्छन्दस्तथा गच्छति सम्पदम् ' इति ऋक्प्रातिशाख्ये षोडशे पटले सप्तमं सूत्रम् । एवम् ' प्राग्यजुषामार्ष्णः ' ( २.१५ ) इति च पिङ्गलसूत्रम् । छन्दोनिर्णये प्रातिशाख्यं वा पिङ्गलसूत्रं वा न प्रमाणमिति न कोऽपि हृदयवान् विद्वान् कथयेत् । अनयोः सन्दर्भयोरयमर्थः— ' गायत्र्यादीनि सप्त छन्दांसि प्राजापत्यानि दैवानि, आसुराणि आर्षाणीति चतुर्धा विभक्तानि । प्राजापत्या गायत्री, दैवी गायत्री, आसुरी गायत्री, आर्षी गायत्रीत्येवं सप्तानामपि छन्दसां विभागः । तत्र प्राजापत्या गायत्री अष्टाक्षरा । तदूर्ध्व-अध्यात्मपक्ष में इस मन्त्र से जीव परमात्मा की उपासना करता है । चिद्रूप जीव अग्निरूपी परमात्मा में विहरण करता है I उपास्य तत्त्व में उपासक का मानसिक संचार ही उपासना का प्रयोजन है । एतदर्थ ही भूशुद्धि, भूतशुद्धि आदि के द्वारा जीवरूपी साधक का देवात्मभाव सम्पादित होता है । वह उपासक वेदवेत्ताओं के उपदेश से संस्कृत होकर नवीन जन्म प्राप्त करके उनका पुत्र होकर निन्दित आसुर भाव से अपनी रक्षा करता है । तदनन्तर सुखस्वरूप ब्रह्मरूप होकर हे साधक! तुम सुन्दर उपासनात्मक यज्ञ से हम सबके हितार्थ इस कर्मभूमि पर देवताओं तथा उनके उपास्य अंगों - उपांगों के लिये समर्पणीय बाह्य तथा आभ्यन्तर मनोमय आत्मरूपी हविर्द्रव्य का यजन करो । स्वामी दयानन्द ने —— यहाँ महीधर द्वारा ' विराट् ' यह त्रुटिपूर्ण व्याख्या की गयी हैं ' कह कर स्वयं यहाँ आर्षी त्रिष्टुप् छन्द प्रतिपादित किया है । चारों पादों के समानाक्षर होने पर ही ' आर्षी ' इत्यादि का निर्देश करना शास्त्रसम्मत है । अतः आर्षों त्रिष्टुप् १. गायत्री, उष्णिक्, अनुष्टुप, बृहती, पङ्क्तिः, त्रिष्टुप्, जगती इति सप्त ।