वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 131–140

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 131–140

पृष्ठ 131

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 131 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२२ शुक्लयजुर्वेदसंहिता [ अ. ५ उत्तरमुत्तरं चतुर्भिरक्षरैर्भूयो मुष्णिगादिछन्दस्सु ' चतुर्भूयः परं परम् ' ( ऋ. प्रा. १६.२ ) इति सूत्रेण पूर्वस्मात् पूर्वस्माच्छन्दस अनुष्टुबित्येवं सप्त प्राजापत्यानि छन्दांसि भवतीत्यर्थकेण चतुर्णां चतुर्णामक्षराणामाधिक्ये प्राजापत्या उष्णिक्, प्राजापत्या दैव्युष्णिहोऽक्षरद्वयम्, दैव्यनु-भवन्ति । एवं दैवान्यपि सप्त छन्दांसि तानि चैकोत्तराणि । दैवी गायत्र्या एकमक्षरम् पञ्चदशाक्षराणि, आसुर्या ष्टुभोऽक्षरत्रयमित्येवं दैवानि सप्त छन्दासि । आसुराण्यपि छन्दांसि सप्त । तत्र आसुरीगायत्र्याः भवन्ति, ' एकावमान्यसुराणां ततः उष्णिहश्चतुर्दश, आसुर्या अनुष्टुभस्त्रयोदशेत्येवमेकन्यूनान्यक्षराणि सप्तानां सूत्रम् छन्दसां — ' तानि त्रीणि ' इति । तानि पूर्वोक्तानि पञ्चदशाक्षरात् ' ( ऋ. प्रा. १६.६ ) इत्युक्तत्वान् । इदं सर्वमभिधायानन्तरमिदं भवति, अर्थात् प्राजापत्यगायत्र्या प्राजापत्यदैवासुराणि त्रीणि समाननामानि समागम्य एकीभूय सनाम तदेकमृषिच्छन्दो योगेन चतुर्विंशत्यक्षराणि अष्टावक्षराणि, दैवीगायत्र्या एकमक्षरम्, आसुरीगायत्र्याः पञ्चदशाक्षराणि । एतेषामक्षराणां आर्षी उष्णिग् अष्टाविंशत्यक्षरा, भवन्ति । चतुर्विंशत्यक्षरयुक्ता गायत्री आर्षी भवति । उत्तरमुत्तरं चतुःसंख्यावर्धनेन, आर्षी त्रिष्टुप् चतुश्चत्वारिंशदक्षरा, आर्षी अनुष्टुब् द्वात्रिंशदक्षरा, आर्षी बृहती षट्त्रिंशदक्षरा, आर्षी पङ्क्तिश्चत्वारिंशदक्षरा चतुश्चत्वारिंशदक्षरात्मिकायास्त्रिष्टुभ आर्षी जगती अष्टाचत्वारिंशदक्षरा इति । अयमेवार्थः पिङ्गलसूत्रस्यापि । एवं च दयानन्दो भाति । एकैकस्य पादस्यै-एव आर्षीत्वमायाति । अस्मिश्च मन्त्रे चतुश्चत्वारिंशदक्षराणि सन्तीति भ्रान्त इव शास्त्रसम्मतः । अतः कादशाक्षरवत्त्वनियमस्तेन विस्मृत इव । चतुर्णां पादानां समानाक्षरवत्त्वे एवार्षीत्वादिव्यवहारः सर्वथा आर्षी त्रिष्टुबित्यशुद्धमेव । ' अत्र अथ महीधरोक्तिं विमृशाम: - विराट् । दशाक्षरैश्चतुर्भिः पादैर्विराट् ' इति विराट्छन्दसः दशाक्षराणि स्थितिमभिधाय , तृतीयचतु-द्वितीयचतुर्थावेकादशार्णौ, ततो द्व्यधिका ' इति महीधराचार्यो वदति । प्रथम- तृतीयपादयोर्दश । तत्तच्छन्दसो नियतानामक्षराणां र्थपादयोरेकादशैकादशाक्षराणि । चतुर्थपादेऽक्षरद्वयमधिकमित्यर्थो महीधरभाष्यस्य सत्त्वेऽपि न्यूनाधिकभावे जाते तत्र संज्ञान्तरव्यवहारश्छन्दोविचितेः । प्रकृते त्रिष्टुभो नियतानां ' विराट्स्थाना चतुश्चत्वारिंशदक्षराणां " इति तात्पर्यम् । तदि-द्वयोः पादयोर्विराण्णियताक्षरवत्त्वाद्विराडिति व्यवहारः कृतः । ' विराट् ' इत्यस्य । दमृक्प्रातिशाख्ये स्पष्टम् । प्रकृतमन्त्रे विराट्त्वं त्वस्ति, आर्षीत्वं तु सर्वथा नास्तीति दयानन्दवचनमेवाशुद्धम् ' इति पदं विद्युतो ' विद्युद्विद्वदग्नी कीदृशावित्युपदिश्यते ' इत्यवतरणिकापङ्क्तिः । तत्र मन्त्रगतं सप्तम्यन्तं मन्त्रेण बोध्यते ' अग्नौ , विद्युच्च कीदृशीति बोधकम्, प्रथमान्तं च ' अग्निः ' इति पदं विदुषो बोधकम् । तत्र विदुष एव कीदृक्त्वं । तयोः प्राप्तिस्तु दयानन्देन न मन्त्रः प्रतिपादयति । विद्युदग्नेर्विद्वदग्नेश्च प्राप्तौ सत्यां तौ कीदृशाविति कथनमुचितम् न प्रदर्शिता । अतोऽवतरणिकैवानन्विता । ‘ मन्त्रोक्तविशेषणविशिष्टोऽग्निर्विद्वान् नोऽस्मभ्यं देवेभ्यः स्योनः सुखकारी, सुयजा सुष्ठु यजन्ति शब्दस्य यस्मिन् दातुं ग्रहीतुं यज्ञे तेन हव्यं दातुं ग्रहीतुं योग्यं पदार्थं स्वाहा यज सङ्गमयतु ' इति पदार्थो निरूपितः । अत्र हव्यमिति पृथङ्मन्त्रे स्वाहाशब्दोपादानं योग्यं पदार्थमित्यर्थकस्य दयानन्दाभिमतस्वाहाशब्दार्थस्यान्नस्यापि बोधकत्वे सम्भवति है । हव्य शब्द देवताओं के लिये दातव्य कहना सर्वथा अशुद्ध है । विराट् का तात्पर्य विराट्स्थाना है । यह ऋक्प्रातिशाख्य में स्पष्ट ' पद से जो भी अभिलषित हो, सबका बोधन पदार्थ के लिये प्रयुक्त किया जाता है, अन्यत्र नहीं । दयानन्द भाष्य के अनुसार ' हव्य किया जायगा । यह अर्थ सर्वथा असंगत है ॥४ ॥

१. नवको दशको वा स्यादेकोऽनेकोऽपि त्रिष्टुभः । एकादशाक्षरञ्चापि विराट्स्थानाह नाम सा ॥ ( ऋ. प्रा. १६.६३ )

पृष्ठ 132

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 132 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ४-५ ] वेदार्थपारिजात भाष्यसहिता १२३ कस्मै प्रयोजनाय भवेत्? विद्वदग्निर्विद्युदग्नौ प्रविष्टो हव्यमन्नं च प्रयच्छति । एवं प्रयच्छन् ' स भवान् यज यजतु ’ इति किं केन सम्बद्धम्? असम्बद्धमेव किमप्युच्यत इति चेत्, जोषम्भावमाश्रयामः । सम्बद्धमुच्यत इति चेत्, वक्तव्यं ' यज यजतु ’ किमिति । ‘ यजतु ' इति किं प्रार्थनायामाहोस्विद् विधौ? प्रार्थनायामिति चेत्, कः प्रार्थ्यते? किं विद्वदग्निः? उतान्यः? यदि विद्वदग्निस्तर्हि स विद्युदग्नौ प्रविष्ट एव सन्नन्नं प्रयच्छति, तर्हि स किमर्थं यजतु? यदि द्वितीयः कल्पः, तर्हि नास्ति सोऽन्यो मन्त्रे यः प्रार्थ्येत । विधौ वर्तत इति चेद्वक्तव्यं कोऽयं यागः? किञ्चात्र द्रव्यम्? का च देवता? कश्च यागानुष्ठानप्रकारः? मन्त्रे च विधेः कः प्रसर इति? किञ्च, विद्युदग्नौ ‘ विज्ञानेन प्रविश्य ' इति विज्ञानपदप्रयोगमात्रेण नहि वेदस्य विज्ञानार्थप्रतिपादकता सिद्ध्येत् । अधुना वैज्ञानिकाः सुचिरं परिश्रम्य नैकविधान् पदार्थानाविष्कुर्वन्ति । तैश्च पदार्थैर्भूयान् लाभोऽनुभूयते । अतस्तथाविधानि वैज्ञानिकानि कर्माणि कर्तव्यानीत्येतावन्मात्रकथनेन नहि मन्त्रस्य विज्ञानसम्बन्ध्यर्थप्रकाशकता सिद्ध्यति । लोकान् केवलं सम्मोहयितुमेव दयानन्दो मन्त्रस्य तादृशमर्थं ब्रवीति । न चात्र काञ्चन सङ्गतिं पश्यामः । किञ्च दानादनार्थकहुधातोर्यत्प्रत्यये कृते हव्यशब्दो निष्पद्यते, ' हु दानादनयोः ' इति पाठात् । सत्यं हव्यशब्दो दातुं ग्रहीतुं वा योग्यं पदार्थमवबोधयति, किन्तु हव्यपदेन जलवासआदिकः पदार्थो न ग्रहीतुं शक्यते, नहि ' हव्यमानय मुखं प्रक्षालयामि ', ' हव्यं परिधत्स्व ' इत्यादयः प्रयोगा भवन्ति । हव्यशब्दस्तु देवान्ने प्रयुज्यते नान्यत्र । दयानन्दविवरणेन हव्यपदं यद्यदभिलष्यते तत्सर्वं बोधयेत् । स्वाहाशब्दस्य ‘ सुहुतं हविरन्नादिकम् ' इत्यर्थः कृतो दयानन्देन । सर्वथाऽयमर्थोऽसङ्गतः । ' सुष्ठु आहूयन्ते देवा अनया ' इति डप्रत्ययान्तः स्वाहाशब्दोऽग्नेः प्रियाया वाचकः, ' अथाग्नायी स्वाहा च हुतभुक्प्रिया ' ( अ. को. २.७.२१ ) इति कोशात् । असङ्गतोऽयं सर्वोऽपि सन्दर्भो दयानन्दस्य । शतपथेतु [ –'अथ स्रुवेणोपहत्याज्यम् । अग्निमभिजुहोत्यग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रोऽअभिशस्तिपावा । स नः स्योनः सुयजा यजेह देवेभ्यो हव्यं सदमप्रयुच्छन् स्वाहेत्याहुत्यै वा एतमजीजनत तमेतयाऽऽहुत्या [ s प्रेषीत-स्मादेवमभिजुहोति ' ( श. ३. ४.१.२५ ) । अनुप्रहृतेऽग्नौ समन्त्रकं होमं विधत्ते - अथ स्रुवेणेति । उपहत्यावदाय । अग्नि-मभिप्रहृत्य अग्नेरुपरि जुहुयात् । अग्नावाहवनीये निर्मथितः प्रविष्टः सन् चरति, इतस्ततो ज्वालाभिः सञ्चरति, ऋषीणां पुत्रः । अभिशस्तेर्निन्दातः पाता । स त्वं नोऽस्मदर्थं हविरिह स्थाने सुयजा शोभनेन यागेन यज संगमय । केभ्यः? देवेभ्यः । सदं सदा । अप्रयुच्छन् अप्रमाद्यन् । उद्दिष्टेषु देवेषु कमप्यपरित्यजन् । स्वाहा इदं घृतात्मकं द्रव्यं सुहुतमस्तु ।

आहुत्यै वा एतमग्निमध्वर्युरजीजनत उदपादयत् । अप्रैषीत् तर्पितवान् भवति ॥४ ॥

आप॑तये॒ त्वा॒ परि॑पतये गृहणामि॒ तनू॒नवे॑ शाक्व॒राय॒ शक्व॑न॒ ओजि॑ष्ठाय । अना॑धृ-ष्ट॒मस्यनाधृष्यं दे॒वाना॒मोजोऽन॑भिशस्त्यभिशस्त॒पा अ॑न॒भिशस्ते॒न्यमञ्ज॑सा स॒त्यमुप॑गेषं स्व॒ते मोधाः ॥५ ॥

तानूनमाज्यं गृह्णातीत्युव्वटाचार्यः । ' धौवं व्रतप्रदाने गृह्णात्यापतय इति ' ( का.श्रौ. ८.१.१४ ), ' द्विश्च स्थाल्याः स्रुवेण तनूनपत्रे शाक्वरायेति शक्वन ओजिष्ठायेति ' ( का. श्री. ८.१.१५ ) । येन पात्रेण यजमानाय व्रतं प्रदीयते तद् मन्त्रार्थ – हे आज्य ( घृत ), तुमको सर्वज्ञ, सब जगत् के विस्तारकर्ता, आत्मा के पौत्र, आकाश के पुत्र, सब कर्मों में समर्थ बलवान् सदागति वायुदेवता के लिये ग्रहण करता हूँ । हे आज्य! तुम आज तक किसी से तिरस्कार न पाने वाले, 6

पृष्ठ 133

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 133 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२४ शुक्लयजुर्वेदसंहिता I [ अ. ५ गृह्णी-व्रतप्रदानम् । तस्मिन् ध्रुवास्थमाज्यं गृह्णीयात् सशेषमध्वर्युः सकृत् स्थालीतोऽपि व्रतप्रदाने पात्रे द्विवारमाज्यं । दर्श-यान्मन्त्रद्वयेन । पूर्वेण मन्त्रेण ' अग्नावग्निश्चरति ' इत्यनेन दर्विहोमरूपा स्रुवाहुतिरारादुपकारिका प्रतिपादिता स्रुवाहु-पूर्णमासविकृतिरियमातिथ्येष्टिः । प्रकृतितो ये विशेषाः पदार्था हविर्निर्वाप तदासादन- अग्निमन्थन ब्राह्मणस्य - तद्धोम- ’, ‘ यवागू तिरूपास्तेऽभिहिताः । सम्प्रति सौमिका ये तानूनप्त्रादयस्तत्सम्बन्धिनो मन्त्रा व्याख्यायन्ते । ' पयोव्रतं राजन्यस्य ' ( तै. सं. ६.२.५.४ ) इत्यादिना व्रतं विहितम् । येन पात्रेण यजमानाय व्रतं पयआदिकं प्रदीयते तद् व्रतप्रदानम् सकृद् । तस्मिन् ' सर्वस्मै वा एतद्यज्ञाय गृह्यते यद् ध्रुवायामाज्यम् ' ( तै. ब्रा. ३.३.५.५. ) इति विध्यनुसारेण विहितम् धौवस्याज्यस्य । इदमाज्यग्रहणं ग्रहणम्, ‘ द्विश्च स्थाल्याः स्रुवेण ' ( का. श्रौ. ८.१.१५ ) इति वारद्वयं चाज्यग्रहणं कात्यायनेन न केवलमध्वयेरिव, किन्तु वरणक्रमेण सर्वैरेव ब्रह्मादिभिः समन्त्रकमाज्यग्रहणं कर्तव्यम् । तदिदं गृहीतमाज्यं तानून-त्रमित्युच्यते । तानूनप्त्रमिति वैदिकी समाख्येति स्थितिः । चतुर्थ्यन्तैः ' आपतये ' इत्यादिविशेषणैर्वायुदेवताकत्वं वायवे यजुषोऽवगम्यते । ‘ गृह्णामि ' इति पदेन च ग्रहणसाधनता मन्त्रस्य प्रतीयते । एवं च मन्त्रोक्तविशेषणविशिष्टाय त्वा त्वामाज्यं गृह्णामीति मन्त्रवाक्यार्थः पर्यवसन्नः । एवं व्रतप्रदाने गृहीतं तानूनप्त्रसंज्ञकमाज्यं दक्षिणस्यां वेदिश्रोणौ निधाय तत् सयजमाना ऋत्विजः स्पृशेयुः । तत्र ' अनाधृष्टमसि ' इत्यादिमन्त्रस्य विनियोगः । हे आज्य! त्वमनाधृष्ट-मित्यादिविशेषणैर्विशिष्टमसि, अतस्त्वामहमवमृशामीत्येकैकोऽपि ऋत्विगवमृशेदिति मन्त्रसङ्गतिः । अथ मन्त्रार्थ: - आपतये आसमन्तात् पतति गच्छतीत्यापतिः सततगतिर्वायुस्तस्मै । पुनः कीदृशाय? परिपतये परितः पततीति परिपतिस्तस्मै सर्वव्यापिने, तथा तनूनपत्रे तनोति विस्तारयति विश्वमिति तनूरात्मा, तस्य नप्त्रे पौत्राय, शाक्वराय शक्नुवन्ति स्थातुं यत्र स शक्वर आकाशस्तस्यापत्यं शाक्वरस्तस्मै, ' तस्माद्वा एतस्मादात्मनः दृश्यन्ते आकाशः ' ( पा. सम्भूतः ' ( तै. उ. ८.१ ) इति श्रुतेः । तथा शक्वने शक्नोति सर्वं कर्तुमिति शक्वा तस्मै, ' अन्येभ्योऽपि ओजस्वीत्योजिष्ठस्तस्मै । सू. ३.२.७५ ) इति वनिष्प्रत्ययः । ओजिष्ठाय ओजो बलमस्यास्तीत्योजस्वी, अतिशयेन अस्मिन् सर्वैरापत्यादिशब्दैर्वायुरेव गृह्यते । अत एवोव्वट: - ' उभयगुणविशिष्टाय वायवे, शक्वरादाकाशाज्जातत्वात् पात्रे स्वीकरोमि । शाक्वरोऽपि वायुः । आत्मनः पौत्रत्वात् तनूनप्ता वायुः ' इति । तित्तिरिरीत्या त्वापतिः प्राणस्तत्प्रीतये । यद्वा ' प्राणो वा आतिः प्राणमेव प्रीणातीति ' । हे आज्य, आपतये प्राणदेवताप्रीत्यर्थं गृह्णामि, अस्मिन् पात्रे स्वीकरोमीत्यर्थः । यद्वा इष्टप्राप्त्युपायमनिष्टपरिहारोपायं च चिन्तयित्वा परितः पाति पालयतीति परिपतिर्मनः तस्मै तत्प्रीत्यै मनोदेवताप्रीत्यर्थं गृह्णामि तदप्याह तित्तिरि: - ' मनो वै परिपतिर्मन एव प्रीणातीति ' ( तै. सं. ६.२.२.३ ) । हे आज्य, त्वा परिपतये गृह्णामि । तनूं शरीरं न पातयति विनाशयति, अपि तु जाठररूपेण धारयतीति तनूनप्ता जाठरोऽग्निः । हे आज्य, त्वां तनूनपत्रे जाठराग्नये तद्देवताप्रीत्यर्थं गृह्णामि । शाक्वराय शाकनशीलः शाक्वरः शक्तिमान् पुरुषः, तत्सम्बन्धि शाक्वरम् ॥ शक्तिस्वरूप हे आज्य, त्वां शाक्वराय शक्तिस्वरूपाभिमानिदेवताप्रीत्यर्थं गृह्णामि । ' शक्वने ' इति चतुर्थी सप्तम्यर्थे आगे भी किसी से तिरस्कार न पाने वाले देवताओं के सार पदार्थ हो, स्वयं अनिन्दनीय हो और हमारी भी निन्दित कर्मों से रक्षा करने वाले हो । इसी कारण तुम हमें मोक्ष की प्राप्ति कराने वाले हो । आज हम सरल अन्तःकरण से तुमको स्पर्श से कर दो शपथपूर्वक यज्ञ करने का भार लेते हैं । इस शुभ यज्ञानुष्ठान में आप मुझे प्रेरित करें । इस मन्त्र को स्पर्श पढ़ते करते हुए स्रुवे हैं ॥५ ॥

बार घृत लेकर वेदि के नैर्ऋत्य कोण पर आज्य पात्र रखकर ऋत्विक् और यजमान मिलकर पात्र का त्वा ं इस भाष्यसार -- कात्यायन श्रौतसूत्र ( ८.१.१४ - २१ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ‘ आपतये कर यजमान कण्डिका के मन्त्रों से तानूनपत्र आज्य का ग्रहण किया जाता है तथा गृहीत आज्य को वेदि के दक्षिण की ओर रख और ऋत्विकगण उसका स्पर्श करते हैं । तैत्तिरीय एवं शतपथ श्रुतियों में याज्ञिक विनियोग के अनुसार अर्थ उपदिष्ट है ।

पृष्ठ 134

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 134 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ५ ] वेदार्थपारिजात भाष्यसहिता १२५ तथा च शक्तिमत्पुरुषे यदोजिष्ठं तस्मै त्वां गृह्णामि । ओजो नामाष्टमो धातुः । तस्य सारमोजिष्ठम् । तदवष्टम्भेनैव शरीरे शक्तिरवतिष्ठते । ओजःसाराभिमानिदेवताप्रीत्यर्थं गृह्णामीत्यर्थः । तनूनप्त्रसंज्ञकजाठराग्निदेवता-विषयस्य शपथकर्मणो हेतुभूतमाज्यं तनूनप्त्रसंज्ञकम् । तदेतदुक्तैः पञ्चभिर्मन्त्रैर्गृहीतमिति सायणाचार्यः । कात्यायनरीत्या — ‘ गृह्णामीति सर्वत्र साकाङ्क्षत्वात् ' ( का. श्रौ. ८.१.१६ ) मन्त्रेषु सर्वत्र गृह्णामीत्यस्यानुषङ्गः कर्तव्यः । ' पूर्वशेषौ वौत्तरौ ' ( का. श्रौ. ८.१.१७ ) । वाऽवधारणे । तनूनपत्र इत्यादि न पृथङ्मन्त्रद्वयम् पूर्वमन्त्रेणैव सहानयोरपि मन्त्रयोरेकवाक्यतासम्भवे वाक्यभेदस्यान्याय्यत्वात्, अनेकविशेषणविशिष्टस्य वायोरेवानेन मन्त्रेण स्तुते -रवगमात्, ‘ यो वा अयं पवते ' ( श. ३.४.२.१० ) इति श्रुत्या एकस्यैव वायोः स्तुत्यवगमात् । ' प्रतिपुरुषं च ग्रहणमाज्यानि गृह्णाना इति श्रुतेः ' ( का.श्रौ. ८.१.१८ ) । सर्वैर्ब्रह्मादिभिर्वरणक्रमेणाज्यग्रहणं कार्यम्, ' आज्यान्येव गृह्णाना ' ( श. ३.४.२.९ ) इति ग्रहणकर्तृषु बहुत्वश्रवणात् सर्वेषामाज्यग्रहणं मन्त्रेणैव । ' दक्षिणस्यां वेदिश्रोणौ निधायावमृशन्त्यृत्विजो यजमान-श्चानाधृष्टमिति ' ( का. श्रौ. ८.१.२० ) । तानूनप्त्रमाज्यं दक्षिणस्यां वेदिश्रोणौ स्थापयित्वा हिरण्यहस्तावरणक्रमेण ऋत्विजो यजमानश्च युगपदभिमृशेयुः, न क्रमशः । ' अद्रोहस्तेभ्यो न सतानूनविणे द्रोग्धव्यम् ' ( श. ३.४.२.९ ) इति श्रुतेः ' ( का. श्रौ. ८.१.२१ ) । यैः सह तानूनप्त्रमाज्यं स्पृष्टं तैः परस्परं द्रोहो ( अपकारः ) न कर्तव्यः । कुतः? श्रुतेः । समानं साधारणं तानून मस्य विद्यत इति स तानूनपत्री, तस्मै । शिष्टमन्त्रार्थस्तु – हे आज्य, त्वमनाधृष्टमसि, इतः पूर्वं केनाप्यतिरस्कृतमसि, आधर्षणमप्राप्तं भवसि । अनाधृ-ष्यमितः परमप्यतिरस्कार्यमसि । देवानामोजोऽग्न्यादीनां सम्बन्धि सारमसि । अनभिशस्ति, अभिपूर्वः शंसतिर्गर्हायां वर्तते, तद्रहितमनभिशस्ति त्वमसि । अभिशस्तिपा ऋत्विजां परस्परविरोधेन निन्दनमभिशस्तिस्तस्याः पातीत्यभिशस्तिपाः, लिङ्गव्यत्ययादभिशस्तिपम् । अनभिशस्तेन्यमनभिशस्तमनभिनिन्दितं यत् स्वर्गादिफलं तद्धेतुत्वादनभिशस्तेन्यम् । अथवाऽनभिशस्ते स्वर्गादौ नयतीत्यनभिशस्तेनीस्तम्, द्वितीया प्रथमार्थे, पुंस्त्वं व्यत्ययेन । यद्वाऽनभिशस्तेन्यमहिंस्यम् । ' कृत्यार्थे तवैकेन्केन्यत्वनः ' ( पा. सू. ३.४.१४ ) इति केन्यप्रत्ययः । तथा च यस्त्वमीदृशमसि, अतो हे तानूनप्त्र आज्य, अहमृत्विग् अञ्जसा प्रगुणेन मुख्यया वृत्त्या ऋजुमार्गेण मानसकौटिल्यरहितेन वा सत्यमाज्यस्पर्शरूपं शपथमुपगेषमु-पगच्छेयम् । उपपूर्वस्य गायतेर्लट्युत्तमैकवचने ' सिब्बहुलं लेटि ' ( पा. सू. ३.१.३४ ) इति सिपि इडागमे ' लेटोऽडाटा ' ( पा. सू. ३.४.९ ४ ) इत्यडागमे ' इतश्च लोपः परस्मैपदेषु ' ( पा.सू. ३.४.९ ७ ) इतीकारलोपे च रूपम् । ' गाङ् गतौ ' इत्यस्य वा ' लिङथें लेट् ' ( पा. सू.३.४.७ ) इत्यादिना लेटि पूर्ववदेव प्रयोगसिद्धिः । उपगेषम् उपपूर्वकाद् गाधातोर्लेट्युत्तमपु-रुषैकवचने मिपीकारलोपे ' सिब्बहुलं लेटि ' इति सिप्प्रत्यये तस्येडागमे गुणे षत्वे च ' उपगेषम् ' इति सिद्धम् । यत्तु केनचिदत्राक्षिप्यते — ‘ केनचिदवैयाकरणेन सिप इटं कृत्वाऽयं प्रयोगः साधितः । स तु साधनप्रकारः सर्वथाऽनुचितः गाधातोरनिट्कत्वात्, ' आतो लोपः ' इत्यस्य प्रसङ्गाच्च । अतो लिङ्लकारेऽस्य साधुता करणीया ' इति । स चायमाक्षेप आक्षेप्तुरेवावैयाकरणत्वं नितान्तं सूचयति । तथा हि-- गाधातोरनुदात्तत्वेनानिट्कत्वेऽपि वेदे ऽनुदात्तस्थाने उदात्तस्वरः स्वीकर्तव्यः, ततश्चेडागमस्योपपत्तिर्निराबाधा स्यात् । भवति च छन्दसि स्वरव्यत्ययः । तदुक्तं ' व्यत्ययो बहुलम् ' इति सूत्रे — ' सुप्तिङपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुल-केन । ' इति । सूत्रकृता भगवता पाणिनिना लौकिकप्रयोगेऽप्यादन्तानां धातूनां लुङि लकारे ' यमरमनमातां सक् च ’ ( पा. सू. ७.२.७३ ) इति सूत्रेण सिच इटं विधायाकारान्तधातूनामुदात्तत्वं तस्मिन् प्रयोगे स्वीकृतप्रायम्, आंशिकं तदित्यन्यत् । अत एवातो लोपशङ्काऽपि निराकृता, अनुदात्तस्यैवाकारस्य तेन सर्वत्र ' पपिथ ' इत्यादौ लोपविधानात् ।

पृष्ठ 135

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 135 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२६ शुक्लयजुर्वेदसंहिता [ अ. ५ अस्मात् सरलो लघीयान् साधनप्रकारोऽन्यो नास्तीति सर्वथा समुचितोऽयमेव प्रकार इति । हे तानूनत्राज्य, स्विते शोभनमार्गे यज्ञकर्मणि मा मां त्वं धा धेहि स्थापय । अध्यात्मपक्षे तु- - हे ब्रह्मन्, आपतये सततगतये वायवे परिपतये सर्वव्यापिने तनूनपत्रे ब्रह्मणः पौत्ररूपाय आकाशापत्याय ओजिष्ठाय सर्वबलसाररूपाय सर्वकरणसमर्थाय वायवे वायुवशीकाराय त्वां गृह्णामि मनसा धारयामि, परमेश्वरकृपया वायुवशीकारेण योगादिसर्वसिद्धिप्राप्तिसम्भवात् । यद्वा सायणरीत्या प्रशस्तप्राणमन आदीनां प्राप्तये वा त्वां गृह्णामि । त्वं चानाधृष्टमसि, असङ्गकूटस्थाद् आधर्षितुमशक्यमसि, सर्वात्मत्वात् सर्वक्रियाया अविषयत्वाच्व देवानामग्निवाय्वादीनामोजोऽसि, त्वद्बलेनैव तेषां बलवत्त्वात् । केनोपनिषदि ब्रह्मणः समक्षेऽग्निवाय्वोर्नगण्यतृणस्यापि दग्धुमुत्पातयितुं च अशक्यता जाता । अनभिशस्त्यमनिन्द्यम्, सर्वप्रपञ्चातीतत्वेन निर्मलत्वात् । अत्र दयानन्दो मन्त्रस्यास्य विद्युद्देवतां पूर्वस्य मन्त्रस्य च आर्षीमुष्णिजं छन्दो मनुते । तत्रेदमवधेयम् — शास्त्र-कारैर्देवतानिर्णायकानि प्रमाणानि तावत् – ' तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन चेष्यते । देवता सङ्गतिस्तत्र ' ( जै. सू. २.२.२३ तन्त्रवार्त्तिके ) इत्यवधृतानि । मन्त्रे च ' आपतये, परिपतये ' इत्यादीनि चतुर्थ्यन्तानि सन्ति पदानि । इमानि च विशेषणानि । अत्र विशेष्यं किमिति पूर्वं तावन्निश्चेतव्यम् । विशेषणानि यत्र सङ्गतार्थानि तत्र विशेष्यत्वमवधारणीयम् । ‘ आपतये ' इति आसमन्तात् पतिः पालको यस्मिंस्तस्मै त्वा परमेश्वरं विद्युतं वा, परिपतये परितः सर्वतः पतयो यस्मिंस्तस्मै पदद्वयार्थो वर्ण्यते दयानन्देन । तत्र ' आपतये परिपतये ' इति शब्दयोर्विग्रहवाक्ये यच्छब्दार्थः कः? किं गृहम्? उत ग्रामः? अथवा नगरम्? आहोस्विद् देशः? अपि वा कर्म? यस्मिन्त्रासमन्तात् पतिः पालकः परितश्च पतयः पालकाः, तस्मा इत्युक्ते सर्व इमे पूर्वोक्ताः सम्भवितुमर्हन्ति । ' तस्मै फलाय त्वा परमेश्वरं विद्युतं वा गृह्णामि स्वीकरोमि ' इति वाक्यार्थः सम्पद्यते । गृह्णामिपदार्थस्य स्वीकारस्य परमेश्वरो विद्युद्वा कर्म ईप्सिततमरूपम् । फलमेव खल्वीप्सिततमं भवति । फलं च न क्वापि देवतात्वेन परिगण्यते । ' आपतये, परिपतये ' इति चतुर्थ्यपि फलमेव बोधयति । एवं सत्यापतिपरिपत्योर्देवतात्वं कुतो नोच्यते? दयानन्दमते खलु विद्युत्परमेश्वरयोः कर्मत्वम् । तत्र परमेश्वरो देवता विद्युद्वेति कुतो नोक्तम्? विद्युतैव किं सुकृतमनुष्ठितम्, येन तस्या एव देवतात्वमभिधीयते । सायणमहीधरमते वायुर्देवता प्राणो देवतेत्यत्र प्रमाणमस्ति । आपतिशब्दस्य सततगतिशीलोऽर्थः । स च वायुर्वा प्राणो वा भवति । तत्र च ' यो वा अयं पवत एष आ च पतति परि च पतत्येतस्मा उ हि गृह्णाति ' ( श. ३.४.२.१० ) इति ब्राह्मणमनुकूलम् । मीमांसाशास्त्रपरिज्ञानेन सम्प्रदायपरिज्ञानेन च विमुखो दयानन्दो यद्यन्मनसि समागच्छति, तत्तत्प्रलपतीत्येव स्वीकर्तव्यम् । अध्यात्मपक्ष में अर्थ इस प्रकार है— हे ब्रह्मन्! सतत गतिशील, सर्वव्यापी, ब्रह्म के पौत्रस्वरूप, आकाश के पुत्र, समस्त बलों के सारभूत, सर्वसमर्थ वायु के वशीकरण के लिये आपको मन से धारण करता हूँ । परमेश्वर की कृपा से वायुवशीकरण के द्वारा योगादि समस्त सिद्धियों की प्राप्ति सम्भव है । अथवा सायण के अनुसार प्रशस्त प्राण, मन आदि की प्राप्ति के लिये आपका आदि ग्रहण करता हूँ । आप असंग कूटस्थ होने के कारण अधर्षित हैं, समस्त क्रियाकलाप के विषय न होने के कारण अग्नि, वायु देवों के भी बल हैं । सर्वप्रपंचातीत होने के कारण अनिन्द्य हैं । दयानन्द के अनुसार इस मन्त्र की देवता विद्युत् तथा मन्त्र का आर्षी उष्णिक् छन्द है । स्वामी दयानन्द के मत इस मन्त्र में विद्युत् तथा परमेश्वर दोनों कर्म हैं । अतः परमेश्वर अथवा विद्युत् देवता है, इस प्रकार क्यों नहीं कहा जा सकता । मुद्रित पुस्तकों किये में पूर्णविराम देखकर प्रथम मन्त्र का छन्द लिखा गया है । यह भ्रममूलक है । केवल मन्त्रोक्त ' त्वा ' शब्द के दो अर्थ प्रदर्शित गये हैं । ये दोनों अर्थ वस्तुतः भिन्न हैं, किन्तु ' वा ' शब्द के कारण एक ही अर्थ अभिमत है, यह प्रतीत होता है । अतः वहां श्लेषालंकार की स्थिति नहीं है । धातु के अर्थभेद को भी श्लेषालंकार का प्रयोजक आलंकारिकों ने कहीं नहीं माना ॥५ ॥

पृष्ठ 136

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 136 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ५ ] वेदार्थपारिजात भाष्यसहिता १२७ ' पूर्वस्याष्णिक् छन्दः अनाधृष्टमित्यग्रस्य भूरिगार्षी पङ्क्तिश्छन्दः ' इत्यनालोच्यैव शास्त्राणि लिखति दयानन्दः । मुद्रितपुस्तकेषु पूर्णविराममवलोक्य ब्रवीति ' पूर्वस्य ' इति । ' आपतये ' इत्यारभ्य ' ओजिष्ठाय ' इत्यन्तभागेऽस्ति पूर्ण-विरामः । पूर्णविराम एव पूर्णमन्त्रस्य परिचायक इति मन्यते दयानन्दः । अत एव ' ओजिष्ठाय ' इत्यन्तं भागमेकं पूर्ण मन्त्रं मत्वा पूर्वस्येति लिखति । पूर्णविरामान्ते सन्दर्भे सत्यं सन्त्यष्टाविंशत्यक्षराणि । उष्णिक् चाष्टाविंशत्यक्षरा । अतो वदति ‘ पूर्वस्य ' इति । सर्वथा भ्रममूलकमिदं कथनं दयानन्दस्य | आश्वलायनादयः सूत्रकारा मन्त्राणां विनियोगं प्रदर्शयन्तो मन्त्रप्रतीकं गृह्णन्ति । प्रथमप्रतीकग्रहणानन्तरं द्वितीयं प्रतीकं यत आरभ्यते तावत्पर्यन्तं प्रथमो मन्त्रः, यतश्च तृतीयं प्रतीकं तत्पर्यन्तं द्वितीयो मन्त्रः, एवमुत्तरत्रापि । शुक्लयजुःशाखायाः प्रामाणिकः सूत्रकारः ' कात्यायनः । स सूत्रयति — ' धौवं व्रतप्रदाने गृह्णात्यापतय इति ' ( का. श्री. ८.१.१४ ), ' द्विश्च स्थाल्याः स्रुवेण तनूनप्त्रे शाक्वरायेति शक्वन ओजिष्ठायेति ( ८.१.१५ ) । तत्रानुषङ्गाधिकरणन्यायेन त्वा गृह्णामीति पदयोरनुषङ्गे जाते ' आपतये त्वा परिपतये गृह्णामि ', ' तनूनपत्रे शाक्वराय त्वा गृह्णामि ', ' शक्वन ओजिष्ठाय त्वा गृह्णामि ' इति मन्त्रत्रयं सिध्यति । अस्यां प्रामाणिक्यां स्थितौ विद्यमानायां दयानन्द: – ' पूर्वस्यायु॑ष्णिक् छन्दः ' इति निःसङ्कोचं लिखति । विनियोगानुसारेण मन्त्राणां भवन्ति छन्दांसि । विनियोगश्च सम्प्रदायतः सिद्धो न स्वेच्छानुसारेण । सर्वथा श्रौतप्रक्रियानभिज्ञो दयानन्दः । -‘ अनाधृष्टमित्यग्रस्य भुरिगार्षी पङ्क्तिश्छन्दः ' इति दयानन्दः । तस्य तस्य छन्दसो नियतेषु पादेष्वक्षराणां न्यूना-धिकभावे ‘ भुरिक् ’ इत्यादयः संज्ञा भवन्ति । यथा गायत्र्याः पादत्रयं नियतम् । तत्राक्षराणि प्रतिपादमष्टौ नियतानि । अत्र यदि क्वचिल्लक्ष्ये न्यूनाधिकभावः, तदा भुरिग्गायत्रीति संज्ञा, ' अष्टको दशकः सप्तको विद्वांसाविति सा भुरिक् ' ( ऋ. प्रा. १६.१७ ) इति प्रातिशाख्यात् । यत्र च छन्दसि नियतान्यक्षराणि तत्रार्षीत्वव्यवहारः । भुरिक्त्वस्य आर्षीत्वस्य च सामानाधिकरण्यं सर्वथानुपपन्नम् — ' भुरिगार्षीति ' । प्रकृतमन्त्रे एकचत्वारिंशदक्षराणि सन्ति । आर्ष्याः पङ्क्तेश्चत्वा-रिंशदक्षराणि नियतानि । अतो भुरिक्पङ्क्तिरित्येव वक्तव्यम्, न तु भुरिगार्षीति । यत्तु ' उपगेषम् ' इत्यधिकृत्य ' इदं पदमवैयाकरणेन महीधरेण लेट्लकारस्य रूपमित्यशुद्धं व्याख्यातम् ' इत्युक्तं दयानन्देन, तत्तुच्छम्, ' गै शब्दे ' इत्यस्मा-ल्लिङर्थे लेटि मिपि ‘ सिब्बहुलं लेटि ' इति सिपि बाहुलकादिटि, आतो लोपाभावे च उपगेषमिति रूपसिद्धौ बाधाभावात् । अन्यथा तवापि कथं सार्वधातुकत्वादङ् आर्धधातुकत्वाच्च सलोपाभावः स्यात् । ' छन्दस्युभयथा ' ( पा. सू. ३.४.११७ ) इत्यनेनापि युगपदेकस्यैव सार्वधातुकत्वमार्धधातुकत्वं च कथं स्यात्? अस्मिन् मन्त्रे श्लेषालङ्कारं मनुते दयानन्दः । अहो अलङ्कारप्रियता ग्रन्थकर्तुः । अलङ्कारशब्दोपादानमात्रेण कामं पामरा जना आकृष्टा भवेयुः न विद्वज्जनाः । पदार्थनिरूपणावसरे केवलं मन्त्रगतस्य त्वाशब्दस्यार्थद्वयं दर्शितम् ' त्वा परमेश्वरं विद्युतं वा ' इति । अर्थद्वयमिदं वस्तुतो भिन्नम् । किन्तु वाशब्दग्रहणेनैक एवार्थोऽभि-मत इति प्रतिभाति । तत्र न श्लेषस्यावसरः । युष्मच्छब्दस्य द्वितीयायां त्वेति । तस्य चार्थद्वयं नाभिधया भवितुमर्हति । यदि च तस्यार्थद्वये तात्पर्यं तर्हि तद्विशेषणद्वारा वक्तव्यम् । मन्त्रे च त्वापदस्यैकमपि विशेषणं नास्ति, येन विशेषणगतार्थभेदेन विशेष्यस्य त्वेत्यस्यार्थद्वयमापतेत् । अतस्त्वाशब्दद्वारा श्लेष इति न सिद्ध्यति । त्वाशब्द विहाय मन्त्रगतस्य कस्यापि पदस्यार्थद्वयं न निरूपितम् । ' अन्वयः ' इत्यारभ्य ' उपगेषम् ' प्राप्नुयामित्येक इति, ' उपगेषम् ' विजानीयामिति द्वितीय इति द्वावन्वयौ प्रदर्शितौ । धातूनामनेकार्थत्वमिति न्यायेन ' उपगेषम् ' इत्यस्य प्राप्तिरेकोऽर्थः, विज्ञानं च द्वितीय इत्यर्थद्वयं निर्दिष्टम् । नहि धात्वर्थभेदस्य श्लेषालङ्कारप्रयोजकत्वमालङ्कारिकैः क्वचित् साधितम् ।

पृष्ठ 137

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 137 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२८ शुक्लयजुर्वेदसंहिता [ अ. ५ अत्र टिप्पणकारो ब्रह्मदत्तजिज्ञासुर्लिखति - ' श्लेषालङ्कारेणाध्यात्मिकाधिदैविकार्थौ प्रदर्शिताविति । मन्त्रगत-पदानामर्थं निरूपयन् दयानन्दो न कस्यापि पदस्याध्यात्मिकाधिदैविकार्थपरतां प्रदर्शयति । अन्वयप्रदर्शनावसरे मन्त्रपदानि वारद्वयं प्रदर्श्य ' प्राप्नुयाम्, विजानीयाम् ' इति निरूपयति । नहि ' प्राप्नुयाम् ' इत्यस्याध्यात्मिकार्थपरत्वम्, ' विजानीयाम् ' इत्यस्याधिदैविकार्थपरत्वमिति सङ्गच्छते । केवलं लोकप्रतारणायैवायमाडम्बरो दयानन्दस्य ब्रह्मदत्तजिज्ञासोश्चेति प्रती-यते । समग्रस्य दयानन्दग्रन्थसन्दर्भस्य असङ्गत्यलङ्कारः स्यात्, न तु मन्त्रस्य श्लेषालङ्कारः । शतपथे च --- ' अथातो गृह्णात्येव । आपतये त्वा परिपतये गृह्णामीति यो वा अयं पवत एष आ च पतति परि च पतत्येतस्मा उ हि गृह्णाति तस्मादाहापतये त्वा... गृह्णामीति ' ( श. ३.४.२.१० ) । अथ तानूनप्त्रार्थमाज्यग्रहणं समन्त्रकं विधत्ते - अथातो गृह्णातीति । अत्र गृह्णामीत्यन्त एको मन्त्रो माध्यन्दिनरीत्या ' तनूनप्त्रे शाक्वराय ' इति द्वितीय, ' शक्वन ओजिष्ठाय ' इति तृतीयः । अस्मिन् पक्षे गृह्णामीत्ययमुत्तरयोरपि मन्त्रयोरनुषज्यते । तत्र स्रुवेण सर्वस्य धौवाज्यस्यैकवारं ग्रहणम्, स्थाल्याः स्रुवेण द्विर्ग्रहणम् । अथवा ' तनूनप्त्रे शाक्वराय शक्वन ओजिष्ठाय इत्येतौ पूर्वमन्त्रशेषौ । तथा सत्येक एव मन्त्रः । ' तनूनपत्रे शाक्वरायेति यो वा अयं पवत एष तनूनप्ता शाक्वर एतस्मा ' उहि गृह्णाति तस्मादाह तनूनप्त्रे शाक्वरायेति ' ( श. ३.४.२.११ ), ' शक्वन ओजिष्ठायेति । एष वै शक्वौजिष्ठ एतस्मा उहि गृह्णाति तस्मादाह शक्वन ओजिष्ठायेति ' ( श. ३.४.२.१२ ) । शक्वने सर्वत्र शक्ताय । ओजिष्ठाय अतिशयेन बलवते । ' अथातः समवमृशन्त्येव । एतद्ध देवा भूयः समामिर इत्थं नः सोऽमुथाऽसद्यो न एतदतिक्रामादिति तथ एवैत एतत् सममन्त इत्थं नः सोऽमुथाऽसद्यो न एतदतिक्रामादिति ' ( श. ३.४.२.१३ ) । गृहीतस्याज्यस्य सर्वैरवमर्शनं विधत्ते - अथातः समवमृशन्त्येवेति । स्पर्शकाले देवैः कृतमन्यसंकेतं दर्शयति-- एतद्ध वै देवा भूयः समामिर इति । एतद्वक्ष्यमाणं भूयः समामिरे पूर्वोक्तसङ्केतमन्तरेण पुनः सङ्गता अभवन्, ' अम गत्यादिषु ' । यो नोऽस्माकं मध्ये एतदतिक्रामाद् अतिक्रामेत्, स इत्थं देवभूत एव सन् अमुथा अन्यथा प्रकारेण असद् देवभावाद् विनश्येदित्यर्थः । न केवलं देवानामयं सङ्केतः, किन्त्विदानीन्तनानुष्ठातॄणामित्याह -- तथो इति । ' ते समवमृशन्ति । अनाधृष्टमस्यनाधृष्यं देवानामोज इत्यनाधृष्टा हे देवा आसन्ननाधृष्याः सह सन्तः समानं वदन्तः समानं दधाणा देवानामोज इति देवानां वै जुष्टास्तन्वः प्रियाणि धामान्यनभिशस्त्यभिशस्तिपा अनभिशस्तेन्यमिति सर्वां हि देवा अभिशस्ति तीर्णा अञ्जसा सत्यमुपगेषमिति वदानि मेदमतिक्रमिषमित्येवैतदाह स्विते मा धा इति स्विते हि तद्देवा आत्मानमदधत यत्सत्यमवदन् यत्सत्यमकुर्वं- सत्यं स्तस्मादाह स्विते मा धा इति ' ( श. ३.४.२.१४ ) । ते समवमृशन्ति । अवमर्शनमन्त्रस्याभिप्रायमाह -- अनाधृष्टा हि देवा आसन्ननाधृष्या इति । पूर्वं कैरप्यनाधृष्टा अपि देवाः परस्परापरागेणाधर्मविषया अपि सन्तः पश्चात् सङ्केतपूर्वकेणाज्यग्रहणेन स्वशरीराण्यवमर्शन्तः पुनरनाधृष्या आसन् । अतो हे आज्य, त्वमनाधृष्टानां पुनरनाधर्षहेतुत्वात् तद्रूपमसि । सह सन्त इत्यादिपदत्रयमनाधृष्यत्वे हेतुत्वेन निर्दिष्टम् । सह सन्तः परस्परमैकमत्येन वर्तमानास्तथा समानं वदन्तः, यदेको बूते तदन्येऽप्यनुकुर्वन्तः समानमेकमेव कार्यं मनसि दाणा धारयमाणा आसन्नतो देवा अनाधृष्या जाता इत्यर्थः । द्विती-यभागस्य तात्पर्यमाह - देवानामोज इति । देवानां वै जुष्टास्तन्वः प्रियाणि धामानि, ओजोरूपाणां प्रियधाम्नामाज्ये स्थापनात् । अनभिशस्त्यादिपदत्रयस्यैकतात्पर्यतामाह - यदवमर्शात् सर्वां हि देवा अभिशस्ति तीर्णा इति । तस्य सत्यस्य यथार्थस्वरूपस्यावमर्शनेनाहमृत्विक् सत्यमुपगेषमित्येतस्य सत्यप्राप्तेः प्रतिज्ञारूपत्वेन वागात्मकत्वात् वदानीत्येवंरूपा सत्यप्राप्तिरुक्ता । मेदमतिक्रमिषमित्येवैतदाहेति । स्वितशब्दार्थमाह -- स्विते हि तद्देवा इति सत्यं प्राप्तव्यं स्वितम् । तदत्र सत्यमेव वदानीति प्रतिज्ञापूर्वकं तदनुष्ठानमेव । अनाधृष्टा अपि देवाः परस्परापरागेण । कदा- सुष्ठु चिद्वैमत्येन पराभवमिव प्राप्ताः प्रकृततानूनवाज्यावमर्शनेन तत्प्रभावात् सह सन्तः समानं वदन्त एकमेव कार्यं मनसि

पृष्ठ 138

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 138 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ५-६ ] वेदार्थपारिजातभाष्यसहिता १२ ९ दधाणा अनाधृष्या जाताः । यानि प्रियाणि धामानि देवानां जुष्टा देवैर्जुष्टास्तन्वः, देवैः सेवितानि शरीराणि, तेषामोजोरूपाणां देवानां प्रियधाम्नामाज्ये स्थापनात् तदवमर्शनपूर्वकं परस्परमद्रोहेण सत्यं वदानीति प्रतिज्ञापूर्वकं सोमयागानुष्ठाने हे आज्य, मामृत्विजं यजमानं वा धेहि । तदेवाह - ' स्विते हि तद्देवा आत्मानमदधन् यत्सत्यमवदन् यत्सत्यमकुर्वंस्तस्मा-दाह स्विते मा धा इति ' ( श. ३.४.२.१४ ), ' अथ यास्तद्देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे तदिन्द्रे सन्यदधतैष वा इन्द्रो ए एष तपति । न ह वा एषोऽग्रे तताप यथा हैवेदमन्यत् कृष्णमेवं हैवास तेनैवैतद्वीर्येण तपति तस्माद्यदि बहवो दीक्षेरन् गृहपतय एव व्रतमभ्युत्सिच्य प्रयच्छेयुः स हि तेषामिन्द्रभाजनं भवति यद्यु दक्षिणावता दीक्षेत यजमानायैव व्रतमभ्युत्सिच्य प्रयच्छेयुरिदं ह्याहुरिन्द्रो यजमान इति ' ( श. ३.४.२.१५ ) । तानूनप्त्रमाज्यं सर्वैः स्पृष्टमपि सद् यजमानायैव दातव्यमिति विधातुमाह- अथ या इति । इन्द्रशब्दस्य विवक्षितमर्थमाह — देवा जुष्टा तनूरिति । प्रियाणि धामानि सार्धमेव समवददिरे संकलितवन्तः । तदिन्द्रे सन्यदधत सन्निहितवन्तः । कोऽयमिन्द्र इत्याह — य एष तपतीति । कोऽतिशयस्तत्र जात इति तत्राह न ह वा एष अग्रे पूर्वं तताप, तापकतया न ततापेत्यर्थः । यथा ह एव इदमिदानीं परिदृश्यमानं तपनम् । तर्हि कथमास- – कृष्णमेव । कृष्णरूपमेवास । तस्मात्तेनैव तानूनप्त्रा-ज्यस्वीकारजनितेनैव वीर्येण दुर्धर्षः सन् तपति । तस्माद्यदि बहवो गृहपतयो दीक्षेरन् अभ्युत्सिच्य उपरि तदाज्यमासिच्य | स हि तेषामिन्द्रभाजनं भवति, इन्द्रस्थानीयो भवतीत्यर्थः । फलस्य साम्येऽपि गृहपतित्वेन वरणे प्राधान्यादिन्द्रत्वम् । यद्यु यदि तु दक्षिणायुक्तेनैकाहादिना सोमयागेन दीक्षेत, यजमानायैव व्रतमुत्सिच्य प्रयच्छेयुरिन्द्रो यजमान इति । ‘ अथ यास्तद्देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे तत्सार्धं संजघ्ने तत्सामाऽभवत्तस्मादाहुः सत्यं साम देवजं सामेति ' ( श. ३.४.२.१६ ) । यजमानेन क्रियमाणस्य सामोपायस्य देवैः कृतं साम मूलमित्याह — अथ यास्तद्देवा इत्यादिना । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवत्तानि । तद् अवत्तं सार्धं संजघ्ने तदाज्येन साकं प्रक्षिप्तं शरीरकदम्बकं

संहतमेकमभूत्, तत्सामाऽभवत् । देवानां सत्येनोत्पन्नत्वात् सत्यं देवजं च साम ॥५ ॥

अग्ने॑ व्रतपा॒स्त्वे व॑तमा॒ या तव॑ त॒नूरि॒य ं सा मय॒ या मम॑ त॒नूरे॒षा सा त्वय॑ स॒ह नो॑ व्रतपते व्र॒तान्यनु॑ मे दीक्षां दी॒क्षाप॑ति॒र्मन्य॑ता॒मनु॒ तप॒स्तप॑स्पतिः ॥६ ॥

' अग्ने व्रतपा इत्याहवनीये समिधमादधाति ' ( का. श्रौ. ८. २.४ ) । आग्नेयं यजुः । यजमानोऽनेन यजुषाऽग्नि-शरीरात्मशरीरयोर्व्यत्ययं करोति । हे व्रतपा, सर्वेषां व्रतानां पालकाग्ने, त्वे त्वमस्मदीयस्य व्रतस्य पालक, भवसीति शेषः । विभक्तेः शे आदेशे ' त्वे ' इति रूपम् । तव तथाविधस्य व्रतपालकस्य या तनूः शरीरमस्ति, सेयं तनूर्मयि, भवत्विति शेषः । या उ या च मम तनूर्मदीयं शरीरम्, सैषा तनूस्त्वयि भवतु । तथा सति हे व्रतपते व्रतान्यनुष्ठेयानि कर्माणि नौ आवयोरग्नियजमानयोः सह प्रवर्तन्तामिति शेषः । यावानेव व्रतेषु ममादरस्तावानेव तवापि भवत्वित्यर्थः । मन्त्रार्थ - हे सब व्रतों के रक्षक अग्निदेव । तुम हमारे व्रत की रक्षा करो । तुम्हारा यह जो शरीर है, वह मुझमें हो और जो मेरा शरीर है, वह तुममें हो । हे व्रतरक्षक! हम दोनों के अनुष्ठित कर्म साथ हों । दीक्षा का रक्षक सोम मेरी दीक्षा को माने । उस सद्रूप तप का रक्षक सोम देवता मेरे सद्रूप तप को माने | इस मन्त्र को पढ़ते हये आहवनीय और गार्हपत्य अग्नि में समिधा दी जाती है ॥६ ॥

भाष्यसार - कात्यायन श्रौतसूत्र ( ८.२.४ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' अग्ने व्रतपाः ' इस यजुर्मन्त्र द्वारा आहवनीय अग्नि में समिधा का हवन किया जाता है । शतपथ ब्राह्मण में याज्ञिक विनियोगानुसार ही मन्त्र का विवरण उपदिष्ट है ।

पृष्ठ 139

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 139 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३० शुक्लयजुर्वेदसंहिता [ अ. ५ तपो दीक्षापतिः दीक्षायाः पालकः सोमो मे मम दीक्षामनुमन्यताम् । तथा तपस्पतिः, उपसद्रूपस्य तपसः पालकः सोमः, मदीयमुपसद्रूपमनुमन्यतामित्यनुवृत्तिरित्युव्वटसायणमहीधराणामभिप्रायः । व्रत-यथायमर्थः कात्यायनसम्मतस्तथैव शतपथश्रुतिसम्मतोऽपि । तथाहि - ' स समिधमभ्यादधाति । अग्ने मम पास्त्वे व्रतपा इत्यग्निर्हि देवानां व्रतपतिस्तस्मादाहाग्ने व्रतपास्त्वे व्रतपा इति या तव तनूरियं सा मयि या तनूरेषा सा त्वयि सह नौ व्रतपते व्रतानीति तदग्निना त्वचं विपल्याङ्गयतेऽनु मे दीक्षां दीक्षापतिर्मन्यतामनु पर्यस्यते ' ( श. तपस्तपस्पतिरिति तदवान्तरां दीक्षामुपैति सन्तरामङ्गुलीरचते सन्तरां मेखलां पर्यस्तामेवैनामेतत्सतीं करोति, विपल्या-३.४.३.९ ) । मन्त्रस्तु व्याख्यात एव । तदग्निना त्वचं विपल्याङ्गयतेऽग्निशरीरात्मशरीरयोर्व्यत्यासं कः सम्बन्ध इति तत्रोच्यते — तपो ङ्गयते विविधं परित आङ्गयन्नवेष्टयन्नग्निमेव त्वचमकुर्वन्नित्यर्थः । अग्नेस्त्वग्भावे नामनिर्वचनेन प्रशंसति - सन्तरा -वाग्निः । तपनसाधनत्वादग्निस्तपः, दीक्षापि क्लेशात्मकत्वात्तपः । अवान्तरदीक्षां दृढामकुर्वन् । मङ्गुलीरचतेऽतिशयेन संश्लिष्टा अङ्गुलीः कुर्वन् तथा मेखलामपि पूर्वां शिथिलबद्धां वा पुनः करोत्यव्रत्यं संलग्नां वा वदति तदेवाह — पर्यस्तामिति । परितः क्षिप्तामेवेति । तथो एवैष एतद्यदतः प्राचीनमव्रत्यं प्रजासाधनत्वेनावान्तर-अवान्तरदीक्षाख्यं कर्म प्रायश्चित्तं तस्य पापस्य निर्हरणमित्यर्थः । तत्रैव तृतीयया कण्डिकया शुक्रशोणितरूपेण दीक्षा प्रशस्ता । वधूवरयोर्युग्मी भावस्याग्निसापेक्षत्वेन मिथुनकर्ताग्निरुच्यते । अशितपीतयोः मेखलां तत्प्रजामात्मन्न-परिणामस्य चाग्न्यधीनत्वात् प्रजनयिता तत्प्रजामुपायन्त्सन्तरामङ्गुलीराचं च मेखलां प्रजार्थत्वमुक्त्वा सन्तरां इदानीन्तनयज-कुर्वन्त । अथवा कथमग्निर्मिथुनस्य कर्ता, यतोऽसौ मिथुनस्य प्रजनयिता । देवानां दीक्षाशब्दश्रवणात् मानस्यापि तदर्थत्वमुक्तम् । तत्तेन तनूविनिमयेन मन्त्रगतेन ' अनु मे दीक्षाम् ' इति मन्त्रभागे तन्मन्त्रभागपाठेनावान्तरदीक्षां प्राप्तवान् भवति । अध्यात्मपक्षे तु. - हे अग्ने परमेश्वर, त्वं व्रतपा व्रतरक्षकोऽसि । तव व्रतपस्य या तनूः शरीरं तेजोमयं स्वरूपं मम सूक्ष्मं वा मयि भवतु । या च मम तनूर्मदीयं शरीरं सैषा त्वयि भवतु त्वदायत्ता त्वत्सेवापरायणा भवतु ' । इति यद्वा श्रुतेः, ' सुख-शरीरं स्वरूपं वा त्वयि सायुज्यमुपगच्छतु । तनूशब्दः स्वरूपेऽपि प्रयुज्यते, ' विवृणुते तनूं स्वाम् तवाभेदो भवतु । बोधतनावनन्ते ' इति श्रीमद्भागवतवचनाच्च । तत्त्वज्ञानेनौपाधिकभेदमपहाय त्वया ममाभेदो मया च व्रतानि सदैव ‘ त्वं वै भगवो देवते अहमस्मि, अहं वै भगवो देवते त्वमसि ' इति श्रुतेः । हे व्रतपते, नौ आवयोः प्रपन्नाय तवास्मीति च प्रवर्तन्ताम्, मम श्रद्धाभक्तिभ्यां त्वदनुसरणं व्रतम्, तव तु शरणागतपालनं व्रतम्, ' सकृदेव वा त्वदु-याचते । अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥ ' इति श्रीरामोक्तेः । किञ्च, दीक्षापतिः, दीक्षा शुभकर्मणां । तथा पासनसम्बन्धिनी वा, तस्याः पतिः पालकः सर्वेश्वरः एतत्सङ्कल्पेनैव शुभकर्मसिद्धेः । मे मदीयां दीक्षामनुमन्यताम् परमं तपः ' इत्युक्ते; तपस्पतिः, तप एकादश्यादिव्रतम्, मनस इन्द्रियाणां च त्वय्यैकाग्यं वा, ' मनसश्चेन्द्रियाणां च ऐकाग्यं भ. गी. ९.२७ ) तस्य पतिः स्वामी परमेश्वरः तस्मिन्नेव समर्पणीयत्वात् । ' यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ' ( इति गीतोक्तेः । तपो मदीयमनुमन्यतां स्वीकरोतु, त्वदनुज्ञया कृतानां व्रतानां तपसां च साद्गुण्यसम्भवात् । आपका तेजोमय अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है - हे अग्नि परमेश्वर, आप व्रत के रक्षक हैं । व्रतों के रक्षणकर्ता अनुसरण का स्वरूप मुझमें सन्निहित रहे । अथवा मेरा सूक्ष्म शरीर आपका सायुज्य प्राप्त करे । हे व्रतपते, श्रद्धाभक्ति दीक्षा द्वारा के आपके पालक सर्वेश्वर मेरी मेरा व्रत तथा शरणागत के पालन का आपका व्रत दोनों साथ ही प्रवृत्त रहें । आपकी उपासनारूपी दीक्षा को स्वीकार करें तथा व्रतों के रक्षक परमेश्वर मेरे तपोव्रत को स्वीकार करें ।

पृष्ठ 140

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 140 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ६-७ ] वेदार्थपारिजातभाष्यसंहिता १३१ अत्र दयानन्दः — ‘ हे अग्ने! विज्ञानस्वरूप ब्रह्मन् विद्युद्वा, व्रतपा व्रतानि सत्यभाषणादोनि पाति यस्माद्यया वा, त्वे त्वयि तस्यां वा व्रतपा व्रतानि सुशीलादीनि येन यया वा । या वक्ष्यमाणा तव भवतस्तस्या वा तनूर्विस्तृता व्याप्तिः, इयं प्रत्यक्षा सा प्रतिपादितपूर्वा मयि मम मध्ये मम तनूर्विस्तृतं शरीरम् एषा प्रत्यक्षा या उक्तपूर्वा त्वयि जगदीश्वरे तस्यां वा सह परस्परं नौ आवामावयोर्वा व्रतपते व्रतादीनां वेदादिविद्यानां पालयितः पालननिमित्ता वा व्रतानि ब्रह्मचर्यादीनि, अनु पश्चात् मे मम दीक्षां व्रतादेशं दीक्षापतिव्रतादेशानामुपदेशपालको रक्षणनिमित्ता वा मन्यतां स्वीकरोति स्वीकारयति वा, अनु आनुकूल्ये तपो जितेन्द्रियत्वादिपुरःसरं धर्मानुष्ठानं तपस्पतिस्तपसः पालयिता । हे अग्ने परमात्मन् विद्युद्वा व्रतपालयितः, व्रतनिमित्तं वा त्वे त्वयि तस्यां वा अहं व्रतपा अस्मि । येयं तव तस्या वा तनूरस्ति सा मयि वर्तते । या यैषा मम तनूरस्ति सा त्वयि तस्यां वर्तते । यानि तव तस्या वा व्रतानि तानि मयि सन्तु । यानि ममोत्तमानि व्रतानि सन्ति तानि त्वयि तस्यां वा वर्तन्ताम् । यो भवानियं वा तपस्पतिरस्ति स सा वा मे मह्यं तपोऽनुमन्यतामनुज्ञापयतु ज्ञापयति वा । यो भवानियं वा दीक्षापतिः स सा मे मह्यं दीक्षामनुमन्यतामनुज्ञापयतु अनुज्ञायतु, अनुज्ञापयति वा । एवं हे अध्यापक! त्वमहं चैतौ विदित्वा सह परस्परं धार्मिकौ विद्वांसौ भवेव, यतो नावावयोर्विद्यावृद्धिः सततं भवेत् ’ इति, तदेतत्सर्वमसत्, परमात्मनश्चेतनस्य सत्यादिपालकत्वसम्भवेऽपि विद्युतस्तदसम्भवात् । न च पतिशब्दस्य पाल-ननिमितत्वमर्थः, कथञ्चित्तदङ्गीकारेऽपि विद्युतो व्रतादिनिमित्तत्वस्याप्यसम्भवात्, यथाकथाञ्चित्तु तस्याः सर्वस्यैव निमि-तत्वेऽन्यथासिद्धेः । न वा निराकारस्य परमात्मनो विद्युतो वा त्वद्रीत्या तनूसम्भवः । न वा अन्यसम्बन्धिन्यास्तन्वाः परमात्मनि विद्युति वा प्रवेशः सम्भवति । व्रतानि च परमेश्वरे विद्युति वा न सम्भवन्ति, परमेश्वरस्य पूर्णकामत्वेन व्रतानपेक्षणात्, तस्या जडत्वेनासम्भवाच्च । एवमेव तपस्पतित्वं दीक्षापतित्वं चोभयत्र न सम्भवति, तस्य सर्वाधिपति-त्वेनाकिञ्चित्करत्वात्, तस्याश्च तदसम्भवात् । यदपि च‘या उ इत्यशुद्धम् ' इति, तदपि न, अशुद्धिनिमित्तस्य हेतोरनुपन्यासात्, हेत्वनुपन्यासेन चैतल्लेखस्यैवाशुद्धिग्रस्तत्वात् । यस्तु — ' पदकारेणात्र प्रकृतिभावेनैकपदत्वं प्रदर्शितम्, अतः पदकार-विरोधात् पदद्वयोक्तिर्विरुद्धेति, तदपि न, या उ इति प्रकृतिनिर्देशस्य दिदर्शयिषितत्वेनादोषात् । वस्तुतस्तु शतपथविरोधात् सर्वमिदं दयानन्दीयं व्याख्यानमेवाशुद्धम् ॥६ ॥

अ॒शुं शुष्टे देव स॒माप्या॑यता॒मिन्द्रा॑यैकधन॒विदे॑ । आ॒ तुभ्य॒मिन्द्र॒ प्याय॑ता॒मा त्वमि-न्द्रा॑य प्यायस्व । आप्या॑या॒ऽस्मान् सखा॑न् स॒न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्यम॑शीय । ए॒ष्टा॒ राय॒ः प्रेषे भगा॑य॒ ऋ॒तमृ॑तादिभ्यो॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ॥७ ॥

‘ मदन्तीरुपस्पृश्य यजमानषष्ठाः सोममाप्याययन्त्यंशुरं शुरिति ' ( का.श्रौ. ८.२.६. ) । ब्रह्मोद्गातृहोत्रध्वर्य्यग्नीधाः पञ्चर्त्विजः षष्ठो यजमान इत्येते यजमानषष्ठा मदन्तीरुपस्पृश्य सोममुपस्पृशेयुर्हिरण्यहस्ताः । पञ्चमः प्रतिप्रस्थातेति इस मन्त्र का स्वामी दयानन्द द्वारा निरूपित व्याख्यान अनुचित है । विद्युत् का सत्यादि का पालक होना असम्भव है और निराकार परमात्मा अथवा विद्युत् का उनके मत में शरीर भी संभव नहीं है । व्रत भी परमेश्वर अथवा विद्युत् दोनों में सम्भव नहीं है, क्योंकि पूर्णकाम होने के कारण परमेश्वर व्रतनिरपेक्ष हैं तथा विद्युत् के जड होने के कारण व्रत असंगत है । शतपथ श्रुति से विरुद्ध होने के कारण भी यह व्याख्या अशुद्ध है ॥६ ॥

मन्त्रार्थ - हे सोम देवता! तुम्हारे सब अवयव धन प्राप्त कराने वाले इन्द्रदेव की प्रीति के लिये वृद्धि पावें । तुम्हें पीने के लिये इन्द्र यहाँ आवें । तुम इन्द्र के पान के लिये सब ओर से वृद्धि पाओ । हे सोम! सखा के समान प्रीति के पात्र