वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 141–150

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 141–150

पृष्ठ 141

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 141 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३२ शुक्लयजुर्वेदसंहिता [ अ. ५ इति कर्काचार्य: । ' अथैनमतो सम्प्रदायः । अत्र सोमाप्यायनं हस्तेन सोमस्य स्पर्शमात्रम्, न तु सोमान्तरस्य तत्र प्रक्षेप ) । एनं सोमं यजमानं मदन्तीभिरुपचरन्ति तपो वा अग्निस्तपो मदन्त्यस्तस्मादेनं मदन्तीभिरुपचरन्ति ' ( श. ३.४.३.१० वा मदन्तीभिरुपचरन्ति । तप्ता आपो मदन्त्यः । अग्नेर्मदन्तीनां च सन्तापकत्वात् तपोरूपत्वम् । चतुरवसाना चतुरशीत्यक्षरा इन्द्रप्रीत्यर्थ-प्रकृतिः सौमी, अन्त्योऽर्धर्चो लिङ्गोक्तः सोमो देवता । हे सोमदेव, ते तव, अंशुः सर्वोऽप्यवयव योऽवयवो , इन्द्राय म्लानो भवति, माप्यायतामुपचीयताम्, अनेन प्रोक्षणेन सर्वतो वर्धतामित्यर्थः । चिरकालावस्थानेन सोमस्य युवायते यन्त्रीयते तदेवास्यै यश्च शुष्यति, तदुभयमनेन मन्त्रपूर्वकस्पर्शनेनाप्यायितं भवत्विति तात्पर्यम्, ' यदैवास्या सन्ति तेषु सर्वेषु तेनाप्यायति ' इति तित्तिरिश्रुतेरिति सायणाचार्यः । कीदृशायेन्द्राय? एकधनविदे, यावन्तः सोमयागाः ते कुम्भा सोमरूपमिदं द्रव्यमेकमेव धनं विन्दते लभत इत्येकधनवित् तस्मै । यद्वा सोमकण्डनाय यैर्जलमानीयते जलकुम्भा एकधना; एकं धनं सोमरूपं यत्रेति व्युत्पत्तेः । तान् वेत्ति जानातीत्येकधनवित् तस्मै । अर्थात् चेत् सोमकण्डनाय , ' एकैकोंऽशुः सोमस्य आनीता इति जानातीत्यर्थः । यद्वा एकधनान् वेत्तीत्येकधनवित् तस्मै । कथंभूतान् वेत्तीति । हे सोम, तुभ्यं देवान् प्रति भक्षत्वेन गच्छन् शतमेकधनानाप्यायति दश दश सोमस्य ईदृशी शक्तिः ' इति श्रुतिः इन्द्रपानार्थम्, त्वत्पानार्थम्, इन्द्र आप्यायतां वर्धताम्, बहुसोमपानेन इन्द्रो वर्धताम् । तथा हे सोम, त्वमपि इन्द्राय तुभ्यमिन्द्र आप्याय-आप्यायस्व सर्वतः प्रवृद्धो भव । तदाह तित्तिरि: - ' उभावेवेन्द्रं च सोमं चाप्यायति ' इति । यद्वा । किञ्च, तामुपचीयताम् । उपचितो हीन्द्रो बहुसोमं पिबति, अतस्त्वमिन्द्राय आप्यायस्व इन्द्रार्थमात्मानं वर्धयेत्युव्वटः हे सोम, सखीन् सखिवत्तव प्रीतिविषयान् अस्मान् ऋत्विजः सन्या धनदानेन मेधयाऽनुष्ठानेनार्थज्ञानधारणशक्त्या विनाशाभावोऽस्तु । तव चाप्यायय प्रवृद्धान् कुरु, ‘ ऋत्विजो वा अस्य सखायः ' इति श्रुतेः । हे सोम, ते स्वस्ति क्षेमो तव सम्बन्धिसवनेन प्रसादादहं सुत्यां सोमाभिषवक्रियां समाप्तिदिनमशीय प्राप्नुयाम् । यद्वा स्वस्ति विनाशाभावेन त्यामशीय । ‘ प्रत्येत्य प्रस्तरे निह्नुवत उत्तानहस्ता दक्षिणोत्ताना वेष्टा राय इति ' ( का. श्रौ. ८.२.७ ) । आहवनीयाद्दक्षिणस्यां मार्गेण प्रत्यागत्य दिशि स्थापितस्य सोमस्य समीपे आहवनीयं पूर्वेण गत्वा सोमाप्यायनं क्रियते । ततः प्रत्येत्य तेनैव कुर्वते । सर्वे ब्रह्मादयः षडपि उत्तानहस्ता दक्षिणोत्ताना वा प्रस्तरे सोमं परिचरन्ति, प्रस्तरस्योपरि उभावपि पाणी न कार्य उत्तानौ इत्येतदर्थं दक्षिणो वोत्तानः सव्यो नीच एव । निह्नवश्च प्रस्तरे पाण्योः करणम् । तत्रस्थैरेव प्रस्तरे निह्नवो प्रत्यागमनविधानमिति सूत्रार्थः । सोमाप्यायनकाले सर्वदेवात्मकस्य गार्हपत्याग्नेः पृष्ठतः करणेन सर्वदेवानां पाणिनिह्नवेन पृष्ठतः करणं भवति । तेन तेषां सान्त्वनमेव निह्नवः । प्रस्तरस्य सर्वदेवपरिचरणस्थानेन सर्वदेवात्मकत्वात् तत्र हम ऋत्विजों को धनदान और धारणा शक्ति से बढ़ाओ । हे सोम देवता! तुम्हारा कल्याण हो । तुम्हारी सत्यपरक कृपा से हमारे मैं सोम कर्म यज्ञ को के अन्तिम स्नान दिन को निर्विघ्न पाऊँ । हे सोम! हमारा इच्छित धन, ऐश्वर्य आदि हमें प्राप्त हो । नामक आप पूरा करें । स्वर्ग - पृथ्वी के अभिमानी देवताओं को हम नमस्कार करते हैं । ब्रह्मा, उद्गाता होता, अध्वर्यु को, ऊंचा अग्नीध्र कर रक्षा पाँचों ऋत्विक् और छठा यजमान इस मन्त्र को पढते हुए जल से सोम को सींचते हैं और दाहिने हाथ के लिये सोम की प्रार्थना करते हैं ॥७ ॥

भाष्यसार — कात्यायन श्रौतसूत्र ( ८.२६ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' अंशुरंशु: ' इस मन्त्र हैं से । तैत्तिरीय ब्रह्मा, उद्गाता तथा, होता, अध्वर्यु, अग्नीध्र तथा यजमान मिल कर मदन्ती पात्र से जल लेकर सोम का स्पर्श करते हुए आर्द्र करते शतपथ श्रुतियों के आधार पर सायणाचार्य ने याज्ञिक प्रक्रिया के अनुसार भाष्य किया है ।

पृष्ठ 142

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 142 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ७ ] वेदार्थपारिजातभाष्यसहिता १३३ सर्वह्निवः सम्पद्यते । हे सोम, रायो धनानि आ इष्टा आसमन्तादस्माकमिष्टाः त्वत्प्रसादादस्माकं धनानीष्टानि भव-न्त्वित्यर्थः । यद्वा दक्षिणालक्षणा राय एष्टा आसमन्ताद्दत्ताः । इष्टा इति यजतेर्दानार्थकस्य रूपम् । दक्षिणा दास्यन्त इत्यर्थः । किमर्थम्? प्रेषे भगाय प्रकर्षेणेष्यत इति प्रेद्, तस्मै प्रकर्षेण काम्यमानाय भगाय ऐश्वर्याय । यद्वा हे एष्टः, तृजन्तस्य सम्बुद्धिः अर्थाद् धनं यजमानार्थमिच्छन् अग्ने! अत्र ब्राह्मणे सोमाप्यायननिह्नवातिक्रमस्योक्तत्वात् स एव प्रसाध्यः । यद्वा प्रकर्षेणेषे अन्नाय भगाय च, ऋतवादिभ्यः सत्यवादिभ्योऽग्निहोत्रभ्य ऋतं सत्यं तत्प्रीत्यर्थमवश्यम्भा-विफलवत्कर्म सम्पादयेति शेषः । यद्वा षष्ठ्यर्थे चतुर्थी । ऋतवादिनामस्माकं कर्मफलमस्त्विति शेषः । द्यावापृथिवीभ्यां तदभिमानिदेवताभ्यां नमोऽस्तु । तयोरनुग्रहेण यजमानस्य निर्विघ्नस्थितये नमस्कृतिः, ' द्यावापृथिवीभ्यामेव नमस्कृत्या-स्मिल्लोके प्रतितिष्ठति ' इति तित्तिरिश्रुतेः । ' अथ मदन्तीरुपस्पृश्य । राजानमाप्याययन्ति तद्यन्मदन्तीभिरुपस्पृश्य राजानमाप्याययन्ति वज्रो वा आज्यं रेतः सोमो नेद्वज्रेणाज्येन रेतः सोमं हिनसामेति तस्मान्मदन्तीभिरुपस्पृश्य राजानमाप्याययन्ति ' ( श. ३.४.३.११ ) । मदन्त्युपस्पर्शनपूर्वकं राजाप्यायनं विधत्ते - अथ मदन्तीरुपस्पृश्येति । ' घृतं वै देवा वज्रं कृत्वा सोममघ्नन् ' ( तै. सं. ६.२.२.४ ) इति श्रुतेराज्यस्य वज्रत्वम् । सोमस्य सर्वौषध्यनुप्रवेशाद् रेतसश्चैौषधिजन्यत्वाद्रेतस्त्वं सोमस्य । अथवा ‘ पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' ( छा. उ. ७.९.१ ) इत्याहुतिरूपस्य सोमस्य क्रमेण रेतोरूपेण परिणामाद्रेतस्त्वम् । तदेवाह श्रुतिः-- ' तदाहुः ' ( श. ३.४.३.१२ ) इत्यादिना । यस्मै सोमायातिथ्यं क्रियते, तमेवाग्रे आप्यायनादिभिः सत्कर्तुं युक्तमिति सोमसम्बन्धेन केषाञ्चिद्रीत्या चोद्यमुद्भाव्य यज्ञस्य वा एवं कर्मेत्यादिना तत्समाधानम् । एवम्प्रकारकक्रमविशिष्टं कर्मजातं यज्ञस्य खलु क्रियते । अत्र खल्वेनान् देवान् समत् कलहः, अविन्ददाप्नोत् । ते च देवाः पूर्वकलहोपशमनरूपं तनूनपत्रं कृतवन्तः । ततः शपथजनितदोषपरिहारायानान्तरमेवावान्तरदीक्षा कार्या, परिशेषादाप्यायनस्यान्ते निवेश इति । ' तद्यदाप्याययन्ति । देवो वै सोमो दिवि हि सोमो वृत्रो वै सोम आसीत्तस्यैतच्छरीरं यद्गिरयो यदश्मानस्तदेषोऽशाना नामौषधिर्जायत इति ह स्माह श्वेतकेतुरौद्दालकिस्तामेतदाहृत्याभिषुण्वन्ति तां दीक्षोपसद्भिस्तानूनप्त्रैराप्यायनेन सोमं कुर्व-तीति तथो एवैनामेष एतद्दीक्षोपसद्भिस्तानूनत्रैराप्यायनेन सोमं करोति ' ( श. ३.४.३.१३ ) । आप्यायनं प्रशंसति — तद्य-दाप्याययन्तीति । सोमस्य देवत्वमाह देवो वै सोमो दिवीति । तथापि सोमस्याप्यायनेन किं स्यादित्यत आह-- - वृत्रो वै सोम आसीदिति । त्वष्टृन्द्रघातकोत्पत्त्यर्थं हुतस्येन्द्रपीतसोमशेषस्य वृत्रत्वेनोत्पत्तेः सोमस्य वृत्रत्वम् । तस्येन्द्रेण हतस्य वृत्रस्य शरीरं गिरयोऽश्मानोऽभवन् । सोमाख्यं वस्त्वेव सोमशरीरभूतेषु गिर्यादिषु वर्तते । तदेष अशानाख्या ओषधि-र्जायते । एवं श्वेतकेतुरौद्दालक़िराह स्म । अतस्तामेव गिरावुत्पन्नामेव इदानीन्तना यजमाना अभिषुण्वन्ति न साक्षात् सोमम् । अतस्तामोषधिं दीक्षादिभिः संस्कारैः साक्षात्सोमं कुर्वन्तीत्याह -- तथो एवैनामेष इति । ' मधु सारघमिति वा आहुः । यज्ञो वै मधु सारघमथैत एव सरघो मधुकृतो यदृत्विजस्तद्यथा मधु मधुकृत आप्याययेयुरेवमेवैतद्यज्ञमाप्याययन्ति ' ( श. ३.४.३.१४ ) । ऋत्विग्यजमानकर्तृकमाप्यायनं मधुसारघकल्पनया प्रशंसति — मधु सारघमिति । तस्यैवाप्यायनस्य १६-१७ कण्डिकाभिर्गतसारत्वपरिहाररूपेण प्रशंसनम् – ' यज्ञस्य निर्धीतं यद्विदुग्धं तदेवैतत् पुनराप्याययन्ति ॥ ते वै षड् भूत्वाऽऽप्याययन्ति । षड् वा ऋतवः ' इति । तेनर्तुभिरेवाप्यायनं सम्पद्यते । आप्यायनमन्त्रस्तदभिप्रायश्चोच्यते – ' त आप्याययन्ति । अंशुरं शुष्टे देव सोमाप्यायतामिति तदस्यांशु-मं - शुमेवाप्याययन्तीन्द्रायैकधनविद इतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्रायेत्येकधनविद इति शतं शतं ह स्म वा एष देवान् प्रत्येकैक एवांशुरेकधनानाप्यायते दश दश वा तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वेतान्द्रो वै

पृष्ठ 143

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 143 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३४ शुक्लयजुर्वेदसंहिता [ अ. ५ यज्ञस्य देवता सा यैव यज्ञस्य देवता तामेवैतदाप्याययत्या त्वमिन्द्राय प्यायस्वेति तदेतस्मिन्नाप्यायनं दधात्याप्या-ययाऽस्मान्त्सखीन् सन्या मेधयेति स यत्सनोति तत्तदाह यत्सन्येत्यथ यदनुब्रूते तदु तदाह यन्मेधयेति स्वस्ति ते देव सोम सुत्यामशीयेत्येका वा एतेषामाशीर्भवत्यृत्विजां च यजमानस्य च यज्ञस्योदृचं गच्छेमेति यज्ञस्योदृचं गच्छानी-त्येवैतदाह ' ( श. ३.४.३.१८ ) । मन्त्रस्य प्रथमभागं व्याचष्टे – अंशुरंशुष्ट इति । यद्यप्याप्यायने सोमस्य सर्वोऽशुर्नाप्यायते, तथापि मन्त्रे अंशुरंशुरिति वीप्साभिधानसामर्थ्येनैव प्रत्यंशु आप्यायनवद् भवति, मन्त्राणामचिन्त्यशक्तित्वेन तथा साम-र्थ्यावगमात् । इन्द्रायैकधनविद इत्यत्रेन्द्रशब्दतात्पर्यमाह – इन्द्रो वै यज्ञस्य देवतेति । एकधनानाप्यायते दश दश वेति । एकः सोमादिरूपो हविःपदार्थ एव धनं येषां ते देवा एकधनाः तान् विन्दति यज्ञे सोमषानाय लभत इतीन्द्र एकधनवित् । तस्मादेकैक एवांशुः शतशो दशशो वा एकधनान् देवान् आप्याययति वर्धयति तेषां शरीरोपचयं करोति । अत उक्तप्रकारेण सोमाख्यैकधनेन देवानामेकधनत्वान्मन्त्र इन्द्रायैकधनविद इत्याह- आ तुभ्यमिन्द्रः प्यायतामिति । हे सोम, तुभ्यं त्वदर्थं पातुं स इन्द्रः समर्थो भवतु । यज्ञसाधनभूतस्येन्द्रार्थत्वावगमादिन्द्रस्यैवाप्यायनं कृतं भवतीत्यर्थः ।आ त्वमिन्द्राय प्यायस्वेति । अत्र सोमाप्यायनस्येन्द्रार्थत्वावगतेस्तस्मिन्नेवाप्यायनं दधातीत्युक्तम् । आप्याययास्मान् सखीन् सन्या मेधयेति । अनेन मन्त्रभागेन धनमेषां दित्सयाऽऽप्यायनायास्मत्सखिभूतानामृत्विजामाशासनं क्रियते । अत्र सनि-मेधाशब्दयोर्दातव्यं धनमनुवचनीयं मन्त्रादिकं चार्थ इत्याह-- स यत्सनोति तत्तदाह यत्सन्येति । सन्या इत्येवंरूपेण शब्देन यदाहार्थजातं तद्यत् सनोति धनं यज्ञेन यजमानस्तदाह । एवमुत्तरवाक्यमपि योज्यम् । पूर्वापर भूतस्यानुवचनस्य मेधामन्तरेणासम्भवान्मेधाशब्दस्यानुवचनमर्थ इति व्याख्यातम् । स्वस्ति ते सोमेति । क्षेमो विनाशाभावः । सुत्यां सोमा-भिषवमशीय प्राप्नुयाम् । सुत्याप्राप्तिप्रार्थनायास्तात्पर्यमाह – एको वा तेषामाशीर्भवतीति I । यज्ञस्योदृचमिति । उपरि-भाविनी ऋग् उदृक्, तया समाप्तिर्लक्ष्यते । ' अथ प्रस्तरे निह्नुवते । उत्तरत उपचारो वै यज्ञोऽथैतद्दक्षिणेवान्वित्याप्याययन्त्यग्निर्वै यज्ञस्तद् यज्ञं पृष्ठतः कुर्वन्ति देवेभ्य आवृश्च्यते यज्ञो वै प्रस्तरस्तद्यज्ञं पुनरारभन्ते तस्यो हैषा प्रायश्चित्तिस्तथो हैषामेतन्न मिथ्याकृतं भवति न देवेभ्य आवृश्च्यन्ते तस्मात् प्रस्तरे निह्नुवते ' ( श. ३.४.३.१ ९ ) । आप्यायनमभिधाय निह्नवमाह — अथ प्रस्तरं निह्रुवत इति । प्रस्तरस्योपरि पाणी सम्पुटीकृत्य अंशुरंशुष्ट इति मन्त्रजपो निह्नवः । निह्नवशब्दोऽपलापार्थको दृष्टः । इह तु देवानां नमस्कारादिना सान्त्वनं विहितम् । सोमाप्यायनकाले सम्भावितस्यातिक्रमस्य परिहाररूपेण निह्नवं प्रशंसति— उत्तरत उपचारो वै यज्ञ इति । उत्तरत उपचार इति व्यतिरेकप्रदर्शनायाभिधानं साध्यसाधनयोरभेदाभिप्रायेण । अग्ने-र्यज्ञत्वमृत्विजां दक्षिणत उपचारेण पश्चाद्भागस्थितस्य गार्हपत्यस्य पृष्ठतः करणं भवति । तेन मिथ्या अकृतं कुर्वन्ति । अग्नेः सर्वदेवात्मकत्वात् सर्वदेवेभ्यो वर्जितो भवति तत्पृष्ठतः करणेन । तर्हि प्रस्तरनिह्नवेन कथं तत्समाधानमिति तत्राह - यज्ञो वै प्रस्तरः । हविराधारकत्वेन यज्ञनिर्वर्तकत्वात् प्रस्तरस्य यज्ञत्वोपचारः । तेन तस्य निह्नवेन देवानां सान्त्वनं सम्पद्यते । तेन नैषां मिथ्याकृतम् । न च देवेभ्यो वृश्च्यन्ते । तस्मात् प्रस्तरे निहुवते । २० कण्डिकया निह्नवस्य कालं निर्धारयितुं ब्रह्मवादिनां विचारो दर्शितः । किम्वक्ते प्रस्तरे निह्नवः कर्तव्य उतानक्त इति विचार्यमाणत्वात् प्लुतिः । अक्तस्याविलम्बेनाग्नौ प्रहरणादनक्त एव प्रस्तरे कर्तव्यमित्यर्थः । ' अक्ते निहुवीरा ३ ननक्ता ३ इत्यनक्ते हैव निह्नुवीरन्न नु प्रहरणं ह्येवाक्तस्य । ते निहुवते । एष्टा रायः प्रेषे भगाय ऋतमृतवादिभ्य इति सत्यं सत्यवादिभ्य इत्येवैतदाह नमो द्यावापृथिवीभ्यामिति तदाभ्यां द्यावापृथिवीभ्यां निह्रुवते ययोरिदं सर्वमधि ' ( श. ३.४.३.२० २१ ) । निह्नवमन्त्रस्यायमभिप्रायः -- हे एष्ट; यजमानार्थं धनमिच्छन् सोम, रायो धनानि प्रयच्छेति शेषः । किमर्थम्? इषे अन्नाय भगाय सौख्याय ऐश्वर्याय वा । ऋतवादिभ्योऽस्मभ्यमृतं प्रयच्छ क्रियमाणं कर्म यथा न वृथा स्यात्तथा

पृष्ठ 144

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 144 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ७ ७ ] वेदार्थपारिजात भाष्यसहिता १३५ कुर्वित्यर्थः । सर्वदेवाश्रयाभ्यां द्यावापृथिवीभ्यां नमः । ऋतशब्दस्योदकयज्ञाद्यर्थेष्वभिमतमर्थमाह — सत्यवादिभ्य इतीति । द्यावापृथिवीभ्यां नमस्कार एव निह्नव इत्याह — द्यावापृथिवीभ्यां निह्रुवत इति । ननु कथं तयोर्निह्नवेनेतरदेवानां निह्नवः स्यादिति तत्राह — ययोरिदं सर्वमधीति । यस्मात्तयोरन्त इदं सर्वं परिदृश्यमानमधि, स्थितमिति शेषः । तस्मा-त्तयोर्निह्नवेनेतर- देवानामपि निह्नवः स्यादेवेति । यद्वाऽधीति सप्तम्यर्थानुवादी, तयोरधीदं सर्वमिति । आपः किम्? मदन्तीः, मदन्त्यस्तप्ता आसन् । ' अथाह समुल्लुम्प्य ' प्रस्तर इत्युपक्रम्य २२ कण्डिकया प्रस्तरं सम्यगाहत्य हे अग्नीत्, ताभिरेहि, इत्याहेति शेषः । तं प्रस्तरमग्निमुपर्युपर्यग्नेरूर्ध्वोर्ध्वभावेऽतिहरत्यनुप्रहरति, तमध्वर्युणा दत्तं प्रस्तरमग्नीत् सुरक्षिते देशे निदधाति । एवं शतपथब्राह्मणानुसारेणैव कात्यायनेन सायणादिभिश्च मन्त्रो व्याख्यातः । अध्यात्म क्षे तु- - हे सोम साम्बसदाशिव, ते तव, अंशुरंशुः प्यायताम्, सर्वेऽप्यवयवभूता रश्मयः प्रभावा गुणा आप्यायन्तामुपचीयन्ताम्, उत्तरोत्तरं निरन्तरमुत्कर्षं प्राप्नुवन्तु । कस्मै प्रयोजनाय? एकं मुख्यं त्वां परमात्मानमेव धनं वेत्ति विन्दते वा योऽसौ एकधनवित् त्वदनन्योपासकस्तस्मै । भगवतः सर्वे गुणाः प्रभावा ऐश्वर्याणि च भक्तार्थान्येव भवन्ति । ‘ जयत्यतिबलो रामः ' इतिवद्भगवद्वर्धापनम् । हे सोम इन्द्र इन्ध एवेन्द्रः, ' ञिइन्धी दीप्तौ ' इन्धे देहेन्द्रियम-नोबुद्ध्यहङ्कारान् दीपयति स्वयं च दीप्यत इतीन्धो जीवः इन्ध एव परोक्षभाषया इन्द्र उच्यते । यद्वा इदं सर्वं स्वात्मत्वेन दृष्टवानितीदन्द्रो ब्रह्मवित्, इदन्द्र एव इन्द्र उच्यते परोक्षभाषया, तुभ्यं त्वदुपासनार्थमेव आप्यायताम्, त्वत्प्रदत्तसामर्थ्येनैव त्वदुपासनसम्भवात् । त्वं च हे सोम, इन्द्राय तस्मै ज्ञानिभक्ताय आप्यायतामुपचीयताम् । भक्तभगवतोः परस्परहिता-यैवाप्यायनं भवति । हे सोम, अस्मान् सखीन् सखिभूतान् जीवान् सख्यभावेनोपासकान् भक्तोपासकान् वा, ‘ तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः ' ( मुण्डको ३.१.१० ) इति श्रुतेः । सन्या शमदमादिदैवीसम्पत्प्रदानेन मेधया स्वात्मसाक्षात्कारलक्षणया प्रज्ञया तत्प्रदानेन चाप्यायय प्रवर्धय । हे सोम देवते, तव कृपयेति शेषः । स्वस्ति यथा स्यात्तथाऽविघ्नेन सुत्यां सोमाभिषवोपलक्षितां त्वत्साक्षात्कारपर्यवसायिनीं त्वदाराधनामशीय प्राप्नुयाम् । आसमन्तादिष्टा रायस्तदनुगुणा अपे-क्षिताः सम्पत्तयः प्रेषे प्रकृष्टाय इष्यमाणायान्नाद्याय भगायैश्वर्याय चास्माकं सन्त्विति भावः । ऋतवादिभ्यः सत्यवादिभ्यः, ऋतं सत्यम्, अत्यन्ताबाध्यं भगवत्पदं वा, प्रयच्छेति शेषः । द्यावापृथिवीभ्यां नमः, तयोः शिवशक्तिरूपयोरनुग्रहेणेष्टसिद्धेः । दयानन्दस्तु– ' हे सोम देवेश्वर विद्वन् विद्युद्वा, यतस्ते तव तस्या वा सामर्थ्यमंशुरंशुर् अङ्गमङ्गं सोमेनाप्यायताम् आप्यायति वेन्द्रः सोमो भवानियं वा एकधनविदे य एकेन धर्मेण विज्ञानेन वा धनं विन्दति तस्मै, आ अभित; तुभ्यम् अध्यापकाय मह्यमध्येत्रे वा इन्द्रः परमात्मा विद्युद्वा आप्यायतामाप्याययति वा । त्वमिन्द्राय दुःखविदारणायाप्यायस्व वर्धयस्व वर्धयेद्वा । अतः सन्या समानान् पदार्थान्नयति यया तया मेधया प्रज्ञया सखीनस्मान् आप्याययाप्याययेद्वा । हे सोम देव, तव शिक्षयाऽहं सुत्यां दिव्यगुणसम्पन्नो भूत्वेष्टारायः प्राशीयाम् इषे भगायर्तवादिभ्यो विद्वद्भ्य एतद्धनं अध्यात्मपक्ष में अर्थ यह है wwwxxcom हे साम्ब सदाशिव, आपकी समस्त अवयवभूत रश्मियां प्रभावगुण एकमात्र आपको धन मानने वाले अनन्य उपासक जीव के लिये उत्तरोत्तर उत्कर्ष, वृद्धि को प्राप्त करें । अथवा इदन्द्र अर्थात् ब्रह्मविद् आपकी उपासना हेतु समर्थ करें । भक्त एवं भगवान् के परस्पर हितार्थ आप्यायन किया जाता है । हे साम्बशिव! सख्यभाव से उपासना करने वाले हम भक्त जीवों को प्रज्ञादान द्वारा वर्धित करें । मंगलपूर्वक निर्विघ्नता से हे देव, आपकी आराधना को प्राप्त करें । हमारी अपेक्षित सम्पत्तियां अन्न तथा ऐश्वर्य के लिये हों । सत्यवादियों के लिये भगवत्पद प्रदान करें । शिवशक्तिरूपी देवों के लिये नमस्कार है । स्वामी दयानन्द की व्याख्या में सोम शब्द का ' पदार्थविद्यावेदिता ' अर्थ प्रमाण के अभाव में कैसे हो सकता है? एक ही पद के धर्म तथा विज्ञान दोनों अर्थ मानने में कोई प्रमाण नहीं है । धर्म तथा विज्ञान एक नहीं है ॥७ ॥

पृष्ठ 145

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 145 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३६ शुक्लयजुर्वेदसंहिता [ अ. ५ दत्त्वा ऋतं सत्यां विद्यां द्यावापृथिवीभ्यां नमोऽन्नं प्राप्य सर्वाणि सुखानि प्राप्नुयाम् ' इति, तत्तु यत्किञ्चित्, सर्वपक्षेष्वसङ्गतेः । सोमपदस्य पदार्थविद्यावेदितेति कथमर्थः? प्रमाणानुपन्यासात् । जगदीश्वरस्य विदुषो विद्युतो वा सामर्थ्यमिति कुतो लब्धम्? मूले सामर्थ्यबोधकपदाभावात् । ' अंशुः सोमेन आप्यायताम् ' इति सोमेनेति पदं कुतो लब्धम्? तृतीयान्त- कथं सोमपदस्य मूलेऽभावात् । यदि सामर्थ्यमित्यंशुपदस्यार्थ इति चेत्तत्रापि प्रमाणमावश्यकम्? परमेश्वरीयसामर्थ्यस्य अध्यापकोऽध्येता सोमेनाप्यायनम्, तस्य नित्यत्वात् । न चाङ्गं परमेश्वरस्य सम्भवति, तस्य निराकारत्वाभ्युपगमात् ॥ वा कथं परमैश्वर्ययुक्तः सम्भवति? तस्य परमेश्वर एव सत्त्वात् धर्मेण विज्ञानेन सीमितैश्वर्यस्यैव प्राप्तिसम्भवात् हिन्दीभाषायां तु ' हे सोम पदार्थविद्याविद् दिव्यगुणसम्पन्न जगदीश्वर विद्वन् विद्युद्वा, ते तव तस्या वा सामर्थ्यमङ्गमङ्गं वर्धयतु वर्धयति वा ' इति, तच्चैतन्मूलानन्वितमेव । एकेन धर्मेण विज्ञानेन धनं विन्दतीत्यप्यशुद्धम्, एकपदस्य दुःख- धर्मो विज्ञानं वार्थ इत्यत्र प्रमाणाभावात् । नहि धर्मस्य विज्ञानस्य वैकत्वम्, धर्मविज्ञानयोरनेकत्वप्रसिद्धेः । इन्द्रपदस्य विदारणमपि नार्थः प्रमाणाभावात् । एकपदस्य मुख्यः प्रधानः परमेश्वर आकाशो वा कथं नार्थः? समानान् पदार्थान् मेधया कः कथं नयति? मेधया साधर्म्यवैधर्म्ययोरपि नयनात् । ' हे सोम, तव शिक्षयाहं सुत्यां दिव्यगुणसम्पन्नो भूत्वैष्टारायः प्राशीय ' अत्र शिक्षा कस्य मन्त्रगतशब्दस्यार्थः? सुत्याशब्दस्य को वार्थः? सुन्वन्ति यया क्रियया सेति चेत् का सा क्रिया? सुनोतिरपि क्रियैव । दिव्यगुणसम्पन्नो भूत्वेति तदर्थः कथम्? हिन्द्यां वा ' उत्तम - उत्तम उत्पन्न करने वाली क्रिया में कुशल होके ' इत्युक्तम्, तत्र च किं मानम्? ' मनुष्यैः परमेश्वरमुपास्य विद्वांसमुपचर्य इति भावार्थस्तु विद्युद्विद्यां प्राप्य शरीरात्मपुष्टिकरानोषधिसमूहान् धनसमूहांश्च संगृह्य वैद्यकविद्यानुसारेण सर्वानन्दा भोक्तव्याः ' सर्वथा मन्त्राक्षरबाह्य एव ॥७ ॥

या ते॑ अग्नेऽयश॒या त॒नूर्वषि॑ष्ठा गह्वरेष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त् स्वाहा॑ । या ते॑ अग्ने रजः श॒या त॒नूर्वषि॑ष्ठा गह्व॑ये॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वच॒ अपा॑वधी॒त्स्वाहा॑ । या ते॑ अग्ने हरिश॒या त॒नूर्वषि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वच॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त् स्वाहा॑ ॥८ ॥

‘ अक्त्वा प्रस्तरमुपसदं जुहोति स्रुवेण या ते इत्ययः शयामन्वारब्धे ' ( का. श्रौ. ८.२.३१ ) । जुहूपभृदाज्यस्थालीषु यजमाने । प्रस्तरमक्त्वा परिदध्यात्, दानात् पूर्वं स्रुवेणोपभृत्संज्ञकं होमं कुर्यात्, या ते अग्नेऽयःशया इति मन्त्रेणान्वारब्धे मन्त्रार्थ - हे उपसद् नामक अग्ने! जो तुम्हारा लोहपुरवासी शरीर देवताओं को इच्छित फल देने वाला और असुरों के विषम देश में रहने वाला है, उसने दैत्यों की कठोर वाणी को प्रत्येक कल्प में नष्ट किया है । असुरों के कहे आक्षेपरूप वाक्यों को नष्ट करने वाले तुम्हारे जैसे उपकारक अग्नि के लिये हम यह श्रेष्ठ आहति देते हैं । हे उपसद् अग्ने! जो तुम्हारा की रजतपुरवासी शरीर देवताओं को इच्छित फल देनेवाला और असुरों के विषम देश में स्थित रहने वाला है, देते उसने हैं । असुरों हे अग्ने! उग्र वाणी को, आक्षेपरूप वचनों को नष्ट किया था । ऐसे उपकारक अग्नि के लिये हम श्रेष्ठ आहति रहने वाला है । उसने तुम्हारा सुवर्णपुरवासी शरीर देवताओं को इच्छित फल देने वाला और असुरों के विषम देश में स्थित के लिये असुरों के तीखे वचनों को विनष्ट किया है । असुरों के आक्षेपरूप वचनों को नष्ट करने वाले उस उपकारक अग्नि में हम यह श्रेष्ठ आहुति देते हैं । इस मन्त्र से जुहू आदि में प्रस्तर को लगाकर परिधि - स्थापनपूर्वक स्रुवे से उपसद् अग्नि आहुतियां दी जाती हैं ॥८ ॥

पृष्ठ 146

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 146 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ८ ] वेदार्थपारिजातभाष्यसहिता १३७ आग्नेयानि त्रीणि यजूंषि । ‘ ग्रीवा वै यज्ञस्योपसदः शिरः प्रवर्ग्यः ' इत्युपक्रम्य प्रवर्ग्यानन्तरमुपसदनुष्ठानेन यज्ञं शिरसा योजयतीत्युक्तम् । ततः ' तद् याः पूर्वाह्णेऽनुवाक्या भवन्ति ता अपराह्णे याज्या या याज्यास्ता अनुवाक्यास्तद् व्यतिषजति तस्मादिमानि... पर्वाणि व्यतिषक्तानीमान्यस्थीनि ' ( श. ३. ४.४.१२ ) । ' अग्निर्वृत्राणि जङ्घनद्... य उग्र इव शर्यहा ' ( ऋ ६.१६.३४-३९ ), ' त्वं सोमासि सत्पतिः... गयस्फानो अमीवहा ' ( ऋ सं. १ ९ १.५ - १२ ), ' इदं विष्णुर्वि चक्रमे ' ( ऋ. सं. १.२२.१७ ), ‘ त्रीणि पदा वि चक्रमे ' ( क्र. सं. १. २२.१८ ) इति त्रीणि युगलानि क्रमेणाग्निसोमविष्णूनां युगलानि याज्याः पुरोऽनुवाक्याः ( ऐ. बा. १. ४.८ ) । तेष्वाद्याः प्रातःकालोपसदि पुरोऽनुवाक्या भवन्ति द्वितीया याज्याः, सायंका-लोपसदि तु द्वितीयाः पुरोनुवाक्याः प्रथमा याज्या इत्यर्थः । तत्रोपसदां लोकत्रयसाधनत्वेनेतिहासमुखेन प्रशंसोक्ता । ‘ देवाश्च वासुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा एषु लोकेषु पुरश्चक्रिरे ऽयस्मयीमेवास्मिल्लोके रजतामन्तरिक्षे हरिणां दिवि ' ( श. ३.४.४.३ ), ' तद्वै देवा अस्पृण्वत । त एताभिरुपसद्भिरुपासीदंस्तद्यदुपासीदंस्तस्मादुपसदो नाम ते पुरः प्रभिन्दन्निमांल्लोकान् प्राजयंस्तस्मादाहुरुपसदा पुरं जयन्तीति यदहोपासते तेनेमां मानुषीं पुरं जयन्ति ' ( श. ३.४.४.४ ), ' एताभिर्वै देवा उपसद्भिः । पुरः प्राभिन्दन्निमांल्लोकान् प्राजयन् तथो एवैष एतन्नाहैवास्मा अस्मिल्लोके कश्चन पुरः कुरुत इमानेवैतल्लोकान् प्रभिनत्तीमांल्लोकान् प्रजयति तस्मादाज्यहविषो भवन्ति ' ( श. ३.४.४.५ - ६ ) । देवैः पराजिता असुरास्तपस्तप्त्वा त्रैलोक्ये त्रीणि पुराणि चक्रुर्लोहमयीं भूमौ राजतीमन्तरिक्षे हरिणीं हैमीं दिवि । तद्वै देवा अस्पृण्वत हिंसितवन्तः, त्रिभिरुपसदाख्याभिरिष्टिभिरुपासीदन् । असुरनिर्गमनप्रतिबन्धात् त्रीणि पुराण्यावृत्त्य न्यवसन् । तेनोपसदनसाधनत्वादासामुपसन्नाम सम्पन्नम् । लोकेऽप्युपसदा दुर्गवेष्टनेन पुरं जयन्तीति प्रसिद्धम् । एताभिर्देवा असुराणां पुरः प्राभिन्दन्निमांल्लोकान् प्राजयन् तथैवैतयोपसदा यजमानोऽपि पुरः प्रभिनत्ति । न हैवास्मिल्लोके कश्चन तद्विरोधी पुरः कुरुते । उपसद्देवतारूपोऽग्निर्यदा तासु पूर्षु प्रविश्य ददाह, तदा तिस्रः पुरोऽग्नेस्तनवोऽभूवन् । तदेतदाह तित्तिरि: -' तेषामसुराणां तिस्रः पुर आसन्नयस्मय्येवाथ राजती हारिणी ता एतास्तिस्रः पुरो दग्युपसद्देवतारूपोऽग्निर्यदा तासु पूर्षु प्रविश्य व्याप्नोति तदानीमेतास्तिस्रः पुरोऽग्नेस्तनवो भवन्ति ' इति । मन्त्रार्थस्तु — हे अग्ने, तव या तनूरयः शया अयसि शेत इत्ययः शया लोहमयी लोहमयपुरोव्यापित्वेन तद्रूपा सती वर्षिष्ठा उरुतमा विस्तीर्णतमा देवानामतिशयेनाभिमतफलवर्षिणी वा, तथा गह्वरेष्ठा असुरसम्बन्धितया गह्वरे निगूढे विषये परैरगम्ये देशे तिष्ठतीति सा तथोक्ता ते तनूः । उग्रं वचो छिन्धि - भिन्धीत्यादिकमसुरतीवं वचनं तथा त्वेषं वचोऽसुरैः प्रोक्तं देवाधिक्षेपरूपत्वेन प्रदीप्तं धृष्टं वाक्यमपावधीत् । तेन निहतसर्वोद्यमा असुरा निर्वाचः संवृत्ताः सन्तु वा । स्वाहा तथाविधदेवोपकारवते तुभ्यमग्नये हविर्दत्तमस्तु । यद्वा - असुरैरुपद्रुता देवा अन्नपानादिकमलभमाना क्षुत्पिपासाभ्यां पीडिता वयमिति वदन्ति तदेतदुग्रं वचः । तथा किं वीरहत्यादिकं पातकमस्माभिः कृतमिति क्लिश्नन्तो देवा यद्वाक्यं वदन्ति तत्सन्तापहेतुत्वेन प्रदीप्तम्, ' त्वेषं वच इति ' ( तै. सं. १.२.११ ) इति तैत्तिरीयश्रुतेः । ' एवमितरे अन्वहं रजःशयां हरिशयां चेति ' ( का.श्रौ. ८. २.३३ ) । इतरे द्वितीयतृतीये उपसदौ एवमेवान्वहं द्वितीयतृतीययोर्दिनयोः कर्तव्ये 1 । ज्योतिष्टोमे उपसत्त्रयं विहितम् । तत्र प्रथमामुपसदं प्रथमदिने सायं प्रातश्च आवृत्त्या द्विरनुतिष्ठेत्, एकैकामुपसदं द्विरभ्यस्येदित्यर्थः । द्वितीयतृतीयदिनयोरपि द्वे द्वे उपसदौ कर्तव्ये । ' तत्र रजः शया - हरिशया ' इति मन्त्राभ्यां क्रमेण होमः भाष्यसार - ' या ते अग्ने ' इत्यादि तीन यजुर्मन्त्रों के द्वारा उपसद् होम किया जाता है । शतपथ ब्राह्मण में इन मन्त्रों का याज्ञिक प्रक्रिया की दृष्टि से व्याख्यान उपदिष्ट है । तदनुसार कात्यायन श्रौतसूत्र ( ८.२.३३-३६ ) में उपसदिष्टियों में इन मन्त्रों का विनियोग किया गया है. F

पृष्ठ 147

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 147 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३८ शुक्लयजुर्वेदसंहिता [ अ. ५ कार्यः । ततश्च षडुपसदो भवन्ति । तत्र द्वितीयस्यामुपसदि रजः शयेति, तृतीयस्यां हरिशयेति मन्त्रभेदः । रजःशया रज-तमयीत्यर्थः । हरिशया हिरण्मयी । शेषं पूर्ववत् । शतपथे च — ' स जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन् भवति या ते अग्नेऽयः शया तनूर्वर्षिष्ठा गह्वरेष्ठा.. स्वाहेत्येवंरूपा हि सासीदयस्मयी हि सासीत् ' ( श. ३.४.४.२३ ), ' अथ जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन् भवति या तेऽग्ने रजःशया.... स्वाहेत्येवंरूपा हि सासीद्रजता हि सासीत् ' ( श. ३. ४.४.२४ ), ' अथ जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन् भवति या तेऽग्ने हरिशया. स्वाहेत्येवंरूपा सासीद्धरिणी हि सासीद्यद्यु द्वादशोपसद उपेयाच्चतुरहमेकया प्रचरेच्चतुरहमेकया ' ( ३.४.४.२५ ) । एवमुपसत्त्रयस्य मन्त्रान् निर्दिश्य द्वादशोपसत्पक्षे न्यायसिद्धमर्थं ब्राह्मणं स्वयमेव विस्पष्टं दर्शयति — यद्यु द्वादशेति । अयः शयेत्येतन्मन्त्रसाध्या एकोपसत् । तादृशीं चतुर्ष्वहस्सु आव-र्तयेत् । पुनश्च द्वितीयमन्त्रसाध्ययापि चतुर्दिनमावर्तयते । तृतीययाप्येवम् । एवं द्वादश सम्पाद्याः । अर्थाद् अयःशयादीनां मन्त्राणां मध्ये एकैकस्य मन्त्रस्यैकैकोपसदं गत्वा चतुर्षु दिनेषु प्रथमं या ते अग्ने अयःशया इति मन्त्रमावर्तयेत् । पुनः पञ्चमादिचतुर्षु दिनेषु रजःशयेति मन्त्रमावर्तयेत् । ततो नवमादिषु चतुर्षु दिनेषु हरिशयेति मन्त्रमावर्तयेत् । अध्यात्मपक्षे तु — हे अग्ने! अग्न्युपलक्षितानन्तचैतन्यात्मक परमेश्वर, सर्वव्यापकत्वात् सर्वरूपत्वात् सर्वाधि-ष्ठानत्वाद् या तेऽयःशया अयउपलक्षितेषु तामसेषु पदार्थेषु शेत इत्ययः शया रुद्ररूपा, वर्षिष्ठा उपासकानामतिशये-नाभिमतफलवर्षिणी गह्वरेष्ठा भोगिभिरगम्ये श्मशानारण्यपर्वतादौ तिष्ठतीति गह्वरेष्ठा तनूः स्वरूपम्, उग्रं वचो जहि जहि मारय मारयेत्यादिकं शत्रूणां राक्षसादीनां वा उग्रं वचो हन्ति, तस्मै तुभ्यं स्वाहा सुहुतमस्तु । या च ते रजःशया राजसी चतुर्मुखप्रजापत्यादिरूपा वर्षिष्ठा भौगैश्वर्यवर्षिणी गह्वरेष्ठा नास्तिकैरगम्या विस्तीर्णतया तनू; उग्रं वचो हन्ति त्वेषं च वचो हन्ति, तस्मै तुभ्यं विविधा सपर्या समर्पितास्तु । या च हरिशया सुवर्णाद्युपलक्षितसत्त्वोपाधिका विष्ण्वादिरूपा तनूः वर्षिष्ठा ज्ञानवैराग्यादिवर्षिणी गह्वरेष्ठाऽकृतपुण्यैर्दुष्प्रापा तनूः, उग्रं वचो नास्तिक्यपूर्ण वचः, त्वेषं भोगवासनोत्तेजकं वचो हन्ति, तस्मै तुभ्यं स्वात्मानं समर्पयामि । दयानन्दस्तु – ' हे मनुष्याः, यूयं या ते अग्ने अस्या विद्युतोऽयःशया सुवर्णादिषु शेते सा तनूः व्याप्तं विस्तृतं शरीरं वर्षिष्ठातिशयेन वृद्धा गह्वरेष्ठा गहने गभीर आभ्यन्तरे तिष्ठतीति, उग्रं क्रूरं भयकरं वचः, अवधीद् हन्ति । त्वेषं प्रदीप्तं वचः परिभाषणम् अपवधीत् स्वाहा सुहुतं हविरन्नम् । या ते अग्ने, अस्या विद्युतो गह्वरेष्ठा रजःशया रजःसु सूर्यादिलोकेषु शेते सा तनूरुग्रं वचोऽपवधीत् । त्वेषं प्रकाशितं वचः शब्दनम् । स्वाहा सुहुतं वाचं चापवधीत् । या ते अग्ने अस्या हरिशया हरिषु सूर्यादिष्वश्वादिषु वा शेते उग्रं वचः त्वेषं प्रकाशकं स्वाहा स्वकीयां वाचं चापवधीत्, अध्यात्मपक्ष में अर्थ इस प्रकार है-- हे अग्निदेव! अर्थात् अनन्तचैतन्यात्मक परमेश्वर, सर्वव्यापक, सर्वस्वरूप तथा सर्वाधिष्ठान होने के कारण आपकी जो तामस पदार्थों में विद्यमान रुद्ररूपिणी, अतिशय फल का वर्षण करनेवाली, भोगियों के लिये अगम्य, श्मशान, अरण्य, पर्वत आदि दुर्गम स्थानों पर रहनेवाली मूर्ति है, उग्र तीक्ष्ण वचनों का नाश करनेवाली है, उसके लिये समर्पण हो । आपकी जो राजसी चतुर्मुख ब्रह्मादिरूपा भोगैश्वर्यवर्षिणी, नास्तिकों के लिये अगम्या मूर्ति है, उसके लिये समर्पण हो । आपकी जो सत्त्वोपाधिका विष्णुरूपिणी, ज्ञानवैराग्यवर्षिणी, पुण्यविरहित जनों के लिये अप्राप्य, नास्तिक एवं भोगवासनोत्तेजक वचनों की विनाशक मूर्ति है, उसके लिये स्वयं का समर्पण करता हूँ । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ उचित नहीं है । विद्युत् की अयःशया आदि मूर्तियों ( शरीरों ) के लिये प्रमाण होना चाहिये । वह विद्युत् उम्र, भयंकर वचन को कैसे नष्ट करती है ॥८ ॥

पृष्ठ 148

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 148 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म.८ - ९ ] वेदार्थपारिजात भाष्यसहिता १३ ९ तां सम्यग्विदित्वोपकुरुत | मनुष्यैर्विद्युतो या व्याप्तिर्मूर्तामूर्तद्रव्यस्था वर्तते, तां युक्त्या सम्यग्विदित्वोपसम्प्रयोज्य सर्वाणि दुःखान्यपहन्तव्यानि ' इति, तन्मन्दम्, तथा सम्प्रयोगेऽप्याध्यात्मिकादिसर्वदुःखानिवृत्तेः, तथा विज्ञानप्रयोगयुक्ती-नामनुक्तेश्च, मन्त्रस्य तथार्थत्वानुपपत्तेश्च । विद्युतोऽयःशयादितनूनां सत्त्वे प्रमाणमपि वक्तव्यम् । सा च कथमुग्रं भयङ्कर-वचनं नाशयति? प्रदीप्तपरिभाषणं च कथं हन्ति? सूर्यादिष्वश्वादिषु या शेते तस्या हरिशयेति कथं नाम? कथं च अयःशयायाः सा व्यतिरिच्यत इति सर्वमेतदनुपपन्नं निष्फलं शतपथविरुद्धं च ॥८ ॥

त॒प्ताय॑नी मेऽसि वि॒त्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तादव॑तान्मा व्यथि॒तात् । वि॒देद॒ग्निर्नभो नामाऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ यो॒ऽस्यां पृ॑थि॒व्यामसि॒ यत्तेऽना॑धृष्ट॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्नमो॒ नामाऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॒ यो द्वितीय॑स्या॑ पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्नथो॒ नामाऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॒ यस्तृ॒तीय॑स्या॑ पृथि॒व्यामसि॒ यत्तेऽना॑धृष्ट॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे । अनु॑ त्वा दे॒ववी॑तये ॥ ९ ॥

' शम्यामादाय चात्वालं मिमीते पूर्वेणोत्करं सञ्चरं परिहाप्य, शम्यामुदीचीं निदधाति पुरस्ताच्च, दक्षिणतः प्राचीमुत्तरतश्च, स्फ्येनान्तर्लिखति तप्तायनीति प्रतिमन्त्रम् ' ( का.श्रौ. ५.३.१ ९ -२२ ) । द्वात्रिंशदङ्गुलपरिमाणां सगर्ता वारणी शम्यामुत्करात् पूर्वस्यां दिशि सञ्चरणार्थं द्वात्रिंशङ्गुलं मार्गं मुक्त्वा चात्वालं द्वात्रिंशदङ्गुलं समचतुरस्रं मानादिसंस्कारसंस्कृतं गर्तं मिमीतेऽध्वर्युः । शम्यादानस्याप्राकृतकार्यत्वान्न शम्याया आसादनप्रोक्षणे । उत्तरवेदिनिचयार्थं यत्र भूप्रदेशे मृदं खनति, स प्रदेशश्चात्वाल उच्यते । तत्रोत्करात् पूर्वस्यां दिशि सञ्चरपरिहारेणोदगग्रां शम्यां निधाय तत्प्रमाणां तत्पूर्वपार्श्वे स्फ्येन रेखां कुर्यात् । तथा तत्पूर्वपार्श्वे तथैव शम्यां निधाय रेखां कुर्यात् । अभ्यन्तरे एवं दक्षिणोत्तरयोरपि प्रागग्रां शम्यां निधाय रेखाद्वयं कुर्यात् । अत्र चतुर्दशमन्त्राः । तत्र चत्वारो मन्त्राः पृथिवीदेवत्याः । तदेतदापस्तम्बोऽप्याह — शम्यां पुरस्तादुदगग्रां निधाय स्फ्येनोदीचीमभ्यन्तरमुपविशति वित्तायनी मेऽसीत्येनेन दक्षिणतः प्राचीं तप्तायनी मेऽसीति पश्चा-दुदीचीमवतान्मा नाथितमित्युत्तरतः प्राचीमवतान्मा व्यथितमिति प्रथमं परिलिखति । मन्त्रार्थ - हे भूमि! तुम मेरे ऊपर अनुग्रह करने वाली, निर्धनता से दुःखी पुरुषों को शरण देने वाली हो I । हे भूमि! तुम धन की कामना वालों के लिये धन की खान हो, याचना से मेरी रक्षा करो, मन की पीड़ा से भी रक्षा करो । हे चत्वाल की मृत्तिके! नभ नाम वाला तेरा अधिष्ठाता अग्नि तुम्हें जाने । हे गतिमान् अग्ने! आयु नाम से तुम इस स्थान में आओ । हे अग्ने! तुम इस पृथ्वी में हो, अतः तुम्हारा जो यज्ञ के योग्य अनिन्दनीय नाम है, उससे तुमको यहाँ स्थापित करता हैं । हे मृत्तिके! तुम नभ नामक अग्नि हो । हे गतिमान् अग्ने! तुम यहाँ आयु नाम से आओ । हे अग्ने! क्योंकि तुम दूसरी पृथ्वी, अर्थात् अन्तरिक्ष में हो, इस कारण तुम्हारा जो यज्ञ योग्य अनिन्दनीय नाम है, उससे तुम्हे यहाँ स्थापित करता हूँ । हे अग्ने! तुम तीसरी पृथ्वी लोक में स्थित हो, अतः यज्ञ के योग्य अनिन्दनीय नाम से तुमको यहाँ स्थापित करता हैं । हे मृत्तिके! देवताओं की प्रीति के निमित्त यहां उत्तरवेदि बनेगी । अतः पूर्ववत् तुम्हारा आहरण करता हूँ ॥ चारों दिशाओं में शम्या गाड़ कर स्फ्य से चोकोर रेखाएं करे । उन रेखाओं के आगे स्फ्य से चत्वाल खोदे और देवताओं की प्रार्थना करते हुए इस मन्त्र का उच्चारण करे ॥९ ॥

भाष्यसार - ' तप्तायनी मेऽसि ' इस कण्डिका के मन्त्रों का विनियोग कात्यायन श्रौतसूत्र ( ५.३.१ ९ - २८ ) में चात्वाल गर्त के निर्माण के लिये मृत्तिका के खनन में किया गया है । तदनन्तर खोदने से प्राप्त मृत्तिका को एकत्र किया जाता है । इस याज्ञिक विनियोग के अनुकूल ही शतपथ ब्राह्मण में अर्थ उपदिष्ट है ।

पृष्ठ 149

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 149 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४० शुक्लयजुर्वेदसंहिता [ अ. ५ मन्त्रार्थस्तु – हे पृथिवि, त्वं मे ममानुग्रहार्थं तप्तायन्यसि तप्त इव पुरुषो वृत्त्यर्थमस्यामेति प्राप्नोषीति । तप्तं पुरुषमयति । द्वितीयं प्राप्नोतीति वा तप्तायनी । यो हि दरिद्रः क्षेत्ररहितोऽहमिति सन्तप्यते तं पुरुषं तापोपशान्त्यर्थं मेऽसीति, वित्तार्थं नरो यस्यामेति परिलिखति - वित्तायनी मेऽसीति । धनरहितं तं पुरुषं वित्तार्थं प्राप्नोषीति वित्तायनी याचितात्, यथा याच्ञा वा । पृथिव्यां प्राप्तायां सस्यनिष्पत्तिद्वारा महद् धनं लभ्यते । तृतीयम् — अवतान्मां नाथिताद् करोत्वित्यर्थः । नाथिताद् न कर्तव्या स्यात्तथा मां कुरु । नाथतिर्याच्ञाद्यर्थः । यथाऽहं न कञ्चन याचे तथा पृथिवी मां भयात् चलात् स्थानभ्रंशाच्च याचिताद् हिरण्यादिरूपादर्थाद् मावतात्, ' यत्र नाथैतन्माऽवतात् ' इति शतपथश्रुतेः । व्यथिताद् श्रौ. ५.३.२३ ) । अध्वर्युम-मामवतात् । ‘ व्यथ भयचलनयो: ' । ' विदेदग्निरिति चात्वाले प्रहरति स्फ्येनान्वारब्धे ' ( का., अग्नि-न्वारब्धवति यजमानेऽध्वर्युश्चात्वाले स्फ्येन पुरीषखननार्थं प्रहारं कुर्यात् । आग्नेयं यजुः । हे चात्वालगतमृत्तिके । हे मृत्तिके, न भातीति स्त्वदभिमानी देवो नभो नाम विदेत्, नभ इत्येतादृशं नामधेयोऽग्निस्त्वां जानीयाद् विन्देद्वा । नभ इति । काण्वरीत्या तु विदेर् अग्नेर्नभ इति नाम जानीयाः । मया खन्यमानां त्वां त्वदधिष्ठानाग्निरनुजानात्वित्यर्थः । ' अग्ने अङ्गिर अग्निनामोच्चारणपूर्वकं प्रहरेत्, ' स वा अग्नीनामेव नामानि गृह्णन् हरति ' ( श. ३.५.१.३१ स्पयेन ) इति च गृह्णाति श्रुतेः – हे अग्ने, इति पुरीषं हरति, हस्तेन च ' ( का. श्रौ. ५.३.२४.२५ ) । अध्वर्युः खातां मृदं हस्तेन! अङ्गानां रसत्वाद्वाङ्गिराः, हे अङ्गिर, अङ्गिर्गतिरस्यास्तीत्यङ्गिराः । मत्वर्थे रस्प्रत्ययः । तत्सम्बुद्धौ हे अङ्गिर, हे अग्ने हे अग्ने, ‘ येऽङ्गारा भुक्तान्नपचनहेतुत्वादुदराग्नेः शरीरावयवानां मध्ये सारत्वं प्रसिद्धमेव । यद्वा अङ्गिरोनामकर्षिरूप आगच्छ । तत्तत्कर्मस्वेति आसंस्तेऽङ्गिरसोऽभवन् ' ( ऐ. बा. ३.३.१० ) इति श्रुतेः । त्वमायुना नाम्नाभिहितः सन् एहि । गृहीतं पुरीषं गच्छतीत्यायुः । आयुरित्यग्नेर्नाम । ' योऽस्यामिति निवपति पूर्वार्धे शङ्कुङ्कसहितम् ' ( का. श्रौ. ३.५.२६ पृथिव्यां ) योऽग्निर्वर्तसे, स्थण्डिलस्य पूर्वभागे प्राङ्निहितं शङ्कसंल्लग्नं प्रक्षिपेद् योऽस्यामिति मन्त्रेण । अस्यां दृश्यमानायां केनापि याज्ञिकेनातिरस्कृतं तेन स त्वं हे अग्ने, ते तव यज्ञियं यज्ञयोग्यं यन्नाम प्रसिद्धमग्निरित्येतादृशं नामानाधृष्टं ( का. श्रौ. ५.३.२८ ) । त्वादधे । तेन नाम्ना युक्तं त्वामादधे स्थापयामि । ' एवं द्विरपरं द्वितीयस्यां तृतीयस्यामिति विशेषः तत्रास्यामिति ' पदस्थाने यथा पूर्वैस्त्रिभिर्मन्त्रैः खात्वा हृत्वा मृत्प्रक्षिप्ता वेद्यर्थमेतत्रितयं पुनरपि द्विः कुर्यादिति मन्त्रयोः द्वितीयतृतीयशब्दयोर्विशेष्यत्वेन ; द्वितीयस्यां तृतीयस्यामिति पाठविशेष इति सूत्रार्थः । यद्यपि पृथिवीशब्दस्य प्रकृतत्वाद् सायणः । तथैवोव्वट-स एवानुवर्तते, तथाप्यौचित्याद् द्वितीया पृथिव्यन्तरिक्षं तृतीया पृथिवी द्यौरित्यवगन्तव्यमिति महीधरावपि । शेषं पूर्ववत् । I -‘ अनु त्वेति चतुर्थं यथार्थमाहृत्य सिं ह्यसीति व्यूहत्युत्तरवेदिम् ' ( का. श्रौ. ५.३.२ ९ ) । चतुर्थवारं यावता ( पुरी- मृदं ) षेणोत्तरवेदिनिष्पन्नरूपोऽर्थः सम्पन्नो भवेत्, तावत्पुरीषं पात्रेणानीय शङ्कुसमीपे प्रक्षिप्य सिंह्यसीति मन्त्रेण पूर्वोक्तमाहर- पुरीषं भूसंल्लग्नमेव हस्तेन सर्वतः प्रसार्य समीकरणेन उत्तरवेदिं निष्पादयेत् | मन्त्रार्थस्तु देवा — हे व्यन्ति मृत्तिके हविर्भक्षयन्त्यत्रेति , त्वामनु वीति-णमनुसृत्य । किमर्थम्? देवानां हविर्भुजां वीतये प्रीतये । वीतिस्तर्पणार्थः । यद्वा त्रीन् विक्रमांस्तच्छङ्कं र्यज्ञस्तदर्थम् । शतपथे च - ' तद्य एष पूर्वाद्ध्यो वर्षिष्ठः स्थूणाराजो भवति । तस्मात्प्राङ् प्रक्रामति आहवनीयपुरोदेशे वर्तमानः निहन्ति सोऽन्तःपातः ’ ( श. ३.५.१.१ ) इत्युपक्रम्य सौमिककरणमुक्तम् । प्राचीनवंशस्य पूर्वभागे शङ्कं स्थापयेत् । सोऽन्तःपात पृथुस्तम्भः स्थूणाराजः । तस्मात् स्तम्भात् प्राङ् त्रीन् क्रमान् प्रक्रामति । तृतीयक्रमावसाने स्थापयेत् । सा दक्षिणा श्रोणिः । ऐष्टिकवेदेर्महावेदेश्चान्तरालसञ्चरः, तस्माच्छङ्कोर्दक्षिणतः पञ्चदशविक्रमावसाने शङ्कं मध्यमाच्छ तथैवोदीच्यामुत्तरा श्रोणिः । मध्यमाच्छङ्कोः षट्त्रिंशतं विक्रमान् प्रक्रामति स पूर्वार्धः । तस्मात्पुरोदेशस्थाद् तां वेदिं विविधरूपेण प्रशस्य ङ्कोर्दक्षिणोत्तरयोर्द्वादश द्वादश विक्रमान् प्रक्रामति दक्षिणोत्तरावंशौ । एषा वेदेर्मात्रा ।

पृष्ठ 150

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 150 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म.९ ] वेदार्थपारिजातभाष्यसहिता १४१ मध्येऽन्यं तत्प्रपञ्चमुक्त्वा चात्वालस्य सर्वतः परिलेखनप्रकारं तन्मन्त्रांश्च दर्शयति-- ' स वेद्यन्तादुदीचीं शम्या निदधाति स परिलिखति तप्तायनी मेऽसीतीमामेवैतदाहास्यां हि तप्त एति ' ( श. ३.५.१.२७ ) । दक्षिणश्रोणिरूपवेद्यन्तात् स परिलिखति शम्यानुगुण्येन लेखनं कुर्यात् । अनेनैव पश्चादवधिनिर्देशः कृतो भवति । तस्य मन्त्रः तप्तायनी मेऽसीति । हे भूमे, तप्तः पुमान् यस्यामेति सा त्वं तप्तायनीरूपासि । इमामेवैतदाहेति मन्त्रं व्याचष्टे – हि यस्मात् तप्तः पुरुषो दारिद्रयेण दुःखितः सन् धनादिसाधनेच्छया एति । तस्मात्तप्तायनी असि । ' अथ पुरस्तात् उदीचीं शम्यां निदधाति स परिलिखति वित्तायनी मेऽसीतीमामेवैतदाहास्यां हि विविदान एति ' ( श. ३.५.१.२८ ) । अस्यां हि विविदानो धनादिकं लब्धवान् पुरुषः पुनरस्यामेव खल्वेति गच्छति । अतो वित्तायनीत्यपि भूम्यभिधानं युक्तम् । ' अथानुवेद्यन्तम् । प्राचीं शम्यां निदधाति स परिलिखत्यवतान्मां नाथितादितीमामेवैतदाह यत्र नाथै तन्माऽवतादिति ' ( श. ३.५.१.२ ९ ) । अनुवेद्यन्तं प्राचीं शम्यां निदधातीत्यनेन चात्वालस्य दक्षिणसीमोक्ता । मा मां नाथिताद्याचिताद् हिरण्यादिरूपादर्थात्, हे भूमे, मा मामवताद् यत्र यस्मिन् विषये नाथै याचै धनादिकम्, तत् तस्माद् मामवतात् । ‘ अथोत्तरतः । प्राचीं शम्यां निदधाति स परिलिखत्यवतान्मा व्यथितादितीमामेवैतदाह यत्र व्यथै तन्माऽवतादिति ' ( श. ३.५.१.३० ) । यत्र यस्मिन् धनादिविषये व्यथै लाभोपायमजानानो व्यथितः स्याम्, तत् तस्मात् सकाशादवतात् । ‘ अथ हरति । यत्र हरति तदग्नीदुपसीदति स वा अग्नीनामेव नामानि गृह्णन् हरति यान् वा अमून् देवा अग्रेऽग्नीन् होत्राय प्रावृणत ते प्राधन्वंस्त इमा एव पृथिवीरुपासर्पन्त्रिमामहैव द्वे अस्याः परे तेनैवैतन्नि-दानेन हरति ' ( श. ३.५.१.३१ ) । खाताया मृदश्चात्वालादुत्तरवेदिं प्रति हरणं विधत्ते - अथ हरतीति । यत्र हरति तत् तत्र उत्तरवेदिप्रदेशे, अग्नीद् आग्नीधोऽग्नीनां नामानि –— ' ते वा एते सोमस्यैव गुप्त्यै न्युप्यन्त आहवनीयः पुरस्तान्मार्जालीयो दक्षिणत आग्नीधीय उत्तरतोऽथ ये सदसि ते पश्चात् ' ( श. ३.६.२.२१ ) इति गृह्णन्नेव हरेत् । सत्स्वग्निषु चात्वालप्रदेशे तन्नामग्रहणमुपपद्यते । त एवात्र कुतः? इत्यत्राह - यान् वा अमून् देवा अग्नीन् होत्रायेति । होत्राय होमनिष्पादनाय हविर्वहनाय प्रावृणत प्रावृण्वन् । ते प्राधन्वन् । धन्वतिर्गतिकर्मा । इमामहैव ‘ अहेति विनिग्रहार्थीयः ' ( निरु. १.५ ), इमां पृथिवीं परिविद्वेष्य असुरादयोऽप्युपासर्पन् । एतद् एतेन निदानकारणेन मूलकारणेनैव हरणं कृतवान् भवति । ' स प्रहरति । विदेदग्निर्नभो नामाग्ने अङ्गिर आयुना नाम्नेहीति... योऽस्यां पृथिव्यामसीति हत्वा निदधाति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वादध इति यत्ते ऽनाधृष्टं रक्षोभिर्नाम यज्ञियं तेन त्वादध इत्येवैतदाहानु त्वा देववीतय इति चतुर्थं हरति देवेभ्यस्त्वाजुष्टां हरामीत्येवैतदाह तां वै चतुस्रक्तेश्चात्वालाद्धरति चतस्रो वै दिशः सर्वाभ्य एवैनामेतद्दिग्भ्यो हरति ' ( श. ३.५.१.३२ ) । स मृदो हर्ता अध्वर्युः स्फ्येन प्रहरति खनेत् । हे अग्ने, त्वमङ्गिरा असि । अग्निराहुत्याधारभूतः । नभो नाम विन्देद् नभ इति नाम विन्देत् । त्वं च आयुना अभिधानेन युक्त एहि आगच्छ । स यत् प्राधन्वंस्तदायुर्दधाति । एतन्नाम्ना हरणेन यजमान आयुर्दधाति । तदवदारितं समीर-यत्युत्तरवेदिं प्रति सम्यक् प्रेरयति । तत्र मन्त्र: - योऽस्यामिति । यस्त्वमस्यां चात्वाललक्षणायां पृथिव्यां भूम्यामसि भवसि, स त्वमायुनाम्नैहि । अथवा यो मृन्निचयरूपस्त्वमस्यां खातायां भूम्यां भवसि, तं त्वां समीरयामीत्यर्थः । आनीताया मृदो वेद्याकारेण स्थापनं समन्त्रकं विधत्ते - हृत्वा निदधातीति । हे मृदात्मना एकीभूताग्ने, हे तिरोहि-ताग्निविशिष्टे मृत्तिके वा, यत् तेऽनाधृष्टं रक्षोभिरहिंस्यं यज्ञियं यज्ञार्हं नाम, तेन नाम्ना त्वा त्वामदधे । योऽस्यामिति मन्त्रेण त्रिवारं हरेत् । चतुर्थवारहरणमन्त्रस्यायमर्थः - हे आह्रियमाणपदार्थ, त्वा त्वामनु पूर्वं हरणत्रयमनुकृत्य देवेभ्यो